Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
गणपतिहृदय्धारणी
- Thông tin
- GRETIL — Yutaka Iwamoto: Kleinere Dhāraṇī Texte, Kyoto 1937 (Beiträge zur Indologie, 2), pp. 10-12.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
गणपतिहृदय्धारणी
(gph_10)
नमो भगवते आर्यमहागणपतिहृदयाय / नमो रत्नत्रयाय //
एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म / गृध्रकूटपर्वते महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः संबहुलैश् च बोधिसत्वैर् महासत्वैः / तेन खलु पुनः समयेन भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म //
यः कश्चित् कुलपुत्र आनन्द इमानि गणपतिहृदयानि धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति तस्य सर्वाणि कार्यसिद्धानि भविष्यन्ति //
ओं नमो ऽस्तु ते महागणपतये स्वाहा / ओं गः गः गः गः गः गः गः गः / ओं नमो गणपतये स्वाहा / ओं गणाधिपतये स्वाहा / ओं गणेश्वराय स्वाहा / ओं गणपतिपूजिताय स्वाहा / ओं कट कट मट मट दर दर विदर विदर हन हन गृह्ण गृह्ण धाव धाव भञ्ज भञ्ज जम्भ जम्भ तम्भ (gph_11) तम्भ स्तम्भ स्तम्भ मोह मोह देह देह ददापय ददापय धनसिद्धि मे प्रयच्छ / ओं रुद्रावताराय स्वाहा / ओं अद्भुतविन्दुक्षुभितचित्तमहाहासम् आगच्छति / महाभयमहाबलपराक्रमाय महाहस्तिदक्षिणाय ददापय स्वाहा / ओं नमो ऽस्तु ते महागणपतये स्वाहा / ओं गः गः गः गः गः गः गः गः / ओं नमो गणपतये स्वाहा / ओं गणेश्वराय स्वाहा / ओं गणाधिपतये स्वाहा / ओं गणपतिपूजिताय स्वाह / ओं सुरु सुरु स्वाहा / ओं तुरु तुरु स्वाहा / ओं मुरु मुरु स्वाहा /
इदम् आनन्द गणपतिहृदयानि //
यः कश्चित् कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा / यः कश्चित् कार्यम् आलभते मन्त्रसाधनं वा त्रिरत्नपूजं वा देशान्तरगमनं वा राजकुलगमनं वा अन्तर्धानं वा तेन बुद्धभगवतां पूजां कृत्वा आर्यगणपतिहृदयं सप्तवारानुचारयितव्यं सर्वकार्याणि तस्य सिध्यन्ते नात्र शंसयः / सर्वकलिकलहमर्दमात्सरेषु नित्यं शमतव्यं सर्वप्रशमं गच्छति / दिनेदिने कल्पम् उत्थाय सर्वसप्तवारानुचारयितव्यं महासौभागे भविष्यति / (gph_12) राजकुलगमनकाले महाप्रासादो भविष्यन्ति / श्रुतिधरो भविष्यति / न चास्य काये महाव्याधयो भविष्यन्ति / न कश्चिद् एव तारप्रदक्षिणो ऽवतारं लप्स्यते भृङ्गो ऽवतारं लप्स्यति न चास्य बोधिचित्तोत्तराया भविष्यन्ति / जातौ जातौ जातिस्मरो भविष्यति //
इदम् अवोचत् भगवान् आत्तमनास् ते च भिक्षवस् ते बोधिसत्वा महासत्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगरुडगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति //
आर्यमहागणपतिहृदयं समाप्तम् //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
