Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
मञ्जुश्रीमूलकल्प
- Thông tin
- GRETIL — M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अनेनैव विधानेन स्तूपं कृत्वा चन्दनाभ्यक्तानां पद्मानां शतसहस्रं निवेदयेत् / देशाधिपत्यं लभते / सुगतवितस्तिप्रमाणं स्तूपं कृत्वा धूपं च दहता चम्पकपुष्पाणां शतसहस्रं निवेदयेत् / सुवर्णसहस्रं लभति / सुगतवितस्तिप्रमाणं स्तूपं कृत्वा प्रतिकृतिमालिख्य वामपादेनावष्टभ्य अष्टसहस्रं जपेत् / गोत्रेण वशमागच्छति / सुगतवितस्तिप्रमाणं स्तूपं कृत्वा विवाहलाजानां दधिमधुघृताक्तानामग्नावष्टसहस्रं जुहुयात् / भस्मना च मण्डलबन्धः / प्रभाते स्नात्वा अनेनैव मन्त्रेण निर्मथ्य नवनीतं ग्रहाय उदारां पूजां कृत्वा धूपं दहताष्टसहस्राभिमन्त्रितं दन्तैरस्पृश्य ग्रसेत् / यस्य नाम्ना स वशो भवति / मुक्त्वा कामोपसंहितम् / सर्वगन्धानां वीरविक्रयक्रीतानां त्रिरात्रोषितः पटस्योदारां पूजां कृत्वा घृतप्रदीपं प्रज्वाल्य स्वयमेव मन्त्रं जपेत् / तेन पुत्तलिकां कृत्वा सप्तानामुपर्यश्वत्थपत्राणामुपरिओ स्थाप्य तावज्जपेद् यावत् प्रसन्धिता इति / तं चूर्णं कृत्वा यं स्पृश्यति स वशो भवति / अनेनैव विधिना नागकेसरचूर्णस्य प्रतिकृतिं कृत्वा धूपशरावेषु अष्टशतं जुहुयात् / यमनुचिन्त्य स वशः / अनेनैव विधिना अपामार्गसमिधानां जुहुयात् / अर्त्थकामः / गोष्ठं गत्वा पटस्याग्रतः अपतितगोमयेन हस्तोच्छ्रितं स्तूपं कृत्वा विधिवत् पूजयित्वा गुग्गुलुं दहतां शतसहस्रं जप्तव्यम् / सर्वविद्याधरापरिभूतः सप्तवायुपथविचारी /
असंवत्सरजातस्य प्रदेशिनीमङ्गुलीं गृह्य हस्तप्रमाणं चैत्यं कृत्वा श्मशाने विधिवत् पूजां कृत्वा प्राङ्मुखोपविष्टः कुशसंस्तरे तामङ्गुलिं निवेद्य प्रदेशिन्याङ्गुल्यावष्टभ्य तावज्जपेद् यावद् रश्मिर्निश्चरति / दीपशिखा वर्धते / कृतरक्षास्ता राज्यं गृह्य प्रभाते तयाङ्गुल्या यमाकर्षयति स वशः / त्रिरात्रोषितः समानवत्साया गोः पयस्विन्याः क्षीरं गृह्य पटस्याग्रतः मण्डलकं कृत्वा घृतप्रदीपं प्रज्वाल्य कुशसंस्तरस्थमष्टसहस्राभिमन्त्रितं कृत्वा मृद्भाजने क्षीरं कुर्यात् / दधिमधुघृतैर्विनायकहोमः / ततो मण्डलकं कृत्वा चतुर्षु दिशापालान् (वैद्य 548) स्थाप्य द्वितीयमण्डले प्रबोधको सर्षपहस्तः तृतीयमण्डले सुसहायो वा महतीं पूजां कृत्वा कृतरक्षः प्राङ्मुखोपविष्टः हस्तेनावष्टभ्यः तावज्जपेद् यावदूष्मायति धूमायति प्रज्वलति / प्रथमेनाञ्जिताक्षः यं पश्यति ये च पश्यन्ति सर्वे ते वशा भवन्ति / द्वितीयेन सिद्धेन नवनागसहस्रबलो ऽनिलजवः पञ्चवर्षसहस्राणि जीवति / अपरिभूतः सर्वविद्याधरो भवति / अन्तर्धानिकानां अष्टसहस्राभिमन्त्रिता ज्वलित उदितादित्यवणः रत्नालङ्कृतशरीरः कल्पान्तरस्थायी अष्टसहस्राभिमन्त्रितं कृत्वा शत्रुमध्ये प्रविशेद् भयं न भवति अवध्यः सर्वशत्रूम् / आवेशनं श्वेतपुष्पेण नृत्यापनमुदकेन त्रिजप्तेन करवीरपुष्पेण त्रिजप्तेनाहरेत् / अतीतानागते कथयति / बन्धनं छोटिकया च्छेदन / अञ्जनं साधयितुकामः वीरक्रयक्रीतं सौवीराञ्जनं गृह्य प्राणकान्यपनीय पञ्चगव्येनोत्तरमुखया पीषयेत् / अनामिकयाङ्गुल्या चतस्रो गुलिका कृत्वा पद्मपत्रेणाच्छाद्य शोषयेत् /
पटस्याग्रतः विधिवदग्निं प्रज्वाल्य सहस्रसम्पाताहुतिं कृत्वा सधातुके चैत्ये उदारां पूजां कृत्वा अष्टभिर्दिग्भिः पलाशकाष्ठैरग्निं प्रज्वाल्य शिक्ककटिप्रदेशे स्थापयेत् / शुक्रबन्धः कृतो भवति / चीवरकर्णकेनसप्तजप्तेन ग्रन्थिं कृत्वा विषबन्धः / विषचिकित्सा / पल्लवेन मुद्राभेदत उदकेनावेशनम् / गुग्गुलुधूपेन उदकेन वा ग्रहबन्धः / अङ्गुलिं परिजप्य यं तर्जयति स वशो भवति / पटस्याग्रतः अष्टशतं जपेत् / स्वप्ने यथाभूतं दर्शयति / सधातुके चैत्ये पटं प्रतिष्ठाप्य तस्याग्रत उदारां पूजां कृत्वा श्वेतपद्मानां दधिमधुघृताक्तानां बिल्वकाष्ठैरग्निं प्रज्वाल्य लक्षं जुहुयात् / राज्यं लभति / असिद्धे सहस्रपिण्डं ग्रामं लभति / गोरोचना मनःशिलां वा पटस्याग्रतः सहस्रं जपेत् / तेन तिलकं कृत्वा यं मृगयति तं लभति / कृष्णचतुर्दश्यामेकरात्रोषित रात्रौ पटकमूलकांसकाराग्नौ अष्टसहस्रं जुहुयात् / रूपकसहस्रं लभते / शुक्लाष्टम्या अहोरात्रोषितः समुद्रगामिनीं नदीमवतीर्य पद्मानां दशसहस्राणि निवेदयेत् / राज्यं लभति / पुरुषवशीकरणे कृष्णाष्टम्यां एकरात्रोपितः बोधिवृक्षकाष्ठैरग्निं प्रज्वाल्य कुमुदानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् / वशो भवति / स्त्रीवशीकरणे कृष्णद्वादश्यां सौगन्धिकपुष्पैः आर्यमञ्जुश्रियं हनेत् / ओषधीबन्धमनसा द्विपदचतुःपदानामुत्सारणी / दिनेदिने पञ्च दीनाराणां प्रयच्छति / निरवशेषा व्ययीकर्त्तव्या / अर्घं रत्नत्रयोपयोगाय / पटस्याग्रतः मासमेकं जपेत् / द्वादश दीनारसहस्राणि लभते / शुक्लाष्टम्यारभ्य सधातुके चैत्ये षण्मासां जपेत् / राज्यं ददाति /
कृष्णाष्टम्यां अहोरात्रोषितः पटस्याग्रतः श्लेष्मातकं कलिकं गृह्य रक्तसूत्रकेन वेष्टयेत् / ततः पलाशकाष्ठैरग्निं प्रज्वाल्य कीलकं अष्टसहस्राभिमन्त्रितं कृत्वा एकैकं खण्डमेकविंशतिवारां परिजप्याग्नौ प्रक्षिप्य प्रभाते दीनारशतानि लभति / शुक्लाष्टम्यामेकरात्रोषितेनातिमुक्तकपुष्पाणां अष्टसहस्रं निवेदयेत् सप्ताहम् / दीनारशतं लभति / सप्ताभिमन्त्रितेनाक्षीण्यञ्जयेत् / सर्वज (न) प्रियो भवति / सामान्यमञ्जनमभिमन्त्र्य यं प्रथमं पश्यति स वशो भवति / पटस्याग्रतः यमुद्दिश्य दशसहस्राणि जपति / विवरद्वारे लक्षं जपेत् / यथानियतं पर्वतशिखरे वा गोष्ठे प्रतीत्यसमुत्पादगर्भचैत्यं प्रतिष्ठाप्य लक्षं जपेद् दीनारलक्षं लभति / नागस्थाने पटं प्रतिष्ठाप्य सुकृतरक्षाविधानः जम्बुकाष्ठैरग्निं प्रज्वाल्य त्रिमधुरां (वैद्य 549) बलिं दत्वा नागपुष्पाणामष्टसहस्रं जुहुयात् / ततः ब्राह्मणरूपी नागराजागच्छति / स च ब्रवीति / वक्तव्यं च दिने दिने सप्त दीनारां प्रयच्छ / तथास्त्विति कृत्वादृश्यो भवति / शेनापतिवशीकरणे बृहन्मण्डलक प्रलिप्य तस्य पदपांसुमानीय वामहस्तेनाहुतिसहस्रं जुहुयात् / वश्यो भवति / सामान्यस्त्रीवशीकरणे लवणेन प्रतिकृतिं कृत्वा छित्वा छित्वा वामहस्तेन जुहुयात् / वश्यो भवति / दासीवशीकरणे पुन्नागकेसरयवगोधूमानेकीकृत्य अष्टसहस्रं जुहुयात् / वश्यो भवति / शालिपिष्टमयीं प्रतिकृतिं कृत्वा छित्वा छित्वा जुहुयात् / वशो भवति / रण्डावशीकरणे माषजम्बूलिकां जुहुयात् / वशो भवति /
श्रोताञ्जनं एकचैत्ये अश्वत्थपत्रान्तरितां कृत्वा अष्टसहस्राभिमन्त्रितं यदि पुनरपि साधयति द्विगुणायुर्भवति / धान्यागारं प्रविश्य शुचौ प्रदेशे पटं प्रतिष्ठाप्य मौनी क्षीरयावकाहारः पक्षमेकं जपेत् / ततः पटस्योदारां पूजां कृत्वा उदारतरीं च बलिं निवेद्य पर्यङ्कं बध्वा तावज्जपेत् यावद् रश्मिर्निश्चरन्ति / तां दृष्ट्वा पञ्चानन्तर्याण्यपि क्षयमुपैति / ततः सिद्धो भवति / महाराज्यं लभति / अप्रत्यर्थिको भवति / रोचनामष्टसहस्राभिमन्त्रितं कृत्वा धूपेन धूपयित्वा दन्तान्तरे स्थापयेत् / उत्तरवादी भवति / सर्वे चास्य वश्या भवन्ति / शुक्लाष्टम्यां त्रिरात्रोषितः पटस्याग्रतः अकाकोलीनाष्टसहस्रं जपेत् / दीनारमेकं लभति / पटस्याग्रतः त्रिरात्रोषितः शुक्लचतुर्दश्यां गुग्गुलुधूपं दहता बलाग्निं प्रज्वाल्य दधिमधुघृताक्तानां करवीरपुष्पाणां अष्टसहस्रं जुहुयात् / ततो ऽग्निकुण्डं यत् पद्मप्रमाणं करवीरसदृशो मनःशिलां दृश्यति / मन्त्रं जपता ग्रहेतव्यम् / तया गृहीतया उदितादित्यवर्णो द्विरष्टवर्षाकृतिः विद्याधरो भवति / वायुसमभावेन ईप्सिततमानि चाहाराणि उत्पद्यन्ते / अशीतिवर्षसहस्राणि जीवति / सर्वसत्त्वानामगम्यश्च मृत्युं जनयति //
पटस्याग्रतः साधयेत् मुखे प्रक्षिप्यान्तर्हितो भवति / प्रथमं बन्धनमोक्षः कर्तव्यः / मधुसिक्थमयीं प्रतिकृतिं कृत्वा स्त्रिया वा पुरुषो वा विविक्ते प्रदेशे अग्निं प्रज्वाल्य अभिमन्त्र्य दापयेत् / अष्टशतं मदनकण्टकेन विध्वा दापयेत् / वश्या भवन्ति / यं प्रार्थयति तं लभते / शुक्लपौर्णमास्यां अहोरात्रोषितः सुरभिपुष्पाणां अष्टशतं निवेदयेत् / पञ्चकार्षापणानि लभति / कृष्णचतुर्दश्यां अहोरात्रोषितः पटस्याग्रतः प्रियङ्गुकाष्ठैरग्निं प्रज्वाल्य वैकङ्कतसमिधानामष्टसहस्रं जुहुयात् / शताभिमन्त्रितेन सर्वशूलं प्रशमयति / दुःखप्रसवायाः स्त्रिया उदकं अष्टसताभिमन्त्रितं कृत्वा देयम् / सुखेन प्रसवयति / शुक्लप्रतिपदमारभ्य दिने दिने सहस्रवृद्ध्या जपेत् / यावत् पञ्चदशीति / अवसाने त्रिरात्रोषितः गुडिकायोगेन गुलिकां कृत्वा साधयित्वा मुखे प्रक्षिप्य अन्तर्हितो भवति / नीलाशोककुसुमं कृष्णसारपित्तं चक्रवाकहृदयं श्रोत्रियारसहितं समभागानि पुष्पलोहेन वेष्टयेत् / पुनः त्रिलोहवेष्टितं कृत्वा साधयितुकामः सधातुप्रतिमाया अग्रतः तत्रैव पटं प्रतिष्ठाप्य शुक्लाष्टम्यां पूजां कृत्वा सप्ताश्वत्थपत्रेषु स्थाप्य मण्डलकं कृत्वा तस्य मध्ये अक्षताङ्गं पुरुषं स्थाप्य वामपादेन उरसि माक्रम्य कृतरक्षः मन्त्रमावर्तयेत् / यावदुत्तिष्ठति पूर्ववत् / ततः मधपायसं भोजयेत् / सप्ताभिमन्त्रितं मुष्टिं बध्वा शिरसि ताडयितव्यः / ततः छर्दयति / तं पीत्वान्तर्हितो भवति / त्रिरात्रोषितः सोमग्रहे नाभिमात्रमुदकमवतीर्य तावज्जपेद् यावन्मुक्त इति / दीनारशतं (वैद्य 550) लभति / आवर्तयेच्छोभनं लभति /
लवणमिश्रेणोदकेनाष्टशतं स्नात्वोद्वर्त्तितं कृत्वा गन्धमाल्यैश्च पूजयित्वा पूर्वसाधितं पायसं भोजयितव्यम् / सप्तजप्तेन मुष्टिं कृत्वा शिरसि हन्तव्यः / ततः छर्दयति / तं भुक्त्वा महाकल्पस्थायी विद्याधरो भवति / शस्त्रमष्टशतजप्तं कृत्वा छिन्दितः कैलपयित्वा हनेत् / सहस्रवेधं सुवर्ण भवति / कायशोधनं कृत्वा चैत्यं स्वहस्तेन कुर्यात् / पञ्चानन्तर्यकारिणो ऽपि सिध्यति / चैत्यलक्षेण विद्याधरचक्रवर्ती भवति / सर्वशास्त्राभिज्ञः सर्वविज्ञानोपेतः कल्पस्थायी च्युतश्च पञ्चजातिशतान्यपायगामी न भवति / उदितोदितमध्यदेशः सर्वेन्द्रियसमन्वागतः श्रुतिधरो जाति स्मरः / अयाचितो लब्धमनःशिलां गृह्य सप्तभिरश्वत्थपत्रेषु स्थाप्य साधयेत् / सन्ध्यायां ये शृणोति जिघ्रति सर्वे वशा भवन्ति / तिरः शैलं तिरः कुड्यं तिरः समुद्रं भित्वाभ्युद्गच्छति / श्मशाने षोडशहस्तं अष्टहस्तं वा मण्डलकमुपलिप्य मृतकमुत्तराशिरं स्थाप्य मुखे वामङ्गुलिकां प्रक्षिप्य दक्षिणेन पादेनोरसि माक्रम्य तावज्जपेद् यावन्मृतकश्चलितः / तं चाङ्गुलिं हस्तेन गृहीत्वा ददाति / तमनामिकायामङ्गुल्यां प्रक्षिप्य यमाकारयति स आगच्छति / प्रतिनिवर्त्तस्वेति प्रतिनिवर्त्तयति / मृतकमक्षताङ्गमनीय मृतकस्योपरि पादं दत्वा तावज्जपेद् यावदुत्तिष्ठति /
कृत्वा तत्र मन्त्रं कुङ्कुमेनालिख्य कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा पोषधिकः नियमस्थः न केनचित् सार्धमेकाकी पर्वतशिखरमारुह्य वर्जयित्वा दिशापालां अष्टहस्तं वा मण्डलकमुपलिप्य वालुकामयं चैत्यं कृत्वा यथाशक्तितः पूजां कृत्वा प्राङ्मुखो दक्षिणकहस्तेन खड्गं गृहीत्वा ऊर्ध्वबाहुः चैत्यस्याग्रतो मन्त्रमावर्तयेत् / यावदक्षराण्यन्तर्हितानि / तत् पत्रं खड्गभूतं प्रज्वलितं गृहीत्वा यथेष्टगामी विद्याधरो भवति / सर्वविद्याधराणां अवध्यः सर्वसत्त्वानां अधृष्यः कामरूपी कल्पस्थायी योजनसहस्रान् पश्यति / वेतसपत्रैः कटुकतैलाक्तैः मामुपशमः शालितन्दुलेन पर्वतसम्पत्तिः लक्षजप्तैः सर्षपैः आसुराणि मन्त्राणि घातयति / अशनिवज्रोपलादीनि अष्टशतजप्तेन शरेण यत्रेच्छति तत्र पातयति / सप्तजप्तेन भस्मना यस्यां क्षिपति दिशा तत्र काण्डवारणकृतं भवति / अष्टशतजप्तेन सर्वशल्याहरणम् / कृतपुरश्चरणस्य पटस्याग्रतः पञ्चविंशतिलक्षं जपेत् / ततः नखच्छेद्यं तालपत्रं खड्गं सर्वसस्यसंरक्षणं द्विपदचतुष्पदकीटमूषिकादीनां लेह्यं अष्टसहस्राभिमन्त्रितं कृत्वा उदकं क्षिपेत् / सर्वनागानां अवध्यो भवति / लक्षजापेन यमिच्छति; तं बन्धनान्मोचयति / आदित्यग्रहे समानवत्सायाः गोर्घृतं ताम्रभाजने स्थाप्य तावज्जपेद् यावन्मुक्तः / तं पीत्वा सर्वव्याधिभ्यो मुच्यते / पूर्वोक्तेन विधिना सधातुके चैत्ये पोषधिकः श्रीपिष्टसर्जरससंमिश्राणां शतसहस्रं जुहुयात् / दीनारसहस्रं लभति / श्वेतसर्षपाणां घृताक्तानां अष्टसहस्रं जुहुयात् / ततः सा निधिदर्शनं ददाति / ग्रहेतव्यम् /
सधातुके चैत्ये समुद्रगामिन्यां नद्यां वालुकया वा प्रतीत्य समुत्पादगर्भं सुगतवितस्तिप्रमाणं चैत्यं कृत्वा पोषधिकः शुचिः यथाशक्तितः पूजां कृत्वा भिक्षाहारः हविष्याहारो वा शतसहस्रं जपेत् / सर्वकर्मसमर्थो भवति / महाश्मशानप्रचेनेन मण्डलादिदिशि विदिशाबन्धः सर्वविषचिकित्सा उमार्जनग्रहज्वरनाशनः / महानदीप्रतरणे जपेत् / सुखेन तरति / जपेनैव तरिकशौल्किकगौल्मिकादीनां पूज्यो भवति / विवादे चोत्तरवादी (वैद्य 551) भवति / निद्राशुक्रबन्धमूत्रकेन सहस्रजप्तेन खदिरकीलकैः अष्टसहस्रजप्तैः न मन्त्रवशीकरणे यवानां दधिमधुघृताक्तानां नवनीतमयीं अङ्गुष्ठपर्वमात्रां पुत्तलिकां कृत्वा अश्वत्थपत्रे स्थाप्य हस्तेनावष्टभ्य तावज्जपेत् / यावत् स्फुरति / तां दन्तैरस्पृश्य ग्रहेत् / तत्क्षणादेव अभिरूपा आगच्छति / सर्वकामप्रदा भवति / बिल्वकाष्ठैरग्निं प्रज्वाल्य बिल्वसमिधानां दशसहस्राणि जुहुयात् / भोगान् लभति / सर्वसाधनेषु रक्षचोरव्याघ्रनक्रमकरकुम्भीरेषु मण्डलबन्धः सीमाबन्धः तुण्डबन्धः / निधानग्रहणम् / यत्र स्थाने विधानः तत्र गत्वा उपवसितः मण्डलकमुपलिप्य बिल्वकाष्ठैरग्निं प्रज्वाल्य राजसर्षपां जुहुयात् / निधानमवाप्नोति / राजमहिषी सपरिवारां वशीकर्तुकामः कुशमयीं प्रतिकृतिं कृत्वा वामहस्तेनावष्टभ्य सहस्रं जपेत् / सपरिवारा वशा भवति / ब्राह्मणवशीकरणे तिलानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् सपरिवारः / क्षत्रियवशीकरणे यवां दधिमधुघृतानामष्टसहस्रं जुहुयात् / वशो भवति सपरिवारः / वैश्यवशीकरणे कृष्णसर्षपाणां अष्टसहस्रं जुहुयात् /
वशो भवति सपरिवारः / शूद्रवशीकरणे कृष्णव्रीहितुषाणामष्टसहस्रं जुहुयात् / वशो भवति / दिवसत्रयं एकाकिना होमः / तस्यैव कपिलाया घृतं मालतीकुसुमं एकीकृत्य सप्ताहुतिं जुहुयात् / श्वेतसर्षपां सप्ताभिमन्त्रितं यस्य शिरसि ददाति स वशो भवति / राजा वशीकरणे प्रतिकृतिं कृत्वा वामहस्तेनावक्रम्याष्टसहस्रं जपेत् / सपरिवारो वशी भवति / सुगालितं पानीयमभिमन्त्र्य सप्ताहं धारयेत् / ततो गोपालके कृतरक्षेण गो दोहयेत् / ततस्तं क्षीरं च विविक्ते प्रदेशे कलशे जपेत् / ततो विरोलयित्वा ब्राह्मणकन्यया पद्मबीजं तगरं पद्मकेसरं चन्दनं मधुना सह पीषयेत् / गुटिकां कृत्वा ताम्बूलेन सार्धं अभिमन्त्र्य यस्य ददाति स वशो भवति / पुष्पमालां परिजप्य यस्य शिरसा ददाति स वशो भवति / रक्तचन्दनं चम्पककुसुमं पद्मकेसरं रक्तशालितुषागिरिकर्णिकाकोरण्डकबीजं व्रीहिमाषां कुष्ठतगरं तुरुष्कतैलं चैकतः कृत्वा समभागानि कारयेत् / जातिकाष्ठैरग्निं प्रज्वाल्य जातीपुष्पाणां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् / पञ्च दीनारशतानि लभते / आम्रकाष्ठैरग्निं प्रज्वाल्य नदीतटे दधिमधुघृताक्तानां अर्कसमिधानां अष्टसहस्रं जुहुयात् / पञ्चमे दिवसे पञ्च दीनारां लभते / अशोकसमिधानां शुक्लचतुर्दश्यां आरभ्य यावत् पञ्चदशीति दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् / दीनारशतं लभति / करवीरकाष्ठैरग्निं प्रज्वाल्य करवीरलतिकानामष्टसहस्रं जुहुयात् / शुक्लाष्टम्यां आरभ्य यावच्छुक्लचतुर्दशीति दीनाराणां सहस्रं लभते दिने दिने अष्टसहस्रं जुहुयात् / यावच्चतुर्दशीति /
अनेककर्मणा कुपितं राजकुलं कुपितं मित्रवत् प्रसादयति / कृतपुरश्चरणः विद्युहतवृक्षस्य षडङ्गुलप्रमाणं काष्ठं गृह्य तावज्जपेत् त्रिरात्रोषितः सधातुके चैत्ये पटं प्रतिष्ठाप्य तं कीलकं तृलोहबन्धनं कृत्वा सर्वौषधिपरिपूर्णं चत्वारो कलशां पद्मसंस्तरे संस्थापयेत् / तत् कीलकं वामपादेनाक्रम्य वामहस्तेन गृह्य च तावज्जपेद् यावन्नश्यति / हस्तेति न च हस्तं मुञ्चति / ततो दद्यान्महाबलिम् / प्रभाते दाडिमं भक्षयेत् / तत् कीलं सिद्धं भवति / अरण्यं निखनेद् गृहं भवति कामदम् / सर्वोपकरणानि चोपतिष्ठन्ति / उद्धृतेन सर्वे नं पीत्वा स्नात्वा च पुनरपि स एषोपचारः / यावत् सकला रात्रिः / (वैद्य 552) प्रभाते सङ्घोद्दिष्टका भिक्षवो भोजयितव्या / भोजयित्वा च घृतसद्यानि दाडिमानि भक्षयितव्यानि / प्रागच्छति / चतुर्दशविद्यास्थानानि मुखं प्रविशन्ति / श्रुतिधरः / समुद्रगामिनीं नदीमवतीर्य दक्षिणहस्तेन मुष्टिं कृत्वा त्रयोदशदिवसां जपेत् / सर्वविषदष्टकानि चोत्थापयति / मुष्टिना सर्वग्रहां नाशयति / इच्छया मुच्यमानः / अशोकवृक्षस्याधस्तात् त्रिरात्रोषितः मरीचानां अष्टसहस्रं जुहुयात् / मरिचमेकं मुखे प्रक्षिप्य यमनिमिषं व्यवलोकयति स वशो भवति / अनुस्मरणमात्रेण सर्वोपद्रवान् नाशयति / या स्त्री न रोचते तस्या नामं गृहीत्वा घृतं परिजप्य दापयेत् / सुभगो भवति / वज्रसाधनम् / पुष्पलोहमयं वज्रं कृत्वा षोडशाङ्गुलिकं त्रिसूचिकं समुद्रगामिनीं नदीमवतीर्य सुगन्धपुष्पणां लक्षं निवेदयेत् / पश्चिमपुष्पं प्रतिस्रोतं भित्वा आगच्छति / दन्तैरस्पृश्य ग्रसेत् / दिने दिने पञ्चग्रन्थशतानि गृह्णाति /
कृतपुरश्चरणः पटस्याग्रतः लक्षं जपेत् / ततो यत्र निधानं तिष्ठति तत्र गत्वा कालमूलकं कलशं सर्वगन्धैर्लिप्य च श्वेतचन्दनोदकेन पूरयेत् / अष्टसहस्राभिमन्त्रितं कृत्वा निधानस्थाने स्थापयेत् / सर्वभूमिः स्फुटति / निधानं पुरुषमात्रे तिष्ठति / ग्रहेतव्यम् / पलाशसमिधानां लक्षं जुहुयात् / गोसहस्रं लभति / शेफालिकाकुसुमानां लक्षं जुहुयात् / विषयं लभति / अर्कसमिधानां लक्षं जुहुयात् / दीनारसहस्रं लभते / नवनीताहुतीनां जुहुयात् / पञ्च ग्रामां लभते / पिण्डारकपुष्पाणां लक्षं जुहुयात् / फट्टकानां चतस्रं कोटिं परिलभते / क्षीराहुतीनां लक्षं जुहुयात् / वितर्कवस्त्राणां शतं लभते / कुमुदानां लक्षं जुहुयात् / पत्नी सहिरण्यं लभते / पिण्डारकपुष्पाणां लक्षं जुहुयात् / पर्वतशिखरमारुह्य लक्षं जपेत् / यस्मिन् देशे जपति तस्मिं देशे यो राजा स पुत्रत्वेनोपतिष्ठति / श्रीकारपद्मं जुहुयात् / पद्मश्रिय आगच्छति / जयकामो नित्यं दधिं जुहुयात् / नित्यं जयो भवति / पुष्टिकामो घृतं जुहुयात् / अर्थावाप्तिर्भवति / शुचिना नित्यकालं पञ्चरात्रेण राजानं सप्तरात्रेण पिशाचां नवरात्रेण यक्षराक्षसां द्वारशरात्रेण नागराजानं अर्धमासेन गन्धर्वां अप्सरसां एकविंशतिदिवसेन देवदानवासुरगरुडकिन्नरदिव्यां चतुर्विंशतिरात्रेण सर्वगणां मासेन राजपत्नीवशीकरणासुरसमञ्जरीदधिमधुघृतानां अष्टसहस्रं जुहुयात् / वशा भवति / रक्तकरवीरकलिकानां लक्षं जुहुयात् / राजकन्यां लभते / बिल्वानां बिल्वाक्तानां लक्षं जुहुयात् / गृहे श्री उत्पद्यते / शतपुष्पाणां दध्नाक्तानां लक्षं जुहुयात् / दीनारशतं लभते /
सौवर्चलिकाष्टसहस्राभिमन्त्रितां कृत्वाञ्जिताक्षः सर्वसत्त्वां वशीकरोति / गन्धां जप्य मालभेत् /
सर्वसत्त्ववशीकरणम् / रूपं जप्यात्मान धूपयेत् सर्वसत्त्ववशीकरणम् / शिखां जप्य बन्धयेत् / सर्वत्र रक्षा / सर्वसत्त्वस्तम्भनम् / रण्डां वशीकर्त्तुकामः / माषां जुहुयात् / सर्वे वशिभवन्ति / यक्षिणीं वशीकर्त्तुकामः पद्मानामष्टसहस्रं जुहुयात् / त्रिरात्रेणागच्छति / अथ नागच्छति सप्तरात्रेणागच्छति / सा च वरदा भवति / यथेप्सितं मृगयेत् / कन्याकामः लक्षं जुहुयात् / ईप्सितां कन्यां लभते / अथ वेतालं साधयितुकामः अक्षताङ्गं मृतकं गृह्य श्मशाने एकवृक्षे वा चतुःपथे वा एकलिङ्गे वा सर्वभूतिकां बलिमुपहृत्य महादेवस्य दक्षिणमूर्तौ मण्डलकमुपलिप्य बलिं दत्वा स्नानाभ्यलङ्कृतं कृत्वा भस्मना मण्डलकं लिख्य तस्य मध्ये (वैद्य 553) पूर्वशिरं स्थाप्य शुक्लपटप्रच्छादितसाधकः शुक्लवासससखायः दिशापालां स्थापयेत् / कृतक्षस्योपरि उपविश्य तस्य मुखे तिलसर्षपां जुहुयात् / तावद् यावत् तस्य मुखा मणिर्निर्गच्छति / तां गृह्यात्मनो मुखे प्रक्षिप्य सर्वभूतिकबलिमुपाहृत्य दक्षिणमूर्तौ स्थितः हरितालमनःशिलाञ्जनमञ्जिष्ठारोचनामेकत्रयं गृह्य अश्वत्थपत्रान्तरितां कृत्वा तावज्जपेद् यावत् त्रिविधा सिद्धिरिति ऊष्मायति धूमायति ज्वलति / ऊष्मायमाने पादप्रचारिकां पञ्चवर्षसहस्रायुर्भवति / सर्वसत्त्ववशीकरणम् / धूमायमाने ऽन्तर्धानं दशवर्षसहस्रायुर्भवति / ज्वलितेन सर्वविद्याधरो भवति / सर्वविद्याधराणां प्रभुः कल्पस्थायी उपमुपरि लक्षं जपमानः पञ्चाभिज्ञो भवति / बन्ध ऊर्ध्वमधश्च दिशापालानां च / राजकुले परमवल्लभो भवति / गृहीतवाक्यश्च भवति /
कन्याकामः जातीकुसुमानां अष्टसहस्रं जुहुयात् / कन्यां लभते / तरेव विकसितैः स्त्रीलाभः / सर्वग्रहमुद्रया वाचया सन्देशेन रोचनया अग्निं स्तम्भयति / नावां स्तम्भयति / आकर्षयति च दष्टमदष्टं वावेशयति / मृतकमुत्थापयति / वाचया ज्वरं प्रेषयति / क्षीरयावकाहारः लक्षं जपेत् त्रिरात्रोषितेन शुचिवाससा साधकगर्भलिङ्गे स्थाप्य महतीं पूजां कृत्वा अपरिमितं जपेत् / सर्वबालवृद्धाश्च वश्या भवन्ति / भस्मना सप्ताभिमन्त्रितेन कटकं च कुर्यात् / सर्वसत्त्वामभेद्य पानीयमष्टशतजप्तं गोषु दापयेत् / व्याधिमुपशमयति / अहोरात्रोषितः खड्गं खदिरं कृत्वा कृष्णचतुर्दश्यां श्मशाने तावज्जपेद् यावत् प्रज्वलितम् तेन गृहीतेन अप्रतिहतगतिः खड्गविद्याधरो भवति / अकुञ्चितकुण्डलकेशः कल्पस्थायी सर्वविद्याधराणां बहुमतः / अथवा चन्द्रसूर्योपरागे कृतपुरश्चरणः प्रभाते उत्थाय पटस्य पूजा कृत्वा भिक्षवो भोजयितव्या / सदक्षिणं सिद्धिं मृगयेत् / ततो वाधिकेषु कर्मसु सिद्धो भवति / दूर्वाप्रवालानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् / बन्धनान्मोचयति परमात्मानं च खड्गमष्टसहस्राभिमन्त्रितं कृत्वा विवरदेवकुलनगरद्वारेण वा स्थापयेत् / कपाटं भञ्जयित्वा द्वारमुत्पाटयति / सकृज्जप्तेनात्मरक्षा / क्षीराहुतिभिः स्त्रियो वशा भवन्ति / मनसा द्विमन्त्रां स्थापयति / सर्वमुद्रां स्तम्भयति / सर्वमन्त्रां चूर्णयति / असुरकन्यां वशीकरोति / सर्वगन्धाभिहुताभिशतेन कुलस्त्रियो वश्या भवन्ति / देवनिर्माल्यहोमेन देवतटिकप्रव्रजिता च वश्या भवन्ति / हृदये हस्तं दत्वा जपेत् /
सर्वपापप्रनाशनं सर्वसत्त्वाकर्षणं च / शिरसि हस्तं दत्वा जपेत् / अष्टशतम् / सर्वसत्त्वस्तम्भनं पापप्रणाशनं च / बिल्वं परिजप्य सर्वसत्त्वाकर्षणः / शिखासाधने शुक्लप्रतिपदमारभ्य तावज्जपेद् यावत् सन्ध्या / ततः शिखां अष्टसहस्राभिमन्त्रितां कृत्वा भिक्षामटेत् / ब्राह्मणगृहेषु / तदा भिक्षादायिका न पश्यति तदा सिद्धो भवति / प्रथमदिवसे एकभिक्षा / यावदेवं सप्ताहम् / एकविंशतिमे दिवसे ऽपुण्यवतस्यापि सिध्यति / चन्द्रग्रहे क्षीरं परिजप्य पिबेन्महारसायनं भवति / उदकचुलुकमेकविंशतिवारां परिजप्य यस्य गृहस्याभिमुखं क्षिपति दिवसानि सप्त स वशो भवति / उदकचुलुकं सप्ताभिमन्त्रितं कृत्वा यस्य नाम्ना पिबति स वशो भवति / दृष्ट्या परिजप्तया एकविंशतिवारां यं पश्यति स वशो भवति / गुग्गुलुहोमेन लक्षेण राज्यं लभति / उत्पलकुमुदपुण्डरीकादिभिः निवेद्यमानैर्हूयमानैर्वा (वैद्य 554) यमिच्छति तं वशमानयति / भग्नेनाग्निप्राकारः उदके शर्कराभिर्वा शिखाबन्धः / स्वाभाविकमञ्जनं गृहीत्वा एकविंशतिजप्तेनाञ्चयेत् / सर्वजनप्रियो भवति / अञ्जनं तगरं कुष्ठं वचा पद्मकेशरं रोचना गजमदश्च अष्टसस्राभिमन्त्रितेन समालभेत् / सर्वेषां प्रियो भवति / लवणमयिं प्रतिकृतिं कृत्वा पूर्वकेन विधिना किङ्कुर्वाणा भवन्ति / नवनीतमयिं च मणिं कृत्वा चतुर्भिरश्वत्थपत्रैः प्रतिष्ठाप्य तावज्जपेद् यावदूष्मायति / दन्तैरस्पृश्य ग्रसेत् / ग्रसितमात्रे यं चिन्तयति तत् सर्वमुत्पद्यति / कामरूपी दशपुरुषबलो भवति /
अशीतिवर्षसहस्राणि कृतपुरुश्चरणः पौर्णमास्यां पटस्याग्रतः त्रिरात्रोषितः सधातुके चैत्ये गन्धपुष्पादिभिः पूजां कृत्वा कुशमयं खड्गं रश्वर्थपत्रे स्थाप्य मुष्टिप्रदेशे गृह्णीयात् / जपेद् यावत् स्फुरितम् / गृहीत्वा विद्याधरो भवति / पटस्याग्रतः प्रातिहारकपक्षे त्रिःकालस्नायी त्रिचैलपरिवर्त्ती त्रिसन्ध्यं अष्टसहस्रिको जापः / यावत् पौर्णमासीति / अन्ते त्रिरात्रोषितः सङ्घाटिकां साधयेत् सर्वगन्धैः प्रलिप्य अष्टसहस्रघृतप्रदीपां प्रज्वाल्य पर्यङ्कोपविष्टः गन्धैर्मण्डलकमृपलिप्य तस्योपरि सङ्घाटिं प्रतिष्ठाप्य वामहस्तेनाक्रम्य तावज्जपेद् यावदुत्पतति / सप्ततालमात्रे तिष्ठति / अनेनैव मन्त्रेण सर्वबुद्धबोधिसत्त्वेभ्यो नमस्कृत्वा ग्रहीतव्यः / गृहीतमात्रेण विद्याधरो भवति / सर्वदेवनागयक्षगरुडकिन्नरमहोरगादयः प्रणामं कुर्वन्ति / पटस्याग्रतः विविधा बलिं निवेद्य उदारां पूजां कृत्वा पद्मपत्रे रोचनां स्थाप्य पर्यङ्कोपविष्टस्तावज्जपेद् यावत् त्रिविधा सिद्धिः / ऊष्मायमाने सर्वसत्त्ववशीकरणं वर्षसहस्रं जीवति / धुमायमाने वर्षकोटीसहस्राणि जीवति / योजनसहस्रं गच्छति / तामेवागच्छति / अश्रान्तः सर्वसिद्धानां मनसान्तर्धीयते / मनसाहारमुत्पादयति / अथ ज्वलतिं उअदितादित्यवर्णतः द्विरष्टवर्षः आकुञ्चितकुञ्चितकुण्डकेशः कल्पस्थायी अनेकविद्याधरशतसहस्रपरिवारः यत्रेच्छति तत्र गच्छति / कृतपुरश्चरणः स्रग्दामचलनं दीपशिखावर्धनं रश्मिनिश्चरणं पटप्रकम्पश्च / एतां दृष्ट्वा यं साधयति तं सिध्यति / पापक्षयं च भवति /
देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगां वशीकर्तुकामः पटस्याग्रतः खदिराङ्गारैरग्निं प्रज्वाल्य लवणतिलसिद्धार्थकां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम् / वश्या भवन्ति / उदकभस्मसर्षपान्यतमं अष्टसहस्राभिमन्त्रितं कृत्वा चतुर्दिशं क्षिपेत् / मण्डलबन्धः कृतो भवति / क्षीराहुतीनामष्टसहस्रं जुहुयात् / व्याधिना प्रमुच्यते / अन्नार्थी अन्नं जुहुयात् / पर्वतशिखरमारुह्य भिक्षाहारः लक्षत्रयं जपेत् / अन्ते त्रिरात्रोषितः अश्वत्थकाष्ठैरग्निं प्रज्वाल्य तिलानां दधिमधुघृताक्तानां कृत्स्नां रात्रिं जुहुयात् / राजा भवति / तिलघृतहोमेन सर्वार्था सिध्यन्ति मधुं जुहुयात् / सर्वजनप्रियो भवति / घृतं जुहुयात् / तेजस्वी भवति क्षीरं जुहुयात् / शान्तिर्भवति / दधिं जुहुयात् / पुष्टिर्भवति / सिन्दु वारकाष्ठैरग्निं प्रज्वाल्य सर्वपाकस्याग्रं जुहुयात् / यथासिद्धमन्नमक्षय भवति / यमिच्छति पट्टबन्धं लभति / निम्बपुष्पाणां लक्ष जुहुयात् सर्वजनप्रियो भवति / अक्षतशालितन्दुलानां लक्ष जुहुयात् ग्रामं लभति / अशोककाष्ठैरग्निं प्रज्वाल्य शतसहस्रं जुहुयात् / एकप्रदेशे राज्यं लभते / पटस्याग्रतः अगरुधूपं दहता लक्षमेकं जपेत् / ततस्तस्य राजगृहं स्वाधीनं भवति / भिक्षाहारो हविष्याहारो वा एकूनपञ्चाशलक्षाणि (वैद्य 555) जपेत् / पृथिवीराज्यं लभते / क्षीरयावकाहारो भूत्वा अष्ट लक्षं जपेत् / श्वेतसर्षपाणां लक्षं निवेदयेत् / सामन्तराज्यं लभति / दूर्वाप्रवालानां शतसहस्रं जुहुयात् / दीर्घायुर्भवति / आम्रपत्राणां क्षीराक्तानां शतसहस्रं जुहुयात् / सर्वव्याधिभ्यो मुच्यते /
सर्वव्रीहिमेकस्थ कृत्वा शतसहस्रं जुहुयात् / सर्वव्रीहयः अक्षया भवन्ति / मधूककाष्ठाना शतसहस्रं जुहुयात् / अर्थमुत्पद्य(ते) / मनःशिला हरितालं दंशरोचना समीकृत्य पटस्याग्रतः अष्टसहास्राभिमन्त्रितं कृत्वा बोधिवृक्षकाष्ठपत्रै स्थाप्य जपेत् / सिद्धो भवति / यस्य स्त्रिया पुरुषस्य वा दीयते / स वश्यो भवति / घृताहुतीनां शतसहस्रं जुहुयात् / ग्रामत्रयं लभते / कोटिं जपेत् / शतपरिवारः विद्याधरो भवति / लक्षमेकं जपेत् / मृष्टान्नपान मयाचितं लभते / सप्तद्वीपाधिपो वशमागच्छति / अर्कसमिधानां लक्ष जुहुयात् / पट्टबन्धो भवति / अपामार्जनेनाक्षिरोगमपनयति / ज्वरितस्य कुशैरपामार्जनम् / कन्याकर्तृतसूत्रकं शतजप्तं बध्नीयात् / सुभग भवति / अञ्जनं साधयितुकामः सौवीराञ्जनं पलं गृह्य अग्निना स गन्धं कृत्वा अञ्जनापरिकर्म शोधयित्वा चन्द्रग्रहे उदकं प्रविश्य तावज्जपेद् यावत् कूष्माण्डो भवति / तत्क्षणात् स्फुटति / स्फुटित मात्रेणास्य वर्णस्य तेजस्वी भवति / कुण्डलमकुटधरः सर्वविद्याधराणां अवध्यः अप्रतिहतगतिः सपरिवारः उत्पतति / पञ्चवर्षसहस्राणि जीवति / पद्मानामुत्पलानां वा लक्षं जुहुयात् / सुवर्णसहस्रं लभति / पलाशसमिधानां शतसहस्रं जुहुयात् / सुवर्णसहस्रं लभते / त्रिरात्रोषित क्षीरयावकाहारः साधयेत् / मनःशिलां पलमेकं गृह्य सप्ताश्वत्थपत्राणां उपरि स्थाप्य तावज्जपेत् यावत् प्रज्व(ल) ति / कायं विदारयित्वा प्रक्षिपेत् / तत्क्षणादेव स उद्गच्छति / स विद्याधरो भवति /
सर्वदेवनागयक्षाप्रतिहतदिव्यविमलश्रोत्रमनोजवः उदितादित्यवर्णः सर्वविद्याधरबहुमतः दिव्यगतिः विद्याधरः शतपरिवारः / पटस्याग्रतः गन्धपुष्पै उदारां पूजां कृत्वा क्षीरयावकाहारः शुचिवस्त्रनीवसनः यं यं प्रार्थयते तं लभन्ते / चन्द्रग्रहे बोधिवृक्षस्याधस्तात् गन्धपुष्पधूपैश्च पूजां कृत्वा मनःशिलां रोचनां एकविंशतिवारां परिजप्य शिरस्योपरि मार्जयेत् / ललाटे तिलकं कुर्यात् / राजकुलं प्रविशेत् / राजवल्लभो भवति / पद्मबीजानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् / यस्य नामं ग्रहाय स वशो भवति / ब्रह्मचारी जितेन्द्रियः अगुरुतुरुष्कहोमं कुर्यात् / पूर्णमास्यां चतुर्भिः कलशैरुदकपरिपूर्णैरष्टसहस्राभिमन्त्रितै राजानं राजमात्रं वा स्नापयेत् / श्रीमां भवति / असाध्यमानायाः क्षीरसमिद्भिरग्निं प्रज्वाल्य विद्यानां दधिमधुघृतानां शतसहस्रं जुहुयात् / रक्तोत्पलनीलोप्तलानां वा जातीपुष्पैर्वा होमः / पटस्याग्रतः क्षीरयावकाहारः वर्धमानाः पूजा कार्या / भिक्षवो भोजयितव्या / अनेन कर्मणा असाध्यमानापि सिध्यति / अर्थकामः अपामार्गसमिधाभिर्होमं धनं लभते / घृतहोमेन शान्तिकपौष्टिकम् / दधिमधुघृताक्तैः पद्मैः घृतगुग्गुलुहोमो वा अ(ष्ट)सहस्रम् / एवं सर्वार्थाः सिध्यन्ति / कृष्णव्रीहि यस्योद्दिश्य परिजप्य हूयते स वश्यो भवति / अपामार्गसमिधाभिर्वशीकरणम् / पटस्याग्रतः बिल्वकाष्ठैरग्निं प्रज्वाल्य अगरुसमिधानां शतसहस्रं जुहुयात् / सर्वार्थां ददाति / सधातुके चैत्ये दशसहस्राणि जुहुयात् / राज्यं लभति / पद्मलक्षहोमेन महाभोगो भवति /
सर्वेषां होमानां (वैद्य 556) गन्धपुष्पधूपनैः पूजां कृत्वा होममारभेत् / बिल्वसमिधानामष्टशतेनाग्निं प्रज्वाल्य दधिमधुघृताक्तानां बिल्वसमिधानामष्टसहस्रं जुहुयात् / यमिच्छति स वशो भवति / क्षीरकाष्ठैरग्निं प्रज्वाल्य अगरुसमिधानां शतसहस्रं जुहुयात् / सर्वार्थां ददाति / सधातुके चैत्ये गन्धपुष्पधूपैः पूजां कृत्वा प्रागुत्थितः शुचिर्भूत्वा अग्निं प्रज्वाल्य नागकेसरप्रियङ्गु अष्टसहस्रं जुहुयात् / मासाभ्यन्तरेण द्रव्यं लभति / वैकङ्कतसमिधानां दधिमधुघृताक्तानां पलाशकाष्ठैरग्निं प्रज्वाल्य जुहुयात् / सुवर्णसहस्रं लभति / उदुम्बरकाष्ठैरग्निं प्रज्वाल्य वाषकसमिधानां दधिमधुघृताक्तानां शतसहस्रं जुहुयात् / शतसहस्राभिमन्त्रितं कृत्वा हस्ते बद्ध्वा युद्धे ऽपराजितो भवति / शिरसि बद्धेनादृश्यो भवति / कृष्णपञ्चम्यां नदीं गत्वा श्वेतपुष्पाणां अष्टसहस्रं प्रवाहयेत् / यावदष्टाशीतिदीनारसहस्रं लभते / कुन्दुरुकश्चाप्येष कर्मः / बिल्वश्चाप्येष कर्म / भोगांश्च ददाति / कृष्णपञ्चम्यां पटस्याग्रतः अहोरात्रोषितेन शुक्लनन्तके गोरोचनां स्थाप्य तावज्जपेद् यावत् त्रिविधा सिद्धिः / पादप्रचारिके सप्तवर्षसहस्राणि जीवति / ज्वलिते कल्पस्थायी भवति / सर्वरोगचिकित्सनम् / मृत्तिकया बन्धनमोक्षणं मण्डलबन्धः / पद्मानां पटस्याग्रतः अष्टसहस्रं जुहुयात् त्रिसन्ध्यं दिवसानि सप्त / निधानं पश्यति / पटस्याग्रतः दधिमधुघृताक्तानां शतपुष्पाणां शतसहस्रं जुहुयात् / विषयं लभति / घृताहुतीनां शतसहस्रं जुहुयात् / पञ्चग्रामां लभति / अर्कपुष्पाणां अष्टसहस्रं जुहुयात् / रूपकसहस्रं लभति /
जप्यमानस्य सर्वं प्रयच्छति / वर्जयित्वा कामोपसंहितम् / कृष्णचतुर्दश्या रात्रोषितः रात्रौ आर्यमञ्जुश्रियस्याग्रतः निर्माल्य दधिमधुघृताक्तानां दशसहस्राणि जुहुयात् / महतीं श्रियं लभते / बोधिवृक्षस्याधस्ताद् बोधिवृक्षसमिधानामष्टसहस्रं जुहुयात् / रूपकसहस्रं लभते / जातीपुष्पाणामष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम् / सुवर्णसहस्रं लभते / एते कर्म त्रिरात्रोषितेन बोधिवृक्षस्याधस्तात् क्षीरसमिद्भि अग्निं प्रज्वाल्य गुग्गुलुगुलिकानां कर्पासास्थिप्रमाणानां अष्टसहस्रं जुहुयात् / दीनारसहस्रं लभति / अक्षिरोगज्वरगुल्मशिरोगृध्रसीनां परिजप्य दातव्यम् / वृकव्याघ्रमहिषद्वीपहस्तिरिक्षचोरसर्पपिशाचभूतब्रह्मराक्षसानां जलचराणां सर्वभयोपद्रवेभ्यः अनेनैव रक्षा कर्त्तव्या / पद्मसरं गत्वा पद्मानां लक्षं निवेदयेत् / सामान्यराज्यं लभति / कृतपुरश्चरणः मनःशिलां गृह्य मानुषक्षीरेण पीषयित्वा सहस्रसम्पाताहुतिं कृत्वा पोषधिकः पञ्चगुलिकां कृत्वा आगरुमये समुद्गके प्रक्षिप्य श्वेतसिद्धार्थकसहितानां चन्द्रग्रहे सूर्यग्रहे वा बलिविधानं कृत्वा पटस्याग्रतः समुद्गके स्थाप्य तावज्जपेत् यावत् सर्षपा चिटिचिटायन्ति / तदा सर्वसत्त्ववशीकरणं करोति / यदि धूमायति सर्वान्तर्धानिकानां राजा भवति / अनन्तकल्पं जीवति / अथ प्रज्वलति, तदा देवकुमारः उदितादित्यसमप्रभः महाकल्पस्थायी विद्याधरराजा भवति / रोचनहरितालादीनि एतेनैव विधानेन साधयितव्यानि / सर्वेषां त्रिविधा सिद्धिः / शान्तिं कर्तुकामेन याज्ञिकैः समिद्भिरग्निं प्रज्वाल्य परमान्नमष्टसहस्रं जुहुयात् त्रिरात्रम् / शान्तिर्भवति /
आत्मनः परस्य वा सप्तरात्रेण ग्रामस्य नगरस्यानावृष्टौ त्रिमधुरं जुहुयात् / शङ्खध्वजादीनि अभिमन्त्र्य कर्मं क्षपयति / सप्ताहेन पञ्चानन्तर्याणि क्षपयति / सर्वकर्मसमर्थश्च भवति / विद्याबन्धः सूत्रकेणैकविंशतिजप्तेन ग्रन्थिः कर्तव्यः / सर्षपैर्मण्डलबन्धः / चन्द्रग्रहे सूर्यग्रहे (वैद्य 557) वा चन्दनेन मण्डलकमुपलिप्य घृतमधु आमलकीरसं समभागानि ताम्रभाजने स्थाप्य पर्यङ्कं बद्ध्वा तावज्जपेद् यावदूष्मायति / तं पीत्वा श्रुतिधरो भवति / पोषधिको विकाले उदकचुलकं सप्तवारां परिजप्य पातव्यम् / यं चिन्तयित्वा करोति स्वप्नान्तरे कथयति / श्वेतवचां सप्तवारां परिजप्य मुखे दन्तान्तरे प्रक्षिप्य यं याचति तं लभते / उत्तरवादी भवति / यं यमेव भावं मनसि कृत्वा जपति तं तथागतस्य पुरतः पुष्पगन्धादीन् दत्त्वा दिशाबलिं च चतुर्दिशं क्षिपेत् / ततः कुशविण्डकोपविष्टः अष्टसहस्रं जपेत् / सर्वाशां परिपूरयति / वल्मीकमृत्तिकया सिंहं कृत्वा गोरोचनया समालभ्य पटस्याग्रतः कृतपुरश्चरणः पिण्डकां कृत्वा स्थाप्य लक्षत्रयं जपेत् / ततश्चलति / चलितमात्रे चसिद्धो भवति / तत्क्षणादेव मन्त्रं जपता सिंहमभिरुह्यतव्यम् / आकुञ्चितकुण्डलकेशः द्विरष्टवर्षाकृति आत्मषोडशमः उत्पतति / सर्वविद्याधराणां आगम्य ब्रह्मायुष्यः मृतश्च देवेषूपपद्यते / दृष्ट्वा श्रुत्वा परसैन्यं स्तम्भयति / सर्वव्रीहिगन्धोदककलशं परिपूर्णं कलशं आम्रपल्लवमुखप्रच्छादितं कृत्वा अष्टसहस्राभिमन्त्रितेन विनायकं स्नापय / क्षिप्रं मुञ्चति / गुर्विणीं स्नापयेत् / सुखेन प्रसूयति / बालकं स्नापयेत् /
सर्वग्रहैर्विमुक्तो भवति / अनेनाभिषेकेण या परिमुक्ता भवति / साधनसमश्च भवति / महासामन्तवशीकरणे पटस्याग्रतः अर्कसमिधानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् सप्तरात्रं त्रिसन्ध्यम् / सपरिवारो वशीभवति / राजकन्यायै प्रियङ्गुकुसुमानां अष्टसहस्रं जुहुयात् सप्ताहा यस्य दीयते / पिण्याकाष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम् / पुरस्थं वशमानयति / कृतपुरश्चरणः सधातुके चैत्ये लक्षं जप्ते भिक्षाहारः / ततः कृष्णचतुर्दश्यां एकरात्रोषितः पटस्य यथाविभवतः पूजां कृत्वा कृष्णतिलानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् / ततः प्रभाते ग्रामं लभते / द्वादश / असिद्धे कर्माणि सहस्रपिण्डं ग्रामं लभते / कृतपुरश्चरणः नदीतटे पश्चाभिमुखं पटं प्रतिष्ठाप्य उदकसक्तवाहारः यथाविभवतः पूजां कृत्वा घृतप्रदीपां एकविंशतिप्रदीपां प्रज्वाल्य बहिः सार्वभूतिकाः बलिं निवेद्य पर्यङ्कोपविष्टः तावज्जपेद् यावदरुणो देवपुत्र आगच्छति / तं वरं ददाति / वटवृक्षस्याधस्ताद् भिक्षाहारो मासत्रयं जपेत् / ततः कृष्णचतुर्दश्यां गोचर्ममात्रं स्थण्डिलकमुपलिप्य सर्वरसिकं बलिं निवेद्यम् / बहिः सर्वभूतिकं बलिं दत्त्वा ततः कुशविण्डकोपविष्टः निर्धूमाङ्गारेषु गुग्गुलुगुलिकानां बदरास्थिप्रमाणानां अष्टसहस्रं जुहुयात् / ततः पटवासिनी यक्षिणी आगच्छति / तस्या गन्धोदकेनार्घो देयः / सा ब्रवीति किं करोमीति माता भगिनी सखी एषामेकतमं ग्राह्यम् / रसरसायनं ददाति / तं भक्षयित्वा कल्पायुर्भवति / यक्षबलो भवति /
कृतपुरश्चरणः सधातुके चैत्ये यथाविभवतः पूजां कृत्वा त्रिःकालस्नायी तृसन्ध्यं षण्मासां अपरिमितो जापः / भिक्षाहारः क्षीरयावकाहारो वा / ततः साधनं समारभे / कृष्णपक्षे पुष्यनक्षत्रे करवीरिकां मनःशिलां वीरक्रयक्रीतां गृह्य पञ्चगव्येन संशोध्य ब्राह्मणकन्यां वामोषधं दत्त्वा स्नानालङ्कृतां कृत्वा पूर्वाभिमुखे प्रविश्य तिथिकरणमुहूर्तेन पीषयेत् / अनामिकाङ्गुल्या विषमां बदरास्थिप्रमाणां गुलिकां कृत्वा अश्वत्थसमुद्गके प्रक्षिप्य पटस्याग्रतः सहस्रसम्पाताभिहुतं कृत्वा सप्तरात्रोषितं च अन्ते शुक्लपक्षे उदारां पूजां कृत्वा उदारतरीं बलिं (वैद्य 558) निवेद्य गन्धपुष्पधूपार्चितं समुद्गकं कृत्वा चतुर्भिरश्वत्थपत्रै स्थाप्य त्रिभिराच्छाद्य हस्तेनावष्टभ्य सर्वबुद्धबोधिसत्त्वानां नमस्कारं कृत्वा कुशविण्डकोपविष्टः तावज्जपेद् यावद् रसरसायनादीनि द्रव्यानि ददन्ति / पुनरपि निर्गच्छति / अर्धं रत्न त्रयोपयोगाय कार्यम् / अथ तत्रैव तिष्ठति / न वैष्णवचक्रभयं भवति / भगवन्तं मैत्रेयं पश्यति / प्रणिधिं कृत्वा प्रवेष्टव्यम् / सर्ववारणम् / शुचिस्थाने पांसुगृहं सर्षपस्योपरि क्षिपेत् / सर्ववारणं कृतं भवति / अतियातिमिच्छति / वक्तव्यं गच्छस्वेति / वस्त्रकर्णके मृण्मयीं मुद्रां कृत्वा अष्टसहस्राभिमन्त्र्य दष्टकोपरि स्थापयित्वा आकर्षयेत् / मृतको ऽप्युत्तिष्ठति / द्रव्याणां च मनःशिलादीनां खड्गचक्रमुसुण्ड्यादीनां पञ्चगव्येन शोधयित्वा सहस्रसम्पाताहुतिं कृत्वा अन्यतमं द्रव्यं गृह्य पूर्णमास्यां साधनमण्डलं लिख्य वस्त्रोपरि द्रव्यं स्थाप्य पर्यङ्कोपविष्टः तावज्जपेद् यावत् सिद्धिर्भवति /
फलके यमिच्छति द्रव्यं तस्य तस्य नामं लिख्य अष्टसहस्राभिमन्त्रितं कृत्वा यत्र नागस्तिष्ठति तत्र ह्रदे क्षेप्तव्या / तस्य नागः सर्वं सम्पादयति / सप्ताहेन नियतं वस्तुं सम्पादयति / कूपे ह्रदे वाभिलषितव्यं नामं लिख्य द्रव्यादीनां फलके तथैव ह्रदे क्षेप्तव्यम् / ततः पुरुष उदके निमज्जयितव्यम् / स तस्मिं महान्तं शब्दं शृणोति / अमुकस्मिन् प्रदेशे द्रव्यादिकं तिष्ठति / ततो ग्रहेतव्यम् / नदीसन्तारकादौ दशषु च सभायां राजकुले वा विवादे वा स्मर्तव्यम् / सर्वत्रापराजितो भवति / यमिच्छति वशं कर्तुम् तस्य मुखे आर्यमञ्जुश्रियं ध्यात्वा किञ्चित् सम्भाषणं कुर्यात् / अचिराद् वशो भवति / उदकं भाजने कृत्वा आर्यमञ्जुश्रियं ध्यायीत / तेन पानीयेनाष्टसहस्राभिमन्त्रितेन दष्टं सञ्चिन्तयेत् / निर्विषो भवति / तत्रोक्तेन विधानेन मण्डलं प्रविष्ट सम्पूर्णस्य वृषस्य अपतितगोमयं गृह्य हविष्याहारः समौनी मण्डलं कृत्वा तावज्जपेत् पौर्णमास्यां आरभ्य यावत् तृतीयमपि लक्षं जपेत् / ब्रह्मचारी षण्मासां व्रतमेतच्चरेत् / मासेनात्र सिद्धिः / षड्भिर्मासैः कृष्णं जगत् प्रत्यक्षं भवति / शरीरेणापि परां सिद्धिमवाप्नोति / समासेन सर्वमन्त्रं साधयति //
महाकल्पराजात् आर्यमञ्जुश्रीमूलकल्पात् (पञ्चपञ्चाशत्तमो) हेमसाधनपटलः विसरः परिसरः परिसमाप्तः //
परिसमाप्तं च यथालव्धमार्यमञ्जुश्रियस्य कल्पमिति //
स्वस्ति श्रीराजमङ्गलकावस्थितेन मार्गशीर्षशुक्ला + + + पदानक्षत्रे सिंहस्थे ऽपि गुरौ मञ्जुश्रीकल्पं समाप्तमिति / श्रीमूलघोषविहाराधिपतिना श्रीबो + + + मध्यदेशाद् विनिर्गतेन पण्डितरविचन्द्रेण लिखितमिति / + + // शुभं भूयात् //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
