Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

कल्पद्रुमावदानमाला

Thông tin
GRETIL — Vaidya: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कल्पद्रुमावदानमाला

कल्पद्रुमावदानमालायां 10 सुभूत्यवदानम्* ॥

अथाशोको महाराजः सर्वशोकविनोदितः उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटो ऽवदत्* // KDA_1

भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितम्* यद् उक्तं शाक्यसिंहेन तन् मे गदितुम् अर्हसि // KDA_2

इति पृष्टो नृपेणासाव् उपगुप्तो यतीश्वरः पर्षदं च समालोक्य संबभाष सुभाषितम्* // KDA_3

शृणु राजन् महाबाहो सर्वलोकहितार्थतः सुभूतेर् अवदानं यत् तत् प्रवक्ष्ये यथाश्रुतम्* // KDA_4

पुरा श्रीभगवान् बुद्धो धर्मराजस् तथागतः विद्याचरणसंपन्नः सुगतो लोकविज्जिनः // KDA_5

शास्ता देवमनुष्याणां सम्यक्संबोधिदेशकः सत्कृतो मानितः सत्वैर् गुरुकृतश् च पूजितः // KDA_6

राजभी राजमात्रैश् च धनिभिः पुरवासिभिः श्रेष्ठिभिः सार्थवाहैश् च नानादेशसमागतैः // KDA_7

देवासुरमहानागैर् यक्षगन्धर्वकिन्नरैः गुरुडैश् च महासर्पैस् तथान्यसत्वजातिकैः // KDA_8

सुसंज्ञातो महापुण्यो लाभी चीवरवाससाम्* पिण्डपातासनादीनां शय्यादीनां तथैव च // KDA_9

औषधादिपरिष्कारवस्तूनां सर्वतः सदा सार्धं सश्रावकैः संघैर् भिक्षुभिश् च जितेन्द्रियैः // KDA_10

भिक्षुण्युपासिकाभिश् च चेलकोपासकैस् तथा बोधिसत्वमहासत्वैः सत्वार्थबोधिवाञ्छिभिः // KDA_11

श्रावस्त्यां राजधान्यां वै जेतवने मनोरमे विहारे व्यहरद् धर्मं देशयञ् छुभयस् सदा // KDA_12

तदा भगवता सत्वविनयानुग्रहार्थिना आमन्त्र्य भिक्षवः सर्वे सम्यगाज्ञापिता इति // KDA_13

गच्छत भिक्षवो यूयं सत्वानां विनयार्थतः देशान् प्रत्यभिगच्छन्तः प्रकाशयत संवृतिम्* // KDA_14

तथेत्य् एव प्रतिश्रुत्य शास्तुः पादौ प्रणम्य च श्रावका भिक्षवश् चैव प्रतस्थुस् ते नियोगिनः // KDA_15

गुरो आज्ञां वहन्तस् ते केचित् प्राचीं दिशं गताः देशयन्ति स्म सद्धर्मं प्रतिदेशानुपास्थिताः // KDA_16

दक्षिणस्यां तथा केचित् केचिच् च पश्चिमां दिशम्* तथोत्तरां दिशं गत्वा विदिक्षु चापि सर्वतः // KDA_17

तेषां ध्यानरता ये वै ते विविक्तसुखैषिणः मेरोर् उपरिषण्डायाम् अध्यूषुर् ध्यानतत्पराः // KDA_18

तदाब्धेर् गरुडेनैको नागपोतः समुद्धृतः तम् आश्रमम् उपानीय भक्षितुम् उपचक्रमे // KDA_19

तत्रस्थास् तेन नागेन भिक्षवो ध्यानसंरताः दृष्ट्वैव सुप्रसन्नेन मनसा प्रणिधिर् दधे // KDA_20

धन्यास् ते भिक्षवो ह्य् एते सद्धर्मसुखचारिणः अहम् अपि च भूयासं तादृग्धर्मसमाहितः // KDA_21

इति प्रणिधिं कुर्वाणो जीविताद् व्यवरोपितः तत्रैव गरुडेनैवं भक्षितो ऽभूत् स नागकः // KDA_22

ततः कालगतस् तत्र श्रावस्त्यां पुरि + + + भूतिनाम्ना द्विजस्यासौ भार्याया गर्भम् आविशत्* // KDA_23

ततश् च क्रमतस् तस्या गर्भः समनुवर्धितः ततस् तत्समये प्राप्ते दारकः समजायत // KDA_24

ततः पिता च तं दृष्टा दारकं संप्रसादिकम्* दर्शनीयं सुभद्राङ्गं मुहुः पश्यन्न् अनन्द सः // KDA_25

ततो जातिमहं कृत्वा ज्ञानीनाहूय चादरात्* भवन्तो ऽस्य नु किं नाम क्रियताम् इति सो ऽब्रवीत्* // KDA_26

ज्ञातयो ऽपि तथा श्रुत्वा दृष्ट्वा चैनं च बालकम्* सर्वे हर्षसमापन्ना भूतिं तम् अब्रुवंस् तथा // KDA_27

यस्माद् भूतेर् अयं पुत्रं सुजातो लक्षणान्वितः तस्मात् सुभूतिर् इत्य् एव नाम्ना भवतु विश्रुतः // KDA_28

तथा क्रमाद् विवृद्धो ऽसौ सुभूतिर् बालसुन्दरः कुमारत्वं क्रमात् प्राप्तो रराम स वयोन्वितः // KDA_29

पूर्वकर्मबलाधानात् क्रोधनः क्रूरभाषणः किंचिन् निमित्तसंरुष्टो विग्रहे निरतो ऽभवत् // KDA_30

परुषीभूतचित्तत्वान् न तस्य को ऽप्य् अभूत् सुहृत्* सर्वज्ञातिविरुद्धत्वात् पितृभ्याम् अप्य् उपेक्षितः // KDA_31

बन्धुभिश् च परित्यक्तो नैव कस्याप्य् अभूत् प्रियः विश्रम्भप्रणयं तस्मिन् नैव कश्चिद् अभाषत // KDA_32

स्थातुं गन्तुं तथा भोक्तुं शयितुं वाभिलापितुम्* तेनैव क्रोधिना सार्धं समुत्सेहुर् न केचन // KDA_33

तदा पित्रा नियुक्तो ऽसौ लिपिशालाम् उपागमत्* सुभूतिश् च गुरुं नत्वा लिपिम् अन्वग्रहीत् क्रमात्* // KDA_34

ततो व्याकरणादीनि सर्वशास्त्राण्य् अनुक्रमात्* सो ऽधीत्यैषां सुशीघ्रेण पारं प्राप सुबुद्धिमान्* // KDA_35

तथा वेदान् अधीत्यैवं साङ्गोपाङ्गान् यथाक्रमम्* अथर्वम् अप्य् अधीतुं स प्रारभत् तीक्ष्णमानसः // KDA_36

तत्र पिता द्विजो भूतिर् अथर्वाधीतसंरतम्* सुभूतिं स्वात्मजं पुत्रं दृष्ट्वैवं समचिन्तयत्* // KDA_37

सुभूतिर् मम पुत्रो ऽयम् अग्निकल्पः सुतीक्ष्णधीः कदाचित् कुपितो रोषाल् लोके ऽनर्थं करिष्यति // KDA_38

तद् अन्वाहरितव्यो ऽयम् आथर्वणात् प्रयत्नतः ऋषिषु प्रेषयित्वैनं योजयिष्ये च संयमे // KDA_39

इति मत्वा पिता भूतिः सुभूतिं स्वात्मजं तथा आथर्वणाद् विनिर्हृत्य प्रबोधयंस् तम् अब्रवीत्* // KDA_40

शृणु पुत्र मया प्रोक्तं हितार्थं तव संमतम्* त्वं हि विद्वान् महाविज्ञः सर्वशास्त्राङ्गपारगः // KDA_41

किं तवाथर्ववेदेन मायाक्लेशार्थसाधिना विरम्य तदधिष्ठानाद् ऋषिचर्यां समाचर // KDA_42

मुनीनाम् उपदेशानि प्रतिलभ्य जितेन्द्रियः शान्तात्मा सुखम् आस्थाय चरस्व व्रतम् उत्तमम्* // KDA_43

धन्यास् ते वीतरागा ये गुरुभक्ताश् च निर्मदाः विविक्तारण्यवासेषु वसन्ति ध्यायिनः सदा // KDA_44

ये ऽपि परिग्रहांस् त्यक्त्वा भवन्ति ब्रह्मचारिणः देवानाम् अपि ते मान्या वन्दनीयाः सदा खलु // KDA_45

ये प्रव्रज्यां समागृह्य शान्तात्मानो जितेन्द्रियाः अवसन्ति पुण्यतीर्थेषु ते ऽपि हि परमर्षयः // KDA_46

कामभोग्यानि ये हित्वा साधयन्ते तपोवने फलमूलोदकैस् तुष्टास् ते ऽपि धन्या द्विजोत्तमाः // KDA_47

ये ऽपि क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः भिक्षाशिनः समाधिस्थास् ते हि ब्रह्मविदां वराः // KDA_48

ये चापरिग्रहीतारो निर्लोभाः सत्यवादिनः निर्मदा निरहंकारास् त एव ब्राह्मणोत्तमाः // KDA_49

यस्य दातुं मनो नास्ति मत्सराक्रान्तचेतसः वेदशास्त्रागमैस् तस्य किम् एव स्वात्मपोषिणः // KDA_50

यस्य चित्तं ह्य् अविशुद्धं शीलसंवरवर्जितम्* किं भाति मुनिवेषेण स नटर्षिर् इवोन्मदः // KDA_51

यस्य लोके दया नास्ति बालवृद्धादिदुःखिते किं तस्य ब्रह्मवृत्तेन चित्ते{न} परिमोहिते // KDA_52

यस्य न कुशलोत्साहं चित्ते लोकार्थं साधितुम्* तस्य किं तपसा सिद्धे केवलं पापहेतुभिः // KDA_53

यस्य चित्तं प्रविक्षिप्तं क्लेशाद् यैर् असमाहितम्* स किं गुहानिविष्टो ऽपि न साधुर् दुष्टजन्तुवत्* // KDA_54

यस्य प्रज्ञा विशुद्धा न सद्धर्मगुणसाधने तस्य किं ब्रह्मचर्येण केवलं दुःखहेतुना // KDA_55

यश् च दाता विशुद्धात्मा सर्वसत्वान् उपालकः नीचो ऽपि स द्विजकल्पो यतो दाता प्रजापतिः // KDA_56

येन संरक्षितं नित्यं शीलं संयमसंवृत्तम्* स एव ब्राह्मणः शुद्धः श्रोत्रियो वेदनान् यतिः // KDA_57

यस्य चित्तं दयाशूलं सर्वसत्वहितेषितम्* चण्डालो ऽपि स विप्रः स्याल् लोकेशो हि क्षमाकरः // KDA_58

येनैव दुष्करं कर्म साधितं सत्वहेतुना स एव ब्राह्मणो धीरो विश्वकर्मा यतो विधिः // KDA_59

यस्य चित्तं सदा सत्वहितार्थेषु समाधितम्* स हि विप्रो महाभिज्ञो ब्रह्मा ज्ञानरतो यतः // KDA_60

यस्य प्रज्ञा जगल्लोकहितानुशासनोज्ज्वला सैव द्विजवरो विज्ञो वेदधर्मास्थितो द्विजः // KDA_61

येनैव निर्जिताः क्लेशाश् चतुर्ब्रह्मविहारिणा स्वचित्ते भावितं ब्रह्म स एव ब्राह्मणोत्तमः // KDA_62

तस्मात् पुत्र मया प्रोक्तं श्रुत्वा लोकहितोत्सुकः सर्वक्लेशान् विनिर्जित्य सद्धर्माभिरतो भव // KDA_63

इति पितुर् वचः श्रुत्वा सुभूतिः सो ऽनुमोदितः कृताञ्जलिस् तथा नत्वा पितरम् इत्य् अभाषत // KDA_64

तथा सत्यं मनस् तात रोचते तपसे मम तद् आज्ञां देहि मे तात चरिष्ये ब्रह्मसद्व्रतम्* // KDA_65

तेनैवं प्रार्थ्यमानो ऽसौ सुभूतिना पिता ततः परिष्वज्यात्मजं पुत्रं पुनर् अप्य् अब्रवीन् मुदा // KDA_66

एवं चेत् तव वाञ्छास्ति पुत्र ब्रह्मसुसाधनैः चर ब्रह्मव्रतं सम्यग्धीरचित्तसमाहितः // KDA_67

आदौ क्रोधरिपुं जित्वा दुष्टभारान् विनिर्जय यावत् क्रोधम् अनिर्जित्य दुष्टाञ्जेतुं न शक्नुयाः // KDA_68

यावद् दुष्टान् अनिर्जित्य धर्मे स्थातुं न शक्नुयाः असुसंस्थितधर्माणं हन्युर् मारा हि सर्वथा // KDA_69

तस्माद् वाञ्छति यो ब्रह्म तेनादौ चित्तकोटरात्* विनिःकृष्य प्रयत्नेन हन्तव्यः क्रोधपन्नगः // KDA_70

क्रोधो हि वसते यस्य चित्ते मानमदाकुले तावत् सद्गुणयुक्तो ऽपि सेव्यते नैव सज्जनैः // KDA_71

तस्मात् सर्वप्रयत्नेन क्रोधजिष्णुः समाहितः प्रव्रज्यां समुपासिश्रित्य चर ब्राह्मण्यम् आदरात्* // KDA_72

तथेत्य् असौ प्रतिश्रुत्य सुभूतिः संप्रमोदितः सहसा पितरौ नत्वा मुनीनाम् आश्रमं ययौ // KDA_73

तत्र प्राप्तो मुनीन् नत्वा कृताञ्जलिपुटो मुदा ब्राह्मण्यसंवरं प्राप्तुं प्रव्रज्यां समयाचत // KDA_74

गुरो ब्रह्मविदां श्रेष्ठ कल्याणवर्त्मदेशक प्रव्रज्यां देहि मे सत्यं चरेयं भवमुक्तये // KDA_75

इति तस्य वचः श्रुत्वा गुरुर् ब्रह्मविदां वरः एहि वत्स चर ब्रह्मचर्यं जित्वा षड् इन्द्रियम्* // KDA_76

इत्य् उक्तो गुरुणा सो ऽभूत् सुभूतिर् मुनिवेषभृत्* ब्रह्मविहारसंपन्नो विनीतः श्रद्धयान्वितः // KDA_77

तथापि दैवसामर्थ्यात् क्रोधसंरक्तमानसः किंचिन् निमित्तमात्रे ऽपि विग्रहवान् असंयतः // KDA_78

वेदसिद्धान्तशास्त्रेषु विवादी क्रोधबाहुलः अतीव रोषसंक्रुष्टो विचिक्षेप यतीन् अपि // KDA_79

धर्मार्थकाममोक्षेषु निरपेक्षः सुतीक्ष्णवाक्* सर्वत्र मुनिभिश् चापि विजग्राहासमाहितः // KDA_80

इत्य् एनं क्रोधसंरक्तं वेदसिद्धान्तमानिनम्* सुभूतिं ब्राह्मणं दृष्ट्वा गुरुश् चैवम् अचिन्तयत्* // KDA_81

अहो दैवबलाधानात् सुभूतिर् ब्राह्मणो ऽप्य् अयम्* स्वसिद्धान्तसमानो ऽद्य क्रूरवाग्विग्रहोत्सुकः // KDA_82

अग्निकल्पो महातीक्ष्णः सर्वशास्त्रार्थकोविदः विशारदो महाभिज्ञो धर्मसंयमतत्परः // KDA_83

तपश् चरणसंरक्तस् तीक्ष्णबुद्धिः कृतोद्यमः महोत्साहो महावीरः सिद्धविद्यो महोत्कटः // KDA_84

सर्वशास्त्रकलाभिज्ञो मन्त्रसिद्धिप्रयोगवित्* वेदसिद्धान्तयोगानां पारगश् च महासुधीः // KDA_85

किं तु क्रोधाविशुद्धात्मा विग्रही वादसंरतः किंचिन् निमित्तमात्रे ऽपि विक्रुष्टो ऽथ रुषाशयः // KDA_86

कदाचित् कुपितो रुष्टेः संक्लेशाधीरचेतनः शापाशनिप्रहारेण लोके ऽनर्थं करिष्यति // KDA_87

तद् अहं संप्रबोध्यैनं सुभूतिं द्विजसत्तमम्* समाधिध्यानवर्यासु योजयेयं स सर्वथा // KDA_88

इति मत्वा गुरुश् चैनं सुभूतिं समबोधयत्* शृणु वत्स हितं वक्ष्ये तत्र भव समाहितः // KDA_89

सर्ववर्णाग्रजो विप्रः सर्वजातिवरोत्तमः ब्राह्मणो ऽस्मीत्य् अहंकारो न कर्तव्यः कदाचन // KDA_90

न जीवो ब्राह्मणस् तावद् यस्मात् संस्कारतो द्विजः जीवश् चेद् ब्राह्मणस् तावद् वृथा स्याद् धर्मसंस्कृतैः // KDA_91

आद्यन्ते पशवो देवा इति वेदे ऽपि कथ्यते ततो धर्माभिसंस्कारैः सर्वे स्युर् मानवा द्विजाः // KDA_92

श्वपचा अपि धर्मस्थाः संस्कृताः स्युर् द्विजाधमाः गुणधर्मानुसारैश् च देवा दैत्याश् च मानुषाः // KDA_93

सत्वधर्मधरा देवा रजोधर्मधरा नराः तमोधर्मधरा दैत्या इति सिद्धान्तसंमतम्* // KDA_94

इति धर्मगुणाधानात् त्रैधातुकभवालये चतुर्योनिसमुद्भूताः षड्गतिषु भ्रमन्ति ते // KDA_95

तत्रापि कर्मभेदेन जातिभेदा ह्य् अनेकशः जातिष्व् अपि च सर्वासु स्वकर्मपरिणामतः // KDA_96

सत्वा नैकविधा जाता अधमोत्तमम् अध्यमाः ये सत्वास् तामसा रौद्रा हिंसाकर्मानुसंरताः ते ऽधोभुवनसंजाता वसन्ति क्लेशभागिनः // KDA_97

रजोधर्मरता ये हि रागचर्यानुसारिणः ते सत्वा भूमिसंजाता वसन्ति मानुषादयः // KDA_98

सत्वधर्मरता ये तु सात्विकाः शान्तचारिणः ते देवा निर्मलानन्दा वसन्ति स्वर्गतिं गताः // KDA_99

तथैते सर्वसत्वाश् च गुणधर्मानुसारतः स्वकृतं कर्म भुञ्जन्तो भ्राम्यन्ति त्रिभवालये // KDA_100

वृद्धिं प्राप्य गुणाश् चेत्थम् एकैकं गुणवृद्धितः + + + + + + + + + + + + + + + + + // KDA_101

आकाशस्य गुणश् चैकः शब्द एव न चापरः शब्दस्पर्शौ च वायोर् वै द्वौ गुणौ परिकीर्तितौ // KDA_102

अग्नेः शब्दश् च स्पर्शश् च रूपम् एव त्रयो गुणाः शब्दस्पर्शरूपरसाश् चत्वार्य् एव समीरणे // KDA_103

स्पर्शः शब्दो रसो रूपं गन्धश् च पृथिवीगुणाः एवं मिलितयोगैश् च ब्रह्माणोत्पत्तिर् उच्यते // KDA_104

सर्वे जीवा मिलित्वैव ब्रह्माणांश् च समुद्भवाः चतुरशीति लक्षाश् च प्रोक्ता वै जीवजातयः // KDA_105

धर्मतः सुखिनो भूताः पापतो दुःखभागिनः मिश्रतो मिश्रभुक्तार इत्य् उक्तम् अवदानिकैः // KDA_106

भारते ऽपि तथा प्रोक्तम् ऋषिभिः कर्मवादिभिः सप्त व्याधा दशारण्ये मृगाः कालिञ्जरे गिरौ // KDA_107

चक्रवाकौ शरद्वीपे हंसाः सरसि मानसे ते ऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः // KDA_108

उक्तं च मानवे धर्मे मुनिना मुनिना + + मिथ्याजीवेन जीवन् यः पतितो ब्राह्मणो ह्य् असौ // KDA_109

वृषलीफेनपीतस्य निःश्वासोपहतस्य च तयैव सहसुप्तस्य निष्कृतिर् नोपलभ्यते // KDA_110

शूद्रीहस्तेन यो भुञ्क्ते मासम् एकं निरन्तरम्* जीवमानो भवेच् छूद्रो मृतश् च स प्रजायते // KDA_111

अधीत्य चतुरो वेदान् साङ्गोपाङ्गांश् च तत्वतः शूद्रात् प्रतिग्रहग्राही ब्राह्मणो जायते खरः // KDA_112

खरो द्वादश जन्मानि षष्टि जन्मानि सूकरः श्वानः सप्तति जन्मानि इत्य् एवं मनुर् अब्रवीत्* // KDA_113

तथोक्तम् अवदाने ऽपि बुद्धेनाद्वयवादिना ब्राह्मणो ऽदत्तम् आदाय बभूव वानराधिपः // KDA_114

तत्र स बुद्धनाथाय ददौ च पणसं मुदा ततश् च मानवो भूत्वा पांशुदाता ह्य् अभूच् छिशुः // KDA_115

तत्कर्मफलतो राजा सर्वानन्दो बभूव सः तत्रापि बुद्धनाथाय पिण्डपातं ददौ मुदा // KDA_116

तद्दीपंकरप्रसादेन बोधिसत्वो ऽभवन् नृपः सर्वपारमिताः पूर्य बुद्धो ऽपि स भविष्यति // KDA_117

इत्य् उक्तम् अवदाने ऽपि जिनेनाद्वयवादिना तस्माच् चैवं विजानीया न जीवो ब्राह्मणः खलु // KDA_118

जात्यापि ब्राह्मणो नैव संस्कृतस् तु द्विजो भवेत्* जात्या चेद् ब्राह्मणो भूतो वृथा स्यात् संस्कृतेर् विधिः // KDA_119

स्मृतौ हि तत् तथा प्रोक्तं ना जात्या धर्मतो द्विजः + + + + + + + + + + + + + + + + // KDA_120

धर्मसंस्कृतिवृत्तिस्थः श्वपचो ऽपि द्विजो भवेत्* तथा हि मानवे धर्मे मनुनाभिहितं खलु // KDA_121

अरणीगर्भसंभूतः कठिनाख्यो महामुनिः तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* // KDA_122

कैवर्तिगर्भसंभूतो व्यासो नाम महामुनिः तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* // KDA_123

उर्वशीगर्भसंभूतो वसिष्ठाख्यो महामुनिः तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* // KDA_124

हरिणीगर्भसंभूतो ऋष्यशृङ्गो महामुनिः तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* // KDA_125

चण्डालीगर्भसंभूतो विश्वामित्रो महामुनिः तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* // KDA_126

तण्डुलीगर्भसंभूतो नारदाख्यो महामुनिः तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* // KDA_127

एवम् अन्ये ऽपि सर्वे च ऋषयो ब्रह्मचारिणः तपसा ब्राह्मणा भूता ब्राह्मणीगर्भसंभवाः // KDA_128

धर्मसंस्कारतः सर्वे मानवा ब्राह्मणाः खलु धर्मवृत्तिप्रमाणेन सर्वे स्युर् ब्राह्मणा नराः // KDA_129

एकवर्णम् इदं सर्वं ब्रह्मसृष्टिसमुद्भवम्* धर्मकल्पविकल्पेन चातुर्वर्ण्यं प्रकल्पितम्* // KDA_130

सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः एकेन्द्रियक्रियार्थाश् च तस्माच् छीलगुणैर् द्विजाः // KDA_131

शूद्रो ऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत्* ब्राह्मणो ऽपि क्रियाहीनः शूद्रात् प्रत्यवरो भवेत्* // KDA_132

गुणैर् धर्मैस् तथा शीलैर् वर्णा ह्य् अनेकजातयः ब्रह्मजेषु हि सर्वेषु नरेषु किं विशेषता // KDA_133

यथा भस्मनि सौवर्णे विशेष उपलभ्यते ब्राह्मणे चान्यजातौ वा न विशेषो ऽस्ति वै तथा // KDA_134

यथा प्रकाशतमसोर् विशेष उपलभ्यते ब्राह्मणे चान्यजातौ वा विशेषो नैष विद्यते // KDA_134

न हि ब्राह्मण आकाशान् मरुतो वा समुद्भवः भित्वा वा पृथिवीं जातो जातवेदा यथारणेः // KDA_136

ब्राह्मणा योनितो जाताश् चण्डाला अपि योनितः श्रेष्ठत्वे वृषलत्वे च किं वास्ति भेदकारणम्* // KDA_137

ब्राह्मणो ऽपि मृतोत्सृष्टो जुगुप्स्यो ऽशुचिर् उच्यते वर्णास् सथव चाप्य् अन्ये का नु तत्र विशेषता // KDA_138

यथा सिंहादिजन्तूनां पदादिभेदलक्षणम्* देहसंस्थानलिङ्गैश् च नराणां किं विशेषता // KDA_139

यथा हंसमयूरादिपक्षिणां च विशेषता मुखादिवर्णशब्दैश् च नराणां नास्ति भेदता // KDA_140

यथा च कृमिकीटानां कायसंस्थानभेदता तथैव नरजातीनां नैवास्ति भेदलक्षणम्* // KDA_141

यथा भूरुहवृक्षाणां पत्राद्याकारभेदता तथा नास्ति मनुष्याणाम् आकृतेर् भेदलक्षणम्* // KDA_142

तृणौषधादिशस्यानां यथाकृतिविशेषता मानवानां तथा नास्ति संस्थानं भिन्नलक्षणम्* // KDA_143

धान्यादिव्रीहिजातीनां वर्णाकारादिलक्षणम्* तथा नास्ति मनुष्याणां वर्णाकारविशेषता // KDA_144

जातिकुन्दादिपुष्पाणां यथा वर्णादिभेदता मानवानां तथा नास्ति वर्णगन्धादिभेदता // KDA_145

जलजानां च पुष्पाणां पद्मादीनां विशेषता वर्णसंस्थानगन्धाश् च नराणां तु तथा न हि // KDA_146

यथाम्रादिफलानां च स्वादादिगुणभेदता मनुजानां तथा नास्ति मांसास्थिगुणभेदता // KDA_147

यथा षड्रसजातीनां गुणास्वादादिभेदता तथा नास्ति मनुष्याणां षडिन्द्रियविशेषता // KDA_148

यथा हेमादिधातूनां द्रव्यवर्णादिभेदता तथा नास्ति मनुष्याणां संस्थानवर्णभेदता // KDA_149

यथा वज्रादिरत्नानां संस्थानवर्णभेदता तथा नास्ति मनुष्याणां शरीराकारभेदता // KDA_150

सममांसादिभेदाश् च षडिन्द्रियसमास् तथा एकांशतो विशेषो न कुतो देहेषु भेदता // KDA_151

यथा हि बालका बाला क्रीडमाना महापथे पांशुपुञ्जानि संपिण्ड्य स्वयं नामानि कुर्वते // KDA_152

इदं क्षीरम् इदं मांसम् इदं घृतम् इदं दधि न च बालस्य वचनात् पांशवो ऽन्ना भवन्ति हि // KDA_153

वर्णास् तथैव चत्वारः सुभूत इति कल्पिताः पांशुपुञ्जाभिधानेन योगो ऽप्य् एष न विद्यते // KDA_158

न केशेन न कऋणेन न शीर्षेण न चक्षुषा न मुखेन न नासाया न ग्रीवया न बाहुना // KDA_155

नोरसा न च पार्श्वेन न पृष्ठेनोदरेण वा नोरुभ्याम् अथ जङ्गाभ्यां पाणिपादनखैर् न च // KDA_156

न स्वरेण न वर्नेन न सर्वांशैर् न मैथुनैः नैका विशेषता वापि मनुष्येषु न विद्यते // KDA_157

तथा नास्ति यथान्यासु जातेर् लिङ्गं पृथक् पृथक्* सामान्य् अकारणं मन्ये किंचिन् न भेदलक्षणम्* // KDA_158

संज्ञामात्रेण कल्प्यन्ते ब्राह्मणाः क्षत्रियास् तथा वैश्याः शूद्रास् तथान्ये ऽपि संज्ञामात्रे हि कीर्तिताः // KDA_169

यथैकवृक्षजातानां फलानां नास्ति भेदता तथैकम् अनुजातानां किं विशेषत्वलक्षणम्* // KDA_160

गुणधर्मानुचारेण जातिभेदा भवन्ति हि चातुर्वर्ण्यम् इदं लोके सर्वं हि मनुसंभवम्* // KDA_161

गुणधर्मप्रमाणेन जातेर् नैव प्रमाणता तथा च प्रोच्यते बौद्धैर् अवदानार्थकोविदैः // KDA_162

मानवा ये प्रशान्तास्था सत्यधर्मव्रतान्विताः ब्राह्मणास् ते महाशुद्धाश् चतुर्ब्रह्मविहारिणः // KDA_163

परिग्रहान् परित्यज्य वनप्रस्थनिवासिनः ये भजन्ति सदा ब्रह्म वानप्रस्था हि ते द्विजाः // KDA_164

षट्कर्मनिरता ये तु श्रोत्रिया गृहवासिनः महायज्ञसमाचारा उपाध्याया हि ते द्विजाः // KDA_165

निरपेक्षाः स्वदेहे ऽपि त्यक्तमाराभिगोचराः भिक्षाशिनो व्रतस्थास् ते भिक्षवो ब्रह्मवादिनः // KDA_166

ये च मारान् विनिर्जित्य निःसङ्गा धीरमानसाः तपन्ति पुण्यक्षेत्रेषु मानवास् ते तपस्विनः // KDA_167

दशाकुशलनिर्भुक्ता दशाकुशलसंरताः सत्यवाचो व्रतस्था ये ऋषयस् ते द्विजोत्तमाः // KDA_168

ये च लोकप्रचारेषु विरता धर्ममानसाः वाचंयमाश् च ते भद्रा मुनयः सत्यवादिनः // KDA_169

ये च जितेन्द्रियग्रामा निर्मुक्तभवचारकाः निर्ममा निरहंकारा यतयो योगिनो ऽपि ते // KDA_170

ये च स्थण्डिलम् आश्रित्य चरन्ति व्रतम् आदरात्* ते ऽपि च मानवा धीराः स्थण्डिला जटिलास् तथा // KDA_171

ये च भस्मविलिप्ताङ्गा हाराभरणभूषिताः कापालिकाश् च ते वीराः श्मशानव्रतचारिणः // KDA_172

ये समिद्धव्यद्रव्याणि जुह्वत्यग्नौ समाहिताः ते होतारश् च यज्वानो वेदधर्मार्थसाधकाः // KDA_173

ये च क्षत्राणि रक्षन्तः पालयन्ति सदा प्रजाः सत्वरक्षाव्रताचाराः क्षत्रियास् ते नृपा नराः // KDA_174

ये रञ्जयन्ति धर्मार्थे लोकान् नीतिप्रयोजकाः राजानस् ते महावीराः सर्वधर्माभिपालकाः // KDA_175

ये च सत्वहिताधाने विविधार्थानुकारिणः वेशयन्ति प्रजा धर्मे वैश्यास् ते हि नरोत्तमाः // KDA_176

व्रताचारविहीना ये सत्वरक्षार्थचारिणः मन्यन्ते सेवया शुद्धिं शूद्रास् ते श्रेष्ठिनस् तथा // KDA_177

ये च क्षेत्राणि कर्षन्ति धान्यादिव्रीहिसाधकाः कृषिकास् ते नरा धान्यैः सत्वजीवानुपोषकाः // KDA_178

साधयन्ति महत्कार्यं धनादिवस्तुसंग्रहैः वणिक्कर्माभिसंयुक्ता वणिजस् ते महोद्यमाः // KDA_179

ये च सार्थान् समाहृत्य रत्नाकरसमागताः साधयन्ति च रत्नानि सार्थवाहाश् च ते नराः // KDA_180

तथान्ये शिल्पविद्यादीन् ये च कुर्वन्ति मानवाः शिल्पिनस् ते तथान्ये ऽपि स्वर्णकारादयो नराः // KDA_181

ज्योतिर् विद्याविदो ये च गणयन्ति दिवानिशम्* युगान्तकालविज्ञाता गणकास् ते ऽपि मानवाः // KDA_182

धातुदोषान्य् अभिज्ञाय लोकानां परिचारकाः भैषज्यं ये ददन्त्य् एव भिषजस् ते हि वैद्यकाः // KDA_183

भूतदोषाण्य् अभिज्ञाय बलिपूजाविधानतः शमयन्ति च ये भूतान् भौतिकास् ते ऽपि मानवाः // KDA_184

एवं चान्ये ऽपि ये सत्वा यद् यत् कर्मानुचारिणः तत् तत् कर्मानुशीलेन जातिधर्मप्रवृत्तिकाः // KDA_185

ततो ये मानवाः क्रूरा निर्दयाः सत्वहिंसकाः चण्डवृत्तिप्रचाराश् च चण्डाला इति ते स्मृताः // KDA_186

ये भजन्ति शिवं नित्यं शिवभक्तिपरायणाः ते शैवा मनुजा ज्ञेयाः शिवधर्मानुचारतः // KDA_187

ये भजन्ति विष्णुं नित्यं विष्णुभक्तिपरायणाः विष्णुधर्मसमाचाराद् वैष्णवास् ते ऽपि मानवाः // KDA_188

ब्रह्माणं ये भजयन्त्य् एव ब्रह्मभक्तिपरायणाः ब्रह्मधर्मसमाचाराद् ब्राह्मणास् ते ऽपि मानवाः // KDA_189

ये भजन्ति महारौद्रं भैरवभक्तिमानसाः महारौद्राश् च ते ख्याता भैरविकाश् च मानवाः // KDA_190

ये च माहेश्वरीं देवीं भजन्ति कुलधर्मिणः माहेश्वरीव्रताधाराः कालिकास् ते ऽपि मानवाः // KDA_191

येए भजन्ति सदा बुद्धं बौद्धधर्मपरायणाः ते ऽपि च मानवा बौद्धाः संबोधिपदसाधिनः // KDA_192

ये भजन्ति जिनं चैव जैनधर्मपरायणाः ते ऽपि च मनुजा जैना जैनधर्मानुचारणात्* // KDA_193

एवं चान्ये ऽपि ये सत्वा व्रतचर्यानुलिङ्गिनः ते ऽपि च मानवाः सर्वे धर्मचर्यानुवर्णिनः // KDA_194

यादृशं साध्यते कर्म तादृशी जातिता भवेत्* प्रजापतिर् हि चैकत्वे निर्विशेषो ऽभवद् यतः // KDA_195

न चेन्द्रियेषु नानात्वं क्रियावादेन दृश्यते ब्राह्मणे चान्यजातौ वा नैषां किंचिद् विशिष्यते // KDA_196

न ह्य् आत्मनः समुत्कर्षाच् छ्रेष्ठत्वम् इह युज्यते शुक्रशोणितसंभूतं योनिजं सर्वम् एव हि // KDA_197

चातुर्वर्ण्यम् इदं लोकम् इति तीर्थ्यैर् विकल्पितम्* ब्रह्मजा ब्राह्मणा नैवं धर्मसंस्कारजाः खलु // KDA_198

यदि वा ब्रह्मजा विप्रा ब्राह्मणी कुत्र संभवा ब्राह्मण्य् अपि तथा चैव ब्रह्मजा यदि सांप्रतम्* // KDA_199

ब्राह्मणस्य च सा भार्या स्याच् चैवेदं न युक्तितः न भार्या भगिनी युक्ता ब्रह्मणां ब्रह्मजा यदि // KDA_200

न सत्वा ब्रह्मणो जाताः कर्मसंस्कारजास् त्वमी निहीनोत्कृष्टमध्याश् च सत्वा नानाश्रयाः पृथक्* // KDA_201

तेषां हि जातिसामान्याद् ब्राह्मणे क्षत्रिये तथा वैश्यशूद्रे तथान्येषु समं ज्ञानं प्रवर्तते // KDA_202

शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन बहवो नरा नीचकुलप्रसूताः स्वर्गं गताः शीलम् उपेत्य धीराः // KDA_203

न जातिर् दृश्यते देवैः शीलः कल्याणकारकः चण्डालो ऽपि हि शीलस्थस् तं देवा ब्राह्मणं विदुः // KDA_204

सत्यं ब्रह्म तपो ब्रह्म शीलश् चेन्द्रियसंयमः सर्वभूतदया ब्रह्म एतद् ब्राह्मणलक्षणम्* // KDA_205

सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियसंयमः सर्वभूतदया नास्ति एतच् चण्डाललक्षणम्* // KDA_206

देवमनुष्यनारीणां तिर्यग्योनिगतेष्व् अपि मैथुनं नाधिगच्छन्ति ते नरा ब्राह्मणाः खलु // KDA_207

शूद्रीहस्तेन यो भुङ्क्ते मासम् एकं निरन्तरम्* जीवमानो भवेच् छूद्रो मृतः स श्वा प्रजायते // KDA_207

शूद्रीपरिवृतो विप्रः शूद्री च गृहमेधिनी वर्जितः पितृदेवैश् च रौरवं सो ऽधिगच्छति // KDA_208

तस्माद् धर्मतपःशीलसंयमज्ञानतो द्विजः न त्व् एतैर् हि विना विप्रः किं स्यात् संस्कारमात्रतः // KDA_210

तन् न शरीरसंस्कारमात्रेण ब्राह्मणो भवेत्* संस्कृतेन द्विजो वा चेच् छूद्रो ऽपि संस्कृतो द्विजः // KDA_211

यदि विप्रः शरीरः स्यात् पावको ब्रह्महा भवेत्* ब्रह्महत्या च बन्धूनां शरीरदहनाद् भवेत्* // KDA_212

ब्राह्मणबीजसंभूतः शूद्रो ऽपि न कथं द्विजः तस्माद् धि ब्राह्मणो नैव देहसंस्कारमात्रतः // KDA_123

सद्यः पतति मांसेन धात्वन्नक्षिरविक्रयी ब्राह्मणो ऽपि भवेच् छूद्रः सुरया लवणेन च // KDA_214

आकाशगामिनो प्रियाः पतिता मांसभक्षणात्* विप्राणां पतनं दृष्ट्वा ततो मांसानि वर्जयेत् // KDA_215

भक्ष्यन्ते येन मांसानि भक्ष्यते तेन किं न हि अभक्ष्यभक्षणाच् चैव ब्राह्मणः पतितो भवेत्* // KDA_216

पतितो ब्राह्मणश् चैवं संस्कारं नार्हति पुनः तस्माज् ज्ञानं विना नैव शरीरो ब्राह्मणो भवेत्* // KDA_217

ज्ञानवान् हि भवेत् पूज्यो ब्राह्मणा अपि मानवाः समानेषु च देहेषु कुत्राप्य् अस्ति विशेषता // KDA_218

तस्माज् ज्ञानप्रमाणेन न शरीरप्रमाणता यथा करोति भाण्दानि मृत्तिकयैव भार्गवः // KDA_219

मृत्तिकाया न भेदो ऽस्ति तत्कृतभाजनेष्व् अपि किं तु प्रक्षिप्तवस्तूनां संज्ञयाख्यायते खलु // KDA_220

प्रक्षिप्तं यत्र यद् द्रव्यं तद् भाण्डं तेन लक्ष्यते ज्ञानधर्मगुणाचारैर् लक्ष्यते मानवस् तथा // KDA_221

ज्ञानधर्मगुणाचारैर् विहीनो मानवः पशुः ज्ञानविज्ञानभेदेन वर्तते गुणभेदता // KDA_222

गुणभेदाद् भवेद् धर्मभेदा च संप्रजायते धर्मभेदात् ततः कर्मभेदता संप्रवर्तते // KDA_223

कर्मभेदात् तथाचारभेदता च प्रवर्तते तथाचारविशेषेण जातिभेदाः प्रवर्तिताः // KDA_224

महाभूतसमुद्भूतस्कन्धेष्व् आयतनेषु च सर्वजन्तुशरीरेषु समेषु का विशेषता // KDA_225

ज्ञानविज्ञानमात्रेण भिद्यन्ते खलु मानवाः ज्ञानविज्ञानपात्रत्वात् पूज्यन्ते नीचजा अपि // KDA_226

ज्ञानविज्ञानहीनत्वान् मानवो ऽपि न पूज्यते पशुवत्स नराकारः ततः पूजा न चाकृतेः // KDA_227

ज्ञानेनापि द्विजो नैव कर्माचारप्रमाणतः ज्ञानेन यदि वा विप्रः शूद्रो ऽपि ब्राह्मणो भवेत्* // KDA_228

अन्ये ऽपि बहवः सन्ति सकैवर्तादिनीचजाः ज्ञानवन्तश् च ये धीरास् ते ऽपि स्युर् ब्राह्मणाः खलु // KDA_229

तमाच् च ज्ञानमात्रेण ब्राह्मणो न भवेत् खलु कर्माचारप्रमाणेन न ज्ञानस्य प्रमाणता // KDA_230

कर्मणापि द्विजो नैव शुद्धाचारप्रमाणतः कर्मणा वै द्विजाश् चैवं सर्वे स्युर् ब्राह्मणाः खलु // KDA_231

सन्ति हि बहवो लोके महायज्ञादिकर्मिणः क्षत्रियवैश्यशूद्राश् च कथं न ब्राह्मणा नु ते // KDA_232

तस्मान् न कर्ममात्रेण ब्राह्मणाः स्युर् नराः खलु नापि स्वाचारमात्रेण ब्राह्मणाः स्युस् तथा नराः // KDA_233

यदि स्वाचारतो विप्रः सर्वे स्युर् ब्राह्मणाः खलु ये ये स्वाचारवन्तश् च ते ते स्युर् ब्राह्मणाः किल // KDA_234

सन्ति च बहवः शूद्राः शुद्धाचारसमन्विताः व्रतोपवासधर्मिष्टा नीचजा अपि सन्ति च // KDA_235

ते ऽपि स्युर् ब्राह्मणाश् चैवं यद्य् आचारप्रमाणता तस्माद् आचारमात्रेण ब्राह्मणा नैव मानुषाः // KDA_236

वेदेनापि तथा नैव ब्राह्मणाः स्युर् नरोत्तमाः यदि वेदैर् भवेद् विप्रो राक्षसो ऽपि द्विजः खलु // KDA_237

तथाभूद् रावणो नाम राक्षसो वेदपारगः सर्वे ऽपि राक्षसाश् चैवं वेदकर्मानुचारकाः // KDA_238

कथं ते ब्राह्मणा नैव यदि वेदाद् द्विजो भवेत्* तस्माच् च वेदमात्रेण नैव स्युर् ब्राह्मणाः खलु // KDA_230

सत्यधर्मप्रमाणेन सर्वम् एकं जगद् ध्रुवम्* चातुर्वर्ण्यम् इदं लोकं तीर्थिकैर् इति कल्पितम्* // KDA_240

तथा च कल्प्यते लोकबोधार्थम् इति तीर्थिकैः स्वयंभूदेहसंभूतं चातुर्वर्ण्यम् इदं खलु // KDA_241

मुखतो ब्राह्मणो जातो बाहुभ्यां क्षत्रियः स्मृतः ऊरुभ्यां संभवो वैश्यः पद्भ्यां शूद्रः समुद्भवः // KDA_242

तथा चेद् धि भवेद् दोषो धर्मेषु वर्णवादिनाम्* अगम्यगमनाच् चैवं कथं धर्मविशुद्धिता // KDA_243

यदि विप्रो मुखाज् जातो ब्राह्मणी कुत्र संभवा ब्राह्मण्य् अपि मुखाज् जाता स्वसा भार्या कथं ननु // KDA_244

तथा च क्षत्रिया जाता बाहुभ्याम् एव चेत् तथा क्षत्रियस्य भवेद् भार्या क्षत्रिया भगिनी खलु // KDA_245

वैश्यापि हि तथा चैवम् ऊरुभ्याम् एव संभवा वैश्यस्यापि भवेद् भार्या वैश्या तु भगिनी विशः // KDA_246

पद्भ्यां जातो यथा शूद्रः शूद्री चापि तथोद्भवा शूद्रस्यापि भवेद् भार्या शूद्री हि भगिनी खलु // KDA_247

न युक्ता भगिनी भार्या तथा धर्मः कथं भवेत्* अगम्यगमनाच् चैवम् अधर्म एव संभवेत्* // KDA_248

ततो ऽत्यन्तविरुद्धं स्याद् ब्रह्मजा ब्राह्मणा यदि धर्मक्रियाविशेषात् तु वर्णावस्थाः प्रतिष्ठिताः // KDA_249

भारते ऽपि तथा चैवं धर्मराजो युधिष्ठिरः वैशम्पायनम् आगम्य प्राञ्जलिः पर्यपृच्छत // KDA_250

के ते ये ब्राह्मणाः प्रोक्ताः किं वा ब्राह्मणलक्षणम्* एतद् इच्छामि भो ज्ञातुं तद्भवान् व्याकरोतु मे // KDA_251

इति श्रुत्वा महाविज्ञो वैशम्पायन आदरात्* प्रत्युवाचेति कौन्तेय शृणु तत् कथ्यते मया // KDA_252

क्षान्त्यादिभिर् गुणैर् युक्तस् त्यक्तदण्डो निरामिषः न हन्ति सर्वभूतानि प्रथमं ब्राह्मलक्षणम्* // KDA_253

यदा सर्वपरद्रव्यं पथि वा यदि वा गृहे अदत्तं नैव गृह्णाति द्वितीयं ब्राह्मलक्षणम्* // KDA_254

त्यक्तक्रूरस्वभावस् तु निर्ममो निःपरिग्रहः मुक्तश् चरति यो नित्यं तृतीयं ब्राह्मलक्षणम्* // KDA_255

देवमनुष्यनारीणां तिर्यग्योनिगतेष्व् अपि मैथुनं हि सदा त्यक्तं चतुर्थं ब्राह्मलक्षणम्* // KDA_256

सत्यं शौचं दया शौचं शौचम् इन्द्रियनिग्रहः सर्वभूतदया शौचं तपः शौचं च पञ्चमम्* // KDA_257

पञ्चलक्षणसंपन्न ईदृशो यो भवेद् द्विजः तम् अहं ब्राह्मणं ब्रूयां शेषाः शुद्रा युधिष्ठिर // KDA_258

न कुलेन न जात्या च क्रियाभिर् ब्राह्मणो न च चाण्डालो ऽपि हि वृत्तस्थो ब्राह्मणः स युधिष्ठिर // KDA_259

अहिंसा ब्रह्मचर्यं च विशुद्धात्मापरिग्रहः फलेष्व् अनभिलिप्साथ ब्राह्मणः स्याद् युधिष्ठिर // KDA_260

एकवर्णम् इदं विश्वं पूर्वम् आसीद् युधिष्ठिर कर्मक्रियाविशेषेण चातुर्वर्ण्यं प्रतिष्ठितम्* // KDA_261

सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः एकेन्द्रियक्रियार्थाश् च तस्माच् छीलगुणैर् द्विजाः // KDA_262

शूद्रो ऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत्* ब्राह्मणो ऽपि क्रियाहीनः शूद्रात् प्रत्यवरो भवेत्* // KDA_263

पञ्चेन्द्रियार्णवं घोरं यदि शूद्रो ऽपि तीर्णवान्* तस्मै दानं प्रदातव्यम् अप्रमेयं युधिष्ठिर // KDA_264

न जातिर् दृश्यते राजन् गुणाः कल्याणकारकाः गुणविद्यानिधिर् विद्वान् ब्राह्मणो ब्रह्मचाराणात्* // KDA_265

जीवितं यस्य लोकार्थे धर्मार्थे यस्य जीवितम्* अहोरात्रं चरेन् मुक्तस् तं देवा ब्राह्मणं विदुः // KDA_266

परित्यज्य गृहावासं ये स्थिता मोक्षकाङ्क्षिणः कामेष्व् असक्ताः कौन्तेय ब्राह्मणास् ते युधिष्ठिर // KDA_267

अहिंसा निर्ममत्वं वा सत्कृत्यस्य विवर्जनम्* रागद्वेषनिवृत्तिश् च एतद् ब्राह्मणलक्षणम्* // KDA_268

क्षमा दया दमो दानं सत्यं शौचं स्मृतिर् घृणा विद्या विद्यानमाधीत्यम् एतद् ब्राह्मणलक्षणम्* // KDA_269

गायत्रीमात्रसारो ऽपि वरं विप्रः सुयन्त्रितः नाधित्य चतुरो वेदान् सर्वाशी सर्वविक्रयी // KDA_270

एकरात्रोषितस्यापि या गतिर् ब्रह्मचारिणः न तां क्रतुसहस्रेण प्राप्नुवन्ति युधिष्ठिर // KDA_271

पारगः सर्ववेदानां सर्वतीर्थाभिषिञ्चनैः युक्तश् चरति धर्मं यो तं देवा ब्राह्मणं विदुः // KDA_272

यदा न कुरुते पापं सर्वभूतेषु दारुणम्* कायेन मनसा वाचा ब्रह्म संपद्यते तदा // KDA_273

यस्य लोकहिते चित्तं मैत्रीयुक्तम् इवात्मजे तेन संपद्यते ब्रह्म तस्मान् मैत्रीं विभावय // KDA_274

यस्य लोकेषु कारुण्यं स्वात्मजे इव दुःखिते तेन संपद्यते ब्रह्म तस्मात् कारुणिको भव // KDA_275

यच् चित्तं मुदितं लोके सुखीभूते इवात्मजे तस्य संजायते ब्रह्म तल् लोके मोदवांश् चर // KDA_276

यस्योपेक्षायुतं चित्तं सर्वलोकेष्व् इवात्मजे तस्य संजायते ब्रह्म तद् उपेक्षायुतश् चर // KDA_277

एतद् धि परमं ब्रह्मविहारं ब्रह्मसाधनम्* ज्ञात्वा लोकहितार्थेन चर ब्रह्मविहारिणम्* // KDA_278

ततः क्लेशान् विनिर्जित्वा स्वात्मचित्तसमाहितः ब्रह्मप्रणिधिम् आलम्ब्य स्थिरीभव समाधिषु // KDA_279

तथा ब्रह्मगुणाधानाद् ब्रह्मर्षिस् त्वं भवेः किल पञ्चाभिज्ञपदप्राप्तो ब्रह्मलोकम् अवाप्नुयाः // KDA_280

इति श्रुत्वा गुरोर् वाक्य स सुभूतिर् गुणोत्सुकः तथेति प्रतिसंश्रुत्य ध्यानचर्याम् उपाश्रयत्* // KDA_281

ततो ऽन्यद् वनम् आश्रित्य गुरोर् आज्ञासमाधृतः सर्वेन्द्रियविनिर्गत्या व्यहरद्ध्यानतत्परः // KDA_282

तत्राधिवसतो ऽस्यापि क्रोधाग्निः समुदीरितः कर्माधानबलाभ्यासान् नैव शान्तिम् उपाययौ // KDA_283

तत्र च वनषण्डे या वसन्ती वनदेवता सा सुभूतिं महाक्रोधं दृष्ट्वैवं समचिन्तयत्* // KDA_284

सुभूतिर् ब्राह्मणो ह्य् एष सर्ववेदार्थपारगः सर्वमन्त्रविधानज्ञः सुतीक्ष्णक्रोधबाहुलः // KDA_285

कदाचित् कुपितश् चायं क्रोधतः शापवह्निना धक्ष्यति पर्वतांश् चापि सपक्षिजन्तुमानवान्* // KDA_286

समाधिध्यानयुक्तो ऽपि नैव चित्तसमाहितः ज्ञानविज्ञानधर्मेषु विशेषं नाधिगच्छति // KDA_287

यदि बौद्धेषु धर्मेषु नियुक्तो ऽयं द्विजोत्तमः क्षिप्रं क्लेशान् विनिर्जित्य बोधिचित्तं च लप्स्यति // KDA_288

बोधिचित्ते प्रलब्धे तु तदा लोकहिते चरेत्* बोधिसत्वो महाविज्ञो भविष्यति न संशयः // KDA_289

इति निश्चित्य सा देवी कारुण्यहितमानसा तं सुभूतिं समागम्य जगादैवं पुरः स्थिता // KDA_290

शृणु वत्स महाभाग यन् मया हितम् उच्यते धन्यो ऽसि त्वं महाधीर महर्षिर् द्विजसत्तम // KDA_291

किमर्थं वससे चैवम् एकाकी निर्जने वने निश्चित्तः प्रतिसंलीनः काष्ठपाषाणवद्वृथा // KDA_292

धर्मार्थकाममोक्षेषु यदि वाञ्छास्ति ते यते बुद्धस्य वचनं श्रुत्वा चर संबोधिसत्पथे // KDA_293

बुद्धो हि भगवान् नाथः सर्वज्ञो लोकनायकः मुनीन्द्रः श्रीधनः शास्ता सर्वधर्मानुपालकः // KDA_294

तस्यैव धर्मता शुद्धा दशकुशलसंमता षट् च पारमिताः ख्याताः परत्रेह शिवंकराः // KDA_295

धन्यास् ते भिक्षवश् चैव बुद्धस्योपासकाश् च ये सर्वसत्वहितार्थेन संबोधिगुणसाधकाः // KDA_296

त्वं चापि हि तथा मत्वा स्वपरात्महितार्थतः त्रिरत्नशरणं गत्वा चर ब्रह्मन् व्रतोत्तमम्* // KDA_297

ततः क्लेशगणान् हित्वा ब्रह्मचारिञ् जिनेन्द्रवत्* साक्षाद् अर्हत्पदं प्राप्य निर्वृतिसुखम् आप्नुयाः // KDA_298

इति श्रुत्वा सुभूतिः स त्रिरत्नगुणवर्णनाम्* तथानुमोदितः प्राह तां देवतां पुरः स्थिताम्* // KDA_299

तथाहं देवते यामि संबुद्धदर्शनं प्रति त्रिरत्नसमयं प्राप्तुम् इच्चामि त्वत्प्रसादतः // KDA_300

यदि ते ऽस्ति कृपा देवि मयि मोक्षार्थसाधिनि संबुद्धं दर्शय क्षिप्रं तद्धर्मेषु निवेशय // KDA_301

त्रिरत्नशरणं गत्वा चरिष्ये तद् व्रतोत्तमम्* तथाशु कृपया नीत्वा मां विहारे प्रवेशय // KDA_302

इति श्रुत्वा वचस् तस्य सुभूतेर् वनदेवता विज्ञाय बोधिमार्गेषु चित्तं तथानुमोदितम्* // KDA_303

तत एव समागृह्य सुभूतिं ब्रह्मचारिणम्* ऋद्ध्या साकाशमार्गेण निनाय जिनमन्दिरम्* // KDA_304

सुभूतिस् तत्र संप्राप्तो ददर्श जिनभास्करम्* भगवन्तं महासौम्यं लक्षणैः समलंकृतम्* // KDA_305

व्यञ्जनैश् च विराजन्तं व्यामप्रभामहोज्ज्वलम्* सहस्रकिरणाधिक्यं रत्नाङ्गम् इव जङ्गमम्* // KDA_306

समन्ततो महाभद्रं जगन्नाथं मुनीश्वरम्* सर्वदेवाधिपं सम्यक्संबोधिगुणसागरम्* // KDA_307

दृष्ट्वैव सहसा चाथ सुभूतेस् तस्य सर्वथा आधातो यश् च सत्वेषु स प्रतिविगतो ऽप्य् अभूत्* // KDA_308

ततः प्रसादजातो ऽसौ सुभूतिर् द्विजसत्तमः नत्वा पादौ मुनेर् धर्मं श्रोतुं तस्थौ मुदाः पुरः // KDA_309

ततो ऽसौ भगवांस् तस्य सुभूतेश् चित्तशुद्धताम्* ज्ञात्वार्यसत्यधर्माणि दिदेशैवं सविस्तरम् // KDA_310

शृणु विप्र महाभाग सर्वसत्वहितार्थतः यदि ते धर्मवाञ्छास्ति संबोधिपदसाधने // KDA_311

भावनीया सदा मैत्री सत्वेष् एवं यथात्मजे धर्ममाता यतो मैत्री तन् न त्याज्या कदाचन // KDA_312

करुणा च तथा कार्या सत्वेष् अपि यथात्मजे कारुण्याद् वर्धते धर्मस् त कारुण्यं सदा कुरु // KDA_313

मुदितापि सदा साध्या सत्वेषु च यथात्मजे मुदितां हि समालम्ब्य बोधिपदम् अवाप्नुयाः // KDA_314

उपेक्षापि सदा धार्या सत्वेष्व् अपि यथात्मजे उपेक्षातो लभेत् सौख्यं तदुपेक्षां सदा भज // KDA_315

इमे धर्मा हि चत्वारश् चतुर्वर्गफलाप्तये तत्प्राप्त्यै साध्यतां यत्नाच् चतुर्ब्रह्मविहारता // KDA_316

इति श्रुत्वार्यधर्माणि स सुभूतिः प्रमोदितः क्लेशसंघान् विनिर्जित्य बुद्धधर्मं समैक्षत // KDA_317

सत्कायदृष्टिशैलं च विंशतिशिखरोद्गतम्* विदार्य ज्ञानवज्रेण संसाररतिनिःस्पृहः // KDA_318

स्रोतापत्तिफलं साक्षात् कृत्वा शिष्यो ऽभवन् मुनेः दृष्टसत्यो ऽथ संबुद्धं नत्वा चैव कृताञ्जलिः // KDA_319

प्रव्रज्याप्रार्थनां चक्रे स्वाख्यातधर्मसाधने नमस् ते भगवन् नाथ सर्वसत्वानुपालक // KDA_320

अद्याग्रेण जगद्बन्धो यामि ते शरणं सदा तथा धर्मे च संघेषु संबोधिगुणप्राप्तये // KDA_321

प्रव्रज्यां देहि मे नाथ सद्धर्मेषु निवेशय ब्रह्मचर्यं चरिष्ये ऽहं त्वदाज्ञां शिरसा वहन्* // KDA_322

इत्य् उक्ते भगवान् दृष्ट्वा हस्तेन तच्छिरः स्पृशन्* एहि भिक्षो चरस्वेति प्रवदंस् तं समग्रहीत्* // KDA_323

एहीति प्रोक्तः स जिनेन मुण्डो पात्री सुसंघाटिपरीतदेहः सद्यः प्रशान्तेन्द्रिय एव तस्थौ भिक्षुः सुभूतिः सुगतप्रभावात्* // KDA_324

सच्चित्तलब्धः स मुनेः प्रसादात् प्रयुज्यमानो व्यहरत् समाधौ व्यायच्छमानः खलु बोधिमार्गे संबुद्धधर्मे घटमान एव // KDA_325

सर्वं च संसारम् अनित्यताहतं मत्वा च संसारगतिं विभङ्गिनीम्* क्लेशांश् च सर्वान् प्रविहाय संयतः साक्षाच् च सो ऽर्हन्न् अभवन् महर्द्धिकः // KDA_326

सुवीतरागः समलोष्टहेमा आकाशचित्तो धनसारवासी भिन्दन्न् अविद्याद्रिम् इवाण्डकोशं प्रापदभिज्ञाः प्रतिसंविदश् च // KDA_327

सत्कारलाभेषु पराङ्मुकत्वात् सशक्रदेवासुरमानुषाणाम्* पूज्यश् च मान्यो अभिवादनीयो बभूव स ब्रह्मविहारचारी // KDA_328

अथ सुभूतिर् आयुष्मान् समन्वाहरद् आत्मवान्* कुतश् च्युतो ऽहम् आयातः कुत्र केन च कर्मणा // KDA_329

अपश्यत् स ततश् चेति पञ्चजन्मशतानि च नागयोनिसमुत्पन्नस् ततश् च्युत्वाहम् आगतः // KDA_330

यद् द्वेषाभ्यासतश् चासं क्रूरो लोकोपघातकः तेनैव हेतुना चाहं महद्व्यसनम् आप्तवान्+ // KDA_331

इदानीं तु तथा चैतं क्रोधं प्रहातुम् आचरे यस्यैव हेतुना लोका भ्रमन्ति नरकेषु ते // KDA_332

तस्माद् अहं चरिष्यामि निःसङ्गो निरहंकृतिः सङ्गाद् धि जायते माया मायायां जायते रतिः // KDA_333

रतौ रागो ऽभिजायेत रागे मोहः प्रवर्धते मूढस्य द्रूयते चित्तं स्वेष्टकार्योपघाततः // KDA_334

उपघाताहते चित्ते क्रोधाग्निः परिदीप्यते क्रोधानलसमुद्दीप्तो दहते स परान् अपि // KDA_335

यावत् क्रोधानलोद्दीप्तं स्वचित्तं क्लेशवायुभिः तावत् किं तपसाप्य् एतन् निरर्थं दुःखहेतवे // KDA_336

धर्मं सुचरितं पुण्यं दानशीलादिसाधनम्* कृतं कल्पसहस्रैर् यद् दहेत् क्रोधानलः क्षणात्* // KDA_337

तस्मात् क्रोधाग्निशान्त्यर्थं कृत्वेन्द्रियविनिग्रहम्* एकान्ते हि वसेयं च विविक्तारण्यगोचरे // KDA_338

यदा च गरुडेनाहं बलाद् आकृष्य भक्षितः यतीन् दृष्ट्वानुमोदं च कुर्वन् मृत्युम् अवाप्तवान्* // KDA_339

तेनैव हेतुना चाद्य द्विजातिकुलसंभवः सर्वक्लेशान् विनिर्जित्य ब्रह्मचारी भवाम्य् अहम्* // KDA_340

अद्यापि चेत् तथा चात्र वसेयं जनपदाश्रमे केनचित् क्लेशितश् चाहं भ्रष्टिम् एवम् अवाप्नुयाम्* // KDA_341

इति निश्चित्य चित्तेन सुभूतिर् निरहंकृतिः विविक्ते ऽरण्यवासे स निःसङ्गो न्यवसत् सुधीः // KDA_342

तथैकाकी वसंस् तत्र चतुर्थध्यानसंयुतः फलमूलाम्बुसंतुष्टो ब्रह्मचारी मुमोद सः // KDA_343

अथ सङ्गे ऽपि ग्रामेषु देशे जनपदेषु च भिक्षाहेतोर् विहर्तुं वा स सकामो ऽभवद् यदा // KDA_344

तदा पूर्वम् असौ दृष्ट्वा गोचरम् अभ्यलक्षयत्* अहो देशेषु सर्वत्र भवन्ति निर्गुणा जनाः // KDA_345

मानिनो मदमोहान्धा दुष्टा मत्सरिणः शठाः तत् कथं संचरिष्ये ऽत्र भिक्षाहेतोः कुले कुले // KDA_346

दूषयिष्यन्ति चित्तानि केचिद् दृष्ट्वैव मां यतिम्* यद् धेतोर् जनाश् चैवं भ्रमन्ति दुर्गतिष्व् अपि // KDA_347

कल्पकोटिसहस्राणि नैव मुक्ताश् च दुर्गतेः तद् अहं सर्वसत्वेषु कुन्तपिपीलिकादिषु // KDA_348

दयाचित्तं समालम्ब्य वसेयं ध्यानसंरतः येनैवं सर्वसतानां भवेच् चित्तं प्रसादितम्* तम् एव धर्मम् आध्याय यतिर् मोक्षम् अवाप्नुयात्* // KDA_349

इति संनह्य चित्तेन स सुभूतिः सुबुद्धिमान्* विविक्ते ऽरण्यदेशे ऽपि न्यवसद् ध्यानसंरतः // KDA_350

अथ सो ऽर्हंस् त्रिमासानाम् अत्ययाद् बोधिमानसः इत्य् एवं चिन्तयामास लोकानुग्रहकारणात्* // KDA_351

किम् अत्र ध्यानसंलीनः करोमि लोकबोधनम्* कियत् कालं च जीवेयं काष्ठपाषाणवत् स्थितः // KDA_352

केवलं स्वमनस् तुष्ट्यै ध्यानं सौख्यार्थसाधनम्* सुखं लब्ध्वापि किं सारं सत्वानुग्रहणं विना // KDA_353

तस्माद् ध्यानात् समुत्थाय सत्वानुग्रहकारणात्* ऋद्धिं प्रदर्श्य संबोधौ स्थापयिष्ये महज्जनान्* // KDA_354

इति निश्चित्य चित्तेन स सुभूतिः समृद्धिमान्* सत्वानां विनयार्थेन प्रातिहार्यम् अदर्शयत्* // KDA_355

तदृद्धिनिर्मितान्य् एव गरुडानां महौजसाम्* पञ्च कुलशतान्य् अत्र प्रसस्रिरे समन्ततः // KDA_356

एतांश् च गरुदान् दृष्ट्वा नागाः संत्रसितास् ततः इतस् ततः समुद्भ्रान्ताः सुभूतेः शरणं ययुः // KDA_357

अथ स्वर्द्धिबलेनैव समाश्वास्य सुभूतिना सर्वे नागाः सुपर्णेभ्यः परित्राताश् च सर्वतः // KDA_358

पुनस् तेन सुपर्णानां विनयार्थं सुभूतिना स्वर्द्धिवलप्रभावेण महान् नागो विनिर्मितः // KDA_359

तेनाप्य् एवं सुपर्णानां पञ्च कुलशतानि च अभिद्रुतानि नागेन समन्तत इतस् ततः // KDA_360

तेनैवाभिद्रुताः सर्वे गरुडास् त्रासम् आगताः इतस् ततः समुद्भ्रान्ताः सुभूतेः शरणं ययुः // KDA_361

सुभूतिना तथा चैवं सर्वे ते गरुडा अपि स्वर्द्धिबलप्रभावेण समाश्वास्य सुरक्षिताः // KDA_362

एवम् ऋद्धिप्रभावाणि सुभूतेस् तस्य सद्यतेः दृष्ट्वा सर्वे जनौघास् ते सहर्षाद्भुतम् आययुः // KDA_363

धन्यो ऽयम् ऋद्धिमान् भिक्षुर् अर्हन् संबुद्धसेवकः येनैते रक्षिताः सर्वे नागाश् च गरुडा अपि // KDA_364

इति सो ऽर्हन् सुभूतिस् तान् सर्वान् दृष्ट्वा प्रसन्नितान्* सद्धर्मे विनयार्थेन मैत्रीधर्मम् उपादिशत्* // KDA_365

शृणुध्वं मद्वचः सर्वे नागाश् च गरुडास् तथा यदि मे शरणं याथ रमध्वं मैत्रमानसाः // KDA_366

ये एते सुखिनो लोके सर्वे ते मैत्रचारिणः ये एते दुःखिनो लोके सर्वे ते क्रोधिनो नराः // KDA_367

तस्मात् क्रोधप्रहाणाय क्रियतां यत्नम् आदरात्* यावच् चित्ते स्थितं क्रोधं तावन् मैत्री न भाव्यते // KDA_368

न च द्वेषसमं पापं न च मैत्रीसमं तपः तस्मान् मैत्री प्रयत्नेन भावनीया सदादरात्* // KDA_369

मनः शमं न गृह्णाति न प्रीतिसुखम् अश्नुते न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते // KDA_370

न द्विषन्तः क्षयं यान्ति यावज्जीवम् अपि घ्नतः क्रोधम् एकं तु यो हन्यात् तेन सर्वे द्विषो हताः // KDA_371

विकल्पेन् धनदीप्तेन जन्तुः क्रोधहविर् भुजा दहत्य् आत्मानम् एवादौ परान् धक्ष्यति वा न वा // KDA_372

जरा रूपवतां क्रोधस् तमश् चक्षुष्मताम् अपि बन्धो धर्मार्थकामानां तस्मात् क्रोधो निवार्यताम्* // KDA_373

दिव्यभोगानुभोक्ता च प्रासादे मणिमण्डिते सुप्तो ऽपि न लभेन् निद्रां क्रोधपर्याकुलो नरः // KDA_374

ऋषिभिर् योगिभिश् चाम्बुफलमूलादितोषितैः दग्धा जनपदाश् चापि क्रोधाच् छापहुताशनैः // KDA_375

यच् छांकरो महारौद्रो निर्घृणो दृक्प्रभानलैः ददाह ब्रह्मजं कामं तच् च क्रोधप्रभावतः // KDA_376

यद् राजानो विरुद्धाश् च युद्धं कृत्वा परस्परम्* मृत्युं यान्ति जनैः सार्धं तच् चापि क्रोधभावतः // KDA_377

सुहृदो यत् सहायांश् च स्नेहविश्रम्भचारिणः सत्यधर्माव् अनादृत्य घ्नन्ति क्रोधाद् अनार्यकाः // KDA_378

साधवो ये महात्मानः संवृत्तिधर्मचारिणः तान् अपि संमुखं घ्नन्ति दुर्वाग्बाणै रुषा खलाः // KDA_379

मातरं जन्मदात्रीं च धात्रीर् वा स्नेहपालिनीः स्वात्मजान् निर्दया घ्नन्ति तच् च क्रोधप्रभावतः // KDA_380

स्वात्मजाः पितरं यच् च स्नेहसत्कारपालकम्* अविगणय्य पापानि घ्नन्ति क्रोधप्रभावतः // KDA_381

गुरून् सद्धर्मशास्तॄंश् च कल्याणाध्वावतारकान्* अनादृत्य भयं पापा घ्नन्ति क्रोधोद्धता नराः // KDA_382

यत् पिता स्वात्मजं पुत्रं पुत्रीं वा बालकाम् अपि निर्दयस् ताडयन् हन्ति तस्मात् क्रोधो महारिपुः // KDA_383

भ्रातरः सहजाश् चापि रोषिता भेदिताशयाः विगृह्णन्ति महाक्रुद्धास् तस्मात् क्रोधो महारिपुः // KDA_384

यत् स्वयं परिणीतापि भार्या धर्मानुचारिणी ताडिता त्यज्यते भर्त्रा क्रोधात् ततो महद् भयं* // KDA_385

प्रमदापि च भर्तारं स्वामिनं स्नेहकारिणम्* कुलधर्मम् अनादृत्य जहाति क्रोधतस् तथा // KDA_386

ये शान्ता यतयो धीराश् चतुर्ब्रह्मविहारिणः तान् अपि संमुखं दुष्टास् ताडयन्ति रुषान्विताः // KDA_387

शान्तात्मा हितकृद्योगी क्षान्तिवादी वने वसन्* सो ऽपि शकलितो राज्ञा स्वयम् एवासिना रुषा // KDA_388

दानवा घ्नन्ति देवांश् च देवाश् च घ्नन्ति दानवान्* अन्योन्यं विग्रहं कृत्वा प्रमथ्नन्ति रुषाकुलाः // KDA_389

आत्मानम् आत्मना हत्वा विषशस्त्रानलादिभिः वसन्ति नरके घोरे ते ऽपि सर्वे रुषान्विताः // KDA_390

ये ये दुष्टाशयाः क्रूराः स्वपरार्थाभिघातकाः पतन्ति नरके घोरे ते ऽपि सर्वे रुषाश्रयात्* // KDA_391

क्रोधेन भिद्यते लोकः क्रोधेन परिभाष्यते क्रोधेन हिंस्यते जन्तुस् तस्मात् क्रोधो महारिपुः // KDA_392

क्रोधेनैव महारुद्रश् चिच् छेद ब्रह्मणः शिरः तेनैव पातकेनैव भ्रान्तचित्तो ऽभवच् छिवः // KDA_393

क्रोधेनैव तथा रुद्रः सुरज्येष्ठात्मजस्य च श्वशुरस्यापि दक्षस्य च्छेदयामास मस्तकम्* तत्पापकर्मणा ह्य् एव शिवो ऽप्य् अभूद् दिगम्बरः // KDA_394

क्रोधेन ध्वंस्यते धर्मः क्रोधेन विलयं गतः क्रोधेन त्यज्यते सत्यं तस्मात् क्रोधो महारिपुः // KDA_395

यानि महान्ति पापानि महादुःखभयानि च तानि सर्वाणि दुष्टानि क्रोधचित्तोद्भवानि च // KDA_396

तत्क्रोधाद् अपरो वैरः पातको ऽन्यो न विद्यते तस्मात् क्रोधविनाशाय प्रयतध्वं समाहिताः // KDA_397

येन क्रोधो जितो वैरो ज्ञानवज्रेण साधुना तेन सर्वे जिता दुष्टा शत्रवो दुःखदायकाः // KDA_398

यस्य चित्ते दया नास्ति क्रोधानलविदाहिनि स साधुपुरुषश् चापि नैव विश्वस्यते जनैः // KDA_399

क्रोधकलङ्कितो यो हि सद्गुणालंकृतो यदि स विद्वान् अपि नासेव्यो यथा वृक्षो ऽहिवेष्टितः // KDA_400

दानशीलादिसद्धर्मवृत्तैश् च यदि भूषितः क्रोधवान् न विभात्य् एव अहिपूर्णो यथा ह्रदः // KDA_401

सर्वविद्याकलाज्ञो ऽपि समृद्धः शिल्पवान् अपि अस्त्रमन्त्राद्यभिज्ञो ऽपि क्रोधवान् नैव सेव्यताम्* // KDA_402

क्रोधवान् हस्यते लोकैः क्रोधवान् वध्यते जनैः क्रोधवान् हीयते मित्रैः क्रोधवान् परिभूयते // KDA_403

क्रोधो धर्मविरुद्धत्वाच् चतुर्वर्गविनाशकृत्* तस्मात् क्रोधविनाशाय प्रयतध्वं समाहिताः // KDA_404

क्रोधेन भिद्यते चित्तं भिन्नचित्तो विकीर्यते विकीर्णः क्लिश्यते मारैः क्लेशितो ऽधैर्यतां व्रजेत् // KDA_405

अधैर्यत्वाद् भवेन् मूढो मूढो दुष्टवशं व्रजेत्* दुष्टमित्रोपदेशेन कुपथे चरते कुधीः // KDA_406

असन् मार्गो समारूढो विपरीतं समाचरेत्* विपरीतानुबोधेन भवेद् आर्यापवादकः // KDA_407

सद्धर्मादीन् प्रतिक्षिप्य प्रतिमादीन् विघातयेत्* इत्यादिपातकं कृत्वा पञ्चानन्तर्यम् आप्नुयात्* // KDA_408

ततश् च नरकान् यायाद् रौरवादीन् समन्ततः नरकान् नरकं गत्वा महादुःखम् अवाप्नुयात्* // KDA_409

इत्थं दुःखानुवेदी स नरकेषु सदा वसेत्* नरकेभ्यस् तम् उद्धर्तुं जिनो ऽपि नैव शक्नुयात्* // KDA_410

यावन्ति पापदुःखानि दुर्वृत्तिप्रभवानि हि तानि सर्वाणि जानीध्वं क्रोधचित्तोद्भवानि हि // KDA_411

सर्वेषां पातकानां तत् क्रोधं मूलं जगुर् जिनाः धर्माणां तु क्षमा मूलं यतः सौख्यं प्रवर्तते // KDA_412

इति क्रोधं विनिर्जित्य क्षमैव साध्यतां सदा मैत्रीचित्तं समालम्ब्य विहरध्वं यथासुखं // KDA_413

आत्मनीव दया स्याच् चेत् स्वजने वा यथा जने कस्य नाम भवेच् चित्तम् अधर्मप्रणयाशिवम्* // KDA_414

दयावियोगतो लोकः परमामेति विक्रियाम्* मनोवाक्कायविस्पन्दैः स्वजने ऽपि यथा जने // KDA_415

धर्मार्थी न त्यजेद् अस्माद् दयाम् इष्टफलोदयाम्* सुवृष्टिर् इव शस्यानि गुणान् सा हि प्रसूयते // KDA_416

दयाक्रान्तं चित्तं न भवति परद्रोहरभसं शुचौ तस्मिन् वाणी व्रजति विकृतं नैव च तनुः विवृद्धा तस्यैवं परहितरुचिर् मैत्र्यनुगता प्रदानक्षान्त्यादीञ् जनयति गुणान् कीर्त्यनुसृतान्* // KDA_417

दयालुर् नोद्वेगं जनयति परेषाम् उपशमाद् दयालुर् विश्वास्यो भवति जगतां बान्धव इव न संरम्भक्षोभः प्रभवति दयाधीर् अहृदये न कोपाग्निश् चित्ते ज्वलयति हि दयातोयशिशिरे // KDA_418

संक्षेपेण दयामतः स्थिरतया पश्यन्ति धर्मं बुधाः को नामास्ति गुणः स साधुदयितो यो नानुयातो दयाम्* तस्मात् पुत्र इवात्मनीव च दयां नीत्वा प्रकर्षं जने सन्मैत्र्या विहरन्त एव मुदितां प्रोद्भावयध्वं सदा // KDA_419

दयालोर् हृदये जाता मैत्री सद्धर्मसाधनी तस्माद् दयां हृदि स्थाप्य मैत्री लोके प्रसार्यताम्* // KDA_420

मैत्रीमान् पुरुषः साधुर् देवैर् अपि प्रशस्यते विश्वस्यते सदा सद्भिर् बान्धवैः स्वजनैर् जनैः // KDA_421

मैत्रीमान् सज्जनो लोके निर्गुणो ऽपि प्रशोभते मैत्रीमान् सन्मतिर् बन्धुर् लोकानां जगताम् अपि // KDA_422

मैत्रीमाञ् जगताम् इष्टो मैत्रीमाञ् जगतां सुहृत्* मैत्रीमाञ् जगतां मित्रो मैत्रीमाञ् जगतां सखा // KDA_423

मैत्रीमान् पुरुषः श्रीमान् यत्र यत्र प्रगच्छति तत्र तत्रैव सर्वत्र पूज्यते स्वजनैर् यथा // KDA_424

बुद्धो हि जगतां बन्धुस् त्रैलोक्याधिपनायकः सो ऽपि शास्ता विभात्य् एवं मैत्र्या संस्कारयञ् जगत्* // KDA_425

ये ये सत्वा महाभिज्ञाः सर्वलोकानुकम्पकाः पूज्यन्ते सत्वलोकैश् च ते ऽपि मैत्र्याः प्रभावतः // KDA_426

बोधिसत्वा महासत्वा बोधिसंभारसाधकाः सर्वसत्वहितार्थस्थास् ते ऽपि मैत्रीप्रचारिणः // KDA_427

यन् माता दुःखिताप्य् एवम् आ गर्भाद् बालकं सुतम्* पाति स्नेहोपचारेण तच् च मैत्रीप्रभावतः // KDA_428

यत् पिता बालकं पुत्रम् अभुञ्जानः स्वयं सुखम्* पाति स्नेहोपचारेण तच् च मैत्रीप्रभावतः // KDA_429

यच् च राजा प्रजाः पाति स्वयं वीरव्रतं दधत्* दुर्जनान् मर्दयन् सर्वान् तच् च मैत्रीप्रभावतः // KDA_430

यच् च विद्वान् गुरुः शिष्यान् सद्धर्मार्थोपदर्शयन्* प्रबोध्य बालकाञ् छास्ति तच् च मैत्रीप्रभावतः // KDA_431

यच् च वीरा रणे स्थित्वा सहन्त्यरीन् प्रहारिणः प्ररक्षन्ति स्वपक्षांश् च तच् च मैत्रीप्रभावतः // KDA_432

सार्थवाहो ऽम्बुधिं गत्वा यत्नै रत्नानि साधयन्* सत्वान् पाति ददद् दानं तच् च मैत्रीप्रभावतः // KDA_433

यच् च भार्यानुयात्य् एव मृतेन स्वामिना सह अनपेक्ष्य स्वजीवे ऽपि तच् च मैत्रीप्रभावतः // KDA_434

पितृभ्यो मृतकेभ्यो ऽपि ददाति पिण्डम् आदरात्* अनुशोचन् मुहुश् चापि तच् च मैत्रीप्रभावतः // KDA_435

तिर्यग्योन्युद्भवाश् चापि पशवः क्रूरमानसाः स्वसुतान् स्नेहतः पान्ति तच् च मैत्रीप्रभावतः // KDA_436

कृम्याधिकीटयश् चापि क्रूरा गृध्रादिपक्षिणः स्वबन्धून् स्नेहतः पान्ति तद् धि मैत्रीप्रभावतः // KDA_437

चण्डाला निर्घृणा रौद्राः सत्वहिंसारताः खलाः बान्धवांस् ते ऽपि रक्षन्ति तद् धि मैत्रीप्रभावतः // KDA_438

यद् ददन्ति महासत्वाः स्वदेहे ऽप्य् अनपेक्षिताः अर्थिभ्यः प्रार्थितं वस्तु तद् धि मैत्रीप्रभावतः // KDA_439

एवम् अन्ये ऽपि ये लोका भोजयन्तः परस्परम्* पालयन्ति महास्नेहात् तच् च मैत्रीप्रभावतः // KDA_440

मैत्री हि जगतां माता पिता शास्ता गुरुः प्रभुः पतिर् मित्रः सुहृद् बन्धुस् तस्मान् मैत्री प्रसाध्यताम्+ // KDA_441

मैत्रीं विना न जायेत करुणा स्वात्मजे ऽपि च न मुदिता न चोपेक्षा तस्मान् मैत्री प्रधीयताम्* // KDA_442

एता ब्रह्मविहाराख्याः संबोधिपदसाधकाः त्रैलोक्यभर्तृका नाथाः सर्वसत्वानुपालकाः // KDA_443

एता विना न शोभन्ति महाभिज्ञास् तपस्विनः कल्पकोटिसहस्राणि तप्त्वापि दुष्करं तपः // KDA_444

एता हि परमाचार्याः सद्धर्मगुणदायकाः एता विना न सिध्यन्ति सर्वपारमितारताः // KDA_445

यावन्ति सुखभोग्यानि पुण्यसिद्धानि सर्वथा तानि सर्वाणि जानीत मैत्रीमूलोद्भवानि हि // KDA_446

तस्मात् सर्वप्रयत्नेन क्रोधं जित्वांवरैर् अपि मैत्रीं चित्ते समाधाय कुरुध्वं प्राणिषु क्षमाम्* // KDA_447

ततो धर्मप्रभावेण यूयं सर्वे ऽनुमोदिताः यावज्जीवं सुखं भुक्त्वा सौखावतीं गमिष्यथ // KDA_448

इति श्रुत्वा वचस् तस्य नागाश् च गरुडा यतेः वैरानुशयतां त्यक्त्वा बभूवुर् मैत्रिचारिणः // KDA_449

इति दृष्ट्वा च ते सत्वा विस्मयहर्षसंयुताः धर्मानुमोदनं कृत्वा बभूवुर् मैत्रिचारिणः // KDA_450

एवं सुभूतिना तेन नागाश् च गरुडाश् च ते मैत्रीधर्मोपदेशेन विनीता धर्मसत्पथे // KDA_451

अथ श्रीभगवान् बुद्धः सर्वदर्शी विनायकः भिक्षून् आमन्त्रयामास संवृतिचारकान् अपि // KDA_452

पश्यध्वं भिक्षवो यूयं सुभूतिं ब्रह्मचारिणम्* येनैते गरुडा नागा विनीता धर्मसत्पथे // KDA_453

एष मे श्रावकाणां च भिक्षूणां ब्रह्मचारिणाम्* सुभूतिः कुलपुत्रो ऽयम् अग्रो ऽरणाविहारिणाम्* // KDA_454

इति तेन मुनीन्द्रेण सुभूतिर् एव सद्यतिः निर्दिष्टः सर्वभिक्षूणाम् अग्रो ऽरणाविहारिणाम्* // KDA_455

अथ ते भिक्षवः सर्वे संशयोद्धतमानसाः च्छेतारं संशयानां तं पप्रच्छुर् एवम् ईश्वरम्* // KDA_456

कानि भदन्त कर्माणि कृतान्य् अपि सुभूतिना निर्दिष्टो भवता येन ज्येष्ठो ऽरणाविहारिणाम्* // KDA_457

इति तैर् भिक्षुभिः पृष्टो भगवान् इत्य् उदाहरत्* शृणुध्वं भिक्षवः सर्वे तत् कृतं यत् सुभूतिना // KDA_458

सुभूतिना कृतं कर्म तत् को ऽन्यः परिभोक्ष्यते येनैव यत् कृतं कर्म तेनैव तत् प्रभुज्यते // KDA_459

भूतपूर्वम् अतीते ऽध्वन्य् अस्मिन्* कल्पे च भद्रके वर्षसहस्रम् आयुष् च विंशतिगुणितं यदा // KDA_460

तस्मिंश् च समये बुद्धः काश्यपो नाम नायकः विद्याचरणसंपन्नः सुगतो लोकविज् जिनः // KDA_461

शास्ता देवमनुष्याणां पुरुषदम्यसारथिः सर्वज्ञो भगवान् नाथः षडभिज्ञो मुनीश्वरः // KDA_462

वाराणसीम् उपाश्रित्य मृगदावे जिनाश्रमे व्यहरत् सर्वसत्वानाम् सद्धर्मं समुपादिशन्* // KDA_463

तस्यैव शासने शुद्धे स्वाख्याते धर्मवैनये अयं प्रव्रजितो भूत्वा महादाताप्य् अभूत् तदा // KDA_464

दश वर्षसहस्राणि ब्रह्मचर्यम् अपालयत्* प्रणिधानं तथा चायम् अकरोद् ब्रह्मवित्तमः // KDA_465

अनेन कुशलेनाहं भवेयं बौद्धसद्यतिः यो ऽसौ भगवतानेन काश्यपेन सुतायिना // KDA_466

माणव उत्तरो नाम व्याकृत इति बोधये माणव त्वं प्रजानां तु यदा वर्षशतायुषि // KDA_467

शाक्यमुनिर् महाबुद्धः सर्वज्ञो लोकनायकः संबुद्धो भगावन् नाथस् तथागतो भविष्यसि // KDA_468

अस्यैव शसने चाहं भवेयं श्रावकोत्तमः अर्हताम् अग्रसंप्राप्तो भूत्वारणाविहारिणाम्* // KDA_469

तेनैव कर्मणा चाद्य प्रविष्टो मम शासने अर्हतां ज्येष्ठतां प्राप्तस् तथारणाविहारिणाम्* // KDA_470

कानि पुनर् अनेनैव कर्माणि प्रकृतान्य् अपि येनैव नागयोनौ च समुत्पन्नो बभूव सः // KDA_471

यत् तः क्लेशाप्रहीणत्वाद् उद्भ्रान्तेन्द्रियचेतसा शैक्षाशैक्षगाणानां च भिक्षूणां ब्रह्मचारिणाम्* // KDA_472

अनेन रुष्टचित्तेन परुषाबद्धचेतसा चित्तानि संप्रदूष्यैव विकलानि कृतान्य् अपि // KDA_473

सदाशीविषवादेन विक्रुश्याभाणि सांघिके तेनैव पातकेनैवं पञ्च जन्मशतान्य् अपि // KDA_474

नागयोनिसमुत्पन्नो बभूवायं महाविषः यच् चानेन पुनस् तत्र प्रव्रज्य बुद्धशासने // KDA_475

सदा दानानि संदत्वा ब्रह्मचर्यं च पालितम्* तेनेदानीं तथार्हत्वं प्राप्य साक्षात्कृतं मुदा // KDA_476

अरणाविहारिणां चाग्रो निर्दिष्टो ऽयं मया खलु इति हि भिक्षवो यूयं जानीध्वं कर्मताफलम्* // KDA_477

येनैव यत् कृतं कर्म तस्यैव तत् फलं ध्रुवम्* न नश्यन्ति हि कर्माणि कल्पकोटिशतैर् अपि सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनां // KDA_478

अभुक्तं क्षीयते नैव कर्म क्वापि कथंचन नाग्निभिर् दह्यते कर्म वायुभिर् नापि शुष्यति उदकैः क्लिद्यते नैव भूमिष्व् अपि न नश्यति // KDA_479

अन्यथापि च नो भूता सर्वथा कर्मणां गतिः शुक्लानां शुक्लता नित्यं कृष्णानां कृष्णता खलु मिश्रतैव तु मिश्राणां षड्गतौ भुज्यते ध्रुवम्* // KDA_480

तस्माद् अपास्य कृष्णानि कर्माणि मिश्रितानि च यतितव्यं शुभेष्व् एव कर्मसु सुखवाञ्छिभिः // KDA_481

तथेति भिक्षवः श्रुत्वा ते च लोकाः प्रभाषिताः बुद्धवचोमृतं पीत्वा ननन्दुर् अनुमोदिताः // KDA_482

एवम् एतन् महाराज श्रुतं मे गुरुभाषितम्* इति मत्वा त्वया राजन् परात्मशुभवाञ्छिना // KDA_483

क्रोधारिं यत्नतो जित्वा क्षमाधर्मपुरस्कृतः मैत्रीं भावय सत्वेषु स्वात्मजेषु यथा सदा // KDA_484

इति सुभाषितं श्रुत्वा उपगुप्तस्य सद्गुरोः तथेति नृपराजः स ननन्द ससभाजनः // KDA_485

ये मैत्रीभावधर्मं कलिमतिहरणं तत् सुभूतेश् चरित्रं शृण्वन्ति श्रावयन्ति त्रिभुवनसुखदं संनिपात्य जनौघान्* ते लोका मैत्रचित्तास् त्रिभुवनसुखदाः क्षान्तिसौरभ्ययुक्ताः याताः सौखावतीं ते ऽप्य् अमितरुचिमुनेर् धर्मम् आराधयन्ति // KDA_486

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.