Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

महामायूरीविद्याराज्ञी

Thông tin
GRETIL — Shūyo Takubo: Ārya-Mahā-Māyūrī Vidyā-Rājñī. Tokyo 1972.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

महामायूरीविद्याराज्ञी

महामायूरीविद्याराज्ञी

ओं नमो भगवत्यै आर्यमहामायूर्यै

मृतसंजीवनीं देवीं दुष्टसत्वनिवारणीं विद्या राज्ञीं महात्मानीं मायूरीं प्रणमाम्य् अहं

नमः सर्वबुद्धबोधिसत्वेभ्यो ऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो ऽतीतानागतप्रत्युत्पन्नेभ्यः सर्वधर्ममहासंघेभ्यः.

नमो बुद्धाय नमो धर्माय नमः संघाय, नमः सप्तानां सम्यक्संबुद्धानां सश्रावकसंघानां, नमो लोके ऽर्हतां, नमो मैत्रेयप्रमुखानां बोधिसत्वानां महासत्वानां, नमो ऽनागामिनां, नमः सकृदागामिनां, नमः श्रोतापन्नानां, नमो लोके सम्यग्गतानां, नमः सम्यक्प्रतिपन्नानां. एषां नमस्कृत्वा इमां महामायूरीं विद्याराज्ञीं प्रयोजयिष्यामि. इयं मे विद्या समृध्यतु, शृण्वन्तु मे भूतगणाः. ये केचित् पृथिवीचराः खचरा जलचरा देवा नागा असुरा मरुता गरुडा गन्धर्वाः किन्नरा महोरगा यक्षा राक्षसाः प्रेताः पिशाचा भूताः कुम्भाण्डाः पूतनाः कटपूतनाः स्कन्दा उन्मादाश् च्छाया अपस्मारा ओस्तारकाः शृण्वन्तु मे ओजाहारा भूतगणा गर्भाहारा रुधिराहरा वसाहारा (म्म्व्र् तकु 2) मांसाहारा मेदाहारा मज्जाहारा जाताहारा जीविताहारा बल्याहारा माल्याहारा गन्धाहारा धूपाहाराः पुष्पाहाराः फलाहाराः सस्याहारा आहुत्याहाराः पूजाहारारा विष्ट्याहारा मूत्राहाराः खेटाहाराः श्लेष्माहाराः शिंघाणकाहारा उच्छिष्टाहारा वान्ताहारा अशुच्याहाराः स्यन्दनिकाहाराः, पापचित्ताः दुष्टचित्ता रौद्रचित्ताः परप्राणहराः. इमां महामायूरीविद्याराज्ञीं प्रवक्ष्यामि, गन्धं पुष्पं धूपं दीपं बलिं च दास्यामि, अपक्रामन्तु मे पापचित्ताः दुष्टचित्ता रौद्रचित्ताः परप्राणहराः सर्वग्रहा ओजोहाराः शृण्वन्तु मे, सौम्यचित्ता मैत्रचित्ताः कल्याणचित्ताः शृण्वन्तु मे बुद्धधर्मसंघाभिप्रसन्नाः. तद्यथा

कालि करालि कुम्भाण्डि शंखिनि कमलाक्षि हरीति हरिकेशि श्रीमति हरि हरिपिङ्गले, लंबे प्रलंबे कालपाशे कालशोदरि यमदूति यमराक्षसि भूतग्रसनि, प्रतीच्छथ मां, गन्धं पुष्पं धूपं बलिं च दास्यामि, रक्षथ मम सगणपरिवाराणां सर्वसत्वानांश् च सर्वभयोपद्रवेभ्यः, जीवतु वर्षशतं पश्यतु शरदाशतं, सिध्यन्तु मे मन्त्रपदाः स्वाहा.

एवं मया श्रुतम् एकस्मिं समये भगवां श्रावस्त्यां विहरति स्म, जेतवने ऽनाथपिण्डस्यारामे महता भिक्षुसंघेन महता बोधिसत्वसंघेन सार्धं, तेन खलु पुनः समयेन श्रावस्त्यां जेतवने ऽनाथपिण्डस्यारामे स्वातिर् नाम भिक्षुः प्रतिवसति स्म. नवो दह्रतरुणो ऽचिरप्रव्रजितो ऽचिरोपसंपन्नो ऽचिरागत इमं धर्मविनयं, संघस्यार्थे जेन्ताकदारूणि पाटयमानः, अन्यतमस्मात् पूतिदारुशुषिरान् निष्क्रम्य महता कृष्णसर्पेण दक्षिणे पादांगुष्ठो दष्टः स क्लान्तकायो भूमौ निपतितः, फेनं वाहयमानो ऽक्षिणी च परिवर्तयमानः स्वपिति.

(म्म्व्र् तकु 3) अद्राक्षीद् आयुष्मान् आनन्दः स्वातिर् नाम भिक्षुम् आबाधिकं दुःखितं गाढग्लानं भूमौ पतितं फेनं वाहयमानम् अक्षिणी परिवर्तयमानं स्वपन्तं, दृष्ट्वा च पुनस् त्वरितं त्वरितं येन भगवांस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्. एकान्तस्थितश् चायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्. इह भगवन् छ्रावस्त्यां जेतवने ऽनाथपिण्डस्यारामे स्वातिर् नाम भिक्षुः प्रतिवसति, नवो दह्रस् तरुणो ऽचिरप्रव्रजितो ऽचिरोपसंपन्नो ऽचिरागत इमं धर्मविनयं. संघस्यार्थे जेन्ताकदारूणि पाटयमानो ऽन्यतमस्मात् पूतिदारुसुषिरान् निष्क्रम्य महता कृष्णसर्पेण दक्षिणे पादांगुष्ठो दष्टः. स क्लान्तकायो भूमौ पतितः फेनं वाहयमानो ऽक्षिणी च परिवर्तयमानः स्वपिति, तस्याहं भगवं कथं प्रतिपद्यामि.

एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्. गच्छ त्वम् आनन्द तथागतस्य वचनेनानया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षो रक्षां कुरु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुरु. देवग्रहातो नागग्रहातो ऽसुरग्रहातो मरुतग्रहातो गरुडग्रहातो गन्धर्वग्रहातः किन्नरग्रहातो महोरगग्रहातो यक्षग्रहातो राक्षसग्रहातः प्रेतग्रहातः पिशाचग्रहातो भूतग्रहातः कुम्भाण्डग्रहातः पूतनग्रहातः कटपूतनग्रहातः स्कन्दग्रहातो उन्मादग्रहातः छायाग्रहातो ऽपस्मारग्रहात ओस्तारकग्रहातः कृत्याकर्मणकाखोर्दवेताडकिरणचिच्चकप्रेषकदुर्भुक्तदुश्छर्दितदुश्छायादुष्प्रेक्षितदुर्लिखितदुर्लंघितावधूतातः, (म्म्व्र् तकु 4) ज्वराद् एकाहिकाद् द्वैतीयकात् त्रैतीयकाच् चातुर्थकात् सप्ताहिकाद् अर्धमासिकान् मासिकाद् दैवसिकान् मौहूर्तिकान् नित्यज्वराद् विषमज्वराद् भूतज्वरान् मानुष्यज्वराद् अमानुष्यज्वराद् वातिकात् पैत्तिकाच् छ्लेष्मकात् सर्वज्वरात्, शिरोर्त्तिम् अपनय अर्धावभेदकम् अरोचकम् अक्षिरोगं नासारोगं मुखरोगं कण्ठरोगं हृद्रोगं गलग्रहं कर्णशूलं दन्तशूलं हृदयशूलं पृष्ठशूलं पार्श्वशूलं उदरशूलं मणिशूलं योनिशूलं प्रजनशूलं गण्डशूलं वस्तिशूलं ऊरुशूलं जंघशूलं हस्तशूलं पादशूलं अंगप्रत्यंगशूलं चापनय.

रात्रौ स्वस्ति दिवा स्वस्ति स्वस्ति मध्यंदिने स्थिते, स्वस्ति सर्वं अहो-रात्रं सर्वबुद्धा दिशन्तु मे.

तद्यथा

इडि विडि किडि हिडि मिडि तिडि आडे घाडे दुर्गाडे हरिणि वगुडि पांशु पिशाचि वर्षणि आरोहणि ओरोहणि, एले मेले तेले तिले, तिलि तिले, मेले मेले, तिमे तिमे, दुमे दुमे, दुदुमे दुदुमे, इट्टि मिट्टि विष्ठन्दे, चपले विमले, हुलु हुलु हुलु हुलु, अश्वमुखि, कालि कालि करालि महाकालि, प्रकीर्णकेशि, कुलु कुलु, वफुलु वफुलु कोलु कोलु हुलु हुलु, वहुलु वहुलु, कोलु कोलु, हुलु हुलु, वहुलु वहुलु, वोसा दुम्बा दोदुम्बा दोमदुम्बा, गोलाया वेलाया परिवेलाया, पिशु पिशु, हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि, ओं मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि mili. ओं तिलि तिलि तिलि तिलि तिलि तिलि तिलि तिलि तिलि तिलि. ओं चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु. ओं मुहु (म्म्व्र् तकु 5) मुहु मुहु मुहु मुहु मुहु मुहु मुहु मुहु मुहु. ओं मुलु मुलु मुलु मुलु मुलु मुलु मुलु मुलु मुलु मुलु. ओं हु हु हु हु हु हु हु हु हु हु. ओं हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु. ओं वा वा वा वा वा वा वा वा वा वा. ओं पा पा पा पा पा पा पा पा पा पा. ओं जाल जाल जाल जाल जाल जाल जाल जाल जाल जाल. दम दमनि, तप तपनि, ज्वल ज्वलनि, पच पचनि, दुंदुभि गर्जनि वर्षणि स्फोटनि, तपनि तापनि, पचनि पाचनि, हरिणि हारिणि, कालिणि कमलि कंपनि, मर्दनि, मण्डितिके, क्षेमंकरि, मकरि शाकरि, शर्करि कर्करि सवरि शंकरि, ज्वलनि ज्वलनि, दुमदुम्बनि सुकुसुमे, गोलाया वेलाया परिवेलाया वर्षतु देवः समन्तकेन इलिकिसि स्वाहा.

मैत्री मे धृतराष्ट्रेषु मैत्री ऐरावणेषु च, विरूपाक्षेषु मे मैत्री कृष्णगोतमक्षेषु च. मणिना नागराजेन मैत्री वासुकिना च मे, दण्डपादेषु नागेषु पूर्णभद्रेषु मे सदा. नन्दोपनन्दौ यौ नागौ वर्णवन्तौ यशस्विनौ, देवासुरम् अपि संग्रामम् अनुभवन्तौ महर्द्धिकौ. अनवतप्तेन वरुणेन मैत्री मन्दूरकेन च, तक्षकेन अनन्तेन तथा वासूमुखेन च. अपराजितेन मे मैत्री मैत्री च्छित्वासुतेन च, महामनस्विनानित्यं तथैव च मनस्विना. कालको अपलालश् च भागवाञ् छ्रामणेरकः, दधिमुखो मणिश् चैव पौण्डरीको दिशांपतिः. कर्कोटकः शंखपालः कम्बलाश्वोत्तराव् उभौ, एतेष्व् अपि च मे मैत्री नागराजेषु च नित्यशः. (म्म्व्र् तकु 6) साकेतश् च कुम्भीरः सूचिलोमा तथैव च, उरगाधिपेन कालेन मैत्री मे ऋषिकेन च. तथा पूरणकर्णेन मैत्री शकटमुखेन, कोलुकेन सुनन्देन वात्सीपुत्रेण मे सदा. एलपत्रेण मे मैत्री लम्बुरकेन च, अमानुषाश् च ये नागास् तथैवोत्तरमानुषाः. मृगिलश् च महानागो मुचिलिन्दश् च विश्रुतः, पृथिवीचराश् च ये नागास् तथैव जलनिश्रिताः. अन्तरीक्षचरा ये च ये च मेरुसमाश्रिताः, एकशीर्षद्विशीर्षाहि मैत्री मे तेषु नित्यशः. अपादकेषु मे मैत्री मैत्री मे द्विपदेषु च, चतुष्पदेषु मे मैत्री मैत्री बहुपदेषु च. मा मे अपादका हिंस्युर् मा मे हिंस्युर् द्विपादकाः, मा मे चतुष्पदा हिंस्युर् मा मे हिंस्युर् बहुपादकाः. सर्वनागेषु मे मैत्री ये नागा जलनिश्रिताः, सर्वभूतेषु मे मैत्री ये केचित् पृथिवीस्थिताः. सर्वसत्वेषु मे मैत्री ये सत्वा अत्र स्थावराः, सर्वे सत्वाः सर्वे प्राणाः सर्वे भूताश् च केवलाः. सर्वे वै सुखिनः सन्तु सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु मा कश्चित् पापम् आगमतु. मैत्रीचित्तं समोत्थाय करोमि विषदूषणं, रक्षां परिग्रहं चैव तथैव परिपालनं. नमो ऽस्तु बुद्धाय नमो ऽस्तु बोधये, (म्म्व्र् तकु 7) नमो ऽस्तु मुक्ताय नमो ऽस्तु मुक्तये. नमो ऽस्तु शान्ताय नमो ऽस्तु शान्तये, नमो विमुक्ताय नमो विमुक्तये. ये ब्राह्मणा वाहितपापधर्माः, तेषां नमस् ते च मम पालयंतु.

सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वोपसर्गोपायासेभ्यः सर्वज्वरेभ्यः सर्वव्याधिभ्यः सर्वग्रहेभ्यः सर्वविषेभ्यः मम सर्वसत्वानां च रक्षां कुर्वन्तु, जीवन्तु वर्षशतं पश्यन्तु शरदाशतं.

भूतपूर्वम् आनन्द हिमवतः पर्वतराजस्य दक्षिणे पार्श्वे सुवर्णावभासो नामो मयूरराजा प्रतिवसति स्म. सो ऽप्य् अनया महामायूर्या विद्याराज्ञ्या कल्यं स्वस्त्ययनं कृत्वा दिवा स्वस्तिना विहरति. सायं स्वस्त्ययनं कृत्वा रात्रौ स्वस्तिना विहरति.

नमो बुद्धाय नमो धर्माय नमः संघाय नमो भगवत्यै महामायूर्यै विद्याराज्ञ्यै. तद्यथा

हु हु हु हु हु हु, नाग ले ले ले, दुम्ब ले ले ले, हुय हुय, विज विज, थुस थुस, गुरु गुरु, हे चेजिनि, अगलु, एला मेला, इलि मेला, तिलि मेला, इलि तिलि मेला, इलि मित्ते, तिलि मित्ते इलि तिलि मित्ते, दुम्बे सुदुम्बे, तोसु तोसु, गोला वेला चपला विमला, इट्टिरि भिट्टिरि रिट्टिरि, नमो बुद्धानां चिलिकिसि गोदोहिकानां नमो ऽर्हतां हाल दाल वर्षतु देवः समन्तेन दशसु दिशासु. नमो बुद्धानां स्वाहा.

सो ऽपरेण समयेनानया महामायूर्या विद्याराज्ञ्या रक्षास्वस्त्ययनम् अकृत्वा संबहुलाभिर् वनमयूरकन्याभिः सार्धम् आरामेणारामम् उद्यानेनोद्यानं पर्वतपार्श्वेन (म्म्व्र् तकु 8) पर्वतपार्श्वं कामेषु गृध्र आसक्तो मदमत्तः प्रमूढः प्रमूर्च्छितः प्रलुडितो ऽनुविचरन् प्रमादवशाद् अन्यतरं पर्वतविवरम् अनुप्रविष्टः. स तत्र दीर्घरात्रं प्रत्यर्थिकैः प्रत्यमित्रैर् हिंसकैर् अवतारप्रेक्षिभिर् अवतारगवेषिभिर् मयूरपाशैर् बद्धः. सो ऽमित्रमध्यगतः स्मृतिं प्रतिलब्धः, इमाम् एव महामायूरीविद्याराज्ञीं मनस्यकार्षीत्.

नमो बुद्धाय नमो धर्माय नमः संघाय नमो भगवत्यै महामायूर्यै विद्याराज्ञ्यै. तद्यथा

हु हु हु हु हु हु, हुलु हुलु हुलु, नाग ले ले ले, दुम्ब ले ले ले, नाग ले ले ले, हुय हुय, विज विज, थुसु थुसु, गुलु गुलु, हु चेजिनि, अगलु, एला मेला, इलि मेला, तिलि मेला, इलि मित्ते तिलि मित्ते, इलि तिलि मित्ते, दुम्बे सुदुम्बे, तोसु तोसु, गोला वेला चपला विमला, इट्टिरि भिट्टिरि रिट्टिरि, नमो बुद्धानां. चिलिकिसि गोदोहिकानां. नमो ऽर्हतां हाल दाल वर्षतु देवः समन्तेन दशसु दिशासु. नमो बुद्धानां स्वाहा.

अथ स तस्माद् व्यसनात् परिमुक्तः, स्वस्तिना क्षेमेण स्वविषयम् अनुप्राप्तः. इमानि च मन्त्रपदान्य् उदाहरति स्म.

नमो बुद्धाय नमो धर्माय नमः संघाय नमः सुवर्णावभासस्य मयूरराज्ञः, नमो महामायूर्यै विद्याराज्ञ्यै. तद्यथा

सिद्धे सुसुद्धे, मोचनि मोक्षनि, मुक्ते विमुक्ते, अमले विमले निर्मले, अण्डरे पण्डरे, मङ्गले मङ्गल्ये, हिरण्ये हिरण्यगर्भे, रत्ने रत्नगर्भे, भद्रे सुभद्रे समन्तभद्रे, सर्वार्थसाधनि परमार्थसाधनि, सर्वानर्थप्रशमनि सर्वमङ्गलसाधनि, सर्वमङ्गलवाधनि, मनसि मानसि महामानसि, अद्भुते अत्यभुते, मुक्ते मोचनि मोक्षनि, अच्युते, अरजे विरजे, विमले, अमृते अमरे अमरणि ब्रह्मे ब्रह्मस्वरे, पूर्णे पूर्णमनोरथे, मृतसंजीवनि, श्रीभद्रे चन्द्रे चन्द्रप्रभे, सूर्ये सूर्यकान्ते, वीतभये, सुवर्णे ब्रह्मघोषे ब्रह्मजेष्ठे (म्म्व्र् तकु 9) सर्वत्राप्रतिहते, रक्ष रक्ष मां सर्वसत्वानांश् च स्वाहा. नमः सर्वबुद्धानां स्वस्तिर् भवतु स्वातेर् भिक्षोर् मम सर्वसत्वानाञ् च. जीवन्तु वर्षशतं पश्यन्तु शरदाशतं. तद्यथा.

हुचि गुचि मुचि स्वाहा.

स्यात् खलु पुनर् आनन्द अन्यः स तेन कालेन तेन समयेन सुवर्णावभासो नाम मयूरराजा बभूवेति. न पुनर् एवं द्रष्टव्यम्. तत् कस्य हेतोः. अहम् एव स तेन कालेन तेन समयेन सुवर्णावभासो नाम मयूरराजा बभूव. अस्याश् चानन्द महामायूर्या विद्याराज्ञ्या एतर्हि हृदयम् अनुव्याख्यास्यामि. तद्यथा.

इलि मित्ति, तिलि मित्ति, तिलि मिलि मित्ति, तिलि मिले, मिलि तिलि मित्ति, चिलि मिलि मिलि, चिलि मिलि मिलि, तिलि मिलि, सुतुम्बा तुम्बा, सुवच चिलिकिसिय, भिन्न मेडि. नमो बुद्धानां चिलिकिसि प्राप्तमूले, इतिहारा लोहितमूले, तुम्बा सुतुम्बा कुट्टि कुनट्टि, तिल कुञ्ज नट्टि, अडकवात्यायां, वर्षतु देवो नव मासान् दश मासान् इति. इलि मिलि किलि मिलि केलि मिलि, केतुमूले, दुदुम्बे सुदुम्बे, सुदुमोडे, दलिमे सन्तुवट्टे बुसवट्टे, वुसर वुसर, धनवस्त्रके, नर्कला नर्कलिमे, खलिमे घोषे रखिले इति, सज्जले, तुम्बे सुतुम्बे, अट्टे नट्टे प्रनट्टे अणनट्टे, अनमाले, वर्षतु देवो नवोदकेन सर्वतः समन्तेन नारायणि पारायणि हरितालि कुन्तालि, इलि मिस्ति, किलि मिस्ति, इलि किलि मिस्ति, इलि मे सिध्यन्तु, द्रामिडा मन्त्रपदाः स्वाहा.

इदम् आनन्द महामायूर्या राज्ञ्या हृदयं. इयं चानन्द महामायूरी विद्याराज्ञी ग्रामगतेन मनसिकर्तव्या, अरण्यगतेन मनसिकर्तव्या, पथिगतेन मनसिकर्तव्या, उत्पथगतेन, राजकुलमध्यगतेन, चौरमध्यगतेन, अग्निमध्यगतेन, उदकमध्यगतेन, प्रत्यर्थिकमध्यगतेन, पर्षन्मध्यगतेन, विवादमध्यगतेन, अहिदष्टेन, विषपीतेन, सर्वभयसन्निपातेन च (म्म्व्र् तकु 10) मनसिकर्तव्या, ज्वरितेन मनसिकर्तव्या. वातिकपैत्तिकश्लेष्मिकसान्निपातिकेषु चतुरुत्तरेषु चतुर्षु व्याधिशतेषु, अन्यतरान्यतरेण व्याधिना स्पृष्टः समानापत्सु वासम् उत्पन्नासु मनसिकर्तव्या. तत् कस्य हेतोः. वध्यार्हो ऽप्य् आनन्द दण्डेन मुच्यते दण्डार्हः प्रहारेण, प्रहारार्ह आक्रोशेन, आक्रोशार्हः, परिभाषेन, परिभाषार्हो रोमहर्षणेन, रोमहर्षणार्ह एवम् एव मुच्यते. सर्वव्याधिविनिर्वृत्तिश् चास्य भविष्यति. इमानि चानन्द विद्यमन्त्रपदानि मनसिकर्तव्यानि. तद्यथा.

चिलि मिलि किलि मिलि केतुमूले बुद्धवर्णे वुसरणे वुसरणे, वुदारणि वुदारणि, केवट्टे केवट्टकमूले, इति सवले, तुंबे तुंबे, प्रियं करे आवर्त्त परिवर्त्त नवोदकेन वर्षतु देवः समन्तेन. नमो भगवते इट्टित्ताय इन्द्रगोमिसिकाय आशने पाशने पापनिकूले, कपिलमित्ते इलि मित्ते, नमो भगवते बुद्धाये, सिध्यन्तु मन्त्रपदाः मम सर्वसत्वानाञ् च स्वाहा.

अनया चानन्द महामायूर्या विद्याराज्ञ्या तथागतभाषितया स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुरु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुरु. जीवतु वर्षशतं पश्यतु शरदाशतं. नाहम् आनन्द समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रवणब्राह्मणिकायां प्रजायां सदेवमानुष्यासुरायां यस्यानया महामायूर्या विद्याराज्ञ्या रक्षया कृतया गुप्त्या परित्राणेन परिग्रहेण परिपलानेन शान्त्या स्वस्त्ययनेन दण्डपरिहारेण शस्त्रपरिहारेण विषदूषणेन विषनाशनेन सीमाबन्धेन धरणीबन्धेन च कृतेन, कश्चिद् एव विहेठायोपसंक्रामेत्. देवो वा देवा वा देवपुत्रो वा देवदुहिता वा देवमहल्लको वा देवमहल्लिका वा देवपार्षदो (म्म्व्र् तकु 11) वा देवपार्षदी वा, नागो वा नागी वा नागपुत्रो वा नागदुहिता वा नागमहल्लको वा नागमहल्लिका वा नागपार्षदो वा नागपार्षदी वा, असुरो वा असुरी वा असुरपुत्रो वा असुरदुहिता वा असुरमहल्लको वा असुरमहल्लिका वा असुरपार्षदो वा असुरपार्षदी वा, मरुतो वा मरुती वा मरुतपुत्रो वा मरुतदुहिता वा मरुतमहल्लको वा मरुतमहल्लिका वा मरुतपार्षदो वा मरुतपार्षदी वा, गरुडो वा गरुडी वा गरुडपुत्रो वा गरुडदुहिता वा गरुडमहल्लको वा गरुडमहल्लिका वा गरुडपार्षदो वा गरुडपार्षदी वा, गन्धर्वो वा गन्धर्वी वा गन्धर्वपुत्रो वा गन्धर्वदुहिता वा गन्धर्वमहल्लको वा गन्धर्वमहल्लिका वा गन्धर्वपार्षदो वा गन्धर्वपार्षदी वा, किन्नरो वा किन्नरी वा किन्नरपुत्रो वा किन्नरदुहिता वा किन्नरमहल्लको वा किन्नरमहल्लिका वा

किन्नरपार्षदो वा किन्नरपार्षदी वा, महोरगो वा महोरगी वा महोरगपुत्रो वा महोरगदुहिता वा महोरगमहल्लको वा महोरगमहल्लिका वा महोरगपार्षदो वा महोरगपार्षदी वा, यक्षो वा यक्षी वा यक्षपुत्रो वा यक्षदुहिता वा यक्षमहल्लको वा यक्षमहल्लिका वा यक्षपार्षदो वा यक्षपार्षदी वा, राक्षसो वा राक्षसी वा राक्षसपुत्रो वा राक्षसदुहिता वा राक्षसमहल्लको वा राक्षसमहल्लिका वा राक्षसपार्षदो वा राक्षसपार्षदी वा, प्रेतो वा प्रेती वा प्रेतपुत्रो वा प्रेतदुहिता वा प्रेतमहल्लको वा प्रेतमहल्लिका वा प्रेतपार्षदो वा प्रेतपार्षदी वा, पिशाचो वा पिशाची वा पिशाचपुत्रो वा पिशाचदुहिता वा पिशाचमहल्लको वा पिशाचमहल्लिका वा पिशाचपार्षदो वा पिशाचपार्षदी वा, भूतो वा भूती वा भूतपुत्रो वा भूतदुहिता वा भूतमहल्लको वा भूतमहल्लिका वा भूतपार्षदो वा भूतपार्षदी वा, कुम्भाण्डो वा कुम्भाण्डी वा कुम्भाण्डपुत्रो वा कुम्भाण्डदुहिता वा कुम्भाण्डमहल्लको वा कुम्भाण्डमहल्लिका वा कुम्भाण्डपार्षदो वा कुम्भाण्डपार्षदी वा, पूतनो वा पूतनी वा पूतनपुत्रो वा पूतनदुहिता वा पूतनमहल्लको वा पूतनमहल्लिका वा पूतनपार्षदो वा पूतनपार्षदी वा, कटपूतनो वा कटपूतनी वा कटपूतनपुत्रो वा कटपूतनदुहिता वा कटपूतनमहल्लको वा कटपूतनमहल्लिका वा कटपूतनपार्षदो वा कटपूतनपार्षदी वा, स्कन्दो वा स्कन्दी वा स्कन्दपुत्रो वा स्कन्ददुहिता वा स्कन्दमहल्लको वा स्कन्दमहल्लिका वा स्कन्दपार्षदो वा स्कन्दपार्षदी वा, उन्मादो वा उन्मदी वा उन्मादपुत्रो वा उन्माददुहिता वा उन्मादमहल्लको वा उन्मादमहल्लिका वा उन्मादपार्षदो वा उन्मादपार्षदी वा, च्छायो वा च्छायी वा च्छायपुत्रो वा

च्छायदुहिता वा च्छायमहल्लको (म्म्व्र् तकु 12) वा च्छायमहल्लिका वा च्छायपार्षदो वा च्छायपार्षदी वा, अपस्मारो वा अपस्मारी वा अपस्मारपुत्रो वा अपस्मारदुहिता वा अपस्मारमहल्लको वा अपस्मारमहल्लिका वा अपस्मारपार्षदो वा अपस्मारपार्षदी वा, ओस्तारको वा ओस्तारकी वा ओस्तारकपुत्रो वा ओस्तारकदुहिता वा ओस्तारकमहल्लको वा ओस्तारकमहल्लिका वा ओस्तारकपार्षदो वा ओस्तारकपार्षदी वा, उपसंक्रमिष्यत्य् उपस्थास्यत्य् अवतारार्थी अवतारगवेषी अवतारं न लप्स्यते. न देवो देवसमितीये स्थानं, न नागो नागसमितीये स्थानं, नासुरो ऽसुरसमितीये स्थानं, न मरुतो मरुतसमितीये स्थानं, न गरुडो गरुडसमितीये स्थानं, न गन्धर्वो गन्धर्वसमितीये स्थानं, न किन्नरः किन्नरसमितीये स्थानं, न महोरगो महोरगसमितीये स्थानं, न यक्षो यक्षसमितीये स्थानं, न राक्षसो राक्षससमितीये स्थानं, न प्रेतः प्रेतसमितीये स्थानं, न पिशाचः पिशाचसमितीये स्थानं, न भूतो भूतसमितीये स्थानं, न कुम्भाण्डो कुम्भाण्डसमितीये स्थानं, न पूतनः पूतनसमितीये स्थानं, न कटपूतनः कटपूतनसमितीये स्थानं, न स्कन्दः स्कन्दसमितीये स्थानं, न उन्माद उन्मादसमितीये स्थानं, नापस्मारो ऽपस्मारसमितीये स्थानं, न्ऽओस्तारक ओस्तारकसमितीये स्थानं लप्स्यते. यश् चैमं महाविद्यां कश्चिद् अतिक्रमिष्यति सप्तधास्य स्फुटेन् मूर्धा अर्जुकस्येव मंजरी. इमानि चात्र मन्त्रपदानि मनसिकर्तव्यानि. तद्यथा

इलि मिलि, किलि मिलि, किलि किं दुग्धे, मुक्ते सुमुक्ते, ऊड नाड सुनाड, वर्षतु देवः परमडकवत्यायां, आरा पारा गोदोहिका, इलि मिलि भिज्जिलिका उदुका डदुका करोडुका इलि मिलि तिलि मिलि, समन्ततः कृत्वा, हुलु हुलु हिलि हिलि, मिलि मिलि मिलि मिलि, पिलि पिलि पिलि पिलि, किलि किलि, शीर्षेण वर्षं, चुलु चुलु, चल चल, चिलि चिलि, चिडि चिडि चिडि चिडि, शिखि शिखि शिखि शिखि, जुहु जुहु जुहु जुहु जुहु जुहु जुहु जुहु जुहु जुहु, हर हर हरणे, जंभे प्रजंभे, सर्वदुष्टप्रदुष्टानां च जंभे प्रजंभे, स्वातेर् (म्म्व्र् तकु 13) भिक्षोर् मम सर्वसत्वानां च रक्षां करोमि, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोमि. जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

चित्रमूले चित्रे चित्रमाले, हले हलमाले, फले फलमाले, हले हले, माले माले, खुलु खुलु वुरु वरुणो, धीरे धर्य, सुरु सुरु, हतं विषं, निहतं विषं, सर्वदुष्टप्रदुष्टानां द्रंष्ट्राविषं मूलविषं अन्नविषं सर्वबुद्धानां तेजसा, सुरु सुरु के, चर चर के, बिरि बिरि, हतं विषं, नास्ति विषं, सप्तानां सम्यक्संबुद्धानां, सश्रावकसंघानां तेजसा, एल मेला, इलि मेला, तिलि मेला, तिह दुह तिलिमा तिमा दुमा, विमधु सुकुम्भा सुम्भा तुम्बा समतुम्बा, आडे नाडे, तिल कुञ्जनाडे, वर्षतु देवः, तिलिकिसि समन्तेन नवमासां, मैत्री मे सर्वसत्वेषु वुशडे शवरिणि वुदारिणि वुदारिणि, केवट्टे केवट्टकमूले इतिशबरे, तुंबे तुंबे प्रियं करे, आवट्ट परिवट्ट, नवोदकेन वर्षतु देवः समन्तेन, नमो भगवते इन्द्रगोमिसिकाय इट्टिताय गोदोहिकाय भृङ्गारिकाय, अले तले कुन्तले, अट्टे नट्टे कुनट्टे आशने पाशने, पापनिकूले प्रतिकूले, नमो भगवतां बुद्धानां. सिध्यन्तु मन्त्रपदाः स्वाहा.

अशोकम् आश्रित्य जिनो विपश्यी शिखी जिनः पुण्डरीकस्य मूले, शालस्य मूले उपगम्य विश्वभूत् शिरीषमूले क्रकुच्छन्दब्राह्मणः. बुद्धश् च कनकमुनि उदुंबरे न्यग्रोधमूले उपगम्य काश्यपः, अश्वत्थमूले मुनि शाक्यपुङ्गवः उपेत्य बोधिं समवाप्य गोतमः. एतेषु बुद्धेषु महर्द्धिकेषु (म्म्व्र् तकु 14) या देवताः सन्ति अतिप्रसन्नाः, ता देवता मुदितमना उदग्राः कुर्वन्तु शान्तिं च शिवं च नित्यं.

तद्यथा.

इलि मिलि, किलि मिलि, चिलि किलि वोलि, उदुम्बरे, सुदुमोडे, बुसर बुसर, हु हु, करञ्जे करञ्जमूले, इति सनता कुन्तरि कुन्तारि, नारायणि पारायणि, पश्यनि पश्य पश्यनि कपिलवस्तुनि, इडिवा इडिवा इरिवा सिध्यन्तु, द्रविडा मन्त्रपदाः स्वाहा.

इमाः पुनर् आनन्द महौषधयो ब्रह्मणा सहापतिना भाषिताः, शक्रेण देवानाम् इन्द्रेण चतुर्भिश् च महाराजैर् अष्टाविंशतिभिश् च महायक्षसेनापतिभिश् च. यो ह्य् आनन्द आसां महौषधीनां नामसु गृह्यमानेषु कश्चित् प्रदुष्टचित्त उपसंक्रामेत्, सप्तधास्य स्फुटो मूर्धा अर्जकस्येव मञ्जरी. तद्यथा.

कीर्त्तिमूले एरमूले एरण्डमूले समन्तमूले, अडनाडे कुशनाडे, इत्ते मित्ते, पारु अडका मरडका, इलिकिशि गोदोहिका, उद्वन्धमाभि भिन्ने मेदा. नमो बुद्धानां.

स्वस्ति वो द्विपदे भोतु, स्वस्ति वो ऽस्तु चतुष्पदे, स्वस्ति मार्गव्रजतां च स्वस्ति प्रत्यागतेषु च. स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्यंदिने स्थिते, सर्वत्र स्वस्ति वो भोतु मा चैषा पापम् आगमेत्. सर्वे दिवसः कल्याणाः सर्वे नक्षत्रा भद्रकाः, सर्वबुद्धा महर्द्धिकाः सर्वे ऽर्हन्तो निराश्रवाः, (म्म्व्र् तकु 15) अनेन सत्यवाकेन स्वस्तिर् भोतु समन्ततः.

अनया महामायूर्या विद्याराज्ञ्या तथागतभाषितया स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुरु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुरु. जीवतु वर्षशतं पश्यतु शरदाशतं.

ये चानन्द यक्षा महायक्षाः समुद्रकूले प्रतिवसन्ति. ये च सुमेरौ पर्वतराजे, ये चान्येषु पर्वतराजेषु, अटवीषु महाटवीषु नदीषु महानदीषु कुंजेषु महाकुंजेषु विणेषु तडागेषु पल्वलेषु गिरिगुहाश्मशानेषु चत्वरेषु महाचत्वरेषु चतुष्पथेषु शृङ्गाटकेषु नगरेषु महानगरेषु घोषेषु ग्रामेषु उद्यानेषु वनेषु काननेषु पथेषु उत्पथेषु च, ये चानन्द यक्षा महायक्षा अडकवत्यां राजधान्यां प्रतिवसन्ति, ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

हरि हारिणि, चलि चालिनि, त्रमणि त्रामणि मोहनि स्तंभनि जंभनि स्वयंभुवे स्वाहा.

पूर्वायाम् आनन्द दिशायां धृतराष्ट्रो नाम गन्धर्वमहाराजा प्रतिवसति, गन्धर्वाधिपतिर् अनेकगन्धर्वशतसहस्रपरिवारो गन्धर्वाणाम् आधिपत्यं कारयति. यः पूर्वां दिशं रक्षति परिपालयति, सो ऽपि सपुत्रः सपौत्रः सभ्राता सामात्यः ससेनापतिः सप्रेष्यः सदूतः सप्रवरः सपार्षदो ऽनया महामायूर्या (म्म्व्र् तकु 16) विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोतु. जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

सुरु सुरु सुरु सुरु सुरु सुरु सुरु सुरु सुरु सुरु मे स्वाहा.

दक्षिणायाम् आनन्द दिशायां विरूढको नाम कुम्भाण्डमहाराजा प्रतिवसति स्म, कुम्भाण्डाधिपतिर् अनेककुम्भाण्डशतसहस्रपरिवारः कुम्भाण्डानाम् आधिपत्यं कारयति. यो दक्षिणां दिशं रक्षति परिपालयति, सो ऽपि सपुत्रः सपौत्रः सभ्राता सामात्यः ससेनापतिः सप्रेष्यः सदूतः सप्रवरः सपार्षदो ऽनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोतु. जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

वेलुके वेलुके अमित्रघातनी वरुणवति सोमवति वेणुमालिनि वेलुनि पुत्रिके चो चू चि चू स्वाहा.

पश्चिमायाम् आनन्द दिशायां विरूपाक्षो नाम नागमहाराजा प्रतिवसति, नागाधिपतिर् अनेकनागशतसहस्रपरिवारो नागानाम् आधिपत्यं कारयति. यः पश्चिमां दिशं रक्षति परिपालयति, सो ऽपि सपुत्रः सपौत्रः सभ्राता सामात्यः ससेनापतिः सप्रेष्यः सदूतः सप्रवरः सपार्षदो ऽनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं (म्म्व्र् तकु 17) सीमाबन्धं धरणीबन्धं च करोतु. जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

वेदुरि वेदुरि वेदुरि वेदुरि, मट्टिते मट्टिते, कोटि कोटि, विद्युमति, हु हु हु हु हु हु हु हु, चु चु चु चु चु चु चु चु, रु रु रु रु रु रु रु रु, च च च च च च च च, स स्वाहा.

उत्तरायाम् आनन्द दिशायां वैश्रमणो नाम यक्षमहाराजा प्रतिवसति, यक्षाधिपतिर् अनेकयक्षशतसहस्रपरिवारो यक्षाणाम् आधिपत्यं कारयति. य उत्तरां दिशं रक्षति परिपालयति, सो ऽपि सपुत्रः सपौत्रः सभ्राता सामात्यः ससेनापतिः सप्रेष्यः सदूतः सप्रवरः सपार्षदो ऽनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोतु. जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

सोरि सोरि, सिरि सिरि, मति मति, हिरि हिरि, मति पेले मति पेले, पिंगले चुरु चुरु, हतं विषं, बन्धुमति, निहतं विषं बन्धुमति स्वाहा.

पूर्वेण धृतराष्ट्रस् तु दक्षिणेन विरूढकः, पश्चिमेन विरूपाक्षः कुबेरश् चोत्तरादिशं. चत्वार एते महाराजा लोकपाला यशस्विनः, दिशश् चतस्रः परिपालयन्ति महासैन्या महाबलाः. परचक्रप्रमथनाः दुर्धर्षा चापराजिताः, ऋद्धिमन्तो द्युतिमन्तो वर्णवन्तो यशस्विनः, देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः.

(म्म्व्र् तकु 18) ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

एले मेले, किले तिले, मिले शिले, वासे, दुंबे दुंबे, वर्षतु देवः समन्तेन हिलि मिलि तुंबे तुंबे, अट्ट वट्ट परदु वत्ता वर्षतु देवो गुड गुडन्तु समन्तेनाडकोवत्यां, अण्डे मण्डे तुन्दे तुतुन्दे चुर्के वुक्के, इरिडि मिरिडि निरिडि चिरिडि, हिलि हिलि, हुलु हुलु, मिलि मिलि, तुले ततले स्वाहा.

उद्गृह्ण त्वम् आनन्द महायक्षसेनापतीनां नामानि ये धरण्यां प्रतिवसन्ति.

जेष्ठपुत्रः कुबेरस्य संजयो नरवाहनः. मिथिलायां प्रतिवसति देवसत्योपयाचकः.

सो ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोतु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

बले बल्कले, मातंगि चण्डलि पुरुष, निचि निचि निगौरि गन्धारे, चण्डालि मातंगि, मालिनि हिलि हिलि, आगति गति, गौरि गन्धारि कौष्ठिका वचरि विहारि, हिलि हिलि, कुंजे स्वाहा.

क्रकुच्छन्दः पाटलिपुत्रे ष्ठलायां चापराजितः, शैलो भद्रपुरे यक्ष उत्तरायां च मानवः. वज्रपाणि राजगृहे गृध्रकूटे कृतालये, त्रिकृत्वो अनुपर्यन्ति सागरान् तां वसुंधरां, महाबलो महातेजा दशयोजनविक्रमः. (म्म्व्र् तकु 19) गरुडो विपुले यक्षः चित्रगुप्तश् चितीमुखे, राजगृहे वक्कुलो यक्षो महासैन्यो महाबलः. कालोपकालकौ यक्षौ वसथः कपिलवस्तुनि, यत्र जातो मुनि बुद्धः शाक्यकेतुर् महामुनिः. कल्माषपादो वैरायां किरातेषु महेश्वरः, बृहस्पतिश् च श्रावस्त्यां साकेते सागरो वसेत्. वज्रयुधश् च वैशाल्यां मल्लेषु हरिपिङ्गलः, वाराणस्यां महाकालश् चंपायां च सुदर्शनः. विष्णुर् यक्षो द्वारकायां धरणो द्वारपालियां, विभूषनस् ताम्रपर्ण्यां उरगायां च मर्दनः. आटव्यां आटवको यक्षः कपिलो बहुधन्यके, उज्जयन्यां वसुत्रातो वसुभूमिर् अवन्तिषु. भरुको भरुकच्छेषु नन्दो नन्दपुरे स्थितः, अग्रोदके माल्यधर आनन्दो ऽमरपर्वते. शुक्लदंष्ट्रः सुवास्तुषु दृढनामा मनस्विषु, महागिरिर् गिरिनगरे वासवो वैदिशे वशेत्. रोहितके कार्त्तिकेयः कुमारो लोकविश्रुतः, वर्णभटे शतबाहुः कलिंगेषु वृहद्रथ. दुर्योधनश् च श्रुघ्नेषु अर्जुनश् चार्जुनवने, मर्दने मण्डपो यक्षो गिरिकूटश् च मालवे. भद्रश् च रोहिताश्वेषु सर्वभद्रश् च सागरे, सन्टीरके पालितकः सार्थवाहो धनेश्वरे. अजितंजये कूटदंष्ट्रो वसुभद्रो वसातिषु, (म्म्व्र् तकु 20) शिवः शिवपुराधाने शिवभद्रश् च भीषणे. इन्द्रश् चेन्द्रपुरे यक्षः पुष्पकेतुः शिलापुरे, दारुको दारुकपुरे कपिलो वसति वर्णिषु. मणिभद्रो ब्रह्मवत्यां पूर्णभद्रश् च ब्रातरौ, प्रमर्दनश् च गान्धारे तक्षशिलायां

प्रभञ्जनः. खरोपोष्ट महायक्षो दशशैलनिवासिकः, त्रिगुप्तो हनुमतीरे रौरुके च प्रभंकरः. नन्दी च वर्धनश् चैव नगरे नन्दिवर्धने, वायिरो वायिभूमीये लंपाके कलहप्रियः. मथुलायां गर्दभको लंकायां कोलशोदरः, शून्ये सूर्यप्रभो यक्षो गिरिमुण्डश् च कोशले. विजयो वैजयन्तश् च वसतः पाण्डमाथुरे, मलये पूर्णको यक्षः केरलेषु च किन्नरः. पौण्डेषु मेघमालि प्रतिष्ठाने खण्डकः, पितंगलेषु शंकाली तरंगवत्यां सुखावहः. नासिके सुन्दरो यक्ष आसंगो तरुकच्छके, नन्दिके च पितानन्दी वीरश् च करहाटके. लम्बोदरः कलिंगेषु कौशल्यायां महाभुजः, स्वस्तिकः स्वस्तिकटके वनवास्यां च पालकः. तटिस्कन्धे भद्रकर्णः षदपुरे धनवरः, वैरामके बलो यक्षो अवन्त्यां प्रियदर्शनः. गोमर्दने शिखण्डी च वैदेशे चांगुलिप्रियः, (म्म्व्र् तकु 21) छत्राकारे वेष्टितकस् त्रिपुर्यां मकरंदमः. एककक्षे विशालाक्षो अण्डभश् च उदुम्बरे, अनाभोगश् च वैशाल्यां शान्तिवत्यां विरोचनः. अहिच्छत्रे चरितकः कम्पिल्ये कपिलस् तथा, बक्कुलो उज्जहान्यायां मण्डव्यां पूर्णकस् तथा. नैगमेशश् च पांचाल्यां प्रसभो गजसाह्वये, वरुणायां दृढधनुः योधेये च पुरंजयः. कुरुक्षेत्रे च यक्षेन्द्रौ तरर्ककुरुतरर्कौ, यक्षीख्याता च तत्रैव महोल्लूखलमेखलौ. व्यतिपातनः सिद्धार्थ आयतीवानिवासिनः, सिद्धपात्रस् तथा श्रुघ्ने स्थलायां स्थल एव च. यक्षौ सिंहबलौ यौ तु सिंहव्याघ्रबलाबलौ, कोटिवर्षेमहासेनस् तथा परपुरंजये. पुष्पदन्तश् च चंपायां मगधश् च गिरिब्रजे, गोयोगे पर्वतो यक्षः सुसेनश् चैव नागरे. वीरबाहुश् च साकेते काकट्यां च

सुखावहः, कौशाम्ब्यां चाप्य् अनायसो भद्रिकायां च भद्रिकः. यक्षः पाटलिपुत्रे च नाम्ना भूतमुखस् तथा, अशोकश् चैव कांचीषु अम्बष्ठेषु कटंकटः. भरुकच्छे व सिद्धार्थो मन्दकश् चाजितंजये, अग्रोदके मंजकेशः सैन्धवे मणिकाननः. विकटंकटाश् च ये यक्षा वसन्ते कपिलवस्तुनि, गान्धारके नैकृतिको द्वारको निलयध्रुवे. (म्म्व्र् तकु 22) यक्षो मध्यमकीयश् च सौभद्रिये महायशे, वैराटकः सारपुरे जम्भको मरुभूमिषु. यक्षो वृन्दकटे ख्यातः तथा विकट इत्य् अपि, वेमानिको देवसर्मे दरदेषु च मन्दरः. प्रभंकरश् च कश्मीरे चम्पकस् च जटापुरे, पाञ्चिक इति नाम्ना तु वसते सिंधु सिंधुषु. पंचपुत्रशता यस्य महासैन्या महाबलाः, जेष्ठपुत्रः पाञ्चिकस्य वसते चीनभूमिषु. स्कन्धाक्ष इति नामेन स भ्राता कौशिके वसेत्, उष्ट्रपादः कलिंगेषु मण्डलो मण्डलासने. लंकेश्वरश् च कापिश्यां मारीची रामकांक्षियां, धर्मपालश् च खाशेषु बह्ल्याञ् चैव महाभुजः. जिनर्षभो राजपुत्रः श्रीमान् वैश्रमणात्मजः, यक्षकोटीपरिवृतस् तुखारेषु निवासिकः. सातागिरिहैमवतौ वसतः सिंधुसागरे, त्रिशूलपाणि त्रिपुरे कलिंगेषु प्रमर्दनः. पाञ्चालगण्डो द्रमिडे सिंहलेषु धनेश्वरः, शुकामुखश् चाटव्यां पाताले किंकरो वसेत्. प्रभास्वरः पुण्डरीके समिलश् च महापुरे, प्रभंजनश् च दरदेषु पिङ्गलो ऽम्बुलिमे वसेत्. वच्चडो उअच्चडाधाने मातलिश् चैव कामदे, (म्म्व्र् तकु 23) पुत्रीवटे सुप्रबुद्धः कापिश्यां नरकुवेरः. पारासरः पारतेषु शकस्थानेषु शंकरः, वेमचित्रश् च बाह्लीके केतकेषु च पिङ्गलः. पुण्डवर्धने पूर्णमुखः कराडश् चोडियानके, कुंभोदरः कौशलेषु मरुषु

मकरध्वजः. चित्रसेनश् च वोक्काने रमथेषु च रावणः, पिंगलश् चैव राशिने पत्नीये प्रियदर्शनः. कुम्भीरयक्षो राजगृहे विपुले ऽस्मिं निवासिकः, भूयः शतसहस्राणां यक्षेण पर्युपास्यते. अहिच्छत्रायां गोपाल अलको अलकापुरे, नन्दी व नन्दिनगरे ग्रामघोषे बलिः स्थितः. देवावतारे वैश्रमणः स्वसैन्यपरिपालकः, यक्षकोटिपरिवृतो ऽडकवत्यां निवासिकः. एते महर्द्धिका यक्षाः महासैन्या महाबलाः, परचक्रप्रमथना दुर्धर्षा अपराजिताह्. ऋद्धिमन्तो द्युतिमन्तो वर्णवन्तो यशस्विनः, देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः.

ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

अकटे विकटे हरिणि हारिणि धरणि धारणि, हुक्के हुक्के, वुक्के वुक्के, हन हन हन हन हन हन हन हन हन हन, अमित्रान् मम सर्वसत्वानां च, दह (म्म्व्र् तकु 24) दह दह दह दह दह दह दह दह दह, अहितैषिणो मम सर्वसत्वानां च, पच पच पच पच पच पच पच पच पच पच, प्रत्यर्थिकां मम सर्वसत्वानां च, धु धु धु धु धु धु धु धु धु धु, नाशय अहितैषिणो मम, हु हु हु हु हु हु हु हु हु हु, जिटि जिटि जिटि जिटि जिटि जिटि जिटि जिटि जिटि जिटि, नाशय शत्रून् मम सर्वसत्वानां च, चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु, हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि, मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि, फुरु फुरु फुरु फुरु फुरु फुरु फुरु फुरु फुरु फुरु, चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि, नाशय सर्वशत्रून् मम सर्वसत्वानां च, हिक्के मिक्के चिक्के चुक्के श्रीभद्रे मङ्गले समन्तभद्रे हिरण्यगर्भे, सर्वार्थसाधनि, अमले विमले, चन्द्रे चन्द्रप्रभे, सूर्ये सूर्यप्रभे सूर्यकान्ते, दुर्विज्ञेये दुंबे दुंबे दोदुंबे, प्रियंकरे रक्ष मां सर्वसत्वांश् च, जीवतु वर्षशतं पश्यतु शरदाशतं.

उद्गृह्ण त्वम् आनन्द महायक्षसेनापतीनां नामानि, ये दशदिशो रक्षन्ति परिपालयन्ति.

पूर्वायाम् आनन्द दिशायां चत्वारो महायक्षसेनापतयः प्रतिवसन्ति, ये पूर्वां दिशं रक्षन्ति परिपालयन्ति. तद्यथा. दीर्घः सुनेत्रः पूर्णकः कपिलश् चेति. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.

दक्षिणायाम् आनन्द दिशायां चत्वारो महायक्षसेनापतयः प्रतिवसन्ति, ये दक्षिणां दिशं रक्षन्ति परिपालयन्ति. तद्यथा सिंह उपसिंहः शंखिलो नन्दश् चेति. (म्म्व्र् तकु 25) ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.

पश्चिमायाम् आनन्द दिशायां चत्वारो महायक्षसेनापतयः प्रतिवसन्ति, ये पश्चिमां दिशं रक्षन्ति परिपालयन्ति. तद्यथा. हरिर् हरिकेशः प्रभुः पिङ्गलश् चेति. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.

उत्तरायाम् आनन्द दिशायां चत्वारो महायक्षसेनापतयः प्रतिवसन्ति, ये उत्तरां दिशं रक्षन्ति परिपालयन्ति. तद्यथा. धरणो धरनन्द उद्योगपालो विष्णुश् चेति. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.

चत्वार इम आनन्द महायक्षसेनापतयो ये विदिशासु प्रतिवसन्ति, ये विदिशो रक्षन्ति परिपालयन्ति. तद्यथा. पञ्चिकः पञ्चालगण्डः सातागिरिर् हैमवतश् च. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं (म्म्व्र् तकु 26) च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.

चत्वार इम आनन्द महायक्षसेनापतयो ये धरण्यां प्रतिवसन्ति, ये धरणीगतान् सत्वान् रक्षन्ति परिपालयन्ति. तद्यथा. भूमः सुभूमः काल उपकालश् चेति. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.

चत्वार इम आनन्द महायक्षसेनापतयो ये ऽन्तरीक्षे प्रतिवसन्ति, ये ऽन्तरीक्षे गतान् सत्वान् रक्षन्ति परिपालयन्ति. तद्यथा सूर्यः सोमो ऽग्निर् वायुश् चेति. ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.

उद्गृह्ण त्वम् आनन्द वैश्रवणस्य महाराजस्य धर्मभ्रातॄणां नामानि, ये सत्वान् रक्षन्ति परिपालयन्ति. ईतीश् चोपद्रवांश् चोपसर्गांश् च सर्वसत्वानां नाशयन्ति, लोकानुग्रहार्थं लोकम् अनुविचरन्ति. तद्यथा. इन्द्रः सोमः सूर्यो वरुणः प्रजापतिः भरद्वाजः ईशनश् चन्दनः कामः श्रेष्ठः कुनिकण्ठो निकण्ठको वडिर् मणिर् माणिचरः प्रणाद उपपञ्चकः सातागिरिर् हैमवतः (म्म्व्र् तकु 27) पूर्णकः खदिरः कोविदो गोपालयक्ष आटवको नरराजो जिनर्षभः पाञ्चालगण्डः सुमुखो दीर्घयक्षः सपरिजनश् चित्रसेनश् च गन्धर्वस् त्रिफाली च त्रिखण्ठकः दीर्घशक्तिश् च मातलिः.

एते यक्षाः महायक्षाः सेनायाः परिनायका ऋद्धिमन्तो द्युतिमन्तो वर्णवन्तो यशस्विनः वैश्रवणस्य महाराजस्य धर्मभ्रातरः, येषां वैश्रवणो महाराजा आरोचयति, अयं मे यक्षो विहेठयत्य् अयं मे न मुञ्चति, इमे वैश्रवणस्य महाराजस्य धर्मभ्रातरः, ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. परित्रायन्तु कलिकलहविग्रहविवादेभ्यः, परित्रायन्तु मनुष्यग्रहातः अमनुष्यग्रहातः, देवग्रहातः, नागग्रहातः, असुरग्रहातः, मरुतग्रहातः, गरुडग्रहातः, गन्धर्वग्रहातः, किंनरग्रहातः, महोरगग्रहातः, यक्षग्रहातः, राक्षसग्रहातः, प्रेतग्रहातः, पिशाचग्रहातः, भूतग्रहातः कुम्भाण्डग्रहातः, पूतनग्रहातः, कटपूतनग्रहातः, स्कन्दग्रहातः, उन्मादग्रहातः, छायाग्रहातः, अपस्मारग्रहातः, ओस्तारकग्रहातः, नक्षत्रग्रहातः लेपकग्रहातः, मम रक्षां कुर्वन्तु.

ओजोहारिणीतो रुधिराहारिणीतो वसाहारिणीतो मांसाहारिणीतो मेदाहारिणीतो मज्जाहारिणीतो, (म्म्व्र् तकु 28) जाताहारिणीतो जीविताहारिणीतो बल्याहारिणीतो माल्याहारिणीतो गन्धाहारिणीतः पुष्पाहारिणीतः फलाहारिणीतः सस्याहारिणीतो आहुत्याहारिणीतः पूयाहारिणीतो रुधिराहारिणीतो विष्टाहारिणीतो मूत्राहारिणीतः खेटाहारिणीतः श्लेष्माहारिणीतः सिंहानकाहारिणीतो वान्ताहारिणीतो विरिंक्ताहारिणीतो अशुच्याहारिणीतः स्यन्दिकाहारिणीतः स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं सर्वसत्वानां च परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, कृत्याकर्मणः काखोर्दकिरणाद् हवनातो हुवनात उन्मादातो भूतातो वेताडातश् चिच्चातः प्रेष्यकातो दुर्भुक्तातो दुश्छर्दितातो दुश्च्छायातो दुष्प्रेक्षितो दुर्लिखितातो दुर्ल्लंघितातो ऽवर्धूतात उत्त्रासात ओस्तारकातो ऽपस्मारतो वित्रासतो रक्षन्तु मां सर्वसत्वानां च. राजभयाच् चौरभयाद् अग्निभयाद् उदकभयात् परचक्रभयाद् दुर्भिक्षभयाद् अशनिभयाद् अकालमृत्युभयाद् धरणीकम्पभयाद् धनिकभयाच् चण्डमृगभयाद् अमित्रभयाद् मरणभयात् सर्वभयाद् रक्षां कुर्वन्तु स्वातेर् भिक्षोर् मम सर्वसत्वानां च दद्रूकण्डूकुष्ठभगन्दरार्षकिटिमपिस्तकपामावैसर्पलोहलिंगभयात्. शिरोर्त्तिम् अपनयन्तु. अर्धावभेदकम् अरोचकम् अक्षिरोगं नासारोगं मुखरोगं कण्ठरोगं हृद्रोगं गलग्रहं कर्णशूलं दन्तशूलं हृदयशूलं पार्श्वशूलं पृष्ठशूलं उदरशूलं गण्डशूलं वष्टिशूलं गुडशूलं योनिशूलं प्रजनशूलं ऊरुशूलं जंघाशूलं हस्तशूलं पादशूलं अङ्गप्रत्यङ्गशूलं ज्वरम् अपनयन्तु. एकाहिकं द्वाहिकं त्रैतीयकं (म्म्व्र् तकु 29) चातुर्थकं सप्ताहिकं अर्धमासिकं मासिकं द्वैमासिकं मौहूर्तिकं नित्यज्वरं विषमज्वरं भूतज्वरं प्रेतज्वरं मानुषज्वरं अमानुषज्वरं वातिकं पैत्तिकं श्लेष्मिकं सान्निपातिकं सर्वज्वरं सर्वव्याधिं सर्वग्रहं सर्वविषं सर्वपापं सर्वभयं च नाशयन्तु स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा.

द्वादशेमा आनन्द महापिशाच्यो याभिर् बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातो ऽपि रक्षितः, ताः पुनः कतमा द्वादश. तद्यथा.

लम्बा प्रलम्बा विलम्बा ओलम्बा हारीती हरिकेशी पिङ्गला काली कराली कम्बुग्रीवा काकी कलशोदरी चेति. एता द्वादश महापिशाच्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः. ता ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. इमानि चात्र मन्त्रपदानि भवन्ति. तद्यथा.

हरे खरे खुरे मले विमले मूले, मदेन्ति मत्ते मण्डितिके. हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा. स्वस्ति स्वस्ति स्वस्ति स्वस्ति. स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा.

अष्ट इमा आनन्द महापिशाच्यो मांसशोणितभोजिका मनुष्याणां विहेठिका याभिर् (म्म्व्र् तकु 30) बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातो ऽपि रक्षितः. ताः पुनः कतमाः. तद्यथा.

मदा मदना मदोत्कटा उपमदा प्रेती ओजोहारिणी असनी ग्रसनी चेति. एता अष्ट महापिशाच्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः. ता ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके. हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वस्ति स्वस्ति स्वस्ति स्वस्ति, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा. स्वस्ति स्वस्ति स्वस्ति स्वस्ति. स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा.

इमाः पुनर् आनन्द सप्त महापिशाच्यो मांसशोणितभोजिकाः, मनुष्याणां विहेठिका याभिर् बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातो ऽपि रक्षितः. ताः पुनः कतमाः. तद्यथा.

अग्रोदिका रक्षितिका चित्रपिशाचिका पूर्णभद्रिका अग्निरक्षितिका मित्रकालिका ऋषिरक्षितिका चेति. एताः सप्त महापिशाच्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः. ता ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके. हुलु हुलु हुलु हुलु (म्म्व्र् तकु 31) हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वस्ति स्वस्ति स्वस्ति स्वस्ति, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा.

इमाः पुनर् आनन्द पञ्च महाराक्षस्यो याभिर् बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातो ऽपि रक्षितः. ताः पुनः कतमाः. तद्यथा.

कुण्ठा निकुण्ट्ःआ नन्दा विष्णुला कपिला चेति. एताः पञ्च महाराक्षस्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः. ता ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके. हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा. स्वस्ति स्वस्ति स्वस्ति स्वस्ति, मम सर्वसत्वानां च स्वाहा.

अष्टाव् इमा आनन्द महाराक्षस्यो मांसशोणितभोजिका मनुष्याणां विहेठिका, याभिर् बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातो ऽपि रक्षितः. ताः पुनः कतमाः. तद्यथा.

मोहा सुसीमा कुशाक्षी केशिनी कांबोजी सुमित्रा लोहिताक्षी काचरा चेति. इतीमा आनन्द अष्ट महाराक्षस्यो मांशशोणितभोजिका हरन्ति स्त्रीपुरुषदारकदारिका (म्म्व्र् तकु 32) अपि सूतिकाकुलानि सेवन्ते, शून्यागारं वा तमःप्रभा वा गच्छन्तम् अनुगच्छन्ति, शब्दापयन्ति मनुष्याणां ओजो हरन्ति. महाकृत्या न तासाम् अस्ति कारुण्यं, त्रासयन्ति मानुषीं प्रजां. इत्य् एता अष्ट महाराक्षस्यः, ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः. ता ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके. हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा. स्वस्ति स्वस्ति स्वस्ति स्वस्ति. स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा.

दशेमा आनन्द महाराक्षस्यो याभिर् बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातो ऽपि रक्षितः. ताः पुनः कतमाः. तद्यथा.

हारीती राक्षसी नन्दा राक्षसी पिङ्गला राक्षसी शंखिनी राक्षसी कालिका राक्षसी देवमित्रा राक्षसी कुम्भाण्डा राक्षसी कुन्तद्रंष्ट्रा राक्षसी कम्बोजी राक्षसी अनला राक्षसी.

इत्य् एता दश महाराक्षस्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः. ता ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, (म्म्व्र् तकु 33) जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके. हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा. स्वस्ति स्वस्ति स्वस्ति स्वस्ति, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा.

द्वादशेमा आनन्द महाराक्षस्यो याभिर् बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातो ऽपि रक्षितः. ताः पुनः कतमाः. तद्यथा.

अनार्थिका राक्षसी समुद्रा राक्षसी रौद्रा राक्षसी प्राणहारिनी राक्षसी विद्याधरा राक्षसी धनुर्धरा राक्षसी शरधरा राक्षसी असिधरा राक्षसी हलधरा राक्षसी चक्रधरा राक्षसी चक्रवाडा राक्षसी विभूषणा राक्षसी.

इत्य् एता द्वादश आनन्द महाराक्षस्यः, ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः. ता ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके. हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा. स्वस्ति स्वस्ति स्वस्ति स्वस्ति, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा.

द्वादशेमा आनन्द महामातरो याभिर् बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातो ऽपि रक्षितः. याश् च सत्वान् अपद्रवन्ति विहेठयन्ति उत्त्रासयन्ति, (म्म्व्र् तकु 34) ताः पुनः कतमाः. तद्यथा.

ब्राह्मी रौद्री कौमारी वैष्णवी ऐन्द्री वाराही कौवेरी वारुणी याम्या वायुव्या आग्नेयी महाकाली चेति.

ता ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके. हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा. स्वस्ति स्वस्ति स्वस्ति स्वस्ति, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा.

अस्त्य् आनन्द एकजटा नाम महापिशाची, रावणस्य भार्याः समुद्रकूले प्रतिवसति. या एकरात्र्या अशीतियोजनसहस्राणि रुधिरगन्धेनाहिण्डते. तयापि बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातो ऽपि रक्षितः. साप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोतु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके. हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा. स्वस्ति स्वस्ति स्वस्ति स्वस्ति. (म्म्व्र् तकु 35) स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा.

उद्गृह्ण त्वम् आनन्द महाराक्षसीनां नामानि. तद्यथा.

कपिला नाम राक्षसी, पदुमा नाम राक्षसी, महिषी नाम राक्षसी, मोरिका नाम राक्षसी, नाडिका नाम राक्षसी, ज्वलनी नाम राक्षसी, तपनी नाम राक्षसी, कलसी नाम राक्षसी, विमला नाम राक्षसी, धरणी नाम राक्षसी, हरिचन्द्रा नाम राक्षसी, रोहिणी नाम राक्षसी, मारीची नाम राक्षसी, हुतासनी नाम राक्षसी, वारुणी नाम राक्षसी, काली नाम राक्षसी, क्रोञ्ची नाम राक्षसी, कौञ्जरा नाम राक्षसी, बला नाम राक्षसी, ग्रसनी नाम राक्षसी, कराली नाम राक्षसी, मातङ्गी नाम राक्षसी, पिङ्गला नाम राक्षसी, विदुरा नाम राक्षसी, गौरी नाम राक्षसी, गन्धारी नाम राक्षसी, कुम्भाण्डी नाम राक्षसी, कारङ्गी नाम राक्षसी, रावणी नाम राक्षसी, मदनी नाम राक्षसी, अशनी नाम राक्षसी, गर्भाहारिणी नाम राक्षसी, रुधिराहारिणी नाम राक्षसी, दन्तुरा नाम राक्षसी, उत्त्रासनी नाम राक्षसी, ब्राह्मी नाम राक्षसी, तडागपालिनी नाम राक्षसी, वज्रधरा नाम राक्षसी, स्कन्दा नाम राक्षसी, वर्षणी नाम राक्षसी, गर्जनी नाम राक्षसी, स्फोटनी नाम राक्षसी, विद्योतनी नाम राक्षसी, जङ्गमा नाम राक्षसी, उल्कामुखी नाम राक्षसी, वसुंधरा नाम राक्षसी, कालरात्री नाम राक्षसी, यमदूती नाम राक्षसी, अमला नाम राक्षसी, अचला नाम राक्षसी, ऊर्ध्वजटा नाम राक्षसी, शतशीर्षा नाम राक्षसी, शतबाहुर् नाम राक्षसी, शतनेत्रा नाम राक्षसी, घाटनी नाम राक्षसी, मर्दनी नाम राक्षसी, मार्जारी नाम राक्षसी, षडक्षरी नाम राक्षसी, चण्डा नाम राक्षसी, (म्म्व्र् तकु 36) निशाचरा नाम राक्षसी, दिवसचरा नाम राक्षसी, मण्डितिका नाम राक्षसी, क्रोधना नाम राक्षसी, विहेठना नाम राक्षसी, असिमुषलधरा नाम राक्षसी, त्रिशूलपाणी नाम राक्षसी, करालदन्ती नाम राक्षसी, मनोरमा नाम राक्षसी, सोमा नाम राक्षसी, चण्डाली नाम राक्षसी, दण्टा नाम राक्षसी, हिडिम्बा नाम राक्षसी, नीला नाम राक्षसी, चित्रा नाम राक्षसी.

इत्य् एताः सप्तसप्ततिर् महाराक्षस्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः.

ता ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं. तद्यथा.

हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि, मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि, हुरु हुरु हुरु हुरु हुरु हुरु हुरु हुरु हुरु हुरु, चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि, हिक्के हिक्के हिक्के हिक्के, होर होर, धर धर, हर हर, हल हल, चल चल, चुरु चुरु स्वाहा. नमः सर्वबुद्धानां स्वाहा. प्रत्येकबुधानां स्वाहा. नमो ऽर्हतां स्वाहा. मैत्रेयस्य बोधिसत्वस्य महासत्वस्य स्वाहा. सर्वबोधिसत्वानां स्वाहा. अनागामिनां स्वाहा. सकृदागामिनां स्वाहा. श्रोतापन्नानां स्वाहा. सम्यग्गतानां स्वाहा. सम्यक्प्रतिपन्नानां स्वाहा. ब्राह्मणे (म्म्व्र् तकु 37) स्वाहा. प्रजापतये स्वाहा. इन्द्राय स्वाहा. ईशानास्य स्वाहा. अग्नये स्वाहा. वायवे स्वाहा. वरुणाय स्वाहा. कुवेराय स्वाहा. यमाय स्वाहा. उपेन्द्राय स्वाहा. वैश्रमणाय स्वाहा. यक्षाधिपतये स्वाहा. धृतराष्ट्राय गन्धर्वाधिपतये स्वाहा. विरूढकाय कुम्भाण्डाधिपतये स्वाहा. विरूपाक्षाय नागाधिपतये स्वाहा. देवानां स्वाहा. नागानां स्वाहा. असुराणां स्वाहा. मरुतानां स्वाहा. गरुडानां स्वाहा. गन्धर्वाणां स्वाहा. किन्नराणां स्वाहा. महोरगाणां स्वाहा. यक्षाणां स्वाहा. राक्षसानां स्वाहा. प्रेतानां स्वाहा. पिशाचानां स्वाहा. भूतानां स्वाहा. कुम्भाण्डानां स्वाहा. पूतनानां स्वाहा. कटपूतनानां स्वाहा. स्कन्दानां स्वाहा. उन्मादानां स्वाहा. छायानां स्वाहा. अपस्माराणां स्वाहा. ओस्तारकाणां स्वाहा. चन्द्रसूर्ययोः स्वाहा. रुद्राणां स्वाहा. नक्षत्राणां स्वाहा. ग्रहाणां स्वाहा. ज्योतिषाणां स्वाहा. ऋषीणां स्वाहा. सिद्धव्रतानां स्वाहा. सिद्धविद्यानां स्वाहा. गौरीये स्वाहा. गन्धारीये स्वाहा. जांगुलीये स्वाहा. अमृताये स्वाहा. जम्भनीये स्वाहा. स्तम्भनीये स्वाहा.

चापेटीये स्वाहा. द्रामिडीये स्वाहा. शबरीये स्वाहा. अथर्वशबरीये स्वाहा. चण्डालीये स्वाहा. मातङ्गीये स्वाहा. नागहृदयाय स्वाहा. गरुडहृदयाय स्वाहा. मानसीये स्वाहा. महामानासीये स्वाहा. षडक्षरीये स्वाहा. मणिभद्राय स्वाहा. समन्तभद्राय स्वाहा. महासमन्तभद्राय स्वाहा. समयाय स्वाहा. महासमयाय स्वाहा. महाप्रतिसराय स्वाहा. शीतवनाय स्वाहा. महाशीतवनाय स्वाहा. दण्डधराय स्वाहा. महादण्डधराय स्वाहा. मुचिलिन्दाय स्वाहा. महामुचिलिन्दाय स्वाहा. जयन्तीये स्वाहा. शान्तिये स्वाहा. अव्याकृताय स्वाहा. अश्वक्रीडाय स्वाहा. अपराजिताय स्वाहा. सुवर्णावभासाय महामयूरराजाय स्वाहा. महाधारणीये स्वाहा. मन्त्रपदानां स्वाहा. महामायूर्यै विद्याराज्ञ्यै स्वाहा. ओं ह्रीं कुण्डल स्वाहा. मयूरक्रान्ताय स्वाहा.

(म्म्व्र् तकु 38) आभिर् महाविद्याभिर् महामन्त्रैर् महाप्रतिसराभिर् महारक्षाभिः स्वातेर् भिक्षोर् मम सर्वसत्वानां च हताः कृत्याः, हताः कर्मणाः, हताः काखोर्दाः किरणा वेताडाश् चिच्चाः प्रेषकाः, हताः स्कन्दा उन्मादाश् छाया अपस्मारा ओस्तारकाः, हता उत्त्रासा गरा विषा, हताः शोषाः, हता दुर्भुक्तका दुश्छर्दिता दुश्छाया, हता दुःप्रेक्षिता दुल्लिखिता दुर्लंघिताः, अवधूता हताः. सर्व ज्वरा एकाहिका द्वैतीयकास् त्रैतीयकाश् चातुर्थकाः सप्ताहिका अर्धमासिका मासिका दैवसिका मुहूर्तिका नित्यज्वरा विषमज्वरा भूतज्वराः वातिकाः पैत्तिकाः श्लेष्मिकाः सान्निपातिका मानुष्यज्वरा अमानुष्यज्वरा हताः, सर्वज्वरा दद्रूकण्डूकिटिमकुष्ठगण्डपिटकपामावैसर्पलोहलिङ्गा हताः, शिरोर्त्तिअर्धावभेदकम् अरोचकम् अक्षिरोगं नासारोगं मुखरोगं कण्ठरोगं हृद्रोगं गलग्रहं कर्णशूलं दन्तशूलं हृदयशूलं पार्श्वशूलं पृष्ठशूलं उदरशूलं गण्डशूलं वस्तिशूलं गुदशूलं योनिशूलं प्रजनशूलं ऊरुशूलं जंघाशूलं हस्तशूलं पादशूलं अङ्गप्रत्यङ्गशूलं हतं. हताः सर्वग्रहाः सर्वविषाः सर्वव्याधयः. स्वस्तिर् भवतु मम सर्वसत्वानां च.

स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्यदिने स्थिते, स्वस्ति सर्वम् अहोरात्रं सर्वबुद्धा दिशन्तु वः. नमो ऽस्तु बुद्धाय नमो ऽस्तु बोधये, नमो ऽस्तु मुक्ताय नमो ऽस्तु मुक्तये. नमो ऽस्तु शान्ताय नमो ऽस्तु शान्तये, नमो विमुक्ताय नमो विमुक्तये. ये ब्राह्मणा वाहितपापधर्माः,

(म्म्व्र् तकु 39) तेषां नमस् ते, मम सर्वसत्वानां च रक्षां कुर्वन्तु, स्वस्ति मातुः, स्वस्ति पितुः, स्वस्ति गर्भगतस्य, स्वस्ति द्विपदानां, स्वस्ति भवतु चतुष्पदानां, स्वस्ति बहुपदानां, स्वस्ति त्रिभवपर्यवपन्नानां, स्वस्ति मम सर्वसत्वानां च स्वाहा.

ओगृह्ण त्वम् आनन्द नागराज्ञान् नामानि. तद्यथा.

बुद्धो भगवान् धर्मस्वामी नागराजा, ब्रह्मा नागराजा, महाब्रह्मा नागराजा, इन्द्रो नागराजा, महेन्द्रो नागराजा, उपेन्द्रो नागराजा, समुद्रो नागराजा, समुद्रपुत्रो नागराजा, सागरो नागराजा, सागरपुत्रो नागराजा, मकरो नागराजा, नन्दो नागराजा, उपनन्दो नागराजा, नलो नागराजा, उपनलो नागराजा, सुदर्शनो नागराजा, वासुकिर् नागराजा, तक्षको नागराजा, षडङ्गुलो नागराजा, अरुणो नागराजा, वरुणो नागराजा, पाण्डरको नागराजा, श्रीमान् नागराजा, श्रीकण्ठो नागराजा, श्रीवर्धनो नागराजा, श्रीभद्रो नागराजा, अबलो नागराजा, सबलो नागराजा, अतिबलो नागराजा, शलभो नागराजा, अब्जको नागराजा, शतबाहुर् नागराजा, सुबाहुर् नागराजा, सुमेरुर् नागराजा, सूर्यप्रभो नागराजा, चन्द्रप्रभो नागराजा, भद्रकान्तो नागराजा, नन्दनो नागराजा, नर्दनो नागराजा, गर्जनो नागराजा, विद्योतनो नागराजा, स्फोटनो नागराजा, वर्षणो नागराजा, विमलो नागराजा, अलकशीर्षो नागराजा, बलकशीर्षो नागराजा, अश्वशीर्षो नागराजा, गवयशीर्षो नागराजा, गयाशीर्षो नागराजा, मृगशीर्षो नागराजा, हस्तिशीर्षो नागराजा, नरसिंहो नागराजा, आर्द्रबलको नागराजा, नन्दो नागराजा, जनार्दनो नागराजा, चित्रो नागराजा, चित्राक्षो नागराजा, चित्रसेनो नागराजा, नमुचिर् नागराजा, (म्म्व्र् तकु 40) मुचिर् नागराजा, मुचिलिन्दो नागराजा, रावणो नागराजा, राघवो नागराजा, शिरि नागराजा, शिरिको नागराजा, लम्बुरु नागराजा, अनन्तो नागराजा, कनको नागराजा, हस्तिकच्छो नागराजा, पिङ्गलो नागराजा, पाण्डरो नागराजा, शंखो नागराजा, अपलालो नागराजा, कालको नागराजा, उपकालको नागराजा, बलदेवो नागराजा, नारायणो नागराजा, कंबलो नागराजा, भीमो

नागराजा, विभीषणो नागराजा, राक्षसो नागराजा, शैलबाहुर् नागराजा, गङ्गा नागराजा, सीता नागराजा, सिंधुर् नागराजा, वक्षुर् नागराजा, मङ्गल्यो नागराजा, अनवतप्तो नागराजा, सुप्रतिष्ठितो नागराजा, ऐरावणो नागराजा, धरणिधरो नागराजा, निमिंधरो नागराजा, द्युतिंधरो नागराजा, भद्रो नागराजा, सुभद्रो नागराजा, वसुभद्रो नागराजा, बलभद्रो नागराजा, मणिर् नागराजा, मणिकण्ठो नागराजा, द्वौ कालकौ नागराजानौ, द्वौ पीतकौ नागराजानौ, द्वौ लोहितकौ नागराजानौ, द्वौ श्वेतकौ नागराजानौ, मालिर् नागराजा, रक्तमालिर् नागराजा, वत्सो नागराजा, भद्रपदो नागराजा, दुन्दुभिर् नागराजा, उपदुन्दुभिर् नागराजा, आम्रतीर्थको नागराजा, मणिसुतो नागराजा, धृतराष्ट्रो नागराजा, विरूढको नागराजा, विरूपाक्षो नागराजा, वैश्रवणो नागराजा, शकटमुखो नागराजा, चाम्पयको नागराजा, गौतमो नागराजा, पाञ्चालको नागराजा, पञ्चचूडो नागराजा, प्रद्युन्मो नागराजा, विन्दुर् नागराजा, उपविन्दुर् नागराजा, अलिको नागराजा, कालिको नागराजा, किञ्चिनी नागराजा, किञ्चको नागराजा, कोणो नागराजा, उपकोणो नागराजा, चिच्चो नागराजा, कृष्णगौतमो नागराजा, मानुषो नागराजा, अमानुषो नागराजा, मूलमानुषो नागराजा, पूर्वमानुषो नागराजा, उत्तरमानुषो नागराजा, मातङ्गो (म्म्व्र् तकु 41) नागराजा, मण्डलको नागराजा, दन्त्तुरो नागराजा, उलूको नागराजा, उत्तरो नागराजा, लुको नागराजा, उत्तमो नागराजा, एलो नागराजा, एलवर्णो नागराजा, अलबालो नागराजा, मरबालो नागराजा, मनस्वी नागराजा, कर्कोटको नागराजा, कपिलो नागराजा, शैबलो नागराजा, उत्पलो नागराजा, नखको नागराजा, वर्धमानको नागराजा, मोक्षको

नागराजा, बुद्धिको नागराजा, प्रमोक्षो नागराजा, कम्बलाश्वतरौ नागराजानौ, एलमेलौ नागराजानौ, नन्दोपनन्दौ नागराजानौ, अच्छिलो नागराजा, महासुदर्शनो नागराजा, परिकालो नागराजा, परिकीटो नागराजा, सुमुखो नागराजा, आदर्शमुखो नागराजा, गन्धारो नागराजा, सिंहलो नागराजा, द्रमिडो नागराजा, द्वौ कृष्णकौ नागराजानौ, द्वौ श्वेतकौ नागराजानौ, द्वाव् उपशुक्लकौ नागराजानौ.

इत्य् एते चान्ये चानन्द नागराजानो ये ऽस्मिं पृथिवीमण्डले कालेन कालं वर्षन्ति, कालेन कालं गर्जन्ति, कालेन कालं विद्योतयन्ति, कालेन कालं सस्यं निष्पादयन्ति. बुद्धदर्शिनो गृहीतशिक्षापदास् त्रिसरणगताः, दीर्घायुषः कल्पस्थायिनः, निर्मुक्ता गरुडभयात्, अग्निवालकाभयात्, राजकर्मभयात्, धरणीकम्पभयात्, धरणीधरा महारत्नविमानवासिनो दीर्घायुषो महेशाख्या महर्द्धिकाः, महानुभावा महाभोगा महापरिवारा अरिबलप्रभञ्जका ऋद्धिमन्तो द्युतिमन्तो वर्णवन्तो यशस्विनः. देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः. इत्य् एते नागराजानः सपुत्राः सपौत्राः सभ्रातरः सामात्याः ससेनापतयः सप्रेष्याः सदूताः सप्रवराः सपार्षदाः, ते ऽप्य् अनया महामायूर्या विद्याराज्ञ्या स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु. जीवतु वर्षशतं पश्यतु (म्म्व्र् तकु 42) शरदाशतं. स्वस्ति मम सर्वसत्वानां च स्वाहा.

उच्छिष्टस्यानुत्सिष्टस्य मत्तस्य प्रमत्तस्य गच्छतस् तिष्ठतः, निषण्णस्य शयनस्य जाग्रतः, आगतस्य अनागतस्य स्वस्ति राजभयाच् चौरभयाद्, अग्निभयाद् उदकभयाद्, बन्धकभयात्, प्रत्यर्थिकभयात्, प्रत्यमित्रभयाद् उत्त्रासभयाद्, परचक्रभयाद्, दुर्भिक्षभयाद्, अकालमृत्युभयाद्, धरणीकम्पभयाच् चण्डमृगभयात्. स्वस्ति देवभयाद्, नागभयाद्, असुरभयाद्, गरुडभयाद्, गन्धर्वभयाद्, किन्नरभयान्, महोरगभयाद्, यक्षभयाद्, राक्षसभयात्, प्रेतभयात्, पिशाचभयाद्, भूतभयात्, कुम्भाण्डभयात्, पूतनभयात्, कटपूतनभयात्, स्कन्दभयाद्, उन्मादभयाद्, छायाभयाद्, अपस्मारभयाद्, ओस्तारकभयात्. स्वस्ति कृत्याकर्मणकाखोर्दकिरणवेताडचिच्चप्रेषकदुर्भुक्तदुश्छर्दितदुश्छायादुःप्रेक्षितदुर्लिखितदुर्लंघितावधूतभयात्. स्वस्ति दद्रूकण्डूकिटिमकुष्ठगण्डकपिटकपामावैसर्पलोहलिङ्गशोषौत्त्रासभयात्. स्वस्ति मम सर्वसत्वानां च स्वाहा. स्वस्ति सर्वरोगेभ्यः.

रात्रौ स्वस्ति दिवा स्वस्ति मध्यंदिने स्थिते, स्वस्ति सर्वम् अहोरात्रं सर्वबुद्धा दिशन्तु वः. नमो ऽस्तु बुद्धाय नमो ऽस्तु बोधये, नमो ऽस्तु मुक्ताय नमो ऽस्तु मुक्तये. नमो ऽस्तु शान्ताय नमो ऽस्तु शान्तये, नमो विमुक्ताय नमो विमुक्तये.

ये ब्राह्मणा वाहितपापधर्माः तेषां नमस्, ते मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु. जीवतु वर्षशतं पश्यतु शरदाशतं. (म्म्व्र् तकु 43)

इयं चानन्द महामायूरी विद्याराज्ञी विपश्यिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च. तद्यथा.

अरडे करडे मरडे मदवर्धने अवशबरे तुरे तुरे चरे चरे शबरे पर्णशबरे, हुचु हुचु, कुचि कुचि, मुचि मुचि, हुचि हुचि हुचि हुचि हुचि हुचि हुचि, मुचि मुचि मुचि मुचि स्वाहा.

इयं चानन्द महामायूरी विद्याराज्ञी शिखिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च. तद्यथा.

इडि मिडि खिरे विखिरे, हिलि हिलि हिलि, मिलि मिलि, तुमूले, अम्बरे अम्बरावति, दुम्बे दुम्बे हिलि हिलि हिलि, कुर्वि कुर्वि कुर्वि, मुचि मुचि मुचि, स्वाहा.

इयं चानन्द महामायूरी विद्याराज्ञी विश्वभुवा सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च. तद्यथा.

मोरिके मोरिके मोरिके केवण्टु मण्डितिके, हरे हरे हरे हरे हरे हरे, घरे घरे, खरे खरे, फरे फरे फरे, फलि निदन्ति निदन्तिरे, शकटि मकटि, नण्ड नडिनि, शिरि शिरि शिरि शिरि शिरि शिरि स्वाहा.

इयं चानन्द महामायूरी विद्याराज्ञी क्रकुच्छन्देन सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च. तद्यथा.

हिडि मिडि कुडि मिडि, तुडि कुडि अडि मुडि तुडि तुडि आडे दन्ते दन्तिले शकरि मकारि थगरि चगरि कञ्चने कञ्चनावति, शबरे, बरे बरे बरे बरे बरे बरे, दन्ते सिद्धि स्वाहा.

इयं चानन्द महामायूरी विद्याराज्ञी कनकमुनिना सम्यक्संबुद्धेन भाषिता (म्म्व्र् तकु 44) चाभ्यनुमोदिता च. तद्यथा.

तन्तुले ततले ततले चलते, तले तले तले तले, विरे विजये विज्जधरे, अरजे अरजे विरजामति, मति मालिनि मण्डे शिरिमण्डे, ज्वल ज्वल ज्वल ज्वल ज्वल ज्वल, भद्रवति सिद्धि स्वाहा.

इयं चानन्द महामायूरी विद्याराज्ञी काश्यपेन सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च. तद्यथा.

अण्डरे पण्डरे कण्डरे मण्डरे खण्डरे जंबु जुंबुनदि जंबुवति, मत्ते मण्डितिके, अमरे सिद्धि, हर हर हर हर, पशु पशु पशु पशु पशुपति स्वाहा सिद्धि सिद्धि सिद्धि सिद्धि स्वाहा.

इयं चानन्द महामायूरी विद्याराज्ञी मयाप्य् एतर्हि शाक्यमुनिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च. तद्यथा.

हिलि मिलि किलि मिलि इलिले कतले केतुमूले अडमलि डफे डफे बुसरेके, बुसट्ट नरकन्दे कतिलि बोचलिके कम्बु दारिणिकाय शबरंगे ततुट्ट भरशेभो वर्धनि प्रकृति दंष्ट्र मिलि तले, ईति हासे अमले मकुले बट्ट बट्ट वर्षन्तु, देवः समन्ता यथा सुखं दशासु दिक्षु. नमो भगवतः कुमुदोदकं भवतु, नमो भगवते इटिटाय गोदोहिकाय भृङ्गारिकाय, अरुचि मरुचि नट्ट नट्ट वज्रे वज्रनट्टे उदयनप्रिये, अले ताले कुन्ताले कुले ताले, नारायणि पारायणि, पश्यनि स्पर्शनि सिद्ध्यन्तु द्रामिडा मन्त्रपदाः स्वाहा.

संयथेदं मया शाक्यमुनिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च. आनन्देन भिक्षुणा स्वातेर् भिक्षोर् दष्टस्य स्वस्त्ययनं कृतं, एवं सर्वसत्वानां (म्म्व्र् तकु 45) च रक्षा कृता भवतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कृतं भवतु. जीवतु वर्षशतं पश्यतु शरदाशतं.

इयं चानन्द महामायूरी विद्याराज्ञी मैत्रेयेन बोधिसत्वेन महासत्वेन भाषिता चाभ्यनुमोदिता च. तद्यथा.

शिरि शिरि शिरि, भद्रे, ज्योति ज्योति ज्योति, भद्रे, हरे हरे हरे, हरिणि हारिणि, दन्ति शबरि शिवे शूलपाणिनि, बोधि बोधि बोधि बोधि बोधि बोधि, बोधिसत्वे, बोधिपरिपाचणीये स्वाहा.

इयं चानन्द महामायूरी विद्याराज्ञी ब्रह्मणा सहापतिना भाषिता चाभ्यनुमोदिता च. तद्यथा.

हिलि हिलि हिलि हिलि, मिलि मिलि मिलि मिलि, मालिनि चङ्कलि, किरि किरि किरि किरि किरि किरि, किरये ब्रह्माये रत्नकरण्डके, विडाफु विडाफुसे, धर धर, हर हर, हुले हुले, फुरु फुरु फुरु फुरु फुरु स्वाहा.

हतं विषं निहतं विषं, बुद्धतेजोहतं विषं, प्रत्येकबुद्धतेजोहतं विषं, अर्हत्तेजोहतं विषं, अनागामितेजोहतं विषं, सकृदागामितेजोहतं विषं, श्रोतापन्नतेजोहतं विषं, सत्यवादितेजोहतं विषं, ब्रह्मदण्डतेजोहतं विषं, इन्द्रवज्रतेजोहतं विषं, विष्णुचक्रतेजोहतं विषं, अग्नितेजोहतं विषं, वरुणपाशतेजोहतं विषं, असुरमायाहतं विषं, नागविद्याहतं विषं, रुद्रशूलतेजोहतं विषं, स्कन्दशक्तितेजोहतं विषं, महामायूरीविद्याहतं विषं. भूम्या संक्रामतु विषं, स्वस्त्ययनं भवतु स्वातेर् (म्म्व्र् तकु 46) भिक्षोर् मम सर्वसत्वानां च सर्वविषाद् वत्सनाभविषाद् हलाहलविषात् कालकूटविषाद् दंष्ट्राविषान् मूलविषाद् विद्युद्विषान् मेघसङ्कटविषाच् चुण्डविषाद् हृष्टिविषान् मेघविषात् सर्पविषाद् लूटकीटककनभमण्डूकमक्षिकाभ्रमरत्र्यम्बुकत्रैलाटकविषाद् गरुडविषान् मनुष्यविषाद् अमनुष्यविषात् शक्रविषाद् ओषधिविषाद् विद्याविषात्. स्वस्ति सर्वविषेभ्यः स्वातेर् भिक्षोर् मम सर्वसत्वानां च स्वाहा.

इयं चानन्द महामायूरी विद्यारज्ञी शक्रेण देवानाम् इन्द्रेण भाषिता चाभ्यनुमोदिता च तद्यथा.

जला जन्तुले चापेटि जन्तुले मथनि घटनि ग्रसनि हरि हरि शिरि द्योति शिरे ततरु ततरु, णबति सिंहा हा हा हा हा हा, सिंहे धिति धिति कुरु कुरु शबरे वज्रे ज्योति तुट तुटसि, बट बटसि, सिलि सिलि, कपिले, कपिलमूले हा ही हूम्. सर्वदुष्ट प्रदुष्टानां जंभन करोमि. हस्तपादाङ्गनिग्रहं करोमि. सह त्रिदशेहि देवेहि डटङ्गिनि सुरपतिवर्ति वज्र वज्र वज्र वज्र वज्र वज्र वज्रपतये स्वाहा.

इयं चानन्द महामायूरी विद्यारज्ञी चतुर्भिर् महाराजैर् भाषिता चाभ्यनुमोदिता च तद्यथा.

ज्वल ज्वलन, तप तपन, धम धमन, शर शरण, नकुटि नकुटि, मुटि मुटि, सर सर, मर मर, हर हर, भर भर, तिति तिरि, ट ट ट ट ट, दा दा दा दा दा, वा वा वा वा वा, हले हले हले हले हले, सिद्धि सिद्धि सिद्धि सिद्धि सिद्धि, स्वस्ति स्वस्ति स्वस्ति स्वस्ति स्वस्ति, मम सर्वसत्वानां च स्वाहा.

(म्म्व्र् तकु 47) स्वस्ति सर्वप्रेषकातः, कालरात्रीतः, कालपाशातः, मृत्युदण्डातः, ब्रह्मदण्डातः, इन्द्रदण्डातः, ऋषिदण्डातः, देवदण्डातः, नागदण्डातः, असुरदण्डातः, मरुतदण्डातः, गरुडदण्डातः, गन्धर्वदण्डातः, किन्नरदण्डातः, महोरगदण्डातः, यक्षदण्डातः, राक्षसदण्डातः, प्रेतदण्डातः, पिशाचदण्डातः, भूतदण्डातः, कुम्भाण्डदण्डातः, पूतनदण्डातः, कटपूतनदण्डातः, स्कन्ददण्डातः, उन्माददण्डातः, ओस्तारकदण्डातः, वेताडदण्डातः, राजदण्डातः, चौरदण्डातः, अग्निदण्डातः, उदकदण्डातः, सर्वदण्डकुण्डेभ्यः, स्वस्तिर् भवतु, स्वातेर् भिक्षोर् मम सर्वसत्वानां च रक्षां कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं.

उद्गृह्ण त्वम् आनन्द नदीराज्ञीनां नामानि. तद्यथा.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.