Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

महामन्त्रानुसारिणी

Thông tin
GRETIL — Peter Skilling: Mahāsūtras : Great Discourses of the Buddha, Vol. I: Texts, Oxford 1994 (PTS), pp. 608-622.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

महामन्त्रानुसारिणी

महामन्त्रानुसारिणी

c.0.1. ओं नमो भगवत्यै आर्यमहामन्त्रानुसारिण्यै / नमो विद्याराजाय / नमः समन्तबुद्धानां //

c.1.1.a. evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / veṇuvane karandakanivāpe / c.1.1.b. evaṃ mayā śrutam ekasmin samaye bhagavān vaiśālyṃ viharati sma / markaṭahradatīrekū ṭāgāraśālāyaṃ c.1.2. tatra bhagavān āyuṣmantam ānandam āmantrayate sma / āgamayānanda yena vaiśālīti / evaṃ bhadante ty āyuṣmān ānando bhagavataḥ pratyaśrauṣīt / atha bhagavān vṛjiṣu janapadeṣu janapadacārikāñ caran vaiśālīm anuprāpto vaiśālyāṃ viharaty āmrapālīvane / c.1.3. tatra bhagavān āyuṣmantam ānandam āmantrayate sma / gacchānanda vaiśālīṃ gatvā indrakīle pādaṃ sthāpayitvā imāni mahāmantrānusāriṇī mantrapadāni bhāṣasva / imāś ca gāthāḥ / c.2.1. visarata visarata visarata visarata visarata / c.2.2. buddho lokānukampaka ājñāpayati / sarvabuddhānumatena / sarvapratyekabuddhānumatena / sarvārhadānumatena (afgh: sarvabhūtānumatena) sarvaśaikṣānumatena / sarvaśrāvakānumatena / sarvasatyavākyānumatena / pratyekabrahmānumatena / brahmānumatena / kāmeśvarānumatena / indrānumatena / devānumatena / asurendrānumatena / sarvāsurānumatena / asurapreṣyānumatena / sarvabhūtānumatena / c.2.3. visarata visarata visarata visarata visarata / c.2.4. buddho lokānukampaka ājñāpayati / mūmcata mūmcata mūmcata mūmcata / mā tiṣṭhantu / ītir vyupaśāmyatu / nirgacchata nirgacchata nirgacchata / c.2.5. buddhaḥ praviśati mahādevo devātidevo devaguruḥ sendrakāś ca devāḥ sabrahmakāḥ saprajāpatikāś catvāraś ca lokapālāḥ praviśanti anekāni ca devatāsahasrāṇy asurendrāś ca /

अनेकानि च असुरसहस्राणि प्रतिवसन्ति / बहूनि च भूतसहस्राणि भगवतो ऽभिप्रसन्नानि प्रवेक्ष्यन्ति सर्वसत्वानाम् अर्थे / c.2.6. ते वो मानर्थं करिष्यन्ति / निर्गच्छत निर्गच्छत निर्गच्छत निर्गच्छत / क्षिप्तं पलायत / यदि यूयं दुष्टचित्ता न पलायेत नश्येत / ये मैत्रचित्ता नापराधुकामा रक्षां चानुवर्तयितुकामास् ते तिष्ठन्तु मतं च प्रविशन्तु / c.2.7. बुद्धो लोकानुकम्पक एवम् आज्ञापयति / c.2.8. सुमुरु 4 सुरु 4 हुरु 4 मु 4 प्रविशति / मुरु 8 मिरि 6 मुरु मिरि 13 मुरु मिरीति 6 रि 6 री 6 मिरि 6 तिरि हस मिरि ति मिरी रि मिरि कर्ता करं कर्ता कंकरा करकचा / कंकरा 8 कंकरो चंकरिति कुरीशे / कंकरि 3 षेति / रि 6 रेफसारि / फुरि 7 फरा अनाथानाथा सिरि थि फुरि रुरि प्रास्तुरि अनाथानाथा निर्गच्छत रिपूं निर्गच्छत यदि यूयं दुष्टचित्ता न पलायेत नश्येत c.2.9. बुद्धो लोकानुकम्पक एवम् आज्ञापयति / प्रविशति सर्वसत्वहिताध्याशयो मैत्रीविहारी कारुणिको मुदिताविहारी उपेक्षाविहारी / c.2.10. एते मन्त्रपदाः सिद्धाः सिद्धगाथा जिनोदिताः / सर्वेषां देवतानां हि भूतानां च हितैषिणां //

ज्ञानेनाथोत्तमेनाद्य तथा धर्मतयापि च / जगताम् ईतयः सर्वाः शाम्यन्त्व् आरोग्यम् अस्तु वः //

c.3.1. विशक्तिका यस्य तृष्णा विध्वस्ता विरलीकृताः / śāntacitto hy anāyāsaḥ sa vaḥ svasti kariṣyati // cdfgh: throughout: sarvaḥ svasti

c.3.2. यो जगन् मोक्षमार्गस्मिन् निवेशयति नायकः / देशकः सर्वधर्माणां स वः स्वस्ति करिष्यति //

c.3.3. गतिर् यो जगतां शास्ता कृतं येन सुखी बहुः / अर्थाय सर्वसत्वानां स वः स्वस्ति करिष्यति //

c.3.4. येन सर्वजगच् चैतन् मैत्रचित्तेन तायिना / पालितं पुत्रवन् नित्यं स वः स्वस्ति करिष्यति //

c.3.5. गतिर् यः सर्वसत्वानां त्राणं द्वीपः परायणं / संसारे वर्तमानानां स वः स्वस्ति करिष्यति //

c.3.6. यः साक्षात् सर्वधर्माणाम् अविसंवादकः शुचिः / शुचिवाक्यः शुचिकरः स वः स्वस्ति करिष्यति //

c.3.7. यस्मिञ् जाते महावीरे समृद्धाः सर्वसम्पदः / सिद्धार्थः सिद्धसंभारः स वः स्वस्ति करिष्यति //

c.3.8. यस्मिञ् जाते वसुमती सवनेयं प्रकंपिताः / सर्वे सत्वाः प्रमुदिताः स वः स्वस्ति करिष्यति //

c.3.9. षड् विकारं प्रचलिता यस्य बोधौ वसुंधराः / मारश् च दुर्मना आसीत् स वः स्वस्ति करिष्यति //

c.3.10. यश आसीन् मुनेर् यस्य धर्मचक्रे प्रवर्तिते / आर्यसत्यानि वदतः स वः स्वस्ति करिष्यति //

c.3.11. येन तीर्थकराः सर्वे जिता धर्मेण तायिना / वशीकृताः सर्वगणाः स वः स्वस्ति करिष्यति //

c.3.12. स्वस्ति वः कुरुतां बुद्धः स्वस्ति देवाः सशक्रकाः / स्वस्ति सर्वाणि भूतानि सर्वकालं दिशन्तु वः //

c.3.13. बुद्धपुण्यानुभावेन देवतानां मतेन च / यो यो ऽर्थः समभिप्रेतः सर्वार्थोद्य समृद्ध्यतां / c.3.14. स्वस्ति वो द्विपदे भोन्तु स्वस्ति वो ऽस्तु चतुष्पदे / स्वस्ति वो व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च //

c.3.15. स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्यंदिने स्थिते / सर्वत्र स्वस्ति वो भोन्तु मा चैषां पापम् आगमत् //

c.3.16. सर्वे सत्वाः सर्वे प्राणाः सर्वे भूताश् च केवलाः / सर्वे वै सुखिनः सन्तु सर्वे सन्तु निरामयाः / सर्वे भद्राणि पश्यन्तु मा कश्चित् पापम् आगमत् //

c.3.17. यानीह भूतानि समागतानि स्थितानि भूमाव् अथवान्तरीक्षे / कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मं //

c.4. इत्य् एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य इन्द्रकीले पादं स्थापयित्वा इमानि महामन्त्रानुसारिणीमन्त्रपदानि भाषते स्म / इमाश् च गाथाः / c.5.1. विसरत विसरत विसरत विसरत विसरत / c.5.2. बुद्धो लोकानुकम्पक आज्ञापयति / सर्वबुद्धानुमतेन / सर्वप्रत्येकबुद्धानुमतेन / सर्वार्हदानुमतेन / सर्वशैक्षानुमतेन / सर्वश्रावकानुमतेन / सर्वसत्यवाक्यानुमतेन / प्रत्येकब्रह्मानुमतेन / ब्रह्मानुमतेन / कामेश्वरानुमतेन / इन्द्रानुमतेन / देवानुमतेन / असुरेन्द्रानुमतेन / सर्वासुरानुमतेन / असुरप्रेष्यानुमतेन / सर्वभूतानुमतेन / c.5.3. विसरत विसरत विसरत विसरत विसरत / c.5.4. बुद्धो लोकानुकम्पक आज्ञापयति / मूम्चत मूम्चत मूम्चत मूम्चत / मा तिष्ठन्तु / ईतिर् व्युपशाम्यतु / निर्गच्छत निर्गच्छत निर्गच्छत निर्गच्छत / c.5.5. बुद्धः प्रविशति महादेवो देवातिदेवो देवगुरुः सेन्द्रकाश् च देवाः सब्रह्मकाः सप्रजापतिकाश् चत्वारश् च लोकपालाः प्रविशन्ति / अनेकानि च देवतासहस्राणि असुरेन्द्राश् च / अनेकानि चासुरसहस्राणि प्रविशन्ति / बहूनि च भूतसहस्राणि भगवतो ऽभिप्रसन्नानि प्रवेक्ष्यन्ति सर्वसत्वानाम् अर्थे / c.5.6. ते वो मानर्थं करिष्यन्ति / निर्गच्छत निर्गच्छत निर्गच्छत निर्गच्छत / क्षिप्रं पलायत / यदि यूयं दुष्टचित्ता न पलायेत नश्येत / ये मैत्रचित्ता न चापराधुकामा रक्षां चानुवर्तयितुकामास् ते तिष्ठन्तु मतं च प्रविशन्तु / c.5.7. बुद्धो लोकानुकम्प एवम् आज्ञापयति / c.5.8 सुमुरु 4 सुरु 4 हुरु 4 मु 4 प्रविशति / मुरु 8 मिरि 6 मुरु मिरि 13 मुरु मिरीति 6 रि 6 री 6 मिरि 6 तिरि हस मिरि ति मिरी रि मिरि कर्ता करं कर्ता कंकरा करकचा / कंकरा 8 कंकरो चंकरिति कुरीशे / कंकरि 3 षेति / रि 6 रेफसारि / फुरि 7 फरा अनाथानाथा सिरि थि फुरि रुरि प्रास्तुरि अनाथानाथा निर्गच्छत रिपूं निर्गच्छत यदि यूयं दुष्टचित्ता न पलायेत नश्येत c.5.9. बुद्धो लोकानुकम्पक एवम् आज्ञापयति / प्रविशति सर्वसत्वहिताध्याशयो मैत्रीविहारी कारुणिको मुदिताविहारी उपेक्षाविहारी / c.5.10. एते मन्त्रपदाः सिद्धाह् सिद्धगाथा जिनोदिताः / सर्वेषां देवतानां हि भूतानां च हितैषिणां //

ज्ञानेनाथोत्तमेनाद्य तथा धर्मतयापि च / जगताम् ईतयः सर्वाः शाम्यत्व् आरोग्यम् अस्तु वः //

c.6.1. विशक्तिका यस्य तृष्णा विध्वस्ता विरलीकृताः / शान्तचित्तो ह्य् अनायासः स वः स्वस्ति करिष्यति //

c.6.2. यो जगन् मोक्षमार्गस्मिन् निवेशयति नायकः / देशकः सर्वधर्माणां स वः स्वस्ति करिष्यति //

c.6.3. गतिर् यो जगतां शास्ता कृतं येन सुखी बहु / अर्थाय सर्वसत्वानां स वः स्वस्ति करिष्यति //

c.6.4. येन सर्व जगच् चैतन् मैत्रचित्तेन तायिना / पालितं पुत्रवन् नित्यं स वः स्वस्ति करिष्यति //

c.6.5. गतिर् यः सर्वसत्वानां त्राणं द्वीपः परायणम् / संसारे वर्त्तमानानां स वः स्वस्ति करिष्यति //

c.6.6. यः साक्षात् सर्वधर्माणाम् अविसंवादकः शुचिः / शुचिवाक्यः शुचिकरः स वः स्वस्ति करिष्यति //

c.6.7. यस्मिञ् जाते महावीरे समृद्धाः सर्वसम्पदः / सिद्धार्थः सिद्धसंभार स वः स्वस्ति करिष्यति //

c.6.8. यस्मिन् जाते वसुमती सवनेयं प्रकम्पिता / सर्वे सत्वाः प्रमुदिताः स वः स्वस्ति करिष्यति //

c.6.9. षड् विकारं प्रचलिता यस्य बोधौ वसुन्धरा / मारश् च दुर्मना आसीत् स वः स्वस्ति करिष्यति //

c.6.10. यश आसीन् मुनेर् यस्य धर्मचक्रे प्रवर्तिते / आर्यसत्यानि वदतः स वः स्वस्ति करिष्यति //

c.6.11. येन तीर्थकराः सर्वे जिता धर्मेण तायिना / वशीकृताः सर्वगणाः स वः स्वस्ति करिष्यति //

c.6.12. स्वस्ति वः कुरुतां बुद्धः स्वस्ति देवाः सशक्रकाः / स्वस्ति सर्वाणि भूतानि सर्वकालं दिशन्तु वः //

c.6.13. बुद्धपुण्यानुभावेन देवतानां मतेन च / यो यो ऽर्थः समभिप्रेतः सर्वार्थोद्य समृद्ध्यतां / c.6.14. स्वस्ति वो द्विपदे भोन्तु स्वस्ति वो ऽस्तु चतुष्पदे / स्वस्ति वो व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च //

c.6.15. स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्यंदिने स्थिते / सर्वत्र स्वस्ति वो भोन्तु मा चैषां पापम् आगमत् //

c.3.16. सर्वे सत्वाः सर्वे प्राणाः सर्वे भूताश् च केवलाः / सर्वे वै सुखिनः सन्तु सर्वे सन्तु निरामयाः / सर्वे भद्राणि पश्यन्तु मा कश्चित् पापम् आगमत् //

c.3.17. यानीह भूतानि समागतानि स्थितानि भूमाव् अथवान्तरीक्षे / कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मं //

c.7.1. iti tatra buddhānāṃ buddhānubhāvena devatānāṃ devatānubhāvena mahatītir vyupaśānte ti / c.7.2. idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisatvā sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti / c.8. (a) āryamahārakṣāmantrānusāriṇīnāmamahāyānasūtraṃ samāptam iti / (b) āryamahārakṣāmantrānusāriṇī samaptā / (c) iti mantrānusārīnīparīsamāpta / (e) āryamahāmantrānusāriṇīmahāvidyārajñī samāpta ti / (f) āryamahārakṣāmahāmantrānusāraṇīnāmamahāyānasūtraṃ rakṣākalpaṃ samāptaḥ c.9. (a) śubham astu sarvajagatāṃ / (b) ye dharmā hetuprabhavā hetus teṣāṃ tathāgataḥ / hy avadat teṣāṃ yo nirodha evaṃvādī mahāśramaṇaḥ / śubhaṃ /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.