Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/9

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

ललितविस्तर

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इति हि भिक्षवो बोधिसत्त्वो लोकस्याद्भुतक्रियासंदर्शनार्थं पूर्ववद्यावत्कर्मक्रियाप्रणष्टानां सत्त्वानां कर्मक्रियावतारणार्थं पुण्यसंचयानां चोद्भावनार्थं महाज्ञानस्य च गुणसंदर्शनार्थं ध्यानाङ्गानां च विभजनार्थमेकतिलकोलतण्डुलेन षड्वर्षाणि दुष्करचर्यामनुवर्तयन्तमुपदर्शयति स्म / अदीनमानसः षड्वर्षा बोधिसत्त्वो यथा निषण्ण एवास्थात् पर्यङ्केन / न च ईर्यापथाच्च्यवते स्म / नातपाच्छायामगमन्न छायाया आतपम् / न च वातातपवृष्टिपरित्राणमकरोन्न च दंशमशकसरीसृपानपनयति स्म / न चोच्चारप्रश्रावश्लेष्मसिंहाणकानुत्सृजति स्म / न च समिञ्जनप्रसारणमकरोत् / न च पार्श्वोदरपृष्ठस्थानेनास्थात् / ये ऽपि च ते महामेघा दुर्दिनवर्षाशनिशरद्ग्रीष्महैमन्तिकाः, ते ऽपि बोधिसत्त्वस्य काये निपतन्ति स्म / न चान्ततो बोधिसत्त्वः पाणिनापि प्रच्छादनमकरोत् / न चेन्द्रियाणि पिथयति स्म / न चेन्द्रियार्थान् गृह्णिते स्म / ये च तत्रागमन् ग्रामकुमारका वा ग्रामकुमारिका वा गोपालका वा पशुपालका वा तृणहारिका वा काष्ठहारिका वा गोमयहारिका वा, ते बोधिसत्त्वं पांशुपिशाचमिति मन्यन्ते स्म / तेन च क्रीडन्ति स्म / पांशुभिश्चैनं म्रक्षयन्ति स्म //

तत्र बोधिसत्त्वस्तैः षड्भिर्वर्षैस्तावल्लूहन्यूनदुर्बलकायः संवृत्तो ऽभूत्, यदस्य कर्णश्रोताभ्यां तृणतूलकं प्रक्षिप्य नासाश्रोताभ्यां निष्कास्यते स्म / नासाश्रोताभ्यां प्रक्षिप्य कर्णश्रोताभ्यां (वैद्य 188) निष्कास्यते स्म / कर्णश्रोताभ्यां प्रक्षिप्य मुखद्वारेण निष्कास्यते स्म / मुखद्वारेण प्रक्षिप्य कर्णनासिकाश्रोताभ्यो निष्कास्यते स्म / नासायां प्रक्षिप्य कर्णनासिकामुखद्वारेण निष्कास्यते स्म //

ये च ते देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्या बोधिसत्त्वस्य गुणेषु प्रत्यक्षाः, ते रात्रिंदिवं समधिष्ठा बोधिसत्त्वस्य पूजां कुर्वन्ति स्म / प्रणिधानानि च कुर्वन्ति स्म //

तत्र बोधिसत्त्वेन तै षड्भिर्वर्षैर्दुष्करचर्यां संदर्शयता परिपूर्णानि द्वादशनयुतानि देवमनुष्याणां त्रिभिर्यानैः परिपाचितान्यभूवन् //

तत्रेदमुच्यते -

तस्य च गुणान्वितस्य पुराद्विनिष्क्रम्य बोधिसत्त्वस्य / चिन्ता उपाययुक्ता सत्त्वार्थहिताय उत्पन्ना // lal_17.11 //

पञ्चसु कषायकाले हीने ऽधर्माधिमुक्तिके लोके / जातो ऽस्मि जम्बुद्विपे धर्मक्रियौद्धुरे लोके // lal_17.12 //

आकीर्ण तीर्थिकगणैः कौतूहलमङ्गलैरिमे युक्ता / कायोपक्रमकरणैर्मन्यन्ते बालिशाः शुद्धिम् // lal_17.13 //

अग्निप्रवेशमरुप्रपातपांशुभस्मादिमक्षिता नग्नाः / कायपरितापनार्थं पञ्चातपयोगमनुयुक्ताः // lal_17.14 //

मन्त्राविचारकरणा केचिद्धस्तावलेहका अबुधाः / न च कुम्भमुखकरोटान्न धारकुशलान्तराच्च गृह्णन्ति // lal_17.15 //

न च यत्र स्वानुभवती न चाहितं तेन तिष्ठवाक्यस्य / कुलभिक्ष एक गृह्या शुद्धं मन्यन्तिहात्मानम् // lal_17.16 //

वर्जेन्ति सर्पितैलं फाणितदधिदुग्धमत्स्यमांसानि / श्यामाकशाकभक्षा मृणालगर्डुलकणाभक्षाः // lal_17.17 //

मूलफलपत्रभक्षाः कुशचीवरचर्मकम्बलधराश्च / अपरे भ्रमन्ति नग्नाः सत्यमिदं मोहमन्यदिति मूढाः // lal_17.18 //

धारेन्ति ऊर्ध्वहस्ता उर्ध्वंकेशा जटाश्च धारेन्ति / मार्गानतिप्रनष्टा अमार्गसंस्थाः सुगतिगमनकामाः // lal_17.19 //

तृणमुसलभस्मशयनाः कण्टकशयनाश्च उत्कुटध्यायि / स्थित केचिदेकपादे ऊर्ध्वमुखाश्चन्द्रसूर्य पश्यन्तः // lal_17.20 //

उत्सां सरसतडागां सागरसरितश्च चन्द्रसूर्यौ च / वृक्षगिरिशैलशिखरां कुम्भं धरणीं नमस्यन्ते // lal_17.21 //

विविधैश्च कारणैस्ते कायं परिशोधयन्ति संमूढाः / मिथ्यादृष्टिपरीताः क्षिप्रं प्रपतन्त्यपायेषु // lal_17.22 //

यन्नूनमहं व्रततप दुष्करचर्यां समारभे घोराम् / यं दुष्करं न शक्यं चरितुं देवैर्मनुष्यैर्वा // lal_17.23 //

आस्फानकं च ध्यानं ध्यायेयं वज्रकल्पदृढस्थानम् / यं ध्यानं न समर्थाः प्रत्येकजिनापि दर्शयितुम् // lal_17.24 //

सन्तीह देवमनुजाः तीर्थिक लूहव्रतेन हृष्यन्ते / तेष परिपाकहेतो दुष्करव्रततप रभेय सूतीव्रम् // lal_17.25 //

पर्यङ्कमाभुजित्वा उपविष्टो ऽभूत्स्थले असंस्तीर्णे / कोलतिलतण्डुलेना आहारविधिं विदर्शयति // lal_17.26 //

आश्वासविप्रहीनः प्रश्वासवर्जितु न चेञ्जते बालवान् / षड्वर्षाणि प्रवरं ध्यायत्यास्फानकं ध्यानम् // lal_17.27 //

कल्पं नो न विकल्पं न चेञ्जनं नापिमन्येन प्रचारम् / आकाशधातुस्फरणं ध्यायत्यास्फानकं ध्यानम् // lal_17.28 //

न च आतपातु छायां छायाया नातपं गतश्चासौ / मेरुरिव निष्प्रकम्प्यो ध्यायत्यास्फानकं ध्यानम् // lal_17.29 //

न च वातवृष्टिछदनं न दंशमशकासरीसृपात्राणम् / अविकोपितया चर्या ध्यायत्यास्फानकं ध्यानम् // lal_17.30 //

न च केवलमात्मार्थं ध्यायत्यास्फानकं ध्यानम् / अन्यत्र करुणचित्तो भावी लोकस्य विपुलार्थम् // lal_17.31 //

ये ग्रामदारकाश्च गोपालाः काष्ठहारतृणहाराः / पांशुपिशाचकमिति तं मन्यन्ते पांशुना च म्रक्षन्ति // lal_17.32 //

अशुचीना च किरन्ते विविधास्ते कारणाश्च कारेन्ति / न च इञ्जते भ्रमति वा ध्यायत्यास्फानकं ध्यानम् // lal_17.33 //

न च नमति नो विनमते न कायपरिरक्षणा स्पृशति / किंचिन्नोच्चारप्रस्रवं शब्देषु न संत्रसी न परप्रेक्षी // lal_17.34 //

संशुष्कमांसरुधिरं चर्मस्नाय्वस्थिकाश्च अवशिष्टा / उदराच्च पृष्ठिवंशो विदृश्यते वर्तिता यथा वेणी // lal_17.35 //

ये ते कृताधिकारा देवाः सुरनागयक्षगन्धर्वाः / प्रत्यक्षगुणधरस्या करोन्ति पूजां दिवारात्रौ // lal_17.36 //

प्रणिधिं च कुर्वते ते वयमपि तादृश भवामहे क्षिप्रम् / यथ एष गगनचित्तो ध्यायत्यास्फानकं ध्यानम् // lal_17.37 //

न च केवलमात्मार्थं न ध्यानस्वादनान्न सुखबुद्ध्या / अन्यत्र करुणबुद्ध्या करिष्यत्यर्थं विपुल लोके // lal_17.38 //

निहताः परप्रवादा ध्यामीकृत तीर्थिका मतिविहीनाः / कर्मक्रिया च दर्शित या प्रोक्ता काश्यपे वाचा // lal_17.39 //

क्रकुच्छन्दकस्य बोधि बोधिरिह सुदुर्लभा बहुभि कल्पैः / जनताया इत्यर्थं ध्यायत्यास्फानकं ध्यानम् // lal_17.40 //

द्वादशनयुता पूर्णा विनीत मरुमानुषास्त्रिभिर्यानैः / एतदधिकृत्य सुमति ध्यायत्यास्फानकं ध्यानम् // lal_17.41 //

// इति श्रीललितविस्तरे दुष्करचर्यापरिवर्तो नाम सप्तदशमो ऽध्यायः //

स्तर्त् परिवर्त 18

नैरञ्जनापरिवर्तो ऽष्टादशः /

मारश्च भिक्षवः पापीयान् बोधिसत्त्वस्य षड्वर्षाणि दुष्करचर्यां चरतः पृष्ठतः समनुबद्धो ऽभूत् अवतारप्रेक्षी अवतारगवेषी / न च कदाचित्किंचिदवतारमध्यगच्छत् / सो ऽवतारमनधिगच्छन्निर्विण्णो विप्रतिसारी प्राक्रामत् //

तत्रेदमुच्यते -

रमणीयान्यरण्यानि वनगुल्माश्च वीरुधाः / प्राचीनमुरुबिल्वायां यत्र नैरञ्जना नदी // lal_18.1 //

प्रहाणायोद्यतं तत्र सततं दृढविक्रमम् / पराक्रमन्तं वीर्येण योगक्षेमस्य प्राप्तये // lal_18.2 //

नमुचिर्मधुरां वाचं भाषमाणो उपागमत् / शाक्यपुत्रा समुत्तिष्ठ कायखेदेन किं तव // lal_18.3 //

जीवतो जीवितं श्रेयो जीवन् धर्मं चरिष्यसि / जीवं हि तानि कुरुते यानि कृत्वा न शोचति // lal_18.4 //

कृशो विवर्णो दीनस्त्वं अन्तिके मरणं तव / सहस्रभागे मरणं एकभागे च जीवितम् // lal_18.5 //

ददतः सततं दानं अग्निहोत्रं च जुह्वतः / भविष्यति महत्पुण्यं किं प्रहाणे करिष्यसि // lal_18.6 //

दुःखं मार्गं प्रहाणस्य दुष्करं चित्तनिग्रहम् / इमां वाचं तदा मारो बोधिसत्त्वमथाब्रवीत् // lal_18.7 //

तं तथावादिनं मारं बोधिसत्त्वस्ततो ऽब्रवीत् / प्रमत्तबन्धो पापीय स्वेनार्थेन त्वमागतः // lal_18.8 //

अणुमात्रं हि मे पुण्यैरर्थो मार न विद्यते / अर्थो येषां तु पुण्येन तानेवं वक्तुमर्हसि // lal_18.9 //

नैवाहं मरणं मन्ये मरणान्तं हि जीवितम् / अनिवर्ती भविष्यामि ब्रह्मचर्यपरायणः // lal_18.10 //

स्रोतांस्यपि नदीनां हि वायुरेष विशोषयेत् / किं पुनः शोषयेत्कायं शोणितं प्रहितात्मनाम् // lal_18.11 //

शोणिते तु विशुष्के वै ततो मांसं विशुष्यति / मांसेषु क्षीयमाणेषु भूयश्चित्तं प्रसीदति / भूयश्छन्दश्च वीर्यं च समाधिश्चावतिष्ठते // lal_18.12 //

तस्यैव मे विहरतः प्राप्तस्योत्तमचेतनाम् / चित्तं नावेक्षते कायं पश्य सत्त्वस्य शुद्धताम् // lal_18.13 //

अस्ति छन्दं तथा वीर्यं प्रज्ञापि मम विद्यते / तं न पश्याम्यहं लोके वीर्याद्यो मां विचालयेत् // lal_18.14 //

वरं मृत्युः प्राणहरो धिग्ग्राम्यं नोपजीवितम् / संग्रामे मरणं श्रेयो यच्च जीवेत्पराजितः // lal_18.15 //

नाशूरो जयते सेनां जित्वा चैनां न मन्यते / शूरस्तु जयते सेनां लघु मार जयामि ते // lal_18.16 //

कामास्ते प्रथमा सेना द्वितीया अरतिस्तथा / तृतीया क्षुत्पिपासा ते तृष्णा सेना चतुर्थिका // lal_18.17 //

पञ्चमी स्त्यानमिद्धं ते भयं षष्टी निरुच्यते / सप्तमी विचिकित्सा ते क्रोधम्रक्षौ तथाष्टमी // lal_18.18 //

लोभश्लोकौ च संस्कारौ मिथ्यालब्धं च यद्यशः / आत्मानं यश्च उत्कर्षेद्यश्च वै ध्वंसयेत्परां // lal_18.19 //

एषा हि नमुचेः सेना कृष्णबन्धोः प्रतापिनः / अत्रावगाढा दृश्यन्ते एते श्रमणब्राह्मणाः // lal_18.20 //

या ते सेना धर्षयति लोकमेनं सदेवकम् / भेत्स्यामि प्रज्ञया तां ते आमपात्रमिवाम्बुना // lal_18.21 //

स्मृतिं सूपस्थितां कृत्वा प्रज्ञां चैव सुभाविताम् / संप्रजानं चरिष्यामि किं करिष्यसि दुर्मते // lal_18.22 //

एवमुक्ते मारः पापीयान् दुःखी दुर्मना अनात्तमना विप्रतिसारी तत्रैवान्तरधात् //

अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत् - ये केचिच्छ्रमणा ब्राह्मणा वा अतीतानागतप्रत्युत्पन्नेष्वध्वस्वात्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति एतावत्परमं ते दुःखमनुभवन्ति //

तस्य मे भिक्षव एतदभूत् - अनयापि खलु मया चर्यया अनयापि प्रतिपदा न कश्चिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषः साक्षात्कृतः / नायं मार्गो बोधेः / नायं मार्ग आयत्यां जातिजरामरणसंभवानामस्तंगमाय / स्यात्तदन्यो मार्गो बोधेरायत्यां जातिजरामरणदुःखसमुदयानामस्तंगमायेति //

तस्य मे भिक्षव एतदभवत् - यदहं पितुरुद्याने जम्बुच्छायायां निषण्णो विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य व्याहार्षं यावच्चतुर्थध्यानमुपसंपद्य व्याहार्षम्, स्यात्स मार्गो बोधेर्जातिजरामरणदुःखसमुदायानामसंभवायास्तंगमायेति / तदनुसारि च मे विज्ञानमभूत् / स मार्गो बोधेरिति //

तस्य ममैतदभूत् - नासौ मार्गः शक्यः एवं दौर्बल्यप्राप्तेनाभिसंबोद्धुम् / सचेत्पुनरहमभिज्ञाज्ञानबलेनैव लूहं दुर्बलकाय एव बोधिमण्डमुपसंक्रमेयम्, न मे पश्चिमा जनता अनुकम्पिता स्यात् / न चैष मार्गो बोधेः / यन्न्वहमौदारिकमाहारमाहृत्य कायबलस्थामं संजनय्य पश्चाद्बोधिमण्डमुपसंक्रमेयम् //

तत्र भिक्षवो ये ते लूहाधिमुक्ता देवपुत्रास्ते मम चेतसश्चेतसैव परिवितर्कमाज्ञाय येनाहं तेनोपसंक्रम्य मामेवमाहुः - मा स्म त्वं सत्पुरुष औदारिकमाहारमाहरेः / वयं ते रोमकूपैरोजः प्रक्षेप्स्याम इति //

तस्य मे भिक्षव एतदभूत् - अहं खल्वनशन इत्यात्मानं प्रतिजाने, सामन्ताश्च मे गोचरग्रामवासिनो जना एवं संजानन्ते स्म यथानशनः श्रमणो गौतमः / इतीव मे खलु लूहाधिमुक्ता देवपुत्रा रोमकूपैरोजः प्रक्षिपन्ति / स मम परमो मृषावादः स्यात् / ततो बोधिसत्त्वो मृषावादपरिहारार्थं तान् देवपुत्रान् प्रतिक्षिप्यौदारिकमाहारमाहर्तु चित्तं नामयति स्म //

इति हि भिक्षवः षड्वर्षव्रततपःसमुत्तीर्णो बोधिसत्त्वो ऽस्मादासनादुत्थायौदारिकमाहारमाहरिष्यामीति वाचं निश्चारयति स्म / तद्यथा फाणीकृतं मुद्गयूषं हरेणुकयूषं मथ्योदनकुल्माषमिति //

अथ खलु भिक्षवः पञ्चानां भद्रवर्गीयानामेतदभूत् - तयापि तावच्चर्यया तयापि तावत्प्रतिपदा श्रमणेन गौतमेन न शकितं किंचिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम्, किं पुनरेतर्हि औदारिकमाहारमाहरन् सुखल्लिकानुयोगमनुयुक्तो विहरन् / अव्यक्तो बालो ऽयमिति च मन्यमाना बोधिसत्त्वस्यान्तिकात्प्रक्रामन् / ते वाराणसीं गत्वा ऋषिपतने मृगदावे व्याहार्षुः //

तत्र बोधिसत्त्वमादित एव दुष्करचर्यां चरन्तं दश ग्रामिकदुहितरः कुमार्य उपगच्छन् दर्शनाय वन्दनाय पर्युपासनाय च / तैरपि पञ्चकैर्भद्रवर्गीयैरुपस्थितो ऽभूत् / एककोलतिलतण्डुलप्रदानेन (वैद्य 194) च प्रतिपादितो ऽभूत् / बला च नाम दारिका बलगुप्ता च सुप्रिया च विजयसेना च अतिमुक्तकमला च सुन्दरी च कुम्भकारी च उलुविल्लिका च जटिलिका च सुजाता च नाम ग्रामिकदुहिताः / आभिः कुमारिकाभिर्बोधिसत्त्वाय सर्वास्ता यूषविधाः कृत्वोपनामिता अभूवन् / ताश्चाभ्यवहृत्य बोधिसत्त्वः क्रमेण गोचरग्रामे पिण्डाय चरन् वर्णरूपबलवानभूत् / तदग्रेण बोधिसत्त्वः सुन्दरः श्रमणो महाश्रमण इत्याचक्षते //

तत्र च भिक्षवः सुजाता ग्रामिकदुहिता बोधिसत्त्वस्य दुष्करचर्यां चरतः आदित एव बोधिसत्त्वस्य व्रततपःसमुत्तारणार्थं शरीरस्याप्यायनहेतोश्च प्रतिदिवसमष्टशतं ब्राह्मणानां भोजयति स्म / एवं च प्रणिदधाति स्म - मम भोजनं भुक्त्वा बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येतेति //

तस्य मे भिक्षवः षड्वर्षव्यतिवृत्तस्य काषायाणि वस्त्राणि परिजीर्णान्यभूवन् / तस्य मे भिक्षव एतदभूत् - सचेदहं कौपीनप्रच्छादनं लभेयम्, शोभनं स्यात् //

तेन खलु पुनर्भिक्षवः समयेन सुजाताया ग्रामिकदुहितुर्दासी राधा नाम कालगताभूत् / सा शाणकैः परिवेष्ट्य श्मशानमपकृष्य परित्यक्ताभुत् / तदहमेवाद्राक्षीत् पांशुकूलम् / ततो ऽहं तत्पांशुकूलं वामेन पादेनाक्रम्य दक्षिणं हस्तं प्रसार्यावनतो ऽभूत्तद्रहीतुम् /

अथ भौमा देवा अन्तरीक्षाणां देवानां घोषमनुश्रावयन्ति स्म - आश्चर्यं मार्षा अद्भुतमिदं मार्षाः / यत्र हि नामैवं महाराजकुलप्रसूतस्य चक्रवर्तिराज्यपरित्यागिनः पांशुकूले चित्तं नतमिति / अन्तरीक्षा देवा भौमानां देवानां शब्दं श्रत्वा चातुर्महाराजिकानां देवानां घोषमुदीरयन्ति स्म / चातुर्महाराजिका देवास्त्रायत्रिंशतः / त्रायत्रिंशा यामानाम् / यामास्तुषितानाम् / तुषिता निर्माणरतीनाम् / निर्माणरतयः परनिर्मितवशवर्तिनाम् / परनिर्मितवशवर्तिनो यावद् ब्रह्मकायिकानाम् / इति हि भिक्षवस्तत्क्षणं तल्लवं तन्मुहूर्तं यावदकनिष्ठभुवनादेकघोष एकसंनिर्नादो ऽभ्युद्गतो ऽभूत् आश्चर्यमिदं मार्षा अद्भुतमिदम् / यत्र हि नामैवं महाराजकुलप्रसूतस्य चक्रवर्तिराज्यपरित्यागिनः पांशुकूले चित्तं नतमिति //

अथ बोधिसत्त्वस्य पुनरप्येतदभवत् - लब्धं मया पांशुकूलम् / सचेदुदकं लभेयम्, शोभनं स्यादिति / ततस्तत्रैव देवता पाणिना महीं पराहन्ति स्म / तत्र पुष्करिणी प्रादुरभूत् / अद्यापि सा पाणिहतेति पुष्करिणी संज्ञायते //

पुनरपि बोधिसत्त्वस्यैतदभवत् - लब्धं मया पानीयम् / सचेच्छिलां लभेयम्, यत्रेदं पांशुकूलं प्रक्षालयेयम्, शोभनं स्यात् / अथ तत्रैव शक्रेण शिला तत्क्षणमेवोपनिक्षिप्ताभूत् / ततो बोधिसत्त्वस्तत्पांशुकूलं प्रक्षालयति स्म //

अथ शक्रो देवराजो बोधिसत्त्वमेवमाह - ददस्वेदं सत्पुरुष मह्यम् / अहं प्रक्षालयिष्यामीति / ततो बोधिसत्त्वः स्वयंकारितां प्रव्रज्यायाः संदर्शयितुं तत्पांशुकूलं शक्रस्यादत्वा स्वयमेव प्रक्षालयति स्म / स श्रान्तः क्लान्तकायो ऽवतीर्य पुष्करिणीमुत्तरिष्यामीति / मारेण च पापीयसा (वैद्य 195) ईर्ष्याधर्मपरीतेन पुष्करिण्या अत्युच्छ्रितानि तटानि निर्मितान्यभूवन् / तस्याश्च पुष्करिण्यास्तीरे महान् कुकुभपादपः / तत्र देवतां बोधिसत्त्वो लोकानुवृत्त्या देवतानुग्रहार्थं चाब्रवीत् - आहर देवते वृक्षशाखामिति / तया वृक्षशाखावनामिताभूत् / तां बोधिसत्त्वो ऽबलम्ब्योत्तरति स्म / उत्तीर्य च तस्य ककुभपादपस्याधस्तात्तत्पांशुकूलं संघाटीकृत्य आसीव्यति स्म / अद्यापि तत् पांशुकूलं सीवनमित्येवं संज्ञायते स्म //

अथ विमलप्रभो नाम शुद्धावासकायिको देवपुत्रः, स दिव्यानि चीवराणि काषायरङ्गरक्तानि कल्पिकानि श्रमणसारूप्याणि बोधिसत्त्वायोपनामयति स्म / बोधिसत्त्वश्च तानि गृहीत्वा पूर्वाह्णे निवास्य संघाटीप्रावृत्य गोचरग्रामाभिमुखो ऽभुत् //

तत्र देवताभिरुरुबिल्वासेनापतिग्रामके नन्दिकग्रामिकदुहितुः सुजाताया आरोचितमभूदर्धरात्रसमये - यदर्थं त्वं महायज्ञं यजसे तस्माद्व्रतादुत्तीर्णः सः / सुभगमौदारिकमाहारमाहरिष्यति / त्वया च पूर्वे प्रणिधानं कृतम् - मम भोजनं भुक्त्वा बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत इति / यत्ते करणीयं तत्कुरुष्वेति //

अथ खलु भिक्षवः सुजाता नन्दिकग्रामदुहिता तेषां देवतानां तद्वचनं श्रुत्वा शीघ्रं गोसहस्रस्य क्षीरात्सप्तकृत्सारोद्धृतादग्र्यमोजोमण्डं गृह्णीते स्म / गृहीत्वा च सा तत्क्षीर(मभिनवम)भिनवैस्तण्डुलैरभिनवायां स्थाल्यामभिनवां चुल्लीमुपलिप्य तद्भोजनं साधयति स्म / तस्मिंश्च साध्यमाने इमानि पूर्वनिमित्तानि संदृश्यन्ते स्म - तस्मिन् खल्वपि क्षीरे श्रीवत्सस्वस्तिकनन्द्यावर्तपद्मवर्धमानादीनि मङ्गल्यानि संदृश्यन्ते स्म / ततस्तस्या एतदभूत् - यादृशानीमानि पूर्वनिमित्तानि संदृश्यन्ते, निःसंशयमिदं भोजनं भुक्त्वा बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिं प्राप्स्यति / सामुद्रज्ञानविधिज्ञश्च नैमित्तिकस्तं प्रदेशं प्राप्तो ऽभूत् / सो ऽपि तथैवामृताधिगमनमेव व्याकृतवान् / ततः सुजाता तं पायसं पक्वं स्थण्डिलमुपलिप्य पुष्पैरवकीर्य गन्धोदकेनाभ्युक्ष्य आसनं प्रज्ञाप्य सत्कृत्योत्तरां नाम चेटीमामन्त्रयते स्म - गच्छोत्तरे ब्राह्मणमानय / अहमिदं मधुपायसमवलोकयामि / साध्वार्य इति प्रतिश्रुत्य उत्तरा पूर्वां दिशमगमत् / सा तत्र बोधिसत्त्वं पश्यति स्म / तथैव दक्षिणाम् / बोधिसत्त्वमेव पश्यति स्म / एवं पश्चिमामुत्तरामेव दिशं गच्छति स्म, तत्र तत्र बोधिसत्त्वमेवाद्राक्षीत् / तेन खलु पुनः समयेन शुद्धावासकायिकैर्देवपुत्रैः सर्वे ऽन्यतीर्थिका निगृहीता अभूवन् / न कश्चित् संदृश्यते स्म / ततः सा आगत्वा स्वामिनीमेवमाह - न खल्वार्ये अन्यः कश्चिद् दृश्यते श्रमणो वा ब्राह्मणो वा, अन्यत्र यतो यत एव गच्छामि, तत्र तत्र श्रमणमेव सुन्दरं पश्यामि / सुजाता आह - गच्छोत्तरे स एव ब्राह्मणः, स एव श्रमणः / तस्यैवार्थे ऽयमारम्भः / तमेवानयेति / साध्वार्ये इत्युत्तरा गत्वा बोधिसत्त्वस्य चरणयोः प्रणिपत्य सुजाताया (वैद्य 196) नाम्नोपनिमन्त्रयते स्म / ततो भिक्षवो बोधिसत्त्वः सुजाताया ग्रामिकदुहितुर्निवेशनं गत्वा प्रज्ञप्त एवासने न्यषीदत् / अथ खलु भिक्षवः सुजाता ग्रामिकदुहिता सुवर्णमयीं पात्रीं मधुपायसपूर्णां बोधिसत्त्वस्योपनामयति स्म //

अथ बोधिसत्त्वस्यैतदभवत् - यादृशमिदं सुजातया भोजनमुपनामितम्, निःसंशयमहमद्यैनं भोजनं भुक्त्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते //

अथ बोधिसत्त्वस्तद्भोजनं प्रतिगृह्य सुजातां ग्रामिकदुहितरमेतदवोचत् - इयं भगिनि सुवर्णपात्री / किं क्रियताम्? सा आह - तवैव भवत्विति / बोधिसत्त्व आह - न ममेदृशेन भाजनेन प्रयोजनम् / सुजाता आह - यथेष्टं क्रियताम् / नाहं विना भाजनेन कस्यचिद्भोजनं प्रयच्छामि //

अथ बोधिसत्त्वस्तं पिण्डपात्रमादायोरुबिल्वाया निष्क्रम्य नागनदीं पूर्वाह्णकालसमये नदीं नैरञ्जनामुपसंक्रम्य तं पिण्डपात्रं चीवराणि चैकान्ते निक्षिप्य नदीं नैरञ्जनामवतरति स्म गात्राणि शीतलीकर्तुम् //

बोधिसत्त्वस्य खलु पुनर्भिक्षवः स्नायतो ऽनेकानि देवपुत्रशतसहस्राणि दिव्यागुरुचन्दनचूर्णविलेपनैर्नदीमालोडयन्ति स्म / दिव्यानि च नानावर्णानि कुसुमानि जले क्षिपन्ति स्म यदुत बोधिसत्त्वस्य पूजाकर्मणे //

तेन खलु पुनः समयेन नैरञ्जना नदी दिव्यैर्गन्धैः पुष्पैश्च समाकुला वहति स्म / येन च गन्धोदकेन बोधिसत्त्वः स्नातो ऽभूत्, तं देवपुत्रकोटीनियुतशतसहस्राण्यभ्युत्क्षिप्य स्वकस्वकानि भवनानि नयन्ति स्म चैत्यार्थं पूजार्थं च //

यानि च बोधिसत्त्वस्य केशश्मश्रूण्यभूवन्, तानि सर्वाणि सुजाता ग्रामिकदुहिता मङ्गल्यानीति कृत्वा चैत्यार्थं पूजार्थं च परिगृह्णीते स्म //

नद्युत्तीर्णश्च बोधिसत्त्वः पुलिनं निरीक्षते स्म उपवेष्टुकामः / अथ या नैरञ्जनायां नद्यां नागकन्या सा धरणितलादभ्युद्गभ्य मणिमयं (मनोरमं) भद्रासनं बोधिसत्त्वायोपनामयति स्म / तत्र बोधिसत्त्वो निषद्य यावदर्थं तं मधुपायसं परिभुङ्क्ते स्म सुजाताया ग्रामिकदुहितुरनुकम्पामुपादाय / परिभुज्य च तां सुवर्णपात्रीमनपेक्षो वारिणि प्राक्षिपति स्म / क्षिप्तमात्रां च तां सागरो नागराजश्चित्तिकारबहुमानजातो गृहीत्वा स्वभवनाभिमुखः प्रस्थितो ऽभुत् पूजार्हेति कृत्वा / अथ दशशतनयनः पुरंदरो गरुडरूपमभिनिर्माय वज्रतुण्डो भूत्वा सागरस्य नागराजस्यान्तिकात्तां सुवर्णपात्रीं हर्तुमारब्धः / यदा न शक्नोति स्म, तदा स्वरूपेणादरेण याचित्वा त्रायत्रिंशद्भवनं नीतवान् पूजार्थं चैत्यार्थं च / नीत्वा पात्रीयात्रां नाम पर्वणि प्रवर्तितवान् / अद्यापि च त्रायत्रिंशेषु देवेषु प्रतिसंवत्सरं पात्रीमहो वर्तते / तच्च भद्रासनं तयैव नागकन्यया परिगृहीतं चैत्यार्थं पूजार्थं च //

समन्तपरिभुक्तश्च भिक्षवो बोधिसत्त्वेनौदारिक आहारः / अथ तत्क्षणमेव बोधिसत्त्वस्य पुण्यबलेन प्रज्ञाबलेन पूर्विका काये शुभवर्णपुष्करता प्रादुरभूत् / द्वात्रिंशच्च महापुरुषलक्षणानि अशीतिश्चानुव्यञ्जनानि व्यामप्रभता च / तत्रेदमुच्यते -

षड्वर्ष व्रत उत्तरित्व भगवान् एवं मतिं चिन्तयन् सो ऽहं ध्यानअभिज्ञज्ञानबलवानेवं कृशाङ्गो ऽपि सन् / गच्छेयं द्रुमराजमूलविटपं सर्वज्ञतां बुद्धितुं नो मे स्यादनुकम्पिता हि जनता एवं भवेत् पश्चिमा // lal_18.23 //

यत्त्वौदारिक भुक्त्व भोजनवरं काये बलं कृत्वना गच्छेयं द्रुमराजमूलविटपं सर्वज्ञतां बुध्यितुम् / मा हैवेत्वरपुण्य देवमनुजा लूहेन ज्ञानेक्षिणो नो शक्ता सिय बुध्यनाय अमृतं कायेन ते दुर्बलाः // lal_18.24 //

सा च ग्रामिकधीत पूर्वचरिता नाम्ना सुजाता इति यज्ञा नित्यु यजाति एवमनसा सिद्धे व्रतं नायके / सा देवान निशाम्य चोदन तदा गृह्या मधूपायसं उपगम्या नदितीरि हृष्टमनसा नैरञ्जनायाः स्थिता // lal_18.25 //

सो चाकल्पसहस्रचीर्णचरितो शान्तप्रशान्तेन्द्रियो देवैर्नागगणैरृषी परिवृतो आगत्य नैरञ्जनाम् / तीर्णस्तारकु पारसत्त्व मतिमां स्नाने मतिं चिन्तयन् ओरुह्या नदि स्नापि शुद्धविमलो लोकानुकम्पी मुनिः // lal_18.26 //

देवा कोटिसहस्र हृष्टमनसा गन्धाम्बु चूर्णानि च ओरुह्या नदि लोडयन्ति सलिलं स्नानार्थ सत्त्वोत्तमे / स्नाना स्नात्वन बोधिसत्त्व विमलस्तीरे स्थितः सूरतः हर्षुर्देवसहस्र स्नानसलिलं पूजार्थ सत्त्वोत्तमे // lal_18.27 //

काषायानि च वस्त्र निर्मल शुभा ता देवपुत्रो ददे कल्पीयानि च संनिवास्य भगवांस्तीरे हि नद्याः स्थितः / नागाकन्य उदग्र हृष्टमनसा भद्रासनं सा न्यषीत् यत्रासौ निषसाद शान्तमनसो लोकस्य चक्षुष्करः // lal_18.28 //

दत्त्वा भोजनु सा सुजात मतिमां स्वर्णामये भाजने वन्दित्वा चरणानि सा प्रमुदिता परिभुङ्क्ष्व मे सारथे / भुक्त्वा भोजनु यावदर्थ मतिमान् पात्रीं जले प्राक्षिपत् तां जग्राह पुरंदरः सुरगुरुः पूजां करिष्याम्यहम् // lal_18.29 //

यद भुक्तं च जिनेन भोजनवरं ओदारिकं तत्क्षणे तस्या कायबलं च तेजशिरिया पूर्वं यथा संस्थितम् / धर्मा कृत्व कथा सुजात मरुणां कृत्वा च अर्थं बहुं सिंहो हंसगतिर्गजेन्द्रगमनो बोधिद्रुमं संस्थितः // lal_18.30 //

// इति श्रीललितविस्तरे नैरञ्जनापरिवर्तो नामाष्टादशमो ऽध्यायः //

स्तर्त् परिवर्त 19

बोधिमण्डगमनपरिवर्त एकोनविंशः /

इति हि भिक्षवो बोधिसत्त्वो नद्यां नैरञ्जनायां स्नात्वा च भुक्त्वा कायबलस्थाम संजनय्य येन षोडशाकारसंपन्नपृथिविप्रदेशे महाबोधिद्रुमराजमूलं तेन प्रतस्थे विजयया तया च गत्या, यासौ महापुरुषाणां गतिरनुच्चलितगतिरिन्द्रियेष्टिगतिः सुसंस्थितगतिः मेरुराजगतिरजिह्मगतिरकुटिलगतिरनुपद्रुतगतिरविलम्बितगतिरलुडितगतिरस्खलितगतिरसंघटितगतिरलीनगतिरचपलगतिः सलीलगतिः विमलगतिः शुभगतिरदोषगतिरमोहगतिररक्तगतिः सिंहगतिः हंसराजगतिर्नागराजगतिर्नारायणगतिः धरणितलासंसृष्टगतिः सहस्रारचक्रधरणीतलचित्रगतिः जालाङ्गुलिताम्रनखगतिः धरणीतलनिर्नादगतिः शैलराजसंघटनगतिः उत्कूलनिकूलसमकरचरणगतिः जालान्तराभारश्म्युत्सर्जनसत्त्वसंस्पृशनसुगतिगमनगतिः विमलपद्मक्रमनिक्षिपणगतिः पूर्वशुभसुचरितगमनगतिः पूर्वबुद्धसिंहाभिगमनगतिः वज्रदृढाभेद्याशयगतिः (सर्वोपायगतिः) सर्वापायदुर्गतिपिथितगतिः सर्वसत्त्वसुखसंजननगतिः मोक्षपथसंदर्शनगतिः मारबलाबलकरणगतिः कुगणिगणपरप्रवादिसहधर्मनिग्रहणगतिः / तमःपटलक्लेशविधमनगतिः संसारपक्षापक्षकरणगतिः शक्रब्रह्ममहेश्वरलोकपालाभिभवगतिः / त्रिसाहस्रमहासाहस्रैकशूरगतिः स्वयंभ्वनभिभूतगतिः सर्वज्ञज्ञानाभिगमनगतिः स्मृतिमतिगतिः सुगतिगमनगतिः जरामरणप्रशमनगतिः शिवविरजामलाभयनिर्वाणपुरगमनगतिः / ईदृश्या गत्या बोधिसत्त्वो बोधिमण्डं संप्रस्थितो ऽभूत् //

इति हि भिक्षवो यावच्च नद्या नैरञ्जनाया यावच्च बोधिमण्डादेस्तस्मिन्नन्तरे वातबलाहकैर्देवपुत्रैः संमृष्टमभूत् / वर्षबलाहकैर्देवपुत्रैर्गन्धोदकेन सिक्तमभूत् पुष्पैश्चावकीर्णमभूत् / यावदेव त्रिसाहस्रमहासाहस्रलोकधातौ वृक्षास्ते सर्वे येन बोधिमण्डस्तेनाभिनताग्रा अभूवन् / ये ऽपि च तदहोजाता बालदारिकास्ते ऽपि बोधिमण्डशीर्षकाः स्वपन्ति स्म / ये ऽपि चेह त्रिसाहस्रमहासाहस्रलोकधातौ सुमेरुप्रमुखाः पर्वतास्ते ऽपि सर्वे येन बोधिमण्डस्तेन प्रणता अभूवन् / नदीं च नैरञ्जनामुपादाय यावद्बोधिमण्डो ऽस्मिन्नन्तरे कामावचरैर्देवपुत्रैः क्रोशविस्तारैकप्रमाणो मार्गो ऽभिव्यूहितो ऽभूत् / तस्य च मार्गस्य वामदक्षिणयोः पार्श्वयोः सप्तरत्नमयी वेदिका अभिनिर्मिता ऽभूत् / सप्ततालानुच्चैस्त्वेन उपरिष्टाद्रत्नजालसंछन्ना दिव्यछत्रध्वजपताकासमलंकृता इषुक्षेपे सप्तरत्नमयास्ताला अभिनिर्मिता अभूवन् तस्या वेदिकाया अभ्युद्गताः / सर्वस्माच्च तालाद्रत्नसूत्रा द्वितीये तालमवसक्तमभूत् / द्वयोश्च तालयोर्मध्ये पुष्करिणी मापिताभूत् गन्धोदकपरिपूर्णा सुवर्णवालिक्रासंस्तृता उत्पलपद्मकुमुदपुण्डरीकसंछन्ना रत्नवेदिकापरिवृता वैदूर्यमणिरत्नसोपानप्रत्युप्ता (वैद्य 200) आडिबलाकाहंसचक्रवाकमयूरोपकूजिता / तं च मार्गमशीत्यप्सरःसहस्राणि गन्धोदकेन सिञ्चन्ति स्म / अशीत्यप्सरःसहस्राणि मुक्तकुसुमैरभ्यवकिरन्ति स्म दिव्यैर्गन्धवद्भिः / सर्वस्य च तालवृक्षस्य पुरतो रत्नव्योमकः संस्थितो ऽभूत् / सर्वस्मिंश्च रत्नव्योमके अशीत्यप्सरः सहस्राणि चन्दनागुरुचूर्णकपुटापरिगृहीतानि कारानुसारिधूपघटिकापरिगृहीतानि स्थितान्यभूवन् / सर्वस्मिंश्च रत्नव्योमके पञ्चपञ्चाप्सरःसहस्राणि दिव्यसंगीतिसंप्रवादितेन स्थितान्यभूवन् //

इति हि भिक्षवो बोधिसत्त्वः प्रकम्प्यमानैः क्षेत्रै रश्मिकोटीनियुतशतसहस्राणि निश्चारयंस्तूर्यशतसहस्रैः प्रवाद्यमानैः, महता पुष्पाढ्येन प्रवर्षता, अम्बरशतसहस्रैर्भ्राम्यमानैः, दुन्दुभिशतसहस्रैः पराहन्यमानैः, गर्जद्भिः प्रगर्जद्भिः हयगजवृषभैः, प्रदक्षिणीकुर्वद्भिः शुकसारिकाकोकिलकलविङ्कजीवंजीवकहंसक्रोञ्चमयुरचक्रवाकशतसहस्रैः, उपनाम्यमानैः मङ्गल्यशतसहस्रैः / अनेनैवंरूपेण मार्गव्यूहेन बोधिसत्त्वो बोधिमण्डं गच्छति स्म / यां च रात्रिं बोधिसत्त्वो बोधिमभिसंबोद्धुकामो ऽभूत्, तामेव रात्रिं वशवर्ती नाम त्रिसाहस्रमहासाहस्राधिपतिर्ब्रह्मा सहापतिर्ब्रह्मपर्षदमामन्त्र्यैवमाह - यत्खलु मार्षा जानीयाः / एष स बोधिसत्त्वो महासत्त्वो महासंनाहसंनद्धो महाप्रतिज्ञानुत्सृष्टो दृढसंनाहसंनद्धो ऽपरिखिन्नमानसः सर्वबोधिसत्त्वचर्यासु निर्जातः सर्वपारमितासु पारंगतः सर्वबोधिसत्त्वभूमिषु वशिताप्राप्तः सर्वबोधिसत्त्वाशयसुविशुद्धः सर्वसत्त्वेन्द्रियेष्वनुगतः सर्वतथागतगुह्यस्थानेषु सुप्रविष्टः सर्वमारकर्मपथसमतिक्रान्तः सर्वकुशलमूलेष्वपरप्रत्ययः सर्वतथागतैरधिष्ठितः सर्वसत्त्वेषु प्रमोक्षमार्गदेशयिता महासार्थवाहः / सर्वमारमण्डलविध्वंसनकरः त्रिसाहस्रमहासाहस्रैकशूरः / सर्वधर्मभैषज्यसमुदानीतः महावैद्यराजः / विमुक्तिपट्टाबद्धो महाधर्मराजः / महाप्रज्ञाप्रभोत्सर्जनकरः महाकेतुराजः अष्टलोकधर्मानुपलिप्तः महापद्मभूतः सर्वधर्मधारण्यसंप्रमुषितः महासागरभूतः अनुनयप्रतिघापगतः अचलो ऽप्रकम्पी महासुमेरूभूतः /

सुनिर्मलः सुपरिशुद्धः स्ववदर्पितविमलबुद्धिर्महामणिरत्नभूतः सर्वधर्मवशवर्ती सर्वकर्मण्यचित्तो महाब्रह्मभूतो बोधिसत्त्वो बोधिमण्डमुपसंक्रमति मारसैन्यप्रधर्षणार्थमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः / दशबलवैशारद्याष्टादशावेणिकबुद्धधर्मपरिपुरणार्थं महाधर्मचक्रप्रवर्तनार्थं महासिंहनादनादनार्थं सर्वसत्त्वान् धर्मदानेन संतर्पणार्थं सर्वसत्त्वानां धर्मचक्षुर्विशोधनार्थं सर्वपरप्रवादीनां सहधर्मेण निग्रहार्थं पूर्वप्रतिज्ञापारिपूरिसंदर्शनार्थं सर्वधर्मैश्वर्यवशिताप्राप्त्यर्थम् / तत्र युष्माभिर्मार्षा सर्वैरेव बोधिसत्त्वस्य पूजोपस्थानकर्मण्युत्सुकैर्भवितव्यम् / अथ खलु वशवर्ती महाब्रह्मा तस्यां वेलायामिमां गाथामभाषत -

यस्या तेजतु पुण्यतश्च शिरिये ब्राह्मः पथो ज्ञायते मैत्री वा करुणा उपेक्ष मुदिता ध्यानान्यभिज्ञास्तथा /

सो ऽयं कल्पसहस्रचीर्णचरितो बोधिद्रुमं प्रस्थितः पूजां साधु करोथ तस्य मुनिनो आशिव्रते साधनाम् // lal_19.1 //

यं गत्वा शरणं न दुर्गतिभयं प्राप्नोति नैवाक्षणं देवेष्विष्टसुखं च प्राप्य विपुलं ब्रह्मालयं गच्छति / षड्वषाणि चरित्व दुष्करचरिं यात्येष बोधिद्रुमं साधू सर्वि उदग्रहृष्टमनसः पूजास्य कुर्वामहे // lal_19.2 //

राजासौ त्रिसहस्रि ईश्वरवरो धर्मेश्वरः पार्थिवः शक्राब्रह्मपुरे च चन्द्रसुरिये नास्त्यस्य कश्चित् समः / यस्या जायत क्षेत्रकोटिनयुता संकम्पिता षड्विधा सैषो ऽद्य व्रजते महाद्रुमवरं मारस्य जेतुं चमून् // lal_19.3 //

मूर्ध्नं यस्य न शक्यमीक्षितुमिह ब्रह्मालये ऽपि स्थितैः कायो यस्य वराग्रलक्षणधरो द्वात्रिंशतालंकृतः / वाग्यस्येह मनोज्ञवल्गुमधुरा ब्रह्मस्वरा सुस्वरा चित्तं यस्य प्रशान्त दोषरहितं गच्छाम तत्पूजने // lal_19.4 //

येषां वा मति ब्रह्मशक्रभवने नित्यं सुख क्षेपितुं अथवा सर्वकिलेशबन्धनलतां छेत्तुं हि तां जालिनीम् / अश्रुत्वा परतः स्पृशेयममृतं प्रत्येकबोधिं शिवां बुद्धत्वं यदि वेप्सितं त्रिभुवने पूजेत्वसौ नायकम् // lal_19.5 //

त्यक्ता येन ससागरा वसुमती रत्नान्यनन्तान्यथो प्रासादाश्च गवाक्षहर्म्यकलिका युग्यानि यानानि च / भूम्यालंकृत पुष्पदाम रुचिरा उद्यानकूपासराः हस्ता पादशिरोत्तमाङ्गनयना सो बोधिमण्डोन्मुखः // lal_19.6 //

इति हि भिक्षवस्त्रिसाहस्रमहासाहस्रिको महाब्रह्मा इमं त्रिसाहस्रमहासाहस्रं लोकधातुं तत्क्षणं सममध्यतिष्ठत् / पाणितलजातमपगतशर्करकठल्लमुत्सदमणिमुक्तिवैदूर्यशङ्खशिलाप्रवालरजतजातरूप्यं नीलमृदुकुण्डलजातप्रदक्षिणनन्द्यावर्तकाचिलिन्दिकसुखसंस्पर्शैश्च तृणैरिमं त्रिसाहस्रमहासाहस्रं लोकधातुं संछादितमध्यतिष्ठत् / सर्वे च तदा महासमुद्रा धरणीतलसंस्थिता अभूवन् / न च जलचराणां सत्त्वानां काचिद्विहेठाभूत् / इमं चैव लोकधातुमलंकृतं दृष्ट्वा च दशसु दिक्षु शक्रब्रह्मलोकपालैर्बोधिसत्त्वस्य पूजाकर्मणे बुद्धक्षेत्रशतसहस्राणि समलंकृतान्यभूवन् / बोधिसत्त्वैश्च दिव्यमानुष्यकातिक्रान्तैः पूजाव्यूहैर्दशसु दिक्ष्वप्रमेयाणि बुद्धक्षेत्राणि प्रतिमण्डितान्यभूवन् (वैद्य 202) बोधिसत्त्वस्य पूजाकर्मणे / सर्वाणि च तानि बुद्धक्षेत्राण्येकमिव बुद्धक्षेत्रं संदृश्यन्ते स्म, नानाव्यूहालंकारालंकृतानि च / न च भूयो लोकान्तरिका न च कालपर्वता न च चक्रवालमहाचक्रवालाः प्रज्ञायन्ते स्म / सर्वाणि च तानि बुद्धक्षेत्राणि बोधिसत्त्वस्याभया स्फुटानि संदृश्यन्ते स्म / षोडश च बोधिमण्डपरिपालिका देवपुत्राः / तद्यथा - उत्खली च नाम देवपुत्रः सूत्खली च नाम प्रजापतिश्च शूरबलश्च केयूरबलश्च सुप्रतिस्थितश्च महिंधरश्च अवभासकरश्च विमलश्च धर्मेश्वरश्च धर्मकेतुश्च सिद्धपात्रश्च अप्रतिहतनेत्रश्च महाव्यूहश्च शीलविशुद्धनेत्रश्च पद्मप्रभश्च / इतीमे षोडश बोधिमण्डप्रतिपालका देवपुत्राः सर्वे ऽवैवर्त्यक्षान्तिप्रतिलब्धास्ते बोधिसत्त्वस्य पूजार्थं बोधिमण्डं मण्डयन्ति स्म /

समन्तादशीतियोजनानि सप्तभी रत्नवेदिकाभिः परिवृतं सप्तभिस्तालपङ्क्तिभिः सप्तभी रत्नकिङ्किणीजालैः सप्तभी रत्नसूत्रैः परिवृतम्, सप्तरत्नप्रत्युप्तैश्च जाम्बूनदसुवर्णपटैः सुवर्णसूत्रैर्जाम्बूनदसुवर्णपद्मैश्चावकीर्णं सारवरगन्धनिर्धूपितं रत्नजालसंछन्नम् / ये च दशसु दिक्षु नानालोकधातुषु विविधा वृक्षाः सन्त्यभिजाता अभिपूजिता दिव्यमानुष्यकास्ते ऽपि सर्वे तत्र बोधिमण्डे संदृश्यन्ते स्म / याश्च दशसु दिक्षु नानाप्रकारा जलस्थलजाः पुष्पजातयस्ता अपि सर्वास्तत्र बोधिमण्डे संदृश्यन्ते स्म / ये ऽपि च दशसु दिक्षु नानालोकधातुषु बोधिसत्त्वा बोधिमण्डालंकुर्वन्त्यप्रमाणपुण्यज्ञानसंभारव्यूहैस्ते ऽपि तत्र बोधिमण्डे संदृश्यन्ते स्म //

इति हि भिक्षवो बोधिमण्डपरिपालकैर्देवपुत्रैस्तादृशा व्यूहा बोधिमण्डे अभिनिर्मिता अभूवन्, यान् दृष्ट्वा देवनागयक्षगन्धर्वासुराः स्वभवनानि श्मशानसंज्ञामुत्पादयामासुः / तांश्च व्यूहान् दृष्ट्वात्यर्थं चित्रीकारमुत्पादयामासुः / एवमुदानं चोदानयामासुः - साध्वहो ऽचिन्त्यः पुण्यविपाकनिष्यन्द इति / चत्वारश्च बोधिवृक्षदेवताः / तद्यथा - वेणुश्च वल्गुश्च सुमनश्च ओजापतिश्च / एते चत्वारो बोधिवृक्षदेवता बोधिसत्त्वस्य पूजार्थं बोधिवृक्षं मापयन्ति स्म मूलसंपन्नं स्कन्धसंपन्नं शाखापत्रपुष्पफलसंपन्नं आरोहपरिणाहसंपन्नं प्रासादिकं दर्शनीयं विस्तीर्णमशीतिस्तालानुच्चैस्त्वेन तदनुरूपेण परिणाहेन चित्रं दर्शनीयं मनोरमं सप्तभी रत्नवेदिकाभिः परिवृतं सप्तभी रत्नतालपङ्क्तिभिः सप्तभी रत्नकिङ्किणीजालैः सप्तभी रत्नसूत्रैः समन्तादनुपरिवृतैरनुपरिक्षिप्तं पारिजातककोविदारप्रकाशमतृप्तचक्षुर्दर्शनम् / स च पृथिवीप्रदेशस्त्रिसाहस्रमहासाहस्रलोकधातुवज्रेणाभिदृढः सारो ऽभेद्यवज्रमयः संस्थितो ऽभूत् यत्र बोधिसत्त्वो निषण्णो ऽभूद्बोधिमभिसंबोद्धुकामः //

इति हि भिक्षवो बोधिसत्त्वेन बोधिमण्डमुपसंक्रमता तथारूपा कायात्प्रभा मुक्ताभूत्, यया प्रभया सर्वे ऽपायाः शान्ता अभूवन् / सर्वाण्यक्षणानि पिथितान्यभूवन् / सर्वदुर्गतिवेदनाश्चोपशोषिता अनुभवन् / ये च सत्त्वा विकलेन्द्रिया अभूवन्, ते सर्वे परिपूर्णेन्द्रियतामनुप्राप्नुवन् / व्याधिताश्च व्याधिभ्यो व्यमुच्यन्त / भयार्दिताश्चाश्वासप्राप्ता अभूवन् / बन्धनबद्धाश्च बन्धनेभ्यो व्यमुच्यन्त / दरिद्राश्च सत्त्वा भोगवन्तो ऽभूवन् / क्लेशसंतप्ताश्च निष्परिदाहा अभूवन् / (वैद्य 203) बुभुक्षिताश्च सत्त्वाः पूर्णोदरा अभूवन् / पिपासिताश्च तृषापगता अभूवन् / गुर्विण्यश्च सुखेन प्रसूयन्ते स्म / जीर्णदुर्बलाश्च बलसंपन्ना अभूवन् / न च कस्यचित्सत्त्वस्य तस्मिन् समये रागो बाधते द्वेषो व मोहो वा क्रोधो वा लोभो वा खिलो वा व्यापादो वा ईर्ष्या वा मात्सर्यो वा / न कश्चित्सत्त्वस्तस्मिन् समये म्रियते स्म, न च्यवते स्म, नोपपद्यते स्म / सर्वसत्त्वाश्च तस्मिन् समये मैत्रचित्ता हितचित्ताः परस्परं मातापितृसंज्ञिनो ऽभूवन् //

तत्रेदमुच्यते -

यावच्चावीचिपर्यन्तं नरका घोरदर्शनाः / दुःखं प्रशान्तं सत्त्वानां सुखं विन्दन्ति वेदनाम् // lal_19.7 //

तिर्यग्योनिषु यावन्तः सत्त्वा अन्योन्यघातकाः / मैत्रचित्ता हिते जाताः स्पृष्टा भाभिर्महामुने // lal_19.8 //

प्रेतलोकेषु यावन्तः प्रेताः क्षुत्तर्षपीडिताः / प्राप्नुवन्त्यन्नपानानि बोधिसत्त्वस्य तेजसा // lal_19.9 //

अक्षणाः पिथिताः सर्वे दुर्गतिश्चोपशोषिता / सुखिताः सर्वसत्त्वाश्च दिव्यसौख्यसमर्पिताः // lal_19.10 //

चक्षुश्रोत्रविहीनाश्च ये चान्ये विकलेन्द्रियाः / सर्वेन्द्रियैः सुसंपूर्णा जाताः सर्वाङ्गशोभनाः // lal_19.11 //

रागद्वेषादिभिः क्लेशैः सत्त्वा बाध्यन्त ये सदा / शान्तक्लेशास्तदा सर्वे जाताः सुखसमर्पिताः // lal_19.12 //

उन्मत्ताः स्मृतिमन्तश्च दरिद्रा धनिनस्तथा / व्याधिता रोगनिर्मुक्ता मुक्ता बन्धनबद्धकाः // lal_19.13 //

न खिलं न च मात्सर्यं व्यापादो न च विग्रहः / अन्योन्यं संप्रकुर्वन्ति मैत्रचित्ताः स्थितास्तदा // lal_19.14 //

मातुः पितुश्चैकपुत्रे यथा प्रेम प्रवर्तते / तथान्योन्येन सत्त्वानां पुत्रप्रेम तदाभवत् // lal_19.15 //

बोधिसत्त्वप्रभाजालैः स्फुटाः क्षेत्रा ह्यचिन्तियाः / गङ्गावालिकसंख्याताः समन्ताद्वै दिशो दशः // lal_19.16 //

न भूयश्चक्रवालाश्च दृश्यन्ते कालपर्वताः / सर्वे ते विपुलाः क्षेत्राः दृश्यन्त्येकं यथा तथा // lal_19.17 //

पाणितलप्रकाशाश्च दृश्यन्ते सर्वरत्निकाः / बोधिसत्त्वस्य पूजार्थं सर्वक्षेत्रा अलंकृताः // lal_19.18 //

देवाश्च षोडश तथा बोधिमण्डोपचारकाः / अलंचक्रुर्बोधिमण्डं अशीतिर्योजनावृतम् // lal_19.19 //

ये च केचिन्महाव्यूहाः क्षेत्रकोटीष्वनन्तकाः / ते सर्वे तत्र दृश्यन्ते बोधिसत्त्वस्य तेजसा // lal_19.20 //

देवा नागास्तथा यक्षाः किन्नराश्च महोरगाः / स्वानि स्वानि विमानानि श्मशानानीव मेनिरे // lal_19.21 //

तान् व्यूहान् संनिरीक्ष्येह विस्मिताः सुरमानुषाः / साधुः पुण्यस्य निस्यन्दः संपद्यस्येयमीदृशी // lal_19.22 //

करोति नैव चोद्योगं कायवाङ्भनसा तथा / सर्वार्थाश्चास्य सिध्यन्ति ये ऽभिप्रेता मनोरथाः // lal_19.23 //

अभिप्राया यथान्येषां पूरिताश्चरता पुरा / विपाकाः कर्मणस्तस्य संपद्यातेयमीदृशी // lal_19.24 //

अलंकृतो बोधिमण्डश्चतुर्भिर्बोधिदेवतैः / पारिजातो दिवि यथा तस्मादपि विशिष्यते // lal_19.25 //

गुणाः शक्या न ते वाचा सर्वे संपरिकीर्तितुम् / ये व्यूहा बोधिमण्डस्य देवतैरभिसंस्कृताः // lal_19.26 //

इति हि भिक्षवस्तया बोधिसत्त्वस्य कायप्रमुक्तया प्रभया कालिकस्य नागराजस्य भवनमवभासितमभूत् विशुद्धया विमलया कायचित्तप्रह्लादौद्विल्यजनन्या सर्वक्लेशापकर्षिण्या सर्वसत्त्वसुखप्रीतिप्रसादप्रामोद्यजनन्या / दृष्ट्वा च पुनः कालिको नागराजस्तस्यां वेलायां स्वस्य परिवारस्य पुरतः स्थित्वेमा गाथा अभाषत् -

क्रकुछन्दे यथ आभ दृष्ट रुचिरा दृष्टा च कनकाह्वये यद्वत्काश्यपि धर्मराजमनघे दृष्टा प्रभा निर्मला / निःसंशयं वरलक्षणो हितकरो उत्पन्न ज्ञानप्रभो येनेदं भवनं विरोचति हि मे स्वर्णप्रभालंकृतम् // lal_19.27 //

नास्मिं चन्द्ररविप्रभा सुविपुला संदृश्यते वेश्मनि नो चाग्नेर्न मणेर्न विद्युदमला नो च प्रभा ज्योतिषाम् / नो वा शक्रप्रभा न ब्रह्मण प्रभा नो च प्रभा आसुरी एकान्तं तमसाकुलं मम गृहं प्राग्दुष्कृतैः कर्मभिः // lal_19.28 //

अद्येदं भवनं विराजति शुभं मध्ये रविंदीप्तिवत् चित्तं प्रीति जनेति कायु सुखितो गात्राद्भुता शीतला / तप्ता वालिक या शरीरि निपती जाता स मे शीतला सुव्यक्तं बहुकल्पकोटिचरितो बोधिद्रमं गच्छति // lal_19.29 //

शीघ्रं गृह्णत नागपुष्प रुचिरा वस्त्रां सुगन्धां शुभां मुक्ताहारपिनद्धतांश्च वलयांश्चूर्णानि धूपोत्तमा / संगीतिं प्रकृरुध्व वाद्य विविधा भेरीमृदङ्गैः शुभैः हन्ता गच्छथ पूजना हितकरं पूजार्ह सर्वे जगे // lal_19.30 //

सो ऽभ्युत्थाय च नागकन्यसहितश्चतुरो दिशः प्रेक्षते अद्राक्षीदथ मेरुपर्वतनिभं स्वालंकृतं तेजसा / देवैर्दानवकोटिभिः परिवृतं ब्रह्मेन्द्रयक्षैस्तथा पूजां तस्य करोन्ति हृष्टमनसो दर्शेन्ति मार्गो ह्ययम् // lal_19.31 //

संहृष्टः स हि नागराट् सुमुदितश्चाभ्यर्च्य लोकोत्तमं वन्दित्वा चरणौ च गौरवकृतस्तस्थौ मुनेरग्रतः / नागाकन्य उदग्र हृष्टमनसः कुर्वन्ति पूजां मुनेः पुष्पं गन्धविलेपना च क्षिपिषुस्तूर्याणि निर्नादयन् // lal_19.32 //

कृत्वा चाञ्जलि नागराट् सुमुदितस्तुष्टाव तथ्यैर्गुणैः साधुर्दर्शितु पूर्णचन्द्रवदने लोकोत्तमे नायके / यथ मे दृष्ट निमित्त पूर्वऋषिणां पश्यामि तानेव ते अद्य त्वं विनिहत्य मारबलवानिष्टं पदं लप्स्यसे // lal_19.33 //

यस्यार्थे दमदानसंयम पुरे सर्वा ति त्यागी अभूत् यस्यार्थे दमशीलमैत्रकरुणाक्षान्तिबलं भावितम् / यस्यार्थे दमवीर्यध्याननिरतः प्रज्ञाप्रदीपः कृतः सैषा ते परिपूर्ण सर्व प्रणिधी अद्या जिनो भेष्यसे // lal_19.34 //

यद्वद्वृक्ष सपत्रपुष्प सफला बोधिद्रुमं संनताः यद्वत्कुम्भसहस्र पूर्णसलिला कुर्वन्ति प्रादक्षिणम् / यद्वच्चाप्सरगणाश्च संप्रमुदिता स्निग्धं रुतं कुर्वते हंसा क्रोञ्चगणा यथा च गगने गच्छन्ति लीलान्वितं कुर्वन्ते सुमनाः प्रदक्षिणमृषिं भावि त्वमद्यार्हवान् // lal_19.35 //

यथ वा काञ्चनवर्ण आभ रुचिरा क्षत्राशता गच्छते शान्ताश्चापि यथा अपाय निखिला दुःखैर्विमुक्ता प्रजाः / यद्वद्वृष्टित चन्द्रसूर्यभवना वायुर्मृदुर्वायते अद्या भेष्यसि सार्थवाहु त्रिभवे जातीजरामोचको // lal_19.36 //

यद्वत्कामरती विहाय च सुरास्त्वत्पूजने ऽभ्यागताः ब्रह्मा ब्रह्मपुरोहिताश्च अमरा उत्सृज्य ध्यानं सुखम् / ये केचित्त्रिभवे तथैव च पुरे सर्वे इहाभ्यागताः अद्या भेष्यसि वैद्यराजु त्रिभवे जाटीजरमोचको // lal_19.37 //

मार्गश्चापि यथा विशोधितु सुरैर्येनाद्य त्वं गच्छसे एतेनागतु क्रकुच्छन्दु भगवान् कनकाह्वयः काश्यपः / यथ वा पद्म विशुद्ध निर्मल शुभा भित्त्वा महीमुद्गताः यस्मिं निक्षिपसे क्रमानतिबलां भावि त्वमद्यार्हवान् // lal_19.38 //

माराः कोटिसहस्र नेकनयुता गङ्गा यथा वालिकाः ते तुभ्यं न समर्थ बोधिविटपाच्चालेतु कम्पेतु वा / यज्ञा नैकविधाः सहस्रनयुता गङ्गा यथा वालिकाः यष्टास्ते चरता हिताय जगतस्तेनेह विभ्राजसे // lal_19.39 //

नक्षत्रा सशशी सतारकरवी भूमौ पतेदम्बरात् स्वस्थानाच्च चलेन्महागिरिवरः शुष्येदथो सागरः / चतुरो धातव कश्चि विज्ञपुरुषो दर्शेय एकैकशः नैव त्वं द्रुमराजमूलुपगतो अप्राप्य बोध्युत्थिहेत् // lal_19.40 //

लाभा मह्य सुलब्ध वृद्धि विपुला दृष्टो ऽसि यत्सारथे पूजा चैव कृता गुणाश्च कथिता बोधाय चोत्साहितः / सर्वा नागवधू अहं च ससुता मुच्येमितो योनितः त्वं यासी यथ मत्तवारणगते गच्छेम एवं वयम् // lal_19.41 //

इति //

इति हि भिक्षवः कालिकस्य नागराजस्याग्रमहिषी सुवर्णप्रभासा नाम, सा संबहुलाभिर्नागकन्याभिः परिवृता पुरस्कृता नानारत्नछत्रपरिगृहीताभिः नानादूष्यपरिगृहीताभिर्नानामुक्ताहारपरिगृहीताभिः नानामणिरत्नपरिगृहीताभिः दिव्यमानुष्यकमाल्यविलेपनगुण्ठपरिगृहीताभिः नानागन्धघटिकापरिगृहीताभिः नानातूर्यसंगीतिसंप्रवादितैर्नानारत्नपुष्पवर्षैर्बोधिसत्त्वं गच्छन्तमभ्यवकिरन्ति स्म //

आभिश्च गाथाभिस्तुष्टुवुः -

अभ्रान्ता अत्रस्ता अभीरू अछम्भी अलीना अदीना प्रहृष्टा दुधर्षा / अरक्ता अदुष्टा अमूढा अलुब्धा विरक्ता विमुक्ता नमस्ते महर्षे // lal_19.42 //

भिषङ्का विशल्या विनेया विनेषी सुवैद्या जगस्या दुखेभ्यः प्रमोची / अलेना अत्राणा अहीना विदित्वा भवा लेनु त्राणो त्रिलोकेस्मि जातः // lal_19.43 //

प्रसन्ना प्रहृष्टा यथा देवसंघाः प्रवर्षी नभस्था महत्पुष्पवर्षम् / महाचैलक्षेपं करोन्ती यथेमे जिनो भेष्यसे ऽद्या कुरुष्व प्रहर्षम् // lal_19.44 //

उपेहि द्रुमेन्द्रं निषीदा अछम्भी जिना मारसेनां धुन क्लेशजालम् / विबुद्ध्य प्रशान्तां वरामग्रबोधिं यथा पौर्वकैस्तैर्विबुद्धा जिनेन्द्रैः // lal_19.45 //

त्वया यस्य अर्थे बहूकल्पकोट्यः कृता दुष्कराणी जगन्मोचनार्थम् / प्रपूर्णा ति आशा अयं प्राप्तु कालो उपेहि द्रुमेन्द्रं स्पृशस्वाग्रबोधिम् // lal_19.46 //

इति //

अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभवत् - कुत्र निषण्णैस्तैः पूर्वकैस्तथागतैरनुत्तरा सम्यक्संबोधिरभिसंबुद्धा इति / ततो ऽस्यैतदभूत् - तृणसंस्तरे निषण्णैरिति //

अथ खल्वन्तरीक्षगतानि शुद्धावासकायिकदेवशतसहस्राणि बोधिसत्त्वस्य चेतोभिरेव चेतःपरिवितर्कमाज्ञायैवं वाचो भाषन्ते स्म - एवमेतत् सत्पुरुष, एवमेतत् / तृणसंस्तरे सत्पुरुष निषद्य तैः पूर्वकैस्तथागतैरनुत्तरा सम्यक्संबोधिरभिसंबुद्धा इति //

अद्राक्षीत्खल्वपि भिक्षवो बोधिसत्त्वो मार्गस्य दक्षिणे पार्श्वे स्वस्तिकं यावसिकम् तृणानि लूनाति स्म नीलानि मृदुकानि सुकुमाराणि रमणीयानि कुण्डलजातानि प्रदक्षिणावर्तानि / मयूरग्रीवसंनिभानि काचिलिन्दिकसुखसंस्पर्शानि सुगन्धीनि वर्णवन्ति मनोरमाणि / दृष्ट्वा च (वैद्य 208) पुनर्बोधिसत्त्वो मार्गादपक्रम्य येन स्वस्तिको यावसिकस्तेनोपसंक्रामत् / उपसंक्रम्य स्वस्तिकं यावसिकं मधुरया वाचा समालपति स्म / यासौ वागाज्ञापनी विज्ञापनी विस्पष्टा अनेकलोकैकवर्णसुखा वल्गुः श्रवणीया स्निग्धा स्मरणीया चोदनी तोषणी प्रेमणी अकर्कशा अगद्गदा अपरुषा अचपला श्लक्ष्णा मधुरा कर्णसुखा कायचित्तोद्बिल्यकरणी रागदोषमोहकलिकलुषविनोदनी कलविङ्करुतस्वरा कुणालजीवंजीवकाभिनदितघोषा दुन्दुभिसंगीतिरुतरवितनिर्घोषवती अनपहता सत्या अच्छा भूता ब्रह्मस्वरुतरवितनिर्घोषा समुद्रस्वरवेगनिभा शैलसंघट्टनवती देवेन्द्रासुरेन्द्राभिष्टुता गम्भीरा दुरवगाहा नमुचिबलाबलकरणी परप्रवादमथनी सिंहस्वरवेगा हयगजगर्जितघोषा नागनिर्नादनी मेघस्तनिताभिगर्जितस्वरा दशदिक्सर्वबुद्धक्षेत्रस्फरणी विनेयसत्त्वसंचोदनी अद्रुता अनुपहता अविलम्बिता सहिता युक्ता कालवादिनी समयानतिक्रमणी धर्मशतसहस्रसुग्रथिता सौम्या असक्ता अधिष्ठितप्रतिभाना एकरुता सर्वरुतरचनी सर्वाभिप्रायज्ञापनी सर्वसुखसंजननी मोक्षपथसंदर्शिका मार्गसंभारवादिनी पर्षदनतिक्रमणी सर्वपर्षत्संतोषणी सर्वबुद्धभाषितानुकूला / ईदृश्या वाचा बोधिसत्त्वः स्वस्तिकं यावसिकं गाथाभिरभ्यभाषत -

तृणु देहि मि स्वस्तिक शीघ्रं अद्य ममार्थु तृणैः सुमहान्तः / सबलं नमुचिं निहनित्वा बोधिमनुत्तरशान्ति स्पृशिष्ये // lal_19.47 //

यस्य कृते मयि कल्पसहस्रा दानु दमो ऽपि च संयम त्यागो / शीलव्रतं च तपश्च सुचीर्णा तस्य मि निष्पदि भेष्यति अद्य // lal_19.48 //

क्षान्तिबलं तथ वीर्यबलं च ध्यानबलं तथ ज्ञानबलं च / पुण्यअभिज्ञविमोक्षबलं च तस्य मि निष्पदि भेष्यति अद्य // lal_19.49 //

प्रज्ञबलं च उपायबलं च ऋद्धिम संगतमैत्रबलं च / प्रतिसंविदपरिसत्यबलं च तेष मि निष्पदि भेष्यति अद्य // lal_19.50 //

पुण्यबलं च तवापि अनन्तं यन्मम दास्यसि अद्य तृणानि / न ह्यपरं तव एतु निमित्तं त्वं पि अनुत्तरु भेष्यसि शास्ता // lal_19.51 //

श्रुत्वा स्वस्तिकु वाच नायके सुरुचिरमधुरां तुष्टो आत्तमनाश्च हर्षितः प्रमुदितमनसः / गृह्णीत्वा तृणमुष्टि स्पर्शनवती मृदुतरुणशुभां पुरतः स्थित्वन वाच भाषते प्रमुदितहृदयः // lal_19.52 //

यदि ताव णृकेभि लभ्यते पदवरममृतं बोधी उत्तम शान्त दुर्दृशा पुरिमजिनपथः / तिष्ठतु ताव महागुणोदधे अपरिमितयशा अहमेव प्रथमे नु बुध्यमि पदवरमृतम् // lal_19.53 //

नैषा स्वस्तिक बोधि लभ्यते तृणवरशयनैः अचरित्वा बहुकल्प दुष्करी व्रततप विविधा / प्रज्ञापुण्यौपायौद्गतो यद भवि मतिमां तद पश्चाज्जिन व्याकरोन्ति मुनयो भविष्यसि विरजः // lal_19.54 //

यदि बोधि इय शक्यु स्वस्तिका परजनि ददितुं पिण्डीकृत्य ददेय प्राणिनां म भवतु विमतिः / यद बोधी मय प्राप्त जानसी विभजमि अमृतं आगत्वा शृणु धर्मयुक्त त्वं भविष्यसि विरजः // lal_19.55 //

गृह्णीत्वा तृणमुष्टि नायकः परमसुमृदुकां सिंहाहंसगतिश्च प्रस्थितः प्रचलित धरणी / देवा नागगणाः कृताञ्जली प्रमुदितमनसः अद्या मारबलं निहत्ययं स्पृशिष्यति अमृतम् // lal_19.56 //

इति हि भिक्षवो बोधिसत्त्वस्य बोधिवृक्षमुपसंक्रामतो ऽशीतिबोधिवृक्षसहस्राणि देवपुत्रैश्च बोधिसत्त्वैश्च मण्डितान्यभूवन् - इह निषद्य बोधिसत्त्वो बोधिं प्राप्स्यत्यभिसंभोत्स्यत इति / सन्ति तत्र केचिद्बोधिवृक्षाः पुष्पमया योजनशतसहस्रोद्विद्धाः / केचिद् बोधिवृक्षा (वैद्य 210) गन्धमया द्वियोजनशतसहस्रोद्विद्धाः / केचिद्बोधिवृक्षाश्चन्दनमयास्त्रियोजनशतसहस्रोद्विद्धाः / केचिद्बोधिवृक्षा वस्त्रमयाः पञ्चयोजनशतसहस्राण्युच्चैस्त्वेन / केचिद्बोधिवृक्षा रत्नमया दशयोजनशतसहस्राण्युच्चैस्त्वेन / केचिद्बोधिवृक्षाः सर्वरत्नमया दशयोजनकोटिनयुतशतसहस्राण्युच्चैस्त्वेन / केचिद्बोधिवृक्षा रत्नमयाः कोटिनयुतशतसहस्रमुद्विद्धाः / सर्वेषु तेषु बोधिवृक्षमूलेषु यथानुरूपाणि सिंहासनानि प्रज्ञप्तान्यभूवन् नानादिव्यदूष्यसंस्तृतानि / क्वचिद्बोधिवृक्षे पद्मासनं प्रज्ञप्तमभूत्, क्वचिद्गन्धासनम्, क्वचिन्नानाविधरत्नासनम् / बोधिसत्त्वश्च ललितव्यूहं नाम समाधिं समापद्यते स्म / समनन्तरसमापन्नस्य च बोधिसत्त्वस्येमं ललितव्यूहं नाम बोधिसत्त्वसमाधिम्, अथ तत्क्षणमेव बोधिसत्त्वः सर्वेषु च तेषु बोधिवृक्षमूलेषु सिंहासने संनिषण्णः संदृश्यते स्म लक्षणानुव्यञ्जनसमलंकृतेन कायेन / एकैकश्च बोधिसत्त्वो देवपुत्रैश्चैवं संजानीते स्म - ममैव सिंहासने बोधिसत्त्वो निषण्णो नान्येषामिति / यथा च ते संजानते स्म - तथास्यैव ललितव्यूहस्य बोधिसत्त्वसमाधेरनुभावेन सर्वनिरयतिर्यग्योनियमलोकिकाः सर्वे देवमनुष्याश्च सर्वे गत्युपपन्नाः सर्वसत्त्वा बोधिसत्त्वं पश्यन्ति स्म बोधिवृक्षमूले सिंहासने निषण्णम् //

अथ च पुनर्हीनाधिमुक्तिकानां सत्त्वानां मतिपरितोषणार्थं बोधिसत्त्वस्तृणमुष्टिमादाय येन बोधिवृक्षस्तेनोपसंक्रामत् / उपसंक्रम्य बोधिवृक्षं सप्तकृत्वः प्रदक्षिणीकृत्य स्वयमेवाभ्यन्तराग्रं बहिर्मूलं समन्तभद्रं तृणसंस्तरणं संस्तीर्य सिंहवच्छूरवद्बलवद्दृढवीर्यवत्स्थामवन्नागवदैश्वर्यवत्स्वयंभूवज्ज्ञानिवदनुत्तरवद्विशेषवदभ्युद्रतवद्यशोवत्कीर्तिवद्दानवच्छीलवत्क्षान्तिवद्वीर्यवद्ध्यानवत्प्रज्ञावज्ज्ञानवत्पुण्यवन्निहतमारप्रत्यर्थिकवत्संभारवत्पर्यङ्कमाभुज्य तस्मिंस्तृणसंस्तरे न्यषीदत् प्राङ्मुख ऋजुकायं प्रणिधाय अभिमुखां स्मृतिमुपस्थाप्य / ईदृशं च दृढं समादानमकरोत् -

इहासने शुष्यतु मे शरीरं त्वगस्थिमांसं प्रलयं च यातु / अप्राप्य बोधिं बहुकल्पदुर्लभां नैवासनात्कायमतश्चलिष्यते // lal_19.57 //

इति //

// इति श्रीललितविस्तरे बोधिमण्डगमनपरिवर्तो नाम एकोनविंशतितमो ऽध्यायः //

स्तर्त् परिवर्त 20

बोधिमण्डव्यूहपरिवर्तो विंशतितमः /

इति हि भिक्षवो बोधिसत्त्वस्य बोधिमण्डनिषण्णस्यं पूर्वस्यां दिशि षट् कामावचरा देवाः स्थिता अभूवन् - मा बोधिसत्त्वस्य कश्चिदन्तरायं कार्षीदिति / एवं दक्षिणपश्चिमोत्तरा दिशो देवैः परिगृहीता अभूवन् //

इति हि भिक्षवो बोधिसत्त्वो बोधिमण्डनिषण्णस्तस्यां वेलायां बोधिसत्त्वसंचोदनीं नाम रश्मिं प्रामुञ्चत्, यया रश्म्या समन्ताद्दशसु दिक्ष्वप्रमेयासंख्येयानि धर्मधातुपरमाण्याकाशधातुपर्यवसानानि सर्वबुद्धक्षेत्राण्यवभासितान्यभूवन् //

अथ खलु पूर्वस्यां दिशि विमलायां लोकधातौ विमलप्रभासस्य तथागतस्य बुद्धक्षेत्राल्ललितव्यूहो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैश्च बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् / उपसंक्रम्य च तस्यां वेलायां बोधिसत्त्वस्य पूजाकर्मणे तथारूपमृद्ध्यभिसंस्कारमभिसमकरोद् येनद्धर्यभिसंस्कारेणाभिसंस्कृतेन दशसु दिक्ष्वाकाशधातुपर्यवसानानि सर्वबुद्धक्षेत्राण्येकं मण्डलमात्रमादर्शयति स्म शुद्धस्य नीलवैडूर्यस्य / पञ्चगत्युपपन्नानां सर्वसत्त्वानां पुरतो बोधिमण्डे निषण्णं बोधिसत्त्वमुपदर्शयति स्म / ते च सत्त्वाः परस्परमेकाङ्गुलिकाभिर्बोधिसत्त्वमुपदर्शयन्ति स्म - को ऽयमेवंरूपः सत्त्वो ललितः, को ऽयमेवंरूपः सत्त्वो विराजत इति / तेषां च सत्त्वानां पुरतो बोधिसत्त्वो बोधिसत्त्वान्निर्मिमीते स्म / तत्र ते बोधिसत्त्वविग्रहा इमा गाथा अभाषन्त -

यस्या किंचन रागदोषकलुषा सा वासना उद्धृता यस्या कायप्रभाकृता दशदिशे सर्वे प्रभा निष्प्रभाः / यस्या पुण्यसमाधिज्ञाननिचयः कल्पौघसंवर्धिंतः सो ऽयं शाक्यमुनिर्महामुनिवरः सर्वा दिशो भ्राजते // lal_20.1 //

इति //

अथ खलु भिक्षवो दक्षिणस्यां दिशि रत्नव्यूहाया लोकधातो रत्नार्चिषस्तथागतस्य बुद्धक्षेत्राद्रत्नच्छत्रकूटसंदर्शनो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् / उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे एकरत्नछत्रेण तं सर्वावन्तं मण्डलमात्रं संछादयति स्म / तत्र शक्रब्रह्मलोकपालाः परस्परमेतदवोचन् - कस्येदं फलम्, केनायमेवंरूपो रत्नछत्रव्यूहः संदृश्यत इति / अथ तस्माद्रत्नछत्रादियं गाथा निश्चरति स्म -

येन च्छत्रसहस्रकोटिनयुता गन्धान रत्नान च दत्ता अप्रतिमेषु मैत्रमनसा तिष्ठन्ति के निर्वृते / सो एषो वरलक्षणो हितकरो नारायणस्थामवान् बोधेर्मूलमुपागतो गुणधरस्तस्यैष पूजा कृता // lal_20.2 //

इति //

अथ खलु पश्चिमाया दिशश्चम्पकवर्णाया लोकधातोः पुष्पावलिवनराजिकुसुमिताभिज्ञस्य तथागतस्य बुद्धक्षेत्रादिन्द्रजाली नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपजगाम / उपेत्य च बोधिसत्त्वस्य पूजाकर्मणे सर्वावन्तं मण्डलमात्रमेकरत्नजालेन संछादयति स्म / तत्र दशसु दिक्षु देवनागयक्षगन्धर्वाः परस्परमेवमाहुः - कस्यायमेवंरूपो प्रभाव्यूह इति / अथ तस्माद्रत्नजालादियं गाथा निश्चरति स्म -

रत्नाकरो रतनकेतु रतिस्त्रिलोके रत्नोत्तमो रतनकीर्ति रतः सुधर्मे / रत्नानि त्रीणि न च छेत्स्यति वीर्यप्राप्तः सो बोधि प्राप्स्यति वरामिय तस्य पूजा // lal_20.3 //

इति //

अथ खलूत्तरस्यां दिशि सूर्यावर्ताया लोकधातोश्चन्द्रसूर्यजिह्मीकरप्रभस्य तथागतस्य बुद्धक्षेत्राद्व्यूहराजो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतः येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् / उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे यावन्तो दशसु दिक्षु सर्वलोकधातुषु बुद्धक्षेत्रगुणव्यूहास्तान् सर्वांस्तस्मिन् मण्डलमात्रे संदर्शयति स्म / तत्र केचिद्बोधिसत्त्वा एवमाहुः - कस्येम एवंरूपा व्यूहाः? अथ तेभ्यः सर्वव्यूहेभ्य इयं गाथा निश्चरति स्म -

कायो येन विशोधितः सुबहुशः पुण्येन ज्ञानेन च येना वाच विशोधिता व्रततपैः सत्येन धर्मेण च / चित्तं येन विशोधितं हिरिधृती कारुण्यमैत्र्या तथा सो एषो द्रुमराजमूलुपगतः शाक्यर्षभः पूज्यते // lal_20.4 //

इति //

अथ खलु पूर्वदक्षिणस्या दिशो गुणाकराया लोकधातोर्गुणराजप्रभासस्य तथागतस्य बुद्धक्षेत्राद्रुणमतिर्नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् / उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे सर्वगुणव्यूहं कूटागारं तस्मिन् मण्डलमात्रे ऽभिनिर्मिमीते स्म / तस्य ते परिवारा एवमाहुः - कस्यायमेवंरूपः कूटागारव्यूहः? ततश्च कूटागारादियं गाथा निश्चरति स्म -

यस्य गुणैः सततं गुणगन्धिका भोन्ति सुरासुर यक्ष महोरगाः / सो गुणवान् गुणराजकुलोदितो बोधिविटपे उपविष्टु गुणोदधिः // lal_20.5 //

इति //

अथ खलु दक्षिणपश्चिमाया दिशो रत्नसंभवाया लोकधातो रत्नयष्टेस्तथागतस्य बुद्धक्षेत्राद्रत्नसंभवो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् / उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे अप्रमेयासंख्येयान् रत्नव्योमकांस्तस्मिन्मण्डलमात्रे ऽभिनिर्मिमीते स्म / तेभ्यश्च रत्नव्योमकेभ्य इयं गाथा निश्चचार -

त्यक्ता येन ससागरा वसुमती रत्नान्यथो ऽनेकशः प्रासादाश्च गवाक्षहर्मिकवरा युग्यानि यानानि च / व्योमालंकृत पुष्पदाम रुचिरा उद्यान कूपा सभा हस्ता पाद शिरोत्तमाङ्गनयनाः सो बोधिमण्डे स्थितः // lal_20.6 //

इति //

अथ खलु पश्चिमोत्तरस्या दिशो मेघवत्या लोकधातोर्मेघराजस्य तथागतस्य बुद्धक्षेत्रान्मेघकूटाभिगर्जितस्वरो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् / उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे कालानुसार्यगुरुमेघमभिनिर्मायोरगसारचन्दनचूर्णवर्षं तस्मिन् मण्डलमात्रे ऽभिप्रवर्षति स्म / तस्माच्च कालानुसारिमेघमण्डलमात्रादियं गाथा निश्चरति स्म -

धर्मामेघ स्फुरित्व सर्वत्रिभवे विद्याधिमुक्तप्रभः सद्धर्मं च विराग वर्षिं अमृतं निर्वाणसंप्रापकम् / सर्वा रागकिलेशबन्धनलता सो वासना छेत्स्यति ध्यानर्द्धीबलैन्द्रियैः कुसुमितः श्रद्धाकरं दास्यते // lal_20.7 //

इति //

अथ खलूत्तरपूर्वस्या दिशो हेमजालप्रतिछन्नाया लोकधातो रत्नच्छत्राभ्युद्गतावभासस्य तथागतस्य बुद्धक्षेत्राद्धेमजालालंकृतो नाम बोधिसत्त्वो महासत्त्वस्तयाप्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् / उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे सर्वेषु तेषु कूटागारेषु रत्नव्योमकेषु द्वात्रिंशल्लक्षणसमलंकृतान् बोधिसत्त्वविग्रहानभिनिर्मिमीते स्म / सर्वे च ते बोधिसत्त्वविग्रहा दिव्यमानुष्यकपुष्पदामपरिगृहीता येन बोधिसत्त्वस्तेनाभिनतकायास्तानि पुष्पदामान्यभिप्रलम्बयन्ति स्म / ते इमां गाथामभाषन्त -

येन बुद्धनयुता स्तवित पूर्व गौरवेण महता जनिय श्रद्धाम् / ब्रह्मघोषवचनं मधुरवाणिं बोधिमण्डोपगतं शिरसि वन्दे // lal_20.8 //

इति //

अथ खल्वधस्ताद्दिशः समन्तविलोकिताया लोकधातोः समन्तदर्शिनस्तथागतस्य बुद्धक्षेत्राद्रत्नगर्भो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् / उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे तस्मिन् वैदूर्यमयमण्डलमात्रे जाम्बूनदसुवर्णपद्मान्यभ्युद्गतान्युपदर्शयति स्म / तेषां च पद्मानां कर्णिकास्वर्धकायिका नार्यो वर्णरूपसंपन्नाः सर्वालंकारप्रतिमण्डिता उपदर्शयति स्म / वामदक्षिणे पाणिभिर्हर्षकटककेयूरसुवर्णसूत्रमुक्ताहारादिविविधाभरणपरिगृहीताः पुष्पपट्टदामानि चाभिप्रलम्बयन्त्यो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपर्यभिनतकायाः / ताश्चेमां गाथामभाषन्त -

यो ओनमिष्ट सदा गुरूणां बुद्धश्रावकप्रत्येकजिनानाम् / निर्माणसुशील सदोज्जु प्रष्ठो तस्या ओनमथा गुणधरस्य // lal_20.9 //

इति //

अथ खलूपरिष्टाद्दिशो वरगगनाया लोकधातोर्गणेन्द्रस्य तथागतस्य बुद्धक्षेत्राद्गगनगञ्जो नाम बोधिसत्त्वो महासत्त्वस्तया प्रभया संचोदितः सन् गणनासमतिक्रान्तैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तेनोपसंक्रामत् / उपसंक्रम्य बोधिसत्त्वस्य पूजाकर्मणे गगनतलस्थ एव यावन्तो दशसु दिक्षु सर्वबुद्धक्षेत्रेष्वदृष्टाश्रुतपूर्वाः सन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरवस्त्रालंकारछत्रध्वजपताकावैजयन्तिरत्न् - अमणिकनकरजतमुक्ताहारहयगजरथपत्तिवाहनपुष्पवृक्षपत्रपुष्पफलदारकदारिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालमानुष्यामानुष्याणां सर्वा गगनतलान्महान्तं पुष्पवर्षमभिप्रवर्षन्ति स्म सर्वसत्त्वप्रीतिसुखसंजननं च / न च कस्यचित्सत्त्वस्य भयं चोत्पीडां वा करोति स्म //

तत्रेदमुच्यते -

पेयालमेष दिशतासु जिनौरसा ये संपूजितुं हितकरं अनुप्राप्त बोधिम् / तेषां वियूहक्रमविक्रमसुक्रमाणां ओपम्यमात्र निशृणोथ जिनौरसानाम् // lal_20.10 //

के चागता नभसि मेघ इव स्तनन्तो हारा सहस्रनयुतानि प्रलम्बयन्तः / के चागता मकुटरत्नविलम्बचूडाः पौष्पं विमान गगने उपदर्शयन्तः // lal_20.11 //

के चागता धरणिसिंह इवा नदन्तः शून्यानिमित्तप्रणिधीरवमुञ्चमानाः / के चागता यथ वृषा अभिनन्दमानाः न च दृष्टपूर्व रुचिराणि क्षिपन्ति पुष्पां // lal_20.12 //

के चागता नभसि सार इवा रवन्तो वर्णासहस्र स्वकि आत्मनि दर्शयन्तः / के चागता शशिरिवा गगने सुपूर्णाः सुगतात्मजस्य गुणमालमुदीरयन्तः // lal_20.13 //

के चागता रविरिव प्रभ मुञ्चमानाः सर्वाणि मारभवनानि करोन्ति जिह्मा / के चागता विमलकेतु यथेन्द्रयष्ट्यः संभारपुण्यनिचितास्तहि बोधिमण्डे // lal_20.14 //

केचित्क्षिपन्ति गगनान्मणिरत्नजाला चन्द्रा सुचन्द्र तथ बाल विरोचमाना / मान्दारवा सुमनवार्षिकचम्पदामा संबोधिसत्त्व द्रुमराजस्थिते क्षिपन्ति // lal_20.15 //

के चागता धरणि कम्पयमान पद्भ्यां संकम्पिता वसुध प्रीतिकरी जनस्य / के चागता ग्रहिय मेरु करेतलेभिः उत्सृष्टपुष्पपुट संस्थित अन्तरीक्षे // lal_20.16 //

के चागताश्चतुरि सागर गृह्य मूर्ध्ना उत्सृष्ट सिञ्चि वसुधां वरगन्धतोयैः / के चागता रतनयष्टि गृहीत्व चित्रं संबोधिसत्त्वमुपदर्शय स्थित्व दूरे // lal_20.17 //

के चागता भविय ब्रह्म प्रशान्तरूपाः शान्ता प्रशान्तमनसः स्थित ध्यानध्यायी / रोमेभि तेष स्वरु निश्चरते मनोज्ञ मैत्रीउपेक्षकरुणामुदिताप्रमाणा // lal_20.18 //

के चागता मरुत शक्र इवा यथैव देवैः सहस्रनयुतैश्च पुराकृतास्ते / उपगम्य बोधिवटु गृह्य कृताञ्जलीभिः शक्राभिलग्न मणिरत्न क्षिपन्ति चित्रा // lal_20.19 //

के चागताश्चतुदिशा च यथैव पाला गन्धर्वराक्षसपरीवृत किन्नरेभिः / विद्युत्स्फुटान्त कुसुमानि प्रवर्षमाणाः गन्धर्वकिन्नररूतेन स्तुवन्ति वीरम् // lal_20.20 //

के चागताः कुसुमितां प्रगृहीत्व वृक्षान् सफलां सपुष्पवरगन्ध प्रमुञ्चमानां / जातेषु तेषु स्थित बुद्ध शुद्धकायाः अवलम्बमान प्रतिमण्डि क्षिपन्ति पुष्पा // lal_20.21 //

के चागताः कुसुमिताः पुडिनी गृहीत्वा पद्मोत्पलैः कुसुमितैस्तथ पुण्डरीकैः / द्वात्रिंशलक्षणधराः स्थित पद्मगर्भे स्तविष्ट अलिप्तमनसं विदु बोधिसत्त्वम् // lal_20.22 //

के चागता विपुलकाय तथेव मेरु स्थित्वान्तरीक्ष स्वकमात्मनमुत्सृजन्ति / उत्सृज्यमात्र भविया नवपुष्पदामाः संछादयन्ति त्रिसहस्रि जिनस्य क्षेत्रम् // lal_20.23 //

के चागता उभयचक्षुषि कल्पदाहं संदर्शयन्त विभवं तथ संभवं च / तेषां शरीरि बहुधर्मसुखा रणन्ति तां श्रुत्व सत्त्वनयुता प्रजहन्ति तृष्णाम् // lal_20.24 //

के चागता रवितकिन्नरतुल्यघोषाः बिम्बोष्ठचारुवदनाः परिपूर्णवक्त्राः / कन्या यथैव सुअलंकृत चित्रहाराः प्रेक्षन्त यां सुरगणा न लभन्ति तृप्तिम् // lal_20.25 //

के चागता वजिरकाय इवा अभेद्याः हेष्ठा पस्कन्धचरणैः प्रतिग्राह्यमाणाः / के चागता रविरिवा शशिपूर्णवक्त्राः ज्योत्स्नाकराः प्रभकरा हतक्लेशदोषाः // lal_20.26 //

के चागता रतनमण्डित रत्नपाणी संछादयित्व बहुक्षेत्रसहस्रकोट्यः / वर्षन्ति रत्नवर पुष्प सुगन्धगन्धा संतोषणार्थं बहुसत्त्वहितं सुखार्थम् // lal_20.27 //

के चागता महति धारणि रत्नकोशाः रोमेभि सूत्रनयुतानि प्रभाषमाणाः / प्रतिभानवन्त मतिवन्त सुबुद्धिवन्तो मत्तप्रमत्तजनतां प्रतिबोधयन्तः // lal_20.28 //

के चागता ग्रहिय भेरि यथैव मेरु आकोट्यमानु गगने सुमनोज्ञघोषाम् / यस्या रवं दशदिशे व्रजि क्षेत्रकोट्या अद्यावबोद्धुममतं अनुबुद्धि शास्ता // lal_20.29 //

इति //

// इति श्रीललितविस्तरे बोधिमण्डव्यूहपरिवर्तो नाम विंशतितमो ऽध्यायः //

स्तर्त् परिवर्त 21

मारघर्षणपरिवर्त एकविंशः /

इति हि भिक्षवो बोधिसत्त्वैश्चेम एवंरूपा व्यूहा बोधिसत्त्वस्य पूजाकर्मणे बोधिमण्डे ऽभिसंकृता अभूवन् / स्वयं च बोधिसत्त्वो यावन्तो दशसु दिक्ष्वतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वबुद्धक्षेत्रेषु बोधिमण्डालंकारव्यूहास्तान् सर्वांस्तस्मिन् बोधिमण्डे संदर्शयति स्म //

अथ खलु भिक्षवो बोधिमण्डनिषण्णस्य बोधिसत्त्वस्यैतदभवत् - इह खलु कामधातौ मारः पापीयानधिपतिरीश्वरो वशवर्ती / नैतन्मम प्रतिरूपं भवेद्यदहं तेनाविदितो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् / यन्न्वहं मारस्य पापीयसः संचोदनं कुर्याम् / तस्मिन् विजिते सर्वे कामावचरा देवादयो निगृहीता भविष्यन्ति / ततश्च मारपर्षदः पूर्वावरोपितकुशलमूला मारकायिका देवपुत्रास्ते मम सिंहविक्रीडितं दृष्ट्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यन्ति //

अथ खलु भिक्षवो बोधिसत्त्व एवमनुविचिन्त्य तस्यां वेलायां भ्रूविवरान्तरादूर्णाकोशात् सर्वमारमण्डलविध्वंसनकरीं नामैकां रश्मिमुदसृजत् / यया रश्म्या सर्वस्मिंस्त्रिसाहस्रमहासाहस्रलोकधातौ सर्वमारभवनान्यवभास्य जिह्मीकृतानि संप्रकम्पितानि चाभूवन् / सर्वश्चायं त्रिसाहस्रमहासाहस्रलोकधातुर्महतावभासेन स्फुटो ऽभूत् / तस्याश्च प्रभाया मारः पापीयानिदमेवं रूपं शब्दमश्रौषीत् -

कल्पौघचीर्णचरितो ह्यभिशुद्धसत्त्वः शुद्धोदनस्य तनयः प्रविजह्य राज्यम् / सो निर्गतो हितकरो ह्यमृताभिलाषी बोधिद्रुमं ह्युपगतो ऽद्य कुरु प्रयत्नम् // lal_21.1 //

सो तीर्ण आत्मन परानपि तारयेया मोचेष्यते स च परां स्वयमेव मुक्तः / आश्वासप्राप्त स परानपि चाश्वसेया निर्वापयिष्यति परां परिनिर्वृतश्च // lal_21.2 //

शून्यां करिष्यति आपायत्रयो ऽप्यशेषां पूर्णां करिष्यति पुरां सुरमानुषाणाम् / ध्यानानभिज्ञ परमं अमृतं सुखं च दास्यत्यसौ हितकरो अमृतं स्पृशित्वा // lal_21.3 //

शून्यं करिष्यति पुरं तव कृष्णबन्धो अबलो बलो बलविहीनु अपक्ष्यपक्ष्यो / न ज्ञास्यसे क्व नु व्रजामि करोमि किं वा यद धर्मवर्षमभिवर्षि स्वयं स्वयंभूः // lal_21.4 //

इति //

इति हि भिक्षवो मारः पापीयानाभिः संचोदनाभिर्गाथाभिः संचोदितः सन् द्वात्रिंशदाकारं स्वप्नमपश्यत् / कतमद् द्वात्रिंशदाकारम्? तद्यथा - तमसाकुलं च स्वभवनमपश्यत् / रजसाकुलं चाकीर्णशर्करकठल्यं च स्वभवनमपश्यत् / भीतत्रस्तोद्विग्नं दिशो दश प्रपलायमानं चात्मानमपश्यत् / विभ्रष्टमकुटमपविद्धकुण्डलं चात्मानमपश्यत् / शुष्कोष्ठगलतालुकं चात्मानमपश्यत् / संतप्तहृदयं चात्मानमपश्यत् / शीर्णपत्रपुष्पफलानि चोद्यानान्यपश्यत् / अपगतजलाः परिशुष्काश्च पुष्करिणीरपश्यत् / हंसक्रोञ्चमयूरकलविङ्ककुणालजीवंजीवकादींश्च पक्षिगणात्र्छीर्णपक्षानपश्यत् / भेरीशङ्खमृदङ्गपटहतुणववीणावल्लकीताडसम्पादींश्च वाद्यभाण्डांश्छिन्नविछिन्नान् भूमौ निपतितानपश्यत् / प्रियजनपरिवाराश्च मारमुत्सृज्य दीनमुखा एकान्ते गत्वा प्रध्यायन्तमपश्यत् / अग्रमहिषीं च मारिणीं शयनभ्रष्टां धरण्यामुभाभ्यां पाणिभ्यां शीर्षमभिपीडयन्तीमपश्यत् / ये च ते मारपुत्रा वीर्यवत्तमाश्च बलवत्तमाश्च तेजवत्तमाश्च प्रज्ञावत्तमाश्च तं बोधिसत्त्वं बोधिमण्डवराग्रगतं नमस्यन्त एवमपश्यत् / आत्मनीयाश्च दुहित्रीर्हा तात हा तातेति क्रन्दन्त्यो ऽपश्यत् / मलिनचैलगात्रं चात्मानमपश्यत् / अवकीर्णपांशुशिरस्कं च पाण्डुदुर्वर्णमोजोपहृतं चात्मानमपश्यत् / हर्म्यकूटागारगवाक्षतोरणांश्च रजसावकीर्णान् पततो ऽपश्यत् / ये चास्य ते सेनापतयो यक्षराक्षसकुम्भाण्डगन्धर्वाधिपतयः, तान् सर्वान् हस्ताञ्शिरसि कृत्वा रोदन्तः क्रन्दन्तः पलायमानांश्चापश्यत् /

ये च ते कामावचरेषु देवेषु देवाधिपतयः, तद्यथा - धृतराष्ट्रविरूढकविरूपाक्षवैश्रवणशक्रसुयामसंतुषितसुनिर्मितवशवर्तिप्रभृतयः, तान् सर्वाञ्शुश्रुषमाणान् मारः पापीयान् सबोधिसत्त्वाभिमुखानपश्यत् / रणमध्ये चास्यासिर्विकोशो न भवति स्म / विक्रोशन्तमशिवं चात्मानमपश्यत् / स्वेन च परिवारेणात्मानं परित्यक्तमपश्यत् / मङ्गलपूर्णकुम्भांश्च पतितान् द्वारे ऽपश्यत् / नारदं च ब्राह्मणममङ्गल्यशब्दं श्रावयन्तमपश्यत् / आनन्दितं च दौवारिकमनानन्दशब्दं श्रावयन्तमपश्यत् / तमसाकुलं च गगनतलमपश्यत् / कामभवननिवासिनीं च श्रियं रुदन्तीमपश्यत् / स्वमैश्वर्यं चानैश्वर्यमपश्यत् / स्वपक्षं चापक्षमपश्यत् / मणिमुक्ताजालानि च तूष्णीभूतानि छिन्नभिन्नपतितान्यपश्यत् / सर्वं च मारभवनं प्रचलितमपश्यत् / वृक्षाञ्छिद्यमानान्निर्यूहांश्च पततो ऽद्राक्षीत् / सर्वं च मारसेनाव्यूहमभिमुखं पात्यमानमपश्यत् //

इति हि भिक्षव एवं द्वात्रिंशदाकारं मारः पापीयान् स्वप्नमपश्यत् / स प्रतिबुद्धः सन् भीतस्त्रस्तः संविग्नः सर्वमन्तर्जनं संनिपात्य सबलपार्षद्यसेनापतिदौवारिकसंनिपतितांश्च तान् विदित्वा आभिर्गाथाभिरध्यभाषत् -

दृष्ट्वान तां स सुपिनां नमुची दुखार्तो आमन्त्रयाति सुत ये ऽपि च पारिषद्या / सेनापतिं नमुचि सिंहहनुश्च नाम्ना सर्वेष तेष परिपृच्छति कृष्णबन्धुः // lal_21.5 //

गाथाभि गीतरचितो ऽद्य श्रुतो ऽन्तरीक्षाच्छाक्येषु जातु वरलक्षणचित्रिताङ्गः / षड्वर्ष दुष्करव्रतानि चरित्व घोरा बोधिद्रुमं ह्युपगतः प्रकुरुष्व यत्नम् // lal_21.6 //

सो चेद्विबुद्ध स्वयमेव हि बोधिसत्त्वो बहुसत्त्वकोटिनयुतानि विबोधयेत / शून्यं करिष्यति स मे भवनं ह्यशेषं यद लप्स्यते ह्यमृतु स्पर्शनशीतिभावम् // lal_21.7 //

हन्त व्रजाम सहिता महता बलेन घातेम तं श्रमणु एकु द्रुमेन्द्रमूले / उद्योजयध्व चतुरङ्गिणि शीघ्र सेनां यदि इच्छथा मम प्रियं म चिरं करोथ // lal_21.8 //

प्रत्येकबुद्धभि च अर्हभिः पूर्ण लोको निर्वायमाणु न बलं मम दुर्बलं स्यात् / सो भूयु एकु जिनु भेष्यति धर्मराजो गणनातिवृत्तु जिनवंशु न जातु छिद्येत् // lal_21.9 //

अथ खलु भिक्षवः सार्थवाहो नाम मारपुत्रः, स मारं पापीयांसं गाथाभिरध्यभाषत् -

किं तात् भिन्नवदनो ऽसि विवर्णवक्त्रो हृदयं समुत्प्लवति वेधति ते ऽङ्गमङ्गम् / किं ते श्रुतं अथव दृष्टु भणाहि शीघ्रं ज्ञास्याम तत्त्वतु विचिन्त्य तथा प्रयोगम् // lal_21.10 //

निर्माणु मारु अवची शृणु मह्य वत्स पापं मि दृष्टु सुपिनं परमं सुघोरम् / भाषेय सर्वमिह पर्षदि अद्य शेषं संमूर्छिता क्षितितले प्रपतेयु यूयम् // lal_21.11 //

सार्थवाह आह -

रणकालि प्राप्ति यदि नाम जयो न दोषः तत्रैव यस्तु निहतो भवते स दोषः / स्वप्नान्तरे तु यदि ईदृश ते निमित्ता श्रेयो उपेक्ष म रणे परिभावु गच्छेत् // lal_21.12 //

मारो ऽब्रवीत् -

व्यवसायबुद्धि पुरुषस्य रणे प्रसिद्धि अवलम्ब्य धैर्य सुकृतं यदि नो जयं स्यात् / का तस्य शक्ति मम दृष्टि सपारिषद्यं नोत्थातु मह्य चरणे शिरसा प्रपत्तुम् // lal_21.13 //

सार्थवाह आह -

विस्तीर्णमस्ति हि बलं च सुदुर्बलं च अस्त्येक शूरु बलवांश्च रणंजहश्च / खद्योतकैर्यदि भवेत्त्रिसहस्र पूर्णा एको रविर्ग्रसति निष्प्रभतां करोति // lal_21.14 //

अपि च /

यस्य मानश्च मोहश्च मीमांसा च न विद्यते / विलोम यदि विद्वांसो नासौ शक्यश्चिकित्सितुम् // lal_21.15 //

इति हि भिक्षवो मारः पापीयान् सार्थवाहस्य वचनमकृत्वा महतीं चतुरङ्गिनीं सेनामुद्योजयति स्म महाबलरणशौण्डां भीषणां रोमहर्षणीमदृष्टाश्रुतपूर्वां देवमनुष्यैर्बहुविधमुखविकारकोटिनयुतशतसहस्रविकारप्रकारां भुजगशतसहस्रकरचरणकुटिलपरिवेष्टितशरीरां असिधनुशरशक्तितोमरकुठारपट्टिसभुशुण्डिमुसलदण्डपाशगदाचक्रवज्रकणयधरां वरवर्मकवचवर्मितशरीरां विपरीतशिरःकरचरणनयनां ज्वलितशिरोनयनवदनां दुःसंस्थितोदरपाणिपादमुग्रतेजोवदनां परमविकृतवदनदर्शनां विकरालविकृतदंष्ट्रां घनबहुविपुलप्रलम्बजिह्वां सुण्डिककिलिञ्जसदृशजिह्वां ज्वलनसदृशकृष्णसर्पविषपूर्णरक्तनेत्राम् / केचिद्धि तत्राशीविषान् वमन्ति स्म / केचित्करतलैराशीविषान् परिगृह्य भक्षयन्ति स्म / गरुडा इव सागरादभ्युत्क्षिप्य केचिन्नरमांसरुधिरकरचरणशिरोयकृदन्त्रपुरीषादींश्च भक्षयन्ति स्म / केचिज्ज्वलितपिङ्गलकृष्णनीलरक्तकद्रुकरालविचित्ररूपाः / केचिद्विकृतकूपप्रज्वलितोत्पाटितविकृतकटाक्षाः / केचित्परिवृत्तज्वलितविकृतनयनाः /(वैद्य 222) केचिज्ज्वलितान् पर्वतान् परिगृह्य सलीलमपरेषु पर्वतेषु अभिरूढा आगच्छन्ति स्म / केचित्समूलान् वृक्षानुत्पाट्य बोधिसत्त्वाभिमुखा अभिधावन्ति स्म / केचिदजकणशूर्पकर्णहस्तिकर्णलम्बकर्णवराहकर्णाः / केचिद् वृककर्णाः / केचिद्दकोदरिणो दुर्बलकाया अस्थिकङ्कालसंघाटमभिनिर्माय भग्ननासाः कुम्भोदराः करोटपादा उच्छुष्कत्वग्मांसरुधिराः छिन्नकर्णनासाकरचरणनयनोत्तमाङ्गाः / केचिद्रुधिरपिपासया शिरांसि परस्परं निकृन्तन्ति स्म /

केचिद्ध्रिन्नविकृतभैरवरूक्षस्वराः फुत्फुत्कारपिचुत्कारफुलुफुलुप्रक्ष्वेडितानि कुर्वन्ति स्म / केचिदाहुः - आहरत हरताभिहनत हनत बन्धत गृह्णत छिन्दत भिन्दत मथयतोत्क्षिपत नाशयतेमं श्रमणं गौतमं सार्धं द्रमेणेति ब्रुवन्ति स्म / केचिद्भेरुण्डकशृगालसूकरगर्दभगोहस्त्यश्वोष्ट्रखरमहिषशशचमरखड्गशरभनानाप्रतिभ - यरौद्रविकृतवक्त्राः / केचित्सिंहव्याघ्रऋक्षवराहवानरद्वीपिबिडालछागलोरभ्रसर्पनकुलमत्स्यमकरशिशुमारकूर्मकाक - गृघ्रोलूकगरुडादिसदृशात्मभावाः / केचिद्विरूपरूपाः / केचिदेकशीर्षा द्विशीर्षा यावच्छतसहस्रशीर्षाः / केचिदशीर्षाः / केचिदेकभुजा यावच्छतसहस्रभुजाः / केचिदभुजाः / केचिदेकपादकाः / केचिद्यावच्छतसहस्रपादाः / केचिदपादकाः / केचित्कर्णमुखनासिकाक्षिनाभिस्रोतोभिराशीविषान्निश्चारयन्ति स्म / केचिदसिधनुशरशक्तिपट्टिशपरशुचक्रतोमरकणयवज्रभुशुण्डिभिन्दिपालादीनि नानाप्रहरणानि भ्रामयन्तो नृत्यन्तो बोधिसत्त्वं संतर्जयन्ति स्म / केचिन्नराङ्गुलीश्छित्वा मालागुणान् कृत्वा धारयन्ति स्म / केचिच्छिरोभिरस्थिकरकाञ्छीर्षकटाहकांश्च मालागुणमिव कृत्वा धारयन्ति स्म / केचिदाशिविषपरिवेष्टितशरीराः / केचिच्छीर्षकटाहकान् परिगृह्य हस्त्यश्वोष्ट्रगोगर्दभमहिषारूढाः / केचिदधःशिरस ऊर्ध्वपादाः / केचित्सूचीरोमाणः /

केचिद्गोगर्दभवराहनकुलछागलोरभ्रबिडालकपिवृकशृगालरोमाणः आशीविषान् वमन्तो ऽयोगुडानि निर्गरन्तो धूमकेतूनुत्सृजन्तो ज्वलितताम्रलोहवर्षं प्रवर्षन्तो विद्युद्वर्षान् क्षिपन्तो वज्राशनिं प्रमुञ्चन्तस्तप्तामयोवालिकां प्रवर्षन्तः कालमेघान् संजनयन्तो वातवृष्टिमुत्पादयन्तः शरमेघवर्षानुत्सृजन्तः कालरात्रिं दर्शयन्तो रावं संजनयन्तो बोधिसत्त्वमभिधावन्ति स्म / केचित्पाशान् भ्रामयन्तो महापर्वतान् प्रपातयन्तो महासागरान् क्षोभयन्तो लङ्घयन्तो महापर्वतांश्चालयन्तो मेरुं पर्वतराजं विधावन्तः पलायमाना विक्षिपन्तो ऽङ्गप्रत्यङ्गानि भ्रामयन्तः शरीराणि हसन्तो महाहास्यानि उरांसि प्रस्फोटयन्तः उरांसि ताडयन्तः केशांसि धुन्वन्तः पीतमुखानि च नीलशरीरा ज्वलितशिरस ऊर्ध्वकेशा इतस्ततो वेगेन परिधावन्तो भेरूण्डाक्षाश्च बोधिसत्त्वं विभीषयन्ति स्म / जीर्णाः स्त्रियश्च रुदन्त्यो बोधिसत्त्वमुपसंक्रम्यैवं वदन्ति स्म - अहो पुत्र, हा मम पुत्र, उत्तिष्ठोत्तिष्ठ, शीघ्रं प्रपलायस्व / राक्षसरूपाः पिशाचरूपाः काणखञ्जदुर्बलाश्च प्रेताः क्षुत्क्षामाक्षा उर्ध्वबाहवो विकृतास्याः क्रन्दन्तो भयमुपदर्शयन्तस्त्रासं संजनयन्तो बोधिसत्त्वस्य पुरतो ऽभिधावन्ति स्म / तया चैवरूपया मारसेनया समुदितया समन्तादशीतिर्योजनान्यायामेन विस्तारेण स्फुटमभूत् / यथा चैकस्य मारस्यैवं कोटीशतानां त्रिसाहस्रपर्यापन्नानां माराणां पापीयसां सेनाभिस्तिर्यगूर्ध्वं च परिस्फुटमभूत् //

तत्रेदमुच्यते -

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.