Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
कारण्डव्यूह
- Thông tin
- GRETIL — P.L. Vaidya Mahayana-sutra-samgrahah, Part 1, Sutra No. 12, pp. 258-308. Darbhanga : The Mithila Institute, 1961. (Buddhist Sanskrit Texts, 17).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अथ अवलोकितेश्वरो बोधिसत्त्वश्चिन्तामापेदे - केनोपायेनाहं सत्त्वान् सर्वान् सुखोपधानैस्तस्मात्कान्तारान्महादारूणादकालमरणात्परिमोचयेयं संतर्पयेयम्? अथावलोकितेश्वरो विविधानि वर्षाणि प्रवर्षितुमारब्धः / प्रथममुदकवर्षम् / यदा उदकेन संतर्पिताः प्रीणितगात्राश्च भवन्ति, तदा पश्चाद्दिव्यानि पिष्टकानि रसरसाग्रोपेतानि तेनाहारेण परिपूर्णानि / यदाहारेण संतर्पिता भवन्ति तदा धान्यवर्षाणि पतन्ति, अन्यानि च तिलतण्डुलकोलमुद्गमाषकलावमसूरयवगोधूमशालिधान्यकुलत्थादीनि पतन्ति स्म / विविधानि च वस्त्राभरणानि च प्रवर्षन्ति स्म / यदा यदा तेषां सर्वेषां सत्त्वानां के ऽप्यभिप्राया भवन्ति, तदा तदा तेषां सत्त्वानामभिप्राया अनुसिध्यन्ते / अथ ते मागधकाः सत्त्वास्तदिदं विचित्रं स्वात्मसुखं दृष्ट्वा दुःखं च व्युपशान्तम्, तदा परमविस्मयमापन्नाः / ते च सर्वे एकस्थाने विश्रान्ताः, विश्रमित्वा परस्परमेवमाहुः - कस्य देवस्यायं प्रभावः? ततस्तेषां पुरुषाणां मध्ये जीर्णो वृद्धो महल्लकः कुब्जो गोपाणसीवक्रो ऽधिभग्नो दाण्डपरायणः अनेकवर्षशतसहस्रायुषिकः / स तेषां मध्ये स्थित्वा कथयति - न युष्माकमन्यदेवस्य कस्यचिदीदृशं प्रभावो भवति विरहितादवलोकितेश्वरस्य / ततस्ता पर्षदः पृच्छन्ति - कीदृशं तस्य निमित्तमवलोकितेश्वरस्य? अथ स पुरुष आर्यावलोकितेश्वरस्य गुणोद्भावनां भाषितुमारब्धः -
शृणुत कुलपुत्राः / अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽन्धभूतानां दीपभूतः, सूर्यतापदग्धानां छत्रीभूतः, तृषोपद्रुतानां नदीभूतः, भयभीतानामभयंददः, व्याधिपरिपीडितानां वैद्यभूतः, दुःखितानां सत्त्वानां मातापितृभूतः, अवीच्युपपन्नानां सत्त्वानां निर्वाणप्रदर्शकः / ईदृशानि भवन्तस्तस्य गुणविशेषाणि / सुखितास्ते सत्त्वा लोके ये तस्य नाममनुस्मरन्ति / ते आपश्चिमं सांसारिकं दुःखं परिवर्जयन्ति / सचेतनास्ते पुरुषपुंगवा ये अवलोकितेश्वरस्य सततपरिग्रहं पुष्पधूपं निर्यातयन्ति / ये ऽवलोकितेश्वरस्य पुरतश्चतुरस्रं मण्डलकं कुर्वन्ति, ते राजानो भवन्ति चक्रवर्तिनः सप्तरत्नसमन्वागताः / तद्यथा - चक्ररत्नम्, अश्वरत्नं हस्तिरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् / एवं सप्त रत्नानि, एभिः सप्तरत्नैः समन्वागता भवन्ति / ये चावलोकितेश्वरस्यैकमपि पुष्पं निर्यातयन्ति, ते (वैद्य 283) सुगन्धिकाया भवन्ति / यत्र यत्रोपपद्यन्ते तत्र तत्र परीपूर्णकायाश्च भवन्ति / एवं स पुरुषो गुणविशेषं कृतवान / ताश्च पर्षदः स्वकस्वकेषु भवनेषु प्रत्युद्गताः, अनन्तविमला नाम कायपरिशुद्धिः [तां] प्रतिलभन्ते स्म / अथ स जीर्णपुरूषः आनुलोमिकीं धर्मदेशनां कृत्वा स्वकं गृहं निवेशनं प्रत्युद्गतः / अथावलोकितेश्वरस्तत्रैवाकाशे ऽन्तर्हितः //
अथ स आकाशे चिन्तामापेदे - विश्वभूस्तथागतो मे चिरकालं दृष्टः, सो ऽनुपूर्वेण जेतवनं विहारमनुप्रविष्टः / यावत्पश्यति अनेकानि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यशतसहस्राणि / अनेकानि च बोधिसत्त्वशतसहस्राणि संनिपतितानि //
अथ गगनगञ्जो बोधिसत्त्वो भगवन्तमेतदवोचत् - कतमो ऽयं भगवन् बोधिसत्त्व आगच्छति? भगवानाह - एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व आगच्छति / अथ गगनगञ्जो बोधिसत्त्वः तूष्णींभावेन व्यवस्थितः / अथावलोकितेश्वरो बोधिसत्त्वस्तं भगवन्तं त्रिः प्रदक्षिणीकृत्य वामपार्श्वे विश्रान्तः //
अथ स पुनः श्रान्तं विदित्वा भगवान् पृच्छति - श्रान्तस्त्वं कुलपुत्र / कीदृशी कर्मभूमिस्त्वया निष्पादिताः? तन तस्य भूतपूर्वं वर्णितम् - सदा प्रेतेष्ववीच्युपपन्नेषु कालसूत्ररौरवोपपन्नेषु हाहे तपने महानरके, सितोदके महानरके, असिच्छेदे महानरके, संवरे महानरके / एषु महानरकेषु ये सत्त्वा उपपन्नास्तेषां च कर्मभूमिः सत्त्वानामपरिपाककृता कर्तव्या, कृत्वा चानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्याः / ईदृशो मया सत्त्वपरिपाकः कृतः / अथ गगनगञ्जो बोधिसत्त्वो महासत्त्वः परमविस्मयमापन्नः - न च मे बोधिसत्त्वभूतस्य ईदृशं विषयं दृष्टं श्रुत वा, तथागतानामीदृशं विषयं न संविद्यते //
अथे गगनगञ्जो बोधिसत्त्वो ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतः स्थित्वा अवलोकितेश्वरमेवमाह - मा त्वं श्रान्तः / क्लिष्टस्त्वम् / स आह - न चाहं युष्माकं मध्ये श्रान्तो न क्लिष्टः / तौ परस्परं सांकथ्यं कृत्वा तूष्णींभावेन व्यवस्थितौ //
अथ भगवान् षट्पारमितानिर्देशं धर्मं देशयितुमारब्धः - शृण्वन्तु कुलपुत्राः / प्रथमं बोधिसत्त्वभूतेन दानपारमिता परिपूरयितव्या / एवं शीलपारमिता क्षान्तिपारमिता धै(वी)र्यपारमिता ध्यानपारमिता प्रज्ञापारमिता परिपूरयितव्या / इमां चानुलोमिकां धर्मदेशनां कृत्वा तूष्णींभावेन व्यवस्थितः / अथ ताः पर्षदः स्वकस्वकस्थानेषु प्रक्रान्ताः, ते च बोधिसत्त्वाः स्वकस्वकेषु बुद्धक्षेत्रेषु प्रक्रान्ताः // अयं कारण्डव्यूहमहायानसूत्ररत्नराजस्य प्रथमो निर्व्यूहः सर्वकर्मविशोधनो ऽनुत्तरबोधिमार्गप्रतिष्ठापकः समाप्तः // 1 // स्तर्त् क्व्यु 2,1:
द्वितीयो निर्व्यूहः /
अश्वराजवर्णनं प्रथमं प्रकरणम् /
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - आख्याहि भगवन् अवलोकितेश्वरस्य भूतपुर्वं कृतमेते समाधयः, यैरवलोकितेश्वरः समापन्नः / भगवानाह - अप्रमेयैरसंख्येयैः समाधिकोटिनियुतशतसहस्रैः समापन्नौ ऽवलोकितेश्वरः, येषां समाधीनां (न) शक्यं सर्वतथागतैः पर्यन्तमधिगन्तुम् / अथ सर्वनीवरणविष्कम्भी आह - निर्देशय भगवंस्तानि समाधीनि सर्वसत्त्वानुकम्पया /
भगवानाह - तद्यथापि नाम कुलपुत्र आकारकरो नाम समाधिः, प्रभाकरो नाम समाधिः, वज्रोद्गतो नाम समाधिः, सूर्यप्रभो नाम समाधिः, विकिरिणो नाम समाधिः, केयूरो नाम समाधिः, ध्वजाग्रो नाम समाधिः, अलंकारो नाम समाधिः, व्यूहराजो नाम समाधिः, दशदिग्व्यवलोकनो नाम समाधिः, चिन्तामणिवरलोचनो नाम समाधिः, धर्मधरो नाम समाधिः, समुद्रावरोहणो नाम समाधिः, अभिनमितो नाम समाधिः, उष्णीषकुण्डलो नाम समाधिः, चन्द्रवरलोचनो नाम समाधिः, बहुजनपरिवारो नाम समाधिः, देवकुण्डलरोचनो नाम समाधिः, कल्पद्वीपो नाम समाधिः, प्रातिहार्यसंदर्शनो नाम समाधिः, पद्मोत्तमो नाम समाधिः, अवीचिसंशोषणो नाम समाधिः, रुचितो नाम समाधिः, देवमण्डलो नाम समाधि, अमृतबिन्दुर्नाम समाधिः, प्रभामण्डलो नाम समाधिः, समुद्रावगाहनो नाम समाधिः, विमाननिर्व्यूहो नाम समाधिः, कलविङ्कस्वरो नाम समाधिः, नीलोत्पलगन्धो नाम समाधिः, आरूढो नाम समाधिः, वज्रकुचो नाम समाधिः, द्विरदरतो नाम समाधिः, सिंहविक्रीडितो नाम समाधिः, अनुत्तरो नाम समाधिः, दमनो नाम समाधिः, चन्द्रोत्तर्यो नाम समाधिः, आभासकरो नाम समाधिः, शतकिरणो नाम समाधिः, विच्छुरितो नाम समाधिः, प्रभाकरो नाम समाधिः, स्वाकारकरो नाम समाधिः, असुरसंचोदनो नाम समाधिः, भवसंशोधनो नाम समाधिः, निर्वाणसंचोदनो नाम समाधिः, महाद्वीपो नाम समाधिः, द्विपराजो नाम समाधिः, भवोत्तारकरो नाम समाधिः, अक्षरकरो नाम समाधिः, देवाभिमुखो नाम समाधिः, योगकरो नाम समाधिः, परमार्थदर्शनो नाम समाधिः, विद्युन्नाम समाधिः,
नामव्युहो नाम समाधिः, सिंहविजृम्भितो नाम समाधिः, स्वातिमुखो नाम समाधिः, आगमनागमनो नाम समाधिः, बुद्धिविस्फुरणो नाम समाधिः, स्मृतीन्द्रियसंवर्धनो नाम समाधिः, अभिमुक्तो नाम समाधिः, जयवाहनो नाम समाधिः, मार्गसंदर्शनो नाम समाधिः /
एभिं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः समाधिभिः समन्वागतः / तस्यैककरोमविवरे समाधिशतसहस्राणि सन्ति / अयं कुलपुत्र अवलोकितेश्वरस्य परमपुण्यसंभारः / ईदृशस्तथागतानां पुण्यसंभारो न संविद्यते, प्रागेव बोधिसत्त्वभूतस्य //
भूतपूर्वं कुलपुत्र अहं सिंहलराजो नाम बोधिसत्त्वभूतो ऽभूवम् / ततो ऽहं सिंहलद्वीपयात्रां संप्रस्थितः / पञ्चभिर्वणिक्पुत्रशतैः सार्धं शकटैर्भारैर्मूटैः पिठरैरुष्ट्रैर्गोभिर्गर्दभादिभिः प्रभूतं पण्यमारोप्य सिंहलद्वीपं संप्रस्थितः / ततो ऽनुपूर्वेण ग्रामनगरनिगमपर्णपत्तनेषु चंचूर्यमाणः सिंहलद्वीपमनुप्राप्तः, येन निपुणं तद्यानपात्रं प्रतिपादितम् / तदा मे कर्णधारा आहुः - कथय कथय युष्माकं कतमद्वीपेषु गमनायेदृशा वायवो वान्ति? अथवा रत्नद्वीपेषु वायवो वान्ति, अथवा राक्षसद्वीपेषु वायवो वान्ति? अथ कर्णधार एवमाह - यत्खलु देवो जानीयात् - सिंहलद्वीपेषु वायवो वान्ति / अथ तद्यानपात्रमारुह्य सिंहलद्वीपं संप्रस्थितः //
ततो ऽहं सिंहलद्वीपनिवासिनीभी राक्षसीभिः संप्रस्थितो विदित्वा अकालवायव उत्सृष्टाः / तच्च तद्यानपात्रं खण्डखण्डं विशीर्णम् / ते च वणिक्पुरुषा उदके पतिता बाहुबलेन संतर्तुमारब्धाः / ततस्तीरस्य समीपमनुप्राप्ताः //
ततो राक्षसीनां पञ्च शतानि निष्क्रान्तानि किलकिलायमानानि / कुमारीरूपमभिनिर्माय तदा कूलस्य समीपमनुप्राप्ताः / उत्तार्य शाटकानि दत्त्वा उदकेभ्य उत्क्षिप्ताः / ते च स्वकीयानि वस्त्राणि शरीरे लग्नानि गृहीत्वा निष्पीडितुमारब्धाः / निष्पीडयित्वा ते तस्मात्स्थानादतिक्रम्य अन्यप्रदेशे महतश्चम्पकवृक्षस्य तले विश्रान्ताः / विश्रमित्वा परस्परं सांकथ्यं कर्तुमारब्धाः - को ऽस्माकमुपायः संविद्यते? ते कथयन्ति - नास्माकं उपायस्य स्थानम् / एवं सांकथ्यं कृत्वा तूषींभावेन व्यवस्थिताः / अथ तेषां राक्षस्यः पुरुषाणां पुरतः स्थित्वैवमाहुः - स्वागतम् / भवन्त आगच्छताम्, अस्वामिकानां स्वामी भव / अगतिकानां गतिको भव / अद्वीपानां द्वीपो भव / अनालयनानां अपरायणानां आलयो भव, परायणो भव / इमानि ते ऽन्नगृहाणि पानगृहाणि यानगृहाणि वस्त्रगृहाणि कटककेयूराणां मौलिकुण्डलानां गृहाणि उद्यानरमणीयानि पुष्किरिणीरमणीयानि संतिष्ठन्ति / ताभी राक्षसीभिरेकैकं पुरुषं गृहीत्वा स्वकं स्वकं निवेशनं प्रत्युद्गताः / या च तासां राक्षसीनां वृद्धतरा, तयाहं स्वकीयं निवेशनं नीत्वा दिव्यरससाग्रोपेतेनाहारेण संतर्पितः / संतर्पयित्वा क्रीडितुमारब्धा / स तु ततो मानुष्यकेन सौख्येन संतर्पितः / एवं द्वित्रिसप्तदिनान्यतिक्रान्तानि / स रात्रौ शयितः / एवं यावत्पश्यति रतिकरहसनं तदाहं विस्मयमापन्नः / न कदाचित्स्यान्मया दृष्टं वा श्रुतं वा प्रज्वलितमेव रतिकरहसनम्, तदैव मया तस्य प्रत्याहारः कृतः - किं कारणं त्वं हससे? इयं सिंहलद्वीपनिवासिनी राक्षसी / सा तव जिवितान्तरायं करिष्यति / तदा मे तस्य प्रत्याहारः कृतः - त्वं जानासि राक्षसीति? स कथयति - यदि न प्रतीयसि, दक्षिणपन्थलिकां गृहीत्वा अनुविचरन् गच्छ / तत्रायं स नगरमूर्ध्वमुच्चं गवाक्षतोरणविप्रहीणं चाप्रतिहतम् / तत्रानेकानि वणिग्जनानि भक्षयित्वा अस्थीनिप्रक्षिप्तानि / अन्ये च जीवन्तो अन्ये च मृताः / यदि न प्रतीयसि, तदपि मार्गं गच्छ / गत्वा च मार्गं निरीक्षस्व, तदा मे श्रद्धास्यसि / तदा तस्यास्तेन मोहजाला नाम निद्राति सा //
अथ स बोधिसत्त्वो रात्रिप्रथमयामे समये तस्या राक्षस्याः सकाशादुत्थाय संप्रस्थितः / चन्द्रावभासं खङ्गं सज्जीकृतम् / उपगृह्यानुविचरंस्तां दक्षिणपन्थलिकां गृहीत्वा संप्रस्थितः / अनुपूर्वेणायसं नगरमनुप्राप्तः, समन्तेन परिक्रमति / न च द्वाराणि गवाक्षाणि समनुपश्यति / अथ तस्मिन्नायसे नगरे महान् यश्चम्पकवृक्षस्तत्रैवारुह्य ततो मया तेषामुत्कासनशब्दः कृतः / ततो मे वणिक्पुरुषाः कथयन्ति - यत्खलु महासार्थवाहो जानीयात् - वयं राक्षसीभिरायसे नगरे प्रक्षिप्ताः / तदा दिने दिने शतं पुरुषाणां गृहीत्वा भक्षयन्ति / तान् भक्षयित्वा अस्थीन्यत्रैवायसे नगरे क्षिपन्ति / तेन तस्य भूतपूर्वं वर्णितम् / तदाहं चम्पकवृक्षादवतीर्य पुनरेव दक्षिणां पन्थलिकां गृहीत्वा अनुविचरन् त्वरित आगच्छामि स्म / ततो प्रविष्टः //
अथ रतिकरो मामेतदवोचत् - दृष्टस्ते सार्थवाह मद्वचनम्? उक्तं च मया - दृष्टं युष्माकं सत्यं सांकथ्यकृतम् / तदा मे ऽस्य प्रत्याहारः कृतः - सत्यमेव, क उपायो ऽस्माकम्? अथ स रतिकर एतदवोचत् - अस्ति मे महासार्थवाहोपायम्, येनोपायेन सिंहलद्वीपात् स्वस्तिक्षेमाभ्यां जम्बूद्वीपं निर्गच्छसि / पुनरेव जम्बुद्वीपमपसरसि / अथ स रतिकरो मामेतदवोचत् - अस्ति तस्मिन्नेव द्वीपे महासमुद्रतीरे देवबालाहो नामाश्वराजो हीनदीनानुकम्पकः / स च बालाहो ऽश्वराजः / सर्वश्वेतानामौषधीं भुक्त्वा सुवर्णवालुकास्थले आवर्तनपरिवर्तनसंपरिवर्तनं कृत्वा शरीरं प्रच्छोडयति, प्रच्छोडयित्वा प्रत्याहारं कुरुते - कः पारगामी, कः पारगामी कः पारगामीति? त्वयैवं वक्तव्यम् - अहं देव पारगामीति / एवं सांकथ्यं कृत्वा सा राक्षसी समीपमुपगम्य सार्धं शयित एव प्रतिविबुद्धा / सा कथयति - आर्यपुत्र, कथं ते शरीरं शीतलम्? तदा मया तस्या मृषावादं प्रत्याहारं कृतम् / बहिर्नगरस्य उच्चारप्रस्रवेण निष्क्रान्तो ऽहम्, ततः शरीरं शीतलम् / इत्युक्त्वा सा पुनरपि शयिता / ततः प्रातः सूर्यस्य चाभ्युद्गमनकालसमये उत्थाय तेषां वणिक्पुरूषाणामारोचयति स्म - आगच्छन्तु भवन्तो बहिर्नगरस्य गच्छामः / ते सर्वे सहिताः समग्रा बहिर्नगरस्य संप्रस्थिताः / ते च बहिर्नगरस्य गत्वा एकान्ते विश्रान्ताः सांकथ्यं कर्तुमारब्धाः - कस्य कीदृशी भार्या स्नेहवती? केचित्कथयन्ति - अतिस्नेहं न कुरुते / केचित्कथयन्ति - मम दिव्यरसरसाग्रोपेतैराहारैः संधारयति / केचित् कथयन्ति - नानाविधैर्वस्त्रैर्मम संधारयति /
केचित्कथयन्ति - मम दिव्यमौलीकुण्डलस्रग्दामानि धारयति / केचित्कथयन्ति - नास्माकं कायदौर्बल्यम् / केचित्कथयन्ति - मम विविधानि चन्दनकर्पूरकस्तूरिकादीनि धारयति / एवं तैः सांकथ्यं कृतम् / तदा तेषां वणिक्पुरुषाणां प्रत्याहारं करोति स्म - न युष्माकं युक्तमिदं यद्वयं राक्षसीभिः प्रसक्ताः / इति श्रुत्वा ते विह्वलीभूताः एवमाहुः - सत्यं महासार्थवाह, राक्षसी सिंहलद्वीपनिवासिनीति / तदा तेषां मया प्रत्याहारः कृतः - सत्यं सत्यं बुद्धधर्मसंघेभ्यं, नेयं मानुषी, राक्षसी / अथ ते वणिक्पुरुषाः कथयन्ति - कास्माकं गतिः? किं परायणम्? तदा तेषां मया प्रत्याहारः कृतः - अस्माकं गतिः शरणं परायणम्? (वैद्य 287) वणिक्पुरूषाः कथयन्ति - उपदर्शय सार्थवाह / अथ स तेषामेवमाह - अस्ति युष्माकं सिंहलद्वीपे बालाहो नाम अश्वराजः / स च हीनदीनानुकम्पकः / स सर्वश्वेतानामौषधीर्भुक्त्वा सुवर्णवालुकास्थले आवर्तनं करोति / कृत्वा च शरीरं प्रच्छोडयित्वा वाणीं प्रत्याहरेदिति - कः पारगामी कः पारगामी कः पारगामीति / तत्रास्माभिर्गन्तव्यम् - वयं पारंगामिन इति / अथ ते वणिक्पुरूषा ऊचुः - कतमे दिने गच्छामो वयम्? स प्रत्याहारं कर्तुमारब्धः - तृतीये दिवसे ऽवश्यं गन्तव्यम् / पुरुषेण संबलं कर्तव्यमिति / ते क्रियाकारं कृत्वा पुनरेव तन्नगरं प्रविष्टाः स्वकस्वकं निवेशनमुपगता / ताभी राक्षसीभिः संभाषिताः - श्रान्तस्त्वम्, दृष्टास्ते तान्युद्यानरमणीयानि पुष्करिणीशतानि रमणीयानि? स कथयति - न च ते किंचिद् दृष्टम् /
अथ सा राक्षसी तमेतदवोचत् - सन्ति आर्यपुत्र विविधान्यस्मिन् सिंहलद्वीपे उद्यानरमणीयानि पुष्करिणीरमणीयानि विविधविचित्रपुष्पपरिपूर्णानि / अनेकानि च पुष्करिणीशतानि रमणीयानि / स प्रत्याहारं कर्तुमारब्धः - तृतीये दिवसे गमिष्यामीत्यतः संबलं कर्तव्यम् / उद्यानभूमिदर्शनायोपसंक्रमिष्यामि / तानि च विविधानि पुष्करिणीशतानि रमणीयानि उद्यानशतानि पुष्पपरिपूर्णानि पश्यामि / तानि च विविधानि पुष्पाणि गृहीत्वा आगमिष्यामि / सा कथयति स्म - आर्यपुत्र / एवं करोम्यहम् / ततस्तेन शरीरमनुविचिन्त्य / (?) अथ राक्षस्यो जानन्ति योगं तेनास्माकं (?) जीवितान्तरायं करिष्यन्ति / ईदृशं शरीरमनुविचिन्त्य तूष्णींभावेन व्यवस्थितः / तस्य तया प्रणीताप्रणीतान्याहाराण्यनुप्रदत्ता / भुक्त्वा च उच्छ्वासं छोरितम् / सा कथयति राक्षसी - आर्यपुत्र किं कारणं उच्छ्वासं छोरितम्? अथ स तामेतदवोचत् - स्वदेशाभिरता जाम्बुद्वीपका मनुष्याः / सा आह - किं करोष्यार्यपुत्र स्वकीयेन विषयेन? अस्मिन्नेव सिंहलद्वीपे विविधान्यन्नगृहाणि पानगृहाणि वस्त्रगृहाणि विविधान्युद्यानरमणीयानि पुष्करिणीरमणीयानि / विविधसुखमनुभवसे / किं जम्बुद्वीपमनुशोचसे? तदाहं तूष्णींभावेन व्यवस्थितः / स तं दिवसमतिक्रान्तः / द्वितीये दिवसे प्रणीतान्याहाराणि सत्वरमनुप्रदत्तानि सज्जीकृतानि / तृतीये दिवसे प्रत्यूषकालसमये सर्वे ते संप्रस्थिताः / ते च बहिर्नगरस्य निष्क्रान्ताः / निष्क्रमित्वा क्रियाकारं कर्तुमारब्धाः / न पुनः केनचित् पुनरेव सिंहलद्वीपो निरीक्षितव्यः / त्वरितमस्माभिर्गन्तव्यम् /
ईदृशं क्रियाकारं कृत्वा संप्रस्थिताः त्वरितं त्वरितमेव लघु लघ्वेव गच्छन्ति / अनुपूर्वेण यत्र स बालाहको ऽश्वराजस्तत्रानुप्राप्ताः / यावत्पश्यन्ति बालाहमश्वराजम् / तं सर्वश्वेतानामौषधीमास्वादयति / आस्वादयित्वा सुवर्णवालुकास्थले आवर्तनं करोति / कृत्वा च शरीरं प्रच्छोडयति / यदा शरीरं प्रच्छोडयति तदा सिंहलद्वीपं चलति स्म / त्रीणि वाक्यानि प्रत्याहरति स्म - कः पारगामी, कः पारगामी, कः पारगामीति? अथ स बालाहो ऽश्वराजस्तानेतदवोचत् - भो वणिक्पुरुषाः / यदा शरीरं प्रच्छोडयामि, न तदा युष्माकं केनचित्सिंहलद्वीपो निरीक्षितव्यः / न केनचिच्चक्षुर्विस्फुरितव्यम् / ते तादृशं क्रियाकारं कृत्वा...... / तदाहं प्रथमतरमारूढः, (वैद्य 288) पश्चात्पञ्चशताणि वणिग्जनाः / यदा ते आरूढाः तदा सिंहलद्वीपनिवासिन्यो राक्षस्यः किलकिलायमानाः पृष्ठतो धावन्ति स्म रुदन्त्यः करुणकरुणैर्विलापैः / ततस्तै रुदच्छब्दं श्रुत्वा प्रतिनिवर्त्य निरीक्षितुमारब्धम् / तैर्निरीक्ष्यन्ते / तदा ते ऽधोमुखा उदके पतन्ति स्म / यदा ते उदके पतिताः, तदा राक्षस्य उत्क्षिप्य मांसं भक्षयन्ति स्म / तदाहमेकाकी जम्बूद्वीपमेव प्रत्युद्गतः / तदा तीरस्य समीपे बालाहमश्वराजं त्रिः प्रदक्षिणीकृत्य तत्रैव प्रक्रान्तः / ततो ऽहं संप्रस्थितः / स्वकीयं निवेशनमनुपूर्वेणानुप्राप्तः / तदा मे मातापितारौ कण्ठे परिष्वज्य रोदितुमारब्धौ / ततो बाष्पेण पटलानि विस्फुटितानि / ततो द्रष्टुमारब्धौ / ततो मातापितृभ्यां सार्धं विश्रान्तः / तेन तेषां सर्वं भूतपूर्वं वृत्तान्तमाख्यातम् / ततस्तौ मातापितरौ कथयतः स्म - जीवंस्तु पुत्र त्वमनुप्राप्तः /
नास्माकं द्रव्येण कृत्यम् / जराकाले यष्टिभूतो ऽन्धकारे मार्गस्योपदर्शकः, मरणकाले पिण्डदाता, मृतस्य सनाथीकरणीयम् / यथा शीतलो वातो नाम पुत्र आह्लादकरः / एतद्वचनं मातापितरौ चाख्यातम् / ईदृशं मया सर्वनीवरणविष्कम्भिन् सार्थवाहबोधिसत्त्वभूतेन दुःखमनुभूतम् //
तद्यथापि नाम सर्वनीवरणविष्कम्भिन् बालाहकं तमश्वराजभूतेनावलोकितेश्वरेण बोधिसत्त्वेन महासत्त्वेन तादृशादहं मृत्युभयात्परिमोक्षितः / तद्यथापि नाम सर्वनीवरणविष्कम्भिन् न शक्नोम्यवलोकितेश्वरस्य पुण्यसंभारं गणयितुम् / अल्पमात्रमिदं सांकथ्यं कृतं एकैकरोमविवरस्य //
इति अश्वराजवर्णनं नाम प्रथमं प्रकरणम् //
स्तर्त् क्व्यु 2,2:
रोमविवरणावर्णनं द्वितीयं प्रकरणम् /
तद्यथापि नाम सर्वनीवरणाविष्कम्भिन् सुवर्णं नाम रोमविवरम् / तत्रानेकानिगन्धर्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति स्म / तेन च संसारिकेन दुःखेन न बाध्यन्ते / परमेण सौख्येन संतर्पिता भवन्ति / दिव्यानि वस्तूनि प्रादुर्भवन्ति / तत्र न च ते रागेण बाध्यन्ते / न च मोहेन बाध्यन्ते / न च द्वेषेण बाध्यन्ते / न च ते आघातचित्तमुत्पादयन्ति / न च तेषां हिंसाचित्तमुत्पद्यते / ते सततसमितमार्याष्टाङ्गिकमार्गमुपदर्शिता भवन्ति / सततकालं धर्माभिकाङ्क्षिणो भवन्ति / तद्यथापि नाम सर्वनीवरणविष्कम्भिन् सुवर्णनामरोमविवरे अवभासं नाम चिन्तामणिरत्नम् / यदा ते गन्धर्वा अभिप्रायं चिन्तयन्ति, तदा तेषामभिप्रायो ऽनुसिध्यति / तदा सुवर्णरोमविवरादतिक्रम्य कृष्णो नाम रोमविवरः / तत्रानेकानि ऋषिकोटिनियुतशतसहस्राणि प्रतिवसन्ति / केचिदेकाभिज्ञाः, केचिद् द्वयभिज्ञाः, केचित् त्र्यभिज्ञाः, केचिच्चतुरभिज्ञाः, केचित्पञ्चाभिज्ञाः, केचित्षडभिज्ञाः / तस्मिंश्च रोमविवरे रूप्यमयी भूमिः, कनकमयाः पर्वताः, रूप्यमयाः शृङ्गाः, पद्मरागैरुपचिताः पर्वताः, तादृशाः सप्तसप्ततिपर्वताः / एकैकपर्वते ऽशीतिसहस्राणि ऋषीणां प्रतिवसन्ति / तेषां च ऋषीणामीदृशा पर्णकुटिरकल्पवृक्षाणि दृश्यन्ते / लोहितदण्डाः (वैद्य 289) सुवर्णरूप्यपत्रा रत्नावभासिताः / एकैकपार्श्वे रोमविवरे चतस्रः पुष्करिण्यः / केचिदष्टाङ्गोपेतेन वारिणा परिपूर्णाः केचित्पुष्पपरिपूर्णाः / तस्मिन्नुपचारसमीपे दिव्या अगुरुद्रुमवृक्षाः, सुगन्धाश्चन्दनवृक्षाः, परिशोभिताः कल्पवृक्षाः, संदृश्यन्ते /
दिव्यालंकारप्रलम्बिता मौलीकुण्डलप्रलम्बिता हारार्धहारप्रलम्बिताः केयूरनूपुरस्रग्दामप्रलम्बिताः सौवर्णपत्राः / तत्रैकैककल्पवृक्षे गन्धर्वशतं विश्रान्तम् / यदा ते वाद्यप्रत्याहारमुदीरयन्ति, तदा मृगपक्ष्यादयः संवेगमापद्यन्ते - सुखदुःखमिदं सांसारिकाणां सत्त्वानाम् / कथं जम्बुद्वीपे दुःखमनुभवन्ति? जातिजरामरणं पश्यन्ति? इष्टप्रियवियोगमप्रियसंप्रयोगं पश्यन्ति? मानुष्यकाणि बहूनि दुःखानि प्रत्यनुभवन्ति? इत्येवं ते मृगपक्षिणः संवेगमनुविचिन्त्य यदा कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य नामानुस्मरन्ति, तदा तेषां दिव्यरसरसाग्रोपेता आहाराः प्रादुर्भवन्ति / दिव्यानि च सौगन्धिकानि वस्तूनि प्रादुर्भवन्ति / दिव्यानि वस्त्राणि प्रादुर्भवन्ति / यदा ते ऽभिप्रायमनुविचिन्तयन्ति, तदाभिप्रायाः सिध्यन्ति //
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - परमाश्चर्याद्भुतप्राप्तो ऽहं भगवन् / भगवानाह - किं कारणं कुलपुत्र परमविस्मयमापन्नः? अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - यदा भगवन् कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य नामानुस्मरन्ति, तदाभिप्राया अनुसिध्यन्ति / यस्य नामधेयमात्रेण ईदृशानि वस्तूनि प्रादुर्भवन्ति, सुखितास्ते सत्त्वा ये कारण्डव्यूहं महायानसूत्ररत्नराजं श्रोष्यन्ति लिखापयिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशं च मनसि करिष्यन्ति / ये कारण्डव्यूहस्य महायानसूत्रराजस्यैकाक्षरमपि लिखापयिष्यन्ति, ते इदं सांसारिकं दुःखं न पश्यन्ति / न च ते चण्डालकुक्कुरकुलेषु जायन्ते / न च ते हीनेन्द्रिया भवन्ति / न च ते खञ्जकुब्जकोर्ध्वनासगण्डलम्बोष्ठाश्च सत्त्वाः कुष्ठिनश्च सन्तः / न च तेषां काये व्याधिः संक्रमते / आरोग्यबलवत्प्रीणितेन्द्रियाश्च भवन्ति / अथ भगवान् साधुकारमदात् / साधु साधु सर्वनीवरणविष्कम्भिन्, यस्त्वमीदृशं प्रतिभानं करोषि / अनेकानि देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्या उपासकोपासिकासहस्राणि संनिपतितानि - त्वयेदृशं धर्मसांकथ्यं कृतम् / यतस्त्वयेदृशो वैपुल्यप्रतिभानः कृतः //
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - यदा भगवन्निदं प्रश्नमनिर्दिष्टं तदा देवपुत्राणामभेद्या श्रद्धोत्पन्ना / अथ भगवान् साधुकारमदात् - साधु साधु कुलपुत्र, यस्त्वमेवं पुनः पुनस्तथागतमध्येषसे / तद्यथापि नाम सर्वनीवरणविष्कम्भिन् कृष्णान्नाम रोमविवरादवतीर्य रत्नकुण्डलो नाम रोमविवरः / तत्रानेकानि गन्धर्वकन्याकोटिनियुतशतसहस्राणि प्रतिवसन्ति / ताश्च गन्धर्वकन्या अभिरूपाः दर्शनीयाः परमया शुभवर्णपुष्कलतया समन्वागता दिव्यालंकारविभूषितशरीरा अप्सरसामिव प्रतिस्पर्धिन्यः तादृश्यः, परमशोभनाः / न च ता रागदुःखेन बाध्यन्ते / न च द्वेषदुःखेन बाध्यन्ते / न च मोहदुःखेन बाध्यन्ते / न च तासां काये किंचिन्मानुषीदुःखं संविद्यते / ताश्च गन्धर्वकन्यास्त्रिकालमवलोकितेश्वरस्य (वैद्य 290) बोधिसत्त्वस्य महासत्त्वस्य नाममनुस्मरन्ति / यदा त्रिकालमनुस्मरन्ति, तदा तासां सर्ववस्तूनि प्रादुर्भवन्ति //
अथ सर्वनीवरणाविष्कम्भी भगवन्तमेतदवोचत् - गमिष्याम्यहं भगवन् / तानि रोमविवराणि द्रष्टुकामो ऽहम् / भगवानाह - अग्राह्यास्ते कुलपुत्र रोमविवरा असंस्पर्शाः / यथा आकाशधातुरग्राह्यो ऽसंस्पर्शः, एवमेव ते कुलपुत्र रोमविवरा अग्राह्या असंस्पर्शाः / तेषु रोमविवरेषु समन्तभद्रो बोधिसत्त्वो महासत्त्वस्तेषां रोमविवराणां द्वादश वर्षाणि परिभ्रमितः, न च तेन तानि रोमविवराणि दृष्टाणि / यस्यैकैकरोमविवरे स्थितं बुद्धशतम्, तेनापि न दृष्टाणि, प्रागेवान्ये बोधिसत्त्वभूताः //
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - यदा भगवन् समन्तभद्रेण बोधिसत्त्वेन महासत्त्वेन न दृष्टं द्वादशवर्षाणि परिभ्रमता, न च तेन तानि रोमविवराणि दृष्टानि, अस्यैकैकरोमविवरे स्थितं बुद्धशतं तेनापि न दृष्टम्, तदा तेषां रोमविवराणामन्ततो ऽहमपि किं गमिष्यामि? आह - कुलपुत्र, मयापि तस्य रोमविवरं वीक्षमाणेन परिमार्गयमाणेन न दृश्यते / सर्वनीवरणविष्कम्भिन् कुलपुत्र, अयं मायावी असाध्यः सूक्ष्म एवमनुदृश्यते / निरञ्जनो रूपी महापी(?) शतसहस्रभुजः कोटिशतसहस्रनेत्रो विश्वरूपी एकादशशीर्षः महायोगी निर्वाणभूमिव्यवस्थितः सुचेतनो महाप्राज्ञः भवोत्तारकः कुलीनो ऽनादर्शी प्राज्ञो निर्देशस्तथाच्छायाभूतः सर्वधर्मेषु, एवमेव कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो न श्रुतो न केनचिद् दृश्यते / तस्य स्वभावका अन्यथार्तगता न पश्यन्ति, प्रागेव समन्तभद्रादयो ऽन्ये च बोधिसत्त्वाः / अचिन्त्यो ऽयं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रातिहार्याणि समुपदर्शयति / अनेकानि च बोधिसत्त्वकोटिनियुतशतसहस्राणि परिपाचयति, सत्त्वांश्च तान् बोधिमार्गे प्रतिष्ठापयति / प्रतिष्ठापयित्वा सुखावतीलोकधातुमनुगच्छति / अमिताभस्य तथागतस्यान्तिके धर्ममनुशृणोति //
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - केनोपायेन भगवन् पश्यामि अहमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वम्? भगवानाह - यदि कुलपुत्र इहैव सहालोकधातुमागच्छति मम दर्शनाय वन्दनाय पर्युपासनाय / अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - अनुजानाम्यहं भगवन्, अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व आगच्छति? भगवानाह - यदा कुलपुत्र सत्त्वपरिपाको भवति, तदावलोकितेश्वरः प्रथमतरमागच्छति //
अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः - किं मया पापरतेन चिरकालजीविकया तेनावलोकितेश्वरदर्शनविप्रहीणेनान्धभूतेन तमोनुप्राप्तमार्गसंप्रस्थितेन? अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वः पुनरपि भगवन्तमेतदवोचत् - कतमस्मिन् काले भगवन्नवलोकितेश्वर आगच्छति? अथ भगवानपीदं वचनं श्रुत्वा हसति, व्यवहसति च - अकालस्ते कुलपुत्र अवलोकितेश्वरस्यागमनकालसमयः / तद्यथापि नाम कुलपुत्र ततो रोमविवरादवतीर्य अमृतबिन्दुर्नाम रोमविवरः, तत्रानेकानि देवपुत्र कोटिनियुतशतसहस्राणि (वैद्य 291) प्रतिवसन्ति / केचिदेकभूमिका, केचिद् द्विभूमिकाः, केचित्रिभूमिकाः, केचिच्चतुर्भूमिकाः, केचित्पञ्चभूमिकाः, केचित् षड्भूमिकाः, केचित्सप्तभूमिकाः, केचिदष्टभूमिकाः, केचिन्नवभूमिकाः, केचिद्दशभूमिकाः प्रतिष्ठिता बोधिसत्त्वा महासत्त्वा वसन्ति / तद्यथापि नाम सर्वनीवरणविष्कम्भिन् अस्मिन्नमृतबिन्दौ रोमविवरे षष्टिपर्वताः सुवर्णरूप्यमयाः / एकैकपर्वतः षष्टियोजनासहस्राण्युच्छ्रयेण / तदेषां पर्वतानां नवनवतिशृङ्गसहस्राणि दिव्यसुवर्णरत्नोपचितानि / पार्श्वे केचिदेकचित्तोत्पादिका बोधिसत्त्वाः प्रतिवसन्ति / तेषु पर्वतराजिषु अनेकानि गन्धर्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति, ये तस्मिन् रोमविवरे सततसमितं निर्नादितं सूर्यं धारयति / तद्यथापि नाम सर्वनीवरणविष्कम्भिन् तस्मिंश्चामृतबिन्दौ रोमविवरे अनेकानि विमानकोटिनियुतशतसहस्राणि रत्नपरिखचितानि शोभनीयानि दर्शनीयानि विचित्राणि मुक्ताहारशतसहस्राणि प्रलम्बितानि /
तेषु विमानेषु बोधिसत्त्वा विश्रमित्वा धर्मसांकथ्यं कुर्वन्ति / ततो विमानान्निष्क्रम्य स्वकस्वकानि चंक्रमणानि प्रत्युद्गताः / चंक्रमे चंक्रमे सप्तति सप्तति पुष्करिण्यः केचिदष्टाङ्गोपेतेन वारिणा परिपूर्णाः, केचिद्विविधपुष्पपरिपूर्णाः, उत्पलपद्मकुमुदपुण्डरीकसौगन्धिकमान्दारवमहामान्दारवपुष्पपरिपूर्णाः / तेषु चंक्रमेषु मनोरमाः कल्पवृक्षाः लोहितवर्णाः सुवर्णरूप्यपत्रा दिव्यालंकारप्रलम्बिता मौलीकुण्डलस्रग्दामप्रलम्बिता हारार्धहारप्रलम्बिताः केयूरप्रलम्बिताः / तदन्ये विविधालंकारप्रलम्बिताः / तेषु चंक्रमेषु रात्रौ ते बोधिसत्त्वाश्चंक्रमन्ति, विविधं च महायानमनुस्मरन्ति, नैर्वाणिकीं भूमिमनुविचिन्तयन्ति / सांसारिकं दुःखमनुविचिन्तयन्ति / नरकनिर्यासं चिन्तयन्ति / संचिन्तयित्वा मैत्रीं भावयन्ति / एवमेव सर्वनीवरणविष्कम्भिन् तस्मिन् रोमविवरे ईदृशा बोधिसत्त्वा वसन्ति / ततो ऽमृतवित्तबिन्दुरोमविवरादवतीर्य वज्रमुखो नाम रोमविवरः, तत्रानेकानि किन्नरशतसहस्राणि प्रतिवसन्ति / अङ्गदकुण्डलकेयूरविचित्रमाल्याभरणानुलेपनपरमशोभनानि दृश्यन्ते / सततकालं बुद्धधर्मसंघाभिप्रसन्नाः एकाग्रधर्ममैत्रीविहारिकाः क्षान्तिसंभाविता निर्वाणचिन्तकाः संवेगमानुष्यकाः / ईदृशास्ते कुलपुत्र किन्नरा धर्माभिरताः / तस्मिन्नेव रोमविवरे अनेकानि पर्वतविवराणि शतसहस्राणि / केचिद्वज्रमयाः केचित्पद्मरागमयाः केचिदिन्द्रनीलमयाः केचित्सप्तरत्नमयाः / ईदृशानि च तत्र कुलपुत्र रोमविवरे सद्धर्मनिमित्तानि च दृश्यन्ते /
तत्र रोमविवरे अनेकाः कल्पवृक्षाः, अनेकविद्रुमवृक्षाश्चन्द्रनवृक्षाः सौगन्धिकवृक्षाः, अनेकानि पुष्करिणीशतसहस्राणि, दिव्यानि विमानानि, स्फटिकरजतसंयुक्ताः परमशोभनीयाः रमणीयाः प्रासादाः / यत्र ईदृशानि विमानानि प्रादुर्भवन्ति, तेषु विमानेषु किन्नरा विश्रान्ताः / विश्रमित्वा धर्मसांकथ्यं कुर्वन्ति / यदुत दानपारमितासांकथ्यं कुर्वन्ति / ध्यानपारमितासांकथ्यं कुर्वन्ति / प्रज्ञापारमितासांकथ्यं कुर्वन्ति / एवं षट्पारमितासांकथ्यं कृत्वा स्वकस्वकानि चंक्रमणानि चंक्रमन्ति / केचित्सुवर्णमयाश्चंक्रमाः / तेषु चंक्रमेषु सामन्तकेषु कल्पवृक्षा लोहितदण्डाः सौवर्णरूप्यपत्रा दिव्यालंकारप्रलम्बिताः मौलिकुण्डलस्रग्दामप्रलम्बिता हारार्धहारप्रलम्बिता रत्नहारप्रलम्बिताः / ते च कल्पवृक्षास्तस्मिंश्चंक्रमे कूटागारवत्संस्थिताः, कूटागारसदृशेषु (वैद्य 292) तेषु चंक्रमेषु किन्नराश्चंक्रमन्ति / चंक्रम्यमाणाः सांसारिकं सत्यमनुविचिन्तयन्ति - अहो दुःखम् / जातिर्दुःखम् / अहो दुःखम् / जरामरणदुःखम् / अहो दुःखम् / तदपि दारिद्र्यदुःखम् / इष्टप्रियवियोगाप्रियावियोगदुःखम् / तदपि कष्टतरं दुःखम् / ये चावीचावुपपन्ना रौरवोपपन्नाः, कालसूत्रोपपन्नाः, हाहवे महानरके उपपन्नाः, प्रतापने नरके उपपन्नाः, अग्निघटेषुपपन्नाः, वज्रशैलेषुपपन्नाः, प्रेतनगरोपपन्नाः, तदेषां सर्वसत्त्वानां दुःखतरम् / एवं च ते किन्नराश्चित्तेन चिन्तयन्ति / चिन्तयित्वा नैर्वाणिकीं भूमीं चिन्तयन्ति / एवमेव कुलपुत्र किन्नरा धर्माभिरताः सततकालमवलोकितेश्वरस्य नामनुस्मरन्ति / यदा ते नामानुस्मरन्ति, तदा तेषां सर्वोपकरणैरुपस्थिता भवन्ति /
एवं दुर्लभः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां मातापितृभूतः सर्वसत्त्वेष्वभयंददः / सर्वसत्त्वेषु मार्गोपदर्शकः / सर्वसत्त्वेषु कल्याणमित्रः / एवं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः / दुर्लभं कुलपुत्र तस्य नामग्रहणम् / ये च तस्य षडक्षरीमहाविद्यानामानुस्मरन्ति, तदा तेषु रोमविवरेषु जायन्ते / न च पुनरेव संसारे संसरन्ति / रोमविवराद्रोमविवरमुपसंक्रामन्ति / तेषां तेषु रोमविवरेषु तावत्तिष्ठन्ति यावन्नैर्वाणिकीं भूमिमन्वेषन्ते //
इति रोमविवरवर्णनं नाम द्वितीयं प्रकरणम् //
स्तर्त् क्व्यु 2,3:
षडक्षरीमहाविद्यामाहात्म्यवर्णनं तृतीयं प्रकरणम् /
अथ सर्वनीवरणविष्कभी भगवन्तमेतदवोचत् - कुतो भगवन् षडक्षरी महाविद्या प्राप्यते? भगवानाह - दुर्लभा कुलपुत्र सा षडक्षरी महाविद्या / न च तथागता जानन्ति प्रागेव बोधिसत्त्वभूताः / अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - यद्भगवन् तथागता अर्हन्तः सम्यक्संबुद्धा न जानन्ति? भगवानाह - कुलपुत्र सा षडक्षरी महाविद्या त्ववलोकितेश्वरस्य परमहृदयम् / यश्च परमहृदयं जानाति स मोक्षं जानाति / अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - अस्ति भगवन् केचित्सत्त्वा ये षडक्षरीं महाविद्यां जानन्ति? भगवानाह - न कश्चिज्जानीते कुलपुत्र / षडक्षरी महाविद्या राज्ञी / एषा दुरासदा अप्रमेया योगिनस्तथागता जानन्ति प्रागेव बोधिसत्त्वभूताः / अस्याः कुलपुत्र षडक्षरीमहाविद्यायाः कारणेन सर्वे तथागताः षोडशकल्याणसंख्येयाः परिभ्रमिताः प्रागेव बोधिसत्त्वभूताः कुतो जानन्ति? अयं स परमहृदयः अवलोकितेश्वरस्य / यो ऽप्ययं परिभ्रमति जगन्मण्डले, कश्चिज्जानीते षडक्षरीं महाविद्याम् / पुण्यवन्तस्ते सत्त्वा ये षडक्षरीं महाविद्यां सततपरिग्रहं जपाभियुक्ता भवन्ति / तस्या जपकाले तु नवनवतिगङ्गानदीवालुकोपमास्तथागताः संनिपतन्ति, परमाणुरजोपमा बोधिसत्त्वाः संनिपतन्ति, षट्पारमिता द्वारस्था भवन्ति / अन्ये च द्वात्रिंशद्देवनिकायाः देवपुत्राः संनिपतिताः / चत्त्वारश्च महाराजानश्चतस्रो दिशो रक्षन्ति / सागरश्च नागराजः / अनवतप्तश्च नागराजः / तक्षकश्च नागराजः / वासुकिर्नागराजः - एवंप्रमुखान्यनेकानि नागराजकोटीनियुतशतसहस्राणि धरणीं परिरक्षन्ति / अन्ये च भौमा यक्षाः /
अन्ये चावकाशं रक्षन्ति / तस्य कुलपुत्रस्य एकैकरोमविवरे (वैद्य 293) तथागतकोट्यो विश्रमन्ति, विश्रमित्वा साधुकारमनुप्रयन्ति - साधु साधु कुलपुत्र, यस्त्वमीदृशं चिन्तामणिरत्नलब्धलाभो ऽसि / विमोक्षितास्ते सप्तकुलवंशा जातिपरंपरया / ये च तव कुलपुत्र कुक्षिगताः प्राणिनः, सर्वे ते ऽवैवर्तिका बोधिसत्त्वा भविष्यन्ति / यः कश्चिदिमां धारयेत् षडक्षरीं महाविद्यां कायगतां कण्ठगतां वा, स कुलपुत्र वज्रकायशरीर इति वेदितव्यः, धातुस्तूप इति वेदितव्यः, तथागतज्ञानकोटिरिति वेदितव्यः / यः कश्चित्कुलपुत्रो वा कुलदुहिता वा इमां षडक्षरीं महाविद्यां जपन्ति सो ऽक्षयप्रतिभानो भवति / ज्ञानराशिविशुद्धो भवति / महाकरुणया समन्वागतो भवति / स दिने दिने षट्पारमिताः परिपूरयति / विद्याधरचक्रवर्त्यभिषेकं प्रतिलभते / यस्य कस्यचिदुच्छवस्योच्छ्वासप्रश्वासं ददाति मैत्र्या वा द्वेषेण वा, सर्वे ते ऽवैवर्तिकाधिसत्त्वा भवन्ति, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते / ये केचिद्वस्त्रस्पर्शनेनापि स्पृशन्ति, सर्वे ते चरमभविका बोधिसत्त्वा भवेयुः / दर्शनमात्रेण स्त्री वा पुरुषो वा दारिका वा मृगपक्षिणो गोमहिषगर्दभादयश्च चक्षुर्दर्शनेनापि पश्यन्ति, सर्वे ते चरमभविका बोधिसत्त्वा भवेयुः, जातिजराव्याधिमरणदुःखप्रियविप्रयोगविहीणा भवेयुः / अचिन्त्या योगिनश्च भवेयुः / एवं तु षडक्षरीं महाविद्यां जपमानस्य संचोदनो भवति //
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - कथं भगवन् लभेयमहं षडक्षरीं महाविद्याम्? सो ऽचिन्त्यो योगानां चाप्रमेयध्यानानां च अपरिस्थितश्चानुत्तरायां सम्यक्संबोधौ, निर्वाणस्योपदर्शकः, मोक्षस्य प्रवेशनम्, रागद्वेषस्य व्युपशमनम्, धर्मराजस्य च परिपूरणम्, उन्मूलनं च संसारस्य पञ्चगतिकस्य, संशोषणं च नारकाणां क्लेशानाम्, समुद्धातनमुत्तारणं च तिर्यग्योनिगतानाम्, आस्वादो धर्माणां च परिपूरणम्, सर्वज्ञज्ञानस्य अक्षयं निर्देशं श्रोतुमिच्छामि / भगवन् यो मे षडक्षरीं महाविद्यामनुप्रयच्छति, तस्य चतुर्द्वीपान् सप्तरत्नपरिपूर्णान्निर्यातयितुम् / यदि भगवन् लिख्यमानायापि भूर्जं न संविद्यते, न मसिः, न च करमम् / मदीयेन शोणितेन मसिं कुर्यात्, चर्ममुत्पाट्य भूर्जं कुर्यात्, अस्थिं भङ्क्तवा च करमं कुर्यात्, तदापि भगवन् मम नास्ति खेदं शरीरस्य / स च मे मातापितृभूतो भवेत् गुरूणामपि गुरुश्च //
अथ भगवान् सर्वनीवरणविष्कम्भिणं बोधिसत्त्वमेतदवोचत् - स्मराम्यहं कुलपुत्र अस्याः षडक्षरिमहाविद्यायाः कारणेन परमाणुरजोपमान् लोकधातून् परिभ्रमितः / अनेकानि तथागतकोटिनियुतशतसहस्राणि मया पर्युपासितानि / न च तेषां तथागतानां सकाशात्सचालंबापि (?) श्रुता / तदा रत्नोत्तमो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च बुद्धो भगवान् / तस्य मया पुरस्तादश्रूणि प्रमुक्तानि / तदा तेन तथागतेनार्हता सम्यक्संबुद्धेनाभिहितम् - मा कुलपुत्र एवं करुणकरूणान्यश्रूणि प्रमुञ्च / गच्छ कुलपुत्र येन पद्मोत्तमो नाम लोकधातुः / तत्र पद्मोत्तमो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः / स इमां षडक्षरीं (वैद्य 294) महाविद्यामनुजानाति / तस्य कुलपुत्र अहं रत्नोत्तमस्य तथागतस्यान्तिकात् प्रक्रान्तः / येन पद्मोत्तमस्य तथागतस्य बुद्धक्षेत्रं तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा पुरस्तात्प्राञ्जलीभूत्वोत्तम् - लभेयमहं भगवन् पद्मोत्तम षडक्षरीं महाविद्यां राज्ञीं यस्या नामानुस्मरणमात्रेण सर्वपापानि क्षयन्ते, दुर्लभां बोधिं प्रतिलभते, येनार्थेनाहं क्लिष्टो ऽनेकानि लोकधातूनि / इहैवागत्वा मा व्यर्थश्रमो भवेयम् / तदा पद्मोत्तमस्तथागत इमां षडक्षरीं महाविद्यागुणां संस्मारयति स्म - तद्यथापि नाम कुलपुत्र शक्यते परमाणुरजःप्रमाणमुद्गृहीतुम्, न तु कुलपुत्र शक्यते षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम् /
शक्यते मया कुलपुत्र चतुःसमुद्रस्यैकैकां वालुकां गणयितुम्, न तु कुलपुत्र शक्यते मया षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषो भवेत् / स गृहं पूर्णं योजनसहस्रं कुर्यात् द्विगुणं पञ्चयोजनशतानि / तं तिलफलैः परिपूर्णं कुर्यात् / यत्र सूचीविवरं न संविद्यते, तत्र पुरुषो द्वारे स्थापितो ऽजरामरः / स कल्पशतस्यातिक्रान्तस्य अस्यैकतिलफलं बहिर्द्वारे प्रक्षिपेत् / तदनेन पर्यायेण तं गृहसमूहप्रतिष्ठितास्तिलाः परिक्षयपर्यवदानं यावत्कालेन व्रजेयुः, तच्छक्यते मया गणयितुम् / न तु कुलपुत्र शक्यते षडक्षरिमहाविद्यायाः एकजापस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र चतुर्द्वीपे नानाविधानि कृषिं कारयन्ति यवगोधूमशालिमुद्गमाषादयस्तिलकोलकुलत्थादिभिः, तत्र कालेन कालं नागराजानो वर्षधारामनुप्रयच्छन्ति / तानि शस्यानि निष्पाद्यन्ते, ततस्ते परिपक्काः परिछिद्यन्ते / एवं जम्बुद्वीपं खलं कुर्यात्, ततस्ते शकटैर्भारैर्मुटैः पिठकैर्गोभिर्गर्दभादिभिर्लङ्घयित्वा तस्मिन् खलाभ्यन्तरे प्रक्षिपेरन्, तानि गोभिर्गर्दभैर्मर्दयित्वा महान्तं राशिं निष्पाद्यते / शक्यते मया कुलपुत्र एकैकानि फलानि गणयितुम्, न तु कुलपुत्र शक्यते मया षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र इमा महानद्यो जम्बुद्वीपे प्रवहन्ति रात्रौ दिवा च / तद्यथा गङ्गा सीता यमुना सिन्धुः शतद्रुः चन्द्रभागा एरावती सुमागन्धा हिमरती कलशोदरी चेति / एकैकनदी पञ्चसहस्रपरिवारा / रात्रौ च दिवा च महासमुद्रे प्रवहन्ति /
एवमेव षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धः प्रवहति / तत्रासां महानदीनां शक्यते मया एकैकबिन्दुं गणयितुम् / न च कुलपुत्र शक्यते मया षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र चतुर्द्वीपेषु चतुष्पाज्जातीनां गोगर्दभमहिषाश्वहस्तिनः, श्वजम्बुकच्छागलपशवः, तथा सिंहव्याघ्रतरक्षुमृगमर्कटशशकादयः, एषां मयैकैकानि रोमाणि शक्यते गणयितुम्, न तु कुलपुत्र षडाक्षरिमहाविद्यायाः शक्यते एकजापस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र वज्राङ्कुशो नाम पर्वतराजो नवनवतियोजनसहस्राण्युच्छ्रयेण चतुरशीतियोजनसहस्राण्यधस्तात् / तस्य पर्वतराजस्य वज्राङ्कुशस्यैकं पार्श्वं चतुरशीतियोजनसहस्रम् / तस्य च पार्श्वे पर्वतराजस्य जरामरः पुरुषो भवेत् / स (वैद्य 295) कल्पस्यातिक्रान्तस्य एकवारं कशिकवस्त्रेण परिमार्जयेत् / एवं कृत्वा तस्य परिक्षयं पर्यवदानं भवेत्, एतत्कालेषु वर्षमासदिनमुहूर्तनाडीकलाः यावत् श्वासाः, तेषां प्रमाणं कर्तुंशक्यम्, न तु षडक्षरिमहाविद्यायाः शक्यते एकजापस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र महासमुद्रं चतुरशीतियोजनसहस्रं गाम्भीर्येण, अप्रमेयं वैपुल्येन वडवामुखपर्यन्तं शक्यते मया शताग्रभिन्नया वालग्रकोट्या एकैकं बिन्दुं गणयितुम् / न तु कुलपुत्र शक्यते मया षडक्षरिमहाविद्यायाः पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र शक्यते मया शीर्षवनस्य एकैकपत्राणि गणयितुम्, न तु षडक्षरिमहाविद्यायाः शक्यते एकजापस्य पुण्यस्कन्धम् गणयितुम् /
तद्यथापि नाम कुलपुत्र चतुर्द्विपनिवासिनं स्त्रीपुरुषदारकदारिकास्ते सर्वे दशभूमिप्रतिष्ठिता बोधिसत्त्वा भवेयुः / यत्तेषां बोधिसत्त्वानां पुण्यस्कन्धम्, ततः षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धम् / तद्यथापि नाम कुलपुत्र द्वादशमासिकेन संवत्सरेण अधिमासिकेन त्रयोदशमासिकेन वा संवत्सरेण तथा संवत्सरगणनया पूर्ण कल्पं देवो रत्रौ दिवा वर्षति, तच्छक्यते मया कुलपुत्र एकैकं बिन्दुं गणयितुम् / न तु कुलपुत्र षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम् / एवं कुलपुत्र बहवो मत्सदृशाः तथागतकोटय एकस्थानधारिता दिव्यं कल्पं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वोपकरणोपस्थाने नोपस्थिता भवेयुः / न च तथागताः शक्नुवन्ति षडक्षरिमहाविद्यायाः पुण्यस्कन्धं गणयितुम् / प्रागेवाहमेकाकी अस्मिंल्लोकधातौ विहरामि / अचिन्त्यध्यानपदेन समुत्थानेनाहं कुलपुत्र भावनायोगमनुयुक्तः / स च सूक्ष्मो धर्मः, अव्यक्तो धर्मं, अनागतो धर्मः, परमहृदयप्राप्तः / अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्योपायकुशलैर्धर्मैः प्रतिष्ठितः / एवं कुलपुत्र षडक्षरिमहाविद्याया उपायकौशल्यं प्राप्तुमहमपि कुलपुत्र अनेकानि लोकधातुकोटीनियुतशतसहस्राणि परिभ्रमितः / गत्वा चामिताभस्य तथागतस्य पुरस्तात्प्राञ्जलीभूत्वा धर्मवेगेनाश्रूणि प्रमुक्तानि, तथामिताभस्तथागतो जानाति अनागतप्रत्युत्पन्नम् //
तेन ममाभिहितम् - कुलपुत्र षडक्षरीं महाविद्यां राज्ञीमिच्छसि भावनायोगमनुयुक्तः? मयोक्तम् - इच्छामि सुगत / यथा तृषार्तः पानीयमन्वेषते एवमहं भगवन् षडक्षरीं महाविद्यां समन्वेषमाणो ऽनेकलोकधातूनुपसंक्रान्तः / पर्युपासितानि मे ऽनेकानि तथागतकोटीनियुतशतसहस्राणि, न कस्यचित्सकाशान्मया लब्धा षडक्षरी महाविद्या राज्ञी / त्वं भगवन् त्राता भव, शरणं परायणम् / विकलेन्द्रियस्य चक्षुर्भूतो भव / नष्टमार्गस्य दर्शको भव / सूर्यतापदग्धानां छत्रभूतो भव / चतुर्महापथे शालवृक्ष इव भव / धर्मपरितृषिस्यानन्तधर्ममार्गमुपदर्शको भव / सुप्रतिष्ठितचेतसो वज्रकवचभूतो भव //
अथामिताभस्य तथागतार्हतः सम्यक्संबुद्धस्य अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य लम्बिकरुतेन स्वरेण निर्घोषेणारोचयति - पस्य कुलपुत्र अयं पद्मोत्तमस्तथागतो (वैद्य 296) ऽर्हन् सम्यक्संबुद्धः षडक्षरीमहाविद्यायाः कारणेनानेकलोकधातुकोटीनियुतशतसहस्राणि परिभ्रमितः / ददस्व कुलपुत्र षडक्षरीं महाविद्यां राज्ञीम् / तथागत एवं परिभ्रमति //
इति षडक्षरिमहाविद्यामाहात्म्यवर्णनं तृतीयं प्रकरणम् //
स्तर्त् क्व्यु 2,4:
षडक्षरिमहाविद्यामण्डलवर्णनं चतुर्थं प्रकरणम् /
अथ अवलोकितेश्वरो भगवन्तमेतदवोचत् - अदृष्टमण्डलस्य न दातव्यां कथं भगवत्पद्माङ्कमुद्रामनुगृह्णाति? कथं मणिधरां मुद्रां संजानीते? कथं सर्वराजेन्द्रां संजानीते? मण्डलपरिशुद्धिं कथं संजानीते? मण्डलस्येदं निमित्तं चतुरस्रं पञ्चहस्तप्रमाणं सामन्तकेन मध्ये मण्डलस्यामिताभं लिखेत् / इन्द्रनीलचूर्णं पद्मरागचूर्णं मरकतचूर्णं स्फाटिकचूर्णं सुवर्णरूप्यचूर्णान्यमिताभस्य तथागतस्य काये संयोजयितव्यानि / दक्षिणे पार्श्वे महामणिधरो बोधिसत्त्वः कर्तव्य / वामपार्श्वे षडक्षरी महाविद्या कर्तव्या चतुर्भुजा शरत्काण्डगौरवर्णा, नानालंकारविभूषिता / वामहस्ते पद्मं कर्तव्यम् / दक्षिणहस्ते अक्षमाला कर्तव्या / दौ हस्तौ संप्रयुक्तौ सर्वराजेन्द्रा नाम मुद्रा कर्तव्या / तस्याः षडक्षरिमहाविद्यायाः पादमूले विद्याधरं प्रतिस्थापयितव्यम् / दक्षिणहस्ते धूपकटच्छुकं कर्तव्यं धूमायमानम् / वामहस्ते नानाविधालंकारपरिपूर्णं पिटकं कर्तव्यम् / तस्य च मण्डलस्य चतुर्द्वारेषु चत्वारो महाराजाः कर्तव्याः, नानाप्रहरणगृहीताः कर्तव्याः / तस्य मण्डलचतुष्कोणेषु चत्वारः पूर्णकुम्भाः नानामणिरत्नसंचिताः / यः कश्चित्कुलपुत्रो वा कुलदुहिता वा इच्छति मण्डलं प्रवेष्टुम्, तेन सर्वगोत्रस्यापरंपरस्य नामानि लिखितव्यानि, लिखित्वा च हस्ते गृहीतव्यानि च / मण्डले प्रथमतरं तानि नामानि प्रक्षिपेत् / ते सर्वे चरमभविका बोधिसत्त्वा भवन्ति / सर्वमानुष्यकेण दुःखेन विप्रहीणा भविष्यन्ति, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते / तत आचार्येण अस्थाने नैव दातव्या / अथवा श्रद्धाधिमुक्तकस्य दातव्या / अथवा महायानश्रद्धाधिमुक्तकस्य दातव्या / न च तीर्थिकस्य दातव्या //
अथामिताभस्तथागतो ऽर्हन् सम्यक्संबुद्धो ऽवलोकितेश्वरमेतदवोचत् - यदि कुलपुत्र इन्द्रनीलचूर्णं पद्मरागचूर्णं सुवर्णरूप्यचूर्णं दरिद्रस्य कुलपुत्रस्य कुलदुहितुर्वा न संविद्यन्ते तानि चूर्णानि, भगवन्नानारङ्गाणि संप्रयोक्तव्यानि? नानारङ्गाणि संप्रयोक्तव्यानि नानापुष्पैर्नानागन्धैः / यदि कुलपुत्र तदपि न संविद्यते देशान्तरगतस्य स्थानपदच्युतस्य, तदाचार्येण मानसिकं मण्डलं चिन्तितव्यम् / आचार्येण मन्त्रमुद्रालक्षणान्युपदर्शयितव्यानि //
इति षडक्षरिमहाविद्यामण्डलवर्णनं चतुर्थं प्रकरणम् //
स्तर्त् क्व्यु 2,5:
महाविद्योपदेशो नाम पञ्चमं प्रकरणम् /
अथ पद्मोत्तमस्तथागतो ऽर्हन् सम्यक्संबुद्धो अवलोकितेश्वरमेतदवोचत् - ददस्व मे कुलपुत्र षडक्षरीं महाविद्यां राज्ञीम्, येनाहमनेकसत्त्वकोटीनियुतशतसहस्राणि दुःखात्परिमोचयेयम् / यथा ते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते //
अथ अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः पद्मोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्येमां षडक्षरीं महाविद्यामनुप्रयच्छति -
// * // + // 0 // + // ओम् मणिपद्मे हूं // + // 0 // + // * //
यस्मिन् काले इयं षडक्षरी महाविद्या अनुप्रदत्ता, तदा चत्वारो द्वीपाः, सदेवभवनपर्यन्ताः कदलीपत्रेव संचलिताः, क्षुब्धाश्चत्वारो महासमुद्राः सर्वविघ्नविनायकाः / निष्पलायन्ते यक्षराक्षसकुम्भाण्डा महाकालमातृगणसहिताः //
अथ पद्मोत्तमेन तथागतेन भुजंगसदृशं बाहुं प्रसार्य अवलोकितेश्वरस्य शतसहस्रमूल्यं मुक्ताहारम्, तेन गृहीत्वा अमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्योपनामितम् / तेन गृहीत्वा तस्य पद्मोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्योपनामितम् / अथ पद्मोत्तमस्तथागतो ऽर्हन् सम्यक्संबुद्ध इमां षडक्षरीं महाविद्यां गृहीत्वा येन पत्रोत्तमो नाम लोकधातुस्तेनोपसंक्रान्तः / एवं कुलपुत्र मया भूतपूर्वं पद्मोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्व सकाशाच्छ्रुतम् //
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - कथं भगवन् लभेयं षडक्षरीं महाविद्या राज्ञीं प्राप्तयोगस्य? यथा हि भगवन्नमृतस्य लब्धास्वादास्तृप्तिं न लभन्ते, एवमहं भगवन् षडक्षरिमहाविद्याश्रुतमात्रेण तृप्तिं न लभाम / पुण्यवन्तस्ते सत्त्वा य इमां षडक्षरीं महाविद्यां जपन्ति शृण्वन्ति चिन्तयन्ति अध्याशयेन धारयन्ति //
भगवानाह - कुलपुत्र, यश्चेमां षडक्षरीं महाविद्यां लिखापयेत्, तेन चतुरशीतिधर्मस्कन्धसहस्राणि लिखापितानि भवन्ति / परमाणुरजोपमानां तथागतानामर्हतां सम्यक्संबुद्धानां दिव्यसौवर्णरत्नमयान् स्तूपान् कारयेत्, कारयित्वा एकदिने धात्वावरोपणं कुर्यात् / यश्च तेषां फलविपाकः, स षडक्षरिमहाविद्याया एकस्याक्षरस्य फलविपाकः / अचिन्त्यो ऽगुणानां सुप्रतिष्ठितो मोक्षः / यः कुलपुत्रो वा कुलदुहिता वा इमाः षडक्षरीं महाविद्यां जपेत्, स इमान् समाधीन् प्रतिलभते / तद्यथा - मणिधरो नाम समाधिः, नरकतिर्यक्संशोधनं नाम समाधिः, वज्रकवचो नाम समाधिः, सुप्रतिष्ठितचरणो नाम समाधिः, सर्वोपायकौशल्यप्रवेशनो नाम समाधिः, विकिरिणो नाम समाधिः, सर्वबुद्धक्षेत्रसंदर्शनो नाम समाधिः, सर्वधर्मप्रवेशनो नाम समाधिः, ध्यानालंकारो नाम समाधिः धर्मरथाभिरूढो नाम समाधिः, रागद्वेषमोहपरिमोक्षणो नाम समाधिः, अनन्तवत्सो नाम समाधिः, षट्पारमितानिर्देशो नाम समाधिः, महामेरुधरो नाम समाधिः, सर्वभवोत्तारणो नाम समाधिः, सर्वतथागतव्यवलोकनो नाम समाधिः, सुप्रतिष्ठितासनो नाम समाधिः / एवंप्रमुखानामष्टोत्तरसमाधिशतं प्रतिलभते, य इमां षडक्षरीं महाविद्यां धारयति //
इति षडक्षरिमहाविद्योपदेशो नाम पञ्चमं प्रकरणम् //
स्तर्त् क्व्यु 2,6:
महाविद्यामण्डलवर्णनं षष्ठं प्रकरणम् /
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - कुत्राहं भगवन् गच्छेयं यत्र षडक्षरीं महाविद्याराज्ञीं लभेयम्? भगवानाह - अस्ति कुलपुत्र वाराणस्यां महानगर्यां धर्मभाणको य इमां षडक्षरीं महाविद्यां धारयति वाचयति योनिशश्च मनसि कुरुते / आह - गमिष्याम्यहं भगवन् वाराणसीं महानगरीं तस्य धर्मभाणकस्य दर्शनाय वन्दनाय पर्युपासनाय / भगवानाह - साधु साधु कुलपुत्र, एवं कुरुष्व / दुर्लभस्ते कुलपुत्र धर्मभाणकस्तथागतसमो द्रष्टव्यः, पूण्यकूट इव द्रष्टव्यः / सर्वतीर्थो गङ्गेव द्रष्टव्यः / अवितथवादीव द्रष्टव्यः / भूतवादीव द्रष्टव्यः / रत्नराशिरिव द्रष्टव्यः / वरदश्चिन्तामणिरिव द्रष्टव्यः / धर्मराज इव द्रष्टव्यः / जगदुत्तारण इव द्रष्टव्यः / न च कुलपुत्र त्वया धर्मभाणकं दृष्ट्वा विचिकित्साचित्तमुत्पादयितव्यम् / मा त्वं कुलपुत्र बोधिसत्त्वभूमेश्च्युत्वा अदाये प्रपत्स्यसे / स च धर्मभाणकः शीलविपन्नः आचरविपन्नो भार्यापुत्रदुहितृभिः परिवृतः काषायोच्चारप्रस्रावपरिपूर्णः असंवृत्तेर्यापथः //
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - यथाज्ञप्तं भगवता / अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वो महासत्त्व अनेकैर्बोधिसत्त्वपर्षद्गृहस्थैः प्रव्रजितैर्दारकदारिकादिभिः संप्रस्थितः / तस्य धर्मभाणकस्य पूजाकर्मणे दिव्यानि छत्राणि दिव्यानि उपानहानि मौलीकुण्डलस्रग्दामकेयूरहारार्धहाररत्नहारस्कन्धोपरिष्वजानिकपृष्ठोत्तर्याणि अङ्गुष्ठविभेदिकानि अन्यानि च विविधानि वस्त्राणि चीवराध्युषितानि विद्याधरसंचोदितानि काशिकवस्त्राण्यग्निशौचवस्त्राणि च अन्यानि च विविधानि वस्त्राणि पुष्पाणि / तद्यथा - उत्पलपद्मकुमुदपुण्डरीकमान्दारवमहामान्दारवाणि मञ्जूषकमहामञ्जूषकाणि चौदुम्बराणि अन्यानि विविधानि काष्ठपुष्पाणि चम्पककरवीरपाटलानि मुक्तकवार्षिकाणि शकुनकाध्युषितानि / सुमनानवमालिकचक्रवाकोपशोभितानि / शालिकौत्सुक्यानि शतपत्रिकाणि नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतवर्णानि / अन्यानि च स्थलजलजानि पुष्पाणि विविधानि गृहीत्वा येन वाराणसी महानगरी तेनोपजगाम / अनुपूर्वेण वाराणसीं महानगरीमनुप्राप्तः / येन स धर्मभाणकस्तेनोपसंक्रान्तः / उपसंक्रम्य पादौ शिरसाभिवन्द्य स तेन दृष्टः शीलविपन्न आचारविपन्नो ऽसंवृतेर्यापथः / तेन ताणि छात्राण्युपानहानि वस्त्राभरणानि गन्धमाल्यविलेपनान्युपढौकितानि / तैर्वस्त्राभरणैः गन्धमाल्यैश्च महतीं पूजां कृत्वा तस्य धर्मभाणकस्य पुरस्तात्प्राञ्जलीभूतः तद्विज्ञमिदमवोचत् - अहो धर्मनिधानास्वादको ऽमृतनिधिरिव संचय अनवगाहो ऽसि, सागरो यथा भाजनभूतो ऽसि सर्वमानुष्यभूतेषु एव ते /
तव सकाशाद्धर्मं देशयतः देवा नागा यक्षा गन्धर्वा असुरा गरूडाः किन्नरा महोरगा मनुष्यामनुष्याः सर्वे ते संनिपतिताः / तव धर्मश्रवणकाले महावज्रसमये धर्मपर्यायं निर्दिशसि परिमोक्षयसि / बहवः सत्त्वा ये संसारे बन्धनबद्धाः / पुण्यवन्तस्ते सत्त्वाः ये ऽस्यां वाराणस्यां महानगर्यां वसन्ति, पश्यन्ति, तव सततं परिग्रहं कुर्वन्ति / दर्शनमात्रेण सर्वपापानि निर्दहसि / यथाग्निर्दहति वनान्तरम्, (वैद्य 299) एवं त्वं दर्शनेन सर्वपापानि दहसि / जानन्ते तव तथागता अर्हन्तः सम्यक्संबुद्धाः / अन्ये चानेकबोधिसत्त्वकोटीनियुतशतसहस्राणि तव पूजाकर्मण उपसंक्रामन्ति / ब्रह्माविष्णुमहेश्वरचन्द्रादित्यवायुवरुणाग्नयो यमश्च धर्मराजो ऽन्ये च चत्वारो महाराजानः //
अथे स धर्मभाणकस्तस्यैतदवोचत् - मा त्वं कुलपुत्र कौकृत्यमुत्पादयसि / कति माषाः क्लेषा औपभोगिकाः संसारस्य नैमित्तिकाः प्रजामण्डलस्योत्पादिकाः / ये च कुलपुत्राः षडक्षरीं महाविद्याराज्ञीं जानन्ते, न च ते रागेण द्वेषेण मोहेन संलिप्यन्ते / यथा जाम्बूनदस्य सुवर्णस्य न सज्जते मलम्, एवमेव कुलपुत्र यस्य षडक्षरी महाविद्या कायगता, न तस्य कायेन न रागेण न द्वेषेण न मोहेन संलिप्यते //
अथ सर्वनीवरणविष्कम्भी गाढं पादे परिष्वज्यैनमेतदवोचत् - विकलेन्द्रियस्य चक्षुर्भूतो भव / नष्टमार्गस्योपदर्शको भव / धर्मपरितृषितस्य धर्मरसेन संतर्पय मे त्वम् / अनुत्तरासम्यक्संबोधिविप्रहीणस्य बोधिबीजं मे ददस्व / धर्माणामवकाशं ददस्व / सुप्रतिष्ठितरूपाणां कायपरिशुद्धिं ददस्व / अभेद्यानां कुशलानां प्रतिलम्भ इति सर्वजनाः कथयन्ति वाक्यं मधुरोपचयम् / एवं गुरुर्ददस्व मे षडक्षरीं महाविद्याराज्ञीं येनाहं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भवेयम् / द्वादशाकारं धर्मरन्ध्र(चक्र?)मावर्तयेयम् / सर्वसत्त्वानां सांसारिकं दुःखं परिमोचयेयम् / षडक्षरीमहाविद्याराज्ञीलब्धलाभो भवेयम् / ददस्व मे षडक्षरीं महाविद्याराज्ञीम् / त्राता भव, शरणं परायणम् / अद्वीपानां द्विपो भव //
अथ स धर्मभाणकस्तस्यैतदवोचत् - दुर्लभं षडक्षरिमहाविद्याराज्ञ्या असमवज्रपदम् / अभेद्यवज्रपदम् / अनुत्तरज्ञानदर्शनपदम् / अक्षयज्ञानपदम् / निरुत्तरपदम् / मोक्षप्रवेशनपदम् / तथागतज्ञानविशुद्धिपदम् / रागद्वेषमोहसंसारदुःखपरिवर्जनपदम् / सर्वोपायकौशल्यपदम् / ध्यानविमोक्षसमाधिसमापूर्तिपदम् / सर्वधर्मप्रविशनपदम् / नित्यकालदेवताभिकाङ्क्षिपदम् / ये च कुलपुत्रा नानास्थानेषु दीक्षन्ते / मोक्षार्थेषु नानापटेषु दीक्षन्ते / तद्यथा इन्द्रपटं श्वेतपटं ध्युषितपटम् / दिवसनिरीक्षका महेश्वरेषु दीक्षन्ते / बैल्मवेगरूद्रेषु नग्नश्रमणेषु च / एषु स्थानेषु दीक्षन्ते / न तेषां मोक्षं संविद्यते / अनादिगतिकानामपि नापि नाशो भवति / सर्वदेवगणाश्च ब्रह्मविष्णुमहेश्वराः शक्रश्च देवानामिन्द्रश्चन्द्रादित्यौ वायुवरुणादयो यमश्च धर्मराजो चत्वारश्च महाराजानः, ते नित्यकालं षडक्षरीं महविद्याराज्ञीं प्रार्थयन्ति //
अथ सर्वनीवरणविष्कम्भी तमाह - कथं वयं षडक्षरीं महाविद्याराज्ञीं लभेमहि येन वयं क्षिप्रवरा भवामः? धर्मभाणकस्तमुवाच - तद्यथापि नाम सर्वनीवरणविष्कम्भिन् प्रज्ञापारमितानिर्जाताः सर्वतथागताः / तत्प्रज्ञापारमिता सर्वतथागतानां च नेत्रीत्याख्यायते / सापि च षडक्षरीं महाविद्याराज्ञीं प्रणमते कृताञ्जलिपुटा भवन्ती, प्रागेव तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वगणाः / इद कुलपुत्र तण्डुलवत्सारं महायानस्य किंचिदसौ बहुमहायानसूत्रं गेयं व्याकरणगाथानिदानेतिवृत्तजातकवैपुल्याद्भुतधर्मोपदेशकः प्राप्यन्ते(?) (वैद्य 300) कुलपुत्र जपितमात्रेण शिवं मोक्षम्, किंबहुना अन्यकुशलमिति / किंवा तु समध्यगतं सारमुपगृह्णन्ति शालिनस्तथा सारमित्यनुगृह्णन्ति, नीत्वा स्वकीये निवेशने भाण्डानि परिपूर्णानि कृत्वा स्थापयित्वा दिवसानुरूपेण सूर्यतापेन परिशोषयित्वा मुसलप्रहारैर्विभेदयन्ति, ततश्चतुर्वर्षाणि परित्यजन्ति / किं सारमिति व्यवस्थितम्? तण्डुलसारमिति / एवमेवान्ये योगाः तुषसदृशाः / सर्वयोगानां चेयं षडक्षरी महाविद्या राज्ञी तण्डुलमिति भूता द्रष्टव्या / यस्याः कारणेन कुलपुत्र बोधिसत्त्वाः श्रावयन्तो भ्रमन्ति दानपारमितार्थिनः, शीलपारमितार्थिनः, क्षान्तिपारमितार्थिनः वीर्यपारमितार्थिनः, ध्यानपारमितार्थिनः, प्रज्ञापारमितार्थिनः / एकजापेन कुलपुत्र षट्पारमिताः परिपूरयन्ति / यस्य कस्यचिद्वस्त्रस्पर्शनेनापि अवैवर्तिकभूमिं प्रतिलभन्ते / एवमेवास्याः षडक्षरी महाविद्या राज्ञी, दुर्लभमस्या नामग्रहणम् / एकवारनामग्रहणेन सर्वे तथागताश्चीवरपिण्डपात्रशय्यासनग्लानप्रत्ययभैषज्यपरिष्करैः सर्वोपस्थानैरुपस्थिता भवन्ति //
अथ सर्वनीवरणविष्कम्भी धर्मभाणकमेतदवोचत् - ददस्व मे षडक्षरिमहाविद्याराज्ञीम् / अथ स धर्मभाणकः संचिन्त्य संचिन्त्य व्यवस्थितः / ततो आकाशे छन्दो (शब्दो?) निश्चरति स्म - ददस्व आर्य षडक्षरीं महाविद्याराज्ञीम् / अयं बोधिसत्त्वभूतो ऽनेकदुष्कराभियुक्तः / पुनः स धर्मभाणकः संचिन्तयति स्म - कुतः शब्दो निश्चरति / ततः स पुनरप्याकाशाच्छब्दो निश्चरितः - ददस्वार्थ षडक्षरीं महाविद्याराज्ञीम् / अयं बोधिसत्त्वो ऽनेकदुष्कराभियुक्तः //
अथ स धर्मभाणक आकाशं व्यवलोकयति स्म / यावत्पश्यति शरत्काण्डगौरवर्णं जटामुकुटधरं सर्वज्ञशिरसिकृतं शुभपद्महस्तं पद्मश्रियालंकृतं शरीरम् / स तादृशं रूपं दृष्ट्वा सर्वनीवरणविष्कम्भिणं बोधिसत्त्वमेतदवोचत् - अनुज्ञातस्ते कुलपुत्र अवलोकितेश्वरेण बोधिसत्त्वेन षडक्षरीं महाविद्याराज्ञीम् //
तेन ससंभ्रमेण कृताञ्जलिपुटेन भूत्वा उद्गृहीतुमारब्धः -
// * // 0 // + // ओम् मणिपद्मे हूं // + // 0 // * //
इयं च समनन्तरदत्तमात्रेण षड्विकारं पृथिवी प्रकम्पिता / इमे समाधयः सर्वनीवरणविष्कम्भिनः प्रतिलब्धाः / तद्यथापि नाम कुलपुत्र सूक्ष्मजनो नाम समाधिः, मैत्रीकरूणामुदितो नाम समधिः, योगाचारो नाम समाधिः, मोक्षप्रवेशव्यवस्थानो नाम समाधिः, सर्वालोककरो नाम समाधिः, व्यूहराजो नाम समाधिः, धर्मधरो नाम समाधिः / इमे समाधयः प्रतिलब्धाः / उद्गृहीतमात्रेण सर्वनीवरणविष्कम्भीणा बोधिसत्त्वेन तस्योपाध्यायस्य दक्षिणोपनामयितुमारब्धा - चत्वारो द्वीपाः सप्तरत्नपरिपूर्णाः //
अथ स धर्मभाणकस्तस्यैतदवोचत् - एकस्याक्षरस्यापि न भवति दक्षिणा, प्रागेव षडक्षरिमहाविद्यायाः / न च गृह्णामि कुलपुत्र त्वत्सकाशात् / त्वं च बोधिसत्त्वभूत (वैद्य 301) आर्यो ऽनार्यो ऽसि मा वैनेयश्च त्वं कुलपुत्र / तेन तस्य शतसहस्रमूल्यमुक्ताहारमुपनामितम् / स कथयति - कुलपुत्र, मद्वचनेन शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्योपनामयितव्यम् //
अथ सर्वनीवरणविष्कम्भी तस्य धर्मभाणकस्य पादौ शिरसा वन्दित्वा प्रक्रान्तः परिपूर्णलाभो लब्धमनोरथः / येन जेतवनविहारस्तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते व्यवस्थितो ऽभूत् //
इति षडक्षरिमहाविद्यामण्डलवर्णनं षष्ठं प्रकरणम् //
स्तर्त् क्व्यु 2,7:
सप्तमं प्रकरणम् /
अथ भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तमेतदवोचत् - लब्धलाभस्त्वं कुलपुत्र? स आह - यथा भगवान् ज्ञानं संजानीते / ततः सप्तसप्ततिः सम्यक्संबुद्धकोटयः संनिपतिताः / तैश्चापि तथागतैरियं धारणी भाषितुमारब्धा -
नमः सप्तानां सम्यक्संबुद्धकोटीनाम् /
// + // 0 // ओम् चले चुले चुन्ये स्वाहा // 0 // + //
इयं सप्तसप्ततिसम्यक्संबुद्धकोटिभिरुक्का नाम धारणी //
ततो रोमविवरादवतीर्य सूर्यप्रभो नाम रोमविवरः / तत्रानेकानि बोधिसत्त्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति / तस्मिन् सूर्यप्रभे रोमविवरे द्वादशशतसहस्राणि कनकमयानां पर्वतानां प्रतिवसन्ति / तस्मिन् पर्वते द्वादश शृङ्गशतानि / तेषां पर्वतानां पार्श्वानि पद्मरागोपचितानि पार्श्वे
दिव्यमणिरत्नखचितानि / परमशोभमानान्युद्यानानि परमशोभितानि विचित्राणि सुरमणीयानि / दिव्यपुष्करिणीरमणीयानि च कूटागारशतसहस्राणि, दिव्यसुवर्णरत्नमयानि मुक्ताफलदामकलापप्रलम्बितानि, मुक्ताहारशतसहस्राणि प्रलम्बितानि / तेषां कूटागाराणामधो सारदो नाम चिन्तामणिरत्नम्, यत्तेषां बोधिसत्त्वानां सर्वोपकरणैरुपस्थानं करोति / तदा ते बोधिसत्त्वास्तेषां कूटागारेषु प्रविशन्ति / प्रविष्टाश्च षडक्षरीमहाविद्यामनुस्मरन्ति / तं चावलोकितेश्वरं पश्यन्ति / दृष्ट्वा च तस्य चित्तप्रसादं जनयन्ति / जनयित्वा च ते बोधिसत्त्वास्तेभ्यः कूटागारेभ्यो निष्क्रामन्ति / निष्क्रम्य केचिच्चंक्रमेषु चंक्रमन्ति / केचिन्मणिरत्नमयेषुद्यानेषु, केचित्पुष्करिणीषु गच्छन्ति, केचित्पद्मरागमयेषु पर्वतेषु गच्छन्ति / गत्वा च पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय अभिमुखां स्मृतिमुपस्थाप्य / ईदृशास्ते कुलपुत्र बोधिसत्त्वास्तस्मिन् रोमविवरे प्रतिवसन्ति / ततः कुलपुत्र रोमविवरादवतीर्य इन्द्रराजो नाम रोमविवरः / तत्रानेकान्यवैवर्तिकबोधिसत्त्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति / तस्मिन्निन्द्रराजरोमविवरे ऽशीतिसहस्राणि पर्वतानामभूवन् दिव्यसुवर्णरत्नमयानि / तत्तेषां पर्वतानां मध्ये पद्मावभासो नाम चिन्तामणिरत्नम् / यदा यदा ते बोधिसत्त्वाश्चिन्तयन्ति, तदा तदा तेषामभिप्रायो ऽनुसिध्यति / अथे ते बोधिसत्त्वास्तेषु पर्वतराजेषु विहरन्ति / न च तेषां सांसारिकं (वैद्य 302) दुःखं विद्यते / न च ते संसारिकैः क्लेशैर्लिप्यन्ते / सर्वकालं निर्वाणचिन्ता व्यवस्थिता / न च तेषामन्या चिन्ता शरीरे संविद्यते /
ततः कुलपुत्र रोमविवरादवतीर्य महोषधीर्नाम रोमविवरः / तत्रानेकानि प्रथमचित्तोत्पादिकबोधिसत्त्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति / तस्मिन् कुलपुत्र रोमविवरे नवनवतिसहस्राणि पर्वतानाम् / केचिद् वज्रमयां, केचिद्रूप्यमयाः, केचित्सुवर्णमयां, केचिदिन्द्रनीलमयाः, केचित्पद्मरागमयाः, केचिन्मरकतमयाः, केचित्स्फटिकमयाः, केचिद्रजतमयाः, ईदृशास्ते पर्वतराजानः / एकैकस्मिन् पर्वते ऽशीतिशृङ्गसहस्राणि विविधरत्नखचितानि परमशोभनीयानि विविधचित्राणि रमणीयानि / तेषु शृङ्गेषु गन्धर्वाः प्रतिवसन्ति / सततकालं रोमविवरान्निनादितं तूर्यं धारयन्ति / ये ते प्रथमचित्तोत्पादिका बोधिसत्त्वस्ते शून्यतानिमित्तं चिन्तयन्ति / अहो दुःखम्, जरा दुःखम्, मरणं दुःखम्, इष्टप्रियसंप्रयोगवियोगो दुःखम्, अवीच्युपपन्नानां दुःखम्, प्रेतनगरोपपन्नानां सत्त्वानां दुःखम् / इदं काये संवेगमनुविचिन्त्य तदा ते पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य तेषुपर्वतराजेषु विहरन्ति / ततः कुलपुत्र रोमविवरादवतीर्य चित्तराजो नम रोमविवरः / तत्रानेकानि प्रत्येकबुद्धकोटिनियुतशतसहस्राणि प्रतिवसन्ति, ये ज्वलनतपनविद्योतनवर्षणप्रातिहार्याणि कुर्वन्ति / तस्मिन् रोमविवरे शतसहस्राणि पर्वतानाम् / ते सर्वे पर्वतराजाः सप्तरत्नमयाः / तेषु पर्वतराजेषु विविधानि कल्पवृक्षाणि सौवर्णदण्डानि रूप्यपत्राण्यनेकरत्नखचितानि विविधालंकारप्रलम्बितानि मौलीकुण्डलस्रग्दामप्रलम्बितानि केयूरहारार्धहारप्रलम्बितानि काशिकवस्त्रप्रलम्बितानि सौवर्णरूप्यघण्टारुणरूणायमानानि /
तादृशैः कल्पवृक्षैः पर्वतराजेषु प्रत्येकबुद्धा विहरन्ति / अनेकानि सूत्रगेयव्याकरणगाथोदानेतिवृत्तकजातकवैपुल्याङ्गात् धर्मोपदेशं परस्परमीदृशं सांकथ्यं कुर्वन्ति / तदा सर्वनीवरणविष्कम्भी ततो रोमविवरादवतीर्य सर्वपश्चिमो ऽयं रोमविवरः ध्वजाग्रो नाम रोमविवरः / स रोमविवरो ऽशीतियोजनसहस्राणि / तस्मिन् रोमविवरे ऽशीतिपर्वतसहस्राण्यभूवन्, विविधरत्नपरिखचितविचित्राणि / तेषु पर्वतराजेषु अनेकाः कल्पवृक्षाः, अनेकाश्चन्दनवृक्षाः शतसहस्राः, अगुरुवृक्षाः शतसहस्राः / तस्मिन् रोमविवरे वज्रमयी भूमिः / तस्मिन् रोमविवरे नवनवतिकूटागारशतसहस्राणि दिव्यसौवर्णमयानि मुक्ताहारपटदामकलापप्रलम्बितानि घण्टामालाप्रलम्बितानि चन्द्रकान्तिरत्नावभासितानि / तत्तेषु कूटागारेषु तथागतविग्रहा निषण्णाः / ते जाम्बूद्वीपकानां मनुष्याणां च धर्मं देशयन्ति / यदुत षट्पारमितानिर्देशं निर्दिशन्ति / दानपारमितानिर्देशं निर्दिशन्ति / शीलपारमितानिर्देशं निर्दिशन्ति / क्षान्तिपारमितानिर्देशं निर्दिशन्ति / वीर्यपारमितानिर्देशं निर्दिशन्ति / ध्यानपारमितानिर्देशं निर्दिशन्ति / प्रज्ञापारमितानिर्देशं निर्दिशन्ति / एवं विविधां धर्मदेशनां कृत्वा जाम्बुद्वीपकानां मनुष्याणां कालेन कालं धर्म देशयन्ति / एवं ते कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य रोमविवराणि यावत्पश्यन्ति / तस्मिन्नेव जेतवनविहारे (वैद्य 303) देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यमहेश्वरनारायणपूर्वंगमानि देवपुत्राणि संनिपतितानि / अनेकानि बोधिसत्त्वकोटिनियुतशतसहस्राणि संनिपतितानि //
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - किं भगवन् / यानि रोमविवराणि, संविद्यन्ते वाः? भगवानाह - ततः कुलपुत्र रोमविवरादतिक्रम्य अवलोकितेश्वरस्य दक्षिणं पादाङ्गुष्ठं यत्र ते चत्वारो महासमुद्राः परिभ्रमन्ति, न च जानन्त्यवगाहयन्ति / यदा दक्षिणपादाङ्गुष्ठादुदकं निष्क्रामति, तदा वडवामुखे पतन्ति / तदा भस्मराशिमनुगच्छन्ति / एवमेव कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्याधिष्ठानं संविद्यते / अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - तदपि भगवन् रोमविवरं संविद्यते? भगवानाह - तदपि कुलपुत्र न संविद्यते //
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - नागच्छति भगवन्नवलोकितेश्वरः? भगवानाह - आगच्छति कुलपुत्र अवलोकितेश्वरः / अस्मिन्नेव जेतवनमहाविहारे मम दर्शनाय वन्दनाय पर्युपासनाय, महेश्वरस्य देवपुत्रस्य सहाया लोकधातौ व्याकरणमुद्देशाय च //
अथावलोकितेश्वरेण बोधिसत्त्वेन महासत्त्वेन रश्मय उत्सृष्टा नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतवर्णाः / ते च रश्मयो जेतवनमागच्छन्ति / आगत्य भगवन्तं त्रिः प्रदक्षिणीकृत्य पुनरेव जेतवनाद्विहारान्निष्क्रम्य अवीचिं महानरकं गच्छन्ति / तत्र गत्वा अवीचिमहानरकं शीतिभावमुपनयन्ति / अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - कुतो भगवन् रश्मय आगच्छन्ति कुत्र गच्छन्ति? भगवानाह - एवं कुलपुत्र अवलोकितेश्वरेण नानाविधा रश्मय उत्सृष्टाः / ते चास्मिन् जेतवने विहारमागच्छन्ति / आगत्य च मां त्रिः प्रदक्षिणीकृत्य अवीचिं महानरकं गच्छन्ति / गत्वा चावीचिमहानरकं शीतिभावं कुर्वन्ति / तस्मिन् जेतवने विहारे शुभनिमित्तानि प्रादुर्भूतानि / दिव्यानि चम्पकवृक्षाणि प्रादुर्भूतानि / दिव्याः पुष्करिण्यः प्रादुर्भूताः / तत्र जेतवनविहारे दिव्यसौवर्णनिर्भासा दृश्यन्ते / ईदृशो जेतवनविहारो दृश्यते //
अथावलोकितेश्वरः सुखावतीलोकधातोर्निष्क्रम्य येन जेतवनविहारस्तेन संप्रस्थितः / अनुपूर्वेण जेतवनविहारं संप्राप्तः / अथ तस्मिन् जेतवनविहारे प्रविष्टो भगवतः पादौ शिरसाभिवन्द्य एकान्ते स्थितः / तदा कलविङ्करुतस्वराभिनिर्घोषेण भगवानारोचयति - आगतस्त्वं कुलपुत्र? कृतस्ते सत्त्वपरीपाकः? अथावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - यथाज्ञप्तो भगवता / एवं च मया कर्मभूमिर्निष्पादिता / अथ भगवान् साधुकारमदात् - साधु साधु कुलपुत्र, यस्त्वया ईदृशा कर्मभूमिर्निष्पादिता / अथावलोकितेश्वरो भगवन्तं पद्मान्युपनामयति - इमानि ते भगवन्नमिताभेन तथागतेन प्रहितानि / पृच्छत्यल्पाबाधतां च अल्पातङ्कतां च लघूत्थानतां च सुखस्पर्शविहारतां च / ततो भगवता गृहीत्वा वामपार्श्वे स्थापितानि //
अथ महेश्वरो देवपुत्रो येन भगवांस्तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तमेतदवोचत् - लभेयाहं भगवन् व्याकरणनिर्देशस्य समुद्देशम्? भगवानाह - (वैद्य 304) गच्छ कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्ते व्याकरणं दास्यति / अथ महेश्वरो देवपुत्रो ऽवलोकितेश्वरस्य पादयोर्निपत्य स्तोत्रविशेषं कर्तुमारब्धः -
नमोस्त्वलोकितेश्वराय महेश्वराय पद्मधराय पद्मासनाय पद्मप्रियाय शुभपद्महस्ताय पद्मश्रिये परिवृताय जगदास्वादनकराय पृथिवीवरलोचनकराय प्रह्लादनकराय //
एवं महेश्वरो देवपुत्रो गत्वा अवलोकितेश्वरस्य स्तोत्रविशेषं कृत्वा तूष्णींभावेन व्यवस्थितः / अथ अवलोकितेश्वरस्तमेतदवोचत् - किं कारणं त्वं कुलपुत्र तूष्णींभावेन व्यवस्थितः? अथ महेश्वरो देवपुत्रस्तमेतदवोचत् - ददस्व मे व्याकरणमनुत्तरायां सम्यक्संबोधौ / अवलोकितेश्वरस्तमेतदवोचत् - भविष्यसि त्वं कुलपुत्र विवृतायां लोकधातौ भस्मेश्वरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / अथ सा उमादेव्युपसंक्रम्यावलोकितेश्वरस्य पादौ शिरसा वन्दित्वा अवलोकितेश्वरस्य स्तोत्राभिधानं कर्तुमारब्धाः -
नमो ऽस्त्वलोकितेश्वराय मेहेश्वराय प्राणंददाय पृथिवीवरलोचनकराय शुभपद्मश्रिये परिवृताय निर्वाणभूमिसंप्रस्थिताय सुचेतनकराय धर्मधराय //
एवं सा उमादेवी स्तोत्राभिधानं कृत्वा अवलोकितेश्वरस्य प्रत्याहारं कर्तुमारब्धा -
परिमोचय मे स्त्रीभावाज्जुगुप्सनीयात् / कलिमलपरिपूर्णगर्भावासदुःखात् सततपरिग्रहसंगृहीतात् परिमोक्षय माम् / अथावलोकितेश्वरस्तामेतदवोचत् - भविष्यसि त्वं भगिनि उमेश्वरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / हिमवतः पर्वतराजस्य दक्षिणे पार्श्वे तव लोकधातुर्भविष्यति / अथ सा उमादेवी व्याकरणमनुप्राप्ता //
भगवानाह - पश्य सर्वनीवरणविष्कम्भिन् / व्याकृता उमादेवी अवलोकितेश्वेरण बोधिसत्त्वेन महासत्त्वेन सर्वे ते ऽनुत्तरायां सम्यक्संबोधौ //
अयं कुलपुत्र महेश्वरनिर्व्यूहो नाम ख्यात इति //
स्तर्त् क्व्यु 2,8:
अष्टमं प्रकरणम् /
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - आगतो भगवन्नवलोकितेश्वरः / यथान्धभूतेन चक्षुरनुप्राप्तम्, एवं भगवन्नवलोकितेश्वरो ऽनुप्राप्तः / अद्य मे सफलं जन्म / अद्य मे आशा परिपूर्णा / अद्य मे परिशोधितो बोधिमार्गः / स चेतनसधर्मकायनिर्वाणोपदर्शकम् //
अथ सर्वनीवरणविष्कम्भी पुनरेव भगवन्तमेतदवोचत् - अद्यास्माकं भगवन् देशय त्वमवलोकितेश्वरस्य गुणविशेषम् //
भगवानाह - तद्यथापि नाम सर्वनीवरणविष्कम्भिन् चक्रवालमहाचक्रवालौ पर्वतराजानौ / मुचिलिन्दमहामुचिलिन्दौ पर्वतराजानौ / कालमहाकालौ पर्वतराजानौ / संसृष्टमहासंसृष्टौ पर्वतराजानौ / प्रलम्बोदरः पर्वतराजा / अनादर्शकः पर्वतराजा / (वैद्य 305) कृत्स्रागतः पर्वतराजा / जालिनीमुखः पर्वतराजा / शतशृङ्गः पर्वतराजा / भवनश्च पर्वतराजा / महामणिरत्नः पर्वतराजा / सुदर्शनश्च पर्वतराजा / अकालदर्शनश्च पर्वतराजा / एतेषु पर्वतराजेष्वेकैकं लोकधातुषु शक्यते मया पर्वतराजानां पलानि वा पलशतानि वा पलसहस्राणि वा पलकोटीनियुतशतसहस्राणि वा संख्यामपि कलामपि गणनामपि शक्यते मया कुलपुत्र गणयितुम् / न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम् / तद्यथापि नाम कुलपुत्र शक्यते मया परमाणुरजसां प्रमाणमुद्गृहीतुम्, न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम् / तद्यथापि नाम कुलपुत्र शक्यते मया महासमुद्रस्यैकैकं बिन्दुं गणयितुम्, न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते मया पुण्यसंभारं गणयितुम् / तद्यथापि नाम कुलपुत्र शक्यते मया शीर्षवनस्यैकैकानि पत्राणि गणयितुम्, न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम् //
तद्यथापि नाम कुलपुत्र सुमेरुः पर्वतराजो भूर्यराशिर्भवेत् / महासमुद्रः भेरण्डुमण्डलं भवेत् / चतुर्द्वीपनिवासिनः स्त्रीपुरुषदारकदारिकादयः सर्वे ते लेखका भवेयुः / स च सुमेरुपर्वतराजो ऽनन्तो लिखितो भवेत् / शक्यते मयैकैकाक्षरं गणयितुम् / न त्ववलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम् / तद्यथापि नाम सर्वनीवरणविष्कम्भिन् द्वादश गङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धाश्चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वोपकरणैः समुपस्थिता भवेयुः / यश्च तेषां तथागतानामुपस्थाने पुण्यस्कन्धः, ततः कुलपुत्र अवलोकितेश्वरस्यैकवालाग्रे पुण्यस्कन्धः / तद्यथापि नाम सर्वनीवरणविष्कम्भिन् अवलोकितेश्वरः अनेकैः समाधिशतैः समन्वागतः / तद्यथा - प्रभंजनो नाम समाधिः / विभूषणकलो नाम समाधिः / अभूषणकरो नाम समाधिः / विद्युल्लोचनो नाम समाधिः / क्षपणो नाम समाधिः / महामनस्वी नाम समधिः / आकारकरो नाम समाधिः / वज्रमाला नाम समाधिः / वरदो नाम समाधिः / शतवीर्यो नाम समाधिः / अन्धव्यूहो नाम समाधिः / प्रतिभानकूटो नाम समाधिः / राजेन्द्रो नाम समाधिः / वज्रप्राकारो नाम समाधिः / वज्रमुखो नाम समाधिः / सदावरदायको नाम समाधिः / इन्द्रियपरिमोचनो नाम समाधिः / द्वेषपरिमोचनो नाम समाधिः / चन्द्रवरलोचनो नाम समाधिः / दिवाकरवरलोचनो नाम समाधिः / धर्माभिमुखो नाम समाधिः / वज्रकुक्षिर्नाम समाधिः / सुदर्शको नाम समाधिः / निर्वाणकरो नाम समाधिः / अनन्तरश्मिनिष्पादनकरो नाम समाधिः / योगकरो नाम समाधिः / विकिरिणो नाम समाधिः / जम्बुद्वीपवरलोचनो नाम समाधिः / बुद्धक्षेत्रवरलोचनो नाम समाधिः / मैत्र्याभिमुखो नाम समाधिः / प्रज्ञाप्रतिभासितो नाम समाधिः / सुदन्तो नाम समाधिः / अक्षराक्षरो नाम समाधिः / अवीचिसंशोषणो नाम समाधिः / सागरगम्भीरो नाम समाधिः / शतपरिवारो नाम समाधिः / मार्गसंदर्शनो नाम समाधिः / एभिः कुलपुत्र अवलोकितेश्वरः समन्वागतः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
