Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

ग्रहमातृकाधारणी

Thông tin
GRETIL — : Āryagrahamātṛkā nāma dhāraṇī, Dhīḥ 39 (2005), pp. 169-176. = Gmdh.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

ग्रहमातृकाधारणी

ग्रहमातृकानामधारणी

आर्यग्रहमातृका नाम धारणी

ओं नमो भगवत्यै आर्यग्रहमातृकायै /

एवं मया श्रुतम् एकस्मिन् समये भगवान् अडकवत्यां महानगर्याम् अनेकदेवनागयक्षराक्षसगन्धर्वासुरगरुडकिन्नरमहोरगापस्मारादित्यसोमाङ्गारबुधबृहस्पतिशुक्रशनिश्चरराहुकेत्वादिभिश् चाष्टाविंशतिनक्षत्रादिभिः स्तूयमानो महावज्रसमयालङ्कारव्यूहाधिष्ठानाधिष्ठिते सिंहासने विहरति स्म / अनेकैर् बोधिसत्त्वसहस्रैः सार्धम्* / तद्यथा - वज्रपाणिना च नाम बोधिसत्त्वेन महासत्त्वेन / वज्रचण्डेन च नाम बोधिसत्त्वेन महासत्त्वेन / वज्रसेनेन च नाम बोधिसत्त्वेन महासत्त्वेन / वज्रविनायकेन च नाम बोधिसत्त्वेन महासत्त्वेन / वज्रचापहस्तेन च नाम बोधिसत्त्वेन महासत्त्वेन / वज्रविकुर्वितेन च नाम बोधिसत्त्वेन महासत्त्वेन / वज्राधिपतिना च नाम बोधिसत्त्वेन महासत्त्वेन / वज्रालङ्कारेण च नाम बोधिसत्त्वेन महासत्त्वेन / वज्रविक्रमेण च नाम बोधिसत्त्वेन महासत्त्वेन / ज्योतिवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन / अवलोकितेश्वरेण च नाम बोधिसत्त्वेन महासत्त्वेन / समन्तभद्रेण च नाम बोधिसत्त्वेन महासत्त्वेन / समन्तावलोकितेश्वरेण च नाम बोधिसत्त्वेन महासत्त्वेन / लोकश्रिया च नाम बोधिसत्त्वेन महासत्त्वेन / पद्मकेतुना च नाम बोधिसत्त्वेन महासत्त्वेन / रत्नकेतुना च नाम बोधिसत्त्वेन महासत्त्वेन / विकसितवक्त्रेण च नाम बोधिसत्त्वेन महासत्त्वेन / पद्मगर्भेण च नाम बोधिसत्त्वेन महासत्त्वेन / पद्मनेत्रेण च नाम बोधिसत्त्वेन महासत्त्वेन / मञ्जुश्रिया च नाम बोधिसत्त्वेन महासत्त्वेन / मैत्रेयेण च नाम बोधिसत्त्वेन महासत्त्वेन /

एवं प्रमुखैर् बोधिसत्त्वैर् महासत्त्वैः शतसहस्रैः सार्धं परिवृतः पुरस्कृतो भगवान् धर्मं देशयति स्म / आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं (gmdh 172) सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धपर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म / चिन्तामणिमहाव्यूहालङ्कारं नाम धर्मपर्यायं देशयति स्म / अथ खलु वज्रपाणिर् बोधिसत्त्वो महासत्त्वस् तत् पर्षन्मण्डलम् अवलोक्यासनाद् उत्थाय स्वऋद्ध्याधिष्ठानेन भगवन्तम् अनेकशतसहस्रं प्रदक्षिणीकृत्य प्रणम्य पुरतो निषद्य सगर्वेण पर्यङ्कम् आभुज्य लीलया तत् पर्षन्मण्डलम् अवलोक्य वज्राञ्जली स्वहृदये प्रतिष्ठाप्य भगवन्तम् एतद् अवोचत्* / ग्रहाश् च भगवन्न् उग्रानुग्ररूपाश् च रौद्रारौद्ररूपास् च क्रूराक्रूररूपाश् च सत्त्वान् विहेठयन्ति / केषाञ्चित् प्राणम् अपहरन्ति केषाञ्चिद् उपद्रवाश् च कुर्वन्ति केषाञ्चिद् ओजोहारांश् च कुर्वन्ति केषाञ्चिद् द्रव्यम् अपहरन्ति केषाञ्चिद् दीर्घायुष्सत्त्वानाम् अल्पायुषं कुर्वन्ति / एवं सर्वसत्त्वानाम् उपद्रवेण वाहयन्ति / तद् देशयतु भगवन् धर्मपर्यायं येन सर्वसत्त्वानां सर्वोपद्रवेभ्यो रक्षा भविष्यति /

भगवान् आह - साधु साधु वज्रपाणे यस् त्वं सर्वसत्त्वानाम् अर्थाय हिताय सुखाय कृपाचित्तम् उत्पाद्य महागुह्यातिगुह्यतरं तथागतं सम्यक्संबुद्धं परिपृच्छसि / तच् छृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये ऽहं ते / ग्रहाणाम् उग्ररूपाणां क्रूरातिभीषणमुखानां महागुह्यातिगुह्यतरं दिव्यपूजाम् अर्घं च जापञ् च धूपञ् च -

यथानुवर्णभेदेन यथा तुष्यन्ति ते ग्रहाः / पूजिताः प्रतिपूज्यन्ते निर्दहन्ते यम् आनितः // 1 //

देवाश् चाप्य् असुराश् चैव किन्नराश् च महोरगाः / यक्षाश् च राक्षसाश् चैव मनुषाश् चैवामानुषाः // 2 //

शमयन्ति च क्रुद्धाश् च महानुग्राश् च तेजसा / पूजां तेषां प्रवक्षामि मन्त्रांश् चापि यथाक्रमम्* // 3 //

अथ खलु भगवाञ् छाक्यमुनिः सम्यक्संबुद्धः स्वहृदयात् करुणाविक्रीडितं नाम रश्मिज्वालं निश्चार्य ग्रहाणां मूर्ध्नि प्रवेशयति स्म / अथ तत्क्षणाद् एव ते सर्वे आदित्यादयो ग्रहा उत्थाय भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं सर्वाभिर् दिव्यपूजाभिः पूजयित्वा प्रणम्य जानुभिर् निपत्य कृताञ्जलिपुटा भूत्वा भगवन्तम् एतद् अवोचन्*

अनुगृहीता वयं भगवता तथागतेनार्हतो सम्यक्संबुद्धेन तद् देशयतु भगवन् तादृशं धर्मपर्यायं येन वयं सामग्रीभूतस्य धर्मभाणकस्य रक्षां कुर्यामः / गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धनं धरणीबन्धं च कुर्यामः /

अथ खलु भगवाञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धो ग्रहाणां मन्त्रपूजाञ् च भाषते स्म / ओं मेघोल्काय स्वाहा / ओं शीतांशवे स्वाहा / ओं रक्ताङ्गकुमाराय स्वाहा / ओं बुधाय स्वाहा / ओं बृहस्पतये स्वाहा / ओं असुरोत्तमाय स्वाहा / ओं कृष्णवर्णाय स्वाहा / ओं राहवे स्वाहा / ओं ज्योतिः केतवे स्वाहा / यथानुक्रमभेदेन दिशाश् चोपदिशाश् च गन्धमण्डलकं पद्ममध्ये द्वादशाङ्गुलप्रमाणं चतुरस्रं चतुर्द्वारं चतुस्तोरणशोभितं कूटागारं चक्रसमन्वितं कर्तव्यम्* / तन्मध्ये सितकमलोपरि कुङ्कुमगन्धमण्डलके चिन्तयेद् देवं भास्करं तापसरूपधरं भुजाभ्यां सितकमलधरं रक्तवर्णं सहस्रसूर्यकोटिसमतेजोमालिनं विग्रहम्* / अस्य देयं क्षीरभोजनं कुन्दुरुधूपम्* / ओं मेघोल्काय स्वाहा /

पूर्वस्यां दिशि रक्तकमलोपरि प्रियङ्गुगन्धमण्डलके सोमो ब्राह्मण इति ज्ञेयं सितवर्णं जटामुकुटपुष्पावसक्तं भोजनघृतोदनं श्रीवासधूपः / ओं चन्द्रामृतविक्रमाय नमः / शीतांशवे स्वाहा /

दक्षिणस्यां दिशि शुक्लकमलोपरि चन्दनगन्धमण्डलके भिक्षुरूपो मङ्गलो रक्तवर्णो रत्नमकुटो वामे शक्ति दक्षिणे वरदहस्तो भोजनम् अस्य क्षीरभोजनं भाषभक्तं वा गुग्गुलधूपः / ओं रक्ताङ्गारसोज्ज्वलकुमाराय नमः / अङ्गाराय स्वाहा /

पश्चिमायाम् दिशि रक्तपद्मोपरि कृष्णागरुगन्धमण्डलके ब्रह्मचारी बुधः स्यात् पीतवर्णो रक्तश्मश्रुः अक्षसूत्रकमण्डलुधरः / भोजनं मुद्रभाषकृषरः / धूपो गन्धरसः / ओं राजपुत्रपीतवर्णाय नमः / बुधाय स्वाहा /

उत्तरस्यां दिशि सितकमलोपरि देवदारुगन्धमण्डलके परिव्राजको गुरुस् तप्तकाञ्चनवर्णाभो रक्तश्मश्रुः अक्षसूत्रकमण्डलुधरः / अस्य देयं दधिभक्तोदनक्षीरं वा मधुधृतधूपः / ओं लोहितवर्णनिगमाय नमः भोगास्पदाय स्वाहा /

आग्नेयां दिशि रक्तपद्मोपरि चन्दनगन्धमण्डलके शुक्रपाशुपतधारि गोक्षीरवर्णधवलाम्भो जटामुकुताक्षसूत्रकमण्डलुधरः / अस्य देयं क्षीरभोजनं कर्पूरधूपः / ओं नमः शुक्राधिपतये असुरोत्तमाय शुद्धविग्रहे स्वाहा /

नैरृत्यां दिशि सितपङ्कजोपरि नीलचन्दनगन्धमण्डलके शनिश्चरो कृष्णवर्णफणभृत्क्षपणको ज्ञेयः बीजजटामुकुटश्मश्रुः / अक्षसूत्रक्षिक्षिरिकाधरो भोजनम् अस्य भाषभक्तकृषरः / धूपो गन्धरसः / ओं नीलवर्णसन्निभाय नमः / कृष्णशनिश्चराय स्वाहा /

वायव्यां दिशि रक्ताम्भोजोपरि तगरादिगन्धमण्डलके कापालिको राहु राजावर्तनिभो ऽर्धदेहो रविरथभयानकलोचनयुगो दंष्ट्राकरालो भृकुटीकृतललाटपञ्चवर्णः मेघमध्यगतो भुजाभ्यां चन्द्रसूर्यकमलाभिनयस्थितः / अस्य देयं भाषामिषभोजनं तिलकृषरो वा विल्वपत्रधूपः / ओं विकृतवदनरुधिराशिन् राहो भृङ्गाञ्जनसन्निभाय नमः / अमृतप्रियाय स्वाहा /

ऐशान्यां दिशि रक्तसरोरुहोपरि स्पृक्कागन्धमण्डलके चाण्डालकेतुर् भवेत्* / धूम्रवर्णः कृताञ्जलिर् नागाकृतिः स्वपुच्छभृत्* / अस्य देयं भोजनं धृतपूरकं सज्जरसो धूपः / ओं धूम्रवर्णसन्निभाय ज्योतिष्केतवे नमः स्वाहा /

मण्डलस्य पूर्वद्वारे बुद्धो भगवान् दक्षिणद्वारे वज्रपाणिः पश्चिमद्वारे लोकनाथः उत्तरद्वारे मञ्जुश्रीकुमारः / पूर्वोत्तरकोणे सर्वे ग्रहाः पूर्वदक्षिणकोणे सर्वे राशिनक्षत्राः दक्षिणपश्चिमकोणे सर्वोपद्रवाः पश्चिमोत्तरकोणे भट्टारिका महाविद्या / श्वेता नीलारुणत्रिमुखा हस्तद्वयेन व्याख्यानमुद्रा दक्षिणे रत्नछत्रा वामे पाशशक्तिधरा रत्नमुकुटीवज्रपर्यङ्कोपविष्टा चन्दासनसमासीना षोडशवर्षाकारा सर्वालङ्कारभूषिता /

बाह्यपूर्वद्वारे धृतराष्ट्रस्य दधिभक्तं दक्षिणे विरूढकस्य दधिमाषभक्तं पश्चिमे विरूपाक्षस्य क्षीरभतम् उत्तरे कुबेरस्य दधिमाषभक्तं सिन्दूरमस्तकम्* / यथानुक्रमभेदेन पुष्पादिपूजा कर्तव्या / प्रत्येकम् दीपो देयः / धृतमधुभ्यां शंखं पूरयित्वा पञ्चरत्नं प्रक्षिप्यार्घो देयः / सर्वेषां मुखपटो देयम् इति / एवं वर्णभुजासनमुद्राचिह्नानि भवन्ति /

ओं नमः सर्वतथागतेभ्यः सर्वाशापरिपूरकेभ्यः सर्वथा भक्तिने स्वाहा / रत्नत्रयस्य मन्त्रं एवं प्रत्येकं जपेत् सप्तसप्ताष्टशतं मन्त्रम् एकैकशः / एवं पूजिताः सर्वे ग्रहा विविधरूपिणो ददति विपुलान् भोगान् सौभाग्यान्* जनयन्त्य् अपि /

इमानि वज्रपाणे नवग्रहाणां हृदयानि पठितसिद्धानि तथानुक्रमभेदेन गन्धमण्डलकं कृत्वा द्वादशाङ्गुलिमध्ये पूजयितव्यानि ताम्रमृण्मयरूप्यादिभोजनेन अर्घं दत्वाष्टोत्तरशतवारान् मन्त्रं जपेत्* एकैकशः / पश्चात् पुनर् वज्रपाणे गृहमातृकानाम धारणीमन्त्रपदानि सप्तवारानुच्चारयितव्यानि / ततस् ते आदित्यादयो रक्षावरणगुप्तिं करिष्यन्ति / दारिद्र्यं दुःखं मोचयिष्यन्ति गतायुषं दीर्घायुषं करिष्यन्ति /

यश् च खलु पुनर् वज्रपाणे भिक्षुभिक्षुण्युपासकोपासिकान् ये वा सत्त्वजातीया येषां कर्णपुटे शब्दं निपतिष्यन्ति न तेषाम् अकालमृत्युना कालं करिष्यन्ति / यश् च खलु पुनर् वज्रपाणे ग्रहान् मण्डलमध्ये पूजयित्वा दिने दिने सप्तवारानुच्चारयिष्यन्ति / तत्र तस्य धर्मभाणकस्य सर्वे ग्रहाः सर्वेण सर्वाशां परिपूरयिष्यन्ति / तत्कुलाद् अपि दारिद्र्यञ् च नाशायिष्यन्ति /

अथ खलु भगवाञ् छाक्यमुनि तथागतः पुनर् अपि गृहमातृकानाम धारणीमन्त्रपदानि भाषते स्म / ओं नमो रत्नत्रयाय / ओं नमो बुद्धाय / ओं नमो धर्माय / ओं नमः संघाय / ओं नमो वज्रधराय / ओं नमः पद्मधराय / ओं नमः कुमाराय / ओं नमः सर्वग्रहाणां सर्वाशापरिपूरकाणाम्* / ओं नमः नक्षत्राणाम्* / ओं नमो द्वादशराशीनाम्* / ओं नमः सर्वोपद्रवाणाम्* / तद्यथा -

ओं बुद्धे 2 शुद्धे 2 वज्रे 2 पद्मे 2 सर 2 प्रसरे 2 स्मर 2 क्रीड 2 क्रीडय 2 मर 2 मारय 2 मर्दय 2 स्तम्भ 2 स्तम्भय 2 घट 2 घाटय 2 मम सर्वसत्त्वानाञ् च विघ्नान्* छिन्द छिन्द भिन्द 2 सर्वविघ्नान् नाशनं कुरु 2 मम सपरिवारस्य सर्वसत्त्वानाञ् च कार्यं क्षेपय 2 मम सर्वसत्त्वानाञ् च सर्वनक्षत्रग्रहपीडान् निवारय 2 भगवति श्रियं कुरु महामाया प्रसाधय सर्वदुष्टान् नाशय सर्वपापानि मम सपरिवारस्य सर्वसत्त्वानाञ् च रक्ष 2 वज्रे 2 चण्डे 2 चण्डिनि 2 नुरु 2 मुसु 2 मुमु 2 मुञ्च 2 हवा हवे उग्रे उग्रतरे पूरय भगवति मनोरथं मम सर्वपरिवारस्य सर्वसत्त्वानाञ् च सर्वतथागतादिष्ठानाधिष्ठिते स्वाहा / ओं स्वाहा / हूं स्वाहा / ह्रीः स्वाहा / धूः स्वाहा / धीः स्वाहा / ओं आदित्याय स्वाहा / ओं सोमाय स्वाहा / ओं धरणीसुताय स्वाहा / ओं बुधाय स्वाहा / ओं बृहस्पतये स्वाहा / ओं शुक्राय स्वाहा / ओं शनिश्चराय स्वाहा / ओं राहवे स्वाहा / ओं केतवे स्वाहा / ओं बुद्धाय स्वाहा / ओं वज्रपाणये स्वाहा / ओं पद्मधराय स्वाहा / ओं कुमाराय स्वाहा / ओं सर्वग्रहाणां स्वाहा / ओं सर्वनक्षत्राणां स्वाहा / सर्वोपद्रवाणां स्वाहा / ओं द्वादशराशीनां स्वाहा / ओं सर्वविद्ये हूं 2 फट्* स्वाहा /

इमानि वज्रपाणे ग्रहमातृकानाम धारणीमन्त्रपदानि सर्वसिद्धिकराणि च / यच् च खलु पुनर् वज्रपाणे इमानि ग्रहमातृकानाम धारणीमन्त्रपदानि कार्तिकमासशुक्लपक्षस्य सप्तमीम् आरभ्योपोषधिको भूत्वा यावच् चतुर्दशीग्रहनक्षत्रान् मध्ये पूजयित्वा दिने दिने सप्तवारानुच्चारयितव्यानि / ततः पूर्णमास्याम् अहोरात्रं वाचयेत्* / तस्य नवनवतिवर्षाणि मृत्युभयं न भविष्यति / उल्कापातग्रहनक्षत्रपीडाभयं न भविष्यति / जातौ जातौ जातिस्मरो भविष्यति / सर्वे ग्रहा ईप्सितं वरं दास्यन्ति /

अथ ते सर्वे ग्रहाः साधु भगवन्न् इति कृत्वा प्रणम्यान्तर्हिताभूवन्न् इति / इदम् अवोचद् भगवान् आत्तमनास् ते च भिक्षवस् ते च बोधिसत्त्वा महासत्त्वाः सा च सर्वावतीपर्षत् सदेवमानुषासुरगरुडगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति /

आर्यग्रहमातृकानाम धारणी समाप्ता //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.