Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
मध्यमकालोक
- Tác giả
- कमलशील
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यदि तद् बीजं परमार्थसिद्धमेकं चेति तदा कुत्रापि तदन्वयाभावादनैकान्तिकमेव / वृक्षाद्यशेषसंवृतिओइनां यद्युत्तरोपादानहेत्वानुकूल्यं न परिक्षिष्यन्ते तदा रमणीयतामात्रमेव दृष्टं दृष्टं स्यात् / नापि विरुद्धो हेतुः, यक्षानुरूपबलेः सद्भावात् सर्वास्ताः संवृतयो ऽसत्स्वभावाः प्रसाधिता एव / अन्यथा [यद्येवं न स्यात्] कथ ताः संवृतय इति / यद्यसत्स्वभावास्तदा वीजान्यपि तदनुरूपावस्तुभूतन्येव, न ते वस्तुभूतानि, तद्विरुद्धत्वाद् असिद्धत्वात् प्रमाणबाधितत्वाच्चेति ता गौणा एव /
[73] वस्तुस्वभावस्तावत् स्वीक्रियत इति यदुक्तं तत्तु येन कारणेन वस्तुस्वभावः स्वीक्रियते तेन सत्यद्वयभेदानुधानं कुत्रापि नैव सिध्यति / असत्यपि वस्तुस्वभावे अपरीक्ष्यमाणानि रूपदीनि सिद्धान्येव / तेषु ये उत्पादादयः समारोप्यन्ते ते संवृतिसत्यत्वेन व्यावस्थाप्यन्ते / प्रमाणैः सम्यङ् निरुप्य अनारोपिता ये तावदनुत्पादादयस्ते परमार्थसत्यतया व्याह्रियन्ते / अतः परमार्थतो ऽसत्यपि वस्तुस्वभावे सत्यद्वयं व्यावस्थाप्यत एवेति गौणा एव /
[74] यत्तावदिदं गौणां परमार्थमित्युक्तं तदप्यसम्बद्धमेव, धर्मपुद्गलनैरात्म्यलक्षणायास्तथाताया युक्तिसङ्गतत्वात् / परमो ऽपि सा, आवरणपरिहारार्थिभिरर्थ्यत्वादर्थो ऽपि सा / अविपरीतस्य ज्ञानस्य अर्थ इति विषय इति कृत्वा सा परमार्थ इत्युच्यते / यत्खलु विषयि लोकोत्तरं ज्ञानं तदन्यश्ब्दार्थप्रयोगैरपि व्यवह्रियते / श्रवणमननभावनोपजातायाः प्रज्ञाया अनुकूलत्वाद् व्यवहारेणैव सा एवमभिधीयते /
तत्र येन कारणेन परमार्थतत्त्वलक्षणभावनया योगिभिरशेषसंक्लेशान् परिहत्य उत्तरोत्तरप्रज्ञादिविशेगुणांश्चधिगम्य महार्थत्वं प्रसाध्यते, तेन ऽपरमऽ श्ब्दप्रयोगः सर्वथा युज्यत एव / तदपि लोकोत्तरं परमं ज्ञानं सर्वकल्पनाविगतत्वात् सर्वधर्मनिराभासत्वाच्च स्वसंवेद्यमनुपलम्भात्मकं च, न तूपलम्भस्वरूपम् / यथोक्तम् -
ऽदेवपुत्र, परमार्थसत्यं तावत् सर्वाकारपरमगोचरसर्वज्ञस्ताप्यतीतम् /"
अनेन वस्तुविषयतः सम्यगतीतत्वेन निर्देशादालम्बनदर्शनस्य निषेध एव कृतः / परमार्थलक्षणे यज्ज्ञानात्मकमित्युक्तं तदप्यशेषसम्पदाधारभूतमेव / अतो महार्थसाधकत्वात् परमार्थस्तावन्नास्ति गौणः /
अपि च, यद्यस्ति तावदेकः तावदेकः कश्चन गौणः परमार्थस्तदा निर्वाणं तावत् कीदृशः परमार्थः? तत्र कस्यापि वस्तुनः सम्यक्तया अर्थस्वभावसम्भवाभावात् तदपि कथमेभिश्चोद्यैरनवमर्दनीयं स्यात् / अतस्तत्र यद् भवतामुत्तरं तदस्माकमपि समानमेव / परमार्थे वस्तूनि तावन्न सन्तीति यदुक्तं तदपि परमार्थमधिकृत्य ज्ञानात्मकत्वं सम्यगविपरीतत्वेनासदेवेत्युक्तम् / एकेन खलु प्रकारेण परमार्थस्तावदसन्निति यदुक्तं तत्तत्त्वतो विचारेणासदेवेत्यर्थः /
[75] संवृतिपरमार्थयोरेकत्वमिति यदुक्तं तत्र भगवान् परमार्थलक्षणं संस्कारलक्षणेन सह तत्त्वतो नान्यं नानन्यमिति स्वयमेवोक्तवान् / यथोक्तमार्यसन्धिनिर्मोचनसूत्रे -
"यदुत यदि परमार्थलक्षणम् संस्कारेभ्यो नान्यं [अभिन्न] स्यात्तदा सर्वे बालपृथग्जनाः सत्यदर्शिनः स्युः / ततश्च सर्वे प्राप्तनिर्वाणाः सर्वज्ञाश्च भवेयुः / यथा च संस्काराः संक्लेशलक्षणास्तथैव परमार्थो ऽपि संक्लेशलक्षणः स्यात् / तथा च यथा परमार्थः सर्वसंस्कारेष्वभिन्नस्तथा संस्कारलक्षणन्यपि[अभिन्नानि] स्युः, किन्तु संस्कारलक्षणानि भिन्नानि, फलतः परमार्थो नैवानन्यः / भूतार्थप्राप्तेरनन्तरं योगिभिः परमार्थगवेषणं नैव युज्यत इति परमार्थस्तावत् संस्कारेभ्यो नास्त्यन्यो नान्यो ऽपीति / अन्यथा सत्यदर्शिनां संस्कारनिमित्तमनभिभूतमेव स्यात् / संस्कारनिमित्तस्यानभिभावाद् योगिनस्तावन्नैव निमित्तबन्धनान्मुक्ताः स्युः / निमित्तबन्धनैरमुक्तत्वान्न च ते दोष्ठुल्यबन्धनादपि मुक्ताः स्युः / तस्मादमुक्तत्वान्नैव स्यात् निर्वाणसद्धिर्न वानुत्तरसुखानुभूतिरपि / अपि च, परमार्थलक्षणं यदि संस्कारलक्षणेभ्यो भिन्नं स्यात्तदा न स्यात् परमार्थः संस्काराणां सामान्यलक्षणम् न च परमार्थलक्षणं संस्काराणां नैरात्म्यं निःस्वभावता वा स्यात्, नापि संक्लेशव्यवदानयोः पृथग्लक्षणं सिध्येत् / फलतः शखस्यं शुक्लत्वमिव परमार्थलक्षणम् संस्कारेभ्यस्तत्त्वान्यत्वभ्यामनिर्वचनीयमेवेति" /
वस्तुतायामेव तावत्तत्त्वान्यत्वकल्पनं सम्भवति / परमार्थलक्षणे तु निःस्वभावत्वेन तत्त्वान्यत्वाभ्यं वस्तु नाभिधातुं शक्यते / वस्तुसत्त्वे हि तत्त्वान्यत्वबोधस्य सम्भवान्न तु निःस्वभावे वस्तुनि तत्सम्भवः, अतो नास्ति विरोधः / ज्ञानात्मकपरमर्थो ऽपि संवृत्या सह तथतालक्षणे परमार्थाकारे एकत्वेन स्वीक्रियत एव / यथोक्तमार्यप्रज्ञापारमितायाम् -
ऽकिं भगवन्, अस्ति लोकसंवृतिरन्या, परमार्थो ऽप्यन्यः? भगवानाहसुभूते, नैव लोकसंवृतिरन्या, परमार्थो ऽप्यन्यः / यत्तावल्लोकसंवृतेस्तत्त्वं तदेव परमार्थस्यापि तत्त्वमिति" / ज्ञानात्मकस्तु परमार्थो मायादिभिरभिन्नत्वात् सम्यक्संवृतिस्वभावश्च तत्त्वावबोधानुकूलत्वात् परमार्थस्वभावश्च / अतो ऽपेक्षाविशेषवशेन एकस्मिन्नुभयस्वभावो नैव विरुद्धः /
[76] यत्तवद् भवद्भिः पुण्यज्ञानसम्भारपारिपूरिर्दुष्करेत्यादिकमुक्तं तदपि नैव युज्यते, अनेनैव तावद् दर्शनेन सम्भारपरिपूर्णताया युज्यमानत्वात् / इत्थं सम्यग्दृष्टिसमुत्थिता एव दानादयः परिसुद्दहेतुसमुत्थितत्वादिष्टफलं विशेषफलं चाभिनिर्हरन्ति, न तु विपरीतसमुत्थिताः, मिथ्यादृष्टिसमुत्थितशीलाङ्गादिवत् /
परमार्थतो दानादिवस्तूनामभावात् तदुपलम्भो विपरीत एव, मरीच्यादिषु जलोपलम्भवत् / अतस्तत्समुत्थितपारमितानं सर्वो ऽपि प्रयासो मिथ्यात्मात्मीयसमुत्थितदानादिवद् अविशुद्धहेतुसमुत्थितत्वेनात्यन्तं निर्बल एव / उपलब्धिलक्षनप्राप्तानां दानादीनामनुपलब्धिस्तावत् सम्यगर्थत्वेन मरीच्यादिषु जलानुपलम्भैवाविपरीतैव / अतस्तत्समुत्थितदानादयो महाफलाः, सूपचितहेतुसमुत्थितत्वेन स्वस्थबीजाभिनिर्हताङ्कुर इव / अतो ऽनुपलम्भसमाश्रितेसु दानादिषु सम्यदृष्टिसमुत्थिततया विद्वज्जनेषु श्रद्धैवोत्पद्यते, न त्वन्येषु / येन कारणेन दानादिष्वप्रवृतेः पुण्याभावस्तानि दातव्यादीनि नैवात्यन्तमसद्भूतानि, संवृतौ तेषां सद्भावात् / नैव च सर्वदानुपलम्भ एव, असमाहितावस्थायां मायादिवत् तेषामुपलम्भो ऽपि / तदाधिमुक्तिसमुद्भूतानुपलब्धु तानि व्यवस्थाप्यन्त एव / यथोक्तं भगवता
कथं भगवन्, उपाकुशला बोधिसत्त्वा महासत्त्वा दानं दत्वा प्रज्ञापारमितां परिसम्पदयन्ति? भगवानाह - सुभूते, बोधिसत्त्वा महासत्त्वा दानं दत्वा परित्यजन्ति तदा मायाबुद्धिरेव टेषां दाने सूपतिष्ठतीति" विस्तरः /
अत एव भगवन् ये बोधिसत्त्वा भवन्ति, मायादिवदधिमुक्त्या अर्थिजनेभ्यः पुत्रादीनां परित्यागो रोचते / समापत्त्यवस्थायं तु दानादीनामत्यन्तमनुपलम्भ एव / तदा ते तत्प्रवृत्तिं नैवाश्रयन्ते, समाहितावस्थायां दानादीनामुपेक्ष्यमाणत्वात् / किन्तु पृष्ठलब्धावस्थायां तावत् ते प्रवर्तन्त एव / आर्यरत्नकूटसूत्रे ऽप्युक्तम् -
"भिक्षवः, बोधिसत्त्वैर्दानादीनां स्वभावोपलम्भो नैव कर्त्तव्यः, अदानमपि नैवाचरितव्यम्" इति विस्तरः /
अत एव प्रज्ञापारमितादिष्वपि शून्यताधिमुक्तस्य अनुपलम्भाश्रितानि दानादीनि बृहत्फलानि परिपूर्णानि चेत्युक्तानि / यथोक्तं तत्रैव -
"तत्किं मन्यते सुभूते, सुकरं पूर्वस्यां दिशि आकाशस्य प्रमाणमुद्गृहीतुम्? सुभूतिराह नो हीदं भगवन् / एवमेव सुभूते, यो बोधिसत्त्वो ऽप्रतिष्ठितो दानं ददाति, तस्य सुभूते, पुण्यस्कन्धस्य न सुकरं प्रमाणमुद्गृहीतुम् /"
दानशब्दो ऽत्र षट्पारमितावाचकः, षट्दानपारमिता इत्युक्तत्वात् / आर्यरत्नाकरसूत्रे ऽप्युक्तम् - "बोध्यर्थमनुतिष्ठद्भिः सर्वे धर्मा निःस्वभावा ज्ञेयाः / तत्र दानमपि निःस्वभावत्वेन ज्ञायते / उपादाता च निःस्वभावत्वेन ज्ञेय, देयमपि निःस्वभावमिति ज्ञेयम्, परिणामनापि निःस्वभावेति ज्ञेया, यस्य खलु परिणामना क्रियते, तदपि निःस्वभावत्वेन ज्ञेयम् / यदर्थं हि परिणामना विधीयते तदपि निःस्वभावत्वेनैव ज्ञेयम् / तत् किमर्थम्? दानं तावद् दानस्वभावेन शून्यम् / तथैव उपादाता देयं दानफलं परिणामना बोधिश्चेति तत्तस्वभावेन शून्या इति योगः करणीयः / एवं हि शून्यताधिमुक्तस्याप्रमेयैश्चिन्तनैर्दानपारमिता परिशुद्धा भवति, तद् दानं च दानपारमितेति संज्ञां प्रतिलभते, न तु कदापि मलिना भविष्यति" इति विस्तरः /
इत्येवमनुपलम्भसमाश्रितानि दानादीनि बृहत्फलानि विशुद्धानि च भान्ति / ततश्च अनुत्तरसम्यक्संबोधिस्तावत् करतलस्थितेव भवति, उपलम्भावकाशो ऽपि दूरत एव स्थितः /
[77] सर्वे धर्मा निःस्वभावा इति यदुच्यते, तस्य तावत्को ऽर्थः? यद्यात्मनासत्त्वान्निःस्वभावास्तदा सिद्धसाधनमेवेति यदुक्तं तदपि यद्यात्मना ऽसत्त्वान्निऽ स्वभावत्वेन व्यवस्ताप्यते तदा न च विरुद्धत्वं नापि सिद्धसाधनमिति / यतो हि यदि वस्तुनः स्वभावो ऽविपोअरीततदा परापेक्षया तत्सत्त्वम् तत्सत्त्वम् आदितश्चासत्त्वं नैवोपपद्यते, एकस्मिन् सदसत्त्वयोः क्रमेणापि विरोधात् / फलतस्तावदिमानि वस्तूनि परमार्थतः स्वभावेन परापेक्षितानीत्यतो निःस्वभावन्येव / न हि स्वभावस्य कृतकत्वं नाम युज्यत इति पूर्वं कृतनिर्देशात् / न चैसां परमार्थतः परापेक्षयापि सत्त्वमिति पूर्वमेव प्रसाधितम् / अतः कथमिव सिद्धसाधनम् / व्यवहारे तावदिमानि परमाश्रित्य प्रवर्तन्ते, अतो नित्यसत्त्वादीनामपि नस्ति प्रसङ्गः / एवमेव यदि वस्त्वादीनि प्रकृतितः सस्वभावानि तदा स्वात्मनासत्त्वं स्वभावेन च सत्त्वं नैवोपपद्यते, विरुद्धत्वात् / एकस्मिन् वतूनि सत्त्वासत्त्वस्थितास्थिओतत्वादयः परस्परविरुद्धधर्मा नैव युज्यते / अतः स्वात्मनासत्त्वान् स्वभावतश्चास्थितत्वात्तानि [वस्तूनि] निःस्वभावत्वेनैव सुस्पष्टतयाभिव्यज्यन्ते / फलतः कथमिव सिद्धसाधनं स्यात् / परिकल्पितात्मना स्वभावतो ऽसत्त्वं तदा नैव सिद्धसाधनमिति पूर्वमेव प्रसाधितम्, प्रमानबाधितत्वात् परिकल्पितस्वभावस्येति /
वस्तूनामुत्पत्तिरपि परमार्थतः प्रमाणबाधितैव / सा च संवृत्य युज्यते, न तु ग्रह्यग्राहकस्वभावतया / यच्चार्याणां परमज्ञानगोचरं वस्तूनामविपरीतं स्वलक्षणं तदपि नैव सदिति युक्त्यगमाभ्यां पूर्वं प्रतिपदितमेव / या च संक्लेशव्यवदानव्यव्स्था, सापि नैवाविपरीतस्वलक्षणसमाश्रिता / भगवतापि व्यवहारसत्याश्रितत्वेनैवास्याः व्यवस्थाया निर्दिष्टत्वादित्यपि पूर्वमेवावेदितम् /
[78] सर्वाणि तावद् वस्तून्यादित एव् नोत्पन्नानित्यतो ऽनुपन्नानीति यदुक्तं तत्र नैव सिद्धसाधनादयो दोषाः प्रवर्तन्ते, यतो हि सर्वे धर्माः परमार्थतो ऽनादिकालदेव प्रशान्तत्वादनुत्पन्ना इत्यभ्युपगम्यन्ते, न तु संसारस्यानादिमात्रतया, न चापि पूर्वनिरुद्धस्य अनुत्पत्तिकतया / अपि च, भगवता बालपृथग्जनानां सन्त्रासपरिवर्जनार्थमेभिरपि प्रकारैर्वस्तूनामनुत्पत्तिः सन्दर्शिता, न तु इयन्मात्रेणैवेत्यवधार्यते, स्वपरादिभिरनुत्पादस्य पूर्वमेव निर्दिष्टत्वादिति /
परिकल्पितात्मना स्वात्मना वनुत्पादे ऽपि नैव सिद्धसाधनमिति निर्दिश्यते / मायादिवद् व्यवहारतयोत्पत्तेरभ्युपगमो ऽपि सर्वथानुत्पन्नत्वेन, नैवानुत्पत्तेरभ्युपगमो न वा परमार्थतो ऽनुत्पतेरभ्युपगमः / अतो नास्ति दर्शनादिविरोधो ऽपि / सर्वे तावद् धर्मा धर्मधातुलक्षणायां निःस्वभावतायां समरसत्वेन तथाताकारतया नैव विशेषोत्पत्तिरित्यतो ऽनुत्पत्तिरभ्युपगम्यते, तथापि नैव तत्र सिद्धसाधनमिति / लोकप्रसिद्धमपि स्वभावमालोच्य विशेषोत्पत्तिर्नास्तित्यपि नैवोच्यते, अतो नास्ति दर्शनादिविरोधो ऽपि / यद्यप्युत्पत्तिक्रियालक्षणरहितत्वाद् ईश्वरादितो ऽनुत्पन्नात्वाद् वानुत्पत्तिः स्वीक्रियन्ते, तथापि नैव तन्मात्रतयैवेति, अपि तु यथा पूर्वमुक्तं तथात्वेनैवास्वीक्रियन्ते / ये तावदनेकसूत्रविरोध इति कथयन्ति, तेभ्यः पूर्वमेव दत्तमुतरम् /
[त्रियानसाधनम्] यदपि साधनविशेण यानत्रयसिद्धयनुमानं श्रद्धाविशेषेण च गोत्रविशेषानुमानं निर्दिष्टं तेनापि यनत्रयं साधयितुं न शक्यते / अनेन तावदपरिमिता यानभेदाः स्युः / पुनश्चनेन यानत्रयसाधनानुमितस्य गोत्रत्रयस्यापि निश्चितावबोधो नैव कर्तुं शक्यः, अपरिमितगोत्रभेदावबोधात् / सूत्रे ऽपि - "एवं हि सति अपरिमितस्य यानभेदस्य यनभेदस्यप्रसङ्गः स्यात्" - इत्युक्यम् /
येन खलु कारणेन सत्त्वेषु गोत्रभेदानुमानस्य नियता सिद्धिः नियतश्च श्रद्धभेदाबोधः प्रतीयते, ते ऽप्यकल्याणमित्रसंसर्गेण अकारणमेव परदुःखमभिनन्दन्तो दृश्यन्ते / एवमेव ये ऽकारणमेव परदुःखमभिनन्दनार्थामालम्बन्ते, ते ऽपि कल्याणमित्रसम्पर्कादिना केवलं परहितचिन्तने प्रवर्तमाना अवलोक्यन्ते / ये कल्याणमित्रसम्पर्कादिना केवलं परहितचिन्तने प्रवर्तमाना अवलोक्यन्ते / ये खल्वल्पमात्रके स्वसुखे हिते चासज्यमानाः परेषु दौर्मनस्यं धारयन्ति, ते ऽपि परेषु दौर्मनस्यविपरीतत्वेनाप्यवलोक्यन्ते / ये तावत् भवसुखभिलाषेण पुण्यानि सम्पादयन्ति, ते ऽपि भवसुखेच्छविपरीत्त्वेन सम्यक्कार्याण्यनुतिष्ठमाना अपि दृश्यन्ते / इत्थं साधनानामनियतत्वावबोधात् श्रद्धाया अनैयत्यमनुमीयते / फलततस्तत्रानुमानेन गोत्रभेदस्याप्यनियतस्वभावो ऽवबुध्यते / अतो गोत्रभेदस्याप्यनियततया कथं तावद् यानत्रयनिश्चयः साधयितुं शक्यः /
सत्त्वनां विवुइधाशयवशेनापि गोत्रभेदो निश्चेतुं न शक्यते / यानि तावत् पञ्चाभिसमयगोत्राणि तान्यपि एकनिश्चयाभिप्रायेणैव निर्दिष्टानि, न त्वात्यन्तिकताया / तस्मिन्नेव हि सूत्रे गोत्राण्यनात्यन्तिकतयैव निर्दिष्टानि / तथा हि -
ऽसर्वकुशलमूलोत्सर्गेच्छन्तिको हि महामते, पुनरपि तथागताधिष्ठानात् कदाचित् कर्हिचित् कुशलमूलान् व्युत्थापयति / तत्कस्य हेतोः? यदुत अपरित्यक्ता हि महामते, तथागतानां सर्वसत्त्वाः" इति /
फलतस्तथागताध्ष्ठानेन तावदपरे ऽप्यनुत्तरबोधौ प्रणिदधत इति ज्ञातव्यम् / यस्तावद् अक्षयमतिनिर्देशसूत्रे यान्त्रयनिर्देशः, सो ऽपि नैवाधारभूतः, यतो हि तथागता लोकस्य विविधाशयवशेन विविधानि यानानि निर्दिशन्तो धर्मोपदेशे प्रवर्तन्ते, न तु यनत्रयमात्रतया / एवमेव आर्यगण्डव्यूहेसूत्रे ऽप्युक्तम् -
"श्रीवैरोचनख्ये लोकधातौ तथाअतसमन्तज्ञानरत्नार्चिश्रीगुणकेतुराजेन अभिसम्बोधिरधिगता, तदनन्तदमेव तेन अप्रमेयाः सत्त्वाः श्रावकभूमौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः निर्याणायां भूमौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः इन्द्रियपरिशुद्धिप्रभावनानिर्यणायं बौधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः विमलपराक्रमध्वजायां बोधौ परिपाचिताः / अप्रमेयाः सत्त्वाः बुद्धभूमौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः बलसमतासमुदाचारानुगमनिर्याणायां बौधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः सर्वत्रानुतद्धर्यभिसम्भिन्ननययाननिर्याणायां बौधौ प्रतिष्ठापितः / अप्रमेयाः सत्त्वाः चर्याप्रयोगसमवसरणनयनिर्याणायां बौधौ प्रतिष्ठापिताः / अप्रेमेयः सत्त्वाः समाधिप्रस्थाननयनिर्यानायां बौधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः सर्वारम्बणविषयपरिशुद्धिमण्डलनयनिर्याणायां बौधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः बोधिसत्त्वबौधौ चित्तमुत्पादिताः / अप्रमेयाः सत्त्वाः बोधिसत्त्वमार्गे प्रतिष्ठापिताः" इति विस्तरः /
भगवतापि बालजनप्रवेशार्थं यानभेदो व्यवस्थापितः, न तु नीतार्थतया निदिष्टः / अत एव अर्यलङ्कावतारे ऽप्युक्तम् -
"देवयानं ब्रह्मयानं श्रावकीयं तथैव च / तथागतं च प्रत्येकं यनानेतान् वदाम्यहम् //
यानानां नास्ति वै निष्ठा यावच्चित्तं प्रवर्तते / चित्ते तु वै परावृत्ते न यानं न च यानिनः / यानव्यवस्थानं नैवास्ति यानभेदं वदाम्यहम् / परिकर्षणार्थं बालाना यानभेदं वदाम्यहम्" //
अत एव आर्यसद्धर्मपुण्डरीकसूत्रादौ एकयाननिर्देशो नैव नेयार्थ इति प्रतिपादितम् तथा हि -
"एवं रूपेषु शारिपुत्र, कल्पसंक्षोभकषायेषु बहुसत्त्वेषु लुब्धेष्वल्पकुशलमूलेषु तदा शारिपुतर्, तथागता अर्हन्तः सम्यक्संबुद्धां उपायजौशल्येन तदैवैकं बुद्धयनं त्रियाननिर्देशेन निर्दिशन्ति" /
पुनश्च
"इमेषु बुद्धधर्मेषु श्रद्दधाध्वं मे शारिपुत्र, पत्तीयतावकल्पयत / न हि शारिपुत्र, तथागतानां मृषावादः संविद्यते / एकमेवेदं शारिपुत्र, यानं यदिदं बुद्धायानम्" /
पुनश्च
ये भुन्ति हीनाभिरता अविद्वसू अचीर्णचर्या बहुबुद्धकोटिषु / संसारलग्नश्च सुदुःखिताश्च निर्वाण तेषामुपर्दर्शयामि //
उपायमेतं कुरुते स्वयम्भू बौद्धस्य ज्ञानस्य प्रबोधनार्थम् / न चापि तेषां प्रवदे कदाचिद् युष्मे ऽपि बुद्धा इह लोकि भेष्यथ //
किं कारणं कालमवेक्ष्य तायी क्षणं च दृष्ट्वा ततु पश्च भाषते / सो ऽयं क्षणो अद्य कथञ्चि लब्धो वदामि येनेह च भूतश्चयम् //
बौद्धस्य ज्ञानस्य प्रकाशनार्थं लोके समुत्पद्यति लोकनाथः / एकं हि यानं द्वितियं न विद्यते न हीनयानेन नयन्ति बुद्धाः //
प्रतोष्ठितो यत्र स्वयं स्वयम्भूर्यच्चैव बुद्धं यथ यादृशं च / बलाश्च ये ध्यानविमोक्ष इन्द्रियास्तत्रैव सत्त्वा पि प्रतिष्ठापेति //
मार्त्सर्यदोषो हि भवेत मह्यं स्पृशित्व बोधिं विरजां विशिष्टाम् /
यदि हीनयानस्मि प्रतिष्ठपेयमेकं पि सत्त्व न ममेतु साधु //
एकं हि यानं द्वितियं न विद्यते तृतीयं हि नैवास्ति कदाचि लोके / अन्यत्रुपाया पुरुषोत्तमानां यद्याननात्वुपदर्शयन्ति //
तत्र प्रज्वलितगृहान्तःस्थितान् बालजनान् बहिर्निष्कासयितुमुपायभूतस्य वाहनविशेषस्य दृष्टान्तद्वारा, तद्वदेव रत्नद्वीपस्थितं नायकपुरुषं निवर्तयितुमुपायभूतस्य मध्ये ऽरण्यं नगरनिर्माणस्य च दृष्टान्तद्वारा भगवान् उपायभूतानि यानि त्रीणि यानान्युपदिष्टवान्, स तावन्नेयार्थ एव / आर्यबोधिसत्त्वगोचरोपायविषयविकुर्वणनिर्देशे नाम महायानसूत्रे ऽप्युक्तम् -
"मञ्जुश्रीः, तस्मिन् बुद्धक्षेत्रे यानेनैकेन निर्यास्तीति तद् यानं तावत् सारवत् स्यादिति / नास्मासु श्रावकप्रत्येकबुद्धयानव्यवस्था / कथमिति चेत्? तथागता हि नानात्वसंज्ञाविराहिता इति हेतोः /
यदि मञ्जुश्रीः, तथागताः कस्मैचिन्मयानं निर्दिशेयुः, कस्मैचित् प्रत्येकबुद्धयानम्, कस्मैचिच्च श्रावकयानं निर्दिशेयुस्तदा तथागतस्य तावच्चित्तम् अपरिशुद्धमभिनिवेशजुष्टं च स्यात् / प्रादेशिकी च तस्य महाकरुणा स्यान्नानात्वसंज्ञा च / धर्ममुष्टिश्चाचार्यस्य स्यात् / अपि च, मञ्जुशीः, येभ्यश्च सत्त्वेभ्यो ऽहं धर्ममुपदिशामि ते सर्वे बोधिनियता महायानपरायणाः सर्वज्ञताभिनिर्हताः पक्षैकनिष्ठाश्च भवन्ति / तदित्थं सर्वज्ञतमनुप्राप्नुवन्तीति / अतो नास्मासु यानव्यवस्थेति / मञ्जुश्रीः, या हि यानव्यवस्थाभिधीयते, तया सर्वज्ञेन भूमेर्व्यवस्था कृता, पुद्गलानां व्यवस्था कृता, अल्पसत्त्वसमूहस्य अप्रमेयसत्त्वसमूहस्य च व्यवस्था कृता / धर्मधातोरसम्भेदाद् यानभेदो ऽपि तावन्नास्ति / अनेन हि प्रस्थानद्वारं प्रदर्शितम् / प्रस्थाननिर्देशो ऽपि तावत् संवृतिरेव, न तु परमार्थः / अत एकमेव यानम्, न द्वितीयमिति /"
आर्यश्रीमालासूत्रे ऽप्युक्तम् -
"यच्च परिनिर्वाणं यानि च त्रीणि यानान्युपदिष्टानि तत्सर्वं तथागतानामुपायमात्रम्, एकयानावबोधेन अनुत्तरसम्यक्संबोधेरधिगमात् /" अत एव एकयाननिर्देशस्तावदाभिप्रायिक इति वचनस्य धर्मधातुलक्षणे सर्वयानानां समत्वादेकयानमिति कथनं तावन्नास्त्यार्यसद्धर्मपुण्डरीकाद्यनुकूलमिति नियतं विद्वद्भिरवधार्यम्, नैव तदभिप्रायवशादुक्तमिति ज्ञेयम् / आर्यदशधर्मादौ यानत्रयनिर्देशस्तु उपायस्वरूपत्वाद् विनेयजनेभ्यः स एकयाननिर्देशाभिप्रायेणैव विहित इत्येव निश्चेयम् / अतो यानत्रयनिर्देशस्तावद् बुद्धनामुपायमात्रम्, न तु वास्तविक इत्यतो विनेयजना नैव तेषु प्रवर्तन्ते / महायानसूत्राकङ्कारे हि - एकस्य यानस्य च या हि देशना तदानुकूल्येन प्रयोजनेन सा / इति यदुक्तं तच्छ्रावकाणां यद्यनुशयसमुच्छेदो जायेत तदा जातेरपि सर्वथोपच्छेदाद् अनेकजन्मपरम्परासमुदागतं बुद्धात्वं कथं नाम साध्यं स्यादिति कथनं तु तेषां जातेः सर्वथोपच्छेदस्यासिद्धत्वान्नैव युक्तम् / आर्यश्रीमालासिंहनादसूत्रे चोक्तम् -
"अर्हतो ऽपि विनाशसद्भावात्तत्संत्रासेन तावदर्हन्तः प्रत्येकबुद्धा अपि भगवतः शरणं प्रतिपद्यन्ते, सोपधिशेषधर्मित्वाद् भगवन् श्रावकार्हतां प्रत्येकबुद्धानाम्, जन्मक्षयाभावाच्च भगवन्, तेषाम् / अतो भवत्येव तेषां जन्म / भवन्त्येव ते सोपधिपेषाः, नैव जन्मता, अपितु कर्मणां पारिपूरेरभावाद् बहुकरणीयावशेषाच्च / यदि नैव ते तेषां परिहारं कुर्वीरन् तदा सन्त्यनेके निर्वाणधातोरपसारकास्तेषु प्रहातव्यधर्मा..." इति विस्तरः /
यश्च जातिक्षय इत्यादिना क्षयानुत्पादज्ञानयोः समुद्भवस्तस्य नेयार्थत्वं तु तमिन्नेव सूत्रे निर्दिष्टम् / तथा हि -
"भगवन्, अर्हन्तां प्रत्येकबुद्धानां विमुक्तिं यावद् यत् प्रत्येक्षणाज्ञानं याश्चाश्वासाधायिकाश्चतस्त्रो ऽनुस्मृतयस्तत् सर्वमाभिप्रायिकम्, यानानां नेयार्थत्वेन विभागं कृत्वा व्याकरणात् / भगवत्, तत्किमर्थमिति चेत्? द्विधा भवति च्युतिःसमुच्छेदिका च अचित्यपरिणामिनी चेति / तत्र समुच्छेदिका च अचिन्त्यपरिणामिनी चेति / तत्रसमुच्छेदिका तावच्च्युतिः प्रतिसन्दधतां सत्त्वानामेव / भगवन्, अर्हतां प्रत्येकबुद्धानां वशिताप्राप्तबोधिसत्त्वानां च मनोमयकायस्य च्युतिस्तु बोधिमण्डपर्यन्तम् अचिन्त्यपरिणामिन्येव भवति / भगवन्, अनयोर्दयोश्च्युत्योः समुच्छेदच्युतेरधिकारे तावदर्हतां प्रत्येकबुद्धानां जातिक्षयो जायत इति प्रतीयते........ इतिऽ विस्तरः /
अनयोस्तावच्च्युत्योरविद्यावासभूमिप्रत्ययैरनास्त्रवकर्महेतुभिः समुद्भूता जातिस्तु भवत्येवेति निर्दिष्टम् / तथा हि -
"भगवन्, यदुत उपादानप्रत्ययाः सास्त्रवकर्महेतुकास्त्रयो भवाः सम्भवन्ति / एवमेव भगवन्, अविद्यावासभूमिप्रत्यया अनास्त्रवकर्महेतुका अर्हतां प्रत्येकबुद्धानां वशिताप्राप्तानां बोधिसत्त्वानां च मनोमयास्त्रयः कायाः सम्भवन्ति.....इति" विस्तरः /
आर्यलङ्कावतारसूत्रे चापि निर्दिष्टं यद् धातुत्रयातिक्रान्त अपि ते ऽनास्त्रवधातौ अवस्थिता भवन्ति / अतस्तथागताधिष्ठानेन जातिवशितां प्राप्य सम्भारद्वयं च परिपूर्य ते बुद्धत्वमवाप्नुवन्तीति / तथा हि -
"प्रहीणा भवन्ति धर्मनैरात्म्यावबोधात्, तदा ते वासनादोषसमाधिमदाभावादनास्त्रवधातौ प्रतिविबुध्यन्ते / पुनरपि लोकोत्तरानास्त्रवधातुपर्यापन्नान् सम्भारान् परिपूर्य अचिन्त्यधर्मकायवशवर्तीतां प्रतिलप्स्यन्ते /
यथा हि काष्ठमुदधेस्तरङ्गैर्विप्रवाह्यते / तथा हि श्रवको मूढो लक्षणेन प्रवाह्यते //
वासनाक्लेशसम्बद्धाः पर्युत्थानैर्विसंयुताः / समाधिमदमत्तास्ते धातौ तिष्ठन्त्यनास्त्रवे //
निष्ठागतिर्न तस्यास्ति न च भूयो निर्वर्तते / समाधिकायं सम्प्राप्य आकल्पान्न प्रबुध्यते //
यथा हि मत्तपुरुषो मद्याभावाद् विबुध्यते / तथा ते बुद्धधर्माख्यं कायं प्राप्स्यन्ति मामकम् //
अत्र खलु काष्ठोदध्युपमया भवसागरे प्रवहमानत्वं निर्दिष्टम् / तरङ्गोपमया तावद् धर्मलक्षणं प्रति अभिनिवेशवशात् परिनिर्वाणं न प्राप्यत इति सङ्केतितम् / ऽवासनाक्लेशसम्बद्धाःऽ इत्यादिना तु अविद्यावासनाभूमिबन्धनेनाविमुक्ताः, क्लेशपर्यत्थानैश्च विसंयुक्ता इति / ऽनिष्ठागतिर्न तस्यास्तिऽ इत्यादिना तावन्निर्वाणनगरे ऽप्रविष्टास्तथा भवसागरे ऽपि न भ्रमन्तीति / अनास्त्रवसमाधिसम्प्रयुक्तत्वाद् अनेककल्पपर्यन्तमनास्त्रवधातौ स्थितिः, तदन्तरं ततो व्यत्थाय सम्भारान् परिपूर्य बुद्धत्वावाप्तिरित्यादिकं स्पष्टतया निर्दिष्टम् /
यच्चाप्यार्यलङ्कावतारादिसूत्रेषु निर्मितश्रावकानधिकृत्य श्रावकव्याकरनं कृतं तद्धीनाधिमुक्तसत्त्वानां भयपरिहारार्थं यानत्रयनिर्देशोपायप्रदर्शनार्थं चेति ज्ञातव्यम् / अवैवर्तचक्रसूत्रे ऽप्युक्तम् -
"सर्वेषु लोकधातुषु सर्वबुद्धानां धर्मोपदेशस्तावदवैवर्तचक्रसमानतया समान इति / मर्त्यलोकधातुसत्त्वास्तु पञ्चकषायकाले समुत्पद्यमाना हीनाधिमुक्ता एव / अतस्ते एकयानोद्देश्यं नैव परिपालयन्ति, न च तस्मिन्नधिमुच्यन्ते / अतो ऽनया युक्त्या ते सत्त्वा बुद्धत्वं प्रत्यभिमुखीक्रियन्त इति /"
आस्त्रवाणां क्षयादर्हन्तो यदि न प्रतिसन्दधते, अतो ऽनेकजन्मपरमपरासाध्यं बुद्धत्वं न प्रतिलभन्त इति तदा बोधिपरिणामितानामप्यर्हतां न प्रतिसन्धिर्न च तेषु बुद्धात्वाधिगम इति / यदि प्रणिधानबलेन तथागताधिष्ठानेन च तेषां प्रतिसन्धिरभ्युपगम्यते, तदा कथं नापरेष्वपि तथा? यथोक्तमार्यप्रज्ञापारमितायाम् -
"अपि च, यदि ते ऽनुत्तरसम्यक्संबोधौ चित्तमुत्पादयन्ति, तदा अनुमोदयिष्यामि, नाहं तेषां कुशलमूलनां विघ्नं करिष्यामि / शुद्धधर्मविशेषैः शुद्धधर्मविशेषाध्युपालम्भः करणीय इति /"
यदि ते सर्वेण सर्वमनुत्तरसम्यक्संबोधेये अभव्या इति तदा कथं नाहं तेषां कुशलमूलानां विघ्नं न करिष्यामीत्युक्तम् / अत्यन्ताभावेषु नैव विध्नसम्भवः / अवस्थाविशेषाभिप्रायेणैव शान्तस्यैकायनस्य कथनं नियतम्, न तु सर्वदैव नियताभिप्रायेणेति ज्ञेयम् / आर्यसद्धर्मपुण्डरीकसूत्रे ऽयुक्तम् -
"भिक्षुर्वा भिक्षुणी वार्हत्त्वं प्रतिजानीयादनुत्तरायां सम्यक्संबोधौ प्रणिधानं परिगृह्योच्छिन्नो ऽस्मि बुद्धायानादिति वदेदेतावन्मे समुच्छ्रयस्य पश्चिमकं परिनिर्वाणं वदेदाभिमानिकं तं शारिपुत्र, प्रतिजानीयाः /"
अर्हन्तस्तावत् क्लेशक्षयहेतोः सर्वथा नैव प्रतिसन्दधते, तथात्वात् / ये खलु सत्यदर्शिनः श्रावकाः, ये च कामधातुरागरहिता अनागामिनस्ते बुद्धगोत्रका इति / द्विविधा अपि ते ऽनुत्तरसम्यक्संबोधौ व्याकृताः अचिन्त्यपरिणामिन्या जात्या युक्तत्वात्तेषामिति यत् कथनं तदप्यार्यश्रीमालासिंहनादआर्यप्रज्ञापारिमिताआर्यदशधर्मकसूत्रादिविरुद्धम् / तेषु केवलमर्हत एव प्रतिसम्धिरुपदिष्टा, न त्वनागामिनामिति / तत्रार्यमालासिंहनादसूत्रं तु पूर्वमेवोद्धृतम् / आर्यप्रज्ञापारमिताशुत्रे चोक्तम् -
"अर्हत्त्वं समधिगम्य यदि स सम्यक्संबोधिमभिलषते तदा कथं नाम अजातिं लब्धुं शक्नोति, परिजनता खलु भगवता तस्य जातेर्व्याकृतत्वात् / भगवानाह - मैत्रेय, नाहं कर्मक्लेशवशाज्जातिं प्रज्ञपयामि, अपितु अचित्यपरिनिर्वाणे परिणामनया तस्य जातिं प्रज्ञपयामिति" /
आर्यदशधर्मकसूत्रे ऽप्युक्तम् -
"भगवन्, श्रावकाः क्षीणास्त्रवाः, परिक्षीणभवसंयोजनगोत्रकास्तथापि कथं ते ऽनुत्तरसम्यक्सम्बोधिमभिसम्बोद्धुं शक्ष्यन्ते? भगवानह - शृणु कुलपुत्र, तस्य दृष्टान्तम् / तथैवास्ति यथा कुलपुइत्र, क्षत्रियकुले ऽभिषिकः कश्चन राजकुमारो यदि सर्वासां शिल्पविद्यानामध्ययनं करोति / स नास्ति तीक्ष्णेन्द्रियो ऽपि तु मन्देन्द्रियः सन् पश्चादध्येयस्य पाठयस्य प्रथमम्, पूर्वमध्येयस्य पाठयस्य पश्चादध्ययनं करोति, तदा किं विचारयसि कुलपुत्र, किमेतावता स नास्ति राजकुमार इति कथयिष्यते? अवोचत् - नैव भगवन्, नैव सुगत, राजकुमार एव स कथयिष्यते / भगवानाहकुलपुत्र, तथैव बोधिसत्त्वगोत्रका अपि ये मन्देन्द्रियास्ते पूर्वं भावनामार्गेण क्लेशक्षयं कृत्वा पश्चादनुत्तरसम्यक्संबोधौ अभिसम्बुद्धा भविष्यन्तीति /" विस्तरः /
यच्च "सार्वगतिका बुद्धा भविष्यन्ति" इत्युक्तम्, तदर्थस्तावत् सर्वेषां बुद्धत्वसामीप्यापेक्षाभिप्रायेणेति - यदुक्तं तदपि स्वेच्छामात्रोपकल्पितत्वादयुक्तमेव / सार्वगतिकानां भव्यतां दृष्ट्वा तथोक्तमित्यत्र को विरोधः / तथैव चार्यरत्नमेघादिसूत्रेष्वपि भगवतः शाक्यमुनेर्नामश्रवणमात्रेण अवैवर्तिकबीजारोपणाद् अभेदेन सर्वे सत्त्वा अवैवर्तिकत्वे व्याक्रियन्ते, न तु सामीप्यापेक्षया / अतो येन श्रावणं येन वा श्रवणं यश्च श्रोता तेषवपि अवैवर्तिकबीजानि विद्यन्त एव, यतो हि भवतां मते ऽपि मलानामागन्तुकत्वाच्चित्तं प्रकृत्या प्रभास्वरमभ्युपगम्यते / अतः सार्वगतिकास्तदर्शं भव्या एव / अस्तदभिप्रायेण तथाभिधानं युज्यत एव /
सर्वे सत्त्वास्तथागतगर्भा इति यदुक्तं तेन सर्वे ऽप्यनुत्तरसम्यक्संबोधिपदप्राप्तियोग्या एवोपदर्शिताः, यतो हि तथागतश्ब्दो धर्मधातुः पुद्गलधर्मनैरात्म्यलक्षणः प्रकृत्या प्रभास्वरश्चेत्येतेष्वर्थेष्वभ्युपगम्यते / तथा च निर्देशेन सर्वे ऽनुत्तरसम्यक्संबोधिस्वभावा एव निर्दिष्टाः /
अपि च, ऽयानम्ऽ इति यदुक्तं तदपि निर्वाणगरप्रापको ज्ञानात्मको मार्ग एवेत्युक्तम्, यायते ऽनेनेति कृत्वा / तत्त्वज्ञानादेव हि मोक्षमधिगन्तुं शक्यते, नान्यस्मात् / तत्त्वमप्येकमेव, अन्यथानवस्थाप्रसङ्गः / दृष्टिभेदे ऽपि वस्तुतत्त्वं नानेकरूपेषु विभाजयितुं शक्यते / एकस्वभावत्वात्तत्त्वस्य, तद्विषयि ज्ञानमप्येकस्वभावमेव / अधिगततत्त्वनां बुद्धबोधिसत्त्वानां यज्ज्ञानं तदपि तत्त्वविषयकाभिज्ञानस्वरूपमेव, सर्वसंक्लेशप्रतिपक्षत्वात्तस्य / न हि प्रादेशिकैर्ज्ञानैस्तत्त्वबोधो ऽतिप्रसङ्गात् / तथा सति सर्वे तत्त्वदर्शिनः स्युः / अतो यत्तावत् पुद्गलधर्मनैरात्म्यतत्त्वसाक्षात्कारि ज्ञानं तदेव निर्वाणप्रापकः सम्यङ् मार्गो नान्यः / अत एकमेव यानमिति /
एत एव भगवता नान्येन तावन्मार्गेण मोक्ष इति निर्दिष्टम् / आर्यलङ्कावतारसूत्रे चोक्तम् -
"यदुत अन्ये पुनर्महामते, कारणाधिनान् सर्वधर्मान् दृष्ट्वा निर्वाणगतिबुद्धयो भवन्ति, धर्मनैरात्म्यदर्श्नाभावान्नास्ति मोक्षो महामते / एषा महामते, श्रावकयानाभिसमयगोत्रकस्यानिर्यणनिर्याणबुद्धिः / अत्र ते महामते, कुदृष्टिव्यावृत्त्यर्थं योगः करणीयः" इति /
आर्यप्रज्ञापारमितासूत्रे ऽपि भगवता प्रोक्तम् -
"यद् द्वयं तद् वस्तु, अद्वयं तु अवस्तु / अवोचत् - भगवन्, किं तावद् द्वयम्? भगवानाह - सूभूते, रूपसंज्ञैव द्वयम्, तथैव स्कन्धधातुस्पर्शवेदनाधातुषट्कप्रतीत्यसमुत्पादध्यानारूप्यदुःखनैरात्म्यसुखसत्त्वादीनां संज्ञा" इति / इत्यादिकं विस्तरेण तावन्निर्दिश्य -
"यावद्धि संज्ञा तावद् द्वयम् / यावद् द्वयं तावद् वस्तु / यावद् वस्तु तावत् संसारः / यवाच्च संसारस्तावन्नास्ति सत्त्वानां मोक्षः" इति /
इत्यनेन प्रक्रारेण द्वयसंज्ञानुकूला क्षान्तिरपि तावदसत्त्वेन ज्ञानव्येति प्रकटितम् / आर्यसत्यद्वयावतारसूत्रे ऽपि प्रज्ञप्तं यत् सर्वक्लेशानां मूलं भावाभिनिवेश एव / अत एव सर्वधर्मनिःस्वभावभावनयैव तावत् क्लेशाः परिहर्तुं शक्यन्ते, नान्येन केनचिन्मार्गेणेति कृतो निर्देशः / तथा हि -
"कथं मञ्जुश्रीः, क्लेशा विनयं गच्छन्ति, कथं क्लेशाः परिज्ञाता भवन्ति? मञ्जुश्रीराहपरमार्थतो ऽत्यान्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु संवृत्यासद्विपर्यासः / तस्माद् असदविपर्यासात् संकल्पविकल्पः / तस्मात् संकल्पविकल्पाद् अयोनिशोमनसिकाराअद् आत्मसमारोपः / तस्माद् आत्मसमारोपाद् दृष्टिपत्युत्थानम् / तस्माद् दृष्टिपर्युत्थानात् क्लेशाः प्रवर्तन्ते / यः पुनर्देवपुत्र, परमार्थतो ऽत्यन्ताजातानुत्पन्नाभावान् सर्वधर्मान् प्रजानाति, स परमार्थतो ऽविपर्यस्तः / यश्च परमार्थतो ऽविर्यस्तः सो ऽविकल्पः / यश्चविकल्पः स योनिशः प्रयुक्तः / यश्च योनिशः प्रयुक्तः, तस्यात्मसमारोपो न भवति / यस्यात्मसमारोपो न भवति तस्य दृष्टिपर्युत्थानं न भवन्ति / यावत् परमार्थतो निर्वाणदृष्टिसर्वदृष्टिपर्युत्थानमपि न भवन्ति / तस्यैवम् अनुत्पादविहारिणः क्लेशा अत्यन्तंं विनीता द्रष्टव्या / अयमुच्यते क्लेशविनयः / यदा देवपुत्र, क्लेशान् निराभासेन ज्ञानेन परमार्थतो ऽत्यन्तशून्यान् अत्यन्ताभावान् अत्यन्तनिर्निमित्तान् प्रजानाति, तदा देवपुत्र, क्लेशाः परिज्ञाता भवन्ति / तत्र यथापि नाम देवपुत्र, य आशीविषस्य गोत्रं प्रजानाति , स तस्याशीविषयस्य विषं शमयति / एवमेव देवपुत्र, यः क्लेशानां गोत्रं प्रजानाति, तस्य क्लेशाः प्रशाम्यन्ति / देवपुत्र आहकतमन् मञ्जुश्रीः, क्लेशानां गोत्रम्? आह - यावदेषा परमार्थतो ऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु कल्पना, इदं क्लेशानां गोत्रम्" इति विस्तरः /
फलतः सर्वधर्मशून्यताभावनयैव तावन्निःश्रेयसनगरप्रवेशः / अतस्तदर्थिनो ये कल्याणमिच्छन्ति, तैः कुमार्गविचारान् दूरत एव परित्यज्य महात्मभिर्यो हि युक्त्यागमप्रदीपः प्रकाशीकृतः सद्भिश्च पुरुषैः [यः] मुहुर्मुहुरावेदितः स सादरं निरन्तरं च सदा सेवनीयः / अतश्च एकमेव यानम्, सर्वे च धर्माः परमार्थतो निः स्वाभावा इति सिध्यति /
// आचार्यकमलशीलप्रणीतं मध्यमालोकाख्यं शास्त्रं समाप्तम् //
भारतीयोपाध्याशीलेन्द्रबोधिना भोटदेशीयानुवादकेन द्पल ब्र्चेगस् महाभागेन चानूदितम् /
शुभमस्तु
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
