Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
कारण्डव्यूह
- Thông tin
- GRETIL — P.L. Vaidya Mahayana-sutra-samgrahah, Part 1, Sutra No. 12, pp. 258-308. Darbhanga : The Mithila Institute, 1961. (Buddhist Sanskrit Texts, 17).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
कारण्डव्यूह
अवलोकितेश्वरगुण-कारण्डव्यूहः /
ओं नमो रत्नत्रयाय //
श्रीआर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय //
स्तर्त् क्व्यु 1,1:
1. जेतवनविहारवर्णनं प्रथमं प्रकरणम् /
एवं मया श्रुतम् / एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः संबहुलैश्च बोधिसत्त्वशतसहस्रैः / तद्यथा - वज्रपाणिना च बोधिसत्त्वेन महासत्त्वेन / ज्ञानर्दशनेन च बोधिसत्त्वेन महासत्त्वेन / वज्रसेनेन च बोधिसत्त्वेन महासत्त्वेन / गुहगुप्तेन च बोधिसत्त्वेन महासत्त्वेन / आकाशगर्भेण च बोधिसत्त्वेन महासत्त्वेन / सूर्यगर्भेण च बोधिसत्त्वेन महासत्त्वेन / अनिक्षिप्तघुरेण च बोधिसत्त्वेन महासत्त्वेन / रत्नपाणिना च बोधिसत्त्वेन महासत्त्वेन / समन्तभद्रेण च बोधिसत्त्वेन महासत्त्वेन / महास्थामप्राप्तेन च बोधिसत्त्वेन महासत्त्वेन / सर्वनीवरणविष्कम्भिना च बोधिसत्त्वेन महासत्त्वेन / सर्वशूरेण च बोधिसत्त्वेन महासत्त्वेन / भैषज्यसेनेन च बोधिसत्त्वेन महासत्त्वेन / अवलोकितेश्वरेण च बोधिसत्त्वेन महासत्त्वेन / वज्रमतिना च बोधिसत्त्वेन महासत्त्वेन / सागरमतिना च बोधिसत्त्वेन महासत्त्वेन / धर्मधरेण च बोधिसत्त्वेन महासत्त्वेन / पृथिवीवरलोचनेन च बोधिसत्त्वेन महासत्त्वेन / आश्वासहस्तेन च बोधिसत्त्वेन महासत्त्वेन / मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन / एवंप्रमुखैरशीतिकोट्यो बोधिसत्त्वाः संनिषण्णाः / अन्ये च द्वात्रिंशद्देवनिकाया देवपुत्राः संनिपतिता महेश्वरनारायणदेवपुत्रपूर्वंगमाः / शक्रो देवानामिन्द्रो ब्रह्मा च सहांपतिश्चन्द्रादित्यवायुवरुणादयो देवपुत्राः संनिपतितास्तस्मिन् पर्षदि / अनेकानि च नागराजशतसहस्राणि संनिपतितानि / तद्यथाùउपलालश्च नागराजः / एलपत्रश्च नागराजः /
तिमिंगिरश्च नागराजः / गवांपतिश्च नागराजः / शतशीर्षश्च नागराजः / हुल्लुरश्च नागराजः / वहूदकश्च नागराजः / तक्षकश्च नागराजः / गोशीर्षश्च नागराजः / मृगशीर्षश्च नागराजः / नन्दोपनन्दौ च नागराजौ / वात्सीपुत्रश्च नागराजः / एवंप्रमुखाण्यनेकानि नागराजशतसहस्राणि संनिपतितानि / अनेकानि च गन्धर्वराजशतसहस्राणि संनिपतितानि / तद्यथाùदुन्दुभिस्वरश्च गन्धर्वराजः / मनोज्ञस्वरश्च गन्धर्वराजः / सहस्रभुजश्च गन्धर्वराजः / सहांपतिश्च गन्धर्वराजः / शरीरप्रह्लादनश्च गन्धर्वराजः / निर्नादितभूर्यश्च गन्धर्वराजः / अलंकारभूषितश्च गन्धर्वराजः / कुमारदर्शनश्च गन्धर्वराजः / सुबाहुयुक्तश्च गन्धर्वराजः / धर्मप्रियश्च गन्धर्वराजः / एवंप्रमुखाण्यनेकानि गन्धर्वराजशतसहस्राणि संनिपतितानि तस्मिन् पर्षदि / अनेकानि च किन्नरराजशतसहस्राणि संनिपतितानि / तद्यथा - सुमुखश्च किन्नरराजः / रत्नकिरीटी च किन्नरराजः / स्वातिमुखश्च किन्नरराजः / प्रहसितश्च किन्नरराजः / (वैद्य 259) चक्रव्यूहश्च किन्नरराजः / पुष्पावकीर्णश्च किन्नरराजः / मणिश्च किन्नरराजः / प्रलम्बोदरश्च किन्नरराजः / दृढवीर्यश्च किन्नरराजः / सुयोधनश्च किन्नरराजः / शतमुखश्च किन्नरराजः / द्रुमश्च किन्नरराजः / एवंप्रमुखाणि अनेकानि किन्नरराजशतसहस्राणि संनिपतितानि तस्मिन् पर्षदि / अनेकाश्चाप्सरसःशतसहस्राः संनिपतिताः / तद्यथा - तिलोत्तमा नामाप्सरसा / सुव्यूहा नामाप्सरसा / सुवर्णमेखला नामाप्सरसा / विभूषिता नामाप्सरसा / कर्णधारा नामाप्सरसा / अमृतबिन्दुर्नामाप्सरसा /
परिशोभितकाया नामाप्सरसा / मणिप्रस्थनामाप्सरसा / चूडका नामाप्सरसा / मृदुका नामाप्सरसा / पञ्चभूर्याभिमुखा नामाप्सरसा / रतिकरा नामाप्सरसा / काञ्चनमाला नामाप्सरसा / नीलोत्पला नामाप्सरसा / धर्माभिमुखा नामाप्सरसा / सक्रीडा नामाप्सरसा / कृत्स्नाकरा नामाप्सरसा / सुव्यूहमुखा नामाप्सरसा / केयूरधरा नामाप्सरसा / दानंददा नामाप्सरसा / शशी नामाप्सरसा / एवंप्रमुखाण्यनेकाप्सरसःशतसहस्राणि संनिपतितानि तस्मिन् पर्षदि / अनेकानि च नागकन्याशतसहस्राणि संनिपतितानि / तद्यथा - विभूषणधरा नाम नागकन्या / स्वातिमुखा नाम नागकन्या / जयश्रीर्नाम नागकन्या / विजयश्रीर्नाम नागकन्या / मुचिलिन्दा नाम नागकन्या / त्रिजटा नाम नागकन्या / विद्युल्लोचना नाम नागकन्या / स्वातिगिरिर्नाम नागकन्या / शतपरिवारा नाम नागकन्या / विद्युत्प्रभा नाम नागकन्या / महौषधिर्नाम नागकन्या / जलबिन्दुर्नाम नागकन्या / एकशीर्षा नाम नागकन्या / शतबाहुर्नाम नागकन्या / ग्रसती नाम नागकन्या / अनाकृच्छ्रगता नाम नागकन्या / सुभूषणा नाम नागकन्या / पाण्डलमेघा नाम नागकन्या / रथाभिरुढा नाम नागकन्या / त्यागगता नाम नागकन्या / अभिन्नपरिवारा नाम नागकन्या / पुलिन्दा नाम नागकन्या / सागरकुक्षिर्नाम नागकन्या / छत्रमुखा नाम नागकन्या / धर्मपीठा नाम नागकन्या / मुखरा नाम नागकन्या / वीर्या नाम नागकन्या / सागरगम्भीरा नाम नागकन्या / मेरुश्रीर्नाम नागकन्या / एवंप्रमुखाण्यनेकानि नागकन्या शतसहस्राणि संनिपतितानि तस्मिन् पर्षदि / अनेकानि च गन्धर्वकन्याशतसहस्राणि संनिपतितानि / तद्यथा - प्रियमुखा नाम गन्धर्वकन्या /
प्रियंददा नाम गन्धर्वकन्या / सुदर्शना नाम गन्धर्वकन्या / वज्रश्रीर्नाम गन्धर्वकन्या / वज्रमाला नाम गन्धर्वकन्या / अनादर्शना नाम गन्धर्वकन्या / समालिनी नाम गन्धर्वकन्या / वनस्पतिर्नाम गन्धर्वकन्या / शतपुष्पा नाम गन्धर्वकन्या / मुकुलिता नाम गन्धर्वकन्या / रत्नमाला नाम गन्धर्वकन्या / मुदितपुष्पा नाम गन्धर्वकन्या / सुकुक्षिर्नाम गन्धर्वकन्या / राजश्रीर्नाम गन्धर्वकन्या / दुन्दुभिर्नाम गन्धर्वकन्या / शुभमाला नाम गन्धर्वकन्या / विभूषितालंकारा नाम गन्धर्वकन्या / अभिनमिता नाम गन्धर्वकन्या / धर्मकाङ्क्षिणी नाम गन्धर्वकन्या / धर्मंददा नाम गन्धर्वकन्या / औदुम्बरा नाम गन्धर्वकन्या / शताकारा नाम गन्धर्वकन्या / पद्मावती नाम गन्धर्वकन्या / फलंददा नाम गन्धर्वकन्या / पद्मालंकारा नाम गन्धर्वकन्या / परिशोभितकाया नाम गन्धर्वकन्या / विलासेन्द्रगामिनी नाम गन्धर्वकन्या / पृथिवींददा नाम (वैद्य 260) गन्धर्वकन्या / सिंहगामिनी नाम गन्धर्वकन्या / कुमुदपुष्पा नाम गन्धर्वकन्या / मनोरमा नाम गन्धर्वकन्या / दानंददा नाम गन्धर्वकन्या / देववचना नाम गन्धर्वकन्या / क्षान्तिप्रिया नाम गन्धर्वकन्या / निर्वाणप्रिया नाम गन्धर्वकन्या / रत्नाङ्कुरा नाम गन्धर्वकन्या / इन्द्रश्रीर्नाम गन्धर्वकन्या / इन्द्रमघश्रीर्नाम गन्धर्वकन्या / प्रजापतिनिवासिनी नाम गन्धर्वकन्या / मृगराजिनी नाम गन्धर्वकन्या / स्फुरन्तश्रीर्नाम गन्धर्वकन्या / ज्वलन्तशिखरा नाम गन्धर्वकन्या / रागपरिमुक्ता नाम गन्धर्वकन्या / द्वेषपरिमुक्ता नाम गन्धर्वकन्या / मोहपरिमुक्ता नाम गन्धर्वकन्या /
सुजनपरिवारा नाम गन्धर्वकन्या / रत्नपीठा नाम गन्धर्वकन्या / आगमनगमना नाम गन्धर्वकन्या / अग्निप्रभा नाम गन्धर्वकन्या / चन्द्रबिम्बप्रभा नाम गन्धर्वकन्या / सूर्यलोचना नाम गन्धर्वकन्या / सुवचा नाम गन्धर्वकन्या / एवंप्रमुखाण्यनेकानि गन्धर्वकन्याशतसहस्राणि संनिपतितानि तस्मिन् पर्षदि / अनेकानि च किन्नरकन्याशतसहस्राणि संनिपतितानि / तद्यथा - मनसा नाम किन्नरकन्या / मानसी नाम किन्नरकन्या / वायुवेगा नाम किन्नरकन्या / वरुणवेगा नाम किन्नरकन्या / आकाशप्लवा नाम किन्नरकन्या / वेगजवा नाम किन्नरकन्या / लक्ष्मींददा नाम किन्नरकन्या / सुदंष्ट्रा नाम किन्नरकन्या / अचलश्रीर्नाम किन्नरकन्या / धातुप्रिया नाम किन्नरकन्या / अवलोकितलक्ष्मीर्नाम किन्नरकन्या / कुटिला नाम किन्नरकन्या / वज्रमुष्टिर्नाम किन्नरकन्या / कपिला नाम किन्नरकन्या / सुभूषणभूषिता नाम किन्नरकन्या / विस्तीर्णललाटा नाम किन्नरकन्या / सुजनपरिसेविता नाम किन्नरकन्या / सहांपतिर्नाम किन्नरकन्या / आकाशरक्षिता नाम किन्नरकन्या / व्यूहराजेन्द्रा नाम किन्नरकन्या / मणिचूडा नाम किन्नरकन्या / मणिधारिणी नाम किन्नरकन्या / मणिरोचनी नाम किन्नरकन्या / विद्वज्जनपरिसेविता नाम किन्नरकन्या / शताकरा नाम किन्नरकन्या / आयुर्ददा नाम किन्नरकन्या / तथागतकोशपरिपालिता नाम किन्नरकन्या / धर्मधातुपरिरक्षिणी नाम किन्नरकन्या / सततपरिग्रहधर्मकाङ्क्षिणी नाम किन्नरकन्या / सदानुकालदर्शिनी नाम किन्नरकन्या / नूपुरोत्तमा नाम किन्नरकन्या / लक्षणोत्तमा नाम किन्नरकन्या / आश्वासनी नाम किन्नरकन्या /
विमोक्षकरा नाम किन्नरकन्या / सदानुवृत्तिर्नाम किन्नरकन्या / संवेगधारिणी नाम किन्नरकन्या / खङ्गज्वलना नाम किन्नरकन्या / पृथिव्युपसंक्रमणा नाम किन्नरकन्या / सुरेन्द्रमाला नाम किन्नरकन्या / सुरेन्द्रा नाम किन्नरकन्या / असुरेन्द्रा नाम किन्नरकन्या / मुनीन्द्रा नाम किन्नरकन्या / गोत्रक्षान्तिर्नाम किन्नरकन्या / योगानुगता नाम किन्नरकन्या / बह्वाश्रया नाम किन्नरकन्या / शतायुधा नाम किन्नरकन्या / विभूषितालंकारा नाम किन्नरकन्या / मनोहरा नाम किन्नरकन्या / एवंप्रमुखाण्यनेकानि किन्नरकन्याशतसहस्राणि संनिपतितानि / अनेकान्युपासकोपासिकाशतसहस्राणि संनिपतितानि, अनेकानि च परिव्राजकनिर्ग्रन्थशतसहस्राणि संनिपतितानि //
यदा महासंनिपातश्चाभूत, तदा अवीचौ महानरके रश्मयो निश्चरन्ति स्म / निश्चरित्वा जेतवनविहारमागच्छन्ति स्म / सर्वे ते विहारपरिशोभिता एव दृश्यन्ते स्म / दिव्यमणिरत्नोपलित्पाः (वैद्य 261) स्तम्भाः परिशोभिता एव दृश्यन्ते स्म / कूटागाराः सुवर्णोपचिता दृश्यन्ते स्म / लयने लयने सुवर्णरूप्यमयानि द्वाराणि दृश्यन्ते स्म / लयने लयने सुवर्णरूप्यमयानि सोपानानि दृश्यन्ते स्म / सुवर्णरूप्यमयानि प्रासादानि, रूप्यमये प्रासादे सुवर्णमयानि स्तम्भानि दिव्यरत्नोपचितानि / सुवर्णमये प्रसादे रूप्यमयानि स्तम्भानि दिव्यरत्नोपशोभितानि / सुवर्णमये प्रासादे रूप्यमयानि स्तम्भानि दिव्यरत्नोपशोभितानि / बहिर्जेतवनस्य पुरत उद्याने नानाविधानि कल्पवृक्षाणि दृश्यन्ते स्म / सुवर्णदण्डानि रूप्यपत्राणि नानाविधालंकारप्रलम्बितानि / विचित्राणि चीवरवस्त्रप्रलम्बितानि / कौशिकवस्त्रप्रलम्बितानि / मुक्ताहारशतसहस्रप्रलम्बितानि / विविधमौलीकुण्डलस्रग्दामकेयूरनूपुरशतसहस्राणि प्रलम्बितानि / कर्णपृष्ठोत्तर्याणि स्तम्भानि मणिरत्नकटककेयूरकाणि प्रलम्बितानि संदृश्यन्ते / स्म / तेन तत्र च रम्यावभासे तादृशानि कल्पवृक्षशतसहस्राणि प्रादुर्भूतानि / तस्मिन्नेव जेतवनविहारे वज्रमयाणि सोपानानि दृश्यन्ते स्म, द्वारकोष्ठे च मुक्तापटकलापप्रलम्बितानि / अनेकानि पुष्करिणीशतसहस्राणि प्रादुर्भूतानि / तत्र कानिचिदष्टाङ्गोपेतवारिणा परिपूर्णानि / कानिचिन्नानाविधपुष्पपरिपूर्णानि / तद्यथा - उत्पलपद्मकुमुदपुण्डरीकमान्दारवमहामान्दारववडौदुम्बरपुष्पपरिपूर्णानि / अन्यानि च पुनस्तत्र विविधानि काष्ठपुष्पाण्युत्पद्यन्ते / तद्यथा - चम्पकाशोककरवीरपाटलानिर्मुक्तकसुमनागन्धवार्षिकाणि / एतानि मनोरमाणि काष्ठपुष्पाणि प्रादुर्भूतानि / इत्येवं तस्मिन् जेतवनविहारे समन्ततः परिशोभितानि दृश्यन्ते स्म //
इति जेतवनविहारवर्णनं नाम प्रथमप्रकरणम् //
स्तर्त् क्व्यु 1,2:
अवीचिशोषणं नाम द्वितीयं प्रकरणम् /
अथ तस्मिन्नेव पर्षन्मध्ये सर्वनीवरणविष्कम्भी नाम बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - परमाश्चर्याद्भुतप्राप्तो ऽहं भगवन् / कुत इमे रश्मयः समागच्छन्ति स्म? कस्यैष तथागतस्य विषयप्रभावः? इति / भगवानाह - नैष तथागतप्रभावः / कुलपुत्रो ऽवीचौ महानरके आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रविष्टः / सत्त्वान् परिमोचयित्वा च प्रेतनगरं प्रविशति / तेनेमे रश्मय उत्सृष्टाः //
अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - भगवन्, अवीचौ महानरके कानि सत्त्वानि संविद्यन्ते? यत्र वीचिर्न प्रज्ञायते / तत्रास्य धर्मं देशयति - यस्याः कुड्यप्राकारपर्यन्ता अयोमयी भूमिः समनन्तरप्रज्वलितैकज्वालीभूता, विस्फुरद्रत्नकरण्डकवत् संदृश्यते / तस्मिन्नेव महानरके आक्रन्दती कुम्भी तिष्ठति / तस्यामेव कुम्भ्यामनेकानि सत्त्वकोटीनियुतशतसहस्राणि प्रक्षिप्तानि / यथा बह्वयुदकायां स्थाल्यां मुद्गा वा माषा वा चोर्ध्वं गच्छन्तो ऽधो गच्छन्तः स्विद्यन्ते पच्यन्ते, एवं ते सत्त्वा (वैद्य 262) अवीचौ महानरके कायिकं दुःखं प्रत्यनुभवन्ति / तत्कथं भगवन् अवीचौ महानरके ऽवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रविशति? भगवानाह - यथा कुलपुत्र राजा चक्रवर्ती दिव्यरत्नमयोद्याने प्रविशति महत्या चक्रवर्तिराज्यसमृद्धया, एवमेव कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्मिन्नवीचौ महानरके प्रविशति / न च पुनस्तस्य कायो ऽन्यथाभावं गच्छति / यदा अवीचिमहानरकसमीपमुपसंक्रामति, तदा अवीचिर्महानरकः शीतीभावमनुगच्छति / तदा ते यमपालपुरूषाः संवेगचित्ताः परमोद्विग्नाश्चिन्तां समापद्यन्ते - किमस्मिन्नवीचौ महानरके ऽशुभनिमित्तं प्रादुर्भूतम्? यदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रविशति, तदा तस्मिन् शकटचक्रप्रमाणमात्राणि पद्मानि प्रादुर्भूतानि / सा च कुम्भी विस्फुटिता / तस्मिन्नेवाग्निखदायां मधोः पुष्करिणी प्रादुर्भूता //
अथ ते यमपालपुरूषा असिमुसलभिन्दिपालतोमरगदाचक्रत्रिशूलादीनुपसंगृह्य सर्वं चावीचिपरिष्कारं गृहीत्वा येन स यमो धर्मराजस्तेनोपसंक्रान्ताः / उपसंक्रम्य यमं धर्मराजमेतदवोचन् - यत्खलु देवो जानीयात् प्रथमम् - सा चास्माकं कर्मभूमिर्निरवशेषं परिक्षीणा अभिरमणीया संवृत्ता सर्वसुखसमर्पिता / यमो धर्मराजस्तानुवाच - किंकारणं युष्माकमपि कर्मभूमिः परिक्षीणा?
यमपालपुरूषा ऊचुः - अपि च / यत्खलु देवो जानीयात् प्रथमम् - तस्मिन्नवीचिमहानरके ऽशुभनिमित्तं प्रादुर्भूतम् / सर्वं प्रशान्तं शीतीभावमुपगतम् / कामरूपी च तत्र पुरुषः प्रविष्टो जटामुकुटधरो दिव्यालंकारभूषितशरीरः परममैत्रमानसः सुवर्णबिम्बमिव दृश्यते / स च तादृशः पुरुषस्तत्र प्रविष्टः / तस्य च प्रविष्टमात्राच्छकटचक्रमात्राणि पद्मानि प्रादुर्भूतानि / सा च कुम्भी विस्फुटिता / तस्मिन्नेवाग्निखदायां मधोः पुष्करिणी प्रादुर्भूता //
अथ स यमो धर्मराजश्चिन्तामापेदे - कस्य पुनर्देवस्यायं प्रभावः? अथ महेश्वरस्य महर्द्धिकस्य, अथवा नारायणस्य पञ्चमहासमुद्रनमस्कृतस्य, अथवा अन्येषां महर्द्धिकदेवपुत्राणामपि वरप्रदानेनेदृशं फलविशेषं संवृत्तम्? ते चेह भूमावनुप्राप्ताः? अथवा राक्षस उत्पन्नः एष महारावणप्रतिद्वन्द्वी? एवं स ततः स्थितश्चिन्तयामास / स च दिव्येन चक्षुषा व्यवलोक्य तच्च देवनिकायेन पश्यति स्म - ईदृशं वरं कस्यान्यस्य? अथ स पुनरेवावीचौ महानरके व्यवलोकयति स्म / व्यवलोक्य तस्मिन्नेवावीचौ महानरके ऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेव पश्यति स्म //
अथ स यमो धर्मराजो येनावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य स्तोत्रविशेषं कर्तुमारब्धः / नमो ऽस्त्ववलोकितेश्वराय, महेश्वराय, पद्मश्रिये, वरदाय, वशंकराय, पृथिवीवरलोचनकराय, जगदाश्वासनकराय, शतसहस्रभुजाय, कोटीशतसहस्रनेत्राय, एकादशशीर्षाय, वडवामुखपर्यन्ताय, धर्मप्रियाय, सर्वसत्त्वपरिमोक्षणकराय, कूर्ममकरमत्स्याश्वासनकराय, ज्ञानराश्युत्तमकराय, प्रियंददाय, (वैद्य 263) रत्नश्रिये, उत्तमाय, अवीचिसंशोषणकराय, ज्ञानलक्ष्म्यलंकृताय, ज्ञानप्रियाय, सर्वदेवपूजितनमस्कृताय, वन्दिताय, अभयंददाय, धर्मदीपंकराय, कामरूपाय, गन्धर्वरूपया, काञ्चनपर्वतसमारूढाय, सागरकुक्षिगम्भीरधर्माय, परमार्थयोगमनुप्राप्ताय, संमुखसंदर्शनकराय, अनेकसमाधिशतसहस्रावकीर्णाय, अभिरतिकराय, विच्छुरितगात्राय, ऋषिपुंगवकराय, हडिनिगडबन्धनभयत्रस्तमार्गपरिमोक्षणकराय, सर्वसत्त्वाभावसंयुक्ताय, बहुपरिवारसंवर्तनीयाय, उपचितकराय, चिन्तामणिरत्नाय, निर्वाणमार्गोपदर्शनकराय, प्रेतनगरसमुच्छोषणकराय, छत्रभूतजगत्कराय, व्याधिपरिमोचनकराय, नन्दोपनन्दनागराजकृतयज्ञोपवीताय, अमोघपाशसंदर्शनकराय, अनेकमन्त्रशतावकीर्णाय वज्रपाणिविद्रावणकराय, त्रिलोकभयंकराय, यक्षराक्षसभूतप्रेतवेतालडाकिनीकूष्माण्डापस्मारसंत्रासनकराय, नीलोत्पलचारुनेत्राय, गम्भीरधीराय, विद्याधिपतये, सर्वक्लेशविमोक्षणकराय, विविधबोधिमार्गोपचिताय, समारूढमोक्षमार्गप्रवराय, आश्रयचित्तबोधिमार्गोपचिताय, प्रेतगतिपरिमोक्षणकराय, परमाणुरजोपमसमाधिशतसहस्राकीर्णाय / एवं यमो धर्मराजो विशेषतरं स्रोतावधानं कृत्वा पुनरपि यमो धर्मराजः त्रिः प्रदक्षिणीकृत्य तत्रैव प्रक्रान्तो ऽभूत् //
इति अवीचिशोषणं नाम द्वितीयं प्रकरणम् //
स्तर्त् क्व्यु 1,3:
सत्त्वधातुपरिमोक्षणं तृतीयं प्रकरणम् /
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - कदा भगवन्नागच्छति अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः? भगवानाह - एष कुलपुत्र अवीचीमहानरकान्निष्क्रम्य प्रेतनगरं प्रविष्टः / तत्रानेकानि प्रेतशतसहस्राणि पुरस्ताद्धावन्ति स्म दग्धस्थूणाकृतिभिरस्थियन्त्रवदुच्छ्रितैः पर्वतोदरसंनिभैः सूचीच्छिद्रोपममुखैः / यदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रेतनगरमुपसंक्रामति, तदा स प्रेतनगरः शीतीभावमनुगच्छति, सा च वज्राशनिर्व्युपशमिता, स च द्वारपालपुरूष उद्बद्धभिण्डिपालः कालकूटव्यग्रहस्तो लोहिताक्षः / सततमस्यानुभावेन मैत्रचित्तं संभावयति - न च मे ईदृशेन कर्मभूमिना कृत्यम् //
अथार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तं च सत्त्वनिकायं दृष्ट्वा महाकरुणाचित्तमुत्पाद्य दशभ्यो हस्ताङ्गुलीभ्यो दश वैतरणीर्निष्क्रामयति / दशभ्यः पादाङ्गुलीभ्यो दश वैतरणीर्निष्क्रामयति / अतिकरुणाभिभूतचेतसा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य तेषां सत्त्वानामन्तिके सर्वरोमकूपेभ्यो ऽष्टाङ्गवारिपरिपूर्णा महानद्यो निष्क्रामन्ति / यदा च ते प्रेतसत्त्वास्तदुदकमास्वादयन्ति, तदा ते विपुलकण्ठा भवन्ति, परिपूर्णगात्राश्च भवन्ति / तेन चैते दिव्यरसरसाग्रोपेतेनाहारेण संतर्पिताश्च भवन्ति / तदा मानुषिकीं चेतनामुपादायैव सांसारिकीं चिन्तां विचिन्तयन्ति - अहो बत ते जाम्बुद्वीपका मनुष्याः सुखिताः, ये शीतलां छायां परिसेवन्ति / सुखितास्ते जाम्बुद्वीपका मनुष्या (वैद्य 264) ये मातापितरौ सततं परिग्रहमुपस्थानं कुर्वन्ति / सुखितास्ते सत्पुरुषा ये कल्याणमित्रं सततसमितमन्वेषयन्ति, परिग्रहं परिपालयन्ति / ते सत्पुरूषाः सचेतना ये महायानं सततसमितमवगाहयन्ति / ते सत्पुरुषा ये आर्यास्तान् गोमार्गाय वासमुपवसन्ति / ते सत्पुरूषा ये धर्मदण्डिकामाकोटयन्ति / ते सत्पुरुषाः ये त्रुटितस्फुटितान् विहारान् प्रतिसंस्कारं कुर्वन्ति, प्रतिष्ठापयन्ति / ते सत्पुरुषा ये पूर्विकानि स्तूपबिम्बानि त्रुटितस्फुटितानि विशीर्णभूतानि प्रतिसंस्कारं कुर्वन्ति / ते सत्पुरुषा ये धर्मभाणकांल्लेखकान् धारकान् वाचकान् सूत्रराजस्य श्रावकान् सततसमितं परिसेवन्ति चोपतिष्ठन्ति च / ते सत्पुरूषा ये तथागतप्रातिहार्याणि विविधानि च तथागतचंक्रमणानि धर्मसराणि च पश्यन्ति / ते सत्पुरूषा ये प्रत्येकबुद्धचंक्रमणानि पश्यन्ति /
ते सत्पुरुषा ये ऽर्हच्चंक्रमणानि पश्यन्ति / ते सत्पुरुषा ये बोधिसत्त्वविकुर्वितानि चंक्रमणानि पश्यन्ति / इत्येवं ते प्रेतविषयं शरीरमनुविचिन्त्य मानसानां कामानामभावोपपत्तिं प्रति परित्यजन्ति / तदा तस्य सकाशात् ऽकारण्डव्यूह ऽमहायानसूत्ररत्न राजशब्दो निश्चरति / तदा तेषां विंशतिशिखर समुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा सर्वे ते सुखावत्यां लोकधातावुपपन्नाः आकाङ्क्षितमुखा नाम बोधिसत्त्वा उपपन्नाः / अथावलोकितेश्वरो यदा ते सत्त्वधातवः परिमोक्षिताः सुपरिमुक्ताश्च, यदा ते सर्वसत्त्वा बोधिसत्त्वभूमावुपपन्नाः, तदा ततः प्रेतनगरात्पुनरपि निष्क्रामति //
इति सत्त्वधातुपरिमोक्षणं नाम तृतीयं प्रकरणम् //
स्तर्त् क्व्यु 1,4:
चन्द्राद्युत्पत्तिर्नाम चतुर्थं प्रकरणम् /
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - भगवन, अद्यापि नागच्छत्यवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः? भगवानाह - अनेकानि कुलपुत्र सत्त्वकोटिनियुतशतसहस्राणि परिपाचयति / दिने दिने स आगत्य परिपाचयति / नास्ति कुलपुत्र ईदृशं प्रतिभानं तथागतानामपि यादृशमार्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य //
अथ सर्वनीवरणविष्कम्भी आह - केन प्रकारेण भगवन्? भगवानाह - भूतपूर्वं कुलपुत्र विपश्यी नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / तेन कालेन तेन समयेनाहं सर्वनीवरणनिष्कम्भिन् सुगन्धमुखो नाम वणिक्पुत्रो ऽभूवम् / तदा मे श्रुता विपश्यिनस्तथागतस्य सकाशादार्यावलोकितेश्वरस्य गुणोद्भावना //
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - कीदृशी त्वया भगवन् गुणोद्भावना श्रुता? एताः सर्वा प्रवदताम् / विज्ञराज भगवन् मे प्रबोधय, यादृशी त्वया भगवन् गुणोद्भावना आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य श्रुता //
भगवानाह - चक्षुषोश्चन्द्रादित्यावुत्पन्नौ, ललाटान्महेश्वरः, स्कन्धेभ्यो ब्रह्मादयः, हृदयान्नारायणः, दंष्ट्राभ्यां सरस्वती, मुखतो वायवो जाताः, धरणी पादाभ्याम्, वरुणश्चोदरात् / यदैते देवा जाता आर्यावलोकितेश्वरस्य कायात्, अथार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो महेश्वरं देवपुत्रमेतदवोचत् - भविष्यसि त्वं महेश्वरः कलियुगे प्रतिपन्ने / कष्टसत्त्वधातुसमुत्पन्न आदिदेव आख्यायसे स्रष्टारं कर्तारम्, ते सर्वसत्त्वा बोधिमार्गेण विप्रहीणा भविष्यन्ति, य ईदृशपृथग्जनेषु सत्त्वेषु सांकथ्यं कुर्वन्ति //
आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका / आलयः सर्वभूतानां लीलया लिङ्गमुच्यते // kvyu_1,4.1 //
ईदृशं मया कुलपुत्र विपश्यिनस्तथागतस्य सकाशादार्यावलोकितेश्वरस्य गुणोद्भावना श्रुता //
तदप्यतिक्रम्य शिखी नाम तथागतो ऽर्हन् सम्यक्संबुद्धो बभूव विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / तेन कालेन तेन समयेनाहं सर्वनीवरणविष्कम्भिन् दानशूरो नाम बोधिसत्त्वो महासत्त्वो ऽभूवम् / तस्य शिखिनस्तथागतस्य सकाशादवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्वस्य गुणोद्भावना श्रुता //
इति चन्द्राद्युत्पत्तिर्नाम चतुर्थं प्रकरणम् //
स्तर्त् क्व्यु 1,5:
विविधरश्मिनिःसरणं पञ्चमं प्रकरणम् /
अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - कीदृशी भगवंस्त्वया गुणोद्भावना अवलोकितेश्वरस्य श्रुता? भगवानाह - यदा सर्वदेवा नागा यक्षा गन्धर्वा राक्षसा असुरा मरुतो गरूडा गन्धर्वाः किन्नरा महोरगा मनुष्याः संनिपतिताः संनिषण्णा अभूवन्, तदा भगवान् / महासंनिपातं दृष्ट्वा तासां पर्षदां मध्ये धर्मसांकथ्यं कर्तुमारब्धः / तदा भगवतो मुखद्वारान्नानावर्णा अनेकरश्मयो निःसरन्ति स्म / तद्यथा - नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतसुवर्णनानाविधरश्मयो निश्चरन्ति स्म / निश्चरित्वा च दशदिग्विदिक्षु सर्वान् लोकान् धातुनवभास्य पुनरेवागत्य तं शिखिनं भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतो मुखद्वारे प्रविष्टाः //
इति विविधरश्मिनिःसरणं नाम पञ्चमं प्रकरणम् / समाप्तो ऽयं सर्वनीवरणाविष्कम्भिसंवादो नाम प्रथमः काण्डः //
स्तर्त् क्व्यु 1,6:
तथागतसंवादः षष्ठं प्रकरणम् /
अथ तस्मिन्नेव पर्षदि रत्नपाणिर्नाम बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - (वैद्य 266) किं कारणं भगवन्, ईदृशं निमित्तं प्रादुर्भूतं दर्शितम्? भगवानाह - एष कुलपुत्र अवलोकितेश्वरः सुखावत्या लोकधातोरागच्छति, तस्य आगच्छमानस्येदं मयेदृशं निमित्तं प्रादुर्भूतं दर्शितम् //
अथ रत्नपाणिर्नाम बोधिसत्त्व आह - कीदृशानि तानि निमित्तानि? दर्शयतु भगवान् / भगवानाह - यदा कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व आगच्छति, तदा विविधानि कल्पवृक्षा विस्तरन्ति, चूतवृक्षा विस्तरन्ति, कुन्दपुष्पाणि सततं जायन्ते, चम्पकवृक्षा अभिनमन्ति / अतिपुष्पावकीर्णाः पुष्करिण्यः प्रादुर्भवन्ति / रत्नवृक्षशतानि ततो दृश्यन्ते / विविधानि पुष्पवर्षाणि पतन्ति, रत्नवर्षाणि च प्रवर्षन्ति, विविधानि च रत्नमणिमुक्तावज्रवैदूर्यशङ्खशिलाप्रवालजातरूपरजतताम्राणि प्रवर्षन्ति, दिव्यानि च वस्त्रवर्षाणि पतन्ति / तस्मिन्नेव विहारसमीपे सप्त रत्नानि प्रादूर्भूतानि / तद्यथा - हस्तिरत्नं मनिरत्नं अश्वरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् / एवं सप्त रत्नानि प्रादुर्भूतानि / भूमिः सुवर्णनिर्भासा संदृश्यते / यदा आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सुखावत्या लोकधातोर्निष्क्रान्तः, तदा सर्वपृथिवी षड्विकारं प्रकम्पिता //
अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कस्य निमित्तानि भगवन्? भगवानाह - एष कुलपुत्र आर्यावलोकितेश्वरो महासत्त्वो बोधिसत्त्व आगच्छति, तस्यैष शुभनिमित्तमीदृशं प्रादुर्भूतम् / यदा स चलति तदा मनोरमं पद्मवर्षः पतति / तदा अवलोकितेश्वरो सहस्रपत्राणि पद्मानि सुवर्णदण्डानि वैदूर्यनिर्भासानि गृहीत्वा येन भगवांस्तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवतस्तानि पद्मान्युपनामयति स्म - इमानि ते भगवन्नमिताभेन तथागतेनार्हता सम्यक्संबुद्धेन प्रहितानि / स तथागतः पृच्छति अनातङ्कतां लघुतां सुखस्पर्शविहारितां च / ततो भगवता पद्मानि गृहीत्वा वामपार्श्वे स्थापितानि / तदा अर्यावलोकितेश्वरस्य गुणोद्भावनां कुरुते - कीदृशी त्वया अवलोकितेश्वर कर्मभूमिर्निष्पादिता सदा प्रेतेषु अवीचावुपपन्नेषु? कालसूत्ररौरवोपपन्नेषु सत्त्वेषु, हाहे तपने प्रेतायने महानरके, अग्निघटे महानरके, शाल्मलिमहानरके, अन्धकाले महानरके, शीतोदके महानरके - एवं चान्येष्वपि? महानरके ये उपपन्नाः सत्त्वास्तेषां च कर्मभूमिं दृष्ट्वा तत्र मया सत्त्वपरिपाको मे कृतः कर्तव्यश्च / कृत्वा सर्वे च अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्याः / न च तावत् त्वयानुत्तरा सम्यक्संबोधिरभिसंबोद्धव्या, यावत्समन्ताद्दशभ्यो दिग्भ्यः सर्वाक्षणोपपन्नाः सत्त्वा अरूपविशेषे निर्वाणधातौ न प्रतिष्ठापिता भवेयुः //
अथावलोकितेश्वरो बोधिसत्त्व इदं प्रश्नव्याहारं कृत्वा भगवतः पादौ शिरसाभिवन्द्य एकान्ते प्रकान्तः, प्रक्रमित्वा ज्वलन्निवाग्निपिण्ड आकाशे ऽन्तर्हितः //
इति तथागतसंवादो नाम षष्ठं प्रकरणम् //
स्तर्त् क्व्यु 1,7:
अवलोकितेश्वरपुण्यस्कन्धकथनं सप्तमं प्रकरणम् /
अथ रत्नपाणिर्बोधिसत्त्वो भगवन्तमेतदवोचत् - परिपृच्छेयमहं भगवन् प्रश्नव्याहरणमुद्देशम् - किदृशो ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यसंभारः? भगवानाह - शृणु कुलपुत्र / निर्देशयामि अस्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामग्रहणात् पुण्यसंभारस्य प्रमाणम् / तद्यथा - अपि नाम कुलपुत्र केचिदेव सत्त्वा गङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धाः दिव्यकल्पपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजघण्टापताकाभिर्विविधाभिः, चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरुपस्थिता भवन्ति, यश्च तेषां तथागतानां पुण्यस्कन्धः प्रभवति, अवलोकितेश्वरस्यैकवालाग्रे स पुण्यस्कन्धः / तद्यथा - अपि नाम कुलपुत्र द्वादशमासिकेन संवत्सरेण चतुर्महाद्वीपेषु रात्रिंदिवमविच्छिन्नं देवो वर्षति, तच्छक्यमेकैकं बिन्दुं गणयितुम् / न तु कुलपुत्र अवलोकितेश्वरस्य शक्यं मया पुण्यसंभारं गणयितुम् / तद्यथापि नाम कुलपुत्र महासमुद्रश्चतुरशीतियोजनसहस्राणि गाम्भीर्येण, अप्रमेयो वैपुल्येन, वडवामुखपर्यन्तम्, तन्मया शक्यमेकैकं बिन्दुं गणयितुम् / न तु कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य शक्यते पुण्यसंभारं गणयितुम् / तद्यथापि नाम कुलपुत्र चतुर्महाद्वीपेषु ये केचिच्चतुष्पादा सिंहव्याघ्रऋक्षतरक्षुमृगोष्ट्रशृगालादयो गोगर्दभाः पशवः हस्तिनो ऽश्वा महिषा मार्जारादयः, एतेषु चतुष्पदेषु शक्यते मयैकैकं रोमं गणयितुम् / न तु कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य शक्यते पुण्यसंभारं गणयितुम् /
तद्यथापि नाम कुलपुत्र कश्चिदेव कुलपुत्रो वा कुलदुहिता वा परमाणुरजोपमास्तथागता अर्हतः सम्यक्संबुद्धा दिव्यसौवर्णरत्नमयान् स्तूपान् कारयेद्धस्तशतसहस्रप्रमाणम्, कारयित्वा चैकदिने ध्यानावरोपणं कुर्यात्, तच्छक्यं मया कुलपुत्र तेषां सौवर्णरजतमयानां तथागतानां करणेषु पुण्यस्कन्धं गणयितुम् / न तु कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य शक्यते पुण्यसंभारं गणयितुम् / तद्यथापि नाम कुलपुत्र शक्यते मया शीर्षवनस्यैकैकं पत्राणि गणयितुम्, न त्ववलोकितेश्वरस्य शक्यते मया पुण्यसंभारं गणयितुम् / तद्यथापि नाम कुलपुत्र चतुर्महाद्वीपेषु स्त्रीपुरुषदारकदारिकास्ते सर्वे स्रोतापत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबोधौ नियोजयेयम् / यश्चैतेषु पुण्यस्कन्धः, अवलोकितेश्वरस्य पूर्ववद्बालग्रे स पुण्यस्कन्धः //
इत्यवलोकितेश्वरपुण्यस्कन्धकथनं नाम सप्तमं प्रकरणम् //
स्तर्त् क्व्यु 1,8:
वैनेयधर्मोपदेशः अष्टमं प्रकरणम् /
अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - न मे भगवन क्वचिदीदृशः अचिन्त्यस्तथागतानां पुण्यस्कन्धो दृष्टो वा श्रुतो वा प्रागेव बोधिसत्त्वभूतस्य, यादृशो भगवतो ऽवलोकितेश्वरस्य बोधिसत्त्वस्य पुण्यस्कन्धः / भगवानाह - यत्खलु कुलपुत्र मम सदृशाः गङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धा भवेयुः, ते चैकस्थाने (वैद्य 268) धारयेयुः सत्काराय दिव्यकल्पचीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः, ते च तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वथैकत्र संनिपात्यन्ते / सर्वे अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य न शन्कुवन्ति पुण्यस्कन्धं गणयितुम् / प्रागेव कुलपुत्र अहमेकाकी अस्मिन् लोकधातौ विहरामि, तत्कथं शक्नुयां तस्य पुण्यस्कन्धं वाचा व्याहर्तुम्? अपि च कुलपुत्र सर्वे तथागता दशभ्यो वाग्भिः एवं वाचमभाषन्त - ते सत्त्वाः सुखिता लोके भवन्ति, ये अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयमनुस्मरन्ति / ते जरामरणव्याधिशोकपरिदेवदुःखदौर्मनस्येभ्यः परिमुक्ता भवन्ति, ते आपश्चिमसांसारिकं दुःखं नानुभवन्ति, ते शुक्लपाण्डरपटा इव राजहंसाः प्लुतवायुवेगा इव गच्छन्ति सुखावतीलोकधातुममिताभस्य तथागतस्य संमुखं धर्मश्रवणाय / धर्मं श्रुत्वा च सांसारिकं दुःखं तेषां काये न बाधते, न च रागद्वेषमोहेन जरामरणम्, न च तेषां क्षुत्पिपासा दुःखं काये न बाधते, न च ते गर्भावासदुःखमनुस्मरन्ति, तस्मिन्नेव पद्मे जायन्ते / धर्मरसेन पूर्यमाणाः सततपरिग्रहं व्यवस्थापिताः तावदस्मिंल्लोकधातौ तिष्ठन्ति, यावदवलोकितेश्वरस्य बोधिसत्त्वस्य दृढप्रतिज्ञा न परिपूरिता भवति - सर्वसत्त्वा सर्वदुःखेभ्यः परिमोक्षिताः यावदनुत्तरायाः सम्यक्संबोधौ न प्रतिष्ठापिता भवन्ति //
अथ रत्नपाणिर्बोधिसत्त्वो भगवन्तमेतदवोचत् - कतमेन कालेन भगवतो ऽस्य दृढप्रतिज्ञां परिपूरयति, सर्वसत्त्वाश्च मोक्षमार्गे प्रतिष्ठापिता भवेयुः? भगवानाह - बहुभिः कुलपुत्र कारणैः सत्त्वाः कारणात् संसारे संसरन्ति, देवता सत्त्वान् परिपाचयति, तेषां सत्त्वानां बोधिमार्गमुपदर्शयति / येन येन रुपेण वैनेयाः सत्त्वाः, तेन तेन रुपेण धर्मं देशयति / तथागतवैनेयानां सत्त्वानां तथागतरुपेण धर्मं देशयति / प्रत्येकबुद्धवैनेयानां सत्त्वानां प्रत्येकबुद्धरूपेण धर्मं देशयति / अर्हत्त्ववैनेयानां सत्त्वानामर्हत्त्वरूपेण धर्मं देशयति / बोधिसत्त्ववैनेयानां सत्त्वानां बोधिसत्त्वरूपेण धर्मं देशयति / महेश्वरवैनेयानां सत्त्वानां महेश्वररूपेण धर्मं देशयति / नारायणवैनेयानां सत्त्वानां नारायणरूपेण धर्मं देशयति / ब्रह्मवैनेयानां सत्त्वानां ब्रह्मरूपेण धर्मं देशयति / इन्द्रवैनेयानां सत्त्वानामिन्द्ररूपेण धर्मं देशयति / आदित्यवैनेयानां सत्त्वानामादित्यरूपेण धर्मं देशयति / चन्द्रवैनेयानां सत्त्वानां चन्द्ररूपेण धर्मं देशयति / अग्निवैनेयानां सत्त्वानामग्निरूपेण धर्मं देशयति / वरुणवैनेयानां सत्त्वानां वरुणरूपेण धर्मं देशयति / वायुवैनेयानां सत्त्वानां वायुरूपेण धर्मं देशयति / नागवैनेयानां सत्त्वानां नागरूपेण धर्मं देशयति / विघ्नपतिवैनेयानां सत्त्वानां विघ्नपतिरूपेण धर्मं देशयति / यक्षवैनेयानां सत्त्वानां यक्षरूपेण धर्मं देशयति / वैश्रवणवैनेयानां सत्त्वानां वैश्रवणरूपेण धर्मं देशयति / राजवैनेयानां सत्त्वानां राजरूपेण धर्मं देशयति / राजभटवैनेयानां सत्त्वानां राजभटरूपेण धर्मं देशयति / मातृपितृवैनेयानां सत्त्वानां मातृपितृरूपेण धर्मं देशयति / यथा यथा वैनेयानां सत्त्वानां तथा तथा (वैद्य 269) रूपेण धर्मं देशयति / एवं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वान् धर्मं देशयति, परिपाचयति, निर्वाणभूमिमुपदर्शयति //
इति वैनेयधर्मोपदेशो नाम अष्टमं प्रकरणम् //
स्तर्त् क्व्यु 1,9:
असुराश्वासनं नवमं प्रकरणम् /
अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - परमाश्चर्याद्भुतप्राप्तो ऽहं भगवन् / न च मे कदाचिदस्माभिरीदृशो विषयो दृष्टो वा श्रुतो वा, यादृशो ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य विषयः / तादृशस्तथागतानामपि न संविद्यते //
भगवानाह - अस्ति कुलपुत्र अस्मिन्नेव जम्बुद्वीपे वज्रकुक्षिर्नाम गुहा / अत्र अनेकान्यसुरकोटीनियुतशतसहस्राणि प्रतिवसन्ति स्म / तत्र कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो ऽसुररूपेणासुराणां धर्मं देशयति / इमं च कारण्डव्यूहमहायानसूत्ररत्नराजमुद्देशयति / धर्मश्रवणायागतानसुरानेवं च कथयति स्म - असुराणां धर्मं शृण्वन्तु भवन्तः / ये चान्ये ऽसुरपर्षदस्ते मैत्रचित्ताः शान्तचित्ताः दयाचित्ताः सत्त्वानामन्तिके हितसुखचित्ता भावं समन्वाहृत्य इमं कारण्डव्यूहं धर्मपर्यायं श्रोतव्यम् //
अथ ते ऽसुराः कृतकरपुटा अवलोकितेश्वरस्यान्तिकमिमं धर्मपर्यायं शृण्वन्ति स्म / ते सुखिता लोके ये ईदृशं चिन्तामणिसदृशं कारण्डव्यूहं महायानसूत्ररत्नराजमभिमुखीकुर्वन्ति, शृण्वन्ति, श्रुत्वा चाभिश्रद्दधास्यन्ति, प्रतीष्यन्ति, लिखिष्यन्ति, लिखापयिष्यन्ति, धारयिष्यन्ति, वाचयिष्यन्ति, पूजयिष्यन्ति, चिन्तयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, भावयिष्यन्ति, परमप्रीत्या गौरवेणाध्याशयेन च नमस्कुर्वन्ति / तेषां च पञ्चानन्तर्याणि कर्माणि क्षपयन्ति, क्षपयित्वा परिशुद्धकाया भविष्यन्ति, जातिस्मराश्च / मरणकाले द्वादश तथागता उपसंक्रमिष्यन्ति, ते च सर्वे तथागता आश्वासयिष्यन्ति - मा भैषीः कुलपुत्र, त्वया कारण्डव्यूहं महायानसूत्ररत्नराजं श्रुतम् / विविधास्ते ऽर्थमार्गाः सज्जीकृताः सुखावती गमनाय च / तत्र सुखावत्यां लोकधातौ तवार्थे विचित्रं च ते छत्रं सिहासनं सज्जीकृतम्, दिव्यमौलीकुण्डलस्रग्दाममीदृशस्य निमित्तम्, मरणकालसमयपरिपन्थित एव सुखावतीमनुगच्छति / एवं स रत्नपाणे प्रतिविशिष्टतरं पुण्यफलं दर्शयन्नवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो निर्वाणिकीं भूमिमुपदर्शयति स्म / असुराणां निर्वाणपथमुपदर्शितं सर्वपापमतिनिवारणार्थमनुत्तरे बोधिमार्गे प्रतिष्ठापनार्थम् //
अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवतः पादौ शिरसाभिवन्द्य तत्रैव प्रक्रान्तः //
इति असुराश्वासनं नाम नवमं प्रकरणम् //
स्तर्त् क्व्यु 1,10:
काञ्चनमयभूम्याद्युपस्थानं दशमं प्रकरणम् /
अथे सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत् - अतिदुर्लभं भगवन् अस्यावलोकितेश्वरस्य विकुर्वितानि श्रूयन्ते गुणोद्भावनानि च / भगवानाह - अपि च कुलपुत्र तस्माद् (वैद्य 270) वज्रकुक्षेर्यदा निष्क्रान्तः, काञ्चनमय्यां भूम्यां प्रविष्टः, तदा गुणोद्भावनां शृणु / तदपि पूर्वतरप्रवचनम् / तदपि समतिक्रम्य विश्वभूर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धो बभूव विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / तेन कालेन तेन समयेन अहं सर्वनीवरणविष्कम्भी बोधिसत्त्वः क्षान्तिवादी ऋषिरभूत् गिरिगह्वरान्तरकर्वटस्थानवासी, मनुष्याणामवचरे पृथिवीप्रदेशे व्यहरन् / तदा कालानुकालं मया तस्य विश्वभुवः तथागतस्य सकाशात् गुणोद्भावना अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य श्रुता विविधसर्वसत्त्वपरिपाचनम् / अस्ति सर्वनीवरणविष्कम्भिन् सा काञ्चनमयी नाम भूमिरस्ति यदुत्तरस्यां काञ्चनमय्यां भूम्यां गत्वा अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽधोमुखानां सत्त्वानां धर्मं देशयति स्म / आर्याष्टाङ्गिकमार्गं निर्वाणमुपदर्शयति / स ततः काञ्चनमय्या भूम्या निष्क्रमित्वा रूप्यमय्यां भूम्यां प्रविशति / तत्र स पश्यति चतुष्पादिकानि सत्त्वानि पुरुषपुद्गलानि / दृष्ट्वा तेषामवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो सर्वसत्त्वानामेव धर्मं देशयति - शृण्वन्तु भवन्तः सर्वे पुरुषपुद्गला अभिमुखं धर्मपर्यायं प्रचलमानसुचेतसा निर्वाणिकम् / सत्वरमनुविचिन्तयत //
अथे ते सर्वे पुरुषा अवलोकितेश्वरस्य पुरतः स्थित्वा एतदवोचत् - आश्वासय त्वम् / अन्धभूतानां सत्त्वानां मार्गमुपदर्शको भव / अत्राणानां सत्त्वानां त्राणं भव / अशरणानां सत्त्वानां शरणं परायणं मातापितृभूतो भव / तमोभिभूतानां सत्त्वानां प्रनष्टमार्गाणां दीपभूतो भव / सचेतक, महाकरुणया मोक्षमार्गस्योपदर्शक, सुखितास्ते सत्त्वा ये तव सततं परिग्रहं नाममनुस्मरन्ति, उदीरयन्ति च / इदं च समागाढतरं दुःखं न कदाचित्प्रत्यनुभवन्ति, मुञ्चन्ति ते हीदृशं दुःखं यावद्यादृशं वयं प्रत्यनुभवामः //
अथ स तेषां सत्त्वानां कारण्डव्यूहं नम महायनसूत्ररत्नराजं कर्णपुटे निश्चारयति स्म / ते च सत्त्वा अमुं धर्मपर्यायं श्रुत्वा अन्योन्यविहितश्रोतृकर्णपुटा निश्चरन्ति स्म / तदपि ते पुरुषाः श्रुत्वा अवैवर्तिकभूमिनिष्पादिताः परमसुखसमर्पिताः संस्कृताः //
अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्या रूपमय्या निष्क्रम्यान्यतरायां भूम्यां प्रविशति सत्त्वपरिपाकाय महाकरुणासंपीडितहृदयो ऽयोमय्यां भूम्यां यत्र स राजा बलिरसुरेन्द्रो बद्धः / स तस्यैव सकाशमुपसंक्रान्तः / उपसंक्रम्य च राज्ञो बलेरसुरेन्द्रस्य दूरतश्चक्षुर्दर्शनं याति स्म सुवर्णबिम्बमिव रश्मिभिः प्रमुञ्चमानैर्नानावर्णैः //
इति काञ्चनमयभूम्याद्युपस्थानं नाम दशमं प्रकरणम् //
स्तर्त् क्व्यु 1,11:
बलिसमाश्वासनमेकादशमं प्रकरणम् /
अथ स राजा बलिरसुरेन्द्रो ऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वं दूरत एवागच्छन्तं पश्यति स्म / दृष्ट्वा च सान्तःपुरपरिवारैः सार्धमनेकैरसुरशतसहस्रैः कुब्जवामनकादिभिः सहस्रपरिवारैर्गत्वा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पादयोर्निपत्येदमुदानयति स्म -
अद्य मे सफलं जन्म जीवितं पुण्यमेव च / अद्य मे हीदृशं चैव परिपूर्णं मनोरथम् // kvyu_1,11.1 //
अद्य मे आशयः पूर्णः परिशुद्धश्च दुःखतः / यन्मया दर्शने सम्यग् दृष्ट्वा लोकैकबान्धवः // kvyu_1,11.2 //
तदा मे सर्वसौख्यं च कामे संतिष्ठते पुनः / सौख्या भवन्ति ते सत्त्वा सर्वदुःखविवर्जिताः // kvyu_1,11.3 //
संसारबन्धनान्मुक्तास्तिष्ठन्ति सुखमोदकाः / ममापि दर्शनेनैव सर्वे स्फुटितबन्धनाः / दूराद्दूरतरं यान्ति गरूडस्येव पन्नगाः // kvyu_1,11.4 //
अथ स राजा बलिस्तस्य भगवतो ऽवलोकितेश्वरस्य पादयोः प्रणिपत्य रत्नपीठकं दत्त्वा दशनखाञ्जलिं कृत्वैवमाह -
अपि च / भगवन्, निषीदस्व अस्मिन्नासने, अनुग्रहं कुरु, पापरतानां जात्यन्धभूतानां परदारगमनप्रसक्तानां प्राणातिपातोद्युक्तानां परप्राणाहिंसकानां जरामरणभयभीतानामुद्विग्नमानसानां संसारदुष्टवार्तानां त्राता भव / अनाथानां मातापितृभूतो भव / दुष्टदारुणचण्डभूतानां भगवन् त्राता भव / परमदारुणदुष्टप्रशमको भव / एषामस्माकं बन्धनबद्धानां तव दर्शनेन सर्वबन्धनादयः परिमुक्ताः, स्फुटिताः दूराद्दूरतरं पलायन्ति / त्वद्दर्शनमात्रेण यानि तानि राज्ञश्चक्रवर्तिनश्च शुभकर्मजातानि चक्रवर्तिसुखानि मम संविद्यन्ते, तत्स भगवन् तादृशं धर्ममार्गमुपदर्शय, येनैवं पुनरेव बन्धनदुःखं न प्रत्यनुभवेम / न च पुनरिमानि यानि सर्वबन्धनानि चक्षुषु आभासमागच्छेयुः //
अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो राजानं बलिमसुरेन्द्रमेवमाह - ये महाराज सत्त्वानामन्तिके अविहिंसाचित्तमुत्पादयन्ति, तथागतशासने पिण्डपात्रमनुप्रयच्छन्ति, कारोपकारं बहुतरं कुर्वन्ति, न च तेषां केचित्सत्त्वाः स्वप्नेनापि पीडयन्ति / अमुं च कारण्डव्यूहं महायानसूत्ररत्नराजं लिखन्ति, लिखापयन्ति, अन्ततो नामधेयमपि, अस्माद्धर्मपर्यायं शृण्वन्ति, अस्य बोधिसत्त्वस्यैकमपि पिण्डपात्रमनुप्रयच्छन्ति, तेषां च धर्मभाणकानामस्य धर्मपर्यायस्य धारकानां वाचकानां लेखकानां संश्रावकाणाम्, अस्य च तथागतस्य धर्मपर्यायमुद्दिश्य एकदिवसमपि पुरोभक्तमपि पिण्डपात्रमनुप्रदास्यति, ते सर्वे चक्रवर्तिराज्यलाभिनो भविष्यन्ति / न च कदाचित्क्षुत्पिपासादुःखं प्रत्यनुभविष्यन्ति / न च कदाचिन्नरकबन्धनदुःखं प्रत्यनुभविष्यन्ति / न च प्रियविप्रयोगदुःखम् / अपि च सर्वदुःखेभ्यो विमुच्यन्ते / सुखावतीलोकधातुमनुगमिष्यन्ति, तस्य च भगवतो ऽमिताभस्य तथागतस्य पुरतः संमुखं धर्मं श्रुत्वा व्याकरणमनुप्राप्स्यन्ति / अपि च महाराज / श्रूयतां दानफलम् / तद्यथापि नाम कुलपुत्र ये तथागतस्यार्हतः सम्यक्संबुद्धस्य तिष्ठतः परिनिर्वृतस्य वा पिण्डपात्रमनुप्रयच्छन्ति, तेषामिदं पुण्यस्कन्धं प्रवक्ष्यामि /
तद्यथापि नाम कुलपुत्र (वैद्य 272) द्वादशगङ्गानदीवालुकोपमा मम सदृशा बोधिसत्त्वा महासत्त्वा भवेयुः, ते चैकस्थाने धारयेयुर्दिव्यकल्पतत्पुण्यप्रमाणमुद्ग्रहीतुं सर्वसुखोपधानेन समुपतिष्ठमानाः, ते ऽपि सर्वे समग्रीभूता न शक्यन्ते एकस्य पिण्डप्रात्रप्रदानस्य कुशलमूलसंभारस्य पुण्यस्कन्धं गणयितुम् / प्रागेवाहमेकाकी अस्मिन्नसुरभवने विहरामि / तद्यथापि नाम कुलपुत्र शक्यते मया परमाणुरजसां प्रमाणमुद्ग्रहीतुम् / न तु कुलपुत्र शक्यं मया पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नम कुलपुत्र चतुर्षु महाद्वीपेषु स्त्रीपुरुषदारकदारिकादयस्ते सर्वे कृषिकर्मान्ते उद्युक्ता भवेयुः / ते चतुर्महाद्वीपेषु नान्यं कृषिं कारयेयुः / कालेन कालं नागराजानो वर्षधारामनुप्रयच्छन्ति / ते च सर्षपान् निष्पाद्यन्ते / तच्चैकद्वीपखलं कुर्यात् / सर्वे ते स्त्रीपुरुषदारकदारिकादयः शकटैर्भारैर्मुटैः पीठकैरुष्ट्रैर्गोभिर्गर्दभैः सर्वे ते मर्दयित्वा तस्मिन् महाखलके महान्तं राशिं कुर्यात् / गोभिर्गर्दभादिभिर्मर्दयित्वा महान्तं राशिं निष्पादयित्वा / तच्छक्यं कुलपुत्र एकमेकं फलं गणयितुम् / न तु कुलपुत्र शक्यते पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र सुमेरुः पर्वतराजः चतुरशीतियोजनसहस्राणि अधस्तादुपगतः ऊर्ध्वेण चतुरशीतियोजनसहस्राण्युच्छ्रयेण च / स कुलपुत्र भूर्जराशिर्भवेत् / महासमुद्रो मेलन्दुकपरिमण्डलं भवेत् / ये चतुर्द्वीपनिवासिनः पुरुषदारकदारिकास्ते च सर्वे लेखका भवेयुः / तच्च सुमेरुपर्वतराजान्तपर्यन्तं लिखितं भवेत् /
तच्च कुलपुत्र शक्यं मयैकैकाक्षरं गणयितुम् / न तु कुलपुत्र शक्यते पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र लेखकाः सर्वे ते दशभूमिप्रतिष्ठिता बोधिसत्त्वा भवेयुः पर्यापन्नाः / यच्च तेषां दशभूमिप्रतिष्ठितानां बोधिसत्त्वानां महासत्त्वानां पुण्यस्कन्धं तमेकस्य पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र गङ्गाया नद्या वालुकासमुद्रस्य च शक्यं मया एकैकं वालुकां गणयितुम्, न तु कुलपुत्र शक्यते मया पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्र शक्यते मया सर्वमतुरास्रां(?) प्रमाणमुद्ग्रहीतुम् / न शक्यं मया कुलपुत्र पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् //
अथ बलिसुरेन्द्रः इदं च तस्य भगवतो ऽवलोकितेश्वरस्यान्तिकात्पिण्डपात्रकुशलभूतस्य सुक्षेत्रावरूढबीजपात्रभूतस्य निर्देश्यमानस्य तत्सर्वमनुमोद्य साश्रुदुर्दिनवदनो गद्गदकण्ठः बाष्पपरिपूर्ण उच्छ्वसन् अवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - कीदृशं मया भगवन् बलिना कर्म कृतं दानं दत्तम्, येनेहैव जन्मनि बन्धनमनुप्राप्तम्? सान्तः - पुरपरिवारेण कुक्षेत्रे मया दानं दत्तम् / तस्यैव तत्कर्मणः फलमनुभवामि / अथवा सर्वज्ञक्षेत्रे भस्ममुष्टिमुपक्षिप्तमपि अमृतं परिनिष्पद्यते / मयाज्ञानेन यज्ञां यजितम् / यदा मया च भगवन् तैर्थिकदृष्टिपर्यापन्नेन मानग्रस्तमानसेन च यज्ञं यजता महादानसमुच्छ्रयं कर्तुमारब्धम्, तदा मे तत्र यज्ञे वामनकरूपेण याचनको हिंस्रः समागतः /
तस्य मे मौलीकुण्डलस्रग्दामानि रत्नाभरणानि ह्यश्वरथादीनि मुक्त्वा रत्नकवचानि मरकतप्रलम्बितानि (वैद्य 273) चामरप्रलम्बितानि मुक्ताहाराणि मुक्तिकाजालप्रलम्बितानि मुक्तिकाजालप्रतिच्छन्नानि मुक्तिकाकलापजालाङ्गुलीकानि सौवर्णघण्टिकारूप्यनिबद्धानि रणरणायमानानि, (अन्यानि च) कपिलासहस्राणि रूप्यपादानि सौवर्णशृङ्गानि मुक्ताजालप्रलम्बितानि मुक्तिकाजालप्रतिच्छन्नानि अर्घपात्रसमायुक्तानि नानाविचित्रघण्टारत्नसमायुक्तानि, तादृक्षाणि कपिलासहस्राणि, (अन्यानि च) कुमारीणां शतसहस्राणि परमया गुर्वरुणपुष्कलतया समन्वागतानां नानाविचित्राणां कन्यालक्षणसमलंकृतानां परमरूपशोभमानामप्सरसामपि प्रतिस्पर्धिनीनां दिव्यालंकारविभूषितानां मौलीकुण्डलस्रग्दामपरिक्षेपिकाणां केयूरकटकनूपुरकटिमेखलाहस्तोत्तर्या कर्णपृष्ठोत्तर्या हस्ताङ्गुलीयसमायुक्तानां सरसरायमाणमालासमायुक्तानां नानारङ्गोपरक्तवस्त्रप्रावृतानाम्, (अन्यानि) रत्नपीठशतसहस्राण्यनेकानि सुवर्णराशिरूप्यराशीनि रत्नराशीनि स्थापितानि / अनेकानि च वस्त्राभरणानि स्थापितानि / अनेकानि च गोकुलशतानि सगोपालसमायुक्तानि सज्जीकृतानि / अनेकान्यन्नपानशतानां स्थापितानि / दिव्यरसरसाग्रोपेतान्याहाराणि सज्जीकृताणि / अनेकानि सुवर्णरूप्यमयानि दण्डानि रत्नसंयुक्तानि सततं व्यवस्थापितानि / अनेकानि सुवर्णरूप्यमयानि संहासनानि रत्नसंयुक्तानि च / दिव्यानि चामरदण्डानि धत्राण्युपानहानि रत्नपरिवेष्टितानि / अनेकानि सुवर्णमयानि रूप्यमयानि मौलिकुण्डलस्रग्दामसहस्राणि रत्नोपचितानि / तस्मिन् स मया राज्ञा शतसहस्रान् संनिपतितान् ब्राह्मणशतसहस्रं संनिपतितम् /
अनेकानि क्षत्रियशतसहस्राणि संनिपतितानि / तदाहं भगवन् एवं स्थानस्थितानां यथासंनिपतितानां दृष्ट्वा विस्मयमापन्नः / त्रीणि वाराणि एकच्छत्रां पृथिवीं कृतवान् / तत्र मया पात्रभूतेष्विदं दानं दातुमारब्धम् / एतत्पौर्विकं पापं प्रतिदेशयामि - क्षात्रियभार्याणां गुर्विणीनां यावद्धृदयं स्फुटयित्वा कुमारकुमारिका जीविताद्वयपरोपिताः / ततस्ते च महाक्षत्रियाः सर्वे मया हडनिगडबन्धनैर्बद्धाः / नीत्वा ताम्रगुहायामनेकानि क्षत्रियशतसहस्राणि पञ्चबन्धनबद्धानि कृत्वा स्थापितानि पञ्चपाण्डवप्रभृतीनि / तस्यामेव यक्षगुहायामुपयमानि कीलकानि शृङ्खलासमायुक्तानि तेषां क्षत्रियाणां हस्तपादानि बद्ध्वा स्थापितानि / तदा मे सर्वद्वाराणि जृम्भीकृतानि / प्रथमं द्वारं काष्ठमयम्, द्वितीयं द्वारं खदिरमयम्, तृतीयं द्वारमयोमयम्, चतुर्थं द्वारं ताम्रमयम्, पञ्चमं द्वारं रूप्यमयम्, षष्ठं द्वारं सुवर्णमयम्, सप्तमं द्वारं रत्नमयम् / एतानि सप्त द्वाराणि / एकैकद्वारे पञ्च पञ्च शतानि कपाटानि यन्त्रसमायुक्तानि / तस्मिन् सुवर्णमये द्वारे सप्तपर्वतान्युपर्युपरि स्थापितानि / एकैकस्मिन् द्वारे एकैकपर्वतानि उपर्युपरि स्थापितानि / ततो ऽहं पश्चाद्दशरथपुत्रमन्वेषयामि / क्वचिद्दिवसे मक्षिकारूपेण, क्वचिद्दिवसे भ्रमररूपेण, क्वचिद्दिवसे वराहरूपेण, क्वचिद्दिवसे मानुषरूपेण / रूपं कृत्वा दिने दिने मृगपक्ष्यादिना नानाजन्तुरूपेण / न च संमुखं तं समनुपश्यामि / तदा मे ऽनुविचिन्तयित्वा यज्ञः प्रारब्धः //
तदात्र मे दशरथपुत्रेणावतारप्रेक्षिणा गत्वा तेन द्वारस्थापिताः सप्त पर्वता उत्पाटिताः / उत्पाटयित्वा लघुनीवान्यप्रदेशे छोरयित्वा उच्चैःशब्देन तेषां क्षत्रियाणामारोचयति (वैद्य 274) स्म युधिष्ठिरनकुलसहदेवभीमसेनार्जुनकौरवादिभिः / अन्ये राजानः शब्दमनुश्रुतं श्रुत्वा समाश्वास्य स्वस्थकाया व्यवस्थिताः / स च तानेवमाह - जीवन्तो युष्माकमथवा मृताः? ते कथयन्ति - जीवामो भगवन् / तेन महावीर्येण पुरुषेण सर्वाणि तानि द्वाराणि भग्नानि / यावत्ताम्रगुहायां पश्यति, सर्वे ते राजानो बन्धनबद्धाः / दृष्ट्वा च नारायणं सर्वे ते परस्परं विचिन्तयन्ति - अथ बलिरसुरेन्द्रो मृतः कालगतः? अथवा पुनरपि मरणकालो ऽस्माकं भूतः? अथ ते कथयन्ति - वरमस्माकं संग्रामभूमीमरणं न तु बन्धनबद्धानां मरणम् / यदा बन्धनबद्धाः कालं कुर्याम, तदा क्षत्रियधर्ममस्माकं विनश्यति / यदा संग्रामभूमौ कालं कुर्याम, तदा स्वर्गोपगा वयं भवेम //
अथ ते राजानः सर्वे स्वकं स्वकं गृहं गताः / तदा रथयोग्यान्यश्वानि स्वकस्वकानि सज्जीकृतानि / यदा ते रथं सज्जीकुर्वन्ति महार्हाणि शस्त्राणि, तदा दशरथपुत्रेण वामनकरूपमभिनिर्माय मृगाजिनेनोत्तर्य वेणुदण्डमुपगृह्य पीठिकामुपगृह्य संप्रस्थितो मत्सकाशम् / द्वारमागतः / द्वारपालैरनुबद्धः - मा प्रविश वामनक ब्राह्मण इति / स कथयति - दूरादेवाहमागतः / अथ स द्वारपालस्तमेतदवोचत् - ब्राह्मण / कतमस्या भूमेस्त्वमागतः? स तमाहचन्द्रद्वीपाद्राजर्षिरहमागतः / अथ स द्वारपालपुरुषो गत्वा बलिमारोचयति - देव, आगतस्ते वामनको ब्राह्मणः / अथ स बलिस्तमेतदवोचत् - कीदृशं वस्तु याचते? अथ स द्वारपालस्तमेतदवोचत् - देव न तमनुजानामि / अथ स बलिस्तमेतदवोचत् - गच्छन्तु भवन्तः, आनीयतां ब्राह्मणः / स तैर्द्वारपालपुरुषैराहूयोक्तः - प्रविश महाब्राह्मण / स प्रविष्टः, रत्नपीठमनुप्रदत्तम् / शुक्रस्तत्रैव व्यवस्थितः / स च तस्योपाध्याय इति ख्यायते / स तं बलिमेतदवोचत् - एष कालपुरुषो ऽवप्रविष्टः, अवश्यं ते विघातो भविष्यति / बलिस्तमेतदवोचत् - कथं जानासि भगवन्? शुक्र उवाच - जानाम्यहं तस्य निमित्तानि चिह्नानि च दृष्ट्वा / बलिराह - किमुपायं वयं कुर्यामः? अथ नारायणेन विचिन्त्य अवश्यं दानस्य विप्रतिसारं भविष्यति / तेन मे सरस्वती मुखे न्यस्ता, तदा स कथयति - आगच्छ ब्राह्मण / कीदृशमभिप्रायो भवतः? स प्रविश्यैतदवोचत् - द्विपदभूमी याचयामि / बलिरुवाच - यदि त्वं ब्राह्मण द्विपदं याचसे, मया त्रीणि पदानि ते ऽनुप्रदत्तानि / स प्रतिग्रहं तस्योपगृह्य स्वस्तिमुपवद्यानुगृहीतं तेन तिलपानीयसुवर्णसहितम् / ततस्तेन वामनकरूपमन्तर्धापितम् / अथ शुक्रो बलिमेतदवोचत् - राजन् कथितं मया कालपुरुष एष प्रविष्टः / न च त्वया प्रमाणं कृतं वचनम् / तस्यैतत् कर्मफलमनुभव / तेनात्मानं महाप्रमाणीकृतम् / तस्य चन्द्रादित्यौ स्कन्धौ व्यवस्थितौ / गृहीत्वासौ निगडचक्रधनुस्तोमरभिण्डिपालासन्नह्य (?) //
अथ बलिरसुरेन्द्रो ऽधोमुखं प्रपतितः स्मृतिभ्रष्टः थरथरायमानः स्थितः / किं कृत्य(?) स्वहस्तेन मया विषं भक्षितम् / द्विपदानि परिपूरितानि / तृतीयं पदं न संविद्यते / तदा स कथयति - तृतीयस्य पदं न संविद्यते / यन्मम प्रतिग्रहं याचितम्, कीदृशं पापं करोम्यहम्? अथ नारायणस्तमेतदवोचत् - यत्राहं स्थापयामि तत्र त्वया स्थातव्यम् / (वैद्य 275) अथ स बलिरसुरेन्द्रस्तमेतदवोचत् - यादृशं त्वयाज्ञप्तं तादृशं करोम्यहम् / सत्यं कुरुषे? स कथयति - सत्यं सत्यं करोम्यहम् / तेन सत्यपाशैर्बद्धः / सा च यज्ञभूमिर्विनाशिता / तानि च भाण्डान्युच्छिष्टीकृतानि / ता अपि च कुमारिकाः पाण्डवैः कौरवैर्विध्वंसिताः / तानि च सुवर्णमयानि सिंहासनानि दिव्यानि च्छत्राण्युपानहानि रत्नपरिवेष्टितानि च वस्त्राभरणानि च सुवर्णघण्टानि सुवर्णकटकानि रत्नखचितानि कपिलानि कौरवपाण्डवैर्विध्वंसितानि / सा च यज्ञभूमिर्विनाशिता //
अथ स बलिरसुरेन्द्रो यज्ञभूमेर्निष्क्रान्तः शरीरचिन्तामापेदे - दाता बलिरुदारयज्ञमुपास्य / कालदानस्य दत्तस्य बन्धनमेव लब्धम् / नमो ऽस्तु देवाय / यथैव कर्ता सर्ता स नीत्वा पातालमुपस्थापितः सान्तःपुरपरिवारः / आख्यातं हि मया भगवन् - भूतपूर्वं कुरुक्षेत्रे मया दानं दत्तं तस्यैतत्कर्मफलमनुभवामि / तथा त्राता भवाहि मे भगवन्नाथ, न भूयो दुःखमाप्नुयाम् //
अथ बलिस्तं भगवन्तमार्यावलोकितेश्वरं बोधिसत्त्वं महासत्त्वं स्तोत्रविशेषैः स्तोतुमारब्धः - त्राणं भवाहि शुभपद्महस्त / पद्मश्रियालंकृतशुद्धकाय / अमिताभमूर्ते शिरसा नमामि / जटार्धमध्ये चिन्तामणिमुकुटधराय / शुभपद्महस्ताय / पद्मश्रिया समलंकृताय / जटामुकुटधराय / सर्वज्ञवशीकृताय / बहुसत्त्वाश्वासनकराय / हीनदीनानुकम्पाय / दीवाकरवररोचनकराय / पृथिवीवररोचनकराय / भैषज्यराजोत्तमाय / सुशुद्धसत्त्वाय / परमयोगमनुप्राप्ताय / मोक्षप्रवराय मोक्षप्रियाय / चिन्तामणिवत्सदृशाय / धर्मगञ्जपरिपालनकराय / षट्पारमितानिर्देशनकराय / सुचेतनकराय / इदं स्तोत्रं मया कृतमवलोकितेश्वरस्य / सुखितास्ते सत्त्वा ये तव नामधेयमनुस्मरन्ति / मुच्यन्ते ते कारसूत्रै रौरवोपपन्नेषु अवीच्युपपन्नेषु प्रेतनगरोपपन्नेषु ये तव नामधेयमनुस्मरन्ति / मुच्यन्ते त बहवः पापदुःखात् / सुचेतनास्ते सत्त्वा ये तव नामधेयमनुस्मरन्ति / गच्छन्ति ते सुखावतीलोकधातुम् / अमिताभस्य तथागतस्य धर्ममनुस्मरन्ति शृण्वन्ति //
अथ आर्यावलोकितेश्वरो बलेरिन्द्रस्य व्याकरणमनुप्रयच्छति स्म - भविष्यसि त्वमसुरेन्द्र श्रीर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / सर्वे ते ऽसुरा वैनेया भविष्यन्ति / तत्र तव बुद्धक्षेत्रे न रागशब्दो न द्वेषशब्दो न मोहशब्दो भविष्यति / षडक्षरी महाविद्या लब्धलाभा भविष्यति / तेन तस्य धर्मदक्षिणा उपनामिता / शतसहस्रमूल्यं मुक्ताहारमुपनामितं मौलीकुण्डलं च नानारत्नसमुच्चितमुपनामितं च //
अथ आर्यावलोकितेश्वरो धर्मदेशनां कर्तुमारब्धः - शृणु महाराज / नित्ये ध्रुवे शाश्वते मानुष्यके ये चिन्तयन्ति सततपरिग्रहं महाभोगान्यनुविचिन्तयन्ति दासीदासकर्मकरपौरुषेयान्, यानि च महार्हाणि वस्त्रशय्यासनानि, ये च महार्हा निधानधनधानधनधान्यकोषकोष्ठागाराः, अज्ञानास्ते सत्त्वा ये पुत्रदारदारिकामनुविचिन्तयन्ति भार्यां मातापितरौ / (वैद्य 276) एभिर्वस्तुभिर्ये सक्तास्ते स्वप्नोपमा एव दृश्यन्ते / मरणकालसमये न कश्चित्तेषां त्राता भवति / यदा प्राणोद्धरणं भवति, तदा जम्बुद्वीपं विपरीतं पश्यति / अथ महतीं वैतरणीं पूयशोणितपरिपूर्णां पश्यन्ति / ये च महार्हा वृक्षास्तान् प्रदीप्तान् सप्रज्वलितानेकज्वालीभूतान् पश्यन्ति / दृष्ट्वा च समापद्यन्ते / ततो यमपालपुरुषैः कालपाशैर्बद्ध्वा नीयन्ते / त्वरितं त्वरितं क्षुरधारोपचिते महापथे पादा विशीर्यन्ते / उत्क्षिप्ते पादे ये ऽन्याः पादाः प्रादुर्भवन्ति, अनेकैः काकगृध्रश्वानादिभिर्भक्ष्यन्ते / महतीं नारकीयां वेदनां प्रत्यनुभवन्ति / ततः क्षुरधारोपचितान्महापथादवतीर्य यत्र षोडशाङ्गुलिप्रमाणानि कण्टकानि तत्रानीयते, तत एकैकपादे पञ्च पञ्चशतानि कण्टकानि प्रविशन्ति / स चाक्रन्दन्ति - विषयपापरतेन सत्त्वेन कर्म कृतम् //
अथ ते यमपालपुरुषा एवमाहुः - मार्षाः, न त्वया तथागतस्य पिण्डपात्रं निर्यातितम् / न च त्वया धर्मगण्डीमाकोट्यमाना श्रुता / न बुद्धनाम गृहीतम् / न च त्वया क्वचिद्दानानि दीयमानानि दृष्ट्वानुमोदितानि / न च त्वया क्वचित् प्रदेशे स्तूपबिम्बानि प्रदक्षिणीकृतानि / स कथयति - अश्राद्धो ऽभूवं पापरतो बुद्धधर्मसंघपरिवर्जितः पापमित्रपरिगृहीतः कल्याणमित्रपरिवर्जितश्च / ते कथयन्ति - तस्यैतत्कर्मफलमनुभवसे / स तैर्यमपालकैर्नीयते चैतत्कर्मभूमिमुपदर्शयितुम् //
अथे ते यमपुरुषा नीत्वा कालसूत्रे महानरके क्षिपन्ति / शिक्षा चैकैकशक्तिशतं काये विध्यन्ति तदपि जीवति, द्वितीयं शक्तिशतं काये विध्यन्ति तदपि जीवति, तृतीयं शक्तिशतं काये विध्यन्ति तदपि जीवति / यदा कलं न कुर्वन्ति तदाग्निखदामध्ये क्षिपन्ति / तदपि कालं न कुर्वन्ति / ततस्ते तप्तायोगुडामुखे विष्कम्भन्ते दह्यन्ते / तेषामीष्टमपि दन्तानि विशीर्यन्ते, तालूनि विस्फुटन्ते, कण्ठमपि तालुमपि हृदयमपि यन्त्रवत्कला निगडायमाना सर्वं तं कायं दह्यन्ते / एवमेव हा राजन् न कश्चित् त्राता भविष्यति परलोके / तस्मात्तर्हि तं महाराज यत्नेन पुण्यं कर्तव्यम् / एवं सानुलोमिकीं धर्मदेशनां कृत्वा च तं राजानं बलिमसुरेन्द्रमेवमाह - अप्रमत्तेन भवितव्यम्, न पुनः कदाचित्प्रमादचारिणा भवितव्यम् / एवं बहुदोषदुष्टो ऽयं गृहावासः परमदारुणनरकभूमिप्रपातनः / तस्मात्तर्हि महाराज अप्रमत्तेन भवितव्यं पापभीरुणा / परलोकं दर्शितम् / अपि च महाराज / ममान्तिकाद्धर्मदेशनां शृण्वतो निरवशेषाणि पापस्कन्धानि न च सुपरिशुद्धानि / सर्वदुःखतरगाढबन्धनैः परिमुक्तः / सुखावतीलोकधातुगमनाय तव पन्थानं परिशुद्धम् / तत्र च तव सप्तरत्नमयं पद्मासनं प्रादुर्भूतं भविष्यति / यत्र रत्नपद्मे निषद्य तस्य भगवतो ऽमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् इमं सर्वदुःखपापस्कन्धं पापशमनं सर्वदुर्गतिसाधनं अनन्तमणिमहापुण्यनिर्देशं कारण्डव्यूहमहायानं सूत्ररत्नराजं त्वं श्रोष्यसि, श्रुत्वा च तत्रैव व्याकरणमनुप्राप्स्यसे अनुत्तरायां सम्यक्संबोधौ, तावत्सुपरिशुद्धबोधिचित्तालंकारं नाम बोधिसत्त्वजन्म प्रतिलप्स्यसे / यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यसि //
अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्य च बलेरसुरेन्द्रस्य इमं सर्वदुर्गतिपरिशोधनं बोधिसत्त्वालंकारकारण्डव्यूहं नाम धर्मालोकं देशयित्वा तं राजानं बलिमसुरेन्द्रं समाश्वास्य इदमवोचत् - गमिष्याम्यहम् / अस्मिन् जेतवने महाविहारे ऽद्य महासंनिपातो भवति //
इति बलिसमाश्वासनं नामैकादशं प्रकरणम् //
स्तर्त् क्व्यु 1,12:
यक्षादिसमाश्वासनं द्वादशं प्रकरणम् /
ततो ऽवलोकितेश्वरेण बोधिसत्त्वेन महासत्त्वेन रश्मय उत्सृष्टाः / अनेकानि नानावर्णानि नीलपीतलोहितावदातानि माञ्जिष्ठस्फटिकरजतवर्णानि / गत्वा च विश्वभूवस्तथागतस्य पुरतो व्यवस्थितानि / तदा ते देवा नागा यक्षा राक्षसा असुरा गरुडाः किन्नरा महोरगा मनुष्याः संनिपतिताः / अनेकानि बोधिसत्त्वशतानि संनिपतितानि //
अथ तेषां बोधिसत्त्वेनां मध्ये गगनगञ्जो नाम बोधिसत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - कुतो भगवन् रश्मय आगच्छन्ति? भगवानाह - एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बलेरसुरेन्द्रस्य भवने विहरति, तेन तस्मान्निष्क्रामित्वा अमी रश्मयः प्रमुक्ताः / ततो ऽमी रश्मय आगच्छन्ति, पुनस्तस्यैव सकाशं गताः //
अथ गगनगञ्जो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - केनोपायेन पश्येयमहमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वम्? भगवानाह - एष कुलपुत्र इहैवागच्छत्यवलोकितेश्वरः / यदा अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बलेरसुरेन्द्रस्य भवनान्निष्क्रान्तः, तदा जेतवने महाविहारे दिव्यानि पुष्पवर्षाणि पतन्ति, दिव्यानि कल्पवृक्षशतानि परमशोभनीयानि, रत्नालंकारशतसहस्राणि प्रलम्बितानि, मुक्ताहारशतसहस्राणि प्रलम्बितानि, काशिकवस्त्रसच्चीवराणि प्रलम्बितानि, लोहितदण्डानि सुवर्णरूप्यपत्राणि अनेकानि पुष्पवृक्षशतानि अनेकानि पुष्करिणीशतानि पुष्पपरिपूर्णानि परमशोभनीयानि प्रादुर्भूतानि //
अथ गगनगञ्जो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - नागच्छति भगवन्नवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः? भगवानाह - एष कुलपुत्र ततो बलेरसुरेन्द्रस्य भवनान्निष्कम्य परमभीषणीयं तमोन्धकारं नाम पृथिवीप्रदेशं यक्षराक्षसानां भूमिं अमनुष्यावचरमपृथिवीप्रदेशं तत्र गच्छति / यत्र कुलपुत्र चन्द्रादित्यौ न ज्ञायेते, तत्र च पृथिवीप्रदेशे वरदो नाम चिन्तामणिरत्नराजो ऽस्ति / स च तत्रावभासं कुरुते / अनेकानि यक्षराक्षसशतसहस्राणि तस्मिन् द्वीपे प्रतिवसन्ति / यदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रतिवसति, तदा दर्शनमात्रात्सर्वयक्षराक्षसाः परमहृष्टतुष्टाः प्रमुदितहृदया भवन्ति / अथ ते ऽवलोकितेश्वरस्य पुरस्ताद्धावन्ति, निर्धावन्ति, धावित्वा पादयोः प्रणिपत्य संभाषयन्ति - मा त्वं भगवन् श्रान्तक्लान्तो यस्त्वं चिरकालेन दृष्टः, यस्त्वमस्यां तमोन्धकारायां भुमौ विहरसि / (वैद्य 278) स कथयति - अनेकानि कर्तव्यानि मे / न च मयैकसत्त्वस्यार्थे आत्मभावः परिनिष्पादितः / अपि तु सर्वसत्त्वानामन्तिके मया महाकरुणाचित्ततोत्पादयितव्या //
अथ ते सर्वे यक्षराक्षसा दिव्यसुवर्णरत्नमयं सिंहासनं प्रसमयन्ति तस्यावलोकितेश्वरस्यार्थे विचित्रैः पुष्पमयैः संछादितम्, यत्र च भगवान्निषद्य धर्मं देशयति / स तैर्यक्षराक्षसैर्नीत्वा तत्र दिव्यसुवर्णरत्नमये सिंहासने विश्रामितः / ततः अवलोकितेश्वरस्तेषां यक्षराक्षसानां धर्म देशयति - शृण्वत्तु भवन्तः / आर्यकारण्डव्यूहस्य महायानसूत्ररत्नराजस्य चतुष्पादिकामपि गाथां ये श्रोष्यन्ति, श्रुत्वा च धारयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति, योनिशं च मनसि करिष्यन्ति, तेषामिदं पुण्यस्कन्धसंचोदनो भविष्यति / तद्यथापि नाम कुलपुत्राः शक्यं मया परमाणुरजसां प्रमाणमुद्ग्रहीतुम्, न तु कुलपुत्राः शक्यं मया कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्राः शक्यं मया महासमुद्रस्यैकमुदकबिन्दुं गणयितुम्, न तु कुलपुत्राः शक्यं मया कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य चतुष्पादिकाया अपि गाथायाः पुण्यस्कन्धं गणयितुम् / तद्यथापि नाम कुलपुत्राः द्वादशगङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धाद्वादशकल्पानेकस्थाने धारयेयुः, चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, ते ऽपि तथागताः सर्वे सहिता भूत्वा कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य चतुष्पादिकाया अपि गाथायाः पुण्यस्कन्धं गणयितुं न शक्नुवन्ति स्म, प्रागेवाहमेकाकी तमोन्धकारभूमौ विहरामि //
तद्यथापि नाम कुलपुत्राश्चतुर्महाद्वीपेष्वेकैकद्वीपप्रमाणं गृहं विहारं वा कारयेद्दिव्यसुवर्णरत्नमयम्, तत्र गृहे विहारे वा स्तूपसहस्रं कुर्यात्, तेषां चैकदिने धात्वावरोपणं कुर्यात्, यच्च तेषां धात्वावरोपणेषु पूजायां पुण्यस्कन्धम्, ततो बहुतरं कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य चतुष्पादिकाया अपि गाथायाः पुण्यस्कन्धम् / तद्यथापि नाम कुलपुत्राः पञ्च महानद्यो सहस्रनदीपरिवारा महासमुद्रमुपसंक्रामन्ति, एवमेव कुलपुत्रा अस्य कारण्डव्यूहमहायानसूत्ररत्नराजस्य चतुष्पादिकामपि गाथां शृण्वतां पुण्यौघप्रवाहमुपप्रवहति //
अथ ते यक्षराक्षसा अवलोकितेश्वरमेतदवोचन् - ये सत्त्वाः कारण्डव्यूहं महायानसूत्ररत्नराजं लिखापयिष्यन्ति, तेषां किदृशं पुण्यस्कन्धं भवति? स आह - अप्रमेयं तेषां कुलपुत्राः पुण्यस्कन्धं प्रभवति / ये कारण्डव्यूहं महायानसूत्ररत्नराजं लिखापयन्ति, तैश्चतुरशीतिधर्मस्कन्धसहस्राणि लिखापिउतानि भवन्ति / ते राजानो भवन्ति, चक्रवर्तिनश्चतुर्द्वीपेश्वरा भवन्ति / ते सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां जनयन्ति / ये सततपरिग्रहं कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य नाममनुस्मरन्ति, मुच्यन्ते ते ईदृशात्संसारिकाद्दुःखात् / जातिजराव्याधिमरणशोकपरिदेवनादुःखदौर्मनस्योपायासपरिमुक्त भवन्ति / यत्र यत्रोपपद्यन्ते, तत्र तत्र जातौ जातौ जातिस्मरा भवन्ति / (वैद्य 279) तेषां च कायात् गोशीर्षचन्दनगन्धो वास्यति / नीलोत्पलगन्धिनो मुखा भवन्ति / परिपूर्णगात्राश्च भवन्ति / महानग्ना अपरिमाणपुण्यबलसमन्वागताश्च ते सत्पुरूषा भविष्यन्ति / न कदाचित् यक्षत्वं न राक्षसत्वं न प्रेतत्वं न पिशाचत्वं न पूतनात्वं न कटपूतनात्वं न मनुष्यदारिद्र्यं प्रत्यनुभविष्यन्ति / गङ्गानदीवालुकासमानां बुद्धानां भगवतां सेवापुण्यस्कन्धेन समन्वागता भविष्यन्ति / ये ऽपि केचित् कुलपुत्राः सत्त्वा अस्मात् कारण्डव्यूहमहायानसूत्ररत्नराजादेकाक्षरमपि नामधेयमपि चतुष्पादिकामपि गाथां लिखापयिष्यन्ति, तेषां पञ्चानन्तर्याणि कर्माणि निरवशेषं परिक्षयं गमिष्यन्ति / ते चाभिरूपा भविष्यन्ति / प्रासादिका भविष्यन्ति / दर्शनीयाश्च भविष्यन्ति / बहुजनप्रियमनापदर्शनेन च भविष्यन्ति / तेषां न कश्चित् काये व्याधिः प्रभविष्यति / न चक्षुरोगं न श्रोत्ररोगं न घ्राणरोगं न जिह्वारोगं न कायरोगम् / न हीनाङ्गानि भविष्यन्ति / न प्रत्यन्तिकेषु जनपदेषु प्रत्याजायन्ते / न म्लेच्छेषु न पापकुलेषु नोरभ्रिकेषु न कौक्कुटिकेषु न जत्येषु(?) प्रत्याजायन्ते / सुपरिशुद्धकायाश्च ते सत्पुरुषा भविष्यन्ति //
अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्व एवं तेषां यक्षराक्षसानां तमोन्धकारवासिनां सर्वेषां चानुलोमिकां धर्मदेशनां कृतवान् / ते यक्षराक्षसास्तां धर्मदेशनां शुभां श्रुत्वा केचित् स्रोतआपत्तिफले प्रतिष्ठिताः / केचित् सकृदागामिफले, केचिदनागमिफले, केचिदर्हत्त्वे, केचित् प्रभुत्वबोधौ प्रतिष्ठिताः //
अतो येनार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः तेनोपसंक्रम्य पादयोः प्रणिपत्य एवं कथयन्ति - इहैव भगवन् विहरस्व, मान्यत्र स्थाने क्वचिद्गच्छ, वयं ते उपस्थानपरिचर्यां करिष्यामः, वयं च तवान्तिके अस्मिन्नेव तमोन्धकारभूमौ तवार्थाय दिव्यानि सौवर्णमयानि चंक्रमणानि करिष्यामः / मा भगवन्नन्यत्र प्रदेशं गच्छस्व, वयं तवादर्शनात् कथं तिष्ठामः? अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तांश्च यक्षराक्षसानेतदवोचत् - अनेकानि च मया कुलपुत्राः सत्त्वानि बोधिमार्गे नियोजयितव्यानि / अथ ते सर्वे यक्षराक्षसाः करे कपोलं दत्त्वा चिन्तापरा व्यवस्थिताः / ते परस्परमेवमाहुः - गमिष्यति अयमस्माकमवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽन्यतरं पृथिवीप्रदेशम्, तद्वयं धर्मसांकथ्यविप्रहीणा भविष्यामः / किमस्माभिः कर्तव्यम्? अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्यास्तमोन्धकाराया भूम्याः संप्रस्थितः / अथ ते तमोन्धकारप्रतिवासिनो यक्षराक्षसास्तस्य भगवतो ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति स्म / अथ अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तानेतदवोचत् - प्रतिनिवर्तयध्वम् / दूरतमेवमाह(?) //
ते यक्षराक्षसाः पादौ शिरसा वन्दित्वा त्रिःप्रदक्षिणीकृत्य तत्रैव च प्रक्रान्ताः //
इति यक्षादिसमाश्वासनं नाम द्वादशं प्रकरणम् //
स्तर्त् क्व्यु 1,13:
देवभवनभ्रमणं त्रयोदशं प्रकरणम् /
अथार्यावलोकितेश्वरो ज्वलदिवाग्निपिण्डमाकाशे ऽन्तर्हितः / ततो देवभवनं गत्वा शुद्धावासकायिकदेवपुत्राणां सकाशमुपसंक्रान्तः / उपसंक्रम्य ब्राह्मणरूपमात्मानमभिनिर्मायागमत् / तत्र देवनिकायेषु सुकुण्डलो नाम देवपुत्रो दरिद्रो दुश्चित्तश्चेति / अथ आर्यावलोकितेश्वरः स तेन ब्राह्मणरूपेण तस्य देवपुत्रस्य सकाशमुपसंक्रान्तः / उपसंक्रम्य सर्वेषां देवानां दारिद्र्यदुःखव्युपशमाय तं देवपुत्रमेतदवोचत् - बुभुक्षितो ऽहं तृषितश्चेति / अथ स देवपुत्रो रुदंस्तं ब्राह्मणमेतदवोचत् - न च मे ब्राह्मण किंचित्संविद्यते / ब्राह्मणो ऽवोचत् - अवश्यं त्वया मम किंचिद्दातव्यम् / अथ स देवपुत्रो विमानं प्रविश्य सर्वभाण्डं निरभ्यवेक्षितुमारब्धः / स च परिपतितं निवेशनं दिव्यैर्महार्है रत्नभाण्डैः परिपूर्णं दक्षिणपार्श्वम्, अन्यानि च भाण्डानि दिव्यरसरसाग्रोपेतैराहारैः परिपूर्णानि वामपार्श्वे विमानस्य वस्त्राभरणैः सर्वपुष्पगन्धादिभिः परिपूर्णानि //
अथ स देवपुत्र एतद् दृष्टैवं चिन्तामापेदे - अवश्यमयं स सत्पात्रो द्वारे स्थितो यस्य दर्शनमात्रेणापिदृशी लक्ष्मीर्ममानुप्राप्ता / अथ स देवपुत्रस्तं ब्राह्मणमाहूयैवमाह - एहि ब्राह्मण, इदं विमानं प्रविश / स च ब्राह्मणस्तेन देवपुत्रेण विमाने प्रविश्य तैर्दिव्यरत्नैः प्रतिपादितः, दिव्यै रसरसाग्रोपेतैराहारैर्भोजितः, दिव्यैर्वस्त्रैः प्रवारितः / स भुक्त्वा च स्वस्तिकारमनुकुरुते / अथ स देवपुत्रस्तं ब्राह्मणमेतदवोचत् - भो ब्राह्मण, कतमाया भूम्यास्त्वमागतः? ब्राह्मण आह - जेतवननाममहाविहारादहमागतः / अथ स देवपुत्रस्तमेतदवोचत् - कीदृशी सा भूमिः? अथ स ब्राह्मणो देवपुत्रमेतदवोचत् - तथागताध्युषिता सा भूमी रमणीया दिव्यमणिरत्नपरिखचिता परिशोभिता / परिभोगाय च तद्भूमौ दिव्यकल्पवृक्षाः प्रादुर्भूताः, मनोरमाणि पुष्पाणि प्रादुभर्वन्ति, विविधाः पुष्करिण्यो दृश्यन्ते, विविधाश्च शीलवन्तो गुणवन्तो दक्षिणीया दृश्यन्ते विश्वभुवः / तथागतस्यानेकानि प्रातिहार्याणि दृश्यन्ते / एवं सा परमरमणीया देवपुत्र भूमिः / अथ स देवपुत्रस्तं ब्राह्मणमेतदवोचत् - अवश्यं त्वया ब्राह्मण सत्यं प्रत्याहारः कर्तव्यः / अथवा त्वं देवो ऽसि, मनुष्यो ऽसि वा? न च मनुष्यस्येदृशं निमित्तं भवति यादृशं तव निमित्तं भवति / अथ स ब्राह्मणस्तमेतदवोचत् - न देवः, अपि तु मानुषो ऽहं बोधिसत्त्वभूतः / एवं हीनदीनानुकम्पको बोधिमार्गमुपदर्शकः / अथ स देवपुत्रस्तस्मै मौलिकुण्डलमुपनामयति, उपनामयित्वा च स देवपुत्र इमां गाथां भाषित(वान्) -
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् / अद्यैव वापितं बीजं अद्यैव फलसंपदम् //
अथ स देवपुत्र इमां गाथां भाषित्वा तत्रैव प्रक्रान्तः //
इति देवभवनभ्रमणं नाम त्रयोदशं प्रकरणम् //
स्तर्त् क्व्यु 1,14:
सिंहलभ्रमणं चतुर्दशं प्रकरणम् /
अथ स ब्राह्मणः तस्माद्देवनिकायादवतीर्य सिंहलद्वीपं प्रत्युद्गतः / गत्वा च राक्षसीनां पुरतो व्यवस्थितः कामरूपमात्मानमभिनिर्माय प्रासादिकम् / अथ ता राक्षस्यो ऽन्योन्यमेवमाहुः - अयमीदृशं परमकामरूपी पुरुषो दृश्यते / अथ तं दृष्ट्वा च तदा तासां राक्षसीनां कामचित्तमुत्पन्नम् / तदा तस्य सकाशमुपसंक्रम्यैतदवोचन् - भवांस्त्वं भजस्व अस्माकं कुमारीयौवनम्, न चास्माकं स्वामी संविद्यते / त्वं च भो पुरुष, अस्वामिकानां स्वामी भव / अगतिकानां गतिर्भव / अपरायणानां परयाणो भव / अत्राणानां त्राणं भव / अद्वीपानां द्वीपो भव / अन्धानामालोको भव / इमानि ते ऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि विविधानि विचित्राणि शयनानि उद्यानरमणीयानि पुष्किरिणीरमयाणि //
स कथयति - मदीयमाज्ञप्तं यदि कुरुते, तत्सर्वं युष्माकं यथाभिप्रायं करिष्यामि / ताश्च तमाहुः - कथं वयं तवाज्ञां न करिष्यामः? तेन तासामार्याष्टाङ्गिकमार्गमुपदर्शितम् / दश कुशलानि कर्मपथान्युपदर्शितानि / आगमचतुष्टयं चाधीतम् / अथ ता राक्षस्यस्तस्यपुरुषस्यान्तिकादार्याष्टाङ्गिकमार्गं गृहीत्वा दश कुशलानि च संस्मर्य, सत्यचतुष्टयं प्राप्त्वा, आगमसत्यचतुष्टयाधीताः, काश्चित्स्रोतापत्तिफलमनुप्राप्ताः, सकृदागामिफलं चानुप्राप्ताः, अनागामिफलं चानुप्राप्ताः, यावत्काश्चिदर्हत्त्वं काश्चित्प्रत्येकबोधिमनुप्राप्ताः, तदा तासां राक्षसीनां रागदुःखं न बाधते / द्वेषदुःखं न बाधते / मोहदुःखं न बाधते / आघातचित्तं न भवति / न च कस्यचिज्जीवितान्तरायं कुर्वन्ति / अभिरता धर्मेषु व्यवस्थिताः, शिक्षासंवरमुपगृहीताः / एवं चाहुः - पुनरपि न प्राणातिपातं कुर्वामः / यादृशेन जाम्बुद्वीपका मनुष्या जीवन्ति अन्नेन पानेन, तादृशजीविकया वयं जीवामः / पुनरपि राक्षसीवृत्तिं न कुर्वामः / उपासकसंवरं धारयिष्याम इति / तादृशं शिक्षासंवरमुपगृहीत्वा तस्यैव पुरुषस्य पुरतो ऽनिमिषैर्नयनैः प्रेक्षमाणाः प्रस्थिताः //
इति सिंहलभ्रमणं नाम चतुर्दशं प्रकरणम् //
स्तर्त् क्व्यु 1,15:
वाराणसीभ्रमणं पञ्चदशं प्रकरणम् /
अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्मात्सिंहलद्वीपादवतीर्य वाराणस्यां महानगर्यामुच्चारप्रस्रावस्थाने गतो यत्रानेकान्यनेकानि कृमिकुलशतसहस्राणि प्रतिवसन्ति / ततो ऽवलोकितेश्वरो बोधिसत्त्वो महासत्त्व उपसंक्रम्य तत्रास तानि प्राणिशतसहस्राणि दृष्ट्वा आत्मानं भ्रमररूपमभिनिर्माय घुणघुणायमाणम् / तदेषां शब्दं निश्चारयति - नमो बुद्धाय, नमो धर्माय, नमः संघाय इति / तच्छ्रुत्वा ते च सर्वे प्राणकाः नमो बुद्धाय नमो धर्माय नमः संघायेति नाममनुस्मारयन्ति / ते च सर्वे बुद्धनामस्मरणमात्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा सर्वे ते सुखावत्यां लोकधातावुपपन्नाः सुगन्धमुखा नाम बोधिसत्त्वा बभूवुः / सर्वे ते भगवतो ऽमिताभस्य तथागतस्यान्तिकादिदं कारण्डव्यूहं नाम महायानं श्रुत्वा अनुमोद्य च नानादिग्भ्यो व्याकरणानि प्रतिलब्धानि //
अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो सत्त्वपरिपाकं कृत्वा तस्या वाराणस्या महानगर्याः प्रक्रान्तः //
इति वाराणसीभ्रमणं नाम पञ्चदशं प्रकरणम् //
स्तर्त् क्व्यु 1,16:
मगधभ्रमणं षोडशं प्रकरणम् /
तदा स मगधाभिमुखं प्रत्युद्गच्छति / स मगधविषयमनुप्राप्तः / यावत् सत्त्वान् पश्यन्ति स्म परस्परं मांसभक्षणं कुर्वाणान् / अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तानेवमाह - कस्माद्भोः, यूयं अन्योन्यं मासं भक्षयथ? ते चाहुः - नाद्यैव मासंभक्षणम्, विंशतिवर्षाणि परिपूर्णानि कान्तारस्य च प्रतिपन्नस्य च / नात्र किंचिदन्नपानं संविद्यते / तस्माद्वयं अन्योन्यं विरोधं कुर्वाणा जीविताः / एवं कृत्वा मांसभक्षणं कुर्वामः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
