Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

खसर्पणसाधन

Thông tin
GRETIL — Frederick William Thomas: "Deux collections sanscrites et tibétaines", in: Muséon 4.1 (1903), pp. 1-42.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

खसर्पणसाधन

(khs_11)

// नमः श्रीखसर्पणाय //

इह शुभङ्करनामा उपासकः शुभकर्मकारी करुणायमानः स किल पोतलकगमनोद्यतः / गच्छन् खाडीमण्डले खसर्पणनामा ग्रामो ऽस्ति तत्रोषितः / तस्य तु भगवतार्यावलोकित्श्वरेण प्रत्यादेचो दत्तः / मा गच्छ त्वम् इहास्मान् वैरोचनाभिसंबोधितन्त्रराजक्रमेण स्थापय तेन महान् सत्वार्थो भविष्यति / ततो ऽसौ भगवन्तं शीघ्रम् एव कारितवान् / इत्य् एषा श्रुतिः / तत्र भगवतः साधनाय दृऋष्टिसंपत्तिः क्रियते / तथा हि

वरं भिक्षोः शीलविपत्तिर् न पुनर् दृष्टिविपत्तिर् इति / अतस् तत्र तावत् क्षणिकान् निरात्मकान् सर्वधर्मान् व्यवलोक्य व्यपगतसकलविकल्पः कृपाशयो ऽहो वतामी सत्वाः क्लेशकर्मादिभिर् उपद्रुताः / ततो जातिजरामरणदुःखैर् (khs_12) अतीव पीड्यमानाः सन्तो ऽनेकप्रकारदुःखम् अनुभवन्ति / ततो ऽहं लोकेश्वरो भूत्वा तेषां दुःखाद्य् अपनयामि / सर्वज्ञज्ञाने प्रतिष्ठापयामि / इत्य् एवं प्रतिज्ञाशयं कृत्वा स्वहृदि पंकारजसहश्रदलपद्मवराटकमध्ये अकारजचन्द्रमण्डलोपरि आं तां सुं भृं हं इति पञ्च बीजानि विन्यस्य / एतद्रश्मिमालाभिः सञ्चोद्यानीय तान् गुरुबुद्धबोधिसत्वान् गगनतले पुरोवर्तिनः कृत्वा वन्दनापूजापापदेचनात्रिसरणगमनादिसप्तविधां पूजाम् एकदशधां वा कृत्वा मैत्रीकरुणादिचतुर्ब्रह्मविहारी भावनां कुर्यात् ततः शून्यताज्ञानवज्रस्वभावात्मको ऽहम् इत्य् उच्चार्य शून्यताबोधिम् कृत्वा भगवान् अवलोकितेश्वरो योगिनात्मना भूयते / स च शरच्चन्द्रगौरः / जटामकुटी शिरसि अमिताभधारी सर्वालङ्कारबूषितः / रत्नसिंहासनोपरि सहस्रदलपद्मस्थः / ललिताक्षेपः द्विभुजैकमुखः / वामेन पद्मधारी / दक्षिणेनामृतधाराश्रवद्वरदः / सत्वपर्यङ्कासीनः / अग्रतस् तारा कनकश्यामवर्णा / उन्नतपीनपयोधरा / सर्वालङ्कारभूषिता / उत्पलकलिकासन्नकरद्वयार्पितनेत्रा / तदनु सधनकुमारह् / कनकोज्ज्वलः / रत्नाभरणो रत्नमुकुटी वामकक्षावसक्तमलिकः / कृताञ्जलिपुटः / तदनु भृकुटी जटामुकुटिनी / मूर्ध्नि चैत्यालङ्कृता / कनकोज्ज्वला / रक्तवस्त्रपरिधाना / दक्षिणहस्तेन नमस्कारं कुर्वाणा / अपरेणाक्षमालाधरा / वामकराभ्यां

त्रिदण्डीकमण्डलुव्यग्रा / तदनु हयग्रीवो ज्वलद्भासुरः पिङ्गलोर्ध्वकेशः / नागाभरणो रक्तवर्णः / लम्बोदरो व्याघ्रचर्माम्बरः / दण्डहस्तः / एवं पञ्चात्मको भगवान् भावनीयः / सपरिवारः / पूजयितव्यो ऽप्य् एवंविधः / ततः कृतमण्डले / तत्रादौ मण्डलं कृत्वा रक्षां कुर्यात् / (khs_13) ओं मणिधरि वज्रिणि रक्ष ओ मां हूं फट् स्वाहा //

ओं वज्ररेखे हूं मण्डलमन्त्रः // ओं आगच्छ भगवन् मण्डलकसिंहासने ओं आः इति मन्त्रकृताध्येषाणायां कृतमण्डलमध्यसिंहासनोपरि सहस्रदलपद्मस्थपञ्चात्मकम् पूजयेद् इति / तत्र पूजामन्त्रः / ओं वज्रपुष्पे हूं / ओं वज्रधूपे हूं / ओं वज्रगन्धे हूं / ओं वज्रालोके हूं / ओं वज्राहारे हूं / इति संपूज्य संस्तुत्य मन्त्रजापम् कुर्यात् / ओं सर्वतथागतपूजामेघप्रसरसमूहे हूं / पूजाधिष्ठानमन्त्रः // ओं आं तां सुं भृं हं फट् स्वाहा // ओं सर्वतथागतसुललितनमितैर् नमामि भगवन्तं जः हूं वं होः प्रतीच्छ कुसुमाञ्जलिर् नाथ होः / इति वन्दनामन्त्रः / ओं मुः स्वाहा इति विसर्जनमन्त्रः / ओं ख ख ख हि / गृह्ण गृह्ण गृह्ण न्तु सर्वभौतिका इमं बलिं स्वाहा / इति बलिमन्त्रः / अथ पूजारम्भकाले एवम् उच्चार्य चित्तं शोधनीयं / यत् सर्वदुश्चरितेभ्यो विरतिं करोमि / सर्वबुद्धबोधिसत्वशिक्षां शिक्षिष्ये / यावत् पूजाविधेन समन्वयामि / यद्य् एवं न क्रियते / तदा रागजं द्वेषजं मोहजं कुशलमूलं स्यात् / इह सर्व एव सत्वा रागद्वेषमोहाशयाः // तथा हि

रागजकुशलमूलेन नन्दोपनन्दौ नागराजानौ द्वेषजेन रागेण मोहजेन वैश्रवणो यक्षो भूतः /

इत्य् अतो रागद्वेषमोहादीन् परिहृत्य चित्तशुद्ध्या करुणायमानचित्तेन सर्वाण्य् एव दानादिकुशलमूलानि कर्तव्यानि /

इति खसर्पणसाधनं समाप्तं // शुभंकरेण रचितं

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.