Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
महामायूरीविद्याराज्ञी
- Thông tin
- GRETIL — Shūyo Takubo: Ārya-Mahā-Māyūrī Vidyā-Rājñī. Tokyo 1972.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
गङ्गा नदीराज्ञी, सिन्धुर् नदीराज्ञी, सीता नदीराज्ञी, वक्षुर् नदीराज्ञी, शरयूर् नदीराज्ञी, अजिरवती नदीराज्ञी, यमुना नदीराज्ञी, कुहा नदीराज्ञी, वितस्ता नदीराज्ञी, शतबाहुर् नदीराज्ञी, विपश्या नदीराज्ञी, ऐरावती नदीराज्ञी, चन्द्रभागा नदीराज्ञी, सरश्वती नदीराज्ञी, कच्छपी नदीराज्ञी, पयोष्णी नदीराज्ञी, कावेली नदीराज्ञी, ताम्रपर्णी नदीराज्ञी, मधुमती नदीराज्ञी, वेत्रवती नदीराज्ञी, इक्षुमती नदीराज्ञी, पुष्किरिणी नदीराज्ञी, गोमती नदीराज्ञी, चर्मदा नदीराज्ञी, नर्मदा नदीराज्ञी, सौमित्रा नदीराज्ञी, विश्वमित्रा नदीराज्ञी, अमरा नदीराज्ञी, तामरा नदीराज्ञी, पञ्चाला नदीराज्ञी, सुवास्तुर् नदीराज्ञी, प्रभद्रिका नदीराज्ञी, तपोदा (म्म्व्र् तकु 48) नदीराज्ञी, विमला नदीराज्ञी, नैरञ्जना नदीराज्ञी, हिरण्यवती नदीराज्ञी, रथस्या नदीराज्ञी.
इत्य् एताश् चान्याश् च महानद्यो या अस्मिन् पृथिवीमण्डले प्रस्रवन्ति. तासु सर्वासु नदीषु ये देवा नागा असुरा मरुता गरुडा गन्धर्वाः किन्नरा महोरगा यक्षा राक्षसाः प्रेताः पिशाचा भूताः कुम्भाण्डाः पूतनाः कटपूतनाः स्कन्दा उन्मादाश् छाया अपस्मारा ओस्तारका ओजोहारा गर्भाहारा रुधिराहारा मांसाहारा वसाहारा मेदाहारा मञ्जाहारा जाताहारा जीविताहारा वान्ताहारा बल्याहारा माल्याहारा गन्धाहारा पुष्पाहारा धूपाहारा सस्याहारा आहुत्याहारा पूयाहारा विष्टाहारा मूत्राहारा खेटाहारा श्लेष्माहारा सिंहानकाहारा उत्सिष्टाहारा अशुच्याहारा स्यन्दनिकाहारा नानारूपा विरूपा चक्षुरूपा अनन्तरूपाः कामरुपिणो विचित्ररूपा नैवासिकाः प्रतिवसन्ति. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.
उद्गृह्ण त्वम् आनन्द पर्वतराजानां नामानि. तद्यथा.
सुमेरुः पर्वतराजा, हिमवान् पर्वतराजा, गन्धमादनः पर्वतराजा, शतशृङ्गः पर्वतराजा, खदिरकः पर्वतराजा, सुवर्णपार्श्वः पर्वतराजा, विद्युन्धरः पर्वतराजा, द्युतिन्धरः पर्वतराजा, निमिन्धरः पर्वतराजा, चक्रवाडः (म्म्व्र् तकु 49) पर्वतराजा, महाचक्रवाडः पर्वतराजा, इन्द्रशैलः पर्वतराजा, ब्रह्मालयः पर्वतराजा, श्रीमन्तः पर्वतराजा, सुदर्शनः पर्वतराजा, विपुलः पर्वतराजा, रत्नाकरः पर्वतराजा, असुरप्राग्भारः पर्वतराजा, कृमिलः पर्वतराजा, मणिकूटः पर्वतराजा, वेमचित्रः पर्वतराजा, वज्राकरः पर्वतराजा, असुरप्राग्भारः पर्वतराजा, हनुचित्रः पर्वतराजा, विद्युत्प्रभः पर्वतराजा, अश्वस्थः पर्वतराजा, चन्द्रप्रभः पर्वतराजा, भद्रशैलः पर्वतराजा, सूर्याकान्तः पर्वतराजा, विन्दुः पर्वतराजा, विन्ध्यः पर्वतराजा, शैलः पर्वतराजा, चित्रकूटः पर्वतराजा, मलयः पर्वतराजा, सुवर्णशृङ्गः पर्वतराजा, परिजातः पर्वतराजा, सुबाहुः पर्वतराजा, मणिमन्तः पर्वतराजा, सुषेनः पर्वतराजा, ब्रह्मदण्डः पर्वतराजा, वेदगच्छः पर्वतराजा, गोकर्णः पर्वतराजा, माल्यचित्रः पर्वतराजा, खड्गः पर्वतराजा, तापनः पर्वतराजा, अर्जनः पर्वतराजा, संगमः पर्वतराजा, रुरुभः पर्वतराजा, दरदः पर्वतराजा, शंखः पर्वतराजा, मोदकः पर्वतराजा, चन्दनमालः पर्वतराजा, गोपगिरिः पर्वतराजा, कैलासः पर्वतराजा, महेन्द्र पर्वतराजा, सह्यः पर्वतराजा, उपातिष्टिः पर्वतराजा, चन्द्रमालः पर्वतराजा, वल्लूलगृहः पर्वतराजा, काकनादः पर्वतराजा, शासननादः पर्वतराजा.
(म्म्व्र् तकु 50) इत्य् एते चान्ये चास्मिन् पृथिवीमण्डले पर्वतराजनस् तत्र ये देवा नागा असुरा मरुता गरुडा गन्धर्वाः किन्नरा महोरगा यक्षा राक्षसाः प्रेताः पिशाचा भूताः कुम्भाण्डाः पूतनाः कटपूतनाः स्कन्दा उन्मादाश् छाया अपस्मारा ओस्तारका सिद्धविद्याधराः राजानश् च सपरिवारा नैवासिकाः प्रतिवसन्ति. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. सर्वपापान्य् अपनयन्तु,
कल्याणेषु दृश्यन्ताम् अकल्याणं नाशयन्तु, अर्थेषु दृश्यन्ताम् अनर्थं प्रतिवाधयंतु. स्वातेर् भिक्षोर् मम सर्वसत्वानां च. रात्रौ स्वस्ति दिवा स्वस्ति स्वस्ति मध्यंदिने स्थिते, स्वस्ति सर्वम् अहोरात्रं सर्वबुद्धा दिशन्तु वः.
उद्गृह्ण त्वम् आनन्द नक्षत्राणां नामानि ये गगने विचरन्ति अवभासयन्ति. तद्यथा.
कृत्तिका रोहिणी चैव मृगशिरार्द्रा पुनर्वसुः, पुष्यो मङ्गलसंपन्नो ऽश्लेषा भवति सप्तमी.
इत्य् एते सप्तनक्षत्राः पूर्वद्वारिकास्थिताः ये पूर्वां दिशं रक्षन्ति परिपालयन्ति.
ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां (म्म्व्र् तकु 51) कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.
मघा चामित्रमर्थनी फाल्गुन्य् उभे तथैव च, हस्ता चित्रा च स्वास्ती च विशाखा भवति सप्तमी.
इत्य् एते सप्तनक्षत्रा दक्षिणद्वारिकास्थिताः, ये दक्षिणां दिशं रक्षन्ति परिपालयन्ति. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.
अनुराधा महातेजा जेष्ठा मूला तथैव च, पूर्वोत्तरे च आषाढे अभिजिच् छ्रवणस् तथा.
इत्य् एते सप्तनक्षत्राः पश्चिमद्वारिकास्थिताः, ये पश्चिमां दिशं रक्षन्ति परिपालयन्ति. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.
धणिष्ठा शतभिषा चैव उभे भाद्रपदे तथा, रेवती चाश्विनी चैव भरणी भवति सप्तमी.
इत्य् एते सप्तनक्षत्रा उत्तरद्वारिकास्थिताः, ये उत्तरां दिशं रक्षन्ति परिपालयन्ति. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं (म्म्व्र् तकु 52) दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.
उद्गृह्ण त्वम् आनन्द ग्रहाणां नामानि, ये ग्रहा नक्षत्रेषु चरन्तो ह्रासवृद्धिं सुखदुःखं क्षेमं सुभिक्षदुर्भिक्षं च निवेदयन्ति तद्यथा.
सूर्यो ग्रहः, चन्द्रो ग्रहः, बृहस्पतिः ग्रहः, शुक्रः, ग्रहः, शनिश्चरो ग्रहः, अङ्गारो ग्रहः, बुधो ग्रहः. राहुर् असुरेन्द्रो ग्रहः, धूम्रकेतुर् ग्रहः, अष्टाविंशति नक्षत्राः सप्तसप्त दिशि स्थिताः. ताराग्रहास् तथा पञ्च राहुकेतुश् च सप्तमः, महातेजो महाबलो महर्द्धिका महातपाः. सूर्यचन्द्रमसौ चैव सप्तत्रिंशद् अनूनकाः, उदयास्तंगमस्थानं चक्रसंक्रमणायुधाः. क्षयवृद्धिकरा लोके महातेजा महर्द्धिकाः, विद्यां समनुमोदन्तु सुप्रसन्नेन चेतसा.
ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.
उद्गृह्ण त्वम् आनन्द पौराणां महर्षीणां नामानि. सिद्धानां सिद्धव्रतानां सिद्धविद्यानां दीप्ततपसां नदीपर्वतवासिनां शापायुधानां उग्रतेजसां (म्म्व्र् तकु 53) ऋद्धिमतां पंचाभिज्ञानां वैहायसगामिनां, तेषां नामानि कीर्तयिष्यामि. तद्यथा.
अष्टमको नाम महर्षिः, वामदेवको नाम महर्षिः, वामको नाम महर्षिः, मारीची नाम महर्षिः, मार्कण्डेयो नाम महर्षिः, विश्वमित्रो नाम महर्षिः, वशिष्ठो नाम महर्षिः, काश्यपो नाम महर्षिः, बलमीको नाम महर्षिः, वृद्धकाश्यपो नाम महर्षिः, भृगुर् नाम महर्षिः, भृङ्गिरसो नाम महर्षिः, अंगिरसो नाम महर्षिः, भृङ्गी नाम महर्षिः, बट्टो नाम महर्षिः, भागिरथो नाम महर्षिः, अंगीरजो नाम महर्षिः, आत्रेयो नाम महर्षिः, पुरस्त्यो नाम महर्षिः, स्थूलशिरो नाम महर्षिः, यम-द्-अग्निर् नाम महर्षिः, द्वैसंपायनो नाम महर्षिः, कृष्णवैपायनो नाम महर्षिः, हरीतो नाम महर्षिः, हरितायनो नाम महर्षिः, समङ्गिरो नाम महर्षिः, उद्गतो नाम महर्षिः, समुद्गतो नाम महर्षिः, क्षान्तिवादी नाम महर्षिः, कीर्ती नाम महर्षिः, सुकीर्ती नाम महर्षिः, गुरुर् नाम महर्षिः, शरभो नाम महर्षिः, मर्दनो नाम महर्षिः, पोतलको नाम महर्षिः, अश्वलायनो नाम महर्षिः, हिमवान् नाम महर्षिः, लोहिताक्षो नाम महर्षिः, दुर्वासो नाम महर्षिः, वैशंपायनो नाम महर्षिः, बाल्मीको नाम महर्षिः, सुरतो नाम महर्षिः, मदनो नाम महर्षिः, मनुर् नाम महर्षिः, प्रभो नाम महर्षिः, शुक्रो नाम महर्षिः, बृहस्पतिर् नाम महर्षिः, अरनेमि नाम महर्षिः, शनैश्चरो नाम महर्षिः, बुधो नाम महर्षिः, जांगुली नाम महर्षिः, गन्धारो नाम महर्षिः, एकशृङ्गो नाम महर्षिः, ऋषिशृङ्गो नाम महर्षिः, गर्गो नाम महर्षिः, गार्ग्यायनो (म्म्व्र् तकु 54) नाम महर्षिः, भाण्डायनो नाम महर्षिः, कात्यायनो नाम महर्षिः, काण्ड्यायनो नाम महर्षिः, भीष्मो नाम महर्षिः, भीष्ममातङ्गो नाम महर्षिः, कपिलो नाम महर्षिः, गौतमो नाम महर्षिः, मातङ्गो नाम महर्षिः, लोहिताश्वो नाम महर्षिः, सुनेत्रो नाम महर्षिः, सुरनेमी नाम महर्षिः, असितो नाम महर्षिः, बालिखिल्यो नाम महर्षिः, नारदो नाम महर्षिः, पर्वतो नाम महर्षिः, कृमिलो नाम महर्षिः.
इत्य् एते आनन्द पौराणा महर्षयो वेदानां कर्तारो मन्त्राणां प्रवर्तयितारः, शापानां दातारः, उग्रव्रातानां महातेजसः, सिद्धपराक्रमाः. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.
हिरि हिरि हिरि, खिरि खिरि, मिरि मिरि, मुरि मुरि, हिरि हिरि, मिलि मिलि, डफु डफु डफु, मथनि, घाटनि, पचनि पाचनि, दहनि दाहनि, तपनि तापनि, हननि, दह दह दहनि, तालनि पातनि मोजनि स्त स्तनि जस्तनि स्वयं भूवे स्वाहा.
उद्गृह्ण त्वम् आनन्द महाप्रजापतीनां नामानि, ये देवा नागा मरुता असुरा गरुडा किंनरा महोरगा यक्षा राक्षसा मनुष्या अमनुष्या तिर्यग्योनिस्वर्गनरकशुभाशुभप्रभृतयः, असंख्येयैः स्वस्तिविशेषैस् त्रैलोके व्यवस्थिताः. तद्यथा.
ब्रह्मा प्रजापतिः, अतृः प्रजापतिः, आत्रेयः प्रजापतिः, अग्निः प्रजापतिः, भृगुः (म्म्व्र् तकु 55) प्रजापतिः, पुलस्त्यः प्रजापतिः, पुलहः प्रजापतिः, मनुः प्रजापतिः, वशिष्ठः प्रजापतिः, दुष्टः प्रजापतिः, सुतनुः प्रजापतिः, सुनन्दमानः प्रजापतिः, दक्षः प्रजापतिः, सनत्कुमारः प्रजापतिः.
इत्य् एते आनन्द महात्मानः प्रजापतयः स्थावरजङ्गमस्य भूतग्रामस्य रक्षार्थे व्यवस्थिताः, ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. एभिश् च मन्त्रपदैर् अप्रतिहतैः रक्षां कुर्वन्तु स्वातेर् भिक्षोर् मम सर्वसत्वानां च. तद्यथा.
हिरि हिरि, खिरि खिरि, मिलि मिलि, सिलि सिलि, हिलि हिलि, मिलि मिलि सिलि सिलि, डफु डफु डडफु, ग्रसनि मथनि दहनि घातनि, पचनि पाचनि, हननि दाहनि, दल दल दालनि पाटनि मोहनि स्त स्तनी जम्भनीये स्वाहा.
उद्गृह्ण त्वम् आनन्द महाविषाणां नामानि. तद्यथा.
अण्डरा, पण्डरा, करडा, केयूरा, भूतांगमा, भूतपति, विन्दुपति, शिरिपति, तेजपति, तेजोग्रपति, यशोपति, अरडा, तरडा, तरदा, तरतरडा, दुत्तरा, दन्ताजुहा, जुहा, जोहा, जोला, मेला, फुरा, गुहा, रुचिरा, दन्तुरा, इलिकिचिका, किरिकिरिका, काम्वा, शतन्तुरा, विकुलि, किरिमि, तरङ्गा, रिष्टा, आम्रवति, जम्बुमति, मनुमति, कमले, विमले, कुण्डले, अहितुहि, दुहि, वक्वे, वक्वदूते, वत्समाते, महागारे, तुलम्वे सुलम्वे स्वाहा.
इत्य् एते आनन्द महाविषास् ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् (म्म्व्र् तकु 56) मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.
उद्गृह्ण त्वम् आनन्द महावृक्षाणां नामानि. तद्यथा.
काञ्चनो नाम महावृक्षः, पिप्पलो नाम महावृक्षः, अश्वत्थानो नाम महावृक्षः, कपित्थानो नाम महावृक्षः, उदुम्बलो नाम महावृक्षः, कपीतुको नाम महावृक्षः, शालो नाम महावृक्षः, कर्णिकारो नाम महावृक्षः, तिनिशो नाम महावृक्षः, बिल्वो नाम महावृक्षः, चूतो नाम महावृक्षः, निचूतो नाम महावृक्षः.
इत्य् एते चान्ये च महावृक्षाः तेष्व् अपि च देवताः प्रतिवसन्ति. ता ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.
इयं चानन्द महामायूरी विद्याराज्ञी सप्तभिः सम्यक्संबुद्धैर् भाषिता चाभ्यनुमोदिता च. तद्यथा. विपश्यिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, शिखिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, विश्वभुवा सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, क्रकुच्छन्देन सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, कनकमुनिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, काश्यपेन सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, मया चैतर्हि शाक्यमुनिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च. इयं चानन्द महामायूरी विद्याराज्ञी मैत्रेयेन बोधिसत्वेन महासत्वेन भाषिता चाभ्यनुमोदिता (म्म्व्र् तकु 57) च. ब्रह्मणा सहापतिना भाषिता चाभ्यनुमोदिता च. शक्रेण देवानाम् इन्द्रेण चतुर्भिश् च महाराजैर् धृतरष्ट्रेण गन्धर्वराजेन विरूढकेन कुम्भाण्डराजेन विरूपाक्षेण नागराजेन वैश्रवणेन यक्षराजेन भाषिता चाभ्यनुमोदिता च. अष्टाविंशतिभिश् च गन्धर्वसेनापतिभिः, अष्टाविंशतिभिश् च कुम्भाण्डसेनापतिः, अष्टाविंशतिभिश् च नागसेनापतिभिः, अष्टाविंशतिभिश् च यक्षसेनापतिभिः, पाञ्चिकेन च यक्षसेनापतिना, हारित्या च पञ्चपुत्रशतपरिवारया भाषिता चाभ्यनुमोदिता च.
इयं चानन्द महामायूरी विद्याराज्ञी अनतिक्रमणीया देवग्रहेण नागग्रहेण असुरग्रहेण मरुतग्रहेण गरुडग्रहेण गन्धर्वग्रहेण किन्नरग्रहेण महोरगग्रहेण यक्षग्रहेण राक्षसग्रहेण प्रेतग्रहेण पिशाचग्रहेण भूतग्रहेण कुम्भाण्डग्रहेण पूतनग्रहेण कटपूतनग्रहेण स्कन्दग्रहेण उन्मादग्रहेण छायाग्रहेण अपस्मारग्रहेण ओस्तारकग्रहेण. अनतिक्रमणीया सर्वग्रहैः, अनतिक्रमणीया सर्वोजाहारिणीभिः, गर्भाहारिण्या वसाहारिण्या मांसाहारिण्या मेदाहारिण्या मज्जाहारिण्या जीविताहारिण्या बल्याहारिण्या माल्याहारिण्या रुधिराहारिण्या जाताहारिण्या गन्धाहारिण्या पुष्पाहारिण्या धूपाहारिण्या फलाहारिण्या सस्याहारिण्या आहुत्याहारिण्या पूयाहारिण्या विष्टाहारिण्या मूत्राहारिण्या खेटाहारिण्या श्लेष्माहारिण्या सिंहानकाहारिण्या उत्सिष्टाहारिण्या वान्ताहारिण्या विरिक्ताहारिण्या अशुच्याहारिण्या स्यन्दिकाहारिण्या. अनतिक्रमणीया कृत्याकर्मणकाखोर्दकिरणवेताडचिच्चप्रेषकदुर्भुक्तदुश्छर्दितदुश्छायादुःप्रेक्षितदुर्लिखितदुर्लंघितावधूतैः. अनतिक्रमणीया (म्म्व्र् तकु 58) ज्वरेण एकाहिकेन द्वैतीयकेन त्रैतीयकेन चातुर्थकेन सप्ताहिकेनार्धमासिकेन मासिकेन द्वैमासिकेन मौहूर्तिकेन नित्यज्वरेण विषमज्वरेण भूतज्वरेण मानुषज्वरेण अमानुषज्वरेण वातिकेन पैत्तिकेन श्लेष्मिकेन सान्निपातिकेन. अनतिक्रमणीया सर्वज्वरैः. अनतिक्रमणीया शिरोर्त्त्या अर्धावभेदकेनारोचकेनाक्षिरोगेन नासारोगेन मुखरोगेन कण्ठरोगेन कर्णरोगेन हृदयरोगेन गलग्रहेन कर्णशूलेन दन्तशूलेन हृदयशूलेन पार्श्वशूलेन पृष्ठशूलेन उदरशूलेन गण्डशूलेन वस्तिशूलेन योनिशूलेन प्रजनशूलेन जंघाशूलेन ऊरुशूलेन हस्तशूलेन पादशूलेन अङ्गप्रत्यङ्गशूलेन. अनतिक्रमणीय दद्रूकण्डूकिटिमकुष्ठभगन्दरगण्डपिटकपामावैसर्पलोहलिङ्गैः. अनतिक्रमणीया सर्वव्याधिभिः सर्वदुष्टैः सर्वविषैः सर्वभयैः. अनतिक्रमणीया सर्वकलिकलहविग्रहोपद्रवोपसर्गोपायासैः.
यश् चेमाम् आनन्द महामायूरीविद्याराज्ञीम् अतिक्रमेत् तस्य वज्रपाणिः सप्तधा मूर्धानम् अर्जकस्येव मञ्जरीं स्फोटयिष्यति. सर्वबुद्धबोधिसत्वप्रत्येकबुद्धश्रावकानां तेजसा नष्ट आलोको नष्टश् चेतसः. आर्यपुद्गलास् तेन विसंवादिता भवेयुः. चत्वारश् चैनं महाराजानः क्षुरपर्यन्तैः शस्त्रैर् महान्तं व्यसनम् आपादयेयुः. शक्रश् चास्य देवानाम् इन्द्रस् त्रिदशगणपरिवृतो वज्रेण मूर्धानम् अभिभिन्द्यात्. ब्रह्मतेजसा चास्य विभूतिर् भस्मं गच्छेत्. अनया चानन्द महामायूरीविद्याराज्ञ्या यस्य रक्षा क्रियते सूत्रं प्रतिसरा चाबध्यते, स बाध्यर्हो ह्य् आनन्द दण्डेन मोक्षते दण्डार्हः, प्रहारैः प्रहारार्हः, आक्रोशेन आक्रोशार्हः, परिभाषणया परिभाषणार्हः, रोमहर्षेण रोमहर्षणार्हः, एवम् एव मोक्षते. न (म्म्व्र् तकु 59) चास्य राजभयं भविष्यति, न चौरभयं भविष्यति, नाग्निभयं भविष्यति, नोदकेन कालं करिष्यति, न चास्य काये विषं क्रमिष्यति, न शस्त्रं क्रमिष्यति, सुखं चिरं जीविष्यति, स्थापयित्वा आनन्द पौराणां स्वप्नां सुखं च प्रतिविबुधिष्यति, स्वस्थो निरुपद्रवो निरुत्त्रासो निहतप्रत्यर्थिको निहतप्रत्यमित्रो निरुपहतः सर्वविषभयविनिर्मुक्तः, सुखं चिरं जीविष्यति, स्थापयित्वा आनन्द पौराणं कर्मविपाकं.
इयं चानन्द महामायूरी विद्याराज्ञी अतिवर्षे अनावृष्टौ चोच्चारयितव्या. ततः सर्वे नागा औत्सुक्यम् आपद्यन्ते अतिवर्षं ग्रहीष्यति, अनावृष्टौ च धारापातं करिष्यति, यावत् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा अभिप्रायो भविष्यति तावद् देवो वर्षिष्यति. अस्याश् चानन्द महामायूर्या विद्याराज्ञ्याः स्मरणाद् एव सर्वभयवैरवाणि प्रशमिष्यन्ति. किं पुनर् इमां सकलसमस्ताम् अखण्डं धारयिष्यति वाचयिष्यति, स्वस्त्ययनं वा कुर्यात्.
उद्गृह्ण त्वम् आनन्द इमां महामायूरीविद्याराज्ञीं. पर्यवाप्नुहि धारय वाचय महामायूरीविद्याराज्ञीं सर्वभयवैरप्रशमनीं चतसृणां पर्षदां रक्षावरणगुप्तये मे भिक्षूणां भिक्षुणीणाम् उपासकानाम् उपासिकानां च. तद्यथा.
यावति धावति बलकि कुरु तुलु मे स्वाहा. रक्ष मां सर्वसत्वांश् च स्वाहा.
रागो द्वेषश् च मोहश् च एते लोके त्रयो विषाः, निर्विषो भगवान् बुद्धो बुद्धसत्यहतं विषं. रागो द्वेषश् च मोहश् च एते लोके त्रयो विषाः, निर्विषो भगवद्धर्मो धर्मसत्यहतं विषं. रागो द्वेषश् च मोहश् च एते लोके त्रयो विषाः, निर्विषो भगवत्संघो संघसत्यहतं विषं. (म्म्व्र् तकु 60) यद्य् अलं सर्वबुद्धानाम् अर्हतां चैव यद् यशः, तथागतस्य तेजेन कृतं स्वस्त्ययनं मया. स्वातिभिक्षोर् मम सर्वसत्वानां च हतं विषम्,
महामायूरी विद्याराज्ञी स्वातेर् भिक्षोर् मम भवतु.
साधु भगवन्न् इत्य् आयुष्मान् आनन्दो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य येन स्वातिर् भिक्षुस् तेनोपसंक्रम्य स्वातेर् भिक्षोर् अनया महामायूर्या विद्याराज्ञ्या रक्षाम् अकार्षीत्. गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं चाकार्षीत्, व्युत्थितश् चायुष्मान् स्वातिर् भिक्षुस् तस्माद् आबाधाद् आयुष्मता आनन्देन रक्षास्वस्त्ययने कृते.
अथायुष्मान् आनन्द आयुष्मांश् च स्वातिर् भिक्षुर् येन भगवांस् तेनोपसंक्रान्तौ, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवतः सर्वं यथा वृत्तान्तं निवेद्य भगवतानुज्ञतौ चैकान्ते निषण्णौ.
अथ भगवान् आयुष्मन्तम् आनन्दम् उवाच. दृष्टस् ते महामायूर्या विद्याराज्ञाः प्रभाव इति. तथा वादितं भगवन्तम् आनन्दः प्रणम्योवाच. किम् इदं भगवन् न विदितं भविष्यति. भगवान् पुनर् उवाच. अप्य् एवानन्द चत्वारो महासमुद्राः शोषं गच्छेयुः, पृथिवी वा आकाशम् उत्पद्येत्, चन्द्रादित्यौ वा पृथिव्यां निपतेतां, नद्यो वा प्रतिश्रोतो गच्छेयुः, न च तथागतस्य वचनम् अन्यथा भवेद् इति. अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म. तस्मात् तर्हि त्वम् आनन्द इमां महामायूरीं विद्याराज्ञीं चतसृणां पर्षदां रक्षावरणगुप्तये भिक्षूणां भिक्षुणीणाम् उपासकानाम् उपासिकानां चारोचय. साधु भगवन्न् इत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य इमां महामायूरीं विद्याराज्ञीं चतसृणां पर्षदाम् आरोचयति भिक्षूणां भिक्षुणीणाम् उपासकानाम् उपासिकानां चेति.
(म्म्व्र् तकु 61) इदम् अवोचद् भगवान्, आत्तमना आयुष्मान् आनन्द आयुष्मांश् च स्वातिर् भिक्षुर्, ये च तस्यां पर्षदि सन्निपतिताः सन्निषण्णाः देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगयक्षाराक्षसमनुष्यामनुष्यास् ते च सर्वे भगवतो भाषितम् अभ्यनन्दन्न् इति.
समाप्ता चेयं भगवत्य् आर्यमहामायूरी विद्याराज्ञी.
अविनष्टा यक्षमुखात् प्रतिलब्धा नवशतिका बुद्धभाषिता.
रक्ष मां सर्वसत्वांश् च स्वस्तिश्रेयो भवत्व् इति.
अस्या महामायूर्या विद्याराज्ञ्या अयम् उपचारः. अपतितकपिलगोमयेन शुचौ भूमिप्रदेशे गोचर्ममात्रं स्थण्डिलम् उपलिप्य समुत्पन्नेन कार्येण येन केनचिद् गोमयेन चतुरश्रं मण्डलकं कर्तव्यं. तत्र च मध्ये बुद्धप्रतिमा पश्चिमाभिमुखा स्थापयितव्या, तस्या वामपार्श्वे महामायूरीपुस्तकलिखिता चित्रकर्मकृता वा स्थापयितव्या, अथ वा त्रयो मयूरचन्द्रिकाः कपिलगोमये निषद्य स्थापयितव्याः, ततः श्वेतार्कपुष्पाणि श्वेतकरवीरबिल्बपत्राणि शिरीषपत्राणि च दत्वा बलिं तिलकृसरतिलोदकं चैव पायसं गुडपूर्णकयावकमधुपूर्णकभक्तां यथा लाभेन दत्वा प्राङ्मुखेन गुग्गुलुधूपं च दत्वा ततो दक्षिणपश्चिमोत्तरमुखेन चतुर्दिशं पूर्वोक्तानां चतुर्दिशानां यक्षाणाम् अग्रहां कुर्वता वक्तव्यं, आगच्छध्वं, पुष्पं धूपं गन्धं बलिं दीपं च प्रतीच्छध्वं, रक्ष मां सर्वसत्वानांश् च. ओं वरदे हूं (म्म्व्र् तकु 62) हरिणि स्फुट् कारिणि स्वाहा.
तत्र गुडपूर्णपायसं च पूर्वायां दिशि स्थापयितव्यं, गन्धर्वाणां स बलिः, तिलकृसरसुरापूर्णकं च दक्षिणायां दिशि स्थापयितव्यं, कुम्भाण्डानां स बलिः. क्षीरपूर्णकं पायसं च पश्चिमायां दिशि स्थापयितव्यं, नागसुपर्णीनां स बलिः. सिंधुपूर्णकं दधिभक्तम् उत्तरस्यां दिशि स्थापयितव्यं, यक्षाणां स बलिः.
आर्यमहामायूरी नाम महाविद्याराज्ञी समाप्ता इति.
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत्, तेषां च यो निरोध एवंवादी महाश्रमणः.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
