Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
ललितविस्तर
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यक्षकुम्भाण्डमहोरगरूपाः राक्षसप्रेतपिशाचकरूपाः / यत्तक लोकि विरूप सुरौद्राः सर्वि त निर्मित तत्र शठेभिः // lal_21.16 //
एकशिरा द्विशिरा त्रिशिराश्च यावत्सहस्रशिरा बहुवक्त्राः / एकभुजा द्विभुजा त्रिभुजाश्च यावत्सहस्रभुजा बहुभुजाः / एकपदा द्विपदा त्रिपदाश्च यावत्सहस्रपदा बहु अन्ये // lal_21.17 //
नीलमुखानि च पीतशरीरा पीतमुखानि च नीलशरीरा / अन्यमुखानि च अन्यशरीराः एकमुपागतु किंकरसैन्यम् // lal_21.18 //
वातु प्रवायति वर्षति वर्षं विद्युसहस्रशतानि पतन्ति / देव गुडायति वृक्ष लुडन्ति बोधिवटस्य न ईर्यति पत्रम् // lal_21.19 //
वर्षति देव प्रवर्षति वर्षं ओघ वहन्ति जलाकुलभूमिम् / ईदृश भीषणिका बहुराशी यत्र अचेतन वृक्ष पतन्ति // lal_21.20 //
दृष्ट्व च तानतिभीषणरूपां सर्वि विसंस्थित रूपविरूपां / श्रीगुणलक्षणतेजधरस्या चित्तु न कम्पति मेरु यथैव // lal_21.21 //
मायसमांस्तथ स्वप्नसमांश्च अभ्रनिभां समुदीक्षति धर्मां / ईदृश धर्मनयं विमृषन्तो सुस्थितु ध्यायति संस्थितु धर्मे // lal_21.22 //
यस्य भवेत अहं ति ममेति भाव समुच्छ्रयि तत्त्वनिविष्टाः / सो बिभियादबुद्धेः स्थितु ग्राहे आत्मनि संभ्रमि गच्छ निरीक्ष्य // lal_21.23 //
शाक्यसुतस्तु स्वभावमभावं धर्म प्रतीत्य समुत्थित बुद्धा / गगनोपमचित्तु सुयुक्तो न भ्रमते सबलं शढ दृष्ट्वा // lal_21.24 //
इति हि भिक्षवो मारस्य पापीयसः पुत्रसहस्रम् / तत्र ये मारपुत्रा बोधिसत्त्वे ऽभिप्रसन्नाः सार्थवाहपूर्वंगमाः, ते मारस्य दक्षिणे पार्श्वे स्थिता अभूवन् / ये मारपाक्षिकाः, ते वामे पार्श्वे स्थिता अभुवन् मारस्य पापीयसः / तत्र मारः पापीयांस्तान् स्वान् पुत्रानामन्त्रयते स्म - कीदृशेन बलेन वयं बोधिसत्त्वं धर्षयिष्यामः? तत्र दक्षिणे पार्श्वे सार्थवाहो नाम मारपुत्रः / स पितरं गाथया प्रत्यभाषत् -
सुप्तं प्रबोधयितुमिच्छति पन्नगेन्द्रं सुप्तं प्रबोधयितुमिच्छति यो गजेन्द्रम् / सुप्तं प्रबोधयितुमिच्छति यो मृगेन्द्रं सुप्तं प्रबोधयितुमिच्छति सो नरेन्द्रम् // lal_21.25 //
वामे पार्श्वे दुर्मतिर्नाम मारपुत्रः स एवमाह -
संप्रेक्षणेन हृदयान्यभिसंस्फुटन्ति लोकेषु सार महतामपि पादपानाम् / का शक्तिरस्ति मम दृष्टिहतस्य तस्य संजीवितुं जगति मृत्युहतस्य वास्तु // lal_21.26 //
दक्षिणे मधुरनिर्घोषो नामाह -
वृक्षेषु सार क इहास्ति ततो ब्रवीषि दृष्ट्वा भिनन्मि मनुजेष्वथ का अवस्था / मेरुं गिरिं यदि भिनत्सि निरीक्षणेन नैवास्य तुभ्य नयनेभि हतोन्मिषेरन् // lal_21.27 //
अपि च /
यः सागरं तरितुमिच्छति वै भुजाभ्यां तोयं च तस्य पिबितुं मनुजेष्वसन्तु / शक्यं भवेदिदमतस्तु वदामि दुःखं यस्तस्य वक्त्रमभितो ऽप्यमलं निरीक्षेत् // lal_21.28 //
वामे शतबाहुर्नामाह -
ममेह देहेस्मि शतं भुजानां क्षिपामि चैकेन शतं शराणाम् / भिनन्मि कायं श्रमणस्य तात सुखी भव त्वं व्रज मा विलम्ब // lal_21.29 //
दक्षिणे सुबुद्धिराह -
शतं भुजानां यदि को विशेषो भुजा किमर्थं न भवन्ति रोमाः / भुजैकमेकेन तथैव शूलाः तैश्चापि कुर्यान्न हि तस्य किंचित् // lal_21.30 //
किं कारणम्?
मैत्रावतस्तस्य मुनेः शरीरे विषं न शस्त्रं क्रमते न चाग्निः / क्षिप्तानि शस्त्राणि व्रजन्ति पुष्पतां मैत्री हि लोकोत्तरभावि तस्य // lal_21.31 //
अपि च /
दिवि भुवि च जले च ये बलाढ्याः असिपरशुघराश्च गुह्यका नरा वा / क्षमबलमिमु प्राप्य ते नरेन्द्रं प्रबलबलाल्पबला भवन्ति सर्वे // lal_21.32 //
वामे उग्रतेजा आह -
अन्तर्गतो ऽहं धक्ष्यामि प्रविश्यास्य तनुं शुभाम् / वृक्षं सकोटरं शुष्कं दावाग्निरिव सूक्ष्मतः // lal_21.33 //
दक्षिणे सुनेत्र आह -
मेरुं दहेस्त्वं यदि वापि कृत्स्नं प्रविश्य चान्तर्गतु मेदिनीं वा / दग्धुं न शक्यः स हि वज्रबुद्धिः त्वत्संनिभैर्वालिकगङ्गतुल्यैः // lal_21.34 //
अपि च /
चलेयुर्गिरयः सर्वे क्षयं गच्छेन्महोदधिः / चन्द्रसूर्यौ पतेद्भूमौ मही च विलयं व्रजेत् // lal_21.35 //
लोकस्यार्थे कृतारम्भः प्रतिज्ञाकृतनिश्चयः / अप्राप्यैष वरां बोधिं नोत्थास्यति महाद्रुमात् // lal_21.36 //
वामे दीर्घबाहुर्गर्वित आह -
आलयं चन्द्रसूर्याणां नक्षत्राणां च सर्वशः / पाणिनाहं प्रमर्दामि तवेह भवने स्थितः // lal_21.37 //
चतुर्भ्यः सागरेभ्यश्च जलं गृह्णामि लीलया / तं गृह्य श्रमणं तात सागरस्य परं क्षिपे // lal_21.38 //
तिष्ठतां तात सेनेयं मा त्वं शोकार्दितो भव / सबोधिवृक्षमुत्पाट्य क्षेप्स्ये पाण्या दिशो दश // lal_21.39 //
दक्षिणे प्रसादप्रतिलब्ध आह -
सदेवासुरगन्धर्वां ससागरनगां महीम् / त्वं मर्दितां प्रकुर्याश्च पाणिभ्यां मदगर्वितः // lal_21.40 //
त्वद्विधानां सहस्राणि गङ्गावालिकया समाः / रोमं तस्य न चालेयुर्बोधिसत्त्वस्य धीमतः // lal_21.41 //
वामे भयंकर आह -
भयं हि ते तात भृशं किमर्थं सेनाय मध्ये किमवस्थितस्य / सेना न तस्यास्ति कुतः सहायाः कस्माद्भयं ते भवतीह तस्मात् // lal_21.42 //
दक्षिण एकाग्रमतिराह -
यूथं न लोके ऽस्ति शशीरवीनां न चक्रवर्ती न च केसरीणाम् / न बोधिसत्त्वानिह तात यूथं एकः समर्थो नमुचिं निहन्तुम् // lal_21.43 //
वामे ऽवतारप्रेक्ष्याह -
न शक्तिशूला न गदा न खङ्गाः न हस्तिनो ऽश्वा न रथा न पत्तिः / तं शौण्डमेकं श्रमणं निषण्णं हन्स्ये ऽद्य मा संभ्रम तात किंचि // lal_21.44 //
दक्षिणे पुण्यालंकार आह -
नारायणस्य यथ काय अछेद्यभेद्यो क्षान्तिबलैः कवचितो दृढवीर्यखङ्गः / त्रिविमोक्षवाहनसि प्रज्ञधनुः स तात पुण्याबलेन स हि जेष्यति मारसेनाम् // lal_21.45 //
वामे ऽनिवर्त्याह -
न निवर्तते तृणगतः प्रदहन् दवाग्निः क्षिप्तं शरो न च निवर्तति शिक्षितेन / वज्रं नभे निपतितं न निवर्तते च न स्थानमस्ति मम शाक्यसुतं ह्यजित्वा // lal_21.46 //
दक्षिणे धर्मकाम आह -
आर्द्रं तृणं प्राप्य निवर्तते ऽग्निः गिरिकूटमासाद्य निवर्तते शरः / वज्रं महीं प्राप्य अधः प्रयाति अप्राप्य शान्तममृतं न निवर्तते अयम् // lal_21.47 //
किं कारणम्?
शक्य तात् अन्तरीक्षे लेख्यचित्र चित्रितुं यावन्ति केचि सर्व सत्त्व एकचित्त स्थापितुम् / चन्द्रासूर्य मारुतं च शक्य पाश बन्धितुं न बोधिसत्त्व शक्य तात बोधिमण्डि चालितुम् // lal_21.48 //
वामे ऽनुपशान्त आह -
दृष्टीविषेण महता प्रदहामि मेरुं भस्मीकरोमि सलिलं च महोदधीनाम् / बोधिं च पश्य श्रमणं च अहं हि तात दृष्ट्या यथाद्य उभयं हि करोमि भस्मम् // lal_21.49 //
दक्षिणे सिद्धार्थ आह -
विषेण पूर्णो यदि वैष सर्वो भवेत्त्रिसाहस्रवरः प्रदीप्तः / निरीक्षणादेव गुणाकरस्य सुनिर्विषत्वं विषमभ्युपेयात् // lal_21.50 //
विषाणमुग्रं त्रिभवेह यच्च रागश्च दोषश्च तथैव मोहः / ते तस्य काये च तथैव चित्ते नभे यथा पङ्करजो न सन्ति // lal_21.51 // * * * * तस्मान्निवर्तामह तात सर्वे // lal_21.52 // वामे रतिलोलो नामाह -
अहु तूर्यसहस्र प्रवादितैः अप्सरकोटिसहस्र अलंकृतैः / लोभयित्वन नेष्यि पुरोत्तमं कामरतिं हि करोमि वशे तव // lal_21.53 //
दक्षिणे धर्मरतिराह -
धर्मरती सद तस्य रतीहा ध्यानरती अमृतार्थरतिश्च / सत्त्वप्रमोक्षण मैत्ररतिश्च रागरतिं स रतिं न करोति // lal_21.54 //
वामे वातजवो नामाह -
जवेनहं चन्द्ररवी ग्रसेयं प्रवायमानं गगने च वायुम् / अद्यैव तात श्रमणं गृहीत्वा प्रासस्य मुष्टिं विकिरामि वायुम् // lal_21.55 //
दक्षिणे ऽचलमतिर्नाम मारपुत्रः, स एवमाह -
यथा तवैषो जववेग उग्रः तद्वद्यदि स्यात्सुरमानुषाणाम् / सर्वे समग्रापि न ते समर्थाः कर्तुं रुजामप्रतिपुद्गलस्य // lal_21.56 //
वामे ब्रह्ममतिराह -
स्यात्तादृशानामपि वृन्दमुग्रं कुर्यान्न किंचित्तव मानघातम् / प्रागेव सैकः प्रकरोति किं ते वृन्देन साध्यन्ति हि सर्वकार्या // lal_21.57 //
दक्षिणे सिंहमतिराह -
न सिंहवृन्दं भुवि दृष्टपूर्वं दृष्टीविषाणां अपि नास्ति वृन्दम् / तेजस्विनां सत्यपराक्रमाणां पुरुषर्षभाणां अपि नास्ति वृन्दम् // lal_21.58 //
वामे सर्वचण्डालो नामाह -
न ते श्रुता तात गिरो ऽभिदीप्ता यथा नदन्ते तनयास्तवेमे / वीर्येण वेगेन बलेन युक्ता व्रजाम शीघ्रं श्रमणं निहन्तुम् // lal_21.59 //
दक्षिणे सिंहनादी नामाह -
बहवः शृगाला हि वनान्तरेषु नदन्ति नादान्न सतीह सिंहे / ते सिंहनादं तु निशाम्य भीमं त्रस्ता पलायन्ति दिशो दशासु // lal_21.60 //
मारौरसास्तद्वदमी अपण्डिताः अश्रुत्व नादं पुरुषोत्तमस्य / नदन्ति तावत्स्वमता ऽतिघृष्टा मनुष्यसिंहे नदिते न सन्ति // lal_21.61 //
वामात्पार्श्वाद्दुश्चिन्तितचिन्त्याह -
यच्चिन्तयामि तदिहाशु भोति कथं न एषो इम वीक्षते च / मूढो न एषो अनभिज्ञ किं वा यदुत्थिहित्वा न पलायते लघुम् // lal_21.62 //
दक्षिणात्पार्श्वात्सुचिन्तितार्थो नामाह -
मूढो न वायं अपराक्रमो वा युष्मैव मूढाश्च असंयताश्च / न युष्मि जानाथ इमस्य वीर्यं प्रज्ञाबलेनास्य जिताः स्थ सर्वे // lal_21.63 //
मारात्मजानां यथ गङ्गवालिका एतेन वीर्येण यथैव यूयम् / रोमस्य एकं न समर्थ चालितुं प्रागेव यश्चिन्तयि घातयिष्ये // lal_21.64 //
मा यूयमत्र क्षिणुयात मानसं प्रसन्नचिता भवथा सगौरवाः / निवर्तया मा प्रकरोथ विग्रहं भविष्यते ऽसौ त्रिभवेस्मि राजा // lal_21.65 //
पेयालम् / एवं ते सर्वे मारपुत्राः परिपुर्णं पुत्रसहस्रं शुक्लपाक्षिकाश्च कृष्णपाक्षिकाश्च मारं पापीयांसं पृथक्पृथग्गाथाभिरध्यभाषन्त //
अथ खलु भद्रसेनो नाम मारस्य पापीयसः सेनापतिः, स मारं पापीयसं गाथाभिरध्यभाषत -
ये ते तवानुयात्राः शक्रो लोकपालाश्च किन्नरगणाश्च / असुरेन्द्रा गरुडेन्द्राः कृताञ्जलिपुटाः प्रणत तस्मै // lal_21.66 //
किं पुनरनानुयात्रा ब्रह्मा आभास्वराश्च सुरपुत्राः / देवाश्च शुद्धावासकास्ते ऽपि च सर्वे प्रणत तस्मै // lal_21.67 //
ये च तवेमे पुत्राः प्रज्ञामेघाविनश्च बलिनश्च / ते बोधिसत्त्वहृदयं अनुप्रविष्टा नमस्यन्ति // lal_21.68 //
याप्येष मारसेना अशीति स्फुट योजनानि यक्षाद्यैः / भूयिष्ठ सर्वप्रेक्षी प्रसन्नमनसो हि निर्दोषम् // lal_21.69 //
दृष्ट्वा यथा सुभीमां रौद्रां विकृतां चमूमिमां घोराम् / न च विस्मितो न चलितो ध्रुवमस्य जयो भवत्यद्य // lal_21.70 //
स्थित यत्र च सेनेयं तत्र उलूकाः शिवाश्च विरुवन्ति / वायसगर्दभरुदितं निवर्तितव्यं क्षमं शीघ्रम् // lal_21.71 //
वीक्षस्व बोधिमण्डे पटुक्रोञ्चा हंस कोकील मयूराः / अभिदक्षिणं करोन्ति ध्रुवमस्य जयो भवत्यद्य // lal_21.72 //
यत्र स्थित सेनेयं तत्र मसिः पांशवश्च वर्षन्ति / महिमण्डि कुसुमवृष्टिः कुरुष्व वचनं निवर्तस्व // lal_21.73 //
यत्र स्थित सेनेयं उत्कूलनिकूल शल्यकण्टकाकीर्णम् / महिमण्ड कनकनिर्मलु निवर्तितव्यं क्षमं प्राज्ञैः // lal_21.74 //
दृष्टा ति सुपिनि पूर्वे भेष्यसि प्रत्यक्षु यदि न गच्छासि / भस्मं चमूं च करिष्यति ऋषिभिर्देशा कृता यथा भस्मम् // lal_21.75 //
राजा यतो ऋषिवरो रोषितु आसीत् स ब्रह्मदत्तेन / उद्दग्धदण्डकवनं वर्षैर्बहुभिस्तृण न जाता // lal_21.76 //
ये केचि सर्वलोके ऋषयो व्रतचारिणस्तपोयुक्ताः / तेषामयं प्रधानो ह्यहिंसकः सर्वभूतानाम् // lal_21.77 //
किं ते न श्रुतपूर्वं काये दीप्ता सुलक्षणा यस्य / निष्क्रामति चागारात्स भवति बुद्धो जितक्लेशः // lal_21.78 //
इम ईदृशी विभूतिं पूजार्थं निर्मिता जिनसुतेभिः / तं नूनमग्रसत्त्वो ह्यग्राहुतिसंप्रतिग्राही // lal_21.79 //
ऊर्णा यथा सुविमला विराजते क्षेत्रकोटिनयुतेषु / जिह्मीकृताः स्म च तया निसंशयं एष मारबलहन्ता // lal_21.80 //
मूर्ध्नं यथास्य देवैर्द्रष्टु न शक्यं न वै भवाग्रस्थैः / नूनं सर्वज्ञत्वं प्राप्स्यत्यन्यैरनुपदिष्टम् // lal_21.81 //
यथ मेरुचक्रवालाश्चन्द्रासूर्यश्च शक्रब्रह्माणः / वृक्षाश्च पर्वतवराः प्रणते सर्वे महीमण्डम् // lal_21.82 //
निःसंशयु पुण्यबली प्रज्ञाबलवांश्च ज्ञानबलवांश्च / क्षान्तिबलवांश्च वीर्यबलवानबलंकर्ता नमुचिपक्षां // lal_21.83 //
हस्ती यथामभाण्डं प्रमर्दते क्रोष्टुकान् यथा सिंहः / खद्योतं वादित्यो भेत्स्यति सुगतस्तथा सेनाम् // lal_21.84 //
एतच्छुत्वा परो मारपुत्रो ऽतीव रोषात्संरक्तनयनो ऽब्रवीत् -
एकस्य वर्णानतिअप्रेमयां प्रभाषसे तस्य त्वमेककस्य / एको हि कर्तुं खलु किं समर्थो महाबला पश्यसि किं न भीमा // lal_21.85 //
अथ दक्षिणात्पार्श्वान्मारप्रमर्दको नाम मारपुत्र आह -
सूर्यस्य लोके न सहायकृत्यं चन्द्रस्य सिंहस्य न चक्रवर्तिनः / बोधौ निषण्णस्य च निश्चितस्य न बोधिसत्त्वस्य सहायकृत्यम् // lal_21.86 //
अथ बोधिसत्त्वो मारस्य दुर्बलीकरणहेतोर्विकसितशतपत्रनिभं वदनं संचारयति स्म / यं दृष्ट्वा मारः पापीयान् प्रपलायानो ऽभूत् / मम चमू बोधिसत्त्वस्य वदनं प्रतिष्ठेति (वैद्य 232) मन्यमानः प्रपलानः पुनरेव प्रतिनिवृत्य सपरिवारो विविधानि प्रहरणानि बोधिसत्त्वस्योपर्युत्सृजति स्म सुमेरुमात्रांश्च पर्वतान् / ते च बोधिसत्त्वस्योपरि प्रक्षिप्ताः पुष्पविताने विमानानि संतिष्ठन्ते स्म / ये च दृष्टिविषा आशीविषाः श्वासविषाश्चाग्निज्वालानुत्सृजन्ति स्म, तच्चाग्निमण्डलं बोधिसत्त्वस्य प्रभामण्डलमिव संतिष्ठते स्म //
अथ पुनरेव बोधिसत्त्वो दक्षिणेन पाणिना शीर्षं प्रमार्ष्टि स्म / मारश्च पश्यति स्म / बोधिसत्त्वस्य हस्ते खङ्ग इति दक्षिणामुखः प्रपलायते स्म / न किंचिदिति पुनरेव प्रतिनिवर्तते स्म / निवृत्य च बोधिसत्त्वस्योपरि नानाविधानि प्रहरणान्युत्सृजति स्म असिधनुशरशक्तितोमरपरश्वधभुशुण्डिमुसलकणयगदाचक्रवज्रमुद्गरपादपशिलापाशायोगुडानतिभयानकान् / ते चोत्क्षिप्तमात्रा नानाविधानि पुष्पदामानि पुष्पवितानानि इव संतिष्ठन्ते स्म / मुक्तसुकुसुमानि च महीमवकिरन्तो माल्यदामानि चावलम्बमानानि बोधिवृक्षं विभूषयन्ति स्म / तांश्च व्यूहान् विभूतिं दृष्ट्वा बोधिसत्त्वस्य मारः पापीयानीर्ष्यामात्सर्योपहतचेता बोधिसत्त्वमब्रवीत् - उत्तिष्ठोत्तिष्ठ हे राजकुमार, राज्यं भुङ्क्ष्व, तावत्तव पुण्यम्, कुतस्ते मोक्षप्राप्तिः?
अथ बोधिसत्त्वो धीरगम्भीरोदारश्लक्ष्णमधुरया वाचा मारं पापीयसमेतदवोचत् - त्वया तावत्पापीयन्नेकेन निर्गडेन यज्ञेन कामेश्वरत्वं प्राप्तम् / मया त्वनेकानि यज्ञकोटीनियुतशतसहस्राणि निर्गडानि यष्टानि / करचरणनयनोत्तमाङ्गानि च निकृत्य निकृत्यार्थिभ्यो दत्तानि / गृहधनधान्यशयनवसनं चंक्रमोद्यानानि चानेकशो याचनकेभ्यो निसृष्टानि सत्त्वानां मोक्षार्थिना /
अथ खलु मारः पापीयान् बोधिसत्त्वं गाथया प्रत्यभाषत् -
यज्ञो मयेष्टस्त्वमिहात्र साक्षी निरर्गडः पूर्वभवे ऽनवद्यः / तवेह साक्षी न तु कश्चिदस्ति किंचित्प्रलापेन पराजितस्त्वम् // lal_21.87 //
बोधिसत्त्व आह - इयं पापीयन् मम भूतधात्री प्रमाणमिति //
अथ बोधिसत्त्वो मारं मारपर्षदं च मैत्रीकरुणापूर्वंगमेन चित्तेन स्फुरित्वा सिंहवदभीतो ऽनुत्त्रस्तो ऽस्तम्भी अदीनो ऽलीनः असंक्षुभितो ऽलुलितो विगतभयलोमहर्षः शङ्खध्वजमीनकलशस्वस्तिकाङ्कुशचक्राङ्कमध्येन जालावितानावनद्धेन सुरुचिरताम्रनखालंकृतेन मृदुतरुणसुकुमारेणानन्तकल्पापरिमितकुशलमूलसंभारोपचितेन दक्षिणेन पाणिना सर्वकायं परिमार्ज्य सलीलं महीं पराहनति स्म / तस्यां च वेलायामिमां गाथामभाषत् -
इयं मही सर्व जगत्प्रतिष्ठा अपक्षपाता सचराचरे समा / इयं प्रमाणा मम नास्ति मे मृषा साक्षित्वमस्मिं मम संप्रयच्छतु // lal_21.88 //
संस्पृष्टमात्रा चेयं महापृथिवी बोधिसत्त्वेन षड्विकारमकम्पत् प्राकम्पत् संप्राकम्पत् / अरणत् प्रारणत् संप्रारणत् / तद्यथापि नाम मागधिकानां कांसपात्री काष्ठेनाभ्याहता रणत्यनुरणति, एवमेवेयं महापृथिवी बोधिसत्त्वेन पाणिताडिता रणत्यनुरणति स्म //
अथ खलु यस्यां त्रिसाहस्रमहासाहस्रलोकधातौ स्थावरा नाम महापृथिवीदेवता सा कोटिशतपृथिवीदेवतापरिवारा सर्वां महापृथिवीं संप्रकम्प्य नातिदूरे बोधिसत्त्वस्य पृथिवीतलं भित्त्वार्धकायाभ्युन्नाम्य सर्वालंकारप्रतिमण्डिता येन बोधिसत्त्वस्तेनावनतकाया प्राञ्जलीकृता बोधिसत्त्वमेतदवोचत् - एवमेतन्महापुरुष एवमेतत् यथा त्वयाभिहितम् / वयमत्र प्रत्यक्षाः / अपि तु भगवंस्त्वमेव सदेवकस्य लोकस्य परमसाक्षीभूतः प्रमाणभूतश्चेति / एवमुक्त्वा स्थावरा महापृथिवीदेवता मारं पापीयांसमनेकप्रकारं निर्भर्त्स्य बोधिसत्त्वं चाभ्यभिस्तुत्य विविधं च स्वकं प्रभावं संदर्श्य सपरिवारा तत्रैवान्तरधात् //
तं श्रुत्व मेदिनिरवं स शठः ससैन्यः उत्त्रस्त भिन्नहृदयो प्रपलान सर्वे / श्रुत्वेव सिंहनदितं हि वने शृगालाः काका व लोष्टुपतने सहसा प्रणष्टाः // lal_21.89 //
अथ खलु मारः पापीयान् दुःखितो दुर्मना अनात्तमना अपत्रपमाणरूपो मानाभिभवान्न गच्छति स्म / न निवर्तते स्म / न पलायते स्म / पश्चान्मुखं स्थित्वा उत्तरि सेनामामन्त्रयते स्म - सहिताः समग्रास्तावद्भवन्तस्तिष्ठन्तु मुहुर्तं यावद्वयं ज्ञास्यामो यदि तावच्छक्येतायमनुनयेनोत्थापयितुम् / मा खल्वेवंरूपस्य सत्त्वरत्नस्य सहसा विनाशो भूदिति //
अथ खलु मारः पापीयान् स्वा दुहितॄरामन्त्रयते स्म - गच्छध्वं यूयं कन्यकाः, बोधिमण्डमुपसंक्रम्य बोधिसत्त्वस्य जिज्ञासनां कुरुत - किं सरागो ऽथ वीतरागः / किं मूको ऽथ प्रज्ञः / किमन्धो ऽथ देशज्ञो ऽर्थपरायणः / दीनो वा धीरो वेति / इदं खलु वचनं श्रुत्वा ता अप्सरसो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामन् / उपसंक्रम्य बोधिसत्त्वस्य पुरतः स्थित्वा द्वात्रिंशदाकारां स्त्रीमायामुपदर्शयन्ति स्म / तद्यथा / कतमा द्वात्रिंशदाकारा? काश्चित्तत्रार्धवदनं छादयन्ति स्म / काश्चिदुन्नतान् कठिनान् पयोधरान् दर्शयन्ति स्म / काश्चिदर्धविहसितैर्दन्तावलिं दर्शयन्ति स्म / काश्चिद्बाहूनुत्क्षिप्य विजृम्भमाणान् काक्षान् दर्शयन्ति स्म / काश्चिद्बिम्बफलोपमानोष्ठान् दर्शयन्ति स्म / काश्चिदर्धनिमीलितैर्नयनैर्बोधिसत्त्वं निरीक्षन्ते स्म, दृष्ट्वा च शीघ्रं निमीलयन्ति स्म / काश्चिदर्धप्रावृतान् पयोधरान् दर्शयन्ति स्म / काश्चिच्छिथिलाम्बरां (वैद्य 234) समेखलां श्रोणीं दर्शयन्ति स्म / काश्चित्समेखलां तनुदुकूलनिवासितां श्रोणीं दर्शयन्ति स्म / काश्चिज्झणझणाशद्बान्नूपुरैः कुर्वन्ति स्म / काश्चिदेकावलीं स्तनान्तरेषूपदर्शयन्ति स्म / काश्चिद्विनग्नानर्घोरूनुपदर्शयन्ति स्म / काश्चिच्छिरःस्वंसेषु च पत्रगुप्ताञ्शुकशारिकांश्चोपविष्टानुपदर्शयन्ति स्म / काश्चिदर्धकटाक्षैर्बोधिसत्त्वं निरीक्षन्ते स्म / काश्चित्सुनिवस्ता अपि दुर्निवस्ताः कुर्वन्ति स्म / काश्चिज्जघनरसनाः कम्पयन्ति स्म / काश्चित्संभ्रान्ता इव सविलासमितस्ततश्चंक्रम्यन्ते स्म / काश्चिन्नृत्यन्ति स्म / काश्चिद्रायन्ति स्म / काश्चिद्विलसन्ति स्म, लज्जन्ते च /
काश्चित्कदल्य इव वायुविधूता उरू कम्पयन्ति स्म / काश्चिद्गम्भीराः स्तनन्ति स्म / काश्चिदंशुकप्रावृताः सघण्टारसना विहस्यन्त्यश्चंक्रम्यन्ते स्म / काश्चिद्वस्त्राण्याभरणानि च पृथिव्यां छोरयन्ति स्म / काश्चिद्गुह्यप्रकाशानि सर्वाभरणान्युपदर्शयन्ति स्म / काश्चिद्गन्धानुलिप्तान् बाहूनुपदर्शयन्ति स्म / काश्चिद्गन्धानुलेपनकुण्डलान्युपदर्शयन्ति स्म / काश्चिदवगुण्ठिकया वदनानि छादयन्ति स्म, क्षणेक्षणा चोपदर्शयन्ति स्म / काश्चित्पूर्वहसितरमितक्रीडिता अन्योन्यं स्मारयन्ति स्म / पुनरपि लज्जिता इव तिष्ठन्ति स्म / काश्चित्कुमारीरूपाण्यप्रसूतिरूपाणि मध्यस्त्रीरूपाणि चोपदर्शयन्ति स्म / काश्चित्कामोपहितेन बोधिसत्त्वं निमन्त्रयन्ते स्म / काश्चिन्मुक्तकुसुमैर्बोधिसत्त्वमवकिरन्ति स्म / पुरतश्च स्थित्वा बोधिसत्त्वस्याशयं मीमांसन्ते स्म / वदनं च निरीक्षन्ते स्म - किमयं रक्तेन्द्रियैः पश्यत्याहोस्विद्दूरीकरोति, नयने ईर्यते वा न वेति / ताः पश्यन्ति बोधिसत्त्वस्य वदनं शुद्धं विमलं चन्द्रमण्डलमिव राहुविनिर्मुक्तं सूर्यमिव प्रोदयमानं यूपमिव कनकमयं विकसितमिव सहस्रपत्रं हव्यावसिक्तमिवानलं मेरुमिवाचलं चक्रवालमिवाभ्युद्रतं गुप्तेइन्द्रियं नागमिव सुदान्तचित्तम् //
अथ ता मारदुहितरो भूयस्या मात्रया बोधिसत्त्वस्य संलोभनार्थमिमा गाथा अभाषन्त -
सुवसन्तके ऋतुवर आगतके रमिमो प्रिय फुल्लितपादपके / तव रूप सुरूप सुशोभनके वशवर्तिसुलक्षणचित्रितके // lal_21.90 //
वय जात सुजात सुसंस्थितिकाः सुखकारण देवनराण सुसंतुतिकाः / उत्थि लघुं परिभुञ्ज सुयौवनिकं दुर्लभ बोधि निवर्तय मानसकम् // lal_21.91 //
प्रेक्षसि ताव इमा मरुकन्य सुलंकृतिका तव कारण सज्जित भूषित आगतिका / को रूपमिमं समवेक्ष्य न रज्यति रागरतो अपि जर्जर काष्ठ व शोषितजीवितको // lal_21.92 //
केष मृदू सुरभी वरगन्धिनिका मकुटाकुण्डलपत्रविबोधितआननिका / सुललाट सुलेपनआननिका पद्मविशुद्धविशालसुलोचनिका // lal_21.93 //
परिपूरितचन्द्रनिभाननिका बिम्बसुपक्वनिभाधरिका / शङ्खकुन्दहिमशुक्लसुदन्तिनिका प्रेक्ष कान्त रतिलालसिकाम् // lal_21.94 //
कठिनपीनपयोधर उद्गतिकां त्रिवलीकृतमध्यसुसुन्दरिकाम् / जघनाङ्गणचारुसुवित्थरिकां प्रेक्षसु नाथ सुकामिनिकाम् // lal_21.95 //
गजभुजसंनिभऊरुणिकां वलयनिरन्तरबाहनिकाम् / काञ्चीवरश्रोणिसमण्डितिकां प्रेक्षहि नाथ इमा तव दासिनिकाम् // lal_21.96 //
हंसगतीसुविलम्बितगामिनिकां मञ्ञुमनोज्ञसुमन्मथभाषिणिकाम् / ईदृशरूपसुभूषिणिकां दिव्यरतीषु सुपण्डितिकाम् // lal_21.97 //
गीतकवादितनृत्यसुशिक्षितिकां रतिकारणजातिसुरूपिणिकाम् / यदि नेच्छसि कामसुलालसिकां सुष्टु सुवञ्चितको ऽसि भृशं खलु लोके // lal_21.98 //
निधि दृष्ट यथा हि पलायति को चि नरो धनसौख्यमजानकु मूढमनो / त्वमपि तथैव हि रागमजाननको यः स्वयमागतिकां न हि भुञ्जसि कामिनिकाम् // lal_21.99 //
इति //
अथ खलु भिक्षवो बोधिसत्त्वो ऽनिमिषनयनः प्रहसितवदनः स्मितमुखो ऽविकोपितैरिन्द्रियैरनभिसंस्कृतैर्गात्रैरजिह्मो ऽरक्तो ऽदुष्टो ऽमूढः शैलेन्द्रवदप्रकम्प्यो ऽनवलीनो ऽनवदीर्णो ऽसंपीडितः सुसंस्थितया बुद्ध्या स्वाधीनेन ज्ञानमुखेनात्यन्तसुप्रहीणत्वात्क्लेशानां श्लक्ष्णया मधुरया वाचा ब्रह्मातिरेकेण घोपेण करविङ्करुतेन स्वरेण वल्गुना मनोज्ञेन तां मारदुहितॄन् गाथाभिः प्रत्यभाषत् -
कामा भो बहुदुःखसंचया दुःखमूला ध्यानर्द्धीतपसं च भ्रंसनी अबुधानाम् / न स्त्रीकामगुणेभि तृप्तितां विदुमाहुः प्रज्ञातृप्तिकरो भविष्यहं अबुधानाम् // lal_21.100 //
कामां सेवयतो विवर्धते पुन तृष्णा पीत्वा वै लवणोदकं यथा नरु कश्चि / नात्मार्थे च परार्थि भोतिहा प्रतिपन्नो आत्मार्थे च परार्थ उत्सुको भविताहम् // lal_21.101 //
फेनाबुद्बुदतुल्यसंनिभं तव रूपं मायारङ्गमिवा विथापितं स्वमतेन / क्रीडा वै सुपिनेव अध्रुवा अपिनित्या बालानां सद चित्तमोहना अबुधानाम् // lal_21.102 //
नेत्रा बुद्बुदतुल्यसादृशा त्वचनद्धाः कठिनं शोणितपिण्डमुद्रतं यथ गण्डम् / उदरो मूत्रपुरीषसंचयो असुचोक्षः कर्मक्लेशसमुत्थितो दुखयन्त्रः // lal_21.103 //
संमूढा यहि बालबुद्धयो न तु विज्ञाः शुभतो कल्पयमान आश्रयं वितथेन / संसारे बहुकाल संसरी दुःखमूले अनुभोक्ता निरयेषु वेदना बहुदुःखा // lal_21.104 //
श्रोणि प्रस्रवते विगन्धिका प्रतिकूला उरूजङ्घक्रमाश्च संस्थिता यथ यन्त्रम् / भूतं युष्मि अहं निरीक्षमी यथ माया हेतुप्रत्ययतः प्रवर्तथा वितथेन // lal_21.105 //
दृष्ट्वा कामगुणांश्च निर्गुणां गुणहीनां आर्यज्ञानपथस्य उत्पथां विपथांश्च / विषपत्राग्निसमां महोरगां यथ क्रुद्धां बाला अत्र हि मूर्छिता सुखसंज्ञाः // lal_21.106 //
कामादासु भवीति यो नर प्रमदानां शीले उत्पथि ध्यायि उत्पथि मतिहीनो / ज्ञाने सो हि सुदूरि तिष्ठते रतिलोलो यो ऽसौ धर्मरतिं जहित्वना रमि कामैः // lal_21.107 //
नो रागेण सही वसाम्यहं न च दोषैः नो नैर्नित्यअशुभअनात्मभिर्वसि सार्धम् / आरातीयरतीयसंवशेन च सार्धं निर्मुक्तं मम चित्तु मारुतो गगने वा // lal_21.108 //
पूर्णं सर्वजगत्त्वमीदृशैर्यदिह स्यात् कल्पं ताभि सहा समोसृतो विहरेयम् / नो वा मह्य खिलं न रज्यना न च मोहो आकाशःसमतुल्यमानसा जिन भोन्ति // lal_21.109 //
यद्यपीह रुधिरास्थिवर्जिताः देवअप्सर सुनिर्मलाः शुभाः / ते ऽपि सर्वि सुमहद्भये स्थिताः नित्यभावरहिता अशाश्वताः // lal_21.110 //
अथ खलु ता मारदुहितरः सुशिक्षिताः स्त्रीमायासु भूयस्या मात्रया रागमददर्पं संजनय्य चेष्टामुपदर्श्य गात्राणि विभूषयित्वा स्त्रीमायामुपदर्श्य बोधिसत्त्वं प्रलोभयन्ति स्म //
तत्रेदमुच्यते -
तृष्णरती रतिश्च सहिता प्रमदवर मधुरा मारसमीरिताः सुललिता त्वरितमुपगताः / वायुसमीहिता किसलयास्तरुणतरुलता नृत्तत लोभयं नृपसुतं द्रुमविटपगतम् // lal_21.111 //
एष वसन्तकालसमयः प्रवर ऋतुवरो नारिनराण हर्षणकरो निहततमरजः / कोकिलहंसमोररविशा द्विजगणकलिलः काल उपस्थितो ऽनुभवितुं मदनगुणरतिम् // lal_21.112 //
कल्पसहस्रशीलनिरतो व्रततपचरितो निश्चल शैलराजसदृशस्तरुणरविवपुः / मेघनिनादवल्गुवचनो मृगपतिनिनदो वचनमुवाच सो ऽर्थसहितं जगति हितकरः // lal_21.113 //
कामविवाद वैर कलहा मरणभयकरा बालजनोपसेवित सदा बुधजनरहिता / प्राप्तयु कालु यत्र सुगतैरमृतमधिगतं अद्य भविष्य मारु जिनिया दशबलु अरहान् // lal_21.114 //
माय निदर्शयन्तिय वदं शृणु कमलमुखा राजु भविष्यसेश्वरवरः क्षितिपति बलवान् / तूर्यसहस्रसंप्रभणिते प्रमदवरगणे किं मुनिवेषकेन भवतो विरम रति भजा // lal_21.115 //
बोधिसत्त्व आह -
भेष्यि अहं हि राजु त्रिभवे दिवि भुवि महितो ईश्वरु धर्मचक्रचरणो दशबलु बलवान् / शैक्ष्यअशैक्ष्यपुत्रनयुतैः सततसमितमभिनतो धर्मरती रमिष्यि विषयैर्न रमि रमति मनः // lal_21.116 //
ता आहुः -
याव च यौवनं न गलितं प्रथमवयधरो याव च व्याधि नाक्रमति ते न च जर असिता / याव च रूपयौवनधरो वयमपि च सुखी ताव नु भुङ्क्ष्व कामरतयः प्रहसितवदनः // lal_21.117 //
बोधिसत्त्व आह -
याव च दुर्लभो ऽद्य लभितः क्षणवर अमृतो याव च वर्जिता क्षणदुखा असुरसुरपुरे / याव जरा च व्याधिमरणं न कुपितरूपवं तावहु भावयिष्यि सुपथं अभयपुरगमम् // lal_21.118 //
ता आहुः -
देवपुरालये ऽप्सरवृतस्त्रिदशपतिरिवा यामसुयामसंतुषितके अमरवरस्तुतो / मारपुरे च कामरतयः प्रमदवशगतः क्रीड्यनुभुङ्क्ष्व अस्मभि सहा विपुलरतिकरः // lal_21.119 //
बोधिसत्त्व आह -
काम तृणोसबिन्दुचपला शरदघनसमा पन्नगकन्यरोषसदृशा भृशभयकरणा / शक्रसुयामदेवतुषिता नमुचिवशगताः को ऽत्र रमेत नर्यभिलषिते व्यसनपरिगते // lal_21.120 //
ता आहुः -
पुष्पित पश्यिमां तरुवरां तरुणकिसलयां कोकिलजीवजीवकरुता मधुकरविरुता / स्निग्धसुनीलकुञ्चितमृदुं धरणितलरुहे किं नरसिंह सेवित वने रमसु युवतिभिः // lal_21.121 //
बोधिसत्त्व आह -
कालवशात्पुष्पित इमे किसलय तरवो भुक्षपिपासिता मधुकराः कुसुममभिगताः / भास्करु शोषयिष्यति यदा धरणितलरुहां पूर्वजिनोपभुक्तममृतं व्यवसितमिह मे // lal_21.122 //
मारदुहितर आहुः -
प्रेक्षहि ताव चन्द्रवदना नवनलिनिनिभा वाच मनोज्ञ श्लक्ष्ण दशना हिमरजतनिभा / ईदृश दुर्लभा सुरपुरे कुत मनुजपुरे ते त्वय लब्ध ये सुरवरैरभिलषित सदा // lal_21.123 //
बोधिसत्त्व आह -
पश्यमि कायमेध्यमशुचिं कृमिकुलभरितं जर्जरमित्वरं च भिदुरं असुखपरिगतम् / यत्सचराचरस्य जगतः परमसुखकरं तत्पदमच्युतं प्रतिलभे बुधजनमहितम् // lal_21.124 //
ता चतुषष्टिकामललितानि चमनुभविया नूपुरमेखला अभिहनी विगलितवसना / कामशराहताः समदनाः प्रहसितवदनाः किं तव आर्यपुत्र विकृतं यदि न भजसे // lal_21.125 //
सर्वभवेषु दोष विदितो ऽवचि विधुतरजा कामसिशक्तिशूलसदृशाः समधुक्षुरसमाः / सर्पशिरोग्निकर्षुसदृशाः सुविदित इह मे तेनहु नारिसंघ त्यजमी गुणहर प्रमदाः // lal_21.126 //
ता बहुभिः प्रकारनयुतैः प्रमदगुणकरैः लोभयितुं न शेकु सुगतं गजकरभगतिम् / लज्जिहिरोत्रपात्तु मुनिन प्रपतिषु चरणे गौरवु तुष्ट प्रेम जनिया स्तविषु हितकरम् // lal_21.127 //
निर्मलपद्मगर्भसदृशा शरदिशशिमुखा सर्पिहुतार्चितेजसदृशा कनकगिरिनिभा / सिध्यतु चिन्तिता ति प्रणिधि भवशतचरिता स्वामुपतीर्य तारय जगद्व्यसनपरिगतम् // lal_21.128 //
ता कर्णिकारचम्पकनिभं स्तविय बहुविधं कृत्व प्रदक्षिणं अतिशयं गिरिरिव अचलम् / गत्व पितुर्निपत्य शिरसा इदमवचि गिरं साध्वस नं हि तात प्रतिघं अमरनरगुरोः // lal_21.129 //
पश्यति पद्मपत्रनयनः प्रहसितवदनो नापि सरक्तु प्रेक्षति जनं न पि च सभृकुटिः / मेरु चलेय शुष्य उदधिः शशिरवि प्रपते नैव स दोषदर्शि त्रिभवे प्रमदवश गमिया // lal_21.130 //
अथ खलु मारः पापीयानिदं वचनं श्रुत्वा भूयस्या मात्रया दुःखितो दुर्मना अनात्तमनाः प्रदुष्टमनास्तां स्वदुहितॄनामन्त्रयते स्म - कथं भो न शक्यते स बोधिमण्डादुत्थापयितुम्? मा खलु मूढः अज्ञो ऽथ युष्माकं रूपाकृतिं न पश्यति?
अथ खलु ता मारदुहितरः स्वपितरं गाथाभिः प्रत्यभाषन्त -
श्लक्ष्णा मधुरं च भाषते न च रक्तो गुरु गुह्यं च निरीक्षते न च दुष्टः / ईर्यां चर्यां च प्रेक्षते न च मूढः काया सर्व पनेति आशयो सुगभीरः // lal_21.131 //
निःसंशयेन विदिताः पृथु इस्त्रिदोषाः कामैर्विरक्तमनसो न च रागरक्तः / नैवास्त्यसौ दिवि भुवीह नरः सुरो वा यस्तस्य चित्तचरितं परिजानयेया // lal_21.132 //
या इस्त्रिमाय उपदर्शित तत्र तात प्रविलीयु तस्य हृदयं भवियः सरागः / तं दृष्ट एकमपि कम्पितु नास्य चित्तं शैलेन्द्रराज इव तिष्ठति सो ऽप्रकम्प्यः // lal_21.133 //
शतपुण्यतेजभरितो गुणतेजपूर्णः शीले तपस्मि चरितो बहुकल्पकोट्यः / ब्रह्मा च देव शुभतेज विशुद्धसत्त्वा मूर्ध्ना निपत्य चरणेषु नमन्ति तस्मै // lal_21.134 //
निःसंशयेन विनिहत्य स मारसेनां पूर्वे जिनानुमत प्राप्स्यति अग्रबोधिम् / ताता न रोचति हि नो व रणे विवादे बलवत्सु विग्रहु सुकृच्छ्र अयं प्रयोगः // lal_21.135 //
प्रेक्षस्व तात गगने मणिरत्नचूडा संबोधिसत्त्वनयुताः स्थित गौरवेण / रत्नाकरा कुसुमदामविचित्रिताङ्गा संप्रेक्षिता दशबलैरिह पुजनार्थम् // lal_21.136 //
ये चेतना अपि च ये च अचेतना च वृक्षाश्च शैल गरूडेन्द्रसुरेन्द्रयक्षाः / अभ्योनता अभिमुखा गुणपर्वतस्य श्रेयो भवे प्रतिनिवर्तितुमद्य तात // lal_21.137 //
अपि च /
न तं तरेद्यस्य न पारमुत्तरे न तं खनेद्यस्य न मूलमुद्धरेत् / न कोपयेत्तं क्षमयेत्पुनोपि तं कुर्यान्न तं येन भवेच्च दुर्मनाः // lal_21.138 //
अथ खलु भिक्षवस्तस्मिन् समये ऽष्टौ बोधिवृक्षदेवताः / तद्यथा - श्रीः वृद्धिः तपा श्रेयसी विदुः ओजोबला सत्यवादिनी समङ्गिनी च / ता एता बोधिसत्त्वं संपूज्य षोडशभिराकारैर्बोधिसत्त्वं श्रिया वर्धयन्ति स्म, अभिष्टुवन्ति स्म -
उपशोभसे त्वं विशुद्धसत्त्व चन्द्र इव शुक्लपक्षे / अभिविरोचसे त्वं विशुद्धबुद्ध सूर्य इव प्रोदयमानः // lal_21.139 //
प्रफुल्लितस्त्वं विशुद्धसत्त्व पद्ममिव वारिमध्ये / नदसि त्त्वं विशुद्धसत्त्व केसरीव वनराजावनुचारी // lal_21.140 //
विभ्राजसे त्वं अग्रसत्त्व पर्वतराज इव सागरमध्ये / अभ्युद्गतस्त्वं विशुद्धसत्त्व चक्रवाल इव पर्वतः // lal_21.141 //
दुरवगाहस्त्वं अग्रसत्त्व जलधर इव्र रत्नसंपूर्णः / विस्तीर्णबुद्धिरसि लोकनाथ गगनमिवापर्यन्तम् // lal_21.142 //
सुस्थितबुद्धिरसि विशुद्धसत्त्व धरणितलवत्सर्वसत्त्वोपजीव्यः / अकलुषबुद्धिरसि अग्रसत्त्व अनवतप्त इव सरः सदा प्रसन्नः // lal_21.143 //
अनिकेतबुद्धिस्त्वं अग्रसत्त्व मारुत इव सर्वलोके सदाप्रसक्तः / दुरासदस्त्त्वं अग्रसत्त्व तेजोराज इव सर्वमन्युना प्रहीनः // lal_21.144 //
बलवानसि त्वं अग्रसत्त्व नारायण इव दुर्धर्षः / दृढसमादानस्त्वं लोकनाथ अनुत्थाता बोधिमण्डा // lal_21.145 //
अनिवर्त्यस्त्वं अग्रसत्त्व इन्द्रकरोत्सृष्ट इव वज्रः / सुलब्धलाभस्त्वं अग्रसत्त्व दशबलसमग्र्यो ऽचिराद्भविष्यसि // lal_21.146 //
इति //
एवं खलु भिक्षवो बोधिवृक्षदेवताः षोडशाकारं बोधिसत्त्वं श्रिया वर्धयन्ति स्म //
तत्र भिक्षवः शुद्धावासकायिका देवपुत्राः षोडशभिराकारैर्मारं पापीयांसं दुर्बलं कुर्वन्ति स्म / कतमैः षोडशभिः? तद्यथा -
ध्वस्तस्त्वं पापीयं जीर्णक्रोञ्च इव ध्यायसे / दुर्बलस्त्वं पापीयं जीर्णगज इव पङ्कमग्रः // lal_21.147 //
एकाक्यसि त्वं पापीयं निर्जित इव शूरप्रतिज्ञः / अद्वितीयस्त्वं पापीयं अटव्यां त्यक्त इव रोगार्तः // lal_21.148 //
अबलस्त्वं पापीयं भारक्लिष्ट इव बलीवर्दः / अपविद्धस्त्वं पापीयं वातक्षिप्त इव तरुः // lal_21.149 //
कुपथस्थितस्वं पापीयं मार्गभ्रष्ट इव सार्थिकः / दीनहीनस्त्वं पापीयं मत्सरिण इव दरिद्रपुरुषः // lal_21.150 //
मुखरस्त्वं पापीयं वायस इव प्रगल्भः / मानाभिभूतस्त्वं पापीयं अकृतज्ञ इव ढुर्विनीतः // lal_21.151 //
पलायिष्यसे त्वमद्य पापीयं कोष्टुक इव सिंहनादेन / विधुनेष्यसे त्वमद्य पापीयं वैरम्भवायुविक्षिप्त इव पक्षी // lal_21.152 //
अकालज्ञस्त्वं पापीयं पुण्यपरिक्षीण इव भैक्षुकः / विवर्जिष्यसे त्वमद्य पापीयं भिन्नभाजनभिव पांशुप्रतिपूर्णम् // lal_21.153 //
निगृहीष्यसे त्वमद्य पापीयं बोधिसत्त्वेन मन्त्रेणेवोरगाः / सर्वबलप्रहीणो ऽसि पापीयं छिन्नकरचरण इवोरुण्डः // lal_21.154 //
एवं खलु भिक्षवः शुद्धावासकायिका देवपुत्राः षोडशभिराकारैर्मारं पापीयांसं दुर्बलमकार्षुः //
तत्र भिक्षवो बोधिपरिचारिका देवपुत्राः षोडशभिराकारैर्मारं पापीयांसं विछच्दयन्ति स्म / कतमैः षोडशभिः? तद्यथा -
अद्य त्वं पापीयं निर्जेष्यसे बोधिसत्त्वेन परसैन्य इव शूरेण / निगृहीष्यसे त्वमद्य पापीयं बोधिसत्त्वेन दुर्बलमल्ल इव महामल्लेन // lal_21.155 //
अभिभविष्यसे त्वमद्य पापीयं बोधिसत्त्वेन खद्योतकमिव सूर्यमण्डलेन / विध्वंसयिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन मुञ्जमुष्टिमिव महामारुतेन // lal_21.156 //
वित्रासिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन केसरिणेव शृगालः / प्रपातिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन महासाल इव मूलछिन्नम् // lal_21.157 //
विलोप्स्यसे त्वमद्य पापीयं बोधिसत्त्वेनामित्रनगरमिव महाराजेन / विशोषिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन गोष्पदवारीव महातपेन // lal_21.158 //
पलायिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन वध्यविमुक्त इव धूर्तपुरुषः / उद्भ्रामिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन अग्निदाहेनेव मधुकरवृन्दम् // lal_21.159 //
रोषिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन राष्ट्रभ्रष्ट इव धर्मराजः / ध्यायिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन जीर्णक्रोञ्च इव लूनपक्षः // lal_21.160 //
विभर्त्स्यसे त्वमद्य पापीयं बोधिसत्त्वेन क्षीणपथ्यादन इवाटवीकान्तारे / विलपिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन भिन्नयानपात्र इव महार्णवे // lal_21.161 //
आम्लायिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन कल्पदाह इव तृणवनस्पतयः / विकिरिष्यसे त्वमद्य पापीयं बोधिसत्त्वेन महावज्रेणेव गिरिकूटम् // lal_21.162 //
एवं खलु भिक्षवो बोधिपरिचारिका देवपुत्राः षोडशाकारैर्मारं विच्छन्दयन्ति स्म / न च मारः पापीयान् विनिवर्तते स्म //
तत्रेदमुच्यते -
भूतां चोदन श्रुत्व देवतगणा न निवर्तते सो ऽन्तको उच्छेथा हनथा विलुम्पथ इमां मा दास्यथा जीवितम् / एषोत्तीर्ण स्वयं ममापि विषयां तारिष्यते चापरां नान्यं मोक्ष वदेमि किंचि श्रमणे उत्थापयेत्प्रक्रमेत् // lal_21.163 //
बोधिसत्त्व आह -
मेरुः पर्वतराज स्थानतु चले सर्वं जगन्नो भवेत् सर्वे तारकसंघ भूमि प्रपते सज्योतिषेन्दुर्नभात् / सर्वा सत्त्व करेय एकमतयः शुष्येन्महासागरो न त्वेव द्रुमराजमूलुपगतश्चाल्येत् अस्मद्विधः // lal_21.164 //
मार आह -
कामेश्वरो ऽस्मि वसिता इह सर्वलोके देवा सदानवगणा मनुजाश्च तिर्या / व्याप्ता मया मम वशेन च यान्ति सर्वे उत्तिष्ठ मह्य विषयस्थ वचं कुरुष्व // lal_21.165 //
बोधिसत्त्वः आह -
कामेश्वरो ऽसि यदि व्यक्तमनीश्वरो ऽसि धर्मेश्वरो ऽहमपि पश्यसि तत्त्वतो माम् / कामेश्वरो ऽसि यदि दुर्गति न प्रयासि प्राप्स्यामि बोधिमवशस्य तु पश्यतस्ते // lal_21.166 //
मार आह -
एकात्मकः श्रमण किं प्रकरोषि रण्ये यं प्रार्थयस्यसुलभः खलु संप्रयोगः / भृग्वङ्गिरप्रभृतिभिस्तपसो प्रयत्ना प्राप्तं न तत्पदवरं मनुजः कुतस्त्वम् // lal_21.167 //
बोधिसत्त्व आह -
अज्ञानपूर्वकु तपो ऋषिभिः प्रतप्तो क्रोधाभिभूतमतिभिर्दिवलोककामैः / नित्यं न नित्यमिति चात्मनि संश्रयद्भिः मोक्षं च देशगमनस्थितमाश्रयद्भिः // lal_21.168 //
ते तत्वतो ऽर्थरहिताः पुरुषं वदन्ति व्यापिं प्रदेशगत शाश्वतमाहुरेके / मूर्तं न मूर्तमगुणं गुणिनां तथैव कर्ता न कर्त इति चाप्यपरे ब्रुवन्ति // lal_21.169 //
प्राप्याद्य बोधि विरजामिह चासनस्थः त्वां जित्व मार विहतं सबलं ससैन्यम् / वर्तेष्यि अस्य जगतः प्रभवोद्भवं च निर्वाण दुःखशमनं तथ शीतिभावम् // lal_21.170 //
मारः क्रुद्धो दुष्टो रुष्टः परुषगिर पुन तु भणते गृहाण सुगौतमं एषो ह्येको ऽरण्ये न्यस्तो ग्रहिय मम पुरतु व्रजथा लघुं वशु कुर्वथा / शीघ्रं गत्वा मह्यं गेहे हडिनिगडयुगलविकृतं करोथ दुवारिकं स्वा मं द्रक्ष्ये दुःखेनार्तं बहुविविधजवितरवितं मरूण व चेटकम् // lal_21.171 //
बोधिसत्त्व आह -
शक्याकाशे लेख्यं चित्रं बहुविविधविकृत पदशः प्रकर्तु पृथक्पृथक् शक्यो वायुः पाशैर्बद्धुं दिशविदिशगमनजवितो नरेण सुयत्नतः / शक्या कर्तुं चन्द्रादित्यौ तमतिमिरवितिमिरकरौ नभो ऽद्य महीतलं शक्यो नाहं त्वत्सादृश्यैर्बहुभिरपि गणनविरुतैर्द्रुमात्प्रतिचालितुम् // lal_21.172 //
अभ्युत्थिता बलवती नमुचेश्चमू सा हाकारशङ्खरवभेरिमृदङ्गशब्दैः / ह पुत्र वत्स दयिता किमसि प्रनष्टो दृष्ट्वा इमां नमुचिसेनमतीव भीमाम् // lal_21.173 //
जाम्बूनदाकनकचम्पकगर्भगौरा सुकुमार देवनरसंस्तुत पूजनीय / अद्य प्रयास्यसि विनाशु महारणेस्मिं मारस्य एष्यसि वशं असुरस्य वेन्दुः // lal_21.174 //
ब्रह्मस्वरेण करविङ्करुतस्वरेणा तान् यक्षराक्षसगणां सुगतो बभाषे / आकाशु त्रासयितुमिच्छति यो ह्यविद्वान् सो ऽस्मद्विधं द्रुमवराद् ग्रहणाय इच्छेत् // lal_21.174 //
भित्त्वा च यो रजु गणेय महासहस्र लोम्ना च सागरजलं च समुद्धरेद्यः / वज्रामयां गिरिवरां विकिरेत्क्षणाच्च सो चापि मां तरुगतं न विहेठयेत // lal_21.175 //
युगमन्तरस्मि स्थित मारु प्रदुष्टचित्तो निष्कोष पाणिनमसिं प्रगृहीत्व तीक्ष्णम् / उत्तिष्ठ शीघ्र श्रमणास्ममतेन गच्छ मा वेणुयष्टि हरितां व छिनद्मि ते ऽद्य // lal_21.176 //
बोधिसत्त्व आह -
सर्वेयं त्रिसहस्र मेदिनि यदि मारैः प्रपूर्णा भवेत् सर्वेषां यथ मेरु पर्वतवरः पाणीषु खङ्गो भवेत् / ते मह्यं न समर्थ लोम चलितुं प्रागेव मां घातितुं मा दूषी नतिवेल संप्रनदहे स्मारेमि ते ऽनदृढम् // lal_21.177 //
विध्यन्ति शैलशिखरां ज्वलिताग्निवर्णां वृक्षां समूलक क्षिपी तथ ताम्रलोहम् / उष्ट्राश्च गोगजमुखास्तथ भैरवाक्षा आशीविषा भुजग दृष्टिविषाश्च घोराः // lal_21.178 //
मेघेव उत्थित चतुर्दिश गर्जमाना वज्राशनी तथ अयोगुड वर्षमाणाः / असिशक्तितीष्णपरशुं सविषांश्च बाणां भिन्दन्ति मेदिनितलं प्रमथन्ति वृक्षां // lal_21.179 //
बाहूशतैः शरशतानि क्षिपन्ति केचि आशीविषां हुतवहांश्च मुखा सृजन्ति / मकरादिकांश्च जलजानुदधेर्गृहीत्वा विध्यन्ति केचि भुजगां गरुडाश्च भूत्वा // lal_21.180 //
केचित्सुमेरुसदृशानयसा गुडानि तप्ताग्निवर्णशिखरा निक्षिपन्ति रुष्टाः / आसाद्य मेदिनितलं क्षुभयन्ति चोर्वीं हेष्ठा पस्कन्ध सलिलस्य विलोडयन्ति // lal_21.181 //
केचित्पतन्ति पुरतस्तथ पृष्ठतो ऽस्य वामे च दक्षिण पतन्ति अहो ति वत्स / विपरीतहस्तचरणा ज्वलितोत्तमाङ्गा नेत्रेभि निश्चरति विद्युदिव प्रदीप्ता // lal_21.182 //
दृष्ट्वा विकारविकृता नमुचेस्तु सेना मायाकृतं च यथ प्रेक्षति शुद्धसत्त्वः / नैवात्र मारु न बलं न जगन्न चात्मा उदचन्द्ररूपसदृशो भ्रमति त्रिलोकः // lal_21.183 //
चक्षुर्न इस्त्रि पुरुषो नपि चात्मनीयं स्रोतं च घ्राण तथा जिह्व तथैव कायः / अध्यात्मशून्य बहिशून्य प्रतीत्य जाता धर्मा इमे करकवेदकवीतिवृत्ताः // lal_21.184 //
सो सत्यवाक्यमकरोत्सद सत्यवादी येनेह सत्यवचनेनिम शून्य धर्माः / ये केचि सौम्य विनये अनुकूलपक्षाः ते शस्त्र पाणिषु निरीक्षिषु पुष्पदामां // lal_21.185 //
सो दक्षिणे करतले रचिताग्रजाले ताम्रैर्नखैः सुरुचिरैः सहस्रारचक्रे / जाम्बूनदार्चिसदृशैः शुभपुण्यजुष्टे मूर्ध्नातु याव स्पृशते चरणां सलीलम् // lal_21.186 //
बाहुं प्रसार्य यथ विद्युदिवा नभस्था आभाषते वसुमतीनिय मह्य साक्षी / चित्रा मि यज्ञ नयुतानपि यष्ट पूर्वे न मि जातु याचनक बन्धकृता नु दास्ये // lal_21.187 //
आपो मि साक्षि तथ तेज तथैव वायु ब्रह्मा प्रजापति सजोतिष चन्द्रसूर्याः / बुद्धा मि साक्षि दशसु स्थित ये दिशासु यथ मह्य शीलव्रतौद्गत बोधिअङ्गाः // lal_21.188 //
दानं मि साक्षि तथ शीलु तथैव क्षान्तिः वीर्यापि साक्षि तथ ध्यान तथैव प्रज्ञा / चतुर प्रमाण मम साक्षि तथा अभिज्ञा अनुपूर्वबोधिचरि सर्व ममेह साक्षी // lal_21.189 //
यावन्ति सत्त्व निखिला दशसु दिशासु यत्तेषु पुण्य बल शीलु तथैव ज्ञानम् / यज्ञा निरर्गड य यष्ट शठः कलीभिः ते मह्य रोम शतिमां कल नोपयन्ति // lal_21.190 //
सो पाणिना धरणि आहनते सलीलं रणते इयं वसुमती यथ कंसपात्री / मारो निशम्य रवु मेदिनिये निरस्तः शृणुते वचं हनत गृह्णतु कृष्णबन्धुम् // lal_21.191 //
प्रस्विन्नगात्रु हततेजु विवर्णवक्त्रो मारो जराभिहतु आत्मनु संप्रपश्यी / उरताड क्रन्दतु भयार्तु अनाथभूतो भ्रान्तं मनो नमुचितो गतु चित्त मोहम् // lal_21.192 //
हस्त्यश्वयानरथ भूमितले निरस्ताः धावन्ति राक्षस कुभाण्ड पिशाच भीताः / संमूढ मार्ग न लभन्ति अलेनत्राणाः पक्षी दवाग्निपतनेव निरीक्ष्य क्रान्ताः // lal_21.193 //
माता स्वसा पितर पुत्र तथैव भ्राता पृच्छन्ति तत्र कहि दृष्ट कहिं गता वा / अन्योन्य विग्रह करोन्ति तथैव हेठाः प्राप्ता वयं व्यसन जीवित नावकाशः // lal_21.194 //
सा मारसेन विपुला महती अक्षोभ्या विभ्रष्ट सर्व विरलीकृत नैव संधिः / दिवसानि सप्त अभिजानि परस्परेण आभासि दृष्ट यदि जीवसि तं खु प्रीताः // lal_21.195 //
सा वृक्षदेवत तदा करुणां हि कृत्वा वारीघाटं ग्रहिय सिञ्चति कृष्णबन्धुम् / उत्तिष्ठ शीघ्र व्रज हे म पुनो विलम्ब एवं हि तेष भवते गुरुउद्धराणाम् // lal_21.196 //
मार आह -
दुःखं भयं व्यसन शोक विनाशनं च धिक्कारशब्दमवमानगतं च दैन्यम् / प्राप्तो ऽस्मि अद्य अपराध्य सुशुद्धसत्वे अश्रुत्व वाक्य मधुरं हितमात्मजानाम् // lal_21.197 //
देवता आह -
भयं च दुःखं व्यसनं च दैन्यं धिक्कारशब्दं वधबन्धनं च / दोषाननेकां लभते ह्यविद्वान् निरापराधेष्वपि राध्यते यः // lal_21.198 //
देवासुरा गरुड राक्षस किन्नरेन्द्रा ब्रह्माथ शक्र परनिर्मित साकनिष्ठाः / भाषन्ति तस्य विजयं जय लोकवीर यत्रेदृशी नमुचिसेन त्वया निरस्ता // lal_21.199 //
हारार्धचन्द्र ध्वज छत्रपताक देन्ती पुष्पागरू तगरचन्दनचूर्णवर्षां / तूर्या पराहनिय वाक्यमुदीरयन्ते अच्छा द्रुमे तुव च शूर जितारिसिंहा // lal_21.200 //
अत्रैव चासनवरे लभसे ऽद्य बोधिं आवेणिकां दशबलां प्रतिसंविदं च / सर्वं च बुद्धविषयं लभसे ऽद्य शूर मैत्रा विजित्य विपुलां शठमारपक्षां // lal_21.201 //
इह मारधर्षणकृते च रणे प्रवृत्ते संबोधिसत्त्वबलविक्रम येभि दृष्टम् / षट्त्रिंशकोटिनयुता चतुरे च विंशा येभिर्मनः प्रणिहितं वरबुद्धबोधौ // lal_21.202 //
इति //
// इति श्रीललितविस्तरे मारधर्षणपरिवर्तो नामैकविंशतितमो ऽध्यायः //
स्तर्त् परिवर्त 22
अभिसंबोधनपरिवर्तो द्वाविंशः /
इति हि भिक्षवो बोधिसत्त्वो निहतमारप्रत्यर्थिको मर्दितकण्टको रणशिरसि विजितविजयः उछ्रितछत्रध्वजपताको विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धमैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति स्म / सवितर्कसविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतिभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति स्म / स प्रीतेर्विरागादुपेक्षको विहरति स्म स्मृतिमान् संप्रजानन् सुखं कायेन प्रतिसंवेदयते स्म यत्तदार्या आचक्षते स्म - उपेक्षकः स्मृतिमान् सुखविहारी, निष्प्रीतिकं तृतीयं ध्यानमुपसंपद्य विहरति स्म / स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति स्म //
अथ बोधिसत्त्वस्यथा समाहिते चित्ते परिशुद्धे पर्यवदाते प्रभास्वरे ऽनङ्गने विगतोपक्लेशे मृदुनि कर्मण्युपस्थिते आनिज्ज्यप्राप्ते रात्र्यां प्रथमे यामे दिव्यस्य चक्षुषो ज्ञानदर्शनविद्यासाक्षात्क्रियायै चित्तमभिनिर्हरति स्म, अभिनिर्नामयति स्म //
अथ बोधिसत्त्वो दिव्येन चक्षुषा परिशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति स्म च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् हीनान् प्रणीतान् / यथाकर्मोपगान् सत्त्वान् प्रजानाति स्म - इमे बत भोः सत्त्वाः कायदुश्चरितेन समन्वागताः, वाङ्भनोदुश्चरितेन समान्वागताः, आर्याणामपवादकाः मिथ्यादृष्टयः / ते मिथ्यादृष्टिकर्मधर्मसमादानहेतोः कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते / इमे पुनर्भवन्तः सत्त्वाः कायसुचरितेन समन्वागताः, वाङ्भनःसुचरितेन समन्वागताः, आर्याणामनपवादकाः सम्यग्दृष्टयः, ते सम्यग्दृष्टिकर्मधर्मसमादानहेतोः कायस्य भेदात्सुगतौ स्वर्गलोकेषूपपद्यन्ते //
इति हि दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वानापश्यति स्म च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् हीनान् प्रणीतान् यथाकर्मोपगान् / एवं खलु भिक्षवो बोधिसत्त्वो रात्र्यां प्रथमे यामे विद्यां साक्षात्करोति स्म, तमो निहन्ति स्म, आलोकमुत्पादयति स्म //
अथ बोधिसत्त्वस्तथा समाहिते चित्ते परिशुद्धे पर्यवदाते प्रभास्वरे निरङ्गने विगतोपक्लेशे मृदुनि कर्मण्युपस्थिते आनिञ्ज्यप्राप्ते रात्र्यां मध्यमे यामे पूर्वनिवासानुस्मृतिज्ञानदर्शनविद्यासाक्षात्क्रियायै चित्तमभिनिर्हरति स्म, अभिनिर्नामयति स्म, आत्मनः परसत्त्वानां चानेकविधं पूर्वनिवासाननुस्मरति स्म / तद्यथा - एकामपि जातिं द्वे तिस्रश्चतस्रः पञ्च दश विंशति त्रिंशच्चत्वारिंशत्पञ्चाशज्जातिशतं (वैद्य 251) जातिसहस्रं जातिशतसहस्रम् अनेकान्यपि जातिशतसहस्राण्यपि जातिकोटीमपि जातिकोटीशतमपि जातिकोटीसहस्रमपि जातिकोटीनयुतमपि / अनेकान्यपि जातिकोटीसहस्राण्यपि अनेकान्यपि जातिकोटीशतसहस्राण्यपि अनेकान्यपि जातिकोटीनयुतशतसहस्राणि यावत्संवर्तकल्पमपि विवर्तकल्पमपि संवर्तविवर्तकल्पमपि अनेकान्यपि संवर्तविवर्तकल्पान्यनुस्मरति स्म - अमुत्राहमासन्नेवंनामा एवंगोत्र एवंजात्य एवंवर्ण एवमाहार एवमायुष्प्रमाणमेवं चिरस्थितिकः, एवं सुखदुःखप्रतिवेदी / सो ऽहं ततश्च्युतः सन्नमुत्रोपपन्नः, ततश्च्युत्वेहोपपन्न इति साकारं सोद्देशमनेकविधमात्मनः सर्वसत्त्वानां च पूर्वनिवासमनुस्मरति स्म //
अथ बोधिसत्त्वस्तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन प्रभास्वरेण अनङ्गनेन विगतोपक्लेशेन मृदुना कर्मण्ये स्थितेनानिञ्च्यप्राप्तेन रात्र्यां पश्चिमे यामे अरुणोद्धाटनकालसमये नन्दीमुख्यां रात्रौ दुःखसमुदयास्तंगताया आश्रवक्षयज्ञानदर्शनविद्यासाक्षात्क्रियायै चित्तमभिनिर्हरति स्म, अभिनिर्नामयति स्म / तस्यैतदभवत् - कृच्छ्रं बतायं लोक आपन्नो यदुत जायते जीर्यते म्रियते च्यवते उपपद्यते / अथ च पुनरस्य केवलस्य महतो दुःखस्कन्धस्य निःसरणं न संप्रजानाति जराव्याधिमरणादिकस्य / अहो बतास्य केवलस्य महतो दुःखस्कन्धस्यान्तःक्रिया न प्रज्ञायते सर्वस्य जराव्याधिमरणादिकस्य //
ततो बोधिसत्त्वस्यैतदभूत् - कस्मिन् सति जरामरणं भवति, किंप्रत्ययं च पुनर्जरामरणम्? तस्यैतदभूत् - जात्यां सत्यां जरामरणं भवति, जातिप्रत्ययं जरामरणम् //
अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन् सति जातिर्भवति, किंप्रत्यया च पुनर्जातिः? तस्यैतदभवत् - भवे सति जातिर्भवति भवप्रत्यया च पुनर्जातिः //
अथ बोधिसत्त्वस्यैतभवत् - कस्मिन् सति भवो भवति, किंप्रत्ययश्च पुनर्भवः? तस्यैतदभवत् - उपादाने सति भवो भवति, उपादानप्रत्ययो हि भवः //
अथ बोधिसत्त्वस्यैतदभवत् - कस्मिन् सत्युपादानं भवति, किंप्रत्ययं च पुनरुपादानम्? तस्यैतदभवत् - तृष्णायां सत्यामुपादानं भवति, तृष्णाप्रत्ययं ह्युपादानम् //
अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन् सति तृष्णा भवति, किंप्रत्यया च तृष्णा? तस्यैतदभवत् - वेदनायां सत्यां तृष्णा भवति, वेदनाप्रत्यया च तृष्णा //
अथ बोधिसत्त्वस्य पुनरेतदभूत् - कस्मिन् सति वेदना भवति, किंप्रत्यया पुनर्वेदना? तस्यैतदभूत् - स्पर्शे सति वेदना भवति, स्पर्शप्रत्यया हि वेदना //
अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन् सति स्पर्शो भवति, किंप्रत्ययश्च पुनः स्पर्शः? तस्यैतदभवत् - षडायतने सति स्पर्शो भवति, षडायतनप्रत्ययो हि स्पर्शः //
अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन् सति षडायतनं भवति, किंप्रत्ययं च पुनः षडायतनम्? तस्यैतदभवत् - नामरूपे सति षडायतनं भवति, नानारूपप्रत्ययं हि षडायतनम् //
अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन् सति नामरूपं भवति, किंप्रत्ययं च पुनर्नामरूपम्? तस्यैतदभवत् - विज्ञाने सति नामरूपं भवति, विज्ञानप्रत्ययं हि नामरूपम् //
अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन् सति विज्ञानं भवन्ति, किंप्रत्ययं पुनर्विज्ञानम्? तस्यैतदभवत् - संस्कारेषु सत्सु विज्ञानं भवति, संस्कारप्रत्ययं च विज्ञानम् //
अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन् सति संस्कारा भवन्ति, किंप्रत्ययाश्च पुनः संस्काराः? तस्यैतदभवत् - अविद्यायां सत्यां संस्कारा भवन्ति, अविद्याप्रत्यया हि संस्काराः //
इति हि भिक्षवो बोधिसत्त्वस्यैतदभूत् - अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययं स्पर्शः, स्पर्शप्रत्ययं वेदना, वेदनाप्रत्ययं तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययं भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति / एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति / समुदयः समुदय इति //
इति हि भिक्षवो बोधिसत्त्वस्य पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुदपादि, चक्षुरुदपादि, विद्योदपादि, भूरिरुदपादि, मेधोदपादि, प्रज्ञोदपादि, आलोकः प्रादुर्बभूव / कस्मिन्नसति जरामरणं न भवति, कस्य वा निरोधाज्जरामरणनिरोध इति / तस्यैतदभूत् - जात्यामसत्यां जरामरणं न भवति, जातिनिरोधाज्जरामरणनिरोधः //
अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन्नसति जातिर्न भवति, कस्य वा निरोधाज्जातिनिरोधः? तस्यैतदभवत् - भवे ऽसति जातिर्न भवति, भवनिरोधाज्जातिनिरोधः //
अथ बोधिसत्त्वस्य पुनरप्येतदभवत् - कस्मिन्नसति विस्तरेण यावत्संस्कारा न भवन्ति, कस्य वा निरोधात्संस्कारनिरोधः? तस्यैतदभवत् - अविद्यायां सत्यां संस्कारा न भवन्ति, अविद्यानिरोधात्संस्कारनिरोधः / संस्कारनिरोधाद्विज्ञाननिरोधो यावज्जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते / एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवतीति //
इति हि भिक्षवो बोधिसत्त्वस्य पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुदपादि, चक्षुरुदपादि विद्योदपदि, भूरिरुदपादि, मेधोदपादि, प्रज्ञोदपादि, आलोकः प्रादुर्बभूव / सो ऽहं भिक्षवस्तस्मिन् समये इदं दुःखमिति यथाभूतमज्ञासिषम् / अयमाश्रवसमुदयो ऽयमाश्रवनिरोधः इयमाश्रवनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / अय कामाश्रवो ऽयं भवाश्रवो ऽयमविद्याश्रवो ऽयं दृष्ट्याश्रवः / इहाश्रवा निरवशेषतो निरुध्यन्ते / इहाश्रवो निरवशेषमनाभासमस्तं गच्छतीति / इयमविद्या अयमविद्यासमुदयो ऽयमविद्यानिरोध इयमविद्यानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / इहाविद्या अपरिशेषमनाभासमस्तं गच्छतीति पेयालम् / अमी संस्कारा अयं संस्कारसमुदयो ऽयं संस्कारनिरोध इयं संस्कारनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / इदं विज्ञानमयं विज्ञानसमुदयो ऽयं विज्ञाननिरोध इयं विज्ञाननिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / इदं नामरूपमयं नामरूपसमुदयो ऽयं नामरूपनिरोधः इयं नामरूपनिरोधगामिनी (वैद्य 253) प्रतिपदिति यथाभूतमज्ञासिषम् / इदं षडायतनमयं षडायतनसमुदयो ऽयं षडायतननिरोधः इयं षडायतननिरोधगामिनीं प्रतिपदिति यथाभूतमज्ञासिषम् / अयं स्पर्शो ऽयं स्पशसमुदयो ऽयं स्पर्शनिरोधः इयं स्पर्शनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / इयं वेदना अयं वेदनासमुदयो ऽयं वेदनानिरोध इयं वेदनानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / इयं तृष्णा अयं तृष्णासमुदयो ऽयं तृष्णानिरोधः इयं तृष्णानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् /
इदमुपादानमयमुपादानसमुदयो ऽयमुपादाननिरोधः इयमुपादाननिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / अयं भवो ऽयं भवसमुदयो ऽयं भवनिरोधः इयं भवनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / इयं जातिरयं जातिसमुदयो ऽयं जातिनिरोधः इयं जातिनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / इयं जरा अयं जरासमुदयो ऽयं जरानिरोधः इयं जरानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / इदं मरणमयं मरणसमुदयो ऽयं मरणनिरोधः इयं मरणनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् / इमे शोकपरिदेवदुःखदौर्मनस्योपायासाः / एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति यावन्निरोधो भवतीति यथाभूतमज्ञासिषम् / इदं दुःखमयं दुःखसमुदयो ऽयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् //
एवं खलु भिक्षवो बोधिसत्त्वेन रात्र्यां पश्चिमे यामे ऽरुणोद्धाटनकालसमये नन्दीमुख्यां रात्र्यौ यत्किंचित्पुरुषेण सत्पुरुषेणातिपुरुषेण महापुरुषेण पुरुषर्षभेण पुरुषनागेन पुरुषसिंहेन पुरुषपुंगवेन पुरुषशूरेण पुरुषधीरेण पुरुषजानेन पुरुषपद्मेन पुरुषपुण्डरीकेण पुरुषधौरेयेणानुत्तरेण पुरुषदम्यसारथिना एवंभूतेनार्येण ज्ञानेन ज्ञातव्यं बोद्धव्यं प्राप्तव्यं द्रष्टव्यं साक्षात्कर्तव्यम्, सर्वं तदेकचित्तेक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुध्य त्रैविद्याधिगता //
ततो भिक्षवो देवा आहुः - अवकिरत मार्षाः पुष्पाणि / अभिसंबुद्धो भगवान् / ये तत्र देवपुत्राः पूर्वबुद्धदर्शिनस्तस्मिन् संनिपतिता आसंस्ते ऽवोचन् - मा स्म तावन्मार्षाः पुष्पाण्यवकिरत यावत्तावद्भगवान्निमित्तं प्रादुःकरोति / पूर्वका अपि सम्यक्संबुद्धा निमित्तमकार्षुः, निर्मितामभिनिर्मिण्वन्ति स्म //
अथ खलु भिक्षवस्तथागतस्तान् देवपुत्रान् विमतिप्राप्ताञ्ज्ञात्वा सप्ततालमात्रं विहायसमभ्युद्गम्य तत्रस्थ इदमुदानमुदानयति स्म -
छिन्नवर्त्मोपशान्तरजाः शुष्का आस्रवा न पुनः स्रवन्ति / छिन्ने वर्त्मनि वर्तत दुःखस्यैषो ऽन्त उच्यते // lal_22.1 //
इति //
ततस्ते देवपुत्रा दिव्यैः कुसुमैस्तथागतमभ्यवकिरन्ति स्म / ततो जानुमात्रं दिव्यानां पुष्पाणां संस्तरो ऽभूत् //
इति हि भिक्षवस्तथागते ऽभिसंबुद्धे विगतं तमो ऽन्धकारम्, विशोधिता तृष्णा, विवर्तिता दृष्टिः, विक्षोभिताः क्लेशाः, विशारिताः शल्याः, मुक्तो ग्रन्थिः, प्रपातितो मानध्वजः, उच्छ्रेपितो धर्मध्वजः, (वैद्य 254) उद्धाटिता अनुशयाः, ज्ञाता धर्मतथता, अवबुद्धा भूतकोटिः, परिज्ञातो धर्मधातुः, व्यवस्थापितः सत्त्वधातुः, संवर्णितः सम्यक्त्वनियतो राशिः, विवर्णितो मिथ्यात्वनियतो राशिः, परिगृहीतो ऽनियतराशिः, व्यवस्थापितानि सत्त्वेन्द्रियाणि, परिज्ञाताः सत्त्वचरिताः, अवबुद्धा सत्त्वव्याधिः, सत्त्वसमुत्थानसिद्धो ऽमृतभैषजप्रयोगः, उत्पन्नो वैद्यराजः प्रमोचकः सर्वदुःखेभ्यः प्रतिष्ठापको निर्वाणसुखे, निषण्णस्तथागतगर्भे तथागतमहाधर्मराजासने, सर्व आबद्धो विमुक्तिपक्षः, प्रविष्टः सर्वज्ञतानगरं समवसृतं सर्वबुद्धैः, असंभिन्नो धर्मधातुप्रसरानुबोधेः / प्रथमे सप्ताहे भिक्षवस्तथागतस्तस्मिन्नेव बोधिमण्डे निषण्णो ऽस्थात् - इह मया ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः / मया अनवराग्रस्य जातिजरामरणदुःखस्यान्तः कृत इति //
समनन्तरप्राप्ते खलु पुनर्भिक्षवो बोधिसत्त्वेन सर्वज्ञत्वे अथ तत्क्षणमेव दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वास्तत्क्षणं तल्लवं तन्मुहूर्तं परसुखसमर्पिता अभुवन् / सर्वलोकधातवश्च महतावभासेनावभास्यन्तः / या ऽपि ता लोकान्तरिका अघा अघस्फुटा अन्धकारा इति पूर्ववत् / षड्विकारं च दशसु दिक्षु सर्वलोकधातवो ऽकम्पत् प्राकम्पत् संप्राकम्पत् / अवेधत् प्रावेधत् संप्रावेधत् / अचलत् प्राचलत् संप्राचलत् / अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत् / अरणत् प्रारणत् संप्रारणत् / अगर्जत् प्रागर्जत् संप्रागर्जत् / सर्वबुद्धाश्च तथागतायाभिसंबुद्धाय साधुकारं ददन्ति स्म / धर्माच्छादांश्च संप्रेषयन्ति स्म / यैर्धर्माच्छादैरयं त्रिसाहस्रमहासाहस्रलोकधातुरनेकरत्नसंछन्नो ऽभूत् / तेभ्यश्च रत्नछत्रेभ्यः एवंरूपा रश्मिजाला निश्चरन्ति स्म, यैर्दशसु दिक्षु अप्रमेयासंख्येया लोकधातवो ऽवभास्यन्ते / दशसु दिक्षु बोधिसत्त्वाश्च देवापुत्राश्चनन्दशब्दं निश्चारयामासुः - उत्पन्नः सत्त्वपण्डितः / पद्मो ज्ञानसरसि संभूतो ऽनुपलिप्तो लोकधर्मैः / समन्ततो महाकरुणामेघं स्फुरित्वा धर्मधातुभवनं वर्षयिष्यति / धर्मवर्षविनये जनभैषजाङ्कुरप्ररोहणं सर्वकुशलमूलबीजानां विवर्धनं श्रद्धाङ्कुराणां दाता विमुक्तिफलानाम् //
तत्रेदमुच्यते -
मारं विजित्य सबलं स हि पुरुषसिंहो ध्यानामुखं अभिमुखं अभितो ऽपि शास्ता / त्रैविद्यता दशबलेन यदा हि प्राप्ता संकम्पिता दश दिशो बहुक्षत्रकोट्यः // lal_22.2 //
ये बोधिसत्त्व पुरि आगत धर्मकामा चरणौ निपत्य इति भाषिषु मासि क्लान्तो / प्रत्यक्ष अस्मि चमु यादृशिका सुभीमा सा प्रज्ञपुण्यबलवीर्यबलेन भग्ना // lal_22.3 //
बुद्धैश्च क्षेत्रनयुतैः प्रहितानि छत्रा साधो महापुरुष धर्षित मारसेनाम् / प्राप्तं त्वया पदवरं अमृतं विशोकं सद्धर्मवृष्टि त्रिभवे अभिवर्ष शीघ्रम् // lal_22.4 //
बाहुं प्रसार्य दशदिक्षु च सत्त्वसारा आभाषयिंसु कलविङ्करुताय वाचा / बोधिर्यथामनुगता भवता विशुद्धा तुल्यः समो ऽसि यथ सर्पिणि सर्पिमण्डैः // lal_22.5 //
अथ खलु भिक्षवः कामावचरा अप्सरसो बोधिमण्डनिषण्णं तथागतं प्राप्ताभिज्ञं परिपूर्णसंकल्पं विजितसंग्रामं निर्जितमारप्रत्यर्थिकमुच्छ्रितछत्रध्वजपताकं शूरं जयोद्गतं पुरुषं महापुरुषं वैद्योत्तमं महाशल्यहर्तारं सिंहं विगतभयलोमहर्षं नागं सुदान्तचित्तनिर्मलं त्रिमलविप्रहीनं वैद्यकं त्रैविद्यतामनुप्राप्तं पारगं चतुरोघोत्तीर्णं क्षत्रियमेकरत्नछत्रधारिणं त्रैलोक्यब्राह्मणं बाहितपापकर्माणं भिक्षुं भिन्नविद्याण्डकोषं श्रमणं सर्वसङ्गसमतिक्रान्तं श्रोत्रियं निःसृतक्लेशं शूरमप्रपातितध्वजं बलीयांसं दशबलधारिणं रत्नाकरमिव सर्वधर्मरत्नसंपूर्णं विदित्वा बोधिमण्डाभिमुखास्तथागतमाभिर्गाथाभिरभ्यस्ताविषुः -
एष द्रुमराजमूले अभिजित्य मारसैन्यं स्थितु मेरुवदप्रकम्प्यो निर्भीरप्रलापी / अनेकबहुकल्पकोट्यो दानदमसंयमेन समुदानयं प्रबोधि तेनेष शोभते ऽद्य // lal_22.6 //
अनेन बहुकल्पकोट्यः शीलव्रतातपोभि जिह्मिकृत शक्र ब्रह्मा बोधिवर एषता हि / अनेन बहुकल्पकोट्यः क्षान्तिबलवर्मितेन अधिवासिता दुखानि तेन प्रभ स्वर्णवर्णा // lal_22.7 //
अनेन बहुकल्पकोट्यो वीर्यबलविक्रमेण पराङ्मुखां कृतास्या तेन मार जित सेना / अनेन बहुकल्पकोट्यो ध्याना अभिज्ञज्ञानैः संपूजिता मुनीन्द्रस्तेनैव पूजितो ऽद्य // lal_22.8 //
अनेन बहुकल्पकोट्यः प्रज्ञाश्रतसंचयेन प्रगृहीत सत्त्वकोट्यस्तेन लघु बोधि प्राप्ता / अनेन जितु स्कन्धमारस्तथ मृत्यु क्लेशमारः अनेन जितु देवपुत्रमारस्तेनास्य नास्ति शोकः // lal_22.9 //
एषो हि देवदेवो (देवैरपि पूजनीयः) पूजारहस्त्रिलोके पुण्यार्थिकान क्षेत्रं अमृताफलस्य दाता / एष वरदक्षिणीयो उत्पातु दक्षिणाहि नास्त्युत्तरस्य नाशो या च वरबोधि लब्धा // lal_22.10 //
ऊर्णा विराजते ऽस्य स्फरति बहुक्षेत्रकोट्यो जिह्मिकृत चन्द्रसूर्या अन्धकारालोकप्राप्ता / एव हि सुरूपरूपो वररूप साधुरूपो वरलक्षणो हितैषी त्रैलोक्यपूजनीयः // lal_22.11 //
एष सुविशुद्धनेत्रो बहु प्रेक्षते स्वयंभूः क्षत्रा च सत्त्वकाया चित्तानि चेतना च / एष सुविशुद्धश्रोत्रः शृणुते अनन्तशब्दां दिव्यांश्च मानुषांश्च जिनशब्दधर्मशब्दां // lal_22.12 //
एष प्रभूतजिह्वः कलविङ्कमञ्जुघोष ः श्रोष्याम अस्य धर्मं अमृतं प्रशान्तगामिम् / दृष्ट्वा च मारसैन्यं न क्षुभ्यते मनो ऽस्य पुन दृष्ट्घ देवसंघां न च हर्षते सुमेधा // lal_22.13 //
शस्त्रैर्न चापि बाणैर्जित एन मारसेना सत्यव्रतातपोभि जितु एन दुष्टमल्लः / चलितो न चासना न च कायु वेधिनो ऽस्य न च स्नेहु नापि दोषस्तदनन्तरे अभूवन् // lal_22.14 //
लाभा सुलब्ध तेषां मरुणां नराण चैव ये तुभ्य धर्म श्रुत्वा प्रतिपत्तिमेष्यती हि / यत्पुण्य त्वां स्तवित्वा जिन पुण्यतेजराशे सर्वे भवेम क्षिप्रं यथ त्वं मनुष्यचन्द्रः // lal_22.15 //
बुद्धित्व बोधि पुरुषर्षभनायकेन संकम्प्य क्षत्रनयुतानि विजित्य मारम् / ब्रह्मस्वरेण कलविङ्करुतस्वरेण प्रथमेन गाथा इमि भाषित नायकेन // lal_22.16 //
पुण्यविपाकु सुख सर्वदुःखापनेती अभिप्रायु सिध्यति च पुण्यवतो नरस्य / क्षिप्रं च बोधि स्पृशते विनिहत्य मारं शान्तापथो गच्छति च निर्वृतिशीतिभावम् // lal_22.17 //
तस्मात्क पुण्यकरणे न भवेत तृप्तः शृण्वंश्च धर्मममृतं भवि को वितृप्तः / विजने वने च विहरं भवि को वितृप्तः कः सत्त्व अर्थकरणे न भवेद्धि तृप्तः // lal_22.18 //
पाणिं प्रसार्य समुवाच च बोधिसत्त्वां पूजां कृता ब्रजत क्षेत्र स्वकस्वकानि / सर्वे ऽभिवन्द्य चरणौ च तथागतस्य नानावियूह गत क्षेत्र स्वकस्वकानि // lal_22.19 //
दृष्ट्वा च तां नमुचिनां महतीमवस्थां विक्रीडितां च सुगतस्य तथा सलीलम् / बोधाय चित्तमतुलं प्रणिधाय सत्त्वां मारं विजित्य सबलं अमृतं स्पृशेम // lal_22.20 //
अभिसंबुद्धस्य भिक्षवस्तथागतस्य बोधिवृक्षमूले सिंहासनोपविष्टस्य तस्मिन् क्षणे ऽप्रमेयानि बुद्धविक्रीडितान्यभूवन्, यानि न सुकरं कल्पेनापि निर्देष्टुम् //
तत्रेदमुच्यते -
करतलसदृशाभूत्सुस्थिता मेदिनीयं विकसितशतपत्राश्चोद्गता रश्मिजालैः / अमरशतसहस्रा ओनमी बोधिमण्डं इमु प्रथम निमित्तं सिंहनादेन दृष्टम् // lal_22.21 //
द्रुमशतत्रिसहस्रो बोधिमण्डे नमन्ते गिरिवर तथ नेके शैलराजश्च मेरुः / दशबलमधिगम्य ब्रह्मशक्रा नमन्ते इदमपि नरसिंहे क्रीडितं बोधिमण्डे // lal_22.22 //
रश्मिशतसहस्रा स्वोशरीरात्मभावा स्फुरि जिनवर क्षत्रा त्रीणि शान्ता अपायाः / तत क्षणसुमुहूर्ते शोधिता चाक्षणानि न च खिलमददोषा बाधिषू कंचि सत्त्वम् // lal_22.23 //
इयमपि नरसिंहस्यासनस्थस्य क्रीडा शशिरविमणिवह्निविद्युताभा च दिव्या / न तपति अभिभूता भानुवत्योर्णपाशा न च जगदिह कश्चित्प्रेक्षते शास्तु मूर्धम् // lal_22.24 //
इयमपि नरसिंहस्यासनस्थस्य क्रीडा करतलस्पृशनेना कम्पिता चोर्वि सर्वा / येन नमुचिसेना क्षोभिता तूलभूता नमुचि इषु गृहीत्वा मेदिनी व्यालिखेद्य इदमपि नरसिंहस्यासने क्रीडितं भूत् // lal_22.25 //
इति //
स्तर्त् परिवर्त 23
संस्तवपरिवर्तस्त्रयोविंशः /
अथ खलु शुद्धावासकायिका देवपुत्रा बोधिमण्डनिषण्णं तथागतं प्रदक्षिणीकृत्य दिव्यैश्चन्दनचूर्णवर्षैरभ्यवकीर्य आभिः सारूप्याभिर्गाथाभिरभितुष्टुवुः -
उत्पन्नो लोकप्रद्योतो लोकनाथः प्रभंकरः / अन्धभूतस्य लोकस्य चक्षुर्दाता रणंजहः // lal_23.1 //
भवान् विजितसंग्रामः पुण्यैः पूर्णमनोरथः / संपूर्णः शुक्लधर्मैश्च जगत्त्वं तर्पयिष्यसि // lal_23.2 //
उत्तीर्णपङ्को ह्यनिघः स्थले तिष्ठति गौतमः / अन्यां सत्त्वां महोघेन प्रोद्गतस्तारयिष्यसि // lal_23.3 //
उद्गतस्त्वं महाप्राज्ञो लोकेष्वप्रतिपुद्गलः / लोकधर्मैरलिप्तस्त्वं जलस्थमिव पङ्कजः // lal_23.4 //
चिरप्रसुप्तमिमं लोकं तमस्कन्धावगुण्ठितम् / भवान् प्रज्ञाप्रदीपेन समर्थः प्रतिबोधितुम् // lal_23.5 //
चिरातुरे जीवलोके क्लेशव्याधिप्रपीडिते / वैद्यराट् त्वं समुत्पन्नः सर्वव्याधिप्रमोचकः // lal_23.6 //
भविष्यन्त्यक्षणा शून्या त्वयि नाथे समुद्गते / मनुष्याश्चैव देवाश्च भविष्यन्ति सुखान्विताः // lal_23.7 //
येषां त्वद्दर्शनं सौम्य एष्यसे पुरुषर्षभ / न ते कल्पसहस्राणि जातु यास्यन्ति दुर्गतिम् // lal_23.8 //
पण्डिताश्चाप्यरोगाश्च धर्मं श्रोष्यन्ति ये ऽपि ते / गम्भीराश्चोपधीक्षीणा भविष्यन्ति विशारदाः // lal_23.9 //
मोक्ष्यन्ते च लघुं सर्वे छित्त्वा वै क्लेशबन्धनम् / यास्यन्ति निरुपादानाः फलप्राप्तिवरं शुभम् // lal_23.10 //
दक्षिणीयाश्च ते लोके आहुतीनां प्रतिग्रहाः / न तेषु दक्षिणा न्यूना सत्त्वानिर्वाणहेतुकी // lal_23.11 //
एवं खलु भिक्षवः शुद्धावासकायिका देवपुत्रास्तथागतमभिष्टुत्यैकान्ते प्राञ्जलयस्तस्थुः, प्राञ्जलयस्तथागतं नमस्यन्तः //
अथ खलु चाभास्वरा देवपुत्रास्तथागतं बोधिमण्डनिषण्णं दिव्यैर्नानाप्रकारैः पुष्पधूपगन्धमाल्यविलेपनछत्रध्वजपताकाभिः संपूज्य त्रिप्रदक्षिणीकृत्य चाभिर्गाथाभिरभ्यस्ताविषुः -
गम्भीरबुद्धे मधुरस्वरा मुने ब्रह्मस्वरा मुनिवरगीत सुस्वरम् / वराग्रबोधि परमार्थप्राप्ता सर्वस्वरे पारगते नमस्ते // lal_23.12 //
त्रातासि दीपो ऽसि परायणो ऽसि नाथो ऽसि लोके कृपमैत्रचित्तः / वैद्योत्तमस्त्वं खलु शल्यहर्ता चिकित्सकस्त्वं परमं हितंकरः // lal_23.13 //
दीपंकरस्य सहदर्शनं त्वया समुदानितं मैत्रकृपाभ्रजालम् / प्रमुञ्च नाथा अमृतस्य धारां शमेहि तापं सुरमानुषाणाम् // lal_23.14 //
त्वं पद्मभूतं त्रिभवेष्वलिप्तं त्वं मेरुकल्पो विचलो ह्यकम्प्यः / त्वं वज्रकल्पो ह्यचलप्रतिज्ञ त्वं चन्द्रमा सर्वगुणाग्रधारी // lal_23.15 //
एवं खलु भिक्षव आभास्वरा देवास्तथागतमभिसंस्तुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः //
अथ खलु सुब्रह्मदेवपुत्रप्रमुखा ब्रह्मकायिका देवास्तथागतं बोधिमण्डनिषण्णमनेकमणिरत्नकोटीनयुतशतसहस्रप्रत्युप्तेन रत्नजालेनाभिछाद्य त्रिप्रदक्षिणीकृत्य चाभिः सारूप्याभिर्गाथाभिरभ्यस्ताविषुः -
शुभविमलप्रज्ञ प्रभतेजधरा द्बात्रिंशल्लक्षणवराग्रधरा / स्मृतिमं मतिमं गुणज्ञानधरा अकिलान्तका शिरसि वन्दमि ते // lal_23.16 //
अमला विमला त्रिमलैर्विमला त्रैलोक्यविश्रुत त्रिविद्यगता / त्रिविधाविमोक्षवरचक्षुददा वन्दामि त्वां त्रिनयनं विमलम् // lal_23.17 //
कलिकलुष उद्धृत सुदान्तमना कृपकरुण उद्गत जगार्थकरा / मुनि मुदित उद्गत प्रशान्तमना द्वयमतिविमोचक उपेक्षरता // lal_23.18 //
व्रत तपस उद्गत जगार्थकरा / स्वचरीविशुद्धचरिपारगता / चतुसत्यदर्शक विमोक्षरता मुक्तो विमोचयसि चान्यजगत् // lal_23.19 //
बलवीर्य आगतु इहा नमुचि प्रज्ञाय वीर्य तव मैत्र्य जितो / प्राप्तं च ते पदवरं अमृतं वन्दाम ते शठचमूमथना // lal_23.20 //
एवं खलु भिक्षवः सुब्रह्मदेवपुत्रप्रमुखा ब्रह्मकायिका देवास्तथागतमाभिर्गाथाभिरभिष्टुत्य एकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः //
अथ खलु ते शुक्लपाक्षिका मारपुत्रा येन तथागतस्तेनोपसंक्रामन् / उपसंक्रम्य महारत्नछत्रवितानैस्तथागतमभिच्छाद्य प्राञ्जलयस्तथागतमाभिः सारूप्याभिर्गाथाभिरभ्यस्ताविषुः -
प्रत्यक्षे ऽस्मि बले तवातिविपुले मारस्य घोरा चमू यत्सा मारचमू महाप्रतिभया एकक्षणे ते जिता / न च ते उत्थितु नैव कायु त्रसितो नो वा गिरा व्याहृता त्वां वन्दामहि सर्वलोकमहितं सर्वार्थसिद्धं मुनिम् // lal_23.21 //
मारा कोटिसहस्रनेकनयुता गङ्गाणुभिः संमिताः ते तुभ्यं न समर्थ बोधिसुवटा संचालितुं कम्पितुम् / यज्ञा कोटिसहस्रनेकनयुता गङ्गा यथा वालिका यष्टा बोधिवटासितेन भवता तेनाद्य विभ्राजसे // lal_23.22 //
भार्या चेष्टतमा सुताश्च दयिता दास्यश्च दासास्तथा उद्याना नगराणि राष्ट्रनिगमा राज्यानि सान्तःपुराः / हस्ता पादशिरोत्तमाङ्गमपि वा चक्षूंषि जिह्वा तथा त्यक्ता ते वरबोधिचर्य चरता तेनाद्य विभ्राजसे // lal_23.23 //
उक्तं यद्वचनं त्वया सुबहुशो बुद्धो भविष्याम्यहं तारिष्ये बहुसत्त्वकोटिनयुता दुःखार्णवेनोह्यता / ध्यानाधीन्द्रियबुद्धिभिः कवचितः सद्धर्मनावा स्वयं सा चैषा प्रतिपूर्ण तुभ्य प्रणिधिस्तारिष्यसे प्राणिनः // lal_23.24 //
यत्पुण्यं च स्तवित्व वादिवृषभं लोकस्य चक्षुर्ददं सर्वे भूत्व उदग्रहृष्टमनसः प्रार्थेम सर्वज्ञताम् / समुदानीत्व वराग्रबोधिमतुलां बुद्धैः सुसंवर्णितां एवं तद्विनिहत्य मारपरिषां बुद्धेम सर्वज्ञताम् // lal_23.25 //
एवं खलु भिक्षवो मारपुत्रास्तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः //
अथ खलु परनिर्मितवशवर्ती देवपुत्रो ऽनेकैर्देवपुत्रशतसहस्रैः परिवृतः पुरस्कृतो जाम्बूनदसुवर्णवर्णैः पद्मैस्तथागतमभ्यवकीर्य संमुखमाभिर्गाथाभिरभ्यस्तावीत् -
अपीडित अलुडित अवितथवचना अपगततमरज अमृतगतिगता / अरहसि दिवि भुवि श्रियक्रियमतुला अतिद्युतिस्मृतिमति प्रणिपति शिरसा // lal_23.26 //
रतिकर रणजह रजमलमथना रमयसि सुरनर सुविशदवचनैः / विकसित सुविपुल वरतनु किरणैः सुरनरपतिरिव जयसि जगदिदम् // lal_23.27 //
परगणिप्रमथन परचरिकुशला प्रियु भव नरमरु परमति धुनता / परचरि विभजसि सुनिपुणमतिमान् पथि इह विचरतु दशबलगमने // lal_23.28 //
त्यजि पृथु भवग्रहि वितथदुख महा विनयसि सुरनर यथमति विनये / विचरसि चतुदिश शशिरिव गगने चक्षु भव परायण इह भुवि त्रिभवे // lal_23.29 //
प्रियु भव नरमरु न च खलि विषये रमयसि शुभरति कामरतिविरतो / दिनदर्शि परिषदि न ति समु त्रिभवे नाथु गति परायणु त्वमिह हि जगतः // lal_23.30 //
एवं खलु भिक्षवो वशवर्तिदेवप्रमुखाः परिनिर्मितवशवर्तिनो देवपुत्रास्तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः //
अथ खलु सुनिर्मितो देवपुत्रो देवसंघपरिवृतः पुरस्कृतो नानारत्नपट्टदामैस्तथागतमभिछाद्य संमुखमाभिर्गाथाभिरभ्यस्तावीत् - धर्मालोक भवान् समुद्गत त्रिविधमलनुच्छिदो मोहादृष्टिअविद्यघातको हिरिशिरिभरितः / मिथ्यामार्गरतामिमां प्रजाममृते थपयितो उत्पन्नो इह लोकि चेतियो दिवि भुवि महितः // lal_23.31 //
त्वं वैद्यो कुशलचिकित्सको ह्यमृतसुखददो दृष्टिक्लेशमविद्यसंचयं पुरिममनुशयम् / सर्वव्याध्यपनेसि देहिनां पुरिमजिनपथे तस्माद्वैद्यतमो ऽसि नायका विचरसि धरणीम् // lal_23.32 //
चन्द्रासूर्यप्रभाश्च ज्योतिषा मणि तथ ज्वलना शक्रब्रह्मप्रभा न भासते पुरतु शिरिघने / प्रज्ञालोककरा प्रभंकरा प्रभसिरिभरिता प्रत्यक्षास्तव ज्ञाति अद्भुते प्रणिपति शिरसा // lal_23.33 //
सत्यासत्यकथी विनायका सुमधुरवचना दान्ता शान्तमना जितेन्द्रिय प्रशमितमनसा / शास्ता शासनियां प्रशाससे नरमरुपरिषां वन्दे शाक्यमुनिं नरर्षभं सुरनरमहितम् // lal_23.34 //
ज्ञानिं ज्ञानकथाग्रधारका ज्ञपयसि त्रिभवे त्रैविद्यत्रिविमोक्षदेशका त्रिमलमलनुदा / भव्याभव्य मुने प्रजानसे यथमति विनये वन्दे त्वां त्रिसहस्रि अद्भुतं दिवि भुवि महितम् // lal_23.35 //
एवं खलु भिक्षवः सुनिर्मितो देवपुत्रः सपरिवारस्तथागतमभिष्टुत्यैकान्ते ऽस्थात् प्राञ्जलीकृतस्तथागतं नमस्कुर्वन् //
अथ खलु संतुषितो देवपुत्रः सार्धं तुषितकायिकैर्देवैर्येन तथागतस्तेनोपसंक्रामत् / उपसंक्रम्य महता दिव्यवस्त्रजालेन बोधिमण्डनिषण्णं तथागतमभिसंछाद्य संमुखमाभिर्गाथाभिरभ्यस्तौषीत् -
तुषितालयि यद्वसितस्त्वं तत्र ति देशितु धर्म उदारो / न च छिद्यति सा अनुशास्ति अद्यपि धर्मचरी सुरपुत्रा // lal_23.36 //
न च दर्शन तृप्ति लभामो धर्म शृणोतु न विन्दति तृप्तिम् / गुणसागर लोकप्रदीपा वन्दिम ते शिरसा मनसा च // lal_23.37 //
तुषितालय यच्चलितस्त्वं शोषित अक्षण सर्वि तदा ते / यद बोधिवटे उपविष्टः सर्वजगस्य किलेश प्रशान्ताः // lal_23.38 //
यस्य कृतेन च बोधि उदारा एष ति प्राप्ति जिनित्वन मारम् / त्वा प्रणिधी तपसा परिपूर्णा क्षिप्र प्रवर्तय चक्रमुदारम् // lal_23.39 //
बहु दिक्षिषु प्राणिसहस्रा धर्मरता क्षुणियामथ धर्मम् / क्षिप्र प्रवर्तय चक्रमुदारं मोचय प्राणिसहस्र भवेषु // lal_23.40 //
एवं खलु भिक्षवः संतुषितो देवपुत्रः सपरिवारस्तथागतमभिष्टत्यैकान्ते ऽस्थात् प्राञ्जलीकृतस्तथागतं नमस्यमानः //
अथ खलु सुयामदेवपुत्रप्रमुखाः सुयामा देवा येन तथागतस्तेनोपसंक्रामत् / उपसंक्रम्य नानापुष्पधूपगन्धमाल्यविलेपनैर्बोधिमण्डनिषण्णं तथागतं संपूज्य संमुखमाभिः सारूप्याभिर्गाथाभिस्तुष्टवुः -
सदृशो ऽस्ति न ते कुतोन्तरे शील समाधि तथैव प्रज्ञया / अधिमुक्तिविमुक्तिकोविदा शिरसा वन्दिम ते तथागतम् // lal_23.41 //
दृष्टा स वियूह शोभना बोधिमण्डस्मि मरुभि या कृता / न तमर्हति अन्य कश्चना यथ त्वं देवमनुष्यपूजितः // lal_23.42 //
न मुधाय भवान् समुद्गतो यस्य अर्थे बहु चीर्ण दुष्करा / विजितो हि शठः ससैन्यकः प्राप्ता बोधि अनुत्तरा त्वया // lal_23.43 //
आलोक कृतो दशादिशे प्रज्ञादीपेन त्रिलोक ज्वालितः / तिमिरं अपनाययिष्यसे दास्यसि चक्षुरनुत्तरं जगे // lal_23.44 //
बहुकल्प स्तुवन्ति भाषतो रोमरूपस्य न चान्तु अस्ति ते / गुणसागर लोकविश्रुता शिरसा वन्दिम ते तथागतम् // lal_23.45 //
एवं खलु ते सुयामदेवपुत्रप्रमुखा देवास्तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलस्तथागतं नमस्यन्तः //
अथ खलु शक्रो देवानामिन्द्रः सार्धं त्रायत्रिंशकायिकैर्देवैर्नानापुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजपताकाव्यूहैस्तथागतं संपूज्य आभिर्गाथाभिरभ्यस्तावीत् -
अस्खलिता अनवद्या सदा सुस्थिता मेरुकल्पा मुने दशदिशि सुविघुष्ट ज्ञानप्रभा पुण्यतेजान्विता / बुद्धशतसहस्र संपूजिता पूर्वि तुभ्यं मुने तस्य विशेषु येन बोधिद्रुमे मारसेना जिता // lal_23.46 //
शीलश्रुतसमाधिप्रज्ञाकरा ज्ञानकेतुध्वजा जरमरणनिघाति वैद्योत्तमा लोकचक्षुर्ददा / त्रिमलखिलप्रहीण शान्तेन्द्रिया शान्तचित्ता मुने शरणु तवमुपेम शाक्यर्षभा धर्मराजा जगे // lal_23.47 //
बोधिचरी अनन्ततुल्या अभूद्वीर्यस्थामोद्गता प्रज्ञाबल उपाय मैत्राबलं ब्राह्मपुण्यं बलम् / एति बलमनन्ततुल्या भवं बोधि संप्रस्थिते दशबलबलधारी अद्या पुनर्बोधिमण्डे भुतो // lal_23.48 //
दृष्ट्व चमु अनन्तसत्त्वे सुरा भीतत्रस्ताभवन् मा खु श्रमणराजु बाधिष्यते बोधिमण्डे स्थितः / न च भवतु बभूव तेभ्यो भयं नो च कायेञ्जना करहत गुरुभार संकम्पना मारसेना जिता // lal_23.49 //
यथ च पुरिमकेभि सिंहासने प्राप्त बोधि वरा तथ त्वया अनुबुद्ध तुल्या समा अन्यथा त्वं न हि / सममनस समचित्त सर्वज्ञता स्थाम प्राप्तं त्वया तेन भव स्वयंभु लोकोत्तमो पुण्यक्षेत्रं जगे // lal_23.50 //
एवं खलु भिक्षवः शक्रो देवानामिन्द्रः सार्धं देवपुत्रैस्त्रायत्रिंशैस्तथागतमभिष्टुत्यैकान्ते ऽस्थात् प्राञ्जलीकृतस्तथागतं नमस्कुर्वन् //
अथ खलु चत्वारो महाराजानः सार्धं चतुर्महाराजकायिकैर्देवपुत्रैर्येन तथागतस्तेनोपसंक्रामत् / उपसंक्रम्याभिमुक्तकचम्पकसुमनावार्षिकधानुस्कारिमाल्यदामपरिगृहीता अप्सरःशतसहस्रपरिवृता दिव्यसंगीतिसंप्रवादितेन तथागतस्य पूजां कृत्वा आभिः सारूप्याभिर्गाथाभिस्तुष्टुवुः -
सुमधुरवचना मनोज्ञघोषा शशि व प्रशान्तिकरा प्रसन्नचित्ता / प्रहसितवदना प्रभूतजिह्वा परमसुप्रीतिकरा मुने नमस्ते // lal_23.51 //
रुतरवित य अस्ति सर्वलोके सुमधुर प्रेमणिया नरामरूणाम् / भवत स्वरु प्रमुक्त मञ्जुघोषो अभिभवते रुत सर्वि भाषमाणां // lal_23.52 //
रागु समयि दोषमोहक्लेशा प्रीति जनेति अमानुषां विशुद्धाम् / अकलुषहृदया निशाम्य धर्मं आर्य विमुक्ति लभन्ति ते हि सर्वे // lal_23.53 //
न च भव अतिमन्यसे अविद्वां न च पुन विद्वमदेन जातु मत्तः / उन्नतु न च नैव चोनतस्त्वं गिरिरिव सुस्थितु सागरस्य मध्ये // lal_23.54 //
लाभ इह सुलब्ध मानुषाणां यत्र हि तादृशु जातु सत्त्व लोके / श्रीरिव पदुमो धनस्य दात्री तथ तव दास्यति धर्मु सर्वलोके // lal_23.55 //
एवं खलु चतुर्महाराजप्रमुखा महाराजकायिका देवा बोधिमण्डनिषण्णं तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
