Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

मध्यमकालोक

Tác giả
कमलशील
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

यदि ते विनिवृत्तकाया इत्युच्येत, तर्हि कथं भवन्तः प्रसिद्धिविरोधस्य परिहारं करिष्यन्ति? यद्युच्येत यथावभासं तत्स्वभावो नावतिष्ठतीत्यतः प्रतीत्यसमुत्पन्नत्वाज्ज्ञानस्वभावत्वेन वस्तुतः सन्तीति? एतदपि नैव युज्यते, यतो हि तदा ज्ञानमात्रस्वभावत्वात्ते कायादिविशेषाननुगतत्वादत्यन्तविरुद्धस्वभावेनावभासिष्यन्ते / अन्यस्यान्यस्वभावेनावभासो नैव युक्तरूपः, तत्त्वान्यत्वयोर्विरुद्धत्वादिति पूर्वमेवावेदितम् / यदि ज्ञानस्वभावस्तावद् शुद्धस्फटिक इव निरंशः क्कचनाप्यनवस्थितो नीलादिविविधस्वभावेष्वनवभासमान इत्यभ्युपगम्यते, तदा स्वप्नादिषु गजाश्वादीनि वस्तुनि तत्स्वभावत्वेन न समुद्भविष्यन्ति, तद्विरुद्धकारयोगात् / यद्येवं नास्ति तदा तथावभासो नैव शक्यरूपः /

ata eva vayaṃ jñānasvabhāvātītaṃ viparītākāreṇāvabhāsitaṃ mithyātvāllaukikamabhyupagacchāmastathā parikalpitasvabhāvenocyamānameva vastutvena bhrānto viṣaya iti kathayāmaḥ, na tu jñānasvabhāvatvena / so 'pi tadabhinnatmakatvenāvabhāsitatvānnasti satyasvabhāvena siddhaḥ / evaṃ vastvātmanā prasiddhamapi pramāṇena yathāvat sfuṭamavabhāsite 'pi paramārthatayā vastusvabhāvatvena na vyavasthāpayāmaḥ, yathā - tṛṇapuruṣaṃ puruṣatvena / ataḥ paramārthato vastuvapuṣābhūtaṃ yanmithyā tasmin pāramārthikasarvadoṣavirahitaśaśaśṛṅgadibhyo nivṛttamanivṛtaṃ vā cittaṃ naiva praviśatītyucyeta tadevaṃ yathoktaḥ saṃvṛtisvabhāvaḥ pramāṇena mithyāsvabhāvatvanokto 'pi na tathaiva cintanīyaḥ, yathā - māyāsvapnādyabhinno vastusvabhāvaḥ pramāṇena suspaṣṭīkṛtaḥ ayamapi paramārtha iti prajñapyate tadā saharṣaṃ prajñapyatāmutsavaścānubhūyatām, parantu prajñaptimātrakathanena naiva vastūni bhinnasvabhāvatvenopādīyante / ataḥ pratījñā parityajyatāmiti kathanamivaitad /

आचार्यः खल्वत्यन्तगम्भीरसागरे परमार्थनये प्रवेष्टुमसमर्थानां शाश्वोच्छेदाद्यपरदर्शनानां मलविशुद्धयर्थं बालपृथग्जनानां च प्रवृत्त्यर्थं ये परमार्थनुकूलां यथाप्रसिद्धां पुण्यज्ञानसम्भाराद्यर्थकृयां कुर्वन्ति, तानेवात्र परमार्थतः सदिति कथयामासुः, न त्वत्यन्तनियतपरमार्थज्ञानार्थमिति ज्ञातव्यम् / [यतो हि] ते नैव सन्ति परमार्थतः सदिति तु पूर्वमेवावेदितम्

एतदर्शमक्तं वार्तिके - "यथावक्तु तथैव" इति / आर्यश्रीमालासिंहनादसूत्रे ऽपि - "यदनित्यं तन्मिथ्या मोषधर्मकं च, यन्मोषधर्मकं तदसत्यम्" इत्युक्तम् / आगमे ऽउयुक्तम् - "एतद्धि भिक्षवः परमं सत्यं यदुत अमोषधर्मं निर्वाणम्, सर्वसंस्काराश्च मिथ्या मोषधर्माणःऽ इति /

परमार्थतो निःस्वभावत्वे ऽपि वस्तुनो यदि नियतदेशकालाद्यवभासो भवतीति कथं न शशशृङ्गादयो ऽप्यवभासन्त इति चेत्? भवद्बिरप्यस्योत्तरं दातव्यं स्यात्, यतो हि केशादिवन्मिथ्यावभासे ऽपि किमिति केशादीनामेव मिथ्यावभासः, न शशशृङ्गादीनाम् / यदि तिमिरादिहेतुप्रत्ययादीनां प्रतीनियतसामर्थ्येन तथा प्रतिनियतत्वमित्युच्येत तदा असद्वस्तुनि कथं नाम हेतुप्रत्ययादीनां प्रतिनियतसामर्थ्यमिति कथयितुं शक्यते / यदि तद्दर्शनेन तथा भवतीति चेत्? तदा तथैव अपरेष्वपि प्रतिनियतहेतुप्रत्ययत्वेन प्रतिनियतसामर्थ्ये ऽपि किमिति नैव तथा व्यवस्था स्वीक्रियते / इयन्मात्रेण वस्तुत्वे ऽपि नैव प्रसङ्गः, तथा सति तैमिरिकदृष्टकेशादीनामपि वस्तुत्वप्रसङ्गः स्यादिति पूर्वमेवावेदितम् /

यद्येवं न स्यात्तदा तैमिरिकैरध्यालम्बितानां मिथ्याकेशांदीनां हेतुप्रत्यया अपि कथं नाम नियताः स्युः / तैमिरिककेशादीनां ज्ञानस्वभावेनापि सत्यत्वं नैव युज्यत इति पूर्वमेव निर्दिष्टम् /

अपि च, यदि ज्ञानस्वभावः सत्यत्वेन सिद्धं स्यात्तदा केशादयो न ततो भिन्ना इति तेषामपि सत्यत्वेनावबोधः स्यात्, किन्तु तदसिद्धमिति पूर्वमेवाभिहितम् / केशादयस्तु मिथ्यात्वेन लोकेन प्रमाणेन च सिद्धा एव / अतो ज्ञानमपि केशादिमिथ्यास्वभावेनाभिन्नत्वात् तथैव मिथ्यामात्रमिति कथं केशादीनां तत्स्वभावत्वेन सत्यत्वं स्यादिति /

यथा सर्वणि वस्तूनि परमार्थतो ऽनुत्पन्नानि तथैव संवृतावप्युत्पन्नानि भवितुं न शक्नुवन्ति, तथा हि - ये तावत् परमार्थतो ऽनुत्पन्नास्तेषां संवृतावपि नोत्पादः, यथा - शशशृङ्गादय इति ये ब्रुवन्ति तेषां मायादिभिरनैकान्तिकत्वम्, साध्यवैपरीत्ये सति हेतुरपि सन्दिग्धविपक्षव्यावृत्तिकः / न हि दृष्टमात्रेणेष्टसिद्धिः, प्रमेयादीनामुभयपक्षव्याप्तिसम्भवात् / अतः परमार्थतो ऽसतो यदि संवृतावप्यसत्त्वं तदा संवृतिसत्यस्यैव विनाशप्रसङ्गः, फलतः को ऽपि विपर्ययो न स्यादिति /

सिद्धे ऽपि प्रसङ्गे व्याप्तेरसिद्धत्वाद् हेतुरनैकान्तिकः / संवृतावपि अदृष्टोत्पदाः शशशृङ्गादयो न तथाविधकर्मणां सञ्चयाभावान तु परमार्थस्वभावरहितत्वाद्, अनियतवस्तूनां संवृतिस्वभावो ऽपि हेतुप्रत्ययसमूहनिर्भर इति स्वीकारात् / न हेतुप्रत्ययनिर्भरतामात्रेण वस्तुत्वप्रसङ्गः मायादिमिथ्यावस्तूनां हेतुप्रत्ययसमूहभावाभावाभ्यां प्रवृत्तिनिवृत्तिदर्शनात् / न हि दर्शनमात्रेण वस्तूनां तथाभावः सन्निति निर्दिष्टम् / चतुष्कोटिरहितत्वाद् विद्वद्भिर्वस्तूनां तत्त्वतो ऽनुपपन्नत्वं साधितम् / अतो निःस्वभावतायां स्पष्टतः सिद्धत्वे ऽपि प्रमाणमार्गस्य ज्ञानाभावद् ये ऽन्यतो दूषितान् निराकर्तुमभिलषन्ते, तेभ्यस्तावत् प्रमाणतत्त्वं दर्शयिष्यते / ये परमार्थतश्चतुष्कोटिकोत्पादरहितास्ते निःस्वभावा ए, यथा गगननलिनम् /

[32] विवादाधिकरणाश्च सर्वे पदार्थास्तत्सदृशा एव, एवंवादिनं कश्चित् ऽकथं नाम एकस्मादेकस्यानुत्पत्तिबोधःऽ इति पृच्छतीति चेत्? न हि प्रमाणनिवृत्त्या वस्तुस्वभावनिवृत्तिः, तस्य तदुत्पादकत्वतदात्मकत्वाभावात् / यदि केचित् ऽतदनङ्गीओकारात् कश्चित् तत्खण्डयतीति ऽकथयन्तीति चेत्? तदयुक्तम् / यदि केचनऽ ईश्वरादिना एकेन जगद् उत्पद्यत इति कथयन्तीति चेत्? एतदपि न युक्तम् / यद्येकमादेकस्योत्पत्तिरिति तदा सा नित्याद् वा अनित्याद् वा भवेत् / न नित्यात्, तस्य अनुत्पन्नावस्थातो ऽभिन्नत्वात् पूर्वापरकालवद् मध्ये ऽपि उत्पादकत्वविरोधात् / यदि स उत्पादयतीति चेत्? पूर्वापरकाले ऽपि तद्वदुत्पत्तिप्रसङ्ग, उत्पत्तिस्वभावानुसरणात्तस्य / नानुसरतीति चेद्? नित्यताया हानिसद्भावात् क्रमयौगपद्याभ्यां तस्योत्पादकत्वं विस्तरेण निराक्रियते / न हि कदाचिन्नित्यादुत्पत्तिर्युक्तिमती /

न चानित्यादपि / पूर्वकालसमकालपश्चात्कालेषु च सामान्येनोत्पत्तेर्निराकृतत्वात् / न हि नित्यानित्याभ्यां व्यतिरिक्तस्तस्य कश्चनोत्पादक इति /

ये चान्यैः [वादिभिः] एकस्वभावा ईश्वरादयो जगतो ऽस्य हेतवो मन्यन्ते, तेभ्यश्चापि [हेतुभ्यः] एकस्वभावादेकस्य फलस्योत्पत्तिस्तैर्नाङ्गीक्रियते, विविधस्वभाववतो जगतस्तत उत्पत्तिस्वीकारात् / अत एकस्मादेकस्योत्पत्तिर्न भवतीति कथनकाले भ्रान्ततया ईश्वरादिकं यन्निर्दिशन्ति, तत्तु अर्थस्थितेरज्ञानमेवोद्घोषयन्ति / न हि ईश्श्वरादयो हेतुत्वेन अस्तित्वभाजो भवन्ति, परैस्तस्य नित्यस्वभावत्वेनोपज्ञपितत्वात् / नित्यस्तावत् सर्वसामर्थ्यशून्य इति च पूर्वमेव प्रसाधिततत्वात् /

यदि पुनः परैस्ते [ईश्वरादयः] केवलमनित्यत्वेनोपकल्प्यन्ते, तदापि तस्मादेकस्यैव फलस्योत्पत्तिर्नैव युक्तिमती, यतो हि ततो यदि भिन्नसन्तानवर्तिनां फलानामुत्पत्तिर्भवति, तदा तस्य अन्यसजातीयक्षणस्य प्रतिसन्धानाभावाद् द्वितीय एव क्षणे समुच्छेदः स्यात् / यद्येवं तदा ततः सदा विजातीयफलानामुत्पत्तिकाले सर्वेषां पूर्वसजातीयक्षणानां पश्चाद्वर्तिनि क्षणे प्रतिसन्धानाभावाद् ये तावदनित्यस्वभावा ईश्वरादिसंज्ञका जगतो हेतुत्वेनोपज्ञाप्यन्ते, ते के?

यदि ते प्राथमक्षणिकस्वभावत्वादेकस्यैव क्षणस्य स्वभावेनाभिधीयन्ते, तदपि नैव युक्तम्, हेतोरभावेन तस्योत्पत्तेरसम्भवात् अथवा सम्पूर्नमेव जगत् तद्वदहेतुकमेव स्यात् / यतो हि पूर्वमपि पश्चादपि तद्धेतुत्वेन [सर्वथा] किमपि नास्तीति / यद्येवं तदा तस्य क्षणमात्रस्वभावहानिप्रसङ्गः, तस्यानादिकालिकत्वमप्यस्माभिः पूवमेव प्रतिषिद्धम् /

यदि तस्यापरो ऽन्यो हेतुः परिकल्पयते, तदा स एव कथं न तस्य फलं वा तदुत्पन्नो वेति कल्प्यते / किं तदभावे स न सिध्यतीति, किमर्थं स कल्प्यत इति / अभिन्नसन्ताने विद्यमानो स हेतुरनादिकालात् तस्यामेव सन्ततौ प्रवृत्त एवेति, नैवान्यसन्ताने विद्यमानः सन्नुत्पत्तिकारक इति कल्प्यते तदा तस्मिन् परमार्थतो ऽसमकालत्वम्, अन्यत्र च सजातीयक्षणोत्पत्तिरपि नैव युज्यत इति पूर्वं बहुशो निर्दिष्टम् / अतच्चापि हेतुभेदस्य अभिन्नकारके प्रसङ्गश्च पश्चात् प्रतिपादयिष्यते / एतश्च ततो ऽनेकफलोत्पत्तिरपि ज्ञातव्या /

यद्यन्ते चक्षुरादयस्तावत् फलस्यैकस्य नियतोत्पादका इति मन्यन्ते, तदा अन्धवधिरत्वप्रसङ्गः दुर्निवार एव स्यात्, यतो हि चक्षुरादीनीन्द्रियाणि यदा स्वविज्ञानमुत्पदयन्ति तदा सजातीयान्यक्षणानि नोत्पादयन्ति / फलतो द्वितीयस्मिन् क्षणे सर्वेषामन्धबधिरादित्वप्रसङ्गः स्यात् / समुह एव तावद् विज्ञानफलमुत्पादयति, अतो नैकस्मादेकस्य फलोत्पत्तिः, चक्षुःश्रोत्रमनस्कारादिभिश्चक्षुर्विज्ञानादीनानुत्पादस्य [भूयसा] दृश्यमानत्वादिति चेत्तदपि नैव युक्तम् / यद्येवं तदा हेतुभेदो भेदनियामको नैव स्यात् / यो हि घटादीनां पटादिभ्यो भिन्नः स्वभावः, स खलु हेतुभेदेनैव कृतः, न तु प्रकृत्या जनित इति / यद्येवं न स्यात्तदा अहेतुकान्येव तावद् वस्तूनि स्युः / तत्र हेतुभेदे ऽपि यदि फलभेदो न स्यात्तदा हेतोर्भेदाभेदाभ्यां फलस्य भेदाभेदौ न कृतौ स्याताम्, व्यभिचिरितत्वात् / भिन्नाभिन्नाभ्यां वस्तुनो ऽभावात् सर्वेषामेव अहेतुकत्वप्रसङ्गः / इत्थं नैव ते समूहाद् व्यतिरिक्ताः सिध्यन्ति, नैव च ते समूहात् पृथम् कर्तुं शक्यन्ते / परन्तु परस्परभिन्नस्वभावात् प्रत्येकस्मादुत्पत्तिसामर्थयवतो यदि फलमुद्भुयते तदा अभिन्नमेव कथं नामोद्भूयते / यदि सर्व एवैकफलोत्पादने समर्थाः, न त्वनेकफलोत्पादन इत्येवं चेत्तदपि न युक्तम् / यद्येवं तदा सजातीयफलप्रतीसन्धानाभावाद् द्वीतिये तावत् क्षणे चक्षुरादिसन्तानानोच्छेद एव स्यात् / यदि तेषु सजातीयक्षणोत्पादे सामर्थ्यमित्युच्यते तदा तदन्यदेव तावद् वस्तु स्यात्ततश्च सामर्थ्यमेव हेतुः स्यान्न न खलु वस्तु /

पुनश्च, सम्बन्धो ऽपि नैव सेत्स्यति, समर्थस्योपकाराभावात् / उपकुर्वन्त्येवेति चेत्, समर्थान्तरस्य तत्रापेक्षितत्वादनवस्थाख्यस्तावद् दोष एव स्यात् / यदि ते स्वभावभूतं समर्थमुपर्कुर्वन्तीति मन्यते तदा फलमपि तथैव किं न कुर्वन्तीति / इमे समर्थास्तु वस्तुस्वभावेनाभिन्ना एव / अतो ये यतः सामर्थ्यात् सजातीयफलमुत्पादयन्ति, तत एव च चर्क्षुर्विज्ञानादिसामान्यमप्युत्पादयन्ति / अतः कथं नाम फलं भिन्नं स्यात् /

यदि फलमेकं समूहनिर्भरम्, अन्यच्च [फलं] एकैकहेतुनिर्भरमित्यतः [फलं] भिन्नं स्यादिति चिन्त्यते, तदपि नैव युक्तम् / समूहो ऽपि तावदेकैकहेतुसापेक्ष इति समूहनिर्भ्रत्वमपि [वस्तुतः] एकैकनिर्भरत्वमेव / अतः फलस्य सजातीय विजातीयतयोर्भेदो नैव स्यात् /

हेतुभेदस्त्रावत् [फलस्य] भेदको न भविष्यतीत्येवंविधस्य प्रसङ्गस्य को ह्यर्थः? यदि खण्डशो नोत्पादयतीत्यर्थस्तदा वस्तुस्वभावस्य निरंशत्वाद् अशंतश्चोत्पादस्यास्वीकृतत्वात् कथं नाम प्रसङ्गः स्यात्, तल्लक्षणस्यानुपपन्नात्वादिति /

यदि विशेषको [भेदको] न भवतीत्येवमर्थो गृह्यते तदा असिद्धमेवैतत् / हेतुभिस्तावदनेकेभ्यो विजातीयफलेभ्यो विपरीतमेव जन्तय इत्यभिधानमपि नैव युक्तम्, यतो ह्येकस्य अंशत उत्पत्तेरसम्भवादिति प्रसङ्गो नैवोच्यते, परन्तु भवन्तो ये वस्तुषु परस्परं व्यतिरेकं विशेषं वा मन्वते, स विविधैर्हेतुभिरेव क्रियते / यदि विविधहेतूनङ्गीकृत्यापि फलमेकविधमेव स्वीकृयते तदा भ्रान्तिसद्भावाद् वस्तूनां तावद् भेदो विविधहेतुभिरकृत एव स्यादित्येवं प्रसङ्गो नूनमभिधानीयः स्यात् / यश्चानेकविजातीयनिवृत्तिलक्षणस्य फलविशेषस्याभिलापः, सो ऽप्यसम्बद्ध एव, यतो हि ये विशेषात्मकत्वेन विशेषफलमुत्पादयन्ति, ते यदि विजातीयनिवृत्त्यैव सजातीयलक्षणोत्पत्तितो ऽपि निवर्तन्ते, तदा तेभ्य उत्पद्यं सजातीयं फलं विजातीयं च नैव परस्परनिवृत्तं स्याद्, भित्रनिवृत्तिहेतोरभावात् /

यदि हेतवस्ते निवृत्तिस्वभावत्वात् स्वयं सजातीयफलनां भेदका अपि भविष्यन्तीत्युच्यते, तदा तथैव ते सामान्यफले ऽपि कथं न भेदकाः? यतो हि तत्र सर्वे एकैका हेतवो भवन्ति / ये तावदेकोत्पादकस्वभावा एव ते ततो विपरीतं कमप्यन्यं नोत्पादयितुं शक्ताः, यतो हि ते उत्पादकस्वभावनिवृत्त्या अन्यार्थ इव भवन्ति, नान्ये उत्पादकस्वभावा इति / पुनस्ते परस्परनिवृत्तस्वभावाः किन्तु नैव ते उत्पादकस्वभावनिवृत्ताः / नान्यस्मिन् तदुत्पादकस्वभाव इति नैवं कथ्यते, किन्तु ये एकेनोत्पाद्यस्वभावास्ते नान्येनेति कथ्यते /

अपि च, ते स्वस्वभावनैवोत्पादयन्ति, न त्वन्यस्वभावेन, अतदात्मकत्वात्, ते च यथास्वं भिन्ना अपि / स्वस्वभावेनोत्पादयन्तीत्यस्मिन् कथने को विरोधः? एकस्वभावस्याभावो नैव तस्य स्वभावो भवितुं शक्नोति, अकारकत्वात्तस्य /

तेनैव तत्फलं निष्पादनीयमिति यदुक्तं तत्र का युक्तिरिति चेत् सांख्यैरेव तत्समाधानं विधेयमिति शोभनं प्रतिभाति / यतो हि ते खलु भिन्नभिन्नस्वभावं जगदिति प्रतिपादयन्ति / अतस्तेषां यत्तत्र ग्रहणं तन्निवृत्यर्थमेव आचार्येण भिन्नवस्तुनिर्देशकानां कृते व्यवहारवशादुक्तम् तानि [वस्तूनि] प्रतीत्यसमुत्पन्नतया नैव परमार्थत एकार्थानि नापि च भिन्नर्थानीति मन्वानां कृते नैव किमप्युक्तमिति / तेषां तावदनुसारं तु मायासदृशत्वात् सर्वेषु तेषु न किमप्येकं वस्तु भिन्नमभिन्नं वा सिध्यति /

अपि च, यदि वस्तुषु परमार्थतः स्वभवद्वयम्, एकश्चोत्पादकलक्षणः, अपरश्च स्वभावलक्षणस्तदा निवृत्ते ऽप्यस्मिन् स्वभावेनैवोत्पादकलक्षणस्तावन्निवर्तत इत्युत्तरं खलु समीचीनं स्यादिति /

यस्मिन् समये सर्व एवोत्पादकस्वभावस्तस्मिन् समये यदि ते परस्परनिवृत्तस्वभावा अपि तदा उत्पादकस्वभावतो निवृत्तत्वात् कथं नामोत्पादकाः स्युः / तेषामयमेव स्वभावो यत् स्वभावभेदे ऽपि एकमुत्पादयन्ति विरुद्धस्वभावे ऽपि च सति नैव परीक्षायोग्या इति यदि भवद्भिरुच्यते तदा पादौ प्रसार्य तथातापरीक्षातः पराङ्मुखबुद्धयो ये व्यवहारमात्रमनुसरन्ति ते सुखेनासितुं शक्नुवन्ति / ये तु तथातापरीक्षायां प्रवृतबुद्धयस्तेषां कृते तथैव सुखासनं नैव युक्तरूपम् / यद्येवं न स्यात्तदा ईश्वरादिस्तावदेकः सन्नपि स्वभावभेदे ऽपि च सति क्रमेण युगपद् वा विचित्रस्यास्य जगतो हेतुरुपेण नैव कथमपि विरुद्धो भविष्यति, तत्स्वभावस्य तथैव स्वभावसिद्धत्वात् / स्वभावभेदे ऽपि नास्ति परीक्षायोग्य इत्यभिदधतां कृते किं नामोत्तरं दत्तं स्यात्? तेनैव फलमुत्पादनीयमिति प्रतिपादयतां तत्र का युक्तिरिति ये कथयन्ति तेषां कृते अग्न्यादिकमपेक्ष्योत्पद्यमानो धूमस्तावद् शक्रमूर्धतो ऽउपुत्पद्यत इति कथनं यथा अहेतुकत्वे युक्त्या प्रसङ्गतयोच्यते, तथैवात्र किमिति नोच्यते? व्यवहारे ऽपि एकसमूहान्तर्गतो यद्येकफलस्योत्पादको भवेत्तदा नैव विरुद्धः, किन्तु समूहान्तर्गतस्तु विरुद्ध एवेत्येवं कथयद्भिः सह नास्ति कश्चन भेदः /

अत्रापि अग्न्यादिभिरेव फलमुत्पादनीयम्, न तु शक्रमूर्धाद्यन्यैरिति ये कथयन्ति, तत्र का युक्तिः / समुहो ऽपि भिन्नः स्वभावतश्चोत्पन्न इत्येवमभिदधानैः सह को विरोध इति वक्तव्यं स्यात् / तत्र यथा एकसमूहमाश्रित्योत्पद्यमानं फलं समूहान्तरेणाप्युत्पद्यते तदा तेनोत्पाद्यस्य स्वभावस्यानियतत्वाद् अहेतुक इत्युच्यते, तथैव एकस्मिन्नेव समूहे विज्ञानादयो यदा एकहेतुमपेक्ष्यापि तद्विलक्षणहेतुत उत्पद्यन्ते तदा किमित्यहेतुकतायाः प्रसङ्गो नोक्तः स्यात् /

हेतोर्यथात्मकेन प्रयोगेण निर्दुष्टात् स्वभावविशेषाद् हेतुभेदो भेदकश्च विरुद्धावेव स्याताम् / यतो हि चक्षुरादिना भिन्नस्वभावेन चक्षुर्विज्ञानादीनां फलानामुत्पत्तिकाले साक्षाद् भेदाभावे ऽपि प्रतीतिस्वभावाद् रूपादयः पृथग्विषयत्वेन नियता भवन्ति, तद्विकारेण च तथोत्पद्यन्ते / ते चान्वयव्यतिरेकाभ्यां समन्तरप्रत्ययेन च प्रतीतिस्वभावाः स्युः, न तु चक्षुरादयस्तथा नियताः सन्ति / विशेषेतुरपि तत्सदृश एव / इन्द्रियेण च विषयग्रहणं पृथक्तया नियतम् / इत्येवमन्द्रियाणि विषयाश्च न प्रतीतिस्वभावाः / इन्द्रियेषु समनन्तरप्रत्यये चापि नास्ति विषयग्रहणस्वभावः, विषयेण च समन्तरप्रत्ययेन चापि पृथक्तया विषयग्रहणं नैव नियतम् / एवंविधया नियतव्यवस्थया निश्चयेन हेतुभेदो भेदक एव स्यात् / भेद एव भिन्नविशेष इत्यसौ विचारो यदि व्यवहारतया बालपृथग्जनानां प्रवृत्त्यर्थमेवोच्यते तदा तु सुतरां यज्यते, न तु परमार्थतः /

अथ ये तावद् भेदास्तेए अप्रज्ञप्तिमात्रात्मका वा निवृत्तिविशेषेण प्रज्ञप्तिस्वभावात्मका वा? यदि प्रथमः पक्षस्तदा विज्ञानस्य आलम्बनादस्वभावादभिन्नत्वेन तथैवानेकत्वप्रसङ्गः / आलमनादिस्वभावो ऽपि विज्ञानवन्नैव तावदेकत्वनिवृत्तः स्यात् / विज्ञानमपि प्रतितिस्वभावतो नास्ति भिन्नो ऽतस्तथैव रूपादिभ्यस्तस्यानुत्पत्तिप्रसङ्गः /

तथैवाभिन्ने ऽपि रूपादिभ्य उत्पद्यत इत्युच्यत इति चेदेकस्मिन् एकदा परस्परविरुद्धावुत्पादानुत्पादौ कथं नाम न विरुद्धौ स्यातामित्ययं दोषो नैव युज्यतामिति विचार्य ये विशेषान् विज्ञानतो भिन्नार्थत्वेन कल्पयन्ति तेषां तदा विज्ञानमहेतुकं स्याद् अन्यस्मिन्नेव तदा चक्षुरादीनां योगात् / फलतः सदा सत्त्वेन प्रसङ्ग इति /

यदि प्रज्ञप्तिस्वभाव इति द्वितीयपक्षः स्वीक्रियते तदापि विज्ञानस्याहेतुकत्वं प्रसज्यत एव, प्रज्ञत्यात्मकत्वे चक्षुरादीनामुपयोगाभावात् / प्रज्ञप्त्यात्मकत्वे कस्यापि योगो नैव भवतीत्यतः सर्वेषामहेतुकत्वप्रसङ्गः / फलतः परमार्थतो ऽनेकेभ्य एकस्य फलस्योत्पत्तिर्नैव सर्वथा युजयत इति /

नैकस्मादनेकस्यापि [उत्पादः], पूर्वदत्रापि हेतुभेदस्याभेदकत्वप्रसङ्गात् / इत्थं चक्षुर्यदिस्वविशेषतया तज्जातीयक्षणस्योत्पादकत्वात् स्वविज्ञानमुत्पादयतिति, तदा हेतुभेदाभावे ऽपि फलस्य भिन्नत्वात् फलस्य तावद् भेदाभेदौ कथं नाहेतुकाविति / येन खलु कारणेन तत्र फलान्तरोत्पत्तिमत्त्वे नास्त्यन्यः [कश्चन] विशेषः, निरंशत्वात् सर्ववस्तूनाम्, अतो हेत्तुअतावत् स्वभावप्रच्युतो भूत्वा फलं नोत्पादयतीति, तथापि तस्मिन् हेत्वात्मकत्वे भेदाभावात् तन्निर्वृते फले ऽपि तावद् भेदो न स्यात् /

एकस्मादनेकस्य अनेकस्मादेकस्योत्पत्तिर्या कथ्यते, किं सा नैव दृश्यते? [अर्थात् दृश्यत एव], अतस्तस्याः परिहारं कर्तुं शक्यत इत्यभिधानं तावन्नैव युज्यते / वयमपि सा आदृश्येति न साधयामः / दर्शनमात्रं तु नैव तावत् प्रमाणमपि, स्वप्नवन्मिथ्याभासमानत्वाअत् / यद् यथा दृश्यते तत्तथैव सदित्यभिनिविशमानानां केवलं मिथ्याकल्पनानां निराकरणाय स्वप्न इव साध्यमानत्वान्नास्ति तावद् विरोधो ऽपीति /

अपि च, चक्षुर्विज्ञानादीनां वस्तूनां यान्यनेकस्मादुत्यद्यमानानि दृश्यन्ते, तेषां पारमार्थिकः स्वभावस्तावदेकत्वेन नैव कथमपि सिद्धः, सदा विभिन्नेष्वाकोरष्ववभासमानत्वात् / विविधो ऽपि स्वभावो यद्येकः स्यात्तदा सर्वेषामेवैकद्रव्यताप्रसङ्गः स्यात् / यच्चैकस्य तावदसिद्धिः, सा संघातात्मकत्वादसिद्धैव / एकस्य चानेकषां च वस्तूनां परमार्थत उत्पत्तिस्तावत् कुत्र समवलोक्यते? अनेर्कस्मादनेकस्योत्पतिरिति द्वितीयो ऽपि पक्षो नैव युक्तः / एकैकस्य फलस्य स्तावदनैकैर्हेतुभिः क्रियमाणत्वादयमपि पक्षस्तावदनेकस्मादेकस्यैवोत्पत्तिपक्षः स्यात् / अस्य [पक्षस्य] दोषो ऽप्यस्माभिः पूर्वमेवोक्त इति /

यधेकस्मिन् फले एकैकस्य हेतोर्योगः क्रियते, तदा पक्षो ऽयम् ऽएकस्मादेकस्योत्पत्तिपक्षःऽ स्यादिति / अस्मिन्नपि पक्षे यद्दूषणं तत् पूर्वमेवोक्तम् / अतो नास्त्ययमसिद्धो हेतुरपि कोटीनां चतुष्कं विहाय नास्त्यन्यो ऽपि कश्चनोत्पत्तिपक्षः / सर्वेषां नित्यवस्तूनां निराकरणमपि पूर्वमेव कृतम् / अतो नास्त्यनैकान्तिकत्वमपि हेतोः / सपक्षे सत्त्वाद् विरुद्धो ऽपि हेतुर्नास्ति / आचार्यो ऽपि संवृतौ कार्यकारणभावस्थितिं स्वीकृत्य यथा व्यवहारे एकस्मादनेकस्य चानेकस्मादेकस्य चोत्पत्तिः प्रसिध्यति तथा दृश्यत एवेति कथयागास / चक्षुरादिभिरन्वयव्यतिरेकाभ्यां चक्षुर्विज्ञानादीनामुत्पत्तिविशेषं ज्ञात्वा बालापृथग्जनानां प्रवृत्त्यर्थं कार्यहेत्वोर्भेदकाले यदि हेतुर्भिन्नस्तदा कार्यभेदो ऽपि सुतरां स्यादित्युक्तवान्, न तु परमार्थदशायाम्, परमार्थतो ऽसिद्धत्वात्तस्य, यथा विचारितं प्रागेव / एकस्माद् हेतोरनेकफलानामुत्पत्तिरयुक्तेत्यादिकं यदुक्तम्, तेषां समेषां समाधानमपि पृथक्पृथस्मामिः पूर्वमेव कृतम् /

[33] ऽप्रतीत्यसमुत्पन्नात्वाद्" इत्ययं यो हेतुः, स अनैकान्तिक इति ये कथितवन्तस्तेषामप्युत्तरं दत्तपूर्वमेव /

[34] यदि वस्तूनि परमार्थतो न सस्वभावानि, तदा नैव तानि संवृतावपि भवितुं शक्यानीति यदुक्तम्, तस्याप्युतरं पूर्वं प्रदत्तमेव / ऽ एकानेकस्वभावरहितत्वात्ऽ इति हेतोर्यदसिद्धात्वादिकमुक्तम्, तेषां सर्वेषामपि समाधानं पूर्वाचार्यैः पूर्वं सम्यक्तया कृतमेव / तथापि ये तावत् केचन द्वेषवशाद् दूषणानि प्रयुञ्जते, सा तेषां विप्रतीतिरेवेत्यभिधातुं शक्यते /

[35] यदि ते प्रसङ्गं साधयन्ति, तदा नैव हेतोरसिद्धिः, वस्तूनामेकानेकस्वभावरहितत्वहेतोः परैः स्वीकृतत्वात् / तदभिव्यक्तधर्मस्वीकारात्तस्यापि [हेतोः] तावत् सामर्थ्यतः स्वीकरणमेव स्यादिति /

तत्र यैस्तावत् कदाचिद् ईश्वरादयो नित्यैकत्वस्वभावेन परिकल्पितास्तैस्तेषु क्रमोत्पादधर्मयोगो ऽपि यतः स्वीक्रियते, अतस्तत्सामर्थ्यत एकत्वस्वभावरहिततापि तैरवश्यं स्वीकृता स्यात् / यतो ह्येकस्वभावतायामनुत्पादास्थातो ऽभिन्नत्वात् पूर्वकालवत् पश्चात्काले ऽप्युत्पादकस्वभावता नैव युज्यते / यद्युत्पादक एव स्वभावः स्यात्तदा पूर्वावस्थातः स्वभावस्य भिन्नलक्षणत्वादेकत्वहानिरेव स्यादिति /

ते [ईश्वरादयः] तावदनेकत्वे ऽपि नैव युज्यन्ते, यतो हि तत्त्वतायां समकालिकत्वमपरस्मिंश्च स्वपरप्रतिसन्धानं तावन्नैव युज्यत इति पूर्वं प्रसाधितमेव / ये तावदाकाशादीनां त्रयाणामसंकृतानामेकस्वभावत्वं फलप्रतिसन्धानाभावं च तेषां स्वीकुर्वन्ति, तैरपि ज्ञानस्वभावस्य क्रमोद्भूतत्वं तावत् स्वीक्रियते, अतस्तत्सामर्थ्यस्तैरप्येकस्वभावरहिततैव स्वीकृता स्यात्, यतो हि प्रत्येकज्ञानात्तज्ज्ञेयस्वभावस्तावद् भिन्न एव स्यात् / यदि न स्यात्तदाभिन्नत्वात् पूर्ववत् तज्ज्ञाने ज्ञेयस्वभावो नैवोपपन्नः स्यादत एकस्वभावस्तावन्नैव युज्यत इति / नैव ते ऽनेकस्वभावा इत्यपि पूर्वमेवास्माभिः प्रसाधितम् /

ये तावन्नित्यैकस्वभावाः कालपुरुषप्रधानब्रह्मादयश्च विचित्राया अस्या जगद्व्यवस्थाया हेतुत्वेन परिकल्प्यन्ते, ते यदि सत्यासत्यादिविविधस्वभावां वस्तुसामग्रीं क्रमेण युगपद् वा गृह्णन्तीति स्वीक्रियते तदा तत्सामर्थ्यत एकत्वरहित एव स्वभावे ते नियमेन ते नियमेन स्वीकृताः स्युः, यतो हि विविधस्वभावस्य जगतो ग्रहणे एकस्वभावा नैव युज्यन्ते / यदि ते नैव एकत्वेन सिध्यन्ति, तदानेकत्वमपि तेषां सुतरां नैव युज्यते, संघातस्वभावत्वात् /

ये तावत् पुद्गलामिधं पदार्थं नित्यानित्यत्वेनानिर्वचनीयमिति परिकल्पयन्ति ते ऽउयेनम् एकानेकस्वभावरहितत्वेन साक्षात् स्वीकुर्वन्त्येव, फलत एकस्वभावस्य तावन्नित्यत्वे ऽनिर्वचनीयता नैव युक्तिमती / अपि च, भिन्नभिन्नस्वभावेनानुभूयमानस्य तावत् क्षणिकत्वे ऽनिर्वचनीयता नैव युज्यते / कायः भूमिपर्वतादयो ये ऽनित्याः सावयवाः पृथक्स्वभावास्तान् एकद्रव्यत्नेन परिकल्पयन्ति, ते ऽपि तदवयवद्रव्यं भिन्नानेकविषयव्यापकमिति स्वीकुर्वन्त्यत एकत्वरहिततैव तेषां स्वीकृता स्यात् यतो हि यदि तस्य प्रत्येकस्मिन्नवयवे नास्ति भिन्नस्वभावस्तदा नैव तस्मिन् व्यपकताप्युपपद्यत इति /

निरंशेषु तावदावृतनावृतत्वादिविरुद्धधर्मयोगो ऽपि नैवोपपद्यते / ये तावद् देहादीनां परमाणुसञ्चयात्मकत्वात् तान् परमाणून् पृथक्शः परिकल्पयन्ति, ते ऽपि तेषु संयोगसंघातादीन् स्वीकुर्वन्त्येवेत्यतस्तैस्तत्सामर्थ्यात्तेषामेकत्वरहिततापि

स्वीकृतैव स्यादिति / यतो हि निरंशस्वभावे [वस्तुनि] यत्रैव हि संयोगादयो ऽनुभूयन्ते, तत्र तादृशो नास्त्येव कश्चन पक्षः [भागः], यस्मिन् पक्षेण केनचित् सह संयोगः सञ्चयो वा न भवन्ति, तादृशेषु [निरंशेषु] विस्तरेण विषयव्याप्तिरपि नैव युज्यते / न चावयविन्नामेकस्वभावत्वमपि न युज्यते, अवयवसंघातात्मकत्वात्तेषाम् /

परमाणुषु चावयविद्रव्येषु चोभयेषु तावदनेकस्वभावत्वमपि न युज्यते, यतो हि सञ्चितस्वभावात्मकत्वात्ते यदा नैवैकस्वभावत्वे युज्यन्ते तदा तत्परतन्त्रतया व्यवस्थितत्वेन तेषामनेकस्वभावत्वमपि नैव सिध्यति / इत्थं यदा कार्यं च कारणं चापि द्रव्यमेकानेस्वभावरहितं सिद्धम्, तदा तदाधारेन कल्पितनां गुणकर्मसामान्यविशेषाणां संघातस्य चापि सिद्धिः सुतरां नैव स्यात्, तत्परतन्त्रत्वात्तेषाम् /

evaṃ kādācitkatvasāmarthataḥ samastajñeyānāmekānekasvabhāvaśūnyatvameva svīkarttavyamityanekadhā niveditam / jñānamapi tāvat kāmamekasvabhāvamityupakalpyatāṃ kintu tatsvarūpaṃ vividhasyabhāvagrāhakamiti svīkṛtatvāt tatsāmarthyata ekasvabhāvarahitameva taditi svīkṛtaṃ syāt / yato hi tajjñānaṃ tāvat sākāramityavaśyaṃ svīkarttavyam, anyathā viṣayākāreṇa yo nākāritastasya jñānakāyasya viṣayaġrāhakarūpeṇa vyavasthāpanaṃ nopapannaṃ syāt / yadi sākāratvena svīkriyate tadā tasyaikasvabhāvarahitatvamapi spaṣṭatayā svīkṛtameva syāt, vibhinnātmakatvājjñānakāyasya / vividhatāyā ekatāyāśca parasparaṃ sfuṭo virodhaḥ / ataḥ sarvāṇyeva tāvajjñānāni vibhinnānāṃ vastūnāṃ viṣayitvena svīkriyante / ata eva svayūthyāḥ 'sañcitālambanāḥ paścavijñānakāyāḥ' iti svīkurvanti / ṣaṣṭhaṃ tāvad vijñānaṃ cittacaitasikānapyālambanīkarotīti /

चित्रदर्शनकाले चित्राकारं विज्ञानमुपजायमाअनमनुभूयते, अतः सर्वज्ञानानि चित्राकारत्वेन प्रसिध्यन्ति / तत्र विविधतायां [विचित्रतायां] स्वमतस्थापनार्थ तावदनेकज्ञानोत्पत्तिकल्पनमपि नास्ति समीचीनम्, अमूर्तत्वात्तानि तत्र प्रकीर्णरूपेण नैवोपतिष्ठन्ति, अस्थितत्वाच्च विचित्रता नैवोपपद्यते / गुणकर्मसमवेतानां द्रव्यादीनां तावज्ज्ञानेन युगपद्ग्रहणस्वीकाराद् अपरे ऽपि [सिद्धान्तवादिनः] ज्ञानं चित्राकारत्वेनैव स्वीकुर्वन्ति / ये हि द्रव्यपर्यायादिविशेषणैः सर्वं वस्तु तावन्मेचकमणिवदित्यामनन्ति, तेष्वपि तद्विषयिमनसो विषयत्वे ऽनेकवस्तुस्वभावाः स्वीक्रियन्त एव / ये तावच्चातुर्महाभौतिकानि वस्तून्युपकल्पयन्ति, ते ऽपि ज्ञानमनेलवस्तुविषयमेवाभ्युपगच्छन्ति / ये च विषयं सत्त्वरजस्तमोगुणात्मकमभ्युपयन्ति, ते ऽपि ज्ञानविषयमनेकवस्तुस्वभावं स्वीकुर्वन्येव, वस्तुत्रयात्मकत्वस्वीकाराद् विषयाणाम् /

ये ऽप्यतीतादिविषयकं मनोविज्ञानमात्रमनालम्बनमिति मन्वते, तेषामपि मते ऽभिधानाकारेण युक्तत्वात्तदेकाकारमिति न युज्यते, अनेकाक्षरस्वभावेनावभासितत्वात् / स्वप्नादिज्ञानान्यपि नीलादिविभिन्नाकारान् अनुभवन्तीति तन्येकस्वभावानीति नैव युक्तानि / ये खलु विज्ञानमात्रस्वभावं जगदित्यामनन्ति, ते बाह्यपदार्थानामविषयिभूतत्वात्तत् स्वसंवेदनस्वरूपं पर्यन्तं च ज्ञानमिति स्वीकुर्वन्ति, ते ऽप्यनादिकालीनभ्रान्तवासानापरिपाकवशाद् रूपादिविभिन्नविपरीतावभासानां सर्वेषां विज्ञानानामुत्पत्तिं स्वीकुर्वन्त्यतो विज्ञानमेकस्वभावमिति नैवाभ्युपगच्छन्ति / फलतो दर्शनेषु कस्मिन्नपि विज्ञानं नैकस्वभावमिति सिध्यति / यदि तथा न सिध्यति, तदा अनेकस्वभावो ऽपि न सिध्यतीति बहुशः पूर्वमावेदितम् /

अत एव स्वातन्त्र्येण साधको हेतिरप्ययं नासिद्ध इति यथोक्तनयेन वादिप्रतिवाद्युभ्येषु सर्वे धर्म एकानेकस्वभावरहिता एव सिद्धाः / ये व व्यवच्छेदमात्रात्मकास्तेषु साध्यसाधनानुगतो धर्मेयेव अवस्तुभूतः सिध्यतीति पूर्वमनेकधा निर्दिष्टम् / स्वपरोभयसिद्धान्तवादिभिरुपकल्पितधर्मिण्यपि साध्यधर्मस्य यथोक्ता व्यवच्छेदमात्रता द्वयोरपि सिद्धैव /

पुनश्च, हेतुरप्ययं कथं सिध्यति? यद्युनुपलब्ध्येति चेत्? साप्यपरयानुपलब्ध्या सिध्यतीत्यनवस्थाप्रसङ्गः स्यात् / नापि प्रत्यक्षेणानुपलब्धिसिद्धिरपि, प्रत्यक्षस्याविषयत्वादित्यपि कथनं निराकृतमेव, यतो हि यथोक्तनयेनैव ते हेतुं साधयन्तीति /

इत्येवं ये केचिदिन्द्रियैरगम्या आत्मादयस्ते तद्व्याप्तक्रमिककार्ययोगादिधर्माणां स्वीकृत्या एकानेकस्वभावरहितत्वेनैव प्रसिद्धाः / यदि धर्म्येव तावदसिद्धस्तदा तद्राहित्यचिन्तनमप्ययुक्तम्, तादृशानां वस्तूनां प्रतिषेधाय धर्मिणः परीक्षायाः सर्वत्रानिवार्यत्वात् / अतस्तद्धर्मा नोपलभ्यन्त इति पूर्वमेव निर्दिष्टम् / अन्यथा [यद्येवं न स्यात्] तदा तन्निषेधाय भवतामपि अर्थक्रियासामर्थ्यवियोगलक्षणो हेतुस्तावत् कथं सिद्धो भविष्यतीति चोदना कथं न स्यात् / परपरिकल्पिते धर्मिणि तथाविधक्रमिककार्याणां स्वीकृत्यैव तद्व्याप्तधर्माणां निष्पत्तेस्तन्मतमात्राश्रितत्वाद् धर्मिणस्तस्य तावत् परिकल्पितत्वमेव / अनुमानेन तथा ज्ञाने सत्यपि नास्त्येवानवस्थाप्रसङ्गः, स्वतः प्रमाणत्वात्तस्य / व्यवहारेणापि तावत् साध्यव्याप्तसाधनस्य सिद्धत्वादिति पूर्वमेव सम्यगुक्तत्वात् /

रूपादयस्तावद् धार्मिणः, ये खल्वपरोक्षास्ते ऽपि प्रत्यक्षत एकस्वभावरहिता एव, विविधेष्वाकारेषु सर्वदा प्रतिभासनादविशेषेण पृथक्श एकस्वभावत्वेनाननुभूयमानत्वात् / एकस्वभावहितत्वेन सिद्धे सत्यनेकस्वभावराहित्यमपि सुतरां प्रत्यक्षतः सिद्धमेव, एकैकसञ्चितत्वदनेकस्वभावस्य / न खलु प्रत्यक्षादिप्रमाणानि व्यवहारेणासद्भूतानीति पूर्वमेवोक्तम् /

यत्खलु परमार्थतो ऽसत्, तत् संवृतितो ऽप्यसदेव, क्रियताप्यंशेनाननुभाव्यत्वात्, शशशृङ्गवत् / यदि प्रत्यक्षमपि तथैवेत्युच्येत, एवं सत्यसम्बद्धत्वादनैकान्तिकत्वमेवास्य हेतोरिति पूर्वमेव कृतोत्तरम् / आरोपितस्यात्मनो यः खलु स्वभावः, सो ऽपि तथैव ज्ञेयः, किन्तु नैव स परमार्थतो ऽसन्, मरीचिकासु जलज्ञानादृशत्वात्तस्य /

आरोपस्वभावात्मकत्वात् सर्वप्रत्यक्षाणां कथं हि तैरेकानेकस्वभावयुक्तत्वं ज्ञातुं शक्यत इति चिन्तायां हेतुर्यमत्र मायाकाराप्रत्यक्षानुमानाभ्यामनैकान्तिक एव / यतो हि मायाकारज्ञाने तावद् यो ऽयं गजाद्याकारारोपस्तस्मिन् स्वभावे परमार्थतो नभिनिवेशो जायते / तस्मिंस्तथाभिनिवेशाभावात् तत् परमार्थतस्तद्विविक्तज्ञानोत्पत्तिहेतुर्भवतीत्यवश्यं तद्विषयित्वेन व्यवस्थाप्यते / एवं प्रेक्षावतां प्रत्यक्षस्य निराकृते ऽपि भान्तिकारणे कदाचिदन्यारोपाकारस्वभाववतः [ज्ञानस्य] उत्पत्तिर्भवतीति परमार्थतस्तत्स्वभावे ऽनभिनिवेशेन हेतुना नियतेन तावत्तद्विविक्तविषयित्वेन व्यवस्थाप्यते / तथैवानुमानज्ञानमपि यद्धि सामान्ये तावद् वस्तुलक्षणे समारोपाकारम्, तदपि वस्तुतथताया यथावज्ज्ञानस्वभावत्वात् तद्विषयकं भवतीति प्रमाणसद्भावादनैकान्तिक एव हेतुः / नास्ति तद्विषयीति कथनं तावन्नैव युक्त्म्, अश्चशृङ्गवद् वस्तूनामभ्युपगमाभावात् / तर्हि कथमिति चेत्? मायादिस्वभाववदिति, मायादिवत् प्रत्यक्षत्वात् / गृहीते ऽप्येकानेकस्वभावराहित्ये ऽनाप्तपुरुषशास्त्रश्रवणेनोत्पन्नारोपैरनिर्धार्यापरेण [प्रकारेण] निर्धारयतामेकानेकस्वभाववियुक्तवमनुपलब्ध्या तावत् कथं सेत्स्यति? विविधप्रकारादिलिङ्गैः सर्वे यद्येकस्वभावरहितत्वेन साध्यन्ते तदा ते ऽनेकत्वस्वभावरहिता अपि सिध्यन्येव, एकसञ्चयात्मकत्वादनेकस्य / एकस्त्वं वानेकत्वं वा सर्वेष्वाकारेषु व्याप्तम्, परस्परपरिहारस्थितलक्षणत्वात्तयोः / व्यवहारे घटादिविषयपरिच्छेदेन पुरुषा अतुल्यसम्बद्धान् व्यवहारयोग्यानत्यन्तं परिच्छेदयन्ति / ततस्तुल्यविपर्ययादिस्वभावविच्छेदेन परिच्छेदः / तथैव / परिच्छिन्ने ऽप्यनेकवस्तुव्यवहारयोग्ये ऽनेकद्रव्यजातिसंघाते ततो ऽतुल्यविपर्ययविच्चेदेनैव परिच्छेदः / परिच्छेदो यदि नैव विच्चिन्नस्तदा स नास्त्येव, परस्परपरिहारस्थितलक्षणत्वात्तयोः / ये तावत् परस्परपरिहारस्थितलक्षणास्ते सर्वत्र व्यापिनः, ये हि सर्वत्र व्यापिनस्ते स्कन्धाद्यन्यापोढाः, मूर्तामूर्तत्वादिविशेषवदिति /

एकानेकत्वे अपि तथैव / व्यापकनिवृत्त्या व्याप्यनिवृत्तेर्नियतत्वान्नास्ति तावद् हेतुरपि सदिग्धविपक्षव्यावृत्तिकः, अपरेषां स्कन्धानामभावात् / व्याप्यस्य व्यापकस्य वा वस्तुनः स्वतो ऽसिद्धत्वादसिद्ध एव स हेतुरिति केचन / तथैव धर्मिण्येव केवले व्याप्यसद्भावसिध्यर्थं व्यापकनिवृत्या व्याप्यनिवृत्तिरसिद्धैवेत्यपरे / एतेषां सर्वेषां [आक्षेपाणां] समाधानं तावत्पूर्वमेवास्माभिः कृतम् /

एवं व्याप्यव्यापकादिसर्ववस्तूनां पूर्वं संवृत्त्याश्रितत्वं प्रसाध्य पश्चाद् व्यवस्था कृतेत्यपि पूर्वमावेदितमेव / अत्यन्तं समीपवर्तिनि व्यापके नियतं व्याप्यविशेषज्ञानं नैव भवतीत्यपि पूर्वमेव निर्दिष्टम् / अतो व्यवहारेण एकानेकस्वभावमात्रेण सत्त्वं व्याप्तमिति / तथाप्यनेन परर्मार्थस्वभावो नैव निश्चियते / एकानेकस्वभावस्तावद् घटादयः संवृत्याप्यवभासन्त एवेति /

व्याप्यव्यापकभावसिद्धिस्तु विशेषतो व्यवहारधर्मिणमाश्रयते, व्यापकनिवृत्तिस्तु परमार्थमाश्रयते, अतो विवादास्पदीभूतेषु सर्वधर्मिषु सामान्येन साधयितुमिष्यमाणत्वात् कथमिमौ द्वौ [व्याप्यव्यापकौ] एकस्मिन् धर्मिण्याश्रिताविति चेत्? एकस्मिन् धर्मिण्याश्रितत्वे ऽपि [मिथः] सापेक्षत्वाद् भिन्नावेवेति नास्ति दोषः / एवमेव व्याप्यव्यापकभावसिद्धिस्तु व्यावहारसत्यमाश्रयते, व्यापकनिवृत्तिस्तावत् परमार्थसत्यमेवाश्रयते, अतो विरुद्धैव /

117 [36-37] यः खलु साध्यः, साधको वा तौ प्रसज्यप्रतिषेधस्वभावौ, न वा तथास्वभावौ? प्रथमे तावत्पक्षे तौ नैव बोध्यबोधकरुपेणोपपन्नौ, निःस्वभावत्वादसम्बद्धत्वादनुपपन्नत्वाच्च / ये सर्वाभिलापविगतलक्षणास्ते न कथञ्चनापि बोध्या बोधकाश्च, अश्वशृङ्गवत्, यथोक्ताः सर्वे साध्यसाधकादयो ऽभिलापरहितलक्षणात्मकाः /

[38-39] ये परस्परमसम्बद्धास्ते ऽपि नैव बोध्यबोधकस्वभावाः, हिमवद्विन्ध्यपर्वतवत्, साध्यसाधका अपि परस्परमसम्बद्धाः /

[40] अभिन्नस्वभावा अपि केचन न बोध्यबोधकभावापन्नाः, वृक्षशाखावत् / साध्यसाधका अप्यभिन्नाः / यदि प्रसज्यप्रतिषेधस्वभावपक्षपातिनस्तदा एकानेकस्वभावरहितास्तावद् वस्तुस्वभावभूतार्थक्रियायोग्यत्वस्वीकारादपि न स्वीक्रियन्त इत्यप्ययुक्तीयुक्तम्, विकल्पस्यास्य परपरिकल्पितेश्वरादिनिषेधे ऽपि सर्वत्र समानत्वात् / अतो ऽवश्यं व्यापकधर्मनिवृत्त्यैव ईश्वरादीनां निराकरणं कर्त्तव्यम्, अत्यन्तपरोक्षेषु प्रत्यक्षेण निषेद्धुशक्यत्वात् / अतस्तस्मिन् कथं न सर्व विवादा आपतेयुरिति /

न तदेकं न चानेकं विषयः परमाणुशः /

तथा

भावा यत्र विचार्यन्ते न ते सन्ति सवभावतः / कथमिति न तेष्वेकानेकत्वं हि स्वभावतः //

इत्यादिभीर्बाह्यार्थपरिकल्पना तावन्निषेध्यते / तत्रापि कथं न विवादाः स्युरिति / यदि निःस्वभावता तत्र नैव बोध्यत इति चेत्तदा अश्वशृङ्गस्यापि बोधाभावः कथं नोल्लिख्यते / भवतामभिलापलक्षणरहिताः सर्व भावा न मनागपि बोध्यन्त इत्यादिप्रयोगेषु विद्यत एव साध्यसाधकयोर्निषेधस्वभावः, अतः कीदृशस्तावदयं बोधकभावः / अतः प्रयोगो ऽयमात्मनो हानिकर एवोल्लिखितः शस्त्रशिक्षणदोषाभ्युपगमवत् / अतो नास्ति प्रयोगकौशलमपि सर्वेसां वस्तुनां निश्चेतव्यप्रसङ्गाल्लिङ्गस्यैव वस्तुनो बोधो न केनापि स्वीक्रियते, कस्यापि लिङ्गबोधस्य कुइस्मिन्नप्यवश्यमेव सम्भवात् / अतो नियतमेव लिङ्गं प्रत्यक्षेण बोध्यते, साध्याकारस्य नियमेनोत्पादकत्वात् /

लिङ्गं तावत् कल्पनया बोधकत्वेन व्यवस्थितमिति युक्तम् / अतो निः स्वभावत्वे ऽपि निअयततदाकारस्य साध्यकारनिश्चयोत्पत्तौ हेतुत्वाद् बोधकत्वेन कल्पनायां नास्ति कश्चन दोषः / केवलस्य वस्तुभूतलिङ्गस्यैव सर्वत्र नोल्लेखो भवति, आकाशनिषेधकस्य लिङ्गस्य नितरां कल्पितत्वादेवेति पूर्वं निर्दिष्टम् / असम्बद्धत्वादिति यदभिहितम्, तत्रापि यदि वस्तुभूतः सम्बन्ध एवैको हेतुत्वेन कथयितुमिष्यते, तदापि स हेतुर्नास्त्यनैकान्तिकः, वस्तुभूते ऽपि [हेतौ] कुत्रचित्तथाविधस्य सम्बन्धस्यासिद्धतवात् / स [सम्बन्धः] तावद् द्वयाश्रितत्वेन परस्परश्लिष्टस्वभावत्वेन चोपकल्प्यते / द्वयोर्निष्पन्नयोः [वस्तुनोः] स्वभावः श्लिष्ट इति नोपपद्यते, स्वस्वभावे व्यवस्थितत्वात्तयोः / श्लिष्टत्वे सत्येकत्वमेव स्यात् / तच्च विरुद्धमेव / एकत्वे सति नैव द्वयाश्रित्वं तावद् युक्तम् /

यदि स सम्बन्धिभ्यो ऽर्थान्तर इति तदा स्वस्वभावव्यवस्थितत्वात् कथं नाम सम्बद्धस्वभावः स्यात् / यदि नास्त्यर्थान्तर इति तदा केवलं सम्बन्धिनावेव स्याताम् / अतः सम्बन्धस्तावत् कल्पनामात्रात्मक एव, न तु वस्त्वात्मक इति / यानि हि सम्बन्धोद्भूतानि लक्षणानि तान्यपि कल्पनात्मकान्येव, कार्यकारणेयोर्युगपत्सम्भवा भावात् / ये तावदसन्निहितास्तेषु न सम्भवति सम्बन्धः /

अपि च, यदा कार्यस्वभावः परिनिष्पन्नः तदा अपेक्षाविरहान्नैव तस्य कूत्रचिन्निर्भरत्वम् / अतो नास्ति तस्य केनापि सह सम्बन्धः / अपरिनिष्पन्ने ऽपि तस्मिन् कारणेन सह सम्बन्धकाले विदूरे स्थितत्वादसम्बद्धमेव तत् स्यादिति / अतः कल्पनयैव भवन्तो वस्तुप्रयोगमनुतिष्ठन्तीति /

कार्यानपेक्षितत्वे ऽपि स्वहेतोर्हि प्रसिद्धितः / तदन्यापेक्षया सिद्धेरभावात् कल्पना पुनः / हेतुं बध्नाति कार्येण कार्यं न, तच्च कीदृशम् //

तदात्मकलक्षणसम्बन्धो ऽपि नैव समीचीनः, द्वयाश्रितत्वात्तस्य / तदात्मकत्वे द्वैतं नैवोपपद्यते / द्वयाभावे कः केन सम्बध्येत सम्बन्धी / अतः कल्पनारचितमूर्तित्वात् सर्वेषां सम्बन्धानाम्, अभावे चैवानुपहतप्रवृत्तेर्हेतोरसिद्धिरेव स्यात् / असम्बद्धत्वे सति अभेदाभावात् कथं तादृशी यक्तिः, प्रयुज्यते / अभेदे सति तदात्मक एव सम्बन्ध इति निर्देशः स्यात् /

वस्तुमात्र एव तादात्म्यसम्बन्धः, न त्वन्यत्रेति चेत्? अयुक्तमेतद्, अभिन्नपर्यायत्वात्तादात्म्यस्य / स तु निःस्वभावस्यापि नैरात्म्यसदृशत्वादविरुद्ध एव / यद्येवं न स्यात्तदा ऽअभिन्नत्वाद्ऽ इत्यपि वक्तुं न पर्येत / तत्र ऽअभिन्नत्वद्ऽ इत्ययं हेतुर्यदि परमार्थाधिकारेणोच्येत तदा अनेकान्तिक एव, यतो हि कृतकत्वानित्यत्वे यद्यपि परमार्थतो नैव भिन्ने तथापि बोध्यबोधकवस्तुषु तावत् ते दृश्येते /

यदि व्यवहारे ऽपि तयोर्नास्ति भिन्नत्वमित्युच्येत तदा असिद्धमेव, निवृत्तिविशेषोपकल्पिताया भिन्नतायास्तत्र सद्भावात् / एवमेव शब्दादिधर्मिणि यदा अकृतकत्वादितो निवृत्तिर्निश्चीयते तदा नित्यादितो ऽपि निर्वृत्तेर्निश्चयनात् परमार्थतो भिन्नताया अभावे ऽपि निवृत्तिविशेषापेक्षया कृतकत्वानित्यत्वादीनां भिन्नव्यवस्थाया उपकल्पनाद् बोध्यबोधकवस्तुव्यवस्था तावत् क्रियत एव / इत्थं यदा वस्तूनि सामर्थ्यतः प्रतिम्बिवद् एकानेकस्वभावविनिवृत्तानि भवन्ति तदा परमार्थस्वभावतो ऽपि तेषां निवृत्तिर्नियतैव / अतो निवृत्तिविशेसापेक्षया कृतकत्वं भिन्नं व्यवस्थाप्यते, अत एव च तत्र बोध्यबोधकभावो ऽपि सम्भवत्येव / पुनश्च, यथा नित्यं ताव्द् वस्तु अर्थक्रियासामर्थ्यविरहाद् वस्तुस्वभावेन रहितं साध्यते, तथैव अन्यत्रापि तत्सदृशत्वान्न विरुध्यते /

[41] यदपि अतद्व्यावृत्तिविशेषेणानयोः कृतकत्वं तद् वस्तु स्यात् नीलपीतादिवत्तस्वभावत्वादिति कथनं तावदसम्बद्धमेव, कृतकत्वानित्यत्वाभ्यामनियतत्वात् / कृतकत्वानित्यत्वयोर्भेदो व्यावृत्त्योच्यते, किन्त्वेतावता न तद् वस्तु / यथा नित्यवस्तुनिषेधाय अर्थक्रियासामार्थ्यरहितत्वं निःस्वभावत्वं च व्यावृत्तिकृतविशेषे सत्यपि नैव वस्तु, तथैवान्यदपि तत्सदृशमिति ज्ञेयम्, अतो गौणमेवेदम् / यत्खलु नीलात्मकं पीतात्मकमिति निदर्शनं तदपि परमार्थे तावद् वस्तुन्यसिद्धत्वादयुक्तम् / ये ऽस्मिन् असत्पक्षत्वेन दोषमारोपयन्ति, तदपि नैव युक्तियुक्तम् / यतो हि नयो ऽयमसन्निति कथनमात्रेण तावत् परमार्थे वस्तुनि न किमपि सिद्धं भावति, अमूर्तादिशब्दप्रयोगे ऽपि कल्प्यमानमाकाशं तावदसत्त्वान्नैव युक्तम् /

तत्र बुद्धौ प्रतिभासमानो यो हि पूर्वोदितो धर्मी, सो ऽपि असता तावन्नयेन [असत्पक्षेण] तथोक्तः, किन्तु परमार्थे वस्तुनि स नैव युक्तरूपः / वस्तुसदिति व्यवहरतां कथनमिदं सिद्धसाधनमिति स्यात्, एकानेकस्वभावरहितं खलु परमार्थं वस्तु नैव किञ्चित्, तस्य कल्पनाविषयत्वेनापि बहिर्भूत्वादिति / सर्वे खलु पदार्थाः एकानेकस्वभावाभ्यां व्याप्ता इति तु पूर्वमेव प्रसाधितम् / मायादिभिरव्यतिरिक्ताः परमार्थतो निःस्वभावा हि भावास्ते यदि ऽवस्तुऽ नाम्ना व्यवह्रियेरन्, तदा नास्ति कश्चनापि दोषः, भवत्कल्पितपक्षहान्या तावत्तस्य दूषितत्वात् / अतो नास्ति हेतुरनैकान्तिकः / नास्ति विरुद्धख्यो ऽपि [दोषः], प्रतिबिम्बादिसपक्षेषु सत्त्वात् / एकानेकस्वभावानि प्रतिबिम्बादिवस्तूनि नैव परमार्थतो युकानि, ज्ञानज्ञेयादिस्वभावेन परमार्थतो ऽसिद्धत्वादिति पूर्वमेवोक्तम् / [42] एवं यथा एकानेकस्वभावलक्षणो हेतुस्तावन्नैरात्म्यं साधयति तद्वदभावधर्मिनि धर्मिव्यावृत्तिसाधकत्वाद् विरुद्धो ऽयं हेतुरिति यदुक्तं तत्तु अत्यन्तं प्रमाणानभिज्ञतामात्रमेव / यदा वस्तुस्वभावो धर्मी साधयितुमिष्यते, तदा तद्व्यावृत्तिसाधकत्वेन स हेतुर्विरुद्ध इत्युच्यते, किन्तु यदा स [धर्मी] निःस्वभावत्वेन साध्यते तदा सिद्धे ऽपि वादिनो मते कथं तावद् विरुद्धो हेतुर्भविष्यति / निःस्वभावतायां हि साधयितुमिष्टायां वस्तुस्वभावो धर्मी नैव सम्भवति, अननुरूपत्वादिति पूर्वमेवोदितम् / अतः साध्यसाधनाभ्यां यथोक्तो धर्मी अवस्तुभूत एव सम्मत् इत्यस्मात् कारणात् तेन हेतुना तावद् व्यावृत्तिरेव साधयते / वस्तुस्वभावसिद्धौ तु तद्विपरीतस्यैव सिद्धिः स्यात् /

यथायं हेतुर्नैरात्म्यं साधयति तथैव अभावधर्म्यपीति केषाञ्चित् कथनमसम्बद्धमेव / यतो हि येन कारणेन तावन्नैरात्म्यस्य अभावस्य च द्वयोर्धर्मयोर्विरुद्धहेतुभ्यां सिद्धिरुच्यते, तौ व्यावृत्त्यापि नैव भिन्नौ, पर्यायस्वभावत्वात्तयोः / फलतो निरात्मकमिदं नैरात्म्यादिति कथनमिव स्यात् / एवंविधं तवदभिधानकौशलं कस्य स्यात्?[न कस्यापीत्यर्थः] / अतः सर्वे निःस्वभावाः सिध्यन्ति / हेतुरपि भगवतौवोक्तः, तथा हि -

यथा हि दर्पणे रूपमेकत्वान्यत्ववर्जितम् / दृशयते न च तन्नास्ति तथा चोत्पादलक्षणम् //

फलतो निःस्वभावतासाधनार्थं न को ऽपि हेतुरिति यत्कथनम्, तस्याप्युत्तरं दत्तपूर्वमेव /

[43-44] यदि विज्ञानमपि इतरधर्माणामिव निःस्वभावमेव स्यात्तदा मिथ्यात्वाद् योगिभिरन्यधर्माणामिव तस्यापि परित्यागः करिष्यत एव / यद्येवं करिष्यते तदा न को ऽपि योगिनो भविष्यन्ति, न च तेषां तत्त्वज्ञानं भवैष्यति, नापि भगवतां बुद्धानामप्रतिष्ठितनिर्वाणं नैव च तेषां तत्त्वज्ञानं भविष्यति / अनेन खलु हेतुना सर्वासां व्यवस्थानां विलोप एव स्यादिति यत्कथनं तदपि नैव युक्तम्, यतो हि प्रसङ्गस्तावदयं यदि सत्याभिनिवेशपरित्यागार्थमुच्यते तदा सहर्षमुच्यताम्, किन्तु तथाभ्युपगम्य नैव प्रसङ्गः प्रयुक्तः, तल्लक्षणस्यैवनभ्युपगमात् / यदि सर्वविधप्रसङ्गपरित्यागार्थं तावदुच्यते, तदा हेतुरयमनैकान्तिकः साध्यविपरीतबाधकप्रमाणाभावात् / यन्मिथ्या तत् सर्वथा परित्याज्यमित्येतस्य नैव किमपि कारणमुपलभामहे, मिथ्यात्वे ऽपि प्रयोजनवशान्यमायाकार इव मायादर्शनवत् / ये हि मिथ्या स्वपरार्थं नैवोपयुज्यन्ते, ते योगिभिः परित्याज्या इति कथनं तु युज्यते, परन्तु ये तवत् साक्षात् परम्परया वा स्वपरप्रयोजनप्रसाधकाः, कृपालूनां परहितकरणोपायभूतास्तेषां कथं सर्वदा परित्यागः कर्तुम् शक्यते /

अतो ये क्षेत्रपरिशुद्धिनिर्माणकायादयस्ते परार्थमत्यन्तमावश्यकाः, ते सर्वे विपरीतपरिहारद्वारा परित्याज्या अपि यावत्संसारमपरित्याज्या एव / ते यद्यपि मायाकार इव सर्वान् मिथ्याभूतान् जानन्ति, तथापि परहितोपायभूतान् तान् न परित्यजन्ति / नास्ति तेषु विपर्यभूता आसक्तिरपि, सम्यग्रूपेण तेषां यथाभूतपरिज्ञानात् / यथोक्तम् आर्यधर्मसङ्गीतौ ः

मायाकारो यथा कश्चिन्निर्मितं मोक्षमुद्यतः / न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतो ऽस्य सः //

त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारगः / संनह्यते जगद्धेतोर्ज्ञातपूर्वं जगत् तथा //

भावो ऽपि तावन्न ग्राह्यो न चाभावो ऽपि परित्याज्यः, यतो हि श्रावका अपि, ये वस्तुसंज्ञिनस्ते ऽपिओ आदिमं सत्यद्वयं विवर्जयन्ति, तृतीयं चार्यसत्यमभावभूतमपि परिगृह्णन्ति / कृपापराधीनचेतसो योगिनो ऽपि परहितार्थं विविधरूपेण गजादिमिथ्यानिर्माणादिकं साधयन्ति /

तत्र महाकरुणापराधीनतया ये परेषाम् अशेषहितसुखोपायशालिनः प्रज्ञालोकेन विध्वस्तसकलक्लेशान्धकाराः परहिताभिलाषिणो मतिमन्तस्ते प्रहीणेष्वपि सकलविपर्यासेषु पूर्वप्रणिधानवशतया यावत् सत्त्वकर्मक्लेशास्तावदाकाशपर्यन्तं स्थातुमेवाभिलषन्ते / इत्थं समेषां वस्तूनां परमार्थतो निःस्वभावत्वे ऽपि हेतुप्रत्ययसामग्रीपारतन्त्र्येन मायावत् सम्भवन्त्येव / हेतुमन्तस्ते न भवन्ति वस्तुसन्तः, अन्वयासिद्धत्वान्मायादिना भ्रन्तत्वाच्च / मिथ्याभूता हि ये स्वानुरूपहेतुमन्तस्तावन्नैव भवन्ति, ते व्यवहारे ऽप्यसन्त एवेति पूर्वमेवावेदितम् / अतो यथा मायादयः स्वहेतुसाकल्यपरतन्त्रतया प्रादुर्भवन्ति, तथैव यगिनां ज्ञानादयो ऽप्यविचाररमणीया एव /

तत्र योगिज्ञानादिमायाहेतुस्तावद् यथावत् पुण्यज्ञानसम्भारानुकूल एव / संक्षेपतो भगवताम् अप्रतिस्ठितनिर्वाणहेतुस्तु करुना प्रज्ञा च / कृपया हि तन्निर्वाणावबोधे ऽपि ते नैव तस्य साक्षात्कारं कुर्वन्ति / प्रज्ञया तावत् सर्वसंक्लेशहेतोः सम्मोहस्यानवकाशात् संसारदोषगन्धेनाप्यलिप्ताः सन्तो नैव संसारे पतन्ति / अतस्ते नैवानयोर्द्वयोः [संसरनिर्वाणयोः] तिष्ठन्ति / अतः प्रज्ञोपाययुग्नद्धचर्या तावदप्रतिष्ठितनिर्वाणहेतुः / अत एव च सा बोधसत्त्वानां मार्ग उच्यते / तया विरहिताः सत्त्वास्तु श्रावकादिभूमिसु पतन्ति / यथोक्तम्..........

"अपि च, शारिपुत्र, शून्यतानिमित्तं च बोधिसत्त्वानां मार्गः / ये तावत् प्रज्ञापारमितया विरहिताः, उपायकौशल्येन चापरिगृहीतास्ते यदि भूतकोटिं साक्षात्कुर्वन्ति, तदा नूनं श्रावकाः प्रत्येकबुद्धा एव भवन्ति /"

प्रभास्वरादिज्ञानेन लोको यथावत् समनुपश्यति / तद्यथा - अचिन्त्यसामर्थ्यवत्त्वाद् योगिनो यथा वस्तून्यवभासन्ते तथा करतलामलकवत् संवृतिपरमार्थाकाराभ्यां सर्वाकारं

प्रत्यक्षतया अवबुध्यन्ति / अत एव भगवान् सर्वाकारज्ञानत्वेन व्यवस्थापयामास / सर्वप्रपञ्चरहितं निरुत्तरं लोकोत्तरमशेसधर्मनिराभासं ज्ञानं भूतार्थभावनाप्रकर्षपर्यन्तजं तत्त्वावबोधकं भवति, [तथापि] व्यवहारे सर्वं निर्माणवत् सदेव भवति / अतो यथा सर्वाकारज्ञानादौ वस्तुव्यवस्था कृता, सा न प्रणश्यति, परमार्थे ऽभावात् / अत एव भगवत्यामुत्तम् - ऽयदि भगवन्, सर्वे धर्मा निर्माणनिव भवन्ति तदा भगवति निर्वाणे च किमन्तरम्? भगवान् आह - न किमपीति / कथम्? भगवतः सर्वाणि कर्माणि निर्माणवद् भवन्ति / परिनिर्वृते ऽपि भावति तथागतो निर्मणं करोति / निर्मणस्य तावन्नोद्भवो नापि परिनिर्वाणं किमपि भवति / इत्थं बोधिसत्त्वैः सर्वधर्मेषु निर्माणमिवाधिमुक्तिं विधाय प्रज्ञापारमितायामाचरितव्यम् / "इत्येतत् प्रतिपादितम् /

[45] ये हि रूपादयो भिन्नदेशकालावस्थासु स्पष्टं प्रत्यक्षेणावभासन्ते ते निश्चयेन स्वभावेन युक्ता इत्यतः प्रतिज्ञा तावत् प्रत्यक्षेण बाधितेति यत् पूर्वमुक्तम्, तन्न सर्वथा समीचीनमिति चेन्न, यतो हि भिन्नदेशकालावस्थास्ववभासितत्वमात्रेण प्रत्यक्षावभासो नैव युक्तः, स्वप्नाद्यवस्थास्वपि तथावभासितत्वात् / वस्तूनं खलु परमार्थस्वभावतया साधयितुमिष्यन्ते, किन्तु नैव स्वभावः परमार्थतया सिद्ध इति पूर्वमावेदितम् /

अपि च, यदि भ्रान्तप्रत्यक्षे ऽवभासितत्वत् प्रत्यक्षे ऽवभासितत्वमभ्युओपगम्यते तदा नैव तेन बाधा युज्यते, तिमिराद्युपहतलोचनेषु विद्यमाने ऽपि द्विचन्द्रे न तेन एकचन्द्रादिबाधा युक्तिमती / यद्यभ्रान्तप्रत्यक्षे ऽवभासितत्वेन त्था [बाधा] अभ्युपेयते तदा तन्नैव सिध्यति, अर्वाग्दर्शिनां प्रत्यक्षस्य तत्त्वार्थे ऽभ्रान्तत्वाभावात् /

न चक्षुः प्रमाणं न श्रोत्र घ्राणं न जिह्ण प्रमाणं न कायचित्तम् / प्रमाण यद्येत भवेयुरिन्द्रिया कस्यार्यमार्गेण भवेत कार्यम् //

यस्मादिमे इन्द्रिय अप्रमाणा जडाः स्वभावेन अव्याकृताश्च / तस्माद् य निर्वाणपथैव अर्थिकः स आर्यमार्गेण करोतु कर्यम् //

अतस्तथागतस्यैव कवलं प्रत्यक्षं परमार्थे ऽभ्रान्तम् / ते नैव किमपि वस्तु सत्त्वेनालम्बन्ते / यथोक्तम् -

"सुभूते, मोहपुरुषास्तावन्नेत्ररहिता अन्धा एव / ते रूपवेदनासंज्ञासंस्कारविज्ञानत आरभ्य सर्वाकारज्ञानपर्यन्तं तथागतचक्षुषा अनुपलब्धेषु सर्वधर्मेषु सत्त्वेनाभिनिविशन्ते ".......इति वस्तरः /

प्रतिज्ञाया अनुमानेनाभास इति यदुक्तं तदपि नैव युज्यते, यतो हि नानुमानेन किमपि वस्तु स्वभावतः सिध्यति, प्रमाणबाधितत्वात्तस्येत्युक्तपूर्वम् /

[46] धूमादिहेतुभिर्यो हि अग्न्यादीनां लोके निश्चयः, सो ऽपि तावदग्निर्नैव सद्विषयः, स्वप्ने ऽपि तथाविधस्य निश्चयस्य सम्भवादिति / धूमाग्न्योः सत्त्वनिषेधस्तावत् कृतपूर्व एव / अतो नास्ति किमपि / सांवृतिकं हि वस्तु मायावद् हेतुप्रत्ययसापेक्षम् / अतो नास्ति तेन सह कादाचित्कत्वविरोधः / ये तावदहेतुकोत्पादमभ्युपगच्छन्ति, तेषामेव कादाचित्कत्वविरोधः, न तु सहेतुकोत्पादमभ्युपगच्छताम् / कादाचित्कत्वमपि तावदसिद्धमेव, परमार्थतो ऽनुत्पादात् /

[47-51] यच्च त्रायस्त्रिंशनगरादिकमुक्तम्, तदप्यविरुद्धमेव, व्यवहारे सत्त्वात् / वस्तूनां कूर्मरोमादिवदभावस्वभावत्वं यदि नैव प्रतिज्ञायते, तदा कथमिति चेत्? मायास्वप्नादिवदिति ब्रूमः / तथागतेनाप्युक्तम् -

महामते, सर्वे धर्मा निःस्वभावा इत्यपि बोधिसत्त्वैर्नैव प्रतिज्ञा कार्या / तदा किमिति चेत्? आभासनिराभासलक्षनत्वाद् बोधिसत्त्वैः सर्वे धर्मा मायास्वप्नादिवन्निर्देष्टव्याः /

व्यवहारे तावद् [वस्तूनम्] आभासलक्षणम्, परमार्थे तु निराभासलक्षणमिति सूत्रेआर्थो ऽभिव्यज्यते / तदपि -

सर्वं विद्यति संवृत्या परमार्थे न विद्यते / धर्माणां निःस्वभावत्वं परमार्थे ऽपि दृश्यते //

अतः ऽसर्वे धर्मा व्यवहरमात्राश्रिताःऽ, इत्यस्मिन् भगवन्निर्देशे नास्ति कश्चन विरोधः / भगवत्यामप्युक्तम् -

ऽबोधिसत्त्वा महासत्वास्तावल्लोक्कल्पनया अनुत्तरसम्यक्संबोधौ अभिसम्भोत्स्यन्ते / परमार्थतस्तु बोध्यर्थमनुष्ठीयमानानि रूपं वेदना संज्ञा, संस्काराः विज्ञानानि कान्यपि न सन्त्येव / एवमेव अष्टादश धातवः, षट् स्पर्शाः, षड् वेदनाः, षड् धातवः द्वादश प्रतीत्यसमुत्पादाङ्गानि, पारमिता, शून्यता, स्मृत्युपस्थानानि, सम्यक् प्रहाणानि ऋद्धिपादाः, इन्द्रियाणि, बलानि, बोध्यङ्गानि, आर्याष्टाङ्गिकमार्गाः, सत्यानि, ध्यानानि, अपरिमाणानि, अरूपाणि, विमुक्तिद्वाराणि, अनुपूर्वसमापत्तयः, अभिज्ञाः, समाधयः, धारणीद्वाराणि, तथागतबलानि, प्रतिसंविदः, महाकृपा, आवेणिकबुद्धधर्माः, चत्वापि फलानि, मार्गज्ञानानि, अनुत्तरसम्यक्संबोधिरपि नैव स्वभावतः सत्त्वेन सिध्यन्ति / सर्वेषामेतेषां धर्माणां लोकव्यवहाराश्रयेन कल्पितत्वात्, न त्वेतेषां परमार्थतः सत्त्वम्ऽ - इति निर्देशः /

रूपत आरभ्य सर्वाकारज्ञानपर्यन्तं ये तावद् धर्मास्तेषां न स्तः संयोगवियोगावपि / यतो हि रूपं अदर्श्नम् अप्रतिघम् अलक्षणमेव असत्त्वात् / सत्त्वानां ग्रहणार्थं ते केवलं तथागतेन लोकव्यवहारार्थं कथिताः, न तु परमार्थतः / लोकसंवृतौ ये पिनः प्राप्तिरभिसमयः पञ्चगतिभेदास्ते ऽपि पूर्वत एव परमार्थतो न सन्ति / परमार्थे तु कर्मापि नास्ति कर्मफलमपि, संक्लेशो नास्ति, नास्ति व्यवदानमपि / न स्त उत्पादनिरोधावपीत्युक्तम् / परमार्थतस्तावद् भगवान् सर्वत्र संक्लेशव्यवदानयोर्निषेधं कृतवान्, तथापि व्यवहारे तान् अङ्गीकृतवान् / तेषां तावदनिषेधेन स्वीकरणे ऽपि नास्ति[कश्चन] दोषः / अन्यत्र भगवान् स्पप्ने सर्पं दृष्ट्वा मूर्च्छा तदभावे संक्लेशं व्यवदानं च मिथ्यैवेति कथितवान् /

[52] नास्ति चतुर्यसत्यापवाददोषो ऽपि, यतो हि महायानान्दन्यत्र भगवान् तेषां [आर्यसत्यानां] उपदेशं कृतवान् / ब्रह्मप्रिपृच्छासूत्रे तावदुक्तम् -

"यदुत दुःखं समुदयो निरोधो मार्गधो मार्गश्चेति नैव सन्त्यार्याणां सत्यानि, किन्तु ब्रह्मान्, यदनिष्पन्नं दुःखम्, तदेवार्याणां सत्यम् / यो द्यनुत्पन्नः, स एवार्याणां समुदयः / यश्चानिरोधो ऽनुत्पन्नश्च स एवार्याणां सत्यम् / सर्वधर्माणामद्वयसमतायां या खलु मार्गभावना, सैवार्याणां सत्यमिति / अतो नास्ति परमार्थतो दुःखसत्यम् / तत्तु श्रावकानधिकृत्य संसारोद्विग्नमानसानां कृते पुद्गलनैरात्म्यप्रवेशार्यं तावदनित्यादिस्वभावत्वेन केवलं निर्दिष्टम्, न तु नैरात्म्यद्वयनिर्देशाधिकारेणेति ज्ञातव्यम्" /

[53] यश्च तावज्जन्यजनकस्वभावो जनेष्वागोपालं प्रसिद्धस्तेन प्रसिद्धिविरोधदोषो ऽपीति यदुक्तं तदप्यसम्बद्धमेव, परमार्थस्वभावादीनां सामान्यजनेष्वप्रसिद्धत्वात् / यदि प्रसिद्धस्तदा ते नैव सन्ति साधारणजनाः / स्वप्नादिवन्मिथ्यास्वभावस्यापि प्रसिद्धिर्नैव सुसम्भवा / प्रसिद्धिस्तावत् प्रत्यक्षाणुमानाभ्यातिरिक्तत्वेन नैव प्रमाणमिति / सा प्रमाणान्तर्गवेति चेत्? तदा तद्विरोधपरिहारेण तद्बाधाया अपि परिहारः कृत एव /

[54] यच्चावश्यं परोत्पत्त्यर्थं हेतुप्रयोगाभिलाषेण ततो ऽवश्यमुत्पत्त्यभ्युपगमात् स्ववचनविरोध इत्युक्तम्, तदप्यविरुद्धमेव, नियतोत्पत्त्यर्थं हेतुप्रयोगान्नैव ततः परमार्थतो नियतोत्पत्तिरभ्युपगता भवति / तत्किमिति चेत्? उत्पत्तिमात्रम्, नोत्पत्तिविशेषः / परमार्थत उत्पत्तिनिषेधेनात्र वस्तूनां निःस्वभावतैव परमार्थतः साधयितुमिष्यते, न तूत्पत्तिमात्रनिषेधः / अतो यद्यपि हेतुभ्यो नियततया पारमार्थिकी उत्पत्तिर्नैव भवति, तथापि बिम्बात् प्रतिबिम्बवत् सांवृतिकी उत्पत्तिस्तावदविरुद्धैव / अतो नास्ति प्रतिज्ञायाः स्ववचनविरोधः /

[55] यच्च भगवता - "चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलम्" - इत्युक्तम्, तदपि इन्द्रियविषयव्यवहारमभ्युपेत्यैवक्तमिति / अन्यत्र तु - "न चक्षुः प्रमाणं न श्रोत्र घ्राणम्" इत्यादिना षडिन्द्रियाणां प्रमाणत्वं प्रतिषिद्धमेवेति पूर्वमेव निर्दिष्टम् /

आर्यप्रज्ञापारमितादिष्वपि रुपादिविषयाणां प्रतिषेधो विहित एव / लोकसंवृतौ तु सर्व [धर्माः] संविद्यन्त एवेत्येवंविधं भगवान् स्वाभिप्रयं सुस्पष्टं प्रकटितवान् / उपलम्भवतां तावन्नास्ति सुविधुद्धा प्रज्ञापारमितेत्यप्युक्तवान् / उपलम्भानुपलम्भयोर्बोधिसत्त्वेभ्यो हेयोपादेयत्वमपि [क्रमशः] निर्दिश्यत एव / भगवत्यामप्युक्तम् - कियता भगवन्, उपलम्भः, कियता च तावदनुपलम्भो भवतीति? भगवान् आह - यावद् द्वयता तावदुपलम्भः, यदद्वयं तदेवानुपलम्भः / अपृच्छात् - कियता भगवन् द्वयता? भगवान् आह - यावत् सूभूते, नाम रूपं श्रोत्रं घ्राणम् इत्यत् आरभ्य यावद् बुद्धत्वम् अनुत्तरसम्यक्संबोधिः बुद्ध इति तावद् द्वतेत्युपदिदेश / पुनश्च, यावद् द्वयसंज्ञा, नैव तावदानुलोमिकी क्षान्तिरित्यप्युक्तवान् / आर्यधर्मसंगीतौ ऽपि - सर्वधर्मा नैवोपलभ्यन्ते, तेषामदर्शनादित्युक्तम् / अतो व्यावहारिकचक्षुरादीनाभिसन्धाय द्रष्टृत्वतो ज्ञातृत्वपर्यन्तमात्मप्रसिद्धेस्तद्दृष्टिनिषेधार्यं पुद्गलनैरात्म्यप्रवेशाभिप्रायेण चक्षुरादीनां निर्देशः कृतः / अत एव चानाभासिन आकाशेत्पलस्य नीलत्वादिवदिमे नीलादिरूपाणां ये सांवृतिका आभासास्ते ऽपि न सन्त्यत्यन्ताभावरूपाः /

[56] ऽयत् किञ्चित् समुदयधर्मकं तत् सर्वं निरोधधर्मकम्ऽ इत्यमुनानुमानेन सम्यक्तया क्षणिकत्वेन स्थितस्य वस्तुधर्मिणः सिद्धिर्निनिर्दष्टेति यदुक्तं तदप्युत्पादविनाशधर्मिणो ज्ञानेन नैरात्म्यप्रवेशार्थं श्रावकानधिकृत्य पुद्गलनैरात्म्यमभिप्रेत्य चोक्तम्, न तु बोधिसत्त्वानामधिकारेण गम्भीरतत्त्वालापमपेक्ष्य प्रोक्तमिति / यतो हि भगवता संस्काराणामुत्पादविनाशस्वभावस्य सम्यगनुदर्शनं तदुद्देशं च प्रज्ञापारमितायामिव निर्मितसदृशमित्युक्तम् / संस्कारासंस्कारकोटिद्वययोगस्तावदनुत्तरसम्यक्संबोधेरुपाय इत्युपदिष्टः / आर्यधर्मसंगीतौ हि तथागतेन भयस्थानस्य परिहारार्थं व्यवहारे चोत्पादनिरोधौ तावदुक्तौ /

आर्चार्येणाप्युक्तम् -

उत्पादव्ययकर्मणाभिप्रायार्थः प्रदर्शितः /

पुनश्च,

यथा मया यथा स्वप्नो गन्धर्वनगरं यथा / तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहतम् //

अपि च, आर्यसागरनागराजपरिपृच्छासूत्रे ऽपि -

आदावन्ते हि शून्यत्वं जातिर्भङ्गस्तथा स्थितिः / सर्वे धर्माः स्वभावेन शून्या नासन्न सत् पुनः //

इत्यादिकमुदाहतम् /

यच्च तावत् संस्काराणां क्षणिकत्वम्, तदपि नैवोपपन्नमिति निर्दिष्टम् / आर्यसुबाहुपरिपृच्छासूत्रे चोक्तम् -

"यदुत त्रयाणामतीतानागतप्रत्युत्पन्नानां कालानां परिज्ञानं जायते / तत्रातीताः संस्कराः, ये तावन्निरुद्धास्ते भूतकाल इत्युच्युन्ते / ये ह्यनागता अनुत्पनास्ते भविष्यकाल इति / ये च प्रत्युत्पन्ने पृथगुत्पन्नास्ते वर्तमानकाल इत्युभिधीयन्ते / वर्तमानकालोत्पन्नानि स्कन्धधात्वायतनानि न स्थितानि नाप्यस्थितानीति परिज्ञायन्ते / कथमिति चेत्? लोको ऽयं क्षणमात्रमपि नावतिष्ठति / ये तावत् क्षणिकास्तेषामुत्पदो ऽप्यन्यः, स्थितिरप्यन्या, व्ययो ऽप्यन्यो भवती, तेषां क्षणिकत्वात् स्थितास्थितत्वाभावाच्च /" इत्यादिकमभिहितम्

अतश्च क्षणिकता तावत् कल्पनास्वभावात्मिकैव, तदादिमध्यान्तानां भिन्नस्वभाअत्वादित्युपदिदेश / तथैवाचार्येणाप्युक्तम् -

यथान्तो ऽस्ति क्षणस्यैवमादिर्मध्यं च कल्प्यताम् / त्रयात्मकत्वात् क्षणस्यैवं न लोकस्य क्षणं स्थितिः //

[57] यच्च भगवता "धूमेन ज्ञायते वह्निः" इत्यदिकमुक्तम्, तदपि सूत्रान्तरेषु सकलसामग्रीसमवधानात् समुत्पद्यमानानामग्निधूमादीनां सामान्येन निषेधपरकमेव / अतो नैव तत् परमार्थमधिकृत्योक्तमिति निर्दिष्टमेव पूर्वम् /

आर्यलङ्कावतारे ऽप्युक्तम् -

समवायाद् विनिर्मुक्तो बुद्धया भावो न गृह्यते / तस्माच्छून्यमनुत्पन्नं निःस्वभावं वदाम्यहम् //

अन्यच्च तत्रैव -

एकत्वं वा ह्यनेकत्वं यथा बार्लैर्विकल्प्यते / समवायात् पृथङ् नास्ति न चान्यस्य पृथक् स्थितिः //

आर्यघनव्यूहसूत्रे चोक्तम् -

न स्कन्धा धातवो नैव सर्वे धर्मा अलक्षणाः / चिन्त्यमानो ऽपि नैवास्ति परमाणुस्तथा स्थितः //

पुनश्च,

पृथिव्यबादिवस्तूनि कल्पितानि सुकल्पकैः /

अपि च,

विचारे सति नैवास्ति परमाणोश्च वस्तुता /

इत्याद्यक्तम् /

अतः पृथिव्यादीनां कल्पितस्वभावत्वात् तत्स्वभावसंगृहीतास्तावदग्निधूमादयो ऽपि कल्पितस्वभावा एव / अतो ऽग्निधूमादीनां कल्पनाकल्पितस्वभावत्वेन निर्देशः संवृतिमत्रात्मक एव, न तु परमार्थात्मकः /

[58] अभिधर्मादौ यः खलु हेतुप्रत्ययादीनां निर्देशः, सो ऽपि संवृतिरेव, न तु पारमार्थिकः / परमार्थस्तु यदा न कस्यचनोत्पादस्तदाहेतुकत्वं तावदनुपपन्नमेवेति पूर्वमेव निर्दिष्टम् / यतावत् स्कन्धादीनां निर्देशः, सो ऽपि व्यवहारसत्याश्रित एवेत्यपि पूर्वमेव निर्दिष्टम् /

[59-60] आर्यधर्मसंगीतौ तवदुक्तम् - बोधिसत्त्वेन तथागतार्हत्सम्यक्संबुद्धानां यो व्यावहारिकत्वेन निर्देशः कृतः, स खलु दशाध बोदितव्यः / कथं दशधा? तद्यथास्कन्धनिर्देशः धातुनिर्देशः, आयतननिर्देशः, सत्त्वनिर्देशः कर्मनिर्देशः, जातिनिर्देशः, जरानिर्देशः, मरणनिर्देशः प्रतिसन्धिनिर्देशस्तथैवैतेषामुपशमार्थं निर्वाणनिर्देश इति / सर्व ऽपीमे व्यवहारमात्रत्वेन निर्दिष्टा इति तत्रोक्तम् / स्वपरमतस्थितैस्तत्त्वार्थत्वेनोपकल्पितानां स्कन्धादीनां परमार्थतो ऽनुत्पन्नत्वेन साधनात् सिद्धसाधनमेव /

[61] यच्च तदा वस्त्वेव स्वीकृतं स्यादित्युक्तं तत्पूर्वं कृतोत्तरमेव /

[62-64] का नाम संवृतिर्यदि सर्वमेवासदिति यदुक्तं तदपि नैव युक्तिसंङ्गतम्, परस्परविरोधात् / संवृतिर्हि नास्ति शशशृङ्गवदभावस्वभावा / तदा कथमिति चेत्? यच्च सम्यङ् निःस्वभावं वस्तु तस्य तन्निवृत्तकारे या समारोपिका भ्रान्तबुद्धिः, सैव संवृतिरिति / अथवा यया तत्त्वमाव्रियते [यया वा तत्त्वबोधः] बाध्यते, सा संवृतिरिति / सूत्रे ऽपि तवदुतम् -

भावा विद्यन्ति संवृत्या परमार्थे न भावकाः / निःस्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत् //

तन्निर्वृतत्वात्तदुपदर्शितं सर्वं खलु वस्तु संवृतिमात्रमेवेत्युक्तम् / साप्यनादिकलीनभ्रान्तवासनापरिपाकजरूपैव / तया सर्वेषु सत्त्वेषु पारमर्थिकवस्तुस्वभाव इवोपदर्श्यते, अतस्तद्बुद्धयधिकारेन सर्वं हि मिथ्यावस्तु संवृतिसन्मात्रमेवेति / तच्च नैव परमार्थतो वस्तुस्वभावम्, यथाभासमनवस्थितत्वात् / नैव च शशशृङ्गवत् तदत्यन्ताभावस्वभावमपि, अविचारतो रमणीयत्वेनावभासमानत्वात् / यथोक्ता संवृतिस्तावन्नैव वस्तुस्वभावापि, विपरीताकारोपग्राहेणाभासितत्वात् / तत्त्वान्यत्वयोस्तावत् परस्परपरिहारस्थितलक्षणत्वात् तत्त्वान्यत्वविरोध इति पूर्वमेव निर्दिष्टम् /

न च ते अत्यन्तमभावस्वभावे, अवभासमानत्वात् / अतः सर्वं खलु वस्तु सदसत्स्वभावातीतम् / अतो भावमभावं वा स्वभावमाश्रित यत्तावच्चोद्यं तत्सर्वं निराधारमेव / वस्तुन्येव तावद् विधिर्वा प्रतिषेधो वा सम्भवी / विधिप्रतिषेधाभावे त्वसदेव / अत उभयं खल्लसत्स्वभावविरुद्धम्, नैव तदसद्वस्तुनि [सम्भवति] /

कस्यचिदेकस्यापि स्वभावस्य तत्रासिद्धेः उभयासत्स्वभावत्वेन व्यवस्थाप्यते / अतो नास्त्युभयासत्स्वभावे कश्चन विरोधः / अपेक्षाविशेषेण सामर्थ्यासामर्थ्यदिविरोधो ऽपि नैव सम्भवी, असामर्थादिनां परमार्थसत्याश्रितत्वेन सामर्थ्यादीनां च संवृतिसत्याश्रितत्वेन व्यवस्थीयमानत्वात् /

मायापुरुषादिवत् सर्ववस्तुषु भ्रान्ताभ्रान्तज्ञानाभ्यां व्यवस्थापनात् क्र्मशः सत्यद्वयभेदो व्यवस्थाप्यते / मायापुरुषादौ भ्रान्तैर्यथा व्यवस्थीयते, तथा सर्ववस्तुषु मिथ्याकारेन ज्ञानेन यदारोपितं तत् संवृतिसत्यमिति व्यवह्रियते / मायापुरुषादौ अभ्रान्तैर्यथा व्यवस्थीयते तथैव सर्ववस्तुषु यः स्वभावः सम्यक्प्रमाणैः सम्प्रतिपाद्यते, स परमार्थसत्यम् / अतो मायादिव्यवहार इवापेक्षाविशेषेन सत्यद्वयश्रिता इमे सर्वव्यवहारा अविरुद्धा एवेत्यवश्यमभ्युपेतव्यम् /

यद्येवं नास्ति तदा तैमिरिकाद्यालम्बितेषु केशादिषु विज्ञानवादिनां च द्वयाभासेषु किमिवेमानि चोद्यानि न स्युः / इत्थं यदीमे केशादयः परमार्थतो ऽसन्त एव तदा कथमिव ते सद्रूपेणावभासन्ते, कथमिव च देशकालावस्थानां पृथङ् निश्चयः परिगृह्यते / उत्पादानुत्पादादयः सदसती च परस्परमेकस्मिन् नैव युज्यते, यतो हि तत्र यथा केशादिषु द्वयाभासेषु च भ्रान्ताभ्रान्तज्ञानाभ्यां व्यवस्थितस्वभावस्य संवृतिपरमार्थसत्यमाश्रित्य संवृतौ सत्त्वं परमार्थे चासत्त्वं व्यवस्थाप्यते, यथा च तत्रापेक्षाविशेषस्तावदविरुद्ध एव, तथैव सर्ववस्तूनां सादृश्येन नेदं चोद्यं युज्यत एव /

ये च संवृतावुत्पाद इत्यभिदधते, तेषामयमाशयः - येन हेतुना यथोक्तभ्रान्तनां संवृतस्वभावानां वस्तूनां नैव सम्यगुत्पादो जायते तथाप्युत्पत्तिसादृश्यमुपदृश्यते, अतस्तेषां बुद्धिमधिकृत्य संवृतावुत्पादो भवतीत्यभिधीयते / अत एव भगवता चाप्युक्तम् - "भावा विद्यन्ति संवृत्या" इति /

परमार्थतो ऽनुत्पन्नत्वादिकं यदुक्तं तस्यायमर्थः सम्यक् श्रवणचिन्तनभावनोत्पन्नानि सर्वज्ञानान्यविपर्यस्तविषयित्वात्परमानि, तेषामर्थः परमार्थ इति / प्रत्यक्षेण व परम्परया वा कृत भेदा अपि सन्ति / ताभ्यां सर्वाणि वस्तूनि अनुत्पन्नत्वेनैव ज्ञायन्ते / इत्थं परमार्थतो ऽनुत्पद इति सम्यग्ज्ञानेन असिद्धोत्पाद इत्येव वक्ष्यते / अत उभे अपि न स्तो ऽसम्बद्धाभिधाने यद्येवं नास्ति तदा भवद्भिरपि ऽसर्वाणि वस्तूनि परमार्थतो ऽनुत्पन्नानिऽ इत्यादीनामर्थः कथमुपनीयते, कथं वा भवतां सत्यद्वयाश्रितो व्यवहारः प्रवर्तते / यदि नियतं शब्दार्थमतिरिच्य मिथ्यैव परे दूष्यन्ते तदा स्पष्टमसम्बद्धामेवाभिधानं परिलक्ष्यते /

अपरीक्ष्यैव अविकल्पमात्रमित्यादि यदुक्तं तदप्यसम्बद्दमेव, यतो हि चिन्तनोत्पन्नस्य प्रज्ञातत्त्वस्याविपरीतत्वेन नियतचिन्तनगतसम्यक्प्रमाणबलोत्पन्नं तथैव भावनाबलोत्पन्नमपि कल्पितमेवोच्यते, यतो हि तत्त्वार्थप्रत्यक्षस्तावत् सम्यग्विचारहेतुकस्तन्निष्यन्दभूतश्च भवति /

यानि खलु तत्त्वर्थपराङ्मुखनि मिथ्याकारोपगृहीतानि ज्ञानानि, तानि सर्वाणि तद्विपरीतत्वाद् अकल्पितानीत्युच्यन्ते, तानि नैव निर्विकल्पानि, नैव व कल्पनामात्ररहितानि / अतस्तत्प्रसिद्धस्वभावत्वात् सर्वाणि मिथ्याकारस्वभावानि वस्तूनि संवृतिरित्यभिधीयन्ते / फलतो ऽकल्पितत्वे ऽपि न तावन्निर्विकल्पज्ञानम्, न चानुमानप्रसिद्धार्थस्य परिहारः, नैव च वस्तुतत्त्वस्वीकारः / नैवात्र तावदसन्निषेधाभिलाषो ऽपि / इत्थं दूषणमिदं सर्वबालपृथग्जनान् संक्लेशयितुं शब्दप्रयोगमात्रमेव / अतो नैव तद् विदुषां सन्तोषकरमिति /

[65] ऽसंवृतिर्लोकप्रसिद्धाऽ इत्यादिकं यदुक्तं तच्च दोषरहितमेव, सर्वेषां लोकप्रसिधार्थानां संवृतित्वेनाभ्युपगमात् / नापि सर्वे ऽर्थाः सर्वेन्द्रियगोचराः, केनचित् कस्यचिदेव ग्रहणात् / अतः कर्मफलादीनां पृथक्शो नियतव्यवस्था या अत्यन्तपरोक्षा, सा सर्वथा सर्वज्ञज्ञानस्यैव गोचरा, न तु सामान्यज्ञानविषया / केचन शास्त्ररचयितारः प्रसिद्धिमतीत्य कल्पनादिस्वभावत्वेनिपकल्पितं वस्तु मिथ्यासंवृतिसदिति कथयन्ति, तत्तु प्रसिद्धावप्यसदिति / यत्तु प्रतीत्यसमुत्पदानुकूलत्वेन परिकल्पितं तत्तु" नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः" इत्यतः संवृतिसदेवेत्युक्तम् / अतो वस्तूनमनेकत्वे ऽपि प्रणेतृभिर्यद्यप्यनेकस्वभवत्वेन कल्पितानि, तथापि तेषां स्वभावे नैव परस्परविरोधः / [66] यच्च ऽमायार्थः संवृत्यर्थःऽ इत्युक्तं तदप्यसत्यार्थे मायार्थस्य स्वीकाराद् दोषहितमेव, अत्यन्ताभावस्वभावाभावात् / अतो नास्त्यस्मिन् पूर्वोक्तो दोषो ऽपि / नापि चात्र संक्लेश्व्यवदानापवाददोषो ऽपि, तस्य पूर्वं निराकृतत्वात् /

मायार्थस्य मिथ्याज्ञानार्थस्वे ज्ञानवस्तुनि नैव प्रसङ्गः, मिथ्याकारोपगृहीतत्वेनावभासनात्, सत्यासत्ययोः परस्परविरुद्धत्वाच्च / मिथ्यास्वरूपस्यापि सत्यत्वेनावभासे सति नैव ज्ञानं भ्रान्तं स्यात्, तस्मिन्नेकस्वभावो ऽपि नैव युक्तुरूपः, एकस्मिन्नेकस्वभावस्य विरुद्धत्वात् / असत्यस्वभावस्य मिथ्यात्वाद् भ्रान्ते सति नैव ज्ञानं स्यात्, तयोः सर्वात्मना परस्परविरुद्धत्वात्, एकस्मिन्नवयवावयविभावस्यासम्भवाच्च / अतो मिथ्यास्वभावत्वाज्ज्ञानस्वरूपे ऽन्तर्ज्ञेयवादिनां मते महान् विशेषो [भेदः] जायते /

[67] संवृतिः शब्दमात्रात्मिकेत्यादि यदुक्तं तदपि पूर्वपक्षरूपेण स्वमतोपकल्पित्मेव / अतस्तन्नैव युज्यते / सुगतमतेष्वपि जगदिदं शब्दमात्रमेवेत्युक्तम् / यथोक्तम् सूत्रे -

सूत्रे सूत्रे विकल्पोक्तं संज्ञानामान्तरेण च / अभिधनविर्निमुक्तभिधेयं न लक्ष्यते //

ये तावदभिधानं वस्तुभूतम्, अभिधेयं च तदतिरिक्तमिति कल्पयन्ति, तेषामेवं कल्पयतां मतनिषेधार्यमेवाभिधेयं कल्पनायां प्रतिष्ठितमित्युपदर्शितं संज्ञामात्रे प्रतिष्ठितमित्यादिना / संज्ञा तावदत्र कल्पनामात्रात्मिकैव, तस्यामवभास्यमानं नामैवाभिधानम्, अर्थस्त्वभिधेयः /

अतो ऽभिधानादतिरिक्तभिधेयं नास्तीत्युक्तम् /

कल्पनाज्ञाने ऽवभास्यमानमभिधानमत्र नामशब्देनाभिप्रेतं, न तु श्रोत्रविज्ञानविज्ञेयः शब्दः तस्याभिधानत्वाभावात् / एतावन्मात्रत्वे सति रूपदीनां सर्वे विविधाभासा न सेत्स्यन्ति, न च स्कन्धादीनां व्यवस्थापि सेत्स्यति / सूत्रे ऽपि परमार्थसत्यनिर्देशसामर्थ्येन सर्वेषां ज्ञानज्ञेयाभिधानादीनां संवृतिसत्यत्वेन निर्दिष्टत्वान्नैव ते शब्दमात्रत्वेन निर्दिष्टा इति / आर्यसत्यद्वयनिर्देशसूत्रे ऽप्युक्तम् -

"यदुत देवपुत्र, परमार्थस्तावत् सर्वव्यवहारातीतः, यतो हि निर्विशेषः अनुत्पन्नः अनिरुद्धः अभिधानाभिधेयज्ञानज्ञेयादिरहितः स इति /"

एतत्सामर्थ्येन ज्ञानज्ञेयाभिधानदयः सर्वे संवृतिसत्यत्वेनोपदर्शिताः ऽसंवृतिसत्यस्य परमार्थस्वभावनिवृत्तत्वात् / अत एवार्याक्षयमतिनिर्देशसूत्रे ऽप्युक्तम् -

"एतदानुकूल्येन लोकव्यवहारस्तावज्ज्ञानज्ञेयात्मकः अक्षरशब्दैर्निर्दिष्टो ऽभिधानात्मक एव संवृतिसत्यमिति वेदितव्यम्, न तु अभिधानाबिधेयमात्रात्मकमिति" / अन्यथा यत्र चित्तस्य प्रवृत्तिरपि नास्ति, एवंविधः परमार्थः संवृतिसत्यनिवृत्तस्वभाव इति निर्देशो ऽपि कथमुपपन्नः स्यात् / तत्र परमार्थत्वेन निर्दिष्टानामार्थानमवस्तुभूतानां सुभाषितादिविभागो ऽपि नैव सुशक इति चोद्यं तावत् सिद्धसाधनमेव / सर्वे धर्मास्तथातात्वेनैकरसा एव / तथातायां नास्ति कश्चनपि विभागः / अतः सुभाषितदुर्भाषितत्वेन यदि तथतास्वभावो नैव विभागार्हस्तदा नैवायं कश्चनापि दोष इति /

इत्येवं ये ताथागतागमाः प्रत्यक्षपरोक्षतया परमार्तथाभिधायका देहवतां च हितसुखजनकास्ते सुभाषितानीत्युच्यन्ते, तद्विपरीतानि न सुभाषितानीति तेषां भेदः सिध्यति / भवन्मतानुसारं तवन्नाम्नः परिकल्पितस्वभावतयोपादानात् सुभाषितासुभाषितरुपेण कथं व्यवस्था क्रियते? अस्मिन् भवतां यदुत्तरम्, अस्माकमपि तथैवेति गौणमेवैतत् / यत्तावच्छब्दार्थेत्यादिकमुक्तम्, तदपि नैव युज्यते, शब्दार्थयोः संवृतिमात्रत्वाभावात् /

[68] शब्दार्थो ऽप्यस्तीति निर्दिश्यते, यतो हि अभिधेयादिसमस्तवस्तूनि परमार्थतो निःस्वभावत्वेन मायादिवत् परिकल्पितस्वभावानि / यथा अनेके पुरुषाः पुरुषेतिशब्दार्थसामान्याकारस्वभावेन व्यवस्थाप्यन्ते, तथैव परमार्थतो निःस्वभावानि वस्तूनि कथं न व्यवस्थापयितुं शक्यन्ते? विशेषतः केवलं वस्तुस्वभाव एव शब्दार्थसामान्यस्वरूपो भवतीति यदुक्तं तत्र किमपि कारणं नैव पश्यामः / अनादीति यद् विशेषणं नास्ति वस्तुभूतं तस्याप्यसदिति सामान्यव्यवहारो दृश्यते / सुखादीनि स्वसंवेद्यां - नित्त्यादिकं यदुक्तं तदपि नैव युज्यते, तेषां सर्वेषां सुखादीनां संवृत्यन्तर्गतत्वादिति पूर्वं कृत एव निर्देशः / वस्तूनि केवलमनिदर्शनस्वभावानि एव भविष्यन्तीति यदुक्तं तत्रापि नास्ति काचन युक्तिः, केशोण्डुकद्विचन्द्रादिमिथ्यास्वभावानामप्यनिर्वचनीयस्वभावेन दृश्यमानत्वात् / सूत्रे ऽप्यभिधानाभिधेयादयः संवृतिकाः, न तु सत्स्वभावा निर्दिष्टा इति पूर्वमुक्तमेव / अस्य स्त्रोतोभूतं सूत्रं पूर्वं निर्दिष्टमेव / ये केचन परमार्थं यद्यपि प्रसज्यमात्रमित्यभिदधते, [किन्तु] स तथा प्रसज्यमात्रो न भवति / अनिश्चितमेव तस्य लक्षणम् / यतावत् परमार्थे ह्यारोपितस्वभावः स संवृतिरेव स [परमार्थस्तु] सर्वप्रपञ्चातीतः / सूत्रे ऽप्युक्तम् - "मञ्जुश्रीः, किं तावत् परमार्थसत्यम्? मञ्जुश्री - राहदेवपुत्र, यदि परमार्थतः परमार्थसत्यं कायवाक्चित्तनिषेधमात्रस्वभावः स्यात्तदा स परमार्थसत्यमिति संख्यां न गच्छेत्, तदा स संवृतिरेव स्यात् / अपि च, देवपुत्र, परमार्थतः परमर्थसत्यं सर्वव्यवहारातीतमिति" /

तेषु वस्तुवासनाया अपि पूर्वं कृतनिषेधात् केवलं संवृत्यन्तर्गताब्येव तान्योतो ऽन्यतः पूर्तिर्नैवावश्यकी / यदि प्रमाणैरभावो नैव मायादिभिर्भिन्नस्तथापि परमार्थतः स्वतः सदिति नाम क्रियते तदा सहर्षं क्रियतां स्वैरमुत्सवो ऽप्यनुभूयताम्, किन्तु स्वमतानकूल्येन कृतां व्यवस्थां वस्तूनि नैवानुविदधते / प्रतीत्यसमुत्पन्नता स्वसंवेद्यता च नैव वस्तूनो हेतुर्भवति, मायाकेशोण्डुकादीनां भ्रान्तत्वात् कुत्रापि सम्बन्धस्यासिद्धत्वाच्च / यद्यप्रतीत्यसमुत्पन्नत्वे वस्तूनि नैव दृश्यते तदा तददर्शनमन्यत्रापि तथैव स्यादिति कथनसम्बद्धमेव, सत्यपि व्यापके वृक्षे शिंशापासत्त्वस्याननिर्वार्यत्वात् / अतः सुखादीनि तावदविपरीत्तत्वेनासिद्धत्वान्नैव निर्विवादभूतानि /

[69] क्षणमात्रातिरिक्तत्वेनास्थितत्वादित्यादिकं यदुक्तं तदपि नास्त्यस्वीकार्यम्, स्वभावतो ऽनित्यत्वस्यानुपपन्नत्वात् / वस्तूनां यदि सम्यक्त्वं तदा स्थितत्वास्थितत्वतोः परस्परविरोधो ऽप्यनुपपन्न एवेति पूर्वं कृतनिर्देशादिति / अतश्चलस्वभावत्वाद् वस्तूनि तावन्निःस्वभावत्वेन प्रदर्श्यन्ते, अत एव च तानि संवृतिस्वभावान्युच्यन्ते /

यदि चलस्वभावार्थः संवृत्यर्थस्तदा नास्त्यनिष्टापत्तिः / तानि सर्वाणि चलस्वभावानि वस्तूनि मायादिवत् प्रकृत्या निःस्वभावलक्षणरहितानि, परमार्थस्वभावानि चेति / सो ऽपि [स्वभाव] तथागतः स्यान्नवा स्यात् सर्वदा स्थितत्वान्नित्यः, अतो नास्ति सिद्धसाधनम् /

[70] यदपि असत्यार्थेत्यादिकमुक्तं तदपि सत्यशब्दस्यार्थानभिज्ञतयैवोक्तम्, भ्रान्तबुद्धित्वात् संवृतेरिति पूर्वं निर्देशात् / मिथ्याकारतयोपगृहीतत्वेन स असत्य इत्युक्तः / सम्यक्तया असत्ये ऽपि तस्मिन्,सत्य इव प्रसिद्धत्वात् तच्चिन्तनाधिकरेण सत्येति नाम्ना व्यवह्रियते / यदा सर्वाणि ज्ञानज्ञेयादीनि संवृतिरिच्युच्यन्ते, तदापि लोकप्रस्सिद्धयैव सत्यानीत्यभिधीयन्ते, न तु सम्यग्ज्ञानाधिकारेण, शब्दमात्रस्य अपेक्षाविशेषवशेन प्रयुक्तत्वात् सत्यासत्ययोः परस्परविरोधाभावात् /

विपरीताकारेणावभासितस्त्वात् संवृतिस्तावद् वस्तुत्वेन नैवाभ्युपेयते, अन्यत्वाभावादिति पूर्वमेवावेदितम् / तया व्यवस्थितं जगत् तदधिकारेण यतः सत्यमित्युच्यते, अतः संवृतिरवश्यं वस्तुतया स्वीकर्तव्येति यदुक्तं तस्याप्ययुक्तत्वात् प्रतिज्ञा नैव हापयितुं शक्या /

[71] संवृतिः प्रमाणम् अप्रमाणं वा? यदि प्रमाणं तदा कथं सा संवृतिः? यद्यप्रमाणं तदा कथं तया नैरात्म्यं साधयितुं शक्यम्? - इति यदुक्तं तदपि नैव युक्तम् / यतो हि यथा अनुमानज्ञानस्य मिथ्याकारग्रहणप्रवृतत्वात् संवृतिस्वभावत्वे ऽपि अभीष्टर्थक्रियाप्रापकत्वात् प्रमाणत्वमभ्युपगन्यते तथैव संवृतिस्वभावस्य मिथ्यात्वे ऽपि यथानुरूपश्रवणमननादिहेतुपरम्परागतत्वाल्लोकिकलोकोत्तराथैः सहाविसंवादात् प्रमाणत्वमभीधीयते, तद्विपरीतत्वे त्वप्रमाणम् / प्रमाणादिसर्वव्यावस्थास्तवद् व्यवहारेणैवेति पूर्वं प्रसाधितमेव, अतस्ता गौणा एव /

[72] यानि विज्ञानादीनि संवृतिबीजानि तानि परमार्थतो ऽङ्गीकर्त्तव्यानीति यदुक्तं तन्न यक्तियुक्तम् / यदीमानि कारणमात्राणीति साध्यन्ते तदा सिद्धसाधनमेव, यतो ह्येतेषां स्वानुरूपहेतवस्तावदनादिसंवृतिरूपा इति स्वीक्रियन्त एव, नेमान्यहेतुकत्वेन प्रतिज्ञायन्ते /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.