Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/9

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

ललितविस्तर

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अहो बताहं संसारमहाविद्यान्धकारगहनप्रक्षिप्तस्य लोकस्याज्ञानपटलतिमिरावृतनयनस्य प्रज्ञाचक्षुर्विरहितस्याविद्यामोहान्धकारस्य महान्तं धर्मालोकं कुर्याम् / ज्ञानप्रदीपं चोपसंहरेयम् / त्रिविमोक्षसुखज्ञानवतौषधिसंप्रयोगेण चोपायप्रज्ञाज्ञानसंप्रयुक्तेन सर्वाविद्यान्धकारतमोहतं महत्तिमिरपटलकालुष्यमपनीय प्रज्ञाचक्षुर्विशोधयेयम् / इदं द्वितीयं पूर्वप्रणिधानपदमामुखीभवति स्म //

अहो बताहं मानध्वजोच्छ्रितस्य लोकस्याहंकारममकाराभिनिविष्टस्यात्मनीयग्राहानुगमानसस्य संज्ञाचित्तदृष्टिविपर्यासविपर्यस्तस्यासंग्रहगृहीतस्यार्यमार्गोपदेशेनास्मिमानध्वजप्रपातनं कुर्याम् / इतीदं तृतीयं पूर्वप्रणिधानपदमामुखीभवति स्म /

अहो बताहं व्युपशान्तस्य लोकस्य तन्द्राकुलजातस्य गुणावगुण्ठितभूतस्याजवंजवसमापन्नस्यास्माल्लोकात् परं लोकं परलोकादिमं लोकं संघावतः संसरतः संसारादभिनिवृत्तस्यालातचक्रसमारूढस्योपशमिकं प्रज्ञातृप्तिकरं धर्मं संप्रकाशयेयम् / इतीदं चतुर्थं पूर्वप्रणिधानपदमामुखीभवति स्म / इमानि चत्वारि पूर्वप्रणिधानपदान्यामुखीभवन्ति स्म //

तस्मिंश्च क्षणे धर्मचारिणा देवपुत्रेण शुद्धावासकायिकैश्च देवपुत्रैर्विकृतविगलितमन्तः - पुरमुपदर्शितमभूत् / विसंस्थितं बीभत्सरूपमुपदर्श्य च गगनतलस्थास्ते बोधिसत्त्वं गाथाभिरध्यभाषन्त -

अथाब्रुवन् देवसुता महर्द्धयो विबुद्धपद्मायतलोचनं तम् / कथं तवास्मिन्नुपजायते रतिः श्मशानमध्ये समवस्थितस्य // lal_15.24 //

संचोदितः सो ऽथ सुरेश्वरेभिः निरीक्षते ऽन्तःपुर तं मुहूर्तम् / संप्रेषते पश्यति तां बिभत्सां श्मशानमध्ये वसितो ऽस्मि भूतम् // lal_15.25 //

अद्राक्षीत् खल्वपि बोधिसत्त्वः सर्वावन्तं नारीगणम् / व्यवलोकयन् पश्यति / तत्र काश्चिद्वयपकृष्टवस्त्राः काश्चिद्विधूतकेश्यः काश्चिद्विकीर्णाभरणाः काश्चिद्विभ्रष्टमुकुटाः काश्चिद्विहतैरंसैः काश्चिद्विगोपितगात्र्यः काश्चिद्विसंस्थितमुखाः काश्चिद्विपरिवर्तितनयनाः काश्चित्प्रस्रवन्ती लालाभिः काश्चिच्छ्वसन्त्यः काश्चित्प्रहसन्त्यः काश्चित्काशन्त्यः काश्चित्प्रलपन्त्यः काश्चिद्दन्तान् कटकटायन्त्यः काश्चिद्विवर्णवदनाः काश्चिद्विसंस्थितरूपाः काश्चित्प्रलम्बितबाहवः काश्चिद्विक्षिप्तचरणाः काश्चिदुद्धाटितशीर्षाः काश्चिदवगुण्ठितशीर्षाः काश्चिद्विपरिवर्तितमुखमण्डलाः काश्चित्प्रध्वस्तशरीराः काश्चिद्विभुग्नगात्र्यः काश्चिन्निकुब्जाः खुरखुरायमाणाः काश्चिन्मृदङ्गमुपगुह्य परिवर्तितशीर्षशरीराः काश्चिद्वीणावल्लक्याद्यपरिबद्धपाणयः काश्चिद्वेणुं दन्तैः कटकटायन्त्यः काश्चित्किम्पलनकुलसंपताडापकर्षितवाद्यभाण्डाः काश्चिन्निमेषोन्मेषपरिवृत्तनयनाः काश्चिद्विवृतास्याः / एवं तद्विकृतं धरणीतलगतमन्तःपुरं निरीक्षमाणो बोधिसत्त्वः श्मशानसंज्ञामुत्पादयति स्म //

तत्रेदमुच्यते -

तां दृष्ट्व उद्विग्न स लोकनाथः करुणं विनिश्वस्य इदं जगाद / अहो बता कृच्छ्रगता व्रजेयं कथं रतिं विन्दति राक्षसीगणे // lal_15.26 //

अतिमोहतमावृत दुर्मति कामगुणैर्निगुणैर्गुणसंज्ञिनः / विहग पञ्जरमध्यगता यथा न हि लभन्ति कदाचि विनिःसृतिम् // lal_15.27 //

अथ बोधसत्त्वो ऽनेन पुनरपि धर्मालोकमुखेनान्तःपुरं प्रत्यवेक्षमाणो महाकरुणापरिदेवितेन सत्त्वान् परिदेवते स्म - इह ते बाला हन्यन्ते आघातन इव वध्याः / इह ते बाला रज्यन्ते चित्रघटेष्विवामेध्यपरिपूर्णेष्वविद्वांसः / इह ते बाला मज्जन्ति गजा इव वारिमध्ये / इह ते बाला रुध्यन्ते चौरा इव चारकमध्ये / इह ते बाला अभिरता वराहा इवाशुचिमध्ये / इह ते बाला अध्यवसिताः कुक्कुरा इवास्थिकरङ्कमध्ये / इह ते बालाः प्रपतिता दीपशिखास्विव पतंगाः / इह ते बाला बध्यन्ते कपय इव लेपेन / इह ते बालाः परिदह्यन्ते जालोत्क्षिप्ता इव जलजाः / इह ते बालाः परिक्रूड्यन्ते सूनाकाष्ठेष्विवोरभ्राः / इह ते बाला अवसज्जन्ते किल्बिषकारिण इव शूलाग्रे / इह ते बालाः संसीदन्ति जीर्णगजा इव पङ्के / इह ते बाला विपद्यन्ते भिन्नयानपात्र इव महासमुद्रे / इह ते बालाः प्रपतन्ते महाप्रपात इव जात्यन्धाः / इह ते बालाः पर्यादानं गच्छन्ति पातालसंधिगतमिव वारि / इह ते बाला धूमायन्ते कल्पसंक्षय इव महापृथिवी / आभिर्बाला भ्राम्यन्ते कुम्भकारकचक्रमिवाविद्धम् / इह ते बालाः परिभ्रमन्ति शैलान्तर्गता (वैद्य 150) इव जात्यन्धाः / इह ते बाला विपरिवर्तन्ते कुर्कुरा इव शर्दूलबद्धाः / इह ते बाला म्लायन्ते ग्रीष्मकाल इव तृणवनस्पतयः / इह ते बालाः परिहीयन्ते शशीव कृष्णपक्षे / आभिर्बाला भक्ष्यन्ते गरुडेनेव पन्नगाः / आभिर्बाला ग्रस्यन्ते महामकरेणेव पोतः / आभिर्बाला लुप्यन्ते चोरसंघेनेव सार्थः / आभिर्बाला भिद्यन्ते मारुतेनेव शालाः / आभिर्बाला हन्यन्ते दृष्टीविषैरिव जन्तवः /

आस्वादसंज्ञिनो बालाः क्षण्यन्ते मधुदिग्धाभिरिव क्षुरधाराभिर्बालजातीयाः / आभिर्बाला उह्यन्ते दारुस्कन्धा इव जलौघैः / आभिर्बालाः क्रीडन्ति दारका इव स्वमूत्रपुरीषैः / आभिर्बाला आवर्त्यन्ते ऽङ्कुशेनेव गजाः / आभिर्बाला बध्यन्ते धूर्तकैरिव बालजातीयाः / इह ते बालाः कुशलमूलानि क्षपयन्ति द्यताभिरता इव धनम् / आभिर्बाला भक्ष्यन्ते राक्षसीभिरिव वणिजाः / इत्येभिर्द्वात्रिंशताकारैर्बोधिसत्त्वो ऽन्तःपुरं परितुलयित्वा काये ऽशुभसंज्ञां विचारयन् प्रतिकूलसंज्ञामुपसंहरन् जुगुप्ससंज्ञामुत्पादयन् स्वकायं प्रतिविभावयन् कायस्यादीनवं संपश्यन् कायात्कायाभिनिवेशमुच्चारयन् शुभसंज्ञां विभावयन् अशुभसंज्ञामवक्रामयन् अधः पादतलाभ्यां यावदूर्ध्वं मस्तकपर्यन्तं पश्यति स्म अशुचिसमुत्थितमशुचिसंभवमशुचिस्रवं नित्यम् / तस्यां च वेलायामिमां गाथामभाषत -

कर्मक्षेत्ररुहं तृषासलिलजं सत्कायसंज्ञीकृतं अश्रुस्वेदकफार्द्रमूत्रविकृतं शोणीतबिन्द्वाकुलम् / बस्तीपूयवसासमस्तकरसैः पूर्णं तथा किल्बिषैः नित्यप्रस्रवितं ह्यमेध्य सकलं दुर्गन्ध नानाविधम् // lal_15.28 //

अस्थीदन्तसकेशरोमविकृतं चर्मावृतं लोमशं अन्तःप्लीहयकृद्वपोष्णरसनैरेभिश्चितं दुर्बलैः / मज्जास्नायुनिबद्धयन्त्रसदृशं मांसेन शोभीकृतं नानाव्याधिप्रकीर्णशोककलिलं क्षुत्तर्षसंपीडितम् / जन्तूनां निलयं अनेकसुषिरं मृत्युं जरां चाश्रितं दृष्ट्वा को हि विचक्षणो रिपुनिभं मन्ये शरीरं स्वकम् // lal_15.29 //

एवं च बोधिसत्त्वः काये कायानुगतया स्मृत्या विहरति स्म //

गगनतलगताश्च देवपुत्रा धर्मचारिणं देवपुत्रमेवमाहुः - किमिदं मार्षाः? सिद्धार्थो विलम्बते ऽन्तःपुरं चावलोकयति स्म / तं चोदपर्शयति चित्तं चोद्वेजयति / भूयश्चक्षुर्निवेशयति / अथवा जवजलनिधिगम्भीरो ऽयम्, न शक्यमस्य प्रमाणं ग्रहीतुम् / अथवा असङ्गस्य मा खलु विषये सज्जते मनः / मा खल्वमरैरसंचोदितो विस्मरति पूर्वप्रतिज्ञामिति //

धर्मचार्याह - किमेवं कथयत? ननु यूयमस्य प्रत्यक्षपूवेमव बोधाय चरतस्तथाविधा निःसङ्गताभूत् / नैष्क्रम्यत्यागे च किमङ्ग पुनरेतर्हि चरमभवावस्थितस्य सङ्गो भविष्यति?

अथ खलु भिक्षवो बोधिसत्त्वः कृतनिश्चयः संवेजितमानसो व्यवसितबुद्धिः सलीलमविलम्बितं पर्यङ्कादवतीर्य सङ्गीतिप्रासादे पूर्वाभिमुखः स्थित्वा दक्षिणेन पाणिना रत्नजालिकामवनाम्य प्रासादकोटीगतो दशनखकृतकरपुटो भूत्वा सर्वबुद्धान् समन्वाहृत्य सर्वबुद्धेभ्यश्च नमस्कारं कृत्वा गगनतलमवलोकयति स्म / सो ऽद्राक्षीद् गगनतलगतममराधिपतिं दशशतनयनं देवशतसहस्रपरिवृतं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजपताकावतंसकरत्न - हारदामपरिगृहीतमवनतकायं बोधिसत्त्वं नमस्यमानं स्थितम् / चतुरश्च लोकपालान् यक्षराक्षसगन्धर्वभुजगगणसंपरिवृतान् संनद्धदृढवर्मितकवचितान् असिधनुशरशक्तितोमरत्रिशूलहस्तान् सलीलं मणिमुकुटविलम्बितचूडान् बोधिसत्त्वं नमस्यमानान् स्थितान् पश्यति स्म / चन्द्रसूर्यावति देवपुत्रौ वामदक्षिणयोः पार्श्वयोः स्थितावपश्यत् / पुष्यश्च नक्षत्राधिपतिरुपस्थितो ऽभूत् / अर्धरात्रिं च समयं संप्राप्तम् / दृष्ट्वा च बोधिसत्त्वश्छन्दकमामन्त्रयते स्म -

छन्दका चपलु मा विलम्बहे अश्वराज दद मे अलंकृतम् / सर्वसिद्धि मम एति मङ्गला अर्थसिद्धि ध्रुवमद्य भेष्यते // lal_15.30 //

अथ छन्दक इदं वचनं श्रुत्वा उद्विग्नमना एवमाह -

क्व गमिष्यसे विकसितभ्रू कमलदल शुभलोचन नृपसिंह शरदिन्दुपूर्ण कुमुदशशाङ्कमुदिता // lal_15.31 //

नवनलिनकोमलविबुद्धपद्मवदना हाटकसुधान्तरवितरुणविमलशशितेज / धृतहुतार्चिरग्निमणिविद्युतत्प्रभोज्ज्वलिततेजो / वारणमत्तलीलगजगामि / गोवृषमृगेन्द्रहंसक्रम सुक्रमा सुचरणा // lal_15.32 //

बोधिसत्त्व आह -

छन्दक यस्य अर्थिं मयि पूर्व त्यक्त करचरणनयन / तथ उत्तमाङ्ग तनय भार्य प्रियाश्च राज्यधनकनकवसन / रत्नपूर्ण गज तुरगानिलजववेग विक्रमबलाः // lal_15.34 //

शीलु मि रक्षि क्षान्ति परिभावि वीर्यबलध्यानप्रज्ञानिरतश्चास्मि बहुकल्पकोटिनयुता / किं तु स्पृशित्व बोधिशिवशान्तिम् जरामरणपञ्जरनिरष्टसत्त्वपरिमोचनस्य समयो ऽद्युपस्थितु मम // lal_15.35 //

छन्दक आह - श्रुतं मया आर्यपुत्र यथा त्वं जातमात्र एव नैमित्तिकानां ब्राह्मणानामुपनामितो दर्शनाय / तैश्चासि राज्ञः शुद्धोदनस्याग्रतो व्याकृतः - देव वृद्धिस्ते राजकुलस्य / आह - किमिति? ते आहुः -

अयं कुमारः शतपुण्यलक्षणो जातस्तवा आत्मज पुण्यतेजितः / च चक्रवर्ती चतुद्वीपईश्वरो भविष्यति सप्तधनैरुपेतः // lal_15.36 //

स चेत्पुनर्लोकमवेक्ष्य दुःखितं विजह्यमान्तःपुरि निष्क्रमिष्यति / अवाप्य बोधिं अजरामरं पदं तर्पेष्यते धर्मजलैरिमां प्रजाम् // lal_15.37 //

हन्त आर्यपुत्र अस्ति तावदेव तद्व्याकरणं नेदं नास्ति / किं तु शृणु तावन्ममार्थकामस्य वचनम् / आह - किमिति / अह - देव यस्यार्थे इह केचिदनेकविधानि व्रततपांस्यारभन्ते ऽजिनजटामकुटचीवरवल्कलधरा दीर्घनखकेशस्मश्रु च, अनेकविधानि कायस्यातापनपरितापनानि समुत्सहन्ते / तीव्रं च व्रततपमारभन्ते / किमिति? वयं देवमनुष्यसंपत्तिं प्रतिलभेमहीति / सा च संपत्त्वयार्यपुत्र प्रतिलब्धा / इदं च राज्यमृद्धं च स्फीतं च क्षेमं सुभिक्षं रमणीयमाकीर्णबहुजनमनुष्यम् / इमानि चोद्यानानि वरप्रवराणि नानाविधपुष्पफलमण्डितानि नानाशकुनिगणनिकूजितानि / पुष्करिण्यश्चोत्पलपद्मकुमुदपुण्डरीकोपशोभिता हंसमयूरकोकिलचक्रवाकक्रोञ्चसारसनिकूजिताः पुष्पितसहकाराशोकचम्पककुरबकतिलककेशरादिनानाद्रुमतीरोपरिबद्धा नानारत्नवृक्षवाटिकासमलंकृता अष्टापदविनिबद्धा रत्नवेदिकापरिवृता रत्नजालसंछन्ना यथर्तुकालपरिभोगा ग्रीष्मवर्षाशरद्धेमन्तसुखसंवासाः / इमे च शरदभ्रनिभाः कैलासपर्वतसदृशा महाप्रासादा वैजयन्तसमा धर्मसुधर्मक्षेमसमा शोकविगतप्रभृतयो वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलसमलंकृता रत्नकिङ्किणीजालसमीरिताः / इदं चार्यपुत्र अन्तःपुरं तुणवपणववीणावेणुसंपताडावचराकिम्पलनकुलसुघोषकमृदङ्गपटहनृत्यगीतवादित्रसंगीतिसंप्रयोगसुशिक्षितं हास्यलास्यक्रीडितरमितसुखिलमधुरोपचारम् / त्वं च देव युवा अनभिक्रान्तयौवनो नवो दहरस्तरुणः कोमलशरीरः शिशुः कृष्णकेशः / (वैद्य 153) अविक्रीडितः कामैः / अभिरमस्व तावदमराधिपतिरिव दशशतनयनस्त्रिदशाधिपतिः / ततः पश्चाद् वृद्धीभूता अभिनिष्क्रमिष्यामः / तस्यां च वेलायामिमां गाथामभाषत -

रमतां च रतिविधिज्ञां अमराधिपतिर्यथा त्रिदशलोके / पश्चाद्वृद्धीभूता व्रततपसं आरभिष्यामः // lal_15.39 //

बोधिसत्त्व आह - अलं छन्दक / अनित्याः खल्वेते कामा अध्रुवा अशाश्वता विपरिणामधर्माणः प्रद्रुताश्चपला गिरिनदीवेगतुल्याः / अवश्यायबिन्दुवदचिरस्थायिन उल्लापना रिक्तमुष्टिवदसाराः कदलीस्कन्धवद्दुर्बला आमभाजनवद्भेदनात्मकाः शरदभ्रनिभाः क्षणाद्भूत्वा न भवन्ति / अचिरस्थायिनो विद्युत इव नभसि सविषभोजनमिव परिणामदुःखा मालुतालतेवासुखदा अभिलिखिता बालबुद्धिभिरुदकबुद्बुदोपमाः क्षिप्रं विपरिणामधर्माणः / मायामरीचिसदृशाः संज्ञाविपर्याससमुत्थिताः / मायासदृशाश्चित्तविपर्यासविधापिताः / स्वप्नसदृशा दृष्टिविपर्यासपरिग्रहयोगेनातृप्तिकराः / सागर इव दुष्पूरा लवणोदक इव तृषाकराः / सर्पशिरोवद्दुःस्पर्शनीया महाप्रपातवत्परिवर्जिताः पण्डितैः / सभयाः सरणाः सादीनवः सदोषाः इति ज्ञात्वा विवर्जिताः प्राज्ञैर्विगर्हिता विद्वद्भिर्जुगुप्सिता आर्यैर्विवर्जिताः बुधैः परिगृहीता अबुधैर्निषेविता बालैः / तस्यां च वेलायामिमां गाथामभाषत -

विवर्जिता सर्पशिरो यथा बुधैः विगर्हिता मीढघटो यथाशुचिः / विनाशका सर्वशुभस्य छन्दका ज्ञात्वा हि कामान्न मि जायते रति // lal_15.40 //

तदा छन्दकः शल्यविद्धो यथा क्रन्दमानस्ततो ऽश्रुनेत्रो दुःखी एवं वाक्यमव्रवीत् -

देवा यस्यार्थि केचिदिहा तीव्र नेकविधा आरभन्ते व्रतान् अजिनजटाधर सुदीर्घकेशानखा श्मश्रुचीरास्तथा / वल्कलाधार शुष्काङ्ग नेके व्रतानाश्रिता शाकस्यामाकगर्दूलभक्षाश्च ओमूर्धकाश्चापरे गोव्रतां संश्रिताः // lal_15.41 //

किं तु वय भवेम श्रेष्ठा विशिष्टा जगे चक्रवर्तिवरा लोकपालास्तथा / शक्र वज्रंधरा याम देवाधिपा निर्मिता / ब्रह्मलोके च ध्यानासुखाकाङ्क्षिणः // lal_15.42 //

तदिद नरवरिष्ठ राज्यं तव स्फीतमृद्धं सुभिक्षं तथा आरामोद्यानप्रासादौच्छ्रेपितं वैजयन्तासमम् / इस्त्रिगारस्वयं वेणुवीणारवै गीतवाद्यै रती नृत्यसंगीति संयोगि संशिक्षितं भुञ्ज कामानिमान् मा व्रजा सूरता // lal_15.43 //

बोधिसत्त्व आह -

छन्दक शृणु यानि दुःखाशतामर्पिता पूर्वि जन्मान्तरे बन्धना रुन्धना ताडना तर्जना कामहेतोर्मया / नो च निर्विण्णभूत् संस्कृते मानसम् // lal_15.44 //

प्रमदवशगतं च मोहाकुलं दृष्टिजालावृतं अन्धभूतं पुरा / आत्मसंज्ञाग्रहाकारका वेदनावीतिवृत्ता इमे धर्म अज्ञानतः // lal_15.45 //

संभूता चपलचल ऽनित्य मेघैः समा विद्युभिः सदृशाः / ओसबिन्दूपमा रिक्ततुच्छा असारा अनात्मा च शून्यस्वभावा इमे सर्वशः // lal_15.46 //

न च मम विषयेषु संरज्यते मानसं देहि मे छन्दका कण्ठकालंकृतं अश्वराजोत्तमम् / पूर्ण मे मङ्गला ये पुरा चिन्तिता भेष्यि सर्वाभिभू सर्वधर्मेश्वरो धर्मराजो मुनिः // lal_15.46 //

छन्दक आह -

इमां विबुद्धाम्बुजपत्रलोचनां विचित्रहारां मणिरत्नभूषिताम् / घनप्रमुक्तामिव विद्युतां नभे नोपेक्षसे शयनगतां विरोचतीम् // lal_15.48 //

इमांश्च वेणून् पणवां सुघोषकां मृदङ्गवंशांश्च संगीतवादिताम् / चकोरसोरां कलविङ्कनादितां यथालयं किन्नरिणां विहास्यसे // lal_15.49 //

सुमनोत्पलां वार्षिकचम्पकांस्तथा सुगन्धमालां गुणपुष्पसंचयाम् / कालागुरूनुत्तमगन्धधूपनां नोपेक्षसे ताननुलेपनान् वरान् // lal_15.50 //

सुगन्धगन्धांश्च रसां प्रणीतां सुसाधितां व्यञ्जनभोजनांस्तथा / सशर्करां पानरसां सुसंस्कृतां नोपेक्षसे देव कहिं गमिष्यसि // lal_15.51 //

शीते च उष्णाननुलेपनाम्बरां उष्णे च तानुरगसारचन्दनां / तां काशिकावस्त्रवराम्बरां शुभां नोपेक्षसे देव कहिं गमिष्यसि // lal_15.52 //

इमे च ते (देव) कामगुणा हि पञ्च समृद्ध देवेष्विव देवतानाम् / रमस्व तावद्रतिसौख्यअन्वितः ततो वनं यास्यति शाक्यपुङ्गवः // lal_15.53 //

बोधिसत्त्व आह -

अपरिमितानन्त कल्पा मया छन्दका भुक्त कामानि रूपाश्च शब्दाश्च गन्धा रसा स्पर्श नानाविधा /

दिव्य ये मानुषा नो च तृप्तीरभूत् /

नृपतिवरसुतेन ऐश्वर्य कारापितं चातुद्वीपे यदा राज भूच्चक्रवर्ती समन्वागतः सप्तभी रत्नभिः इस्त्रिगारस्य मध्ये गतः / त्रिदशपतिसुयामदेवाधिपत्यं च कारापितं येभ्यश्चाहं च्यवित्वा इहाभ्यागतो निर्मितो निर्मितेषु मानो आत्मिका च श्रिया उत्तमा / भुक्त पूर्वे मया / सुरपुरि वशवर्ति मारेश्वत्वं च कारापितं भुक्त कामाः समृद्धा वरा नो च तृप्तीभूत् / किं पुनो अद्य मां हीनसंसेवतस्तृप्ति गच्छेदहं स्थानमेतन्न संविद्यते // lal_15.54 //

अपि च -

इमु जंग अपेक्षाम्यहं छन्दका दुःखितं शोककान्तारसंसारमध्ये स्थितम् / क्लेशव्यालाकुले उह्यमानं सदा / अशरणमपरायणं मोहविद्यान्धकारे जराव्याधिमृत्यूभयैः पीडितम् / जन्मदुःखैः समभ्याहतं व्याहतं शत्रुभिः / अहमिह समुदानिया धर्मनावं महात्यागशीलव्रतक्षान्तिवीर्याबलां दारुसंभारसंघातितां सारमध्याशयैर्वज्रकैः संगृहीतां दृढाम् / स्वयमहमभिरुह्य नावामिमात्मानो ऽवतीर्य संसारओघे अहं तारयिष्ये अनन्तं जगत् / शोकसंसारकान्ताररोषोर्मिरागग्रहावर्तवैराकुले दुस्तरे / एव चित्तं मम // lal_15.55 //

तदात्मनोत्तीर्य इदं भवार्णवं सवैरदृष्टिग्रहक्लेशराक्षसम् / स्वयं तरित्वा च अनन्तकं जगत् स्थले स्थपेष्ये अजरामरे शिवे // lal_15.56 //

तदा छन्दको भूयस्या मात्रया प्ररुदन्नेवमाह - देव एष व्यवसायस्य निश्चयः?

बोधिसत्त्व आह -

शृणु छन्दक मह्य निश्चयं मोक्षसत्त्वार्थ हितार्थमुद्यतम् / अचलाचलमव्ययं दृढं मेरुराजेव यथा सुदुश्चलम् // lal_15.57 //

छन्दक आह - कीदृश आर्यपुत्रस्य निश्चयः?

बोधिसत्त्व आह -

वज्राशनिः परशुशक्तिशराश्च वर्षे विद्युत्प्रतानज्वलितः क्वथितं च लोहम् / आदीप्तशैलशिखरा प्रपतेयु मूर्ध्नि नैवा अहं पुन जनेय गृहाभिलाषम् // lal_15.58 //

तदा अमर नभगताः किलकिला मुञ्चिषु कुसुमवृष्टिः / जय हे परममतिधरा जगति अभयदायका नाथ // lal_15.59 //

न रज्यते पुरुषवरस्य मानसं नभो यथा तमरजधूमकेतुभिः / न लिप्यते विषयसुखेषु निर्मलो जले यथा नवनलिनं समुद्भवम् // lal_15.59 //

अथ खलु भिक्षवो बोधिसत्त्वस्य निश्चयं विदित्वा शान्तमतिश्च देवपुत्रो ललितव्यूहश्च देवपुत्रः कपिलवस्तुनि महानगरे सर्वस्त्रीपुरुषदारकदारिकानामपस्वापनमकुरुताम्, सर्वशब्दांश्चान्तर्धापयामासतुः //

अथ खलु भिक्षवो बोधिसत्त्वः सर्वं नगरजनं प्रसुप्तं विदित्वा अर्धरात्रिसमयं चोपस्थितं ज्ञात्वा पुष्यं च नक्षत्राधिपतिं युक्तं ज्ञात्वा सांप्रतं निष्क्रमणकाल इति ज्ञात्वा छन्दकमामन्त्रयते स्म - छन्दक मां मेदानीं खेदय / प्रयच्छ मे कण्ठकं समलंकृत्य, मा च विलम्बिष्ठाः //

समनन्तरोदाहृता च बोधिसत्त्वेनेयं वाक् / अथ तत्क्षणमेव चत्वारो लोकपाला बोधिसत्त्वस्य वचनमुपश्रुत्य स्वकस्वकानि च भवनानि गत्वा बोधिसत्त्वस्य पूजाकर्मणे स्वैः स्वैर्व्यूहैस्त्वरितं त्वरितं पुनरपि कपिलवस्तुमहानगरमागच्छन्ति स्म //

तत्र धृतराष्ट्रो महाराजो गन्धर्वाधिपतिः पूर्वस्या दिश आगतो ऽभूत् सार्धमनेकैर्गन्धर्वकोटिनियुतशतसहस्रैर्नानातूर्यसंगीतिसंप्रवादितेन / आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागतः पूर्वां दिशमुपनिश्रित्यास्थात् बोधिसत्त्वं नमस्यमानः //

दक्षिणस्या दिशो विरूढको महाराजो ऽभ्यागतो ऽभूत् सार्धमनेकैः कुम्भाण्डकोटिनियुतशतसहस्रैर्नानामुक्ताहारपाणिप्रलम्बितैर्नानामणिरत्नपरिगृहीतैर्विविध - गन्धोदकपूर्णघटपरिगृहीतैः / आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एव दक्षिणां दिशमुपनिश्रित्यास्थात् बोधिसत्त्वं नमस्यमानः //

पश्चिमाया दिशो विरूपाक्षो महाराज आगतो ऽभूत् सार्धमनेकैर्नागकोटिनियुतशतसहस्रैर्नानामुक्ताहारपाणिप्रलम्बितैर्नानामणिरत्नपरिगृहीतैर्गन्ध - चूर्णपुष्पवर्षमेघसमुत्थितैश्च मृदुभिः सुगन्धिभिर्नानावातैः प्रवायद्भिः / आगत्य च कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एव पश्चिमां दिशमुपनिश्रित्यास्थात् बोधिसत्त्वं नमस्यमानः //

उत्तरस्या दिशः कुबेरो महाराज आगतो ऽभूत् सार्धमनेकैर्यक्षकोटिनियुतशतसहस्रैर्ज्योतीरसमणिरत्नपरिगृहीतैर्दीपिकापाणिपरिगृहीतैश्च ज्वलितोल्कापाणिपरिगृहीतैर्धनुरसिशरशक्तितोमरत्रिशूलचक्रकणयभिन्दिपालादिनानाप्रहरणपरिगृहीतैर्दृढ - संनद्धवर्भितकवचितैः / आगत्य कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एवोत्तरां दिशमुपनिश्रित्यास्थात् बोधिसत्त्वं नमस्यमानः //

शक्रश्च देवानामिन्द्रः सार्धं त्रायत्रिंशदेवैरागतो ऽभूत् दिव्यपुष्पगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजपताकावतंसकाभरणपरिगृहीतैः / आगत्य कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य यथागत एव सपरिवार उपर्यन्तरिक्षे ऽस्थात् बोधिसत्त्वं नमस्कुर्वन् //

इति हि भिक्षवश्छन्दको बोधिसत्त्वस्य वचनमुपश्रुत्याश्रुपूर्णनयनो बोधिसत्त्वमेवमाह - आर्यपुत्र त्वं च कालज्ञो वेलज्ञश्च समयज्ञः / अयं च अकालो ऽसमयो गन्तुम् / तत्किमाज्ञापयसि इति //

बोधिसत्त्व आह - छन्दक, अयं स कालः /

छन्दक आह - कस्यार्यपुत्र कालः?

बोधिसत्त्व आह -

यत्तन्मया प्रार्थितु दीर्घरात्रं सत्त्वानमर्थं परिमार्गता हि / अवाप्य बोधिं अजरामरं पदं मोचे जगत्तस्य क्षणो उपस्थितः // lal_15.60 //

इयमत्र धर्मता //

तत्रेदमुच्यते -

भौमान्तरीक्षाश्च तथैव पालाः शक्रश्च देवाधिपतिः सयक्षः / यामाश्च देवास्तुषिताश्च निर्मिताः परनिर्मितोद्युक्त तथैव देवाः // lal_15.61 //

वरुणो मनस्वी अपि नागराजा अनावतप्तश्च तथैव मागरः अभियुक्त ते चाप्यभिपूजनार्थं नैष्क्रम्यकाले नरपुंगवस्य // lal_15.62 //

ये चापि रूपावचरेषु देवाः प्रशान्तचारी सह ध्यानगोचराः / अभियुक्त ते चाप्यभिपूजनार्थं त्रैलोक्यपूज्यस्य नरोत्तमस्य // lal_15.63 //

दशादिशो ऽभ्यागत शुद्धसत्त्वाः सहायकाः पूर्वचरिं चरन्तः / द्रक्ष्यामहे निष्क्रमणं जिनस्य पूजां करिष्यामि तथानुरूपाम् // lal_15.64 //

स चापि गुह्याधिपतिर्महात्मा प्रदीप्तवज्रो नभसि प्रतिस्थितः / संनद्धगात्रो बलवीर्यविक्रमः करेण गुह्य ज्वलमानु वज्रम् // lal_15.65 //

चन्द्रश्च सूर्यो उभि देवपुत्रौ प्रदक्षिणं वामकु सुप्रतिस्थितौ / दशाङ्गुली अञ्जलिभिर्गृहीत्वा नैष्क्रम्यशब्दो ऽनुविचारयन्ति // lal_15.66 //

पुष्यश्च नक्षत्र सपारिषद्यो औदारिकं निर्मिणि आत्मभावम् / स्थित्वाग्रतस्तस्य नरोत्तमस्य मनोज्ञघोषाभिरुतं प्रमुञ्चत् // lal_15.67 //

सर्वे ऽद्य सिद्धाः शुभ तुभ्य मङ्गलाः पुष्यश्च युक्तः समयश्च गन्तुम् / अहं पि यास्यामि त्वयैव सार्धं / अनुत्तरायो भव रागसूदनः // lal_15.68 //

संचोदकश्चोदयि देवपुत्र उत्तिष्ठ शीघ्रं बलवीर्यौद्गतः / दुःखैर्हतांस्तारय सर्वसत्त्वान् नैष्क्रम्यकालः समुपस्थितस्ते // lal_15.69 //

समागता देवसहस्रकोट्यः प्रवर्षमाणा कुसुमान् मनोज्ञान् / स चापि पर्यङ्कवरे निषण्णो देवैर्वृतो भ्राजति दीप्ततेजः // lal_15.70 //

नगरे इस्त्रिक दारकाश्च पुरुषा याश्चाभवन् दारिकाः सर्वे ते शयिता किलान्तमनसो ईर्यापथेभ्यश्च्युताः / हस्ति अश्वगवाश्च सारिकशुकाः क्रोञ्चा मयूरास्तथा सर्वे ते शयिता किलान्तमनसः पश्यन्ति रूपं न ते // lal_15.71 //

ये चा ते दृढवज्रतोमरधरा शाक्यैः सुताः स्थापिताः हस्तिअश्वरथेषु तोरणवरे ते चाप्यवस्वापिताः / राजा राजकुमार पार्थिवजनः सर्वे प्रसुप्ता भवन् अपि चा नारिगणा विनग्नवसना सुप्ता न ते बुद्धिषू // lal_15.72 //

सो च ब्रह्मरुतो मनोज्ञवसनः कलविङ्कघोषस्वरो रात्रौ निर्गत अर्धरात्रसमये तं छन्दकं अब्रवीत् / साधू छन्दक देहि कण्ठकु मम स्वालंकृतं शोभनं मा विघ्नं कुरु मे ददाहि चपलं यदि मे प्रियं मन्यसे // lal_15.73 //

क्व त्वं यास्यसि सत्त्वसारथिवरा किं अश्वकार्यं च ते कालज्ञः समयज्ञ धर्मचरणो कालो न गन्तु क्वचित् / द्वारास्ते पिथिता दृढार्गलकृता को दास्यते तां तव / शक्रेणा मनसाथ चेतनवशात्ते द्वार मुक्ता कृताः दृष्ट्वा छन्दक हर्षितो पुन दुखी अश्रूणि सो ऽवर्तयी / हा धिक्को मि सहायु किं तु कुरुमी धावामि कां वा दिशं उग्रंतेजधरेण वाक्यु भणितं शक्यं न संधारितुम् // lal_15.74 //

सा सेना चतुरङ्गिनी बलवती किं भू करोतीह हा राजा राजकुमार पार्थिव जनो नेमं हि बुध्यन्ति ते / स्त्रीसंघः शयितस्तथा यशवती ओस्वापिता देवतैः हा धिग्गच्छति सिध्यते ऽस्य प्रणिधिर्यश्चिन्तितः पूर्वशः // lal_15.75 //

देवाः कोटिसहस्र हृष्टमनसस्तं छन्दकं अब्रुवन् साधु छन्दक देहि कण्ठकवरं मा खेदयी नायकम् / भेरीशङ्खमृदङ्गतूर्यनयुता देवासुरैर्वादिता नैवेदं प्रतिबुध्यते पुरवरं ओस्वापितं देवतैः // lal_15.76 //

पश्य छन्दक अन्तरीक्ष विमलं दिव्या प्रभा शोभते पश्य त्वं बहुबोधिसत्त्वनयुतां ये पूजनायागताः / शक्रं पश्य शचीपतिं बलवृतं द्वारस्थितं भ्राजते देवांश्चाप्यसुरांश्च किन्नरगणां ये पूजनार्थागताः // lal_15.77 //

श्रुत्वा छन्दक देवतान वचनं तं कण्ठकं आलपी एष्वागच्छति सत्त्वसारथिवरः त्वं ताव हेषिष्यसे / सो तं वर्षिकुवर्ण काञ्चनखुरं स्वालंकृतं कृत्वना उपनेती गुणसागरस्य वहनं रोदन्तको दुर्मना // lal_15.78 //

एषा ते वरलक्षणा हितकरा अश्वः सुजातः शुभो गच्छ सिध्यतु तुभ्य एव प्रणिधिर्यश्चिन्तितः पूर्वशः / ये ते विघ्नकरा व्रजन्तु प्रशमं आसां व्रतं सिध्यतां भवही सर्वजगस्य सौख्यददनः स्वर्गस्य शान्त्यास्तथा // lal_15.79 //

सर्वा कम्पित षड्विकार धरणी शयनाद्यदा सोत्थितः आरूढः शशिपूर्णमण्डलनिभं तं अश्वराजोत्तमम् / पाला पाणिविशुद्धपद्मविमला न्यसयिंसु अश्वोत्तमे शक्रो ब्रह्म उभौ च तस्य पुरतो दर्श्यन्ति मार्गो ह्ययम् // lal_15.80 //

आभा तेन प्रमुक्त अच्छविमला ओभासिता मेदिनी सर्वे शान्त अपाय सत्त्व सुखिता क्लेशैर्न बाध्यी तदा / पुष्पा वर्षिषु तूर्यकोटि रणिषू देवासुरास्तुष्टुवुः सर्वे कृत्व प्रदक्षिणं पुरवरं गच्छन्ति हर्षान्विताः // lal_15.81 //

पुरवरोत्तमि देवत दीनमना उपगम्य गच्छति महापुरुषे / पुरतः स्थिता करुणदीनमना गिरया समालपति पद्ममुखम् // lal_15.82 //

तमसाकुलं भुविमु सर्वपुरं नगरं न शोभति त्वय रहितम् / न ममात्र काचि रति प्रीतिकरी त्यक्तं त्वया च यदिदं भवनम् // lal_15.83 //

न पुनः श्रुणिष्यि रुतु पक्षिगणे अन्तःपुरे मधुरवेणुरवम् / मङ्गल्यशब्द तथ गीतरवं प्रतिबोधनं तव अनन्तयशः // lal_15.84 //

दर्शे न भूयु सुरसिद्धगणां कुर्वन्तु पूज तव रात्रिदिवम् / घ्रायिष्यि गन्ध न च दिव्य पुनः त्वयि निर्गते निहतक्लेशगणे // lal_15.85 //

निर्भुक्तमाल्यमिव पर्युषितं त्यक्तं त्वयाद्य भवनं हि तथा / नटरङ्गकल्प प्रतिभायति मे त्वयि निर्गते न भुयु तेजशिरि // lal_15.86 //

ओजो बलं हरसि सर्वपुरे न च शोभते अटवितुल्यमिदम् / वितथं ऋषीण वचनाद्य भुतं येही वियाकृतु भुवि चक्रबलो // lal_15.87 //

अबलं बलं भुविमु शाक्यबलं उच्छिन्न वंश इह राजकुले / आशा प्रनष्ट इह शाक्यगणे त्वयि निर्गते महति पुण्यद्रुमे // lal_15.88 //

अहमेव तुभ्य गति गच्छयमी यथ त्वं प्रयासि अमला विमला / अपि चा कृपा करुण संजनिय व्यवलोकयस्व भवनं त्वमिदम् // lal_15.89 //

व्यवलोक्य चैव भवनं मतिमान् मधुरस्वरो गिरमुदीरितवान् / नाहं प्रवेक्षि कपिलस्य पुरं अप्राप्य जातिमरणान्तकरम् // lal_15.90 //

स्थानासनं शयनचंक्रमणं न करिष्यहं कपिलवस्तुमुखम् / यावन्न लब्ध वरबोधि मया अजरामरं पदवरं ह्यमृतम् // lal_15.91 //

यदसौ जगत्प्रधानो निष्क्रान्तु बोधिसत्त्वो तस्या नभे व्रजन्तो स्तवयिंसु अप्सराणाम् / एष मह दक्षिणीयो एष मह पुण्यक्षेत्रं पुण्यर्थिकान क्षेत्रं अमृताफलस्य दाता // lal_15.92 //

एन बहुकल्पकोटी दानदमसंयमेना समुदानितास्य बोधिः सत्त्वकरुणायमाना / एष परिशुद्धशीलो सुव्रत अखण्डचारी न च काम नैव भोगां प्रार्थेन्तु शीलरक्षी // lal_15.93 //

एष सद क्षान्तिवादी छिद्यन्ति अङ्गमङ्गे न च क्रोधु नैव रोषः सत्त्वपरित्रायणार्थम् / एष सद वीर्यवन्तो अविखिन्न कल्पकोट्यः समुदानितास्य बोधिर्यष्टा च यक्षकोटीः // lal_15.94 //

एष सद ध्यानध्यायी शान्तप्रशान्तचित्तो ध्यायित्व सर्वक्लेशां मोचेष्यि सत्त्वकोटीः / एषो असङ्ग प्राज्ञः कल्पैर्विकल्पमुक्तो कल्पैर्विमुक्तचित्तो जिनु भेष्यते स्वयंभूः // lal_15.95 //

एष सद मैत्रचित्तो करुणाय पारप्राप्तो मुदितो उपेक्षध्यायी ब्राह्मे पथि विधिज्ञः / एषो ऽतिदेवदेवो देवेभि पूजनीयो शुभविमलशुद्धचित्तो गुणनियुतपारप्राप्तः // lal_15.96 //

शरणं भयार्दितानां दीपो अचक्षुषाणां लयनो उपद्रुतानां वैद्यश्चिरातुराणाम् / राजेव धर्मराजो इन्द्रः सहस्रनेत्रो ब्रह्मस्वयंभुभूतः कायप्रशब्धचित्तो // lal_15.97 //

धीरः प्रभूतप्रज्ञो वीरो विविक्तचित्तः शूरः किलेशघाती अजितंजयो जितारिः / सिंहो भयप्रहीणो नागः सुदान्तचित्तो ऋषभो गणप्रधानः क्षान्तः प्रहीणकोपः // lal_15.98 //

चन्द्रः प्रभासयन्तः सूर्यो ऽवभासकारी उल्का प्रद्योतकारी सर्वतमोविमुक्तः / पद्मं अनोपलिप्तं पुष्पं सुशीलपत्रं मेरूरकम्पि शास्ता पृथिवी यथोपजीव्यो रतनाकरो अक्षोभ्यः // lal_15.99 //

एन जितु क्लेशमारो एन जितु स्कन्धमारो एन जितु मृत्युमारो निहतो ऽस्य देव(पुत्र)मारो / एष मह सार्थवाहो कुपथप्रतिस्थितानां अष्टाङ्गमार्गश्रेष्ठं देशेष्यते नचिरेणा // lal_15.100 //

जरमरणक्लेशघाती तमतिमिरविप्रमुक्तो भुवि दिवि च संप्रघुष्टो जिनु भेष्यते स्वयंभूः / स्तुत स्तवितु अप्रमेयो वरपुरुषरूपधारी यत्पुण्य त्वां स्तवित्वा भोम यथ वादिसिंहः // lal_15.101 //

इति हि भिक्षवो ऽभिनिष्क्रान्तो बोधिसत्त्वो ऽतिक्रम्य शाक्यानतिक्रम्य क्रोड्यानतिक्रम्य मल्लान् मैनेयानामनुवैनेये निग मे षट्सु योजनेषु / तत्र बोधिसत्त्वस्य रात्रिप्रभातो ऽभूत् / ततो बोधिसत्त्वो कण्ठकादवतीर्य धरणीतले स्थित्वा तं महान्तं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगसंघं विसर्जयति स्म / विसर्ज्य चास्यैतदभूत् -इमान्याभरणानि कण्ठकं च छन्दकस्य हस्ते विसर्जयामीति //

अथ बोधिसत्त्वश्छन्दकमामन्त्र्यैतदवोचत् - गच्छ त्वं छन्दक, इमान्याभरणानि कण्ठकं च गृहीत्वा निवर्तयस्व / यत्र च प्रदेशे छन्दको निवृत्तस्तत्र चैत्यं स्थापितमभूत् / अद्यापि तच्चैत्यं छन्दकनिवर्तनमिति ज्ञायते //

पुनश्च बोधिसत्त्वस्यैतदभवत् - कथं च नाम चूडा च प्रव्रज्या चेति / स खड्गेन चूडां छित्त्वा अन्तरिक्षे क्षिपति स्म / सा च त्रायत्रिंशता देवैः परिगृहीताभूत् पूजार्थम् / अद्यापि च त्रायत्रिंशत्सु देवेषु चूडामहो वर्तते / तत्रापि चैत्यं स्थापितमभूत् / अद्यापि च तच्चूडाप्रतिग्रहणमिति ज्ञायते //

पुनरपि बोधिसत्त्वस्यैतदभूत् - कथं हि नाम प्रव्रज्या च काशिकानि वस्त्राणि / सचेद्वनवासानुरूपाणि काषायाणि वस्त्राणि लभेयम्, शोभनं स्यात् / अथ शुद्धवासकायिकानां देवानामेतदभूत् - काषायैर्बोधिसत्त्वस्य कार्यमिति / तत्रैको देवपुत्रो दिव्यं रूपमन्तर्धाप्य लुब्धकरूपेण काषायवस्त्रप्रावृतो बोधिसत्त्वस्य पुरतो ऽस्थात् / अथ बोधिसत्त्वस्तमेतदवोचत् - सचेन्मे त्वं मार्षा काषायाणि वस्त्राणि दद्याः, इमानि ते ऽहं काशिकानि वस्त्राणि दद्याम् / सो ऽवोचत् - एतानि वस्त्राणि तव शोभन्ते / इमानि मम / बोधिसत्त्व आह - अहं त्वां याचामि / ततस्तेन लुब्धकरूपिणा देवपुत्रेण बोधिसत्त्वाय काषायाणि वस्त्राणि दत्तान्यभूवन् / काशिकानि गृह्णीते स्म / अथ स देवपुत्रो गौरवजातस्तानि वस्त्राणि उभाभ्यां पाणिभ्यां शिरसि कृत्वा तत एव देवलोकमगमत् तेषां पूजार्थम् / तच्छन्दकेन दृष्टमभूत् / तत्रापि चैत्यं स्थापितम् / अद्यापि तच्चैत्यं काषायग्रहणमित्येवं ज्ञायते //

यदा च बोधिसत्त्वेन चूडां छित्त्वा काषायाणि वस्त्राणि प्रावृतानि, तस्मिन् समये देवपुत्रशतसहस्रा हृष्टास्तुष्टा उदग्रा आत्तमनसः परमप्रमुदिताः प्रीतिसौमनस्यजाता हीहीकारकिलिकिलाप्रक्ष्वेडितानिर्नादनिर्घोषशब्दमकार्षुः / सिद्धार्थो भो मार्षाः कुमारः प्रव्रजितः / सो ऽयमनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यति / असंख्येयाञ्जातिधर्माणः सत्त्वान् जात्या परिमोचयिष्यति / यावज्जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोच्य संसारसागरात् पारमुत्तार्यानुत्तरे क्षेमे ऽभये ऽशोके निरूपद्रवे शिवे विरजसे ऽमृते धर्मधातौ प्रतिष्ठापयिष्यतीति / स च शब्दः शब्दपरंपरया यावदकनिष्ठभवनमभ्युद्गतो ऽभूत् //

ततो ऽन्तःपुरिकाभिः कुमारमपश्यन्तीभिः ग्रीष्मिकवार्षिकहैमन्तिकेषु प्रासादेष्वासनेषु च गृहेषु परिमागमाणा यदा न पश्यन्ति स्म, तदा एकीभूताभिः कुररीभिरिवोत्क्रृष्टमभूत् / तत्र काश्चित्स्त्रियः परमशोकार्ता हा तातेहि क्रन्दन्ति स्म / काश्चिद्भ्रातः काश्चिद्भर्त इति क्रन्दन्ति स्म / काश्चिद्धा नाथेति क्रन्दन्ति स्म / काश्चिद्धा स्वामिन्निति / काश्चिन्नानाप्रियवचनप्रलापैः, काश्चिन्नानाकायपरिसर्पिकया रुदन्ति स्म / काश्चिच्छीर्षोपकर्षिकया, काश्चिदन्योन्यमुखावलोकितया रुदन्ति स्म / काश्चिच्चक्षुःपरिवर्तिकया, काश्चित्स्ववदनानि वस्त्रैरुच्छाद्य रुदन्ति स्म / काश्चिदूरू पाणिभिः प्रस्फोटयन्त्यः, काश्चिद्धृदयः, पाणिभिस्ताडयन्त्यः, काश्चिद्बाहून् पाणिभिः प्रस्फोटयन्त्यः, काश्चिच्छिरांसि, काश्चिच्छिरः पांशुभिरवकिरन्त्यो रुदन्ति स्म / काश्चिद्विक्षिप्तकेश्यः, काश्चित्केशं विलुञ्चन्त्यः, काश्चिदूर्ध्वबाहवः उच्चैरुत्क्रोशन्ति स्म / काश्चिन्मृग्य इव दिग्धविद्धाः सहसा प्रधावन्त्यो (वैद्य 165) रुदन्ति स्म / काश्चिन्मारुतकम्पिता इव कदल्यः प्रविकम्प्यमाना रुदन्ति स्म / काश्चिद्धरणीतले विनिपतिताः किंचित्प्राणाः, काश्चिज्जालोत्क्षिप्तमत्स्या इव पृथिव्यां परिवर्त्यमाना रुदन्ति स्म / काश्चिन्मूलछिन्ना इव वृक्षाः सहसा धरणीतले निपत्य रुदन्ति स्म //

तं च शब्दं राजा श्रुत्वा शाक्यानामन्त्रयते स्म - किमेतदुच्चैरन्तःपुरे शब्दः श्रूयते? शाक्या विज्ञाय कथयन्ति स्म - कुमारः किल महाराज अन्तःपुरे न दृश्यते / राजा आह - क्षिप्रं नगरद्वाराणि पिथयत / कुमारमभ्यन्तरे मृगयामः / ते सान्तर्बहिर्मृगयन्ते स्म / सान्तर्बहिर्मृगयमाना न पश्यन्ति स्म //

महाप्रजापत्यपि गौतमी परिदेवमाना महीतले परिवर्तते स्म / राजानं शुद्धोदनमेवमाह क्षिप्रं मां महाराज पुत्रेण समङ्गिनीं कुरुष्वेति //

ततो राजा चतुर्दिशमश्वदूतान् प्रेषयति स्म / गच्छत, यावत्कुमारं न पश्यथ, तावन्मा निवर्तयथ //

नैमित्तिकैर्वैपञ्चिकैश्च व्याकृतमभूत् - मङ्गलद्वारेण बोधिसत्त्वो ऽभिनिष्क्रमिष्यतीति / ते मङ्गलद्वारेण गच्छन्तः पश्यन्ति स्म अन्तरापथि पुष्पवर्षं प्रपतितम् / तेषामेतदभूत् - अनेन पथा कुमारो ऽभिनिर्गत इति //

ते स्वल्पमन्तरं गत्वा तं देवपुत्रं पश्यन्ति स्म बोधिसत्त्वस्य काशिकवस्त्राणि शिरसि कृत्वा आगच्छन्तम् / तेषामेतदभूत् - इमानि खलु कुमारस्य काशिकवस्त्राणि / मा खल्वनेनैषां वस्त्राणामर्थे कुमारो जीविताद्व्यपरोपितः स्यात् / गृह्णीतैनमिति / भूयः पश्यन्ति स्म / तस्य पृष्ठतश्च्छन्दकं कण्ठकमाभरणानि चादायागच्छन्तम् / ततस्ते परस्परमूचुः - मा तावद्भोः साहसं मा कार्ष्ट / एष छन्दको ऽभ्यागच्छति कण्ठकमादाय, यावदेनं प्रक्ष्यामः //

ते छन्दकं परिपृच्छन्ति स्म - हे छन्दक, मा खल्वनेनैव पुरुषेण काशिकानां वस्त्राणामर्थाय कुमारो जीविताद्व्यपरोपितः स्यात् / छन्दक आह - न ह्येतत् / अपि तु अनेन कुमाराय काषायाणि वस्त्राणि दत्तानि / कुमारेण चास्यैतानि काशिकानि वस्त्राणि दत्तानि / अथ स देवपुत्रस्तानि वस्त्राण्युभाभ्यां पाणिभ्यां शिरसि कृत्वा तत एव देवलोकमगमत् तेषां पूजार्थम् //

एवं च ते भूयश्छन्दकं परिपृच्छन्ति स्म - तत्किं मन्यसे छन्दक गच्छामो वयम्? शक्यः कुमारः प्रतिनिवर्तयितुम्? स आह - मा खलु / अनिवर्त्यः कुमारो दृढवीर्यपराक्रमः / एवं च तेनोक्तम् - न तावदहं पुनरपि कपिलवस्तुमहानगरं प्रवेक्ष्यामि, यावन्मे नानुत्तरां सम्यक्संबोधिमभिसंबुध्येति / यथा च कुमारेणोक्तं तथैव तद्भविष्यति / तत्कस्मात्? अनिवर्त्यः कुमारो दृढवीर्यपराक्रमः //

ततश्छन्दकः कण्ठकमाभरणानि चादायान्तःपुरं प्राविक्षत् / ततस्तान्याभरणानि चिरेण कालेन भद्रिकस्य शाक्यकुमारस्य महानाम्नो ऽनिरुद्धस्य चाबध्यन्त स्म / तानि महानारायणसंघटनकायार्थमन्ये (वैद्य 166) नारायणसंहनना न शक्नुवन्ति स्म धारयितुम् / यदा न कश्चित्तानि धारयितुं शक्नोति स्म, तदा महाप्रजापत्या गौतम्या चिन्तितमभूत् - यावदहमिमान्याभरणानि पश्यामि, तावन्मम हृदये शोको भविष्यति / यन्न्वहमिमान्याभरणानि पुष्करिण्यां प्रक्षिपेयमिति / ततो महाप्रजापती गौतमी तान्याभरणानि पुष्करिण्यां प्रक्षिपति स्म / अद्यापि सा आभरणपुष्करिणीत्येवं संज्ञायते //

तत्रेदमुच्यते -

निष्क्रान्तु शूरो यद विदु बोधिसत्त्वो नगरं विबुद्धं कपिलपुरं समग्रम् / मन्यन्ति सर्वे शयनगतो कुमारो अन्योन्य हृष्टाः प्रमुदित आलभन्ते // lal_15.102 //

गोपा विबुद्धा तथ अपि इस्त्रिगारा शयनं निरीक्षी न च दृशि बोधिसत्त्वम् / उत्क्रोशु मुक्तो नरपतिनो अगारे हा वञ्चिताः स्मः कहि गतु बोधिसत्त्वो // lal_15.103 //

राजा श्रुणित्वा धरणितले निरस्तो उत्क्रोशु कृत्वा अहो मम एकपुत्रो / सो स्तेमितो हि जलघटसंप्रसिक्तो आश्वासयन्ती बहुशत शाकियानाम् // lal_15.104 //

गोपा शयातो धरणितले निपत्य केशां लुनाती अवशिरि भूषणानि / अहो सुभाष्टं मम पुरि नायकेना सर्वप्रियेभिर्नचिरतु विप्रयोगः // lal_15.105 //

रूपा सुरूपा विमलविचित्रिताङ्गा अच्छा विशुद्धा जगति प्रिया मनापा / धन्या प्रशस्ता दिवि भुवि पूजनीया क्व त्वं गतो ऽसि मम शयि छोरयित्वा // lal_15.106 //

न पास्यि पानं न च मधु न प्रमादं भूमौ शयिष्ये जटमकुटं धरिष्ये / स्नानं जहित्वा व्रततप आचरिष्ये यावन्न द्रक्ष्ये गुणधरु बोधिसत्त्वम् // lal_15.107 //

उद्यान सर्वे अफल अपत्रपुष्पा हारा विशुद्धा तमरजपांशुतुल्याः / वेश्मं न शोभी अटवि पुरं प्रकाशं यत्तेन त्यक्तं नरवरपुंगवेन // lal_15.108 //

हा गीतवाद्याः सुमधुर मञ्जुघोषाः हा इस्त्रिगारा विगलित भूषणाभिः / हा हेमजालैः परिस्फुटमन्तरिक्षं न भूयु द्रक्ष्ये गुणधरविप्रहीणा // lal_15.109 //

मातृस्वसा चा परमसुकृच्छ्रप्राप्ता आश्वासयाति म रुदहि शाक्यकन्ये / पूर्वे च उक्तं नरवरपुंगवेन कर्तास्मि लोके जरमरणात्प्रमोक्षम् // lal_15.110 //

सो चा महर्षी कुशलसहस्र चीर्णः षड् योजनानि प्रतिगतु रात्रिशेषे / छन्दस्य देती हयवरु भूषणानि छन्दा गृहीत्वा कपिलपुरं प्रयाहि // lal_15.111 //

मातापितणां मम वचनेन पृच्छे गतः कुमारो न च पुन शोचयेथा / बुद्धित्व बोधिं पुनरिहमागमिष्ये धर्मं श्रुणित्वा भविष्यथ शान्तचित्ताः // lal_15.112 //

छन्दो रुदन्तो प्रतिभणि नायकस्य न मे ऽस्ति शक्तिर्बलत पराक्रमो वा / हनेयु मह्यं नरवरज्ञातिसंघाः छन्दा क्व नीतो गुणधरु बोधिसत्त्वो // lal_15.113 //

मा ताहि छन्दा प्रतिभणि बोधिसत्त्वो तुष्टा भवित्वा अपि मम ज्ञातिसंघाः / शास्तारसंज्ञा त्वयि सद भाविष्यन्ति प्रेमेण मह्यं त्वयमपि वर्तिष्यन्ते // lal_15.114 //

छन्दो गृहीत्वा हयवरु भूषणानि उद्यानप्राप्तो नरवरपुंगवस्य / उद्यानपालः प्रमुदितु वेगजातो आनन्दशब्दं प्रतिभणि शाकियानाम् // lal_15.115 //

अयं कुमारो हयवरु छन्दकश्च उद्यानप्राप्तो न च पुन शोचितव्यो / राजा श्रणित्वा परिवृतु शाकियेभिः उद्यानप्राप्तो प्रमुदितु वेगजातो // lal_15.116 //

गोपा विदित्वा दृढमति बोधिसत्त्वं नो चापि हर्षी न च गिर श्रद्दधाति / अस्थानमेतद्विनिगतु यत्कुमारो अप्राप्य बोधिं पुनरिह आगमेया // lal_15.117 //

दृष्ट्वा तु राजा हयवरु छन्दकं च उत्क्रोशु कृत्वा धरणितले निरस्तो / हा मह्य पुत्रा सुकुशलगीतवाद्या क्व त्वं गतो ऽसि विजहिय सर्वराज्यम् // lal_15.118 //

साधू भणाहि वचन ममेह छन्दा किं वा प्रयोगः क्व च गतु बोधिसत्त्वः / केनाथ नीतो विवरित केन द्वारा पूजा च तस्या कथ कृत देवसंघैः // lal_15.119 //

छन्दो भणाती शृणु मम पार्थिवेन्द्रा रात्रौ प्रसुप्ते नगरि सबालवृद्धे / सो मञ्जुघोषो मम भणि बोधिसत्त्वो छन्दा ददाहि मम लघु अश्वराजम् // lal_15.120 //

सो बोधयामि नरगणि नारिसंघं सुप्ता प्रसुप्ता न च गिर ते श्रुणन्ति / सो रोदमानो ददि अहु अश्वराजं हन्त व्रजाही हितकर येन कामम् // lal_15.121 //

शक्रेण द्वारा विवरित यन्त्रयुक्ताः पालाश्चतस्रो हयचरणे शिलिष्टाः / आरूढि शूरे प्रचलित त्रिसहस्राः मार्गो नभे ऽस्मिन् सुविपुल येन क्रान्तो // lal_15.122 //

आभा प्रमुक्ता विहततमोन्धकारा पुष्पा पतिंसू तुरियशता रणिंषू / देवाः स्तविंसू तथपि हि चाप्सराणि नभसा प्रयातो परिवृतु देवसंघैः // lal_15.123 //

छन्दो गृहीत्वा हयवरु भूषणानि अन्तःपुरे सो उपगतु रोदमानो / दृष्ट्वा तु गोपा हयवरु छन्दकं च संमूर्छयित्वा धरणितले निरस्ता // lal_15.124 //

उद्युक्त सर्वा सुविपुल नारिसंघाः वारिं गृहीत्वा स्नपयिषु शाक्यकन्याम् / मा हैव कालं करिष्यति शोकप्राप्ता द्वाभ्यां प्रियाभ्यां बहु भवि विप्रयोगो // lal_15.125 //

स्थामं जनित्वा सुदुःखित शाक्यकन्या कण्ठे ऽवलम्ब्या हयवरअश्वराजे / अनुस्मरित्वा पुरिमक कामक्रीडां नानाप्रलापी प्रलपति शोकप्राप्ता // lal_15.126 //

हा मह्य प्रीतिजनना हा मम नरपुंगवा विमलचन्द्रमुखा / हा मम सुरूपरूपा हा मम वरलक्षणा विमलतेजधरा // lal_15.127 //

हा मम अनिन्दिताङ्गा सुजात अनुपूर्वौद्गता असमा / हा मम गुणाग्रधारिं नरमरूभिः पूजिता परमकारूणिका // lal_15.128 //

हा मम बलोपपेता नरायणस्थामवन्निहतशत्रुगणा / हा मम सुमाञ्जघोषा कलविङ्करुतस्वरा मधुरब्रह्मरुता // lal_15.129 //

हा मम अनन्तकीर्ते शतपुण्यसमुद्गता विमलपुण्यधरा / हा मम अनन्तवर्णा गुणगणप्रतिमण्डिता ऋषिगणप्रीतिकरा // lal_15.130 //

हा मम सुजातजाता लुम्बिनिवन उत्तमे भ्रमरगीतरुते / हा मम विघुष्टशब्दा दिवि भुवि अभिपूजिता विपुलज्ञानद्रुमा // lal_15.131 //

हा मम रसारसाग्रा बिम्बोष्ठा कमललोचना कनकनिभा / हा मम सुशुद्धदन्ता गोक्षीरतुषारसंनिभसहितदन्ता // lal_15.132 //

हा मम सुनास सुभ्रू ऊर्णाभ्रु मुखान्तरे स्थिता विमला / हा मम सुवृत्तस्कन्धा चापोदर एणेयजङ्घवृत्तकटी // lal_15.133 //

हा मम गजहस्तोरू करचरणविशुद्धशोभना ताम्रनखा / इति तस्य भूषणानि पुण्येहि कृतानि पार्थिवे प्रीतिकरा // lal_15.134 //

ह मह्य गीतवाद्या वरपुष्पविलेपना शुभऋतुप्रवरे / हा मह्य पुष्पगन्धा अन्तःपुरि गीतवादितैर्हर्षकरा // lal_15.135 //

हा कण्ठका सुजाता मम भर्तु सहायकस्त्वया क्व नीतो / हा छन्दका निकरुणा न बोधयसि गच्छमानके नरवरिष्ठे // lal_15.136 //

गच्छत्ययं हितकरो एका गिर तस्मिन्नन्तरि न भसि कस्मात् / इतु अद्य पुरवरातो गच्छति नरदम्यसारथिः कारुणिकः // lal_15.137 //

कथ वा गतो हितकरो केन च निष्क्रमितो इतु स राजकुलात् / कतमां दिशामनुगतो धन्या वनगुल्मदेवता यास्य सखी // lal_15.138 //

अतिदुःख मह्य छन्दा निधिदर्शिय नेत्रौद्धृता चक्षुददा / सर्वैर्जनैश्च छन्दा मातापितृनित्यवर्णिता पूजनियाः // lal_15.139 //

तानपि जहित्व निर्गतु किं पुनरिम इस्त्रिकामरतिम् / हा धिक् प्रियैर्वियोगो नटरङ्गस्वभावसंनिभा अनित्या // lal_15.140 //

संज्ञाग्रहेण बाला दृष्टिविपर्यासनिश्रिता जन्मच्युति / प्रागेव तेन भणितं नास्ति जरामरणसंस्कृते काश्चि सखा // lal_15.141 //

परिपूर्यतो ऽस्य आशा स्पृशतू वरबोधिसमुत्तमां द्रुमवरिष्ठे / बुद्धित्व बोधिविरजां पुनरपि एतू इहा पुरवरें अस्मिन् // lal_15.142 //

छन्दकः परमदीनमानसो गोपिकाय वचनं श्रुणित्वना / साश्रुकण्ठ गिर संप्रभाषते साधु गोपि निशृणोहि मे वचः // lal_15.143 //

रात्रिये रहसि यामि मध्यमे सर्वनारिगणि संप्रसुप्तके / सो तदा च शतपुण्यौद्गतो आलपेति मम देहि कण्ठकम् // lal_15.144 //

तं निशाम्य वचनं तदन्तरं तुभ्य प्रेक्षमि शयानि सुप्तिकाम् / उच्चघोषु अहु तत्र मुञ्चमी उत्थि गोपि अयु याति ते प्रियो // lal_15.145 //

देवता वचनु तं निरोधयि एक इस्त्रि नपि काचि बुध्यते / रोदमान समलंकरित्वना अश्वराजु ददमी नरोत्तमे // lal_15.146 //

कण्ठको हिषति उग्रतेजस्वी क्रोशमात्रु स्वरु तस्य गच्छती / नो च कश्चि शृणुते पुरोत्तमे देवताभि ओस्वापनं कृतम् // lal_15.147 //

स्वर्णरूप्यमणिकोटिता मही कण्ठकस्य चरणैः पराहता / सा रणी मधुरभीष्मशोभना नो च केचि शृणुवन्ति मानुषाः // lal_15.148 //

पुष्ययुक्तु अभु तस्मि अन्तरे चन्द्रज्योतिष नभे प्रतिस्थिता / देवकोटि गगने कृताञ्जली ओनमन्ति शिरसाभिवन्दिषू // lal_15.149 //

यक्षराक्षसगणैरुपस्थिता लोकपाल चतुरो महर्द्धिकाः / कण्ठकस्य चरणां करे न्यसी पद्मकेशरविशुद्धनिर्मलम् // lal_15.150 //

सो च पुण्यशततेजौद्गतो आरुही कुमुदवर्षिकोपमम् / षड्विकार धरणी प्रकम्पिता बुद्धक्षेत्र स्फुट आभनिर्मला // lal_15.151 //

शक्र देवगुरुः शचीपतिः स्वाम द्वार विवरी तदन्तरे / देवकोटिनयुतैः पुरस्कृतो सो व्रजी अमरनागपूजितो // lal_15.152 //

संज्ञमात्र इह जाति कण्ठको लोकनाथु वहती नभो ऽन्तरे / देवदानवगणा सैन्द्रिकाः ये वहन्ति सुगतस्य गच्छतः // lal_15.153 //

अप्सरा कुशलगीतवादिते बोधिसत्त्वगुणभाषमानिकाः / कण्ठकस्य बलु ते ददन्तिकाः मुञ्चि घोषु मधुरं मनोरमम् // lal_15.154 //

कण्ठका वहहि लोकनायकं शीघ्र शीघ्र म जनेहि खेदताम् / नास्ति मे भयमपायदुर्गतिं लोकनाथमभिधारयित्वना // lal_15.155 //

एकमेक अभिनन्दते सुरो वाहनं स्मि अहु लोकनायके / नो च किंचिदपि देशु विद्यते देवकोटिचरणैर्न मर्दितम् // lal_15.156 //

पश्य कण्ठक नभोन्तरे इमं मार्गु संस्थितु विचित्रशोभनम् / रत्नवेदिकविचित्रमण्डितं दिव्यसारवरगन्धधूपितम् // lal_15.157 //

एन कण्ठक शुभेन कर्मणा त्रायत्रिंशभवने सुनिर्मितो / अप्सरै परिवृतः पुरस्कृतो दिव्यकामरतिभी रमिष्यसे // lal_15.158 //

साधु गोपि म खु भूयु रोदही तुष्ट भोहि परमप्रहर्षिता / द्रक्षसे नचिरतो नरोत्तमं बोधिप्राप्तममरैः पुरस्कृतम् // lal_15.159 //

ये नराः सुकृतकर्मकारकाः ते न गोपि सद रोदितव्यकाः / सो च पुण्यशततेजौद्गतो हर्षितव्य न स रोदितव्यकः // lal_15.160 //

सप्तरात्र भणभानु गोपिके सा वियूह नपि शक्य क्षेपितुम् / या वियूह अभु तत्र पार्थिवे निष्क्रमन्ति नरदेवपूजिते // lal_15.161 //

लाभ तुभ्य परमा अचिन्तिया यं त्युपस्थितु जगे हितंकरो / मह्य संज्ञि स्वकमेव वर्तते त्वं हि भेष्यसि यथा नरोत्तमः // lal_15.162 //

इति //

// इति श्रीललितविस्तरे ऽभिनिष्क्रमणपरिवर्तो नाम पञ्चदशमो ऽध्यायः //

स्तर्त् परिवर्त 16

बिम्बिसारोपसंक्रमणपरिवर्तः षोडशः /

एवं खलु भिक्षवश्छन्दको बोधिसत्त्वाधिस्थानेन राज्ञः शुद्धोदनस्य गोपायाः शाक्यकन्यायाश्च सर्वस्य चान्तःपुरस्य सर्वस्य च शाक्यगणस्य शोकविनोदकथामकार्षीत् //

इति हि भिक्षवो बोधिसत्त्वो लुब्धकरूपाय देवपुत्राय काशिकानि वस्त्राणि दत्त्वा तस्य सकाशात्काषायानि वस्त्राणि गृहीत्वा स्वयमेव प्रवज्यां लोकानुवर्तनामुपादाय सत्त्वानुकम्पायै सत्त्वपरिपाचनार्थम् //

अथ बोधिसत्त्वो येनैव शाक्या ब्राह्मण्या आश्रमस्तेनोपसंक्रामत् / सा बोधिसत्त्वं वासेन भक्तेन चोपनिमन्त्रयते स्म / ततो बोधिसत्त्वः पद्माया ब्राह्मण्या आश्रमं गच्छति स्म / तयापि बोधिसत्त्वो वासेन भक्तेन चोपनिमन्त्रितो ऽभूत् //

ततो रैवतस्य ब्रह्मर्षेराश्रममगमत् / असावपि बोधिसत्त्वं तथैवोपनिमन्त्रयते स्म / तथैव राजको ऽपि दतृमदण्डिकपुत्रो बोधिसत्त्वमुपनिमन्त्रयते स्म //

इति हि भिक्षवो बोधिसत्त्वो ऽनुपूर्वेण वैशालीं महानगरीमनुप्राप्तो ऽभुत् //

तेन खलु पुनः समयेनाराडः कालापो वैशालीमुपनिसृत्य प्रतिवसति स्म महता श्रावकसंघेन सार्धं त्रिभिः शिष्यशतैः / स शिष्येभ्य आकिंचन्यायतनसहव्रतायै धर्मं देशयति स्म / स बोधिसत्त्वं दूरत एवागच्छन्तं दृष्ट्वा आश्चर्यप्राप्तः शिष्यानामन्त्रयते स्म - पश्यत पश्यत भो रूपमस्येति / ते ऽब्रुवन् - एवं ह्येतत्पश्यामः / एनमतिविस्मयनीयम् //

ततो ऽहं भिक्षवो येनाराडः कालापस्तेनोपसंक्रम्याराड कालापमेतदवोचत् - चरेयमहं भो आराडे कालापे ब्रह्मचर्यम् / सो ऽवोचत् - चर भो गौतम तथारूपेण धर्माख्याने यस्मिन् श्राद्धः कुलपुत्रो ऽल्पकृच्छ्रेणाज्ञामाराधयति //

तस्य मे भिक्षव एतदभूत् - अस्ति मे छन्दो ऽस्ति वीर्यमस्ति स्मृतिरस्ति समाधिरस्ति प्रज्ञा, यन्न्वहमेको ऽप्रमत्त आतापी व्यपकृष्टो विहरेयं तस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै //

अथ खल्वहं भिक्षवो एको ऽप्रमत्त आतापी व्यपकृष्टो विहरन्नल्पकृच्छ्रेणैवं तं धर्ममध्यवगच्छन् साक्षादकार्षम् //

अथ खल्वहं भिक्षवो येनाराडः कालापस्तेनोपसंक्रम्यैतदवोचत् - एतावद्भो त्वया आराड धर्मो ऽधिगतः साक्षात्कृतः? सो ऽवोचत् - एवमेतद्भो गौतम / तमहमवोचत् - मयापि भो एष धर्मः साक्षात्कृतो ऽधिगतः / सो ऽवोचत् - तेन हि भो गौतम यदहं धर्म जानामि, भवानपि तं जानाति, यं भवान् जानाति, अहमपि तं जानामि / तेन ह्यावामुभावपीमं शिष्यगणं परिहरावः //

इति हि भिक्षव आराडः कालापः परमया पूजया मां पूजयति स्म / अन्तेवासिषु च मां समानार्थतया स्थापयति स्म //

तस्य मे भिक्षव एतदभूत् - अयं खल्वाराडस्य धर्मो न नैर्याणिको न निर्याति, तत्कतरस्य सम्यग्दुःखक्षयाय? यन्न्वहमत उत्तरि पर्येषमाणश्चरेयम् //

अथ खल्वहं भिक्षवो यथाभिरामं वैशाल्यां विहृत्य मगधेषु च प्रक्रान्तो ऽभूत् / सो ऽहं मगधेषु चर्यां चरन् येन मागधकानां राजगृहं नगरं तदनुसृतो येन च पाण्डवः पर्वतराजस्तेनोपसंक्रान्तो ऽभूवम् / तत्राहं पाण्डवे पर्वतराजपार्श्वे व्याहार्षमेकाक्यद्वितीयो ऽसहायो ऽनेकैर्देवकोटिनयुतशतसहस्रैः संरक्षितः //

ततो ऽहं कल्यमेव संनिवास्य पात्रचीवरमादाय तपोदद्वारेण राजगृहं महानगरं पिण्डाय प्राविक्षत् प्रासादिकेनाभिक्रान्तेन प्रतिक्रान्तेन व्यवलोकितेन संमिञ्जितेन प्रसारितेन प्रासादिकेन संघाटीपटपात्रचीवरधारणेनाविक्षिप्तैरिन्द्रियैरबहिर्गतेन मानसेन निर्मितवत्तैलपात्रधरवद्युगमात्रं पश्यन् / तत्र मां राजगृहका मनुष्या दृष्ट्वा विस्मिता अभूवन् - किं स्विदयं ब्रह्मा भविष्यति शक्रो देवानामिन्द्र आहोस्विद्वैश्रवणो आहोस्वित्किंचिद्गिरिदैवतम् //

तत्रेदमुच्यते -

अथ विमलधरो ह्यनन्ततेजो स्वयमिह प्रव्रजियान बोधिसत्त्वः / शान्तमनु दान्त ईर्यवन्तो विहरति पाण्डवशैलराजपार्श्वे // lal_16.1 //

रजनि विगतु ज्ञात्व बोधिसत्त्वः परमसुदर्शनियं निवासयित्वा / पात्र प्रतिगृहीय नीचमानो प्रविशति राजगृहं सपिण्डपात्रम् // lal_16.2 //

कनकमिव सुधातुजातरूपं कवचितु लक्षणत्रिंशता द्विभिश्च / नरगण तथ नारि प्रेक्षमाणो न च भवते क्वचि तृप्ति दर्शनेन // lal_16.3 //

वीथि रचित रत्नवस्त्रधार्यै अवशिरिया जनु याति पृष्ठतो ऽस्य / को नु अयु अदृष्टपूर्वसत्त्वो यस्य प्रभाय पुरं विभाति सर्वम् // lal_16.4 //

उपरि स्थिहिय नारिणां सहस्रा तथरिव द्वारि तथैव वातयाने / रथ्य भरित गेहि शून्य कृत्वा नरवरु प्रेक्षिषु ते अनन्यकर्माः // lal_16.5 //

न च भुयु क्रयविक्रयं करोन्ती न च पुन सौण्ड पिबन्ति मद्यपानम् / न च गृहि न च वीथिये रमन्ते पुरुषवरस्य निरीक्षमाण रूपम् // lal_16.6 //

पुरुष त्वरितु गच्छि राजगेहं अवचिषु राज स बिम्बिसार तुष्टो / देव परम तुभ्य लब्ध लाभा स्वयमिह ब्रह्म पुरे चराति पिण्डम् // lal_16.7 //

केचि अवचि शक्र देवराजो अपरि भणन्ति सुयाम देवपुत्रः / तथ अपि संतुषितं व निर्मितश्च अपरि भणन्ति सुनिर्मितेषु देवः // lal_16.8 //

केचि पुन भणन्ति चन्द्रसूर्यौ तथपि च राहु बलिश्च वेमचित्री / केचि पुन भणन्ति वाचमेवं अयु सो पाण्डवशैलराजवासी // lal_16.9 //

वचनमिमु श्रुणित्व पार्थिवो ऽसौ परमौदग्रमना स्थितो गवाक्षे / प्रेक्षति वरसत्त्व बोधिसत्त्वं ज्वलतु शिरीय सुधातुकाञ्चनं वा // lal_16.10 //

पिण्ड ददिय राज बिम्बिसारः पुरुषमवोचन्निरीक्ष क्व प्रयाती / दृष्ट्व गिरिवरं स गच्छमानो अवचिषु देव गतः स शैलपार्श्वम् // lal_16.11 //

रजनि विगतु ज्ञात्व बिम्बिसारो महत जनैः परिवारितो नरेन्द्रः / उपगमि पाण्डवशैलराजमूले शिरिय ज्वलन्तु तमदृशाति शैलम् // lal_16.12 //

धरणि व्रजितु यानि ओरुहित्वा परमसुगौरव प्रेक्षि बोधिसत्त्वम् / मेरुरिव यथा ह्यकम्पमानो न्यसिय तृणानि निषण्ण सोस्तिकेन // lal_16.13 //

शिरसि चरणि वन्दयित्व राजा विविधकथां समुदाहरित्व वोचत् / ददमि तव उपार्धु सर्वराज्याद् रम इह कामगुणैरहं च पिण्डम् // lal_16.14 //

प्रभणति गिरि बोधिसत्त्व श्लक्ष्णं धरणिपते चिरमायु पालयस्व / अहमपि प्रविजह्य राज्यमिष्टं प्रव्रजितो निरपेक्षि शान्तिहेतोः // lal_16.15 //

दहरु तरुणयौवनैरुपेतः शुभतनुवर्णनिभो ऽसि वेगप्राप्तः / विपुल धन प्रतीच्छ नारिसंघं इह मम राज्यि वसाहि भुङ्क्ष्व कामां // lal_16.16 //

परमप्रमुदितो ऽस्मि दशनात्ते अवचिषु स मागधराज बोधिसत्त्वम् / भवहि मम सहायु सर्वराज्यं अहु तव दास्यि प्रभूत भुङ्क्ष्व कामां // lal_16.17 //

मा च पुन वने वसाहि शून्ये म भुयु तृणेषु वसाहि भूमिवासम् / परमसुकुमारु तुभ्य कायो इह मम राज्यि वसाहि भुङ्क्ष्व कामां // lal_16.18 //

प्रभणति गिरि बोधिसत्त्व श्लक्ष्णं अकुटिल प्रेमणिया हितानुकम्पी / स्वस्ति धरणिपाल ते ऽस्तु नित्यं न च अहु कामगुणेभिरर्थिको ऽस्मि // lal_16.19 //

काम विषसमा अनन्तदोषा नरकप्रपातन प्रेततिर्यग्योनौ / विदुभि विगर्हित चाप्यनार्य कामा जहित मया यथा पक्वखेटपिण्डम् // lal_16.20 //

काम द्रुमफला यथा पतन्ती यथमिव अभ्रबलाहका व्रजन्ति / अध्रुव चपलगामि मारुतं वा विकिरण सर्वशुभस्य वञ्चनीया // lal_16.21 //

काम अलभमान दह्ययन्ते तथ अपि लब्ध न तृप्ति विन्दयन्ती / यद पुन अवशस्य भक्षयन्ते तद महदुःख जनेन्ति घोर कामाः // lal_16.22 //

काम धरणिपाल ये च दिव्या तथ अपि मानुष काम ये प्रणीता / एकु नरु लभेत सर्वकामां न च सो तृप्ति लभेत भूयु एषन् // lal_16.23 //

ये तु धरणिपाल शान्तदान्ता आर्य अनाश्रव धर्मपूर्णसंज्ञा / प्रज्ञविदुष तृप्त ते सुतृप्ता न च पुन कामगुणेषु काचि तृप्तिः // lal_16.24 //

काम धरणिपाल सेवमाना पुरिम न विद्यति कोटि संस्कृतस्य / लवणजल यथा हि नारू पीत्वा भुयु तृष वर्धति काम सेवमाने // lal_16.25 //

अपि च धरणिपाल पश्य कायं अध्रुवमसारकु दुःखयन्त्रमेतत् / नवभि व्रणमुखैः सदा स्रवन्तं न मम नराधिप कामछन्दरागः // lal_16.26 //

अहमपि विपुलां विजह्य कामां तथपि च इस्त्रिसहस्र दर्शनीयां / अनभिरतु भवेषु निर्गतो ऽहं परमशिवां वरबोधि प्राप्तुकामः // lal_16.27 //

राजा आह -

कतम दिशि कुतो गतो ऽसि भिक्षो क्व च तव जन्म क्व ते पिता क्व माता / क्षत्रिय अथ ब्राह्मणो ऽथ राजा परिकथ भिक्षु यदी न भारसंज्ञा // lal_16.28 //

बोधिसत्त्व आह -

श्रतु ति धरणिपाल शाकियानां कपिलपुरं परमं सुऋद्धिस्फीतम् / पितु मम शुद्धोदनेति नाम्ना तनु अहु प्रव्रजितो गुणाभिलाषी // lal_16.29 //

राजा आह -

साधु तव सुदृष्टदर्शनं ते यनु तव जन्म वयं पि तस्य शिष्याः / अपि च मम क्षमस्व आशयेना यमपि निमन्त्रितु कामवीतरागो // lal_16.30 //

यदि त्वय अनुप्राप्तु भोति बोधिः तद मम सेति भोति धर्मस्वामिम् / अपि च मम पुरा सुलब्ध लाभा मम विजिते वससीह यत्स्वयंभो // lal_16.31 //

पुनरपि चरणानि वन्दयित्वा कृत्व प्रदक्षिणु गौरवेण राजा / स्वकजनपरिवारितो नरेन्द्रः पुनरपि राजगृहं अनुप्रविष्टः // lal_16.32 //

मगधपुरि प्रवेशि लोकनाथो विहरिय शान्तमना यथाभिप्रायम् / अर्थु करिय देवमानुषाणां उपगमि तीरु निरञ्जना नरेन्द्रः // lal_16.33 //

// इति श्रीललितविस्तरे बिम्बिसारोपसंक्रमणपरिवर्तो नाम षोडशमो ऽध्यायः //

स्तर्त् परिवर्त 17

दुष्करचर्यापरिवर्तः सप्तदशः /

तेन खलु पुनर्भिक्षवः समयेन रुद्रको नाम रामपुत्रो राजगृहं नाम महानगरमुपनिसृत्य विहरति स्म महता शिष्यगणेन सार्धं सप्तभिः शिष्यशतैः / स तेभ्यो नैवसंज्ञानासंज्ञायतनसहव्रतायै धर्मं देशयति स्म / अद्राक्षीत् खल्वपि भिक्षवो बोधिसत्त्वो रुद्रकं रामपुत्रं संघेगणिनं गणाचार्यं ज्ञातमभीप्सितं बहुजनपूजितं पण्डितसंमतम् / दृष्ट्वा चास्यैतदभूत् - अयं खल्वपि रुद्रको रामपुत्रः संघेगणी गणाचार्यः ज्ञातो ऽभीप्सितो बहुजनपूजितः पण्डितसंमतः / सचेदहमस्यान्तिकमुपसंक्रम्य व्रततपमारभेयम्, नैष ममान्तिके विशिष्टसंज्ञो भवेन्नापि प्रत्यक्षज्ञानेन ज्ञातो भवेन्नापि संस्कृतानां साश्रवानां सोपादानानां ध्यानसमाधिसमापत्तीनां दोषो दत्तो भवेत् / यन्न्वहं तथारुपमुपायमुपसंदर्शयेयं येनैते च प्रत्यक्षा भवेयुः / ध्यानगोचराणां च समापत्त्यारम्बणानां लौकिकसमाधीनामनिःसरणता दर्शिता भवेत् / यन्न्वहं रुद्रकस्य रामपुत्रस्य सकाशमुपसंक्रम्य स्वसमाधिगुणविशेषोद्भावनार्थं शिष्यत्वमभ्युपगम्य संस्कृतसमाधीनामसारतामुपदर्शयेयमिति //

अथ खलु भिक्षवो बोधिसत्त्व इदमर्थवशमधिकृत्य येन रुद्रको रामपुत्रस्तेनोपसंक्रामत् / उपसंक्रम्य रुद्रकं रामपुत्रमेतदवोचत् - कस्ते मार्ष शास्ता, कस्य वा धर्मं देशितमाजानासि?

इत्येवमुक्ते रुद्रको रामपुत्रो बोधिसत्त्वमेवमाह - न मे मार्ष कश्चिच्छास्ता / अपि तु खलु पुनः स्वयमेव मयेदं सम्यगधिगतमिति / बोधिसत्त्व आह - किं भवताधिगतम्? आह - नैवसंज्ञानासंज्ञायतनसमापत्तेर्मार्गः / बोधिसत्त्व आह - लभेमहि वयं भवतः सकाशादववादानुशासनीयस्य समाधेर्मार्गम्? आह - वाढमस्त्विति / यावद्दत्तो ऽववादो ऽभूत् //

ततो बोधिसत्त्व एकान्तं गत्वा पर्यङ्कमाभुज्योपविशति स्म / समनन्तरोपविष्टस्य च बोधिसत्त्वस्य पुण्यविशेषेण च ज्ञानविशेषेण च पूर्वसुचरितचर्याफलविशेषेण च सर्वसमाधिपरिचयविशेषेण च ध्यानप्रमुखानि सर्वाणि लौकिकानि लोकोत्तराणि समापत्तिशतान्यामुखीभवन्ति स्म साकाराणि सोद्देशानि यथापि तच्चित्तवशवर्तित्वात् / अथ च बोधिसत्त्वः स्मृतः संप्रजानन् उत्थायासनाद्येन रुद्रको रामपुत्रस्तेनोपसंक्रामत् / उपसंक्रम्य रुद्रकं रामपुत्रमेवमाह अस्त्यन्यो ऽपि मार्ष कश्चिदुत्तरे नैवसंज्ञानासंज्ञायतनसमापत्तेर्मार्गः? सो ऽब्रवीत् - नास्तीति //

ततो बोधिसत्त्वस्यैतदभवत् - न खलु रुद्रकस्यैवास्ति श्रद्धा वीर्यं स्मृतिः प्रज्ञा / ममाप्यस्ति श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा /

अथ बोधिसत्त्वो रुद्रकं रामपुत्रमेवमाह - मयाप्येष मार्ष धर्मो ऽधिगतो यत्र त्वं निर्यातः / सो ऽवोचत् - तेन ह्यागच्छ, त्वं चाहं चेमं गणं परिहराव इति / समानार्थे च बोधिसत्त्वं (वैद्य 181) स्थापयति स्म आचार्यस्थाने च / बोधिसत्त्व आह - नैष मार्ष मार्गो निर्वृतये न विरागाय न निरोधाय नोपशमाय नाभिज्ञायै न संबोधये न श्रामणाय न ब्राह्मणाय न निर्वाणाय संवर्तते //

इति हि भिक्षवो बोधिसत्त्वो रुद्रकस्य रामपुत्रस्य सशिष्यस्यावर्जनीकृत्व यावदलमिति कृत्वा प्रक्रामत् - अलं ममानेनेति //

तेन खलु पुनः समयेन पञ्चका भद्रवर्गीया रुद्रके रामपुत्रे ब्रह्मचर्यं चरन्ति स्म / तेषामेतदभूत् - यस्य खलु वयमर्थाय दीर्घरात्रं घटामहे उद्युज्यामहे, न च शक्नुमो ऽन्तं वा पर्यन्तं चाधिगन्तुम्, तच्छ्रमणेन गौतमेनाल्पककृच्छणाधिगन्तुं साक्षात्कृतम् / तच्चास्य न रोचते / तथा चोत्तरि पर्येषते / निःसंशयमेष शास्ता लोके भविष्यति / यच्चैष साक्षात्करिष्यति, तदस्मभ्यं संविभक्ष्यतीति / एवं विमृष्य पञ्चका भद्रवर्गीया रुद्रकरामपुत्रसकाशादपक्रम्य बोधिसत्त्वमन्वबध्नन् //

इति हि भिक्षवो बोधिसत्त्वो यथाभिप्रेतं राजगृहे विहृत्य मगधेषु चारिकां प्रक्रामत् सार्धं पञ्चकैर्भद्रवर्गीयैः //

तेन खलु पुनः समयेनान्तराच्च राजगृहस्य अन्तराच्च गयाया यो ऽन्यतमो गण उत्सवं करोति स्म, तेन च गणेन बोधिसत्त्वो ऽभिनिमन्त्रितो ऽभूत् वासेन भक्तेन च सार्धं पञ्चकैर्भद्रवर्गीयैः //

अथ खलु भिक्षवो बोधिसत्त्वो मगधेषु चर्यां चरन् येन मागधकानां गया तामनुसृत्य तामनुप्राप्तो ऽभूत् / तत्र खल्वपि भिक्षवो बोधिसत्त्वः प्रहाणार्थी विहरति स्म गयाशीर्षे पर्वते / तत्रास्य विहरतस्तिस्र उपमाः प्रतिभान्ति स्म अश्रुतपूर्वा अनभिज्ञातपूर्वाः / कतमास्तिस्रः? ये केचित्ते खल्वपि श्रमणब्राह्मणाः कामेभ्यो ऽनवकृष्टकाया विहरन्ति स्म / कामेभ्यो ऽनवकृष्टचित्ताश्च विहरन्ति स्म / यापि चैषां कामेषु नन्दिः कामेषु रागः कामेषु छन्दः कामेषु तृष्णा कामेषु पिपासा कामेषु मूर्छा कामेषु परिदाहः कामेष्वध्यवसानता, साप्यनुपशान्ता / किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ते / अथ तर्हि अभव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् / तद्यथापि नाम पुरुषो ऽग्न्यर्थी ज्योतिर्गवेषी ज्योतिं पर्येषमाणः स आर्द्रं काष्ठमादाय आर्द्रां चोत्तरारणीमुदके प्रक्षिप्य मथ्नीयात्, अभव्यो ऽसावग्निमुत्पादयितुं तेजः प्रादुष्कर्तुम् / एवमेव य इमे श्रमणब्राह्मणाः कामेभ्यो ऽनवकृष्टकाया अनवकृष्टचित्ताश्च विहरन्ति, याप्येषां कामेषु नन्दिः कामेषु रागः कामेषु छन्दः कामेषु तृष्णा कामेषु पिपासा कामेषु मूर्छा कामेषु परिदाहः कामेष्वध्यवसानं तदप्यनुपशान्तम् / किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ते / अथ तर्हि अभव्या एवोत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् / इयं बोधिसत्त्वस्य प्रथमा उपमा प्रतिभाति स्म //

भूयश्चास्यैतदभूत् - य इमे श्रमणब्राह्मणाः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दीति सर्वं कर्तव्यं यावज्ज्योतिं पर्येषत इति / स आर्द्रं काष्ठमादाय स्थले स्थापयित्वा आर्द्रां चोत्तरारणिं मथ्नीयात्, अभव्यो ऽसावग्निमुत्पादयितुम् / एवमेव ये इमे श्रमणब्राह्मणा इति सर्वं पूर्ववत्कार्यं यावदभव्या उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् / इयं द्वितीया उपमा प्रतिभाति स्म पूर्वमश्रुता चाविज्ञाता च //

पुनरपरं य इमे श्रमणब्राह्मणा भवन्तः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दिः / इति सर्वं पेयालम् / तदप्येषामुपशान्तम् / किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ते / अथ खलु पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् / तद्यथापि नाम इह स्यात्पुरुषो ऽग्न्यर्थी ज्योतिर्गवेषी ज्योतिः पर्येषमाणः, स शुष्कं काष्ठमादाय शुष्कां चोत्तरारणिं स्थले प्रतिष्ठाप्य मथ्नीयात्, स भव्यो ऽग्निमभिनिर्वर्तयितुं तेजः प्रादुष्कर्तुम् / एवमेव य इमे भवन्तः श्रमणब्राह्मणा इति सर्वं यावद्वेदनां वेदयन्त इति / अथ च पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् / इयं तृतीया उपमा प्रतिभाति स्म अश्रुतपूर्वा च अविज्ञातपूर्वा च //

अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत् - अहं खल्वेतर्हि कामेभ्यो व्यपकृष्टकायो विहरामि व्यपकृष्टचित्तश्च / यापि मे कामेषु नन्दीति सर्वं यावत्तदपि मे उपशान्तम् / किं चापि अहमात्मोपक्रमिकां शरीरोपतापिकां दुःखामिति पेयालं यावद्वेदनां वेद्मि / अथ खल्वहं भव्य एवोत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् //

इति हि भिक्षवो बोधिसत्त्वो यथाभिप्रेतं गयायां विहृत्य गयाशीर्षे पर्वते जङ्गाविहारमनुचंक्रम्यमाणो येनोरुबिल्वा सेनापतिग्रामकस्तदनुसृतस्तदनुप्राप्तो ऽभूत् / तत्राद्राक्षीन्नदीं नैरञ्जनामच्छोदकां सूपतीर्थां प्रासादिकैश्च द्रुमगुल्मैरलंकृतां समन्ततश्च गोचरग्रामाम् / तत्र खल्वपि बोधिसत्त्वस्य मनो ऽतीव प्रसन्नमभूत् - समो बतायं भूमिप्रदेशो रमणीयः प्रतिसंलयनानुरूपः / पर्याप्तमिदं प्रहाणार्थिककुलपुत्रस्य / अहं च प्रहाणार्थी / यन्न्वहमिहैव तिष्ठेयम् //

इति हि भिक्षवो बोधिसत्त्वस्यैतदभूत् - पञ्चकषायकाले ऽहमिह जम्बुद्वीपे ऽवतीर्णो हीनाधिमुक्तिकेषु सत्त्वेष्वाकीर्णतीर्थ्यवर्गेषु नानादृष्टिप्रस्कन्नेषु कायपिण्डग्राहाभिनिविष्टेषु नानाविधैश्चातापनपरितापनैः कायशुद्धिं पर्येषन्ते, प्रज्ञापयन्ति च संमूढाः / तद्यथा - मन्त्रविचारकैर्हस्तप्रलेहकैर्नयाचनकैरनामन्त्रणकैरनेकमूलिकैरमत्स्यमांसकैरवार्षिकैः सुरातुषोदकर्वजनैरेकत्रिपञ्चसप्तकुलभिक्षाग्रहणैर्मूलफलशैवालककुशपत्रगोमयगोमूत्रपायसदधिसर्पिः फाणितामपिष्टकमभक्षणपानैः सारसिकापोतकसंदंशिकोत्सृष्टसंप्रक्षालकैः / ग्राम्यारण्याभिश्च वृत्तिभिः / गोव्रतमृगश्ववराहवानरहस्तिव्रतैश्च स्थानमौनवीरासनैश्च एकालापकैर्यावत्सप्तालापकैः / एकभक्ता एकाहोरात्रचातुर्थ्यपञ्चषट्कालान्तराश्च (वैद्य 183) पक्षक्षपणमासक्षपणचान्द्रायणैश्च गृध्रोलूकपक्षधारणैश्च फलमुञ्जासनवल्कलदर्भबल्बजोष्ट्रकम्बलाजकम्बलकेशकम्बलचर्मनिवेशनैश्च आर्द्रपटास्तोपकजालशयनैश्च भस्मशर्करापाषाणफलककण्टकतृणमुसलशयनावाक्छिरोत्कुटुकस्थण्डिलशयनैश्च एकवासद्वित्रिचतुष्पञ्चषट्सप्तबहुवासोभिर्नग्नभावैश्च स्थानास्थानविधिभिश्च दीर्घकेशनखश्मश्रुजटामकुटधारणैश्च एककोलतिलतण्डुलाहारैश्च भस्ममसिनिर्माल्योद्धृततमोरजपांशुपङ्कपरिम्रक्षणैश्च लोममुञ्जकेशनखचीवरपञ्जरकरङ्कधारणैश्च उष्णोदकतण्डुलोदकपरिस्रावितकाम्बलिकस्थालीपानीयपानैश्च अङ्गारधातुकषायत्रिदण्डमुण्डिककुण्डिककपालखट्वाङ्गधारणैश्च शुद्धिं प्रत्यवगच्छन्ति संमूढाः /

धूमपानाग्निपानादित्यनिरीक्षणपञ्चतपैकपादोर्ध्वबाहुस्थानैकचरणैश्च तपः संचिन्वन्ति / तुषाद्यङ्गारदाहनिकुम्भसाधनपक्वशिलापचनाग्निजलप्रवेशनमरुतीर्थगमनमरणैश्चेष्टां गतिं मृगयन्ते / ओंकारवषट्कारस्वधाकारस्वाहाकाराशीर्वचनस्तुतिचयनावाहनजप्यमन्त्राध्ययनधारणकरणैश्च शुद्धिं प्रत्यवगच्छन्ति / शुद्धं चात्मानं मन्यमाना इमानाश्रयन्ते / तद्यथा - ब्रह्मेन्द्ररुद्रविष्णुदेवीकुमारमातृकात्यायनीचन्द्रादित्यवैश्रवणवरुणवासवाश्विनौनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराक्षसप्रेतभूतकुम्भाण्डपार्षदगणपतिपिशाचांश्च देवर्षिराजर्षिब्रह्मर्षीश्च नमस्यन्ति, तेषु च सारसंज्ञिनो भवन्ति / पृथिव्यप्तेजोवाय्वाकाशं चाश्रयन्ते / गिरीनदीनद्युत्ससरोह्रदतडागसागरसरःपल्वलपुष्करिणीकूपवृक्षगुल्मलतातृणस्थाणुगोष्ठश्मशान - चत्वरशृङ्गाटकान्तरापणमुखानि चाश्रयन्ते / गृहस्तम्भोपलमुसलासिधनुपरशुशरशक्तित्रिशूलांश्च नमस्यन्ति / दधिघृतसर्षपयवप्रतिसरादूर्वामणिकनकरजतादिभिश्च मङ्गलं प्रत्यवगच्छन्ति / एवंविधानि इमे तीर्थ्याः कुर्वन्ते, आश्रयन्ते च संसारभयभीताः //

इह च केचित्परत्र मन्यन्ते स्वर्गापवर्गावस्माकमेतेभ्यो निर्वर्त्स्येत इति मिथ्यामार्गप्रयाता अशरणे शरणसंज्ञिनो ऽमङ्गल्ये मङ्गलसंज्ञिनो ऽशुद्ध्या शुद्धिं मन्यतोयन्न्वहं तादृशं व्रततपोविशेषमालभेयं यथा सर्वपरप्रवादिनश्च निगृहीताः स्युः, कर्मक्रियाप्रणष्टानां च सत्त्वानां कर्मक्रियाविप्रणाशमादर्शयेयम् / ध्यानगोचराणां च रूपावचराणां च देवानां ध्यानविशेषोपदर्शनादावर्जनं कुर्यामिति //

इति हि भिक्षवो बोधिसत्त्व एवं चिन्तयित्वा षड्वर्षिकं महाघोरं व्रततपःसुदुष्करात्सुदुष्करां दुष्करचर्यामालभते स्म / केन कारणेनोच्यते दुष्करचर्येति? दुष्करकारिकैषा, तेनोच्यते दुष्करचर्येति / न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते मनुष्यो वा अमनुष्यो वा, यः समर्थस्तथारूपं दुष्करं चरितुम्, अन्यत्र चरमभविकाद्बोधिसत्त्वात्, य आस्फानकध्यानं समापद्यते स्म / केन कारणेनोच्यते आस्फानकमिति? स चतुर्थध्यानमादित एव समापद्यमान आश्वासप्रश्वासानुपरोधयति संनिरोधयति / अकल्पं तद् ध्यानमविकल्पमनिञ्जनमपनीतमस्पन्दनं सर्वत्रानुगतं च सर्वत्र चानिश्रितम् / न च तद् ध्यानं जातु केनचित्समापन्नं पूर्वं शैष्येण वा अशैष्येण वा प्रत्येकबुद्धेन (वैद्य 184) वा चर्याप्रतिपन्नेन वा बोधिसत्त्वेन / अतश्चास्फानकं नामोच्यते / आकाशमस्फरणमकरणमविकरणं तच्च सर्वं स्फरतीति ह्याकाशसमं तद् ध्यानम् / तेनोच्यते आस्फानकमिति //

अथ खलु भिक्षवो बोधिसत्त्वो लोकस्याश्चर्यसंदर्शनार्थं तीर्थिकानां च दर्पनिर्घातनार्थं परप्रवादिनां च निग्रहार्थं देवानां चावर्जनार्थमुच्छेदशाश्वतवादिनां च सत्त्वानां क्रर्मक्रियाप्रणष्टानां कर्मक्रियावतारणार्थं पुण्यफलोद्भावनार्थं ज्ञानफलसंदर्शनार्थं ध्यानाङ्गविभजनार्थ कायबलस्थामसंदर्शनार्थं चित्तशौर्यसंजननार्थं च असंस्कृतायां पृथिव्यां पर्यङ्कमाभुज्य निषीदति स्म / निषद्य च स्वकायं चेतसा निगृह्णीते स्म, निष्पीडयति स्म //

ततो मे भिक्षवो हैमन्तिकास्वष्टकरात्रिषु तथा कायं निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म / ललाटादपि स्वेदाः प्रश्रवन्ति स्म / भूमौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः / तद्यथापि नाम बलवान् पुरुषो दुर्बलतरं पुरुषं ग्रीवायां गृहीत्वा निष्पीडयेत्, एवमेव भिक्षव इमं कायं चेतसा निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म / ललाटादपि स्वेदाः प्रश्रवन्ति स्म / भूभौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः //

तस्य मे भिक्षव एतदभूत् - यन्न्वहमास्फानकं ध्यानं ध्यायेयम् / ततो मे भिक्षव आस्फानकं ध्यानं ध्यायतो मुखतो नासिकातश्चाश्वासप्रश्वासा उपनिरुद्धावभूताम् / कर्णछिद्राभ्यामुच्चशब्दा महाशब्दा निश्चरन्ति स्म / तद्यथापि नाम कर्मारगगया मथ्यमानायामुच्चशब्दो महाशब्दो निश्चरति, एवमेव मे भिक्षवो मुखनासिकाभ्यामाश्वासप्रश्वासावुपरुद्धावभूतां श्रोतछिद्राभ्यामुच्चशब्दो महाशब्दो निश्चरति स्म //

तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूय आस्फानकं ध्यानं ध्यायेयमिति / ततो मे भिक्षवो मुखनासिकाश्रोत्राण्युपरुद्धानि चाभूवन् / तेषूपरुद्धेषु वायुरुर्ध्वं शिरःकपालमुपनिहन्ति स्म / तद्यथापि नाम भिक्षवः पुरुषः कुण्डया शक्त्या शिरःकपालमुपहन्याद्, एवमेव मे भिक्षवो मुखनासिकाश्रोत्रेषूपरुद्धेषु आश्वासप्रश्वासा उर्ध्वं शिरःकपालमुपनिघ्नन्ति स्म //

तां चावस्थां दृष्ट्वा बोधिसत्त्वस्य तत्र केचिद्देवा एवमाहु - कष्टं भोः कालगतो बतायं सिद्धार्थः कुमारः / अपरे एवमाहुः - नायं कालगतः / अपि तुध्यानविहार एषो ऽर्हतामेवंविध इति / तस्यां च वेलायमिमां गाथामभाषन्त -

मा खल्वयं शाक्यनरेन्द्रगर्भो ह्यपूर्णसंकल्प इहैव रण्ये / कृत्वा त्रिलोकं दुखितं ह्यनाथं कालं करिष्यत्यकृतार्थ एव // lal_17.1 //

हा सत्त्वसारा सदृढप्रतिज्ञा सद्धर्मयज्ञेन निमन्त्रिताभूत् / वयं पुरा ते तुषितेषु नाथा क्व सा प्रतिज्ञा तव शुद्धसत्त्व // lal_17.2 //

अथ ते देवपुत्रास्त्रायत्रिंशेषु देवेषु गत्वा मायादेव्या एवमर्थं श्रावयन्ति - कालगतः कुमारः / अथ मायादेवी अप्सरागणपरिवृता अर्धरात्रसमये नैरञ्जनायास्तीरे येन बोधिसत्त्वस्तेनोपसंक्रान्ता / सा पश्यति स्म बोधिसत्त्वं शुष्कगात्रम् / कालगतमिव दृष्ट्वा बाष्पगद्गदकण्ठा रोदितुमारब्धा / तस्यां च वेलायामिमां गाथामभाषत -

यदा जातो ऽसि मे पुत्र वने लुम्बिनिसाह्वये / सिंहवच्चागृहीतस्त्वं प्रक्रान्तः सप्त पदा स्वयम् // lal_17.3 //

दिशां चालोक्य चतुरे वाचा ते प्रव्याहृता शुभा / इयं मे पश्चिमा जातिः सा ते न परिपूरिता // lal_17.4 //

असितेनाभिनिर्दिष्टो बुद्धो लोके भविष्यसि / क्षुण्णं व्याकरणं तस्य न दृष्टा तेन नित्यता // lal_17.5 //

चक्रवर्तिश्रियं पुत्र नपि भुक्ता मनोरमा / न च बोधिमनुप्राप्तो यातो ऽसि निधनं वने // lal_17.6 //

पुत्रार्थे कं प्रपद्यामि कं व क्रन्दामि दुःखिता / को मे दद्येकपुत्रस्य किंचित्प्राणस्य जीवितम् // lal_17.7 //

बोधिसत्त्व आह -

कैषा अति त्वां करुणं रुदासि प्रकीर्णकेशा विनिवृत्तशोभा / पुत्रं ह्यतीवा परिदेवयन्ती विचेष्टमाना धरणीतलस्था // lal_17.8 //

मायादेवी आह -

मया तु दशमासां वै कुक्षौ वज्र इवा धृतः / सा ते ऽहं पुत्रका माता विलपामि सुदुःखिता // lal_17.9 //

अथ बोधिसत्त्व आश्वासयन्नुवाच - न भेतव्यं पुत्रलालसे, श्रमं ते सफलं करिष्यसि / अमोघं बुद्धपरित्यागम् / असितनिर्देशं च व्यक्तं करिष्यामि / दीपंकरस्य व्याकरणं व्यक्तीकरिष्यामि च /

अपि शतधा वसुधा विकीर्येत मेरुः प्लवे चाम्भसि रत्नशृङ्गः / चन्द्रार्कतारागण भू पतेत पृथजनो नैव अहं म्रियेयम् / यस्मान्न शोको त्वयि अत्र कार्यो न वै चिराद् द्रक्ष्यसि बुद्धबोधिम् // lal_17.10 //

सहश्रवणादेव देवी माया संप्रहर्षितरोमकूपजाता बोधिसत्त्वं मान्दारवपुष्पैरभ्यवकिर्य त्रिप्रदक्षिणीकृत्वा दिव्यतूर्यैः संप्रवाद्यमानैर्येन स्वभवनं तेनोपजगाम //

तस्य मे भिक्षव एतदभूत् - सन्त्येके श्रमणब्राह्मणा ये अल्पाहारतया शुद्धिं मन्यन्ते / यन्न्वहमल्पाहारतया प्रतिपद्येयमिति / अभिजानाम्यहं भिक्षव एकमेवाद्वितीयं कोलमाहारमाहर्तुम् / स्यात्खलु पुनर्भिक्षवो युष्माकं एषा बुद्धिः - महत्तरं तत्र काले कोलमासीदिति / न खल्वेवं द्रष्टव्यम् / अथ खल्वियदेव तत्र काले कोलमभूत् / तस्य मे भिक्षव एकमेव कोलमाहारमाहरतो ऽद्वितीयं कायो ऽत्यर्थं कर्शितो ऽभूद्दुर्बलः / तद्यथापि नाम भिक्षव आसीतकीपर्वाणि वा कालापर्वाणि वा, एवमेव मे ऽङ्गप्रत्यङ्गान्यभूवन् / तद्यथापि नाम कर्कटपार्शुका, एवमेव मे पार्शुका अभूवन् / तद्यथापि नाम वाहनकारशालायां वा हस्तिशालायां वा जीर्णायामुभयतो विवृतायां गोपानस्यान्तरिकाश्च विराजन्ते व्यवभासन्ते, एवमेव मे पार्शुका अन्तःकाये उभयतो विराजन्ते स्म व्यवभासन्ते स्म / तद्यथापि नाम वर्तन्या वेणी उन्नतावनता भवति समविषमा, एवं मे पृष्ठीकण्टको ऽभूदुन्नतावनतः समविषमः / तद्यथा तिक्तकालाबुस्तरुणो लून आम्लानो भवति संम्लानः समुत्पुटकजातः एवमेव शिर आम्लानमभूत्संम्लानं समुत्पुटकजातम् / तद्यथापि नाम ग्रीष्माणां पश्चिमे मासे कूपतारका दूरगता भवन्ति, कृच्छ्रेण संप्रकाश्यन्ते, एवमेव मे ऽक्षितारकौ दुरगतावभूतां कृच्छ्रेण संप्रकाश्येते स्म / तद्यथापि नामाजपदं वोष्ट्रपदं वा, एवमेव मे कक्षाकुक्षिवक्षादीन्यभूवन् / ततो यदाहं भिक्षवः पाणिना कुक्षिं स्पृशामीति पृष्ठिकण्टकमेवास्प्राक्षम् / उत्तिष्ठामीति चाभिसंस्कुर्वंस्तथैवावकुब्जः प्रयामेण प्रापतम् / ततः कृच्छ्रेणोत्थितो ऽपि पांशुकृतानि गात्राणि पाणिना प्रमृजतो मे पूतिरोमाणि कायाच्छीर्यन्ते स्म / यापि मे ऽभूत्पौराणी शुभवर्णतनुः साप्यन्तरधाद्यथापीदं रूक्षप्रधानं प्रहितात्मनः / सामन्ताश्च मे गोचरग्रामवासिन एवं संजानन्ते स्म - कालको बत भोः श्रमणो गौतमः / श्यामको बत भोः श्रमणो गौतमः / मद्गुरच्छविर्बत भोः श्रमणो गौतमः / याप्यस्याभूत्पौराणी शुभवर्णा निभा, साप्यन्तर्हिता //

तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूयस्या मात्रयाल्पाहारतया प्रतिपद्येयमिति / अभिजानाम्यहं भिक्षव एकमेव तण्डुलमद्वितीयमाहारमाहर्तुम् / स्याद्भिक्षवो युष्माकमेवं महत्तरं तण्डुलं तस्मिन् काले ऽभूदिति / न खल्वेवं द्रष्टव्यम् / अथैतावानेव तस्मिन् काले तण्डुलो ऽभूत् / तस्य मे भिक्षव एकं तण्डुलमाहरतः क्षिप्रं कायो ऽभूदिति पूर्ववद्यावन्मद्गुरच्छविर्बत भोः श्रमणो गौतम इति / याप्यस्य साभूत्पौराणी शुभवर्णतनुः साप्यन्तर्हितेति //

तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूयस्या मात्रयाल्पाहारतायै प्रतिपद्येयमिति / अभिजानाम्यहं भिक्षव एकमेव तिलमद्वितीयमाहारमाहारयितुम् / पेयालं / यावत्साप्यस्य शुभवर्णतनुरन्तर्हितेति //

तस्य मे भिक्षव एतदभूत् - सन्त्येके श्रमणब्राह्मणा ये ऽनाहारतया शुद्धिं मन्यन्ते / यन्न्वहं सर्वेण सर्वमनाहारतायै प्रतिपद्येयमिति / ततो ऽहं भिक्षवो ऽनाहारस्थितो ऽभूवन् / तस्य मे भिक्षवो ऽनाहारस्य कायो ऽतीव शुष्को ऽभूत् कृशो दुर्बलः, तद्यथापि नाम आसितकीपर्वाणि वा कालापर्वाणि वा / ततो द्विगुणत्रिगुणचतुर्गुणपञ्चगुणदशगुणं मे कृशान्यङ्गप्रत्यङ्गान्यभूवन् / तद्यथा कर्कटकपार्शुका वाहनशालायां वा गोपानसी (पार्श्वे) द्विपरिवर्तना वेणीवत्पृष्ठीकण्टकः / तिक्तालाबुवच्छिरःकपालम्, कूपतारका इवाक्षितारके / सो ऽहं भिक्षवः साधुकमुत्तिष्ठामीति गात्राण्यभिसंस्कुर्वन्नवकुब्जः प्रापतम् / कृच्छ्रेणापि चोत्थितः पांशुकृतानि मे गात्राणि प्रमृजतः पूतिमूलानि रोमाण्यशीर्यन्त / यापि मे साभूच्छुभवर्णतनुनिभा, साप्यन्तरधात् / तद्यथापि तद्रूक्षप्रधानप्रहितात्मकत्वात् / सामन्ताश्च मे गोचरग्रामवासिनो जना एवं संजानन्ते स्म - कालको बत भोः श्रमणो गौतमः / श्यामको बत भोः श्रमणो गौतमः / मद्गुरच्छविर्बत भोः श्रमणो गौतमः / याप्यस्य साभूत्पौराणी शुभवर्णनिभा साप्यन्तर्हितेति //

राजापि तदा शुद्धोदनः प्रतिप्रतिदिवसं बोधिसत्त्वस्यान्तिके दूतं प्रेषयति स्म //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.