Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

मध्यमकालोक

Tác giả
कमलशील
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

चक्षुरिन्द्रियादीनामपि तद्धेतुत्वाद् ग्राह्यत्वप्रसङ्गः / तुल्यैकसामग्रीप्रतिबद्धौ देशकालावेव विज्ञानेन गृह्येते नान्यद्, यद्येवं परिकल्प्येत तदापि चक्षुरादिग्राह्यत्वप्रसङ्गः दुष्परिहारः / विषयत्वाभावादेवेन्द्रियं न गृह्यत इति चेन्नैतावता तदविषायत्वम् , विषयलक्षणस्य सत्वात् / ग्राह्यत्वमपि न विषयस्वभावेतरत् / अतः अविषयत्वान्नास्ति तद्विषय इति कथमिव वक्तुं शक्यते / तदेवं निराकारेण तावज्ज्ञानेन नार्थान्तरग्रहणं युज्यते, नापि तदन्येन साकारेण [ज्ञानेन], व्यवस्थाया एवाभावात् /

यद्येवं तर्हि श्रोत्रविज्ञानेनापि रुपादिग्रहणं स्यात् / अर्थान्तराणां परोक्षत्वे नैवान्याकारो ऽपि सिध्यति / यस्मादर्थान्तरग्राहक आकारान्तरो ऽपि नास्ति, तस्मात् कार्यकारणात्मको ऽपि नाकारान्तरः सिध्यति / अतः परमार्थतो न प्रत्यक्षतः कार्यकारणभावसिद्धिः / अत एव परमार्थतः -

तद्विविक्ततदाकारप्रत्यक्षेण द्वेयेन च / कार्यकारणभावस्य व्यवसायो विधीयते //

इति यदुक्तं तदप्यसिद्धम् साकारबुद्धया अर्थान्तरपरिच्छेदाभावात् कार्यकारणभावनिश्र्चायकप्रमाणाभावे, सति ज्ञानद्वयाभावकथने नास्ति किमपि बाधकम्, अनया तावद् युक्त्या सर्वेषां धर्माणां चित्तमात्रताकायप्रमुखत्वात् /

तत्प्रत्यक्षे ऽर्थान्तरायोगे ऽपि तज्ज्ञानं स्वसंवेदनप्रत्यक्षगम्यमेव, तदपि च कार्यकारणभूतमेवेतिः, कार्यकारनभावस्तु प्रत्यक्षसिद्ध इति चेन्नैव तद् युक्तिमत्, यथा तथता तथानुभवाभावाद्, यथा चानुभवस्तथा तथाताया अभावात् / एवं यदि विज्ञानस्य ग्राह्यग्राहकाकाररहितत्वे ऽपि तस्य वस्तुसत्त्वमभ्युपगम्यते तदा तत्र तथानुभूतेरभावः, सर्वस्य ग्राह्यग्राहकाकारज्ञानस्यैव सर्वदानुभूतेः / यद्येवं न स्यात्तदा सर्वस्यैव तथतादर्शनं स्यादिति / तज्ज्ञानमपि यथानुभूयते न तथा स्थितं भवति, एकस्मिन् स्वरूपद्वयविरोधात् / यदि भ्रान्तत्वात् तत्तथा ज्ञानमिति चेत्? का नाम भ्रान्तिः? यदि ज्ञानं तदा नैव सा प्रत्यक्षम्, अभ्रान्तलक्षणत्वात् प्रत्यक्षस्य, तत्तु स्वयं स्वतो भ्रान्तमिति /

द्वयात्मके च तत्स्वभावावभासादद्वयस्वभावहानिप्रसङ्गः, द्वयाद्वययोः परस्परविरोधात् / अर्थान्तरस्य भ्रान्तत्वे ऽपि पर्यन्तस्वसंवेद्यत्वान्न तेनाद्वयज्ञानम् / यदि प्रत्यक्षं कल्पनास्वभावं तदा न तत् स्वलक्षणविषयकम्, कल्पनायाः समान्यलक्षणविषयत्वात् /

अपि च, यः कल्पनास्वभाव उच्यते, तेन स्वतस्तदात्मनो ऽभिव्यक्तिरुच्यते, ग्राह्यग्राहकाकारो ऽपि स्वत एवाभिव्यज्यते, अतः कल्पनास्वभाव एवैषः / यदि स [ग्राह्यग्राहकाकारः] मिथ्या तदा तदभिन्नः कल्पनास्वभावो ऽपि तथैव मिथ्या, तथात्वे कथं स प्रत्यक्षप्रमाणेन भावस्वभावः प्रसिध्येत् /

यदि विशेषो [विशेष्यः] मिथ्या तदा कल्पनास्वभावस्य सामान्यस्य वस्तुता असम्भविनी, अन्यव्यवच्छेदेन सामान्यं विशेषेषु व्यवह्रियते / तदेवं तत्त्वज्ञानस्य यथावदनुभवाभावान्नैव तस्य स्वसंवेदनप्रत्यक्षत्वं युक्तम् / स्वसंवेदनप्रत्यक्षत्वे ऽपि न हि तेन ज्ञानेन कार्यकारणभावसिद्धिः, एकात्म्येन कार्यकारणात्मकस्य द्वयस्वभावस्य विरोधात् / अपेक्षाविशेषेण तयोः स्वभावः परिकल्प्येत तथाप्यर्थान्तरत्वादपेक्षायाः स्वसंवेदनप्रत्यक्षाभावे सा नैव सिध्यति / फलतस्तदपेक्षया व्यवस्थितस्य तत्स्वभावस्यापि प्रत्यक्षत्वं न युक्तियुक्तम् / कार्यात्मकस्य कारणात्मकस्य च स्वभावस्य अर्थान्तरभूतं ज्ञानमपि भिन्नं भिन्नम्, अतो ह्येकस्मिन् ज्ञाने नोभयोरनुभवः भिन्नकालत्वात् /

यद्येकस्मिन् ज्ञाने नानुभवस्तदा न केनापि सम्बन्धग्रहणम् / एकज्ञानावभासे ऽपि ऽइदं कारणं कार्यं चेदम्ऽ इति प्रत्यक्षे न शक्यमुभयोः सत्तासम्बन्धग्रहणम्, निर्विकल्पकत्वात्तस्य / सम्बन्धग्रहणाभावे नैव तावत् कार्यकारणभावग्रहण्, अन्यथा ह्यतिप्रसङ्गः स्यात् / तत्पृष्ठभाविना निश्चयाकर्षिणा ज्ञानेनापि परमार्थतस्तद् द्वयं नैव युज्यते, तेन तदनुभवस्याभावात् / अन्यानुभवस्यान्येन निश्चयो ऽपि नैव शक्यते कर्तुम्, अतिप्रसङ्गादेव / एकसन्ताने एकानुभवस्य प्रज्ञप्तिरपि नैव युक्तिमती, एकसन्ताने प्रज्ञप्तस्य वस्तूनो ह्यसत्त्वात् / भिन्नसन्ताने ऽपि परस्परानुभवस्य तावदसत्त्वम् / निश्चायकज्ञानकाले तावत् कार्यं कारणं चाप्यतीतम्, अतः स्वसंवेदनप्रत्यक्षेणापि न कार्यकारणाभावः प्रसिध्यतीति /

यदि प्रत्यक्षेण कार्यकारणभावो नानुभूयते कथं तदा स्मृतिस्वभावो ऽप्युत्पद्येतेति चेन्न, स्वप्नादिष्वर्थानुभवाभावे ऽपि स्मृतिसम्भवात् / न च परमार्थतस्तत्स्वभावे ऽर्थान्तरानुभवः सिध्यति, यथोक्तं प्राक् / इत्थं प्रत्यक्षेण तावन्न तस्य [कार्यकारनभावस्य] सिद्धिः /

नानुमानेनापि, यथोक्तनयेन प्रत्यक्षेणानुभूयमानस्य कस्यचिद् धर्मस्याभावात् / अतः कस्तावत् तत्सवभावत्वेनं साध्येत / हेतवो ऽपि सर्वे स्वभावासिद्धा आश्रयासिद्धाश्च / दृष्टान्तधर्म्यप्यसिद्धः, सर्वविरुद्धत्वात् तुल्यपरीक्षणीयत्वाच्च /

अपि च, कार्यहेतुनापि स वस्तुत्वेन साधयितुं न शक्यते, अन्यो ऽन्याश्रयदोषप्रसक्तेः / [तथाहि -] कार्यकारणभावसिद्धौ कार्यहेतोःसिद्धिः, कार्यहेतोश्च सिद्धौः कर्यकारणभावसिद्धिरिति सुस्पष्टमन्यो ऽन्याश्रयदोषः / धर्मिणो ऽसिद्धौ च कुतः स्वभावहेतोरपि प्रवृत्तिः / धर्मिणः सिद्धावपि परमार्थतः कार्यकारणभावसिद्धये नास्त्येव कुत्रापि हेतोव्यार्प्तिः, सर्वत्र विरुद्धत्वात् तुल्यपरीक्षणीयत्वाच्च /

यदि कार्यकारणभावसिद्धये ऽअस्मिन् सतीदं भवतीऽत्युच्यते, तदाप्येतद् भ्रान्तमेव / तद्धेतुकाले चाशेषजगतो विद्यमानत्वाद् ऽअस्मिन् सतीऽति तस्य कारणता नैव सर्वथा सम्भाव्यते / सन्ततावेवान्यव्यतिरेकसम्भवात्तस्यामेव कार्यसत्त्वस्य हेतुत्वम्, न क्षणिकत्वे, यद्येवमुच्यते तथापि परमार्थकार्यकारणभावसाधनस्यैवात्रावस्थितत्वान्नैव तद् युज्यते / क्षणिकत्वव्यतिरेकेण परमार्थतः सन्ततेरसिद्धत्वात् /

कस्यापि कार्यक्षणस्य सत्त्वं कस्यापि करणक्षणसत्त्वाद् यदि कल्प्यते तदा तत्समकालं सर्वसत्त्वान्तर्गशेषविद्यमानक्षणानामपि सत्त्वं स्यात् / यथा तत्स्वहेतुक्षणा विद्यमानाः, यदि दृश्यन्ते, न विद्यमाना यदि न दृश्यन्ते, तथैव तद्धेतुक्षासमाकालं सर्वसत्त्वान्तर्गताशेषक्षणा विद्यमाना यदि दृश्यन्ते, न विद्यमाना यदि न दृश्यन्ते / एवं सति तेषां कथं न हेतुत्वम् /

अपि च, ऽयदस्ति तत् सत्ऽ इत्युक्तौ तच्छब्देन यद्यन्यो हेतुभूतो धर्मीत्येवं गृह्यते तदा सो ऽपि परमार्थतः प्रत्यक्षे नैव सिध्यति,यथोक्तं प्राक् /

नानुमानेनापि धर्मिनः सत्त्वसिद्धिः सम्भाव्यते, सर्वेषामपि सत्त्वसाधकानां हेतूनां दोषत्रयानतिक्रान्तत्वात् / यदि धर्मी तावदसिद्धस्तदा सतो धर्मस्य हेतुत्वं नैव सम्भवि नापि चासतो धर्मस्य यक्तम्, विरुद्धत्वात् / उभयधर्मस्तु तावद् भ्रान्त एव, असपक्षे ऽपि सत्त्वात् / नैतेभ्यो भिन्नाः साधनाकाराः / यदि धर्मी तावदसिद्धस्तदापरस्यापि सत्त्वं नैव सिध्यति, तदपेक्षितत्वात् / कार्यसिद्धिरपि तथैवसम्भविनी / नात्र स्वभावहेतुना कार्यकारनभावसिद्धिः / नाप्यनुपलब्धेः, प्रतिषेधसाधकत्वात्तासां सर्वासाम् /

कार्यकारणभावसिद्धिस्तावत् प्रत्यक्षतो ऽनुपलब्धेति यदुक्तं, तत्राप्युनुपलब्धिशब्दस्तावत् तदितरस्य उपलब्धात्मकप्रत्यक्षस्याभिप्रायेण प्रजुज्यते, नानुमानमभिप्रेत्य यथा तदप्रमाणं तथोक्तत्वात् /

अपि च, या खलु उपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सा समुपलब्धिफला, ईदृशोनान्वयेन या कर्यकारणभावसिद्धिः तत्रापि परमार्थतः सन्देहः / किं तत्त्वतः सदित्यतः सत् अतवा अदृश्यानां पिशाचादीनां समीपवर्तित्वात् अथवा दूरेदेशस्थितस्य वस्त्वन्तरस्य समीपवर्तिनो बलादेवंविधः सम्देहः / उपलब्धिलक्षणप्राप्तस्यानुपलब्ध्या देशान्तरात् तदागमनस्य पूर्वतो वा तत्सत्त्वस्य निषेधः क्रियते, नान्यफलस्येति /

यदि तत् सत्तदा तत्सत्त्वं यादृच्छिकं स्यात् / दूरदेशस्थचन्द्रदीनामपि चक्षुर्विज्ञानहेतुत्वाभ्युपगमात् / ये चान्ये तत्समर्थहेतवः तेषां निवृत्तौ तत्फलस्यापि निवृत्तौ व्यतिरेकेन या तत्सिद्धिरुक्ता, सापि परमार्थतो नैव सन्देहविगता, पिशाचादीनां दूरदेशस्थितानामप्यन्येषां सत्त्वे ऽपि तदसत्त्वसन्देहात् / यदि तदसत्त्वं तत्रापि यादृच्छिकत्वं सम्भवति, यथा मातृविवाहसंस्कारवति देशे जन्मादानम् यत्र च नास्ति मातृविवाहस्तत्रासत् / तत्समर्थकारणान्तराणि सन्तीत्येवं विशेषाभावान्न स्यात् सन्देह इति चेत्? न, तेषां सामार्थ्यविशेस्यासिद्धत्वात्, अवसरप्राप्तत्वाच्च तत्त्वसिद्धेरिति /

कार्यकारणयोः सन्देहे सति तन्नैयत्यार्थं यद्यपि तत्कारणं समर्थं तथापि प्रज्ञाक्षेत्रे विशेषतस्तदसिद्धिवचनानि कथं विद्वद्भिर्निराक्रियन्ताम् / अन्वयव्यतिरेकौ व्यतीरिच्य वस्तुनि तत्सिद्धिनिश्चायकहेतूनामभावात् तत्रानवस्थादोषः स्यात् / यदि तत् सत्तदा तत्सत्त्वं साधयितुं शक्यते, किन्तु सहकारिवस्तूनां पृथक्स्वभाव इव अन्येभ्यस्तदुत्पत्त्याशङ्का कथं निवर्तेत / नाप्यदर्शनमात्रेण तदभावनिश्चयो युज्यते, अतिप्रसङ्गात् /

नार्वग्दर्शिनां परेभ्य उत्पत्तिनिश्चयस्य स्पष्टं दर्शनं भवतीति / यदि परेभ्यो ऽपि तदुत्पत्तिस्तदा न भवेद् हेतुभेदाद् भेद इति चेत्? न, तथा सति स्वभाववैलक्षण्यादिसहकारिप्रत्ययेभ्यो ऽप्यनुत्पत्तिप्रसङ्गः / यदि पृथक् तद्विशेषेष्वेव ते सहकारिप्रत्यया उपयुज्यन्ते, न तु कार्यमात्रे इति चेत्? न, परमार्थतो विशेषाणामपृथक्त्वात् / यदि तदंशेनापि [कार्याणि] उत्पाद्यानीति चेत्? न, नैकस्मिन् अंशभेदः सम्भवतीति /

यदि विशेषस्य पृथग्विशेषे उपचर्यमाणत्वात् स तत्त्वान्यत्वाभ्यां चिन्तयितुं न युज्यत इति व्याहरन्तो नैव विशेषान् व्याहरन्ति, प्राज्ञप्तिकस्य कदाचिदपि हेतावयुज्यमानत्वात् समूहमात्रेणैव तावदुत्पत्तिर्विभक्तिश्चापि विधीयते, न त्वेकैकेनेति चेत्, तदपि नैव युज्यते, न च कायं व्यतिरिच्य समूहो भवति / अतः एकैकः समूह एव हेतुत्वेनाभ्युपगम्यते / फलतः परमार्थतः कार्यकारणभावसिद्धौ नास्ति किमपि प्रमाणम्, कार्यकारणभावस्य सांवृतिकत्वात् / अत आचार्यैः कार्यकारणभावो यथाप्रसिद्धि सिद्ध इत्युक्तः / अतः स नैवास्ति परमार्थेनेत्यभ्युपेयम् / इत्येवं परमार्थतो ऽनित्यस्वभावम् साधयितुं नास्ति किमपि प्रमाणम्, परपरिकल्पितशब्दानामप्रमाणत्वात्, प्रमाणस्य चैतत्प्रमाणद्वयसंगृहितत्वात् / नित्यस्वभावमपि तावत् परमार्थतः साधयितुं नास्ति प्रमाणम्, प्रत्यक्षेणैवं तावत्तदसिद्धत्वात्, पूर्ववत्तेषां साकारनिराकारज्ञानभ्यामपि ग्रहणस्यानुपपन्नत्वत् /

आत्मादिनित्यवस्तून्यपि यथा स्वसिद्धन्तेषु विज्ञप्यन्ते तथा प्रत्यक्षज्ञाने नैवावभासन्ते / प्रत्यक्षज्ञानविषयत्वे सन्मात्रत्वेन तेषां सत्त्वम् / तथा सति सर्वदा सत्त्वप्रसङ्गः / न चात्र परापेक्षा युज्यते, अनाधेयातिशयत्वाद् अपेक्षाया अयोगात्, अहेतुकानां च विषयत्वानुपपन्नत्वत् /

तद्विज्ञानने विज्ञेयस्वभावत्वाद् विषयत्वोपचारे ऽपि तद्विज्ञानस्य तद्व्न्नित्यत्वप्रसङ्गः / तस्य [विज्ञानस्य] विज्ञेयस्वभावानुसरणात् सः [विज्ञेयः] अपि तद् [विज्ञानं] अनुसरति, अन्यथा तेन ज्ञेयस्वभावानुसरणमपि न कृतं स्यात्, तद्विज्ञेयस्य तदपेक्षितत्वात् /

नानुमानेनापि तत् सिध्यति, केनापि हेतुना सह तस्यासम्बद्धत्वात् / अतः कार्यहेतुस्तावदसम्भवी / ततः क्रमयौपद्याभ्यां कस्यापि फलस्यानुत्पादात् / अप्रत्यक्षार्थस्य किमपि सहकारिकाणत्वेन न परिगृह्यते / कार्यकारणभावस्तावदन्वयव्यतिरेकाभ्यां स्पष्टमवगम्यते / अत आत्मादीनां सुखादिफलेन सह कुत्राप्यन्वयो न सिध्यति अविकलकारणत्वेन न ततः कादाचित्कसुखोत्पतिरिति / व्यतिरेको ऽपि तावान्नास्त्येव, नित्यत्वादव्यतिरेक एव / नापि स्वभावहेतोस्तत्सत्त्वसिद्धिः सम्भवति, आधारधर्मिणो ऽसिद्धत्वात् तत्सत्तासाधकहेतोः पूर्ववद्दोषत्रयानतिक्रान्तत्वाच्च / ये तावद् रुपादयः प्रसिद्धधर्मिणस्ते ऽपि परमार्थतो ऽसिद्धा एव / कादाचित्कत्वात्तेषां व्यवहारेणापि नित्यस्यापेक्षा दुरुपपादैव / अनुपलब्ध्यापि तावन्नैव तत्सत्त्वसिद्धिः प्रतिषेधसिद्धौ समर्थत्वात् प्रतिषेधमात्रं सा साधयतीति /

अपि च, स्वभावानुपलब्धिरपि तावन्नैव सम्भविनी, अभावव्यवहारसाधनपरत्वात्तस्याः / इन्द्रियैरग्राह्यार्थेन सहविरुद्धयोर्व्याप्यव्यापकयोःकार्यकारणयोश्चासिद्धत्वाद् विरुद्धोपलब्धिरपि तावन्नैव सम्भविनी / प्रमाणद्वयमतिरिच्य नास्ति प्रमाणान्तरमित्यन्यत्र प्रसाधितत्वात् / फलतः वस्तुस्वभावपरीक्षणार्थं नास्ति किमपि साधकं प्रमाणमिति / अतः प्रेक्षावद्भिः परमार्थतः सत्त्वेन स नैव व्यवहर्त्तव्यः / तत्र तावदयं पयोगः - यस्य परमार्थः साधने नस्ति किमपि प्रमाणम्, कल्पनानिर्मितत्वात्तस्य तथैव सम्यक्ताया ग्रहणं नैव कर्त्तव्यम्, यथाश्यामत्वादिगुणविशिष्टस्य वन्ध्यापुत्रस्येति /

उपर्युक्तयोरुभयोः सम्यक्स्वभावयोः प्रसिद्धयर्थं नास्ति किमपि प्रमाणम् / व्यापकानुपलब्धेस्तावत् प्रतिषेधमात्रफलत्वात्, प्रेक्षावतां सद्व्यवहारस्य च प्रमाणव्याप्तत्वात् / नास्ति हेतोरसिद्धत्वमिति यदुक्तं तत् पूर्वं विस्तरेण विचारितम् /

व्याप्यव्यापकभावानुपपत्तेः कल्पनायोगप्रसङ्गनिवृत्तेस्तु बाधकप्रमाणाभावान्नास्त्यनैकान्तिकत्वमपि / सपक्षे सत्त्वान्नास्ति हेतोर्विरुद्धत्वमपि / सदसद्व्यवहारयोः प्रमाणव्याप्तत्वाभ्युपगतत्वे भावसिद्धिरेव [नूनं] स्यात्, तादृशस्य खलु व्याप्यव्यापकभावस्य कुत्राप्यन्वयं विहाय व्यतिरेकमात्रेन सिद्धेरसम्भवात् /

व्यतिरेकनिश्चयो ऽपि नैवान्वयश्चयं विना सम्भवति / यत् सत् तत् कथमसदिति तन्निवृत्त्या व्यतिरेकी भवितुं शक्नोति, सम्बन्धाभावात् / अतो नियतमेव प्रमाणाभिव्यक्तान्वयः सद्भावव्यवहारश्च स्वीकर्त्तव्यः /

यदि स स्वीक्रियते तदा क्वचित्तदेव सदिति सदव्यवहारप्रमाणं यत् यत् सत्तानुविधाने प्रसिद्धं तदेवास्माकं वस्तुनि प्रसिद्धमिति चेत्? तन्नैव युज्यते / एवं सद्व्यवहारप्रमाणव्याप्तमपि प्रमाणमात्रेण परमार्थतया नैयत्येन सद्विषयित्वेन नैव सेत्स्यति, व्यापकसंनिधानेन व्याप्यविशेषनिश्चयस्य कर्त्तुमशक्यत्वाद् अन्यत्रापि सम्भवाच्च / अन्यथा वृक्षेणापि शिंशपादिविशेषा निश्चयेण ज्ञास्यन्त इति, किमतेनास्ति प्रतिकूलम्? एवं तावद् वृक्षस्त्वशेषविशेषसाधारणत्वान्न तेन देवलादिविशेषा निर्णेतुं शक्याः / प्रमाणं हि नैव तावद् भावातिक्रान्ते ऽपरस्मिन्नपि सम्भवति /

इत्थमभावप्रवृत्तत्वात् प्रमाणहानिरेव स्यात् / सर्वप्रमाणानि भावाभिव्यञ्जकानि तद्व्याप्तप्रमाणबलभाविव्यवहारप्रवर्तकान्यपि प्रमाणावज्ञातवस्तुमात्रे प्रवृत्तत्वाद् वृक्षादिवत् कुतः साधारणानीति चेत्? नैतद् युज्यते, संवृतिकजगदर्थविषयीण्यपि प्रमाणनि भवन्तीत्येतद् बहुधा पूर्वं चर्चितम् / अन्यथा सर्वप्रमाणानि परमार्थैकविषयीणि भवेयुः, ततश्च सर्वे तत्त्वदर्शिनः स्युः, तत्त्वदर्शिनां कृते आर्यमार्गभावनायाश्चापि नैरर्थक्यम्, वक्तृणामपि तत्त्वविषेये कश्चन विवादो न स्यात्, सर्वेषां तत्त्वदर्शित्वात् तेषु संशयाभावात् / प्रमाणलक्षणशास्त्राणां प्रणयनमपि निरर्थकं स्यात्, मोहनिवर्तनफलत्वातेषाम्, तत्त्वज्ञानार्थमेव तैः सर्वेषां मोहावकाशो दूरीक्रियत इति /

लक्षणकारैर्लक्षणेषु परस्परविरोधो भिन्नसिद्धान्तप्रवेशो वा न करिष्यते, तत्त्वस्यैकस्वभावत्वात् / अतो व्यवहारप्रमाणं यन्नैव परमार्थविषयि तदपि व्यवहारप्रमाणं सम्भवत्येव / नैव हि सर्वप्रमाणानि परमार्थत्वेन व्याप्तानि / अपरमार्थविषयित्वे ऽपि इष्टार्थप्रापकत्वेन स्वप्नादिवद् व्यवहारप्रमाणं व्यवस्थाप्यते / तद्विषयेषु ऽपरमार्थाऽ इति संज्ञाप्रदाने ऽपि नास्ति विवादः / देहधारिणो ये वस्तुस्वभावस्य यथावत् परिज्ञानेन संसारकारातो मुमुक्षवस्तेषामविद्या विषयेभ्यो विनिवृत्तवभावा, ते च [विषयाः] सम्यग्ज्ञानगोचरा जायन्ते / अभीष्टार्थक्रियासाधकर्थप्राप्तिमात्रेण पुरुषा नैव मुक्ताः स्युः सर्वस्य मुक्तिप्रसङ्गात् / अतः अविसंवादि ज्ञानं प्रमाणमिति यदुक्तं तत् प्रमाणसाधारणलक्षणम् / सद्व्यवहारव्याप्तमपि तन्न सम्यगर्थविषयित्वेन सिध्यति / अतः कथं तस्मिन् सम्यग् वस्तु अविपरीततया सेत्स्यति / अस्मिन् बाधकप्रमाणाभावरुपो व्यवहारो ऽपि सिध्यति /

[26-29] ये तावत् परमार्थतः स्वपरोभयाहेतुकतो ऽनुत्पन्नास्तेषां सम्यक्तया निःस्वभावत्वात्, खपुष्पवत् / यानि तावत् स्वतो वा परतो वा अविपरीतया सद्वस्तूनि, तानि सर्वाण्यपि तथैव / अत्र नास्ति प्रमाणासिद्धत्वमपि, यतो ये तावत् सांख्यादयस्ते हेतुं सत्कार्यं व्यवस्थापयन्ति / स्वत एव वस्तूनि जायन्त इति ब्रुवाणा नैव युक्तिसङ्गताः / न हि सद् वा असद् वा वस्तु स्वतः स्वहेतौ निष्पद्यते / इत्येवं वस्तुः यद्यात्मानमुत्पादयतीति नियतमेव तत्रैकतरस्यासिद्धत्वम् / न ह्यत्र असिद्धस्तावदुत्पद्यते, तदानीं तस्यासिद्धत्वादेव / फलतः को हि नाम कस्योत्पादकः स्यात् / वन्ध्यापुत्रादयः खल्वसिद्धस्वभावा नात्मस्वभावमुत्पादयितुं क्षमाः /

[स्वभावत] सिद्धो ऽपि नैवोत्पादकः / तदात्मना सिद्धो ऽपि विशेषाभावात् कस्तावत् कस्योत्पादकः स्यात् / यस्तावत् सिद्धः, स नैवासिद्धस्वभावयुक्तः, अतिप्रसङ्गात् / उपकार्योपकारकत्वं तावदुत्पाद्योत्पादकस्वभाव एव वस्तुनि युज्यते / यदि स स्वभावेन सिद्धस्तदा तस्मिन् अणुमात्रमपि उपकार्यस्वभावस्याभावात् कथं स उत्पाद्यः स्यात् / अविशेषणीयत्वे ऽपि यद्युत्पाद्यत्वमहेतुकतायामुपकल्प्यते तदा सज्ज्ञानमपि तथैव किं न परिकल्प्यते / अभिन्नत्वादाध्यात्मिकायतनादीनि तथैव न परिकल्पयितव्यानि / अत एव विद्वद्भिः "आभ्यात्मिकायतनानि न स्वत उत्पन्नानि, सत्त्वात्, सज्ज्ञानवत्" इत्यस्मिन् प्रसङ्गे प्राङ्गार्थमविदित्वा केचन [प्रयोगे] अस्मिन् दृष्टान्तासिद्धिं, केचिच्च विरुद्धहेतुत्वं निरुपयन्ति, तत्र तेषामज्ञानस्यैव दोषः / इत्यं परेषु परस्परविरोधं प्रतिपादयिषया परेषु सिद्धानि सज्ज्ञानादीनि तावदुदाह्रियन्ते / स्वतस्तावत् संसिद्धवस्तुनि को ऽपि अस्वीकृतिप्रसङ्गो नैवापादितः /

सज्ज्ञानमपि परेषु नासिद्धम्, अतो दृष्टान्तासिद्धिः हेतोर्विरुद्धत्वमपि न स्तः / नित्यैकपर्यायस्वभावायाः स्वसन्ततेः सिद्धयर्थं तथाविधहेतुदृष्टान्तासिद्धेः / अपरतश्च परस्पराप्रतिबद्धाभिधानं तावदभिधानाभिलाषमात्रमेव, न तु स्वसन्ततेर्वस्तुधर्मतायाः प्रसाधनम् / यदि स सिद्धः स्यात्तदा तद्विरोधाभिधानमुचितम्, तत्र हेतुदृष्टान्तयोरप्रसिद्धत्वात् तदभिधानं तावदप्रतिबद्धमेव / परिनिष्पन्नभावात्मकत्वे ऽपि यदि तदुपकारः स्वीक्रियते तदा तद्भिन्नः स उपकारो न स्वत उत्पद्यते, अर्थान्तरभूतस्योपकारस्य उत्पन्नत्वात् / यद्यभिन्नस्तदोपकारस्यापि तथैव सिद्धत्वात् स कथमिव सेत्स्यति / अतो ऽस्मिन्नपि हेत्वभिधानमावश्यकम् /

अपि च, यदि कार्यकारणभावो ऽयं वृक्षद्रुमवत् पर्यायतयोच्यते तदा न तथा लोकप्रसिद्धिरिति / अतो ऽवश्यमेवास्य प्रवृत्तेर्भिन्नं कारणमिति स्वल्पमपि हेतूपर्शनमावश्यकम् / यदि कार्यकारणैकत्वमभ्युपगम्यते तदा तदुपदर्शनमसम्भवम् / यदि हेत्वभिव्यक्तौ विपरिणामे वा सति फलं भवतीति निर्दिश्यते तदा एवमयं पृथग्व्यस्थितः सद्धेतुरेव / नैवं चिन्तनं युज्यते, यतो हि स यदि अभिव्यक्तेर्विपरिणामस्य वावभासो निश्चयेन तद्भिन्नस्तदा केवलादन्यस्मादुत्पत्तिरेवाभ्युपगता स्यात् / यदि नास्ति भिन्नस्तदा कार्यकारणविप्लवदोषः प्रसक्तः स्यात् /

एकस्मिन् युगपद् व्यक्ताव्यक्तादिविरुद्धधर्मयोगः कथमिव युज्येत / अतः परस्परविरुद्धत्वाद् भेदाभेदपक्षो ऽपि नैव समीचीनः / परस्परपरिहारस्थितलक्षणधर्मस्य इतरप्रतिषेधकत्वाद् अन्यत्रासिद्धत्वाच्च अनुभयपक्षकल्पनमपि नैव युक्तीमत् /

अपि च, यद्यभीष्टे तद्धेतौ अभीष्टं वस्तु आत्मनः पुर्वस्वभावमपरित्यज्य अभिव्यक्ताद्यवस्थां प्राप्नोति तदा अवस्थाविकृतिप्रसङ्गः / फलतः एकप्रतीत्यपेक्षघटादीनामवभासो ऽनवभासश्च स्याताम् / वार्धक्ये ऽपि बल्यावस्थादयः स्पष्टं प्रतिभासेरन् / यदि परित्यज्येति पक्षस्तदा निरंशस्वभावत्वात् कश्चिदप्यन्वयस्वभावो न स्यात् / पश्चाद् व्यक्तावस्थायामपि द्रव्यान्तरस्योत्पादान्नैव स्वत उत्पादः, नापि काचिदभिव्यक्तिः परिणामो वा स्यादिति /

अपि च, व्यक्तमप्यनाभासितं सदितरलक्षणत्वाद् इतराभ्यामभिव्यक्तिपरिणामाभ्यां प्रभावितत्वात् परिकल्पितमेव / न च तदन्यरुपेण विपरिवर्तनीयम्, विरुद्धत्वात् / एकमेव वस्तु तत्त्वपरिच्छेदकाले तदितरव्यावृत्त्या परिच्छिद्यते / अन्यदपि इतरव्यावृत्त्या परिच्छिद्यते / एतदविपरीतत्वेन परिच्छेदे सति न तत् परिच्छेदयोग्यं स्यात् / यस्य परिच्छेदकाले यो विच्छेद्यो न भवति, तदभावस्तेन सह परस्परपरिहारस्थितलक्षणो भवति / ये परस्परपरिहारस्थितलक्षणास्ते एकस्मिन् धर्मिणि नैव युक्तरुपाः, यथा - एकस्मिश्चित्ते मूर्त्तमूर्त्तत्वविशेषणानि / तत्त्वान्यत्वयोः तत्सदृशयोर्वा कथमेकस्मिन् योगः सम्भवेत् / यदि विरुद्धधर्माणामप्येकत्वं तदा सर्वेषामेकद्रव्यत्वं प्रसज्येत / अतश्च बन्धनमुक्त्योर्जातिमरणयोश्च यौगपद्यं स्यात् / यद्येवं नास्ति तदा नाममात्रं खल्वेकत्वम् / नास्त्यत्र कश्चन विवादः / अतः यो हि वस्तुभेदः प्रागवस्थाविलक्षणः परिकल्प्यते, स एव अन्यस्तत्त्वविलक्षण इति / यश्चान्यः स कथं तस्येति?

अथ यश्चास्य स्वभावः पश्चादुपलभ्यते, स पूर्वमपि परमार्थतो विद्यत इति? तदा स तदानीं कथं नोपलभ्यते / अथानाभासस्वभावत्वात् पूर्वं नोपलभ्यत इति चेत्? तदा हैतावपि तस्य तथैवानुपलब्धिप्रसङ्गः / इष्यमाणे ऽपि चोपलब्धिस्वभावे प्राग्वत् पश्चादपि अनुपलब्धः स्यात् / यदि तदनींमावृतत्वादनुपलब्ध इति चेत्? तदा पश्चादपि आवरणशङ्कासद्भावात् तथैवानुपलब्धिप्रसङ्गः / दुग्धादीनां शतधा विनाशे ऽपि या हि दध्यादिरुपेण उपलब्धिलक्षणप्राप्तिः, सा नास्त्युपलब्धिबाधिका / अपि च, यः कश्चिद् दृढरुपेण भावस्वभावस्तत्स्य कथमन्यथा विकारानुभवः स्यात् / यदि स ताअवददृढस्वभावस्तदापि भङ्गुरत्वान्निरन्वयं विनष्टं स्यादिति तस्याप्यन्यथा विकारानुभवो नैव स्यात् /

अतो ऽभिव्यक्तेः परिणामस्य चायुज्यमानत्वाद् या हि ताभ्यां स्वत उत्पत्तिपरिकल्पना, सापि तावन्नैव युज्यते / यदि आकस्मिकी तवत् स्वत उत्पत्तिस्तथापि यद्धि वस्तूनां देशकालस्वभावनियतत्त्वम्, तस्य किं कारणं स्यात् / निरपेक्षेषु तावद् वस्तुषु तथाविधा नैयत्याम्भावना नैव युक्तिमती / यदि हि परसापेक्षत्वं तदा परत उत्पत्तिः स्यात्, न हि उपकाराभावे अपेक्षा नोमोपपद्यते सापि पश्चान्निषेत्स्यत इति / अपेक्षाया अपि तावत् सदा संनिहितस्वभावत्वात् सर्वदैवोत्पत्तिप्रसङ्गः / इत्येवं व्यवहारे ऽपि तावत् स्वत उत्पादो ऽसम्भव एव /

परतो ऽपि नैव [उत्पादः] / यदि ततः [परतश्चेत्] उत्पादः, तदा स [पराख्यः प्रत्ययः] नित्यो वा भवेद्, अनित्यो व / नित्यात्तावद् व्यवहारे ऽपि नोत्पादो युक्तियुक्तः, क्रमाक्रमाभ्याम् अर्थक्रियायास्तत्रानु पपन्नत्वात् / अप्रतीहतसामर्थ्यहेतुतो ऽपि न भवति कदाचित्ककार्योत्पत्तिः, नापि चाविकलहेतुतो ऽपि कादाचित्ककार्योत्पत्तिः [सम्भवति] / फलतः कथं नाम तस्मात् क्रमशो ऽर्थक्रिया सम्पस्यते? परैरनाधेयविशेषस्य [क्वचिदपि] अपेक्षाया अनुपपन्नत्वात् / सहकारिसम्बद्धस्वभावमनुसरतीति चेत्? सहकारिणामपि सर्वदा तथैवानुसरणप्रसङ्गः / नानुसरतीति चेत्? नित्यतायास्तस्य भङ्ग आपद्यते / अतो नास्ति तस्य सहकारिकारणापेक्षा / नित्यहेतुसमाश्रितस्य फलस्यापि नान्यप्रत्ययापेक्षा, असत्त्वात् / असत्त्वे ऽपि तत्प्रतिबद्धात्मभावस्य प्राप्यमाणत्वाद् बुद्धिपरिकल्पिता अपेक्षा तावद् व्यवस्थाप्यते, किन्तु तदभिनिर्हाराय यो हि अप्रतिसामर्थ्यवान् हेतुः, स एव तस्यानुपकारकत्वात् [सा] तदपेक्षिता भवति, न त्वन्यान् [अपेक्षते] /

अतो नित्यत्वेन यदभीष्टं वस्तु सदैवोपकरोति तदप्रतिहतसमर्थ्यं हेतुं परित्यज्य कथमन्यान् अपेक्षिष्यते? कार्याणि हि सहकारिकारणान्यपेक्षन्ते, तथापि ये तावदीश्चरदयो हेतवः, यदि ते ऽप्रतिहतसामर्थ्यवन्तस्तदा कथमपेक्षामर्हन्ति, येन तेभ्य उत्पत्तिमस्वीकुर्वद्भिर्बलेन "नैवोत्पाद्यन्ते" इत्येवम् आत्मबलोपदर्शनं करिष्यते, नान्यत्र / अतो नैव तावद् अक्रमेण क्रमोत्पत्तिरिति / एवमेव कार्याणि यदि हेतुधर्मान् नानुसरन्ति तदा तदभिन्नत्वप्रसङ्गः स्यादेवेति / अतो ऽवश्यमुभयोर्भेदो ऽभ्युपेयः /

अक्रमादपि हेतोः क्रमिणः कार्यस्योत्पादो न विरुध्यतीति चेत्? नैतद् युज्यते, यतः ऽकार्याणि सर्वान् हेतुधर्मान् नानुविदधतेऽ इत्येवं तत्कथनं स्यात् / किन्यु कार्याणि तावत् कारणान्वयव्यतिरेकानुविधायीनि भवन्त्येव / एतावन्मात्रमेव च कार्यकारणभावे हेतुत्वं नाम / किमपि कार्यं नित्यस्य वस्तनो व्यतिरेकं नैवानुविधत्ते, नित्यस्य तावद् व्यतिरेकाभावादेव / अन्यथा तदनित्यमेव स्यान्न नित्यमिति /

नापि अन्वयानुविधानमपि / अविकले ऽपि कदाचित् कार्योत्पादाभावात् यद् यत्र अन्वयव्यतिरेकौ नानुविधत्ते, न तत् तत्कार्यं युज्यते, अतिप्रसङ्गात् /

सतः कार्यस्य तावत् [क्वचिदपि] अपेक्षा नैव युज्यते, सर्वात्मना सिद्धत्वात्तस्य / अतो नाकाङ्क्षत एव सर्वानपि / इत्थं नित्ये तावत् क्रमशो ऽर्थक्रिया न युज्यते, नापि च युगपदपि, यतो हि तस्य तथाविधार्थक्रियाया विनष्टस्वभावमनुसृत्य कार्योत्पत्तिर्वा तद्वियोगो वा न युज्यते / यदि तत्सामर्थ्यस्वभावं पश्चत्काले ऽपि अनुसरति तदापि तेन सर्वाणि कार्याणि यानि पूर्वोत्पन्ननि तानि नैव पुनरुत्पादयितुं शक्यन्ते, पूर्वोत्पन्नत्वादेव /

यदन्यत् तत्सदृशं तत्कथं नोत्पद्यत इति विरोधपरीक्षापि तावन्नैव युज्यते,तेन तदुत्पादयितुमशक्यत्वात् / सामर्थ्ये सति पूर्वोत्पन्नमेव स्यादिति चेत्? नैव तावत्तद् युज्यते / तत उत्पाद्यस्य कार्यस्य अनुत्पत्तावपि तदुत्पत्तिसामर्थ्यस्वभावानुसरणं प्रतिहतं स्यात् / यो यदा यदुत्पादयति तदा तस्मिन् अप्रतिहतसामर्थ्यं भवतीति कथनं नैव युक्तिमत्तरम् / तस्मादयं पूर्वमपि पश्चात्काल इव अनुत्पादक एव स्यात्, अनुत्पादकावस्थातो ऽभिन्नत्वात् / ततश्च पश्चात्काले ऽपि पूर्ववद् उत्पादक एव स्यात् / यद्येवं नास्ति तदा विरुद्धधर्मयोगाद् अस्मैकत्वहानिः स्यात् / अतः स युगपदर्शक्रियामपि तावन्नैव करोति /

क्रमयौगपद्याभ्यां व्यतिरिच्य अन्यस्तावत् प्रकारो ऽर्थक्रियाकारी नास्त्येव / परस्परपरिच्छित्त्या व्यवच्छेदाभावात्, [अतः] असन्नेव सः / अतो परस्परपरिहारस्थितलक्षणो विरोधान्तरो न सिध्यतीति चेत्? असन्नेव तदा स इति / अतः परतो नित्यादुत्पत्तिस्तावन्नैव युज्यते /

नाप्यनित्यात्, क्षणस्थितिधर्मित्वात्तस्यानित्यस्य / अतः कल्पकल्पान्तरेषु अविशेषतया स्थितत्वात् पूर्ववत् पश्चादपि तस्य विनाशो नैव युज्यते / कार्योत्पत्तिस्तावदतीताद् [हेतोः] भवतीति वैभाषिकाः, यथा ते अतीतादपि विपाकहेतोः कार्योत्पत्तिं वर्णयन्ति, अनागतां वा, यथा तत एव अनागतजातेरुत्पादः / एवंविध उपचारो वा वर्तमानक्रियाक्रमो वा अतीताद्धेतोर्भवतीति वादो नैव सर्वथा युक्तः, अतीतस्यासत्त्वात् / यदि तत उत्पत्तिरङ्गीक्रियते तदा अहेतुत एव स्यात् /

को हि नामातीतः? किमुपहतस्वभावो ऽतीत इति / यद्येवं नास्ति तदा वर्तमान इव अनुपहतस्वभावात्मकत्वात् कथं हि स अतीत इति / यश्चोपहतस्वभावः स तावदसत्स्वभावत्वात् कथं कार्यमुत्पादयिष्यति / अर्थक्रिया हि स्वस्वभावमेवापेक्षते / यदि क्रियाविनाशेन अतीत इत्युच्यते, न तु स्वभावपरिहाण्येत्युच्यते, एवं सति विनष्टायाः क्रियातः कार्योत्पत्तिर्नैव युज्यते / एवं न भवति / कथं हि कार्योत्पत्तौ क्रियमाणायां क्रियाविनाश इति / एकस्वभावात्मके वस्तुनि क्रियावन्ति अक्रियावन्ति च कार्याणि न युज्यते, भिन्नतायाः प्रसङ्गात्, निरंशत्वाद्धि तस्य /

आक्षेपमात्रा हि क्रिया, न चानाधायिका, अभिन्नत्वात् स आक्षेपकाल एवाधानं करिष्यति / अन्यथा पूर्ववत् पश्चादपि सा तथा भवितुं न शक्ता स्यात् /

अपि च, क्रिया नाम सा किं समर्थस्वभावा यदुत कर्मस्वभावा? यदि तत् स्वभावद्वयं वस्तुनः सकाशाद् भिन्नं तदा कथं नाम तद् [वस्तु] विनष्टमित्यभिधातुं शक्यते / यदि तदुपहतस्वभावं तदा समस्तवस्तुनो नित्यसत्तावादस्य हानिः प्रसज्यते / अर्थान्तरविनाशे सत्यपि वस्तुनो ह्यचलस्वभावस्य विनाशो नैव सिध्यति / यथा मृते ऽपि देवदत्ते यज्ञदत्तस्य अनुपहतस्वभावात्मकत्वान्मृत स इति वक्तुं न शक्यते /

यदि क्रियान्तरविनाशात्तस्य विनाशःस्वीक्रियते, तदैतन्नैव युज्यते, अनवस्थानात्, यतो हि क्रियायां क्रियान्तरसद्भावो नास्त्येत् / तस्यामपि तुल्य एव विरोधः परीक्षा च / फलतः कस्यापि विनाशो नैव सिध्येत् / अन्यार्थत्वे सति क्रियायाः वस्तु तावद् अहेतुकमेव स्यात्, केवलं क्रियात एव कार्यस्योत्पादात् / अतो वस्तुनस्तावदसत्त्वप्रसङ्गः / अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः / अन्यार्थक्रियान्तरोभयस्वभावात्मकत्वाद् यदि वस्तुन उत्पत्तिरभ्युपगम्यते तदा क्रिया यदा वस्तुन उत्पत्तिरभ्युपगम्यते तदा क्रिया यदा स्वभावत एवोत्पादयति तदा वस्त्वपि तथैवोत्पादकं स्यात् / फलतो ऽन्यार्थप्रतीत्या किम्? अर्थान्तरस्य पक्षत्वे अन्यार्थकल्पनायाम् अनवस्थादोषान्नैव [कदापि] हेतुत्वं सिध्येत् / वस्तूपकाराभावाद् ऽअस्येयं क्रियाऽ - इति सम्बन्ध एव न सिद्धः स्याद्, उपकारसापेक्षत्वात् सम्बन्धस्येति /

उपकारकत्वमेव यदि वस्तुत्वेनाङ्गीक्रियते तदा क्रियात्मकत्वाद् वस्तुनः, क्रियामुपकरोतीति चेत्तदा कार्यमपि कथं न तथैवोपकरोति? केन तावत् कारणेन क्रियान्तरत्वेनोपकल्प्यते? यदि क्रिया हि सन्मात्रवस्तुसापेक्षैव तदा अविकलहेतुत्वात् सदा तल्समीपवर्तिनी एव, अतो विनाशो ऽपि तावन्नैव सिध्यति / यदि सा अर्थन्तरभूता तदा सम्बन्धस्तावदसिद्ध एव / क्रियाणामेव परस्परयोगाद् वस्तु ताअवद् गौणमेव स्थास्यपि / क्षणिकस्य [वस्तुनः] उत्पादसमनन्तरमेव अस्थायित्वात् [तस्य कस्यामपि] क्रियायां कर्मस्वभावत्वं नैव युज्यते ये तावदक्षणिकास्ते सदा एकस्वभावत्वेनावस्थित्वान्नैव क्रियावन्त आकाशवत् / अतः केष्वपि ऽकर्म क्रियतेऽ इति न सिध्यति / अत एव सामर्थ्यक्रियादिशब्देन वस्तुस्वभावो ऽभिधीयते, नान्यस्मिन्नर्थे /

क्रिया, या वस्त्वभिन्नत्वेनोभयस्वभावा, सा विनश्य यदि स्वस्वभावोपहतलक्षणा [भवति], तदा वस्त्वपि तदभिन्नतया स्वस्वभावोहतमेव भवति / अतः कथमतीतस्य सत्त्वं सेत्स्यतीती? वस्तुनः स्वस्वभाव इव क्रियाया अपि अविनाशप्रसङ्गे सति क्रियाया नैव [कदापि] विनाशः सिध्यति / सैव क्रिया पुनर्यदि अन्यत्वे ऽनभिधेयेति सति क्रियाया नैव [कदापि] विनाशः सिध्यति / सैव क्रिया पुनर्यदि अन्यत्वे ऽनभिधेयेति कल्प्यते तदा प्रज्ञप्तिसत्त्वात् सा अवस्त्वेव / फलतस्तद्बलेन त्रिकालव्यवस्थापि नैव समीचीना स्यात् / वस्तुसतः केनाप प्रकारेण अनभिधेयत्वं नोपपद्यते / तथा सति सर्वस्याप्यनाभिधेयत्वप्रसङ्गः / अतो ऽतीतस्य अवस्तुत्वान्नैव तेन कार्यस्योत्पत्तिरिति /

नाप्यनागतात् / अतीत इव तस्याप्यसत्त्वात् / एवमसत्त्वाद् आकाशकमलसदृशाद् अनागतादपि कार्योत्पत्तिर्नैव युज्यते / यदि अप्राप्तक्रियस्तावदनागत इत्युच्यते तदा तदानीं तस्मादपि कार्योत्पत्तिः आत्यन्तिकतया नैव युक्तिमती, अप्राप्तक्रियत्वादेव / यदि वस्तु सर्वदा विद्यमानं तदा तस्याः प्राप्तेरविकलकारणानां सद्भावे ऽपि किमिव क्रिया नैव प्राप्यते / नापि क्रिया वस्तुनः सकाशादर्थान्तरभूतेति पूर्वमेव निर्दिष्टत्वात् / यदि नास्ति अर्थान्तरभूता तदा क्रियावत् स्वभावो ऽपि नैव अप्राप्तः स्यादभिन्नत्वात् / अतः अनागतास्तित्वं नैव सिध्यति / वस्तुनः स्वभाव इव तदभिन्ना क्रियापि सर्वदा सदेव, अतः सा अप्राप्तेत्यपि नैव सिध्यति / अतः अनागतान्नास्ति कार्योत्पत्तिः तस्यासत्त्वादेव /

वर्तमान इत्यपि पक्षो न सम्भवति / यदि ततः [वर्तमनात्] कार्यं समुत्पद्यते तदा समकालं वा समुत्पद्यताम्,. विषमकालं [भिन्नकालं] वा समुत्पद्यताम् / न तावत् कदाचित् समकालम् / कार्योत्पत्तितः पूर्वं शशशृङ्गनिभाद् असत्कारणाद् उत्पादो नैव युक्तः / यस्मिन् काले च हेतोरात्मभावः [कार्योत्पदने] समर्थस्तस्मिन् काले कार्यस्यापि समकालं सत्त्वात् सिद्धमेव तत् [कार्यम्] इति / अतस्तस्मिन् [कर्ये] स हेतुः कमपि व्यापारं नैव करोति / हेतुव्यवहारो ऽपि तावत् [तस्मिन्] नैव युक्तरूपः, यथा फलाभिमतो नैव हेतुरिति / यद्येवं न स्यात्तदा कार्यकारणभावस्यैव भङ्गः स्यादिति / विषम [भिन्न] कालमिति पक्षो ऽपि नैव सम्भवति एवमेव यदि कार्यं [उत्पादात्] पूर्वमेव सत् स्यात् तदानागतोत्पादः स्यात् / अयमपि तावत् [पक्षः] नैव युज्यत इत्युक्तपूर्वमस्माभिः /

यदि [कार्यं] क्षणान्तरव्यवधानेनोत्पद्यते तदा तदतीतादेवोत्पद्यत इति नैव युक्तमित्युक्तपूर्वम् / यद्यव्यवहिततया [उत्पादः], तदा सर्वात्मनाव्यावहितत्वात् समकालिकताप्रसङ्गः / अथापि स्यात्, यद्यपि अव्यवहितत्वेन कार्यस्योत्पादस्तथापि नास्ति समकालिकताप्रसङ्गः, द्वितीये क्षणे कार्यसत्ताया अभ्युपगमादिति / तदापि क्षणिकत्वान्नस्ति हेतोः स्थितिः / अत्र भगवतापि - "अस्मिन् सतीदं भवति" इति कार्यकरणभावस्य निर्देशात् कल्पनात्रयं विवर्ज्य चतुर्थी स्वीक्रियते / ताः कल्पनाः पुनः - कारणत् पूर्वं कार्यं वा, समकालिके कार्यकारणे वा, क्षणान्तरव्यवहितत्वं वा, अव्यवहितत्वे सति द्वितीयक्षणे ऽवस्थानं वा - इत्येवंविधाः स्युः /

तत्र यत्तवत् पूर्वमेव स्थितं भवति न तद् हेतौ सति जायते, पूर्वमेव निष्पन्नत्वात्तस्य / समकाले ऽपि हेतुतो नैवोत्पत्स्यते [कार्यम्], तस्मिन् काले तस्य [कार्यस्य] अपि सत्वात् / इत्येवं समकालिककार्याभावात् कारणस्याप्यसत्त्वम् / कारणसत्त्वे कार्येस्यापि सत्त्वम् / तृतीयक्षणभावि कार्यमपिओ हेतुतो नोत्पद्यते, द्वितीयसत्त्वे कार्यस्यापि सत्त्वम् / तृतीयक्षणभावि कार्यमपि हेतुतो नोत्पद्यते, द्वितीयक्षण एव विनाशात् कारणं तावदसदेव / इत्यं द्वितीयक्षणे विद्यमानं कार्यमेव हेतोः समुत्पद्यते, प्राथमक्षणिकस्य हेतोः स्वकाले सत्त्वादेव / ततो ऽव्यवहिते द्वितीये क्षणे कार्यसत्ताया अनुभवार्थम् - "अस्मिन् सतीदं भवती" त्युक्तम् / न च कार्यकाले काएअनसत्तायाः प्रसङ्गः, क्षणिकत्वात्तदा तस्यासत्त्वात् / नापि विनष्टात् कारणात् कार्योत्पत्तिप्रसङ्गः, प्रथमे क्षणे कारणस्य अविनष्टात्वात् तदव्यवधानेनैव च कार्यस्योत्पादात् / तृतीये क्षणे तावत् कार्योत्पादो ऽस्विति चेत्? नैतदपि युज्यते, [कार्यकारणयो] मध्ये नास्त्येवंविधम् अणुमात्रमपि कालान्तरास्तित्वम् / विद्यमानं कारणं कालान्तराव्यवहितं च कार्यं यद्यभ्युपगम्यते, नैव तत्कार्यं तदा स्वनिर्भरम् / [एवं च सति] समकालिकत्वप्रसङ्गः स्यान्नवेति विचारणीयतामर्हति / निरंशे तावद् वस्तुनि कालान्तरेणाव्यवहिते च सति समकालिकत्वं मुक्त्वा नान्या गतिः सम्भवति, तयोःसर्वात्मना अव्यवहितत्वात् / यदि नास्ति मध्ये कालान्तरास्तित्वं तदा अवश्यं पूर्वापरतोः क्षणयोः संस्पर्शः स्यात् / तथा च सति सर्वेषां [क्षणानां] एकस्मिन्नेव क्षणे समनुप्रवेशः स्यात् / [फलतः] यथा परमाणोः सर्वात्मना संयोगे पिण्डस्य अणुमात्रताप्रसङ्गः, तथैव कल्पस्यापि क्षणमात्रताप्रसङ्ग इति /

यथा खलु देशक्रमः प्रमाणैरवभासमानत्वात् संवृतौ स्वीक्रियत तथा कालक्रमो ऽपिओ तत्सदृश एव, स्वप्नादौ कल्पादीनामप्यवभासमानत्वात् / तत्र प्रयोगः - ये सर्वात्मना कालान्तरेणाव्यवहितास्तेषु पूर्वापरकालभेदो न सम्भवति, दक्षिणवामशृङ्गवत् कार्यकारणयोरपि सर्वात्मना कालान्तरेणाव्यवधानमिति, स्वभावहेतुः / अथैकदेशेनाव्यवहितत्वम्, नैव सर्वात्मनेति चेत्? तदा क्षणस्यापि सावयवत्वप्रसङ्गः / फलतः अन्तिमकाललक्षणस्य क्षणस्यापि [स्वरूपता]हानिः स्यात् / अथापि कार्योत्पत्तिकाले हेतोरभावाद्, अभावेन च सह सर्वात्मना वा एकदेशेन वा अव्यवहितत्वमिति चिन्ता न प्रवर्तत इति चेत्? तदपि नैव युज्यते, तयोर्मध्ये कस्या अपि कालान्तरसद्भावसम्भावनाया अभावान्नैव तदा हेत्वभावयोगः सम्भवति /

पुनश्च, कार्योत्पत्तिकाले यदि कारणं नास्ति, तदा कार्यमहेतुकमेव स्यात् / विनष्टात् कारणात् यदि कार्यमभ्युपगम्यते, न तु वर्तमानात् [वर्तमानस्य तदानीम्] असत्त्वात्, तदा तस्य वर्तमानमयुक्तम्, यदि तद् वर्तमानं तदा [तस्य] असत्त्वेन् सह विरोध आपद्यते / यदि तत् सदित्यभ्युपेयते तदा अव्यवहितत्वदिचिन्ता कथं न प्रवृता स्यात् / यदि पुनः कार्योत्पत्तिकाले कारणं विद्यमानमेव, किन्तु कार्यसत्ताकाले तदसदिति हेतोः अव्यवहितत्वादिचिन्ता नैव कार्येति चेत्? नैतदपि युज्यते, सत्तातो ऽनन्यार्थकत्वादुत्पत्तेः / इत्थं तु भवन्तः कारणस्य निरन्तरत्वे सत्कार्यस्योत्पत्तिं वर्णयन्ति / ये तावन्निरन्तरत्वेन सत्त्वादित्यभिदधानास्ते ऽपि कथञ्चिदप्यवहितत्वमभ्युपगच्छन्त्येव / अन्थया निरन्तरशब्दस्य को ऽर्थः स्यात् / निरन्तरत्वम् अव्यवहित्वं संस्पृष्टत्वमित्यादीनामभिन्नार्थकत्वात् तदभ्युपगमसामर्थ्येन कार्यकारणैकत्वमप्यभ्युपगतं स्यात् / कालान्तरेणाव्यवहितस्य सतो नान्यावस्था सम्भविनी /

अपि च, विनष्टहेतोः कार्योत्पत्तिप्रसङ्गस्य अयुज्यमानत्वाद् भवन्तस्तं [पक्षं] परित्यज्य वर्तमानहेतोरव्यवधानेन कार्योत्पत्तिमभ्युपगच्छन्ति / तत्र तावत् किं सर्वात्मना कार्योत्पत्तिं स्वीकुर्वन्ति यदुत एकदेशेनेति चिन्ता प्रवृत्तैव स्यात्, प्रकारान्तरस्यासम्भवात् / अतः कारणं तावत् कार्यक्षणाव्यवहितमेव / तत्र च ये नाप्येकदेशेन न च सर्वात्मनेति ब्रुवन्ति, तेन तैः किमुच्यत इति विचार्यमाणे अव्यवहितमपि नाप्यव्यवहितमिति कथनं पर्यवस्येत् / एवंविधं सुभाषितं को ऽन्यः कथयितुं पारयति /

अपि च, यदि विद्यमानकार्यकाले कारणं नास्त्येव, तदा ऽअविनष्टात् कारणात् कार्यमुत्पद्यतऽ इति नैव कथनीयम्, तस्मिन् काले कस्याप्यविनष्टकारणस्यासद्भावात् / यस्मिन् काले कारणम् अविनष्टं तस्मिन् काले कार्यमपि नास्ति, अतस्तत् [कार्यं] अविनष्टात् कथमुत्पद्यते /

एवं चिन्त्यते - स्वयं विनाशव्यवहिते ऽपि वस्तुनि नास्ति समकालिकत्वम्, यथाच्छायातयोः पूर्वापरत्वाभावे ऽपि उदकधारायां चैकदेशत्वं नास्ति, तथैवात्रापि कार्यकारनयोरसमीचीनरूपत्वे ऽपि समकालिकत्वं नास्तीत्ययं विचारप्रकारो न युज्यते, विरोधात् तुल्यपरीक्षणीयत्वाच्च /

एवं तत्र सदसद्भावे यद्येकदेशेनाव्यवहितत्वं तदा अवयविसद्भावप्रसङ्गः / यदि सर्वात्मना तदा समकालिकत्वमेव / तथैव छायातपयोरुदकधरायां चापि यदि सर्वात्मनाव्यवहितत्वं तदैकदेशत्वमेव स्यात् / यद्येकदेशेनाव्यवहितत्वं तदावयविसाद्भावप्रसङ्गः / अस्माकं तु [मते] सर्व एवायं सदसद्भावः परमार्थतो ऽसिद्धः, तस्य सदसद्भावादिसर्वप्रपञ्चजालविरहितत्वात् / अव्यवहितत्वादिसमुद्भूतो ऽसद्भाव इति नास्ति कश्चन व्यवहारस्तथापि द्विपीये क्षणे वस्तूनि स्वस्वभावनिरोधमात्रं प्रज्ञपयन्ति / नास्ति किञ्चिन्निरन्तरत्वमिति, असन्मात्रत्वात् /

निरोधमात्रं तावन्न किञ्चित्, अतस्तेन सह परमार्थतो ऽव्यवहितत्वादिचिन्तनं नैव प्रवर्तते / कार्यकारणयोस्तु परमार्थतः सत्त्वभ्युपगमाद् एकदेशेनाव्यवहितत्वादिचिन्ता तावत् प्रवर्तत एव / आर्यशालिस्तम्बसूत्रे यो हि भगवता तुलादण्डोपमया अव्यवहितत्वेन कार्यकारणभावो ऽभिहितः, स तावदुच्छेददृष्टिपर्हारार्थं सांवृतिककार्यकारणभावत्वेन द्रष्टव्यः, न तु परमार्थतः, तुलादण्डस्य परमार्थत्वेनासिद्धत्वात् / यदि तुलादण्डस्वभाव एको ऽवयवी दृष्टान्तत्वेन प्रदश्र्यते, तदा स खल्लवसिद्ध एव / परस्परविरुद्धयोरुन्नामावनामादिकृत्ययोरेकस्मिन् युगपद्भावो नैव समीचीनः / परमाणुसञ्चयात्मको ऽपि स [तुलादण्दः] अर्थतो ऽसिद्ध एव, निरवयवत्वेन सञ्चयस्यायुज्यमानत्वादेव / यदि स अवयवीति तदा तस्याभावप्रसङ्गः / यदि विज्ञानावभासिस्वभावत्वेन तुलादण्डस्तावन्निर्दिशयते, तदा परिकल्पितस्वभावत्वेन मिथ्यैव सः / कथमिव तस्य वस्तुसत्त्वं स्यात् / अमूर्त्तत्वाद् विज्ञानस्य नोर्ध्वाधोगमनम् / अत एव छायातपोदकधारादिनोत्तरितम् /

लङ्कावतारादिसूत्रेषु भगवता कार्यकारणभावनिषेधस्तावत् सांवृतकार्यकारणेष्वेवावगन्तव्यः यदपि भगवता ऽअस्मिन् सतीदं भवतिऽ इत्युक्तं तेन विकल्पत्रयं परिहत्य चतुर्थं एव विकल्पो ऽभ्युपगम्यत इति यदुक्तं तद् वक्ष्यते किं ऽअस्मिन् सतीदं भवतिऽ इति वचनेन विकल्पत्रयं निषिध्य चतुर्थविकल्पाभ्युपगम् आगमेन निर्दिष्टो यदुत युक्त्या? आगमेनेति चेत्, तन्नैव युज्यते / यतो हि यौ छायाङ्कुरौ दीपप्रकाशौ वा समकालविद्यमानौ तावपि दीपे सति प्रकाशो भवतीति न व्यवहारविरुद्धौ / एवमेव विद्यमानकार्यं विद्यमानकारणसापेक्षमिति शब्दमात्रेण निर्दिश्यते, न तु विद्यमानकार्यकाले कारणं नासदिति / यदि हि वस्तुत्वं प्रमाणान्तरैः परमार्थतः क्षणिकत्वेन साध्यते तदा तदपि परिकल्पितमात्रमेव, न त्वागमेन [सिद्धः] / इत्थं तु लोके ऽपि समकालिकं छायाङ्कुरादिकमपि कार्यकारणभावेन ज्ञायत एव /

अथ युक्त्येति पक्षः, तदा भगवतो वचनानि [प्रमाणत्वेन] नैवोद्धर्तव्यानि, तानि एतदर्थं नैव प्रमाणम् / अथ केवलया युक्त्यैवैकया कथनीयमिति चेत्? एतदपि नैव वक्तुं शक्यते, यतो हि यथा युक्त्या विकल्पत्रयं न सम्भवति तथा चतुर्थो ऽपि विकल्पः परमार्थतो नैव सम्भवतीति [पूर्वं] विस्तरेन निर्दिष्टम् /

lokaprasiddhimatikramya nityatvadravyatva svātantryādiguṇopetamātmānamabhyupetamātmānamabhyupetya karmafāsambandhādisaṃvṛtiṃ nirākurvatāṃ dṛṣṭiparihārārthaṃ bhagavaduktena idampratyayatāmātreṇevāvasthiteṣu saṃvṛtimāśritya asmin satīdaṃ bhavatītyuktam, na tvāgamena vikalpatrayaṃ parihatya caturthavikalpāśrayaṇaṃ kalpanīyam / ataḥ parata utpattirnaiva yuktimatī / phalataśca sarveṣāṃ vastūnāṃ māyeva prajñāptyā utpādādibhya eva santuṣyatām , mithyātvāt /

विनष्टात कारणात्तावत्कार्योत्पत्तिर्न युज्यते / न वाविनष्टास्वप्नेन तुल्योत्पत्तिर्मता तव //

निरुद्धाद्वानिरुद्धाद्वा बीजादङ्कुर संभवः / मायोतादवदुत्पादः सर्व एव त्वयोच्यते // 17-18 //

अतो ये आचार्याः "न परमार्थत अध्यात्मिकान्यायतनानि प्ररत्ययतः समुत्पद्यन्ते, परत्वात्" इत्याद्यभिदधते, [तेषामपि] ते हेतवो नैव सन्दिग्धविपक्षव्यावृत्तिकाः, विपक्षे बाधकप्रमाणसम्भवात् / अतो ऽनित्यतासिद्धिवत्तावत् सत्त्वसिद्धिः / जडतादिसिद्धौ परतो विपक्षे बाधकप्रमाणाभावात् तेष्वनैकान्तिकता / उत्पादनिरोध एव तावत् साधनीयः, न तु विपक्षे बधकप्रमाणसद्भावः / व्यवहारे परतः सिद्धत्वान्नस्त्यसिद्धत्वं प्रमाणस्यापि [भवन्मते परमार्थतः] सम्यग्वस्तुत्वाद्धेत्वादीनां न व्यवहारः कुत्रापि सिध्यतीति निर्दिष्टं पूर्वम् / अत एतेषामनैकान्तिकत्वासिद्धत्वप्रतिपादनं नाम असम्बद्धमेत्तैतत् /

तैर्थिकाः ये हि परादिव्यवहारवशात् परादीनि सन्तीति कथयन्ति तान् आचार्य आह -

"न हि स्वभावो भावानां प्रत्ययादिषु विद्यते"

इत्यादिना दूषयतीत्युच्यते / अतः शास्त्रैस्तावदसिद्धत्वात् परत उत्पत्तिर्नास्तीति निर्दिष्टम् / परादयः शब्दा ये तावत्प्रज्ञाप्तिगोचरास्तानपि परम्परया वस्तुसंसर्गिण इत्यभिदधतां तेषां ऽवस्तुसभावः प्रत्ययेष्वस्तीत्युत्पद्यतेऽ इत्युममभिप्रायमादाय दूषणं प्रदत्तम्, प्रत्ययादिषु सत्त्वे परमार्थतो वस्तुस्वभावस्यानुत्पादादिति विस्तरेण खल्वभिहितम् /

अतो यदा सर्वेषां वस्तूनां परमार्थतः परत उत्पादो नैवोपपद्यते तदा प्रत्ययादिभ्यो ऽपि अनुत्पादादसिद्ध एव / अतो नास्त्येव परमार्थतः शब्दसंसर्गि किमपि वस्तु / फलतो ऽसिद्धे ऽप्येवंविधे व्यवहारे वस्तु तावदबाधितमेवेति यदुक्तं तन्न युज्यते /

[30] ये सांख्यादयः प्रधानेश्वरादिकं मन्वानाः प्रधानेश्वरादिभ्यो वस्तूनामुत्पादमभ्युपगच्छन्ति, तेषामपि मतं स्वतो वा परतो वा उत्पादपक्षे पृथक्पृथम् दोषाभिधानान्नैव युक्तरूपमिति /

अन्ये ये कदाचित् स्वातन्त्र्येन उभयत उत्पत्तिं वर्णयन्ति , ते ऽप्युभयपक्षीय [स्वपरपक्षीय] दोषैर्दूषितत्वान्निराकृता एव / अपरे च ये तावत् - ऽउभयात्मकस्य वस्तुनः प्रमाणविरुद्धत्वान्न को ऽपि तदभ्युपगच्छतीति हेतोः उभयत उत्पत्तिं दूषयित्वा भवन्तः केवलमात्मानमेव मोहयन्ति, तत्तु [भवतां] शब्दमात्रमेव" इति कथयन्ति / ते तावद् विद्वांसः स्वयं शास्त्राणामपरिज्ञानात् शब्दार्थयोश्च सम्यगनवगमात् [केवलं] शब्दश उपहसन्ति / केचन तावत् कण्टकादितीक्ष्णतादृष्टान्तेन सर्वाणि वस्तूनि परमार्थतो ऽहेतुत उत्पद्यन्त इति कथयन्ति, तत्र वस्तूनां परमार्थतो ऽहेतुत उत्पत्तिं साधयतां तेषां दृष्टान्तस्तावन्नैव सिद्धः, परमार्थतो ऽनुत्पन्नत्वात् सर्वधर्माणाम् / संवृतौ सुद्ध इति चेन्न, तत्राप्यसिद्ध एव, कण्टादीनां स्वबीजत उत्पादः प्रत्यक्षतो निश्चितत्वात् / अनेनैव तेषां तैक्ष्ण्यादीनामपि निश्चितत्वान्न को ऽपि [धर्मः] अहेतुत उत्पद्यते / एवं कादाचित्कत्वात् सर्वेषामेतेषां वस्तूनां सापेक्षत्वं निश्चितमेव अनपेक्षितस्य तु सदा अविशेषात्तस्य कादाचित्कत्वं नोपपद्यत एवेति /

यत्तेषां सापेक्षत्वं तदेव हेतुः, अनुपकारिणि अपेक्षाया अनुपपन्नत्वात् / तत्र यदुपकारकत्वेन प्रसिद्धः, स एव तस्य हेतुरिति सिध्यति / अहेतुकत्वे सति सर्वत्र अभिन्नत्वात् कण्कादिष्वपि तीक्ष्णताया निर्धारणं न स्यात् / फलतः सर्वे सर्वात्मकाः स्युः / ये बीजादयस्ते लोके कार्यकारणात्मकत्वेन प्रत्यक्षतः सिद्धाः / अतः प्रतिज्ञा तावत् प्रत्यक्षबाधितैव / अपि च, हेतुतः साद्यस्य साधनावसरे अन्यतः [हेततः] उत्पत्तेः [सिद्धेः, भवद्भिः] अवश्यं स्वीकारात् स्ववचनविरोधो ऽपि / अन्यथा हेतुप्रयोग एव तावन्निरर्थकः स्यात् / नैव प्रतिज्ञामात्रेण तावदिष्टार्थसिद्धिः, तथा सति सर्वतः सर्वसिद्धिप्रसङ्गः / अतो ऽहेतुवादी खलु व्यवहारे प्रत्यक्षादिभिर्बाधितत्वाद् विद्वद्भिः सावधानतया परिहर्त्तव्य एव /

हेत्वादयस्तावन्मायादिवत् सिद्धाः, ते यथा अविचाररमणीयत्वेन प्रसिद्धास्तथा तेषामनिषेधाद् अनुत्पत्तिरित्युच्यते, प्रत्यक्षादितश्चापि सां नैव बाधिता / धर्म्यसिद्धत्वादयस्तावद् दोषाः पूर्वमेव निराकृताः / सपक्षे सत्त्वान्नास्ति हेतुरप्यसिद्धो विरुद्धश्चापि / आकाशपुष्पादयस्त्वनुत्पन्न एव, न ते सस्वभावत्वेनानुभूयन्ते / अतस्तेषु व्याप्तेरुत्पत्तेः सम्यङ् निवृत्त्या तस्यापि [सस्वभावत्वस्य] निवृत्तिः / अतो नास्त्यनैकान्तिकत्वमपि / तेषूत्पत्तेः प्रवृत्तिर्निश्चयेन साधयितुं नैव शक्यते, स्वप्नादिष्वसत्पुत्रादीनामप्युत्पत्तिदर्शनात् / सा खलु [उत्पत्तिः] तद्विज्ञाने तथैवावभासत इत्यपि कथनम्युक्तम्, कथनमयुक्तम्, तत्रापि परमार्थतस्तथाकारो नैव सम्भवीति पूर्वं निर्दिष्टम् / अन्यस्य अन्याकारेणावभासनमप्ययुक्तमेव तत्त्वान्यत्वयोः परस्परविरुद्धत्वात्?

तदुत्पत्त्या सस्वभावत्वादीनां व्यप्तत्वे ऽपि उत्पत्तौ सत्यां सम्यक्स्वभावो नैव नियतरूपेण सिध्यति, व्यापकसामीप्ये सर्वव्याप्याणां सामीप्यं नवश्यंभावीति निश्चितमित्युक्तमेव पूर्वम् / अतः साधारणमेवैतद् / परमर्थतो न कस्मिन्नप्युत्पत्तिः प्रवर्तत इति साधितमेव /

यन्न कैश्चिदपि प्रत्ययैः समुत्पद्यते तद् वस्तु कुतः प्रादुर्भवतीति कथयद्भिरभिव्यक्तिमात्रमेव अतो ऽनैकान्तिक एव हेतुरिति चेत् ततस्यापि पूर्वं निराकृतत्वात् त्याज्यमेवैतदिति / अथ प्रत्ययैर्वस्तु अभिव्यज्यत एवेति चेत्तदा कि सा अभिव्यक्तिः स्वलक्षणोपचयस्वभावा वा तदावरणसंक्षयात्मिओका वा इन्द्रियैः सुकृता वा तद्विषयकविज्ञानोत्पत्तिलक्षणा वेति विचारः समुपजायन्ते /

तत्र नैव तावत् प्रथमः पक्षः कथमपि युज्यते, नित्यताया हानिप्रसङ्गत् /

यदा अनुपचयस्वभावः स्वतो विनश्य अभिव्यञ्चकप्रत्ययैरुत्पद्यते तदा एकस्यापरस्यानुपचयस्वभावस्योत्पादवशात् स्वलक्षणोपचयो भवतीति चेत्? न, तत्पूर्वस्वभावो यदि न निरुध्येत तदा द्वौ परस्पराविरुधौ उपचयापचयस्वभावौ निर्युक्तितया एकस्मिन्नेव स्वीकार्यौ स्याताम् / यद्यपूर्वः कश्चन स्वभावो नोत्पद्यते तदा अभिव्यञ्चकाः प्रत्ययास्तावन्निरर्थकः स्युः / उपचयमनिराकृत्य वस्तूनामुत्पत्तिरपि न युज्यते / तच्च नैव तावदावरणसंक्षयात्मकम्, असत्स्वभावत्वेन परैरकार्यत्वात् /

वतुस्वभावे क्रियानिराकरणं तावत् पूर्वमेव कृतम् / यद्यस्ति एका क्रिया, तदा सर्वे ते प्रत्यया ये यदा अर्थमभिव्यञ्चिन्ति तदा अनन्यार्थभूता क्रिया तत्र नैव सम्भवति, पूर्वत एव तस्याविद्यमानत्वात् / नित्यस्य भावस्य त्वावरणं तद्विशेषाणामविनाशाद् अनुत्पादाच्च कदापि न युज्यते, अतिप्रसञ्गात् / तद्विषयकविज्ञानओत्पत्तौ विघ्नकरणादप्यावरनं निव युज्यते, स्वविषयकज्ञानोत्पत्तौ समर्थत्वात्, विद्यमाने स्वविज्ञामविज्ञेयस्वभावे ऽविकलविज्ञानं तावत् केनापि विघ्नयितुमशक्त्वाच्च / यदि नास्ति स समर्थो वा स्वविज्ञानविज्ञेयो वा तदा स्वहेतुविकलतया तद्विज्ञानोत्पत्तिरेव न स्यात् / अतस्तद्विषकविज्ञानोत्पत्तौ विघ्नकारकत्वाद् आवरणं तावन्नैव युज्यते /

यथा आवरणसंक्षये तथा विज्ञानोत्पत्तावपि अविघ्नापादनस्वभावो ऽपि क्रियायां नैव युज्यते / असामर्थ्यात् तद्विज्ञानविज्ञेयस्वभावाभावाच्च अभिव्यञ्जकैः प्रत्ययैरावरणं क्रियत इत्यस्यापि निराकरणं कृतमेव [पूर्वम्] / तथात्वे ऽपि तद्विषयकविज्ञानोत्पत्तिरयुक्तैव / यदि सामर्थयमभ्युपगम्यते तदा आवरणकारके सत्यपि अविकलहेतोः सद्भावात् सदैव विज्ञानोत्पत्तिसम्भवाद् व्यञ्जकानां भावानां क्रिया निरर्थिकैव स्यात् / अतो नित्यस्य तावदकिञ्चिकरत्वात् कथमप्यावरणं न युज्यते / अनित्यता तु कदापि केनापि हेतुविशेषेण विज्ञानानुत्पादकस्यान्यस्य क्षणस्योत्पादाद् आव्रियत एव /

इन्द्रियैः सुकृतत्वपक्षो ऽपि तावन्नैव [युज्यते] / यदि तत्सुकृत्वं [वस्तु]स्वभावभूतं तदा अनित्यातायाः प्रसङ्गः, पूर्वसदृशत्वात्तस्य / यदि तदन्यार्थभूतं तदा सुकृतत्वं नैव युक्तियुक्तम्, अकिञ्चिकरत्वात्तस्य / यद्येवं नास्ति तदातिप्रसङ्गः / कस्मिन्नपि वस्तुनि केनापि किमपि करणं तावन्नैव सम्भवमिति [पूर्वं] निर्दिष्टम् / इन्द्रियैः सुकृतत्वे ऽपि यदि अभिव्यञ्चकैर्भावैः तदिन्द्रियविज्ञानोत्पादासामर्थ्यम् अथवा तद्विज्ञानविज्ञेयस्वभावासत्त्वं तदा तद्विज्ञानोत्पत्तिरसम्भविनी, अतो निरर्थकमेव तावत् सुकृतत्वमिति प्रसङ्गः /

यदि विद्यत एव सामर्थ्यं तद्विज्ञेयस्वभावो वा तदा इन्द्रियैः सुकृतकत्वतः पूर्वमेव तस्मिन् [विषये] विज्ञानोत्पादस्य प्रसञ्गः स्यात्, तदा सुकृतकत्वमपि निरर्थकमेव स्यत् / अतस्तमिन् विषये विज्ञानोत्पादलक्षणमपि न सङ्गतं स्यात् / यतो ह्येवं तद् व्यङ्ग्यं वस्त्वपि यदि असमर्थं वा तद्विज्ञानविज्ञेयवभावं वापि नास्ति तदा विज्ञानोत्पादे ऽपि न पद् [वस्तु] तस्य [विज्ञानस्य] विषयः स्यात् / यदि [तद् वस्तु] समर्थं वा तद्विज्ञानविज्ञेयस्वभावं वा स्यात् तदा स्वस्वभाववत् सामीप्यात् तत्सत्तामत्रेणैव विज्ञानस्य समुत्पादो भविष्यतीत्यतो न तेन व्यञ्जकविज्ञानोत्पादः क्रियत इति [सिध्यति] /

अपि च, भवतां तावन्मते सर्वेसां वस्तूनां जायतः सदैवावतिष्ठन्त इति हेतोस्तत्र [वस्तुषु] व्यङ्ग्यव्यञ्जकादीनामपि सदा अवस्थितत्वात् / [नित्यत्वात्] व्यङ्ग्यव्यञ्जकादिव्यवस्था नैव [समीचीनतया सर्वथा] युज्यते, [तेषां] व्यङ्ग्यव्यञ्जकादीनामकिञ्चित्करत्वात् / सदैवाभीव्यक्तिप्रसङ्गो ऽपि सर्ववस्तूनां दूर्निवार एव, सर्वदा अविकलसमग्रीकत्वात् / अपि च, व्यक्तस्य तावन्नित्यत्वेन परिकल्पितत्वात्, नित्यस्य च सर्वसामर्थ्यविरहिओतत्वान्नैव हि वस्तुत्वं कथमप्युपपद्यते / अतः कथं तेनानैकान्तिकहेतुत्वमपि / इत्येवं यदि सर्वसामर्थ्यशून्यं तस्य अभावरूपत्वमेव, यथा - वन्ध्यापुत्र इति / ये तावदीश्वरादयः [परैः] अभ्युपगम्यन्ते, ते ऽपि तथैव / ते ऽपि क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् सर्वसामर्थ्यशून्या एवेति पूर्वमपि [बहुधा] निर्दिष्टम् / समक्षे सिद्धत्वान्नायं हेतुरसिद्धः, नापि विरुद्धः, वन्ध्यापुत्रादिषु वस्तुत्वप्रसङ्गान्नाप्यनैकान्तिको ऽपि / इत्थं तावदशेषसामर्थ्यशून्यत्वमेव अभावलक्षणम् /

असंस्कृतेष्वपि तथात्वात् कथं तानि वस्तूनीति? इत्येवं प्रतिसंख्यानिरोधादयो ये सर्वसामर्थ्यशून्यास्तेषां वन्ध्यापुत्राद्यभिन्नत्वे ऽपि ये खलु तान् वस्तुत्वेन परिकल्पयन्ति , तेषाम् कल्पनेयं नैव युक्तिमती, हेतोरेवाभावात् /

प्रतिसंख्यानिरोधादयो यदि कस्यापि ज्ञानस्य विषयास्तदा अवश्यं ते हेतुत्वेनङ्गीकरणीयाः, अहेतोर्विषयत्वानभ्युपगमात् / हेतुविशेषस्य स्वाकारर्पणमात्रेण विज्ञानोपकाराद् विषयत्वमित्यङ्गीक्रियते / यद्येवं तर्हि तस्य नित्यताया हानिप्रसङ्गः, व्यवहारे ऽपि तस्य क्रमयौगपद्याभ्याम् अर्थक्रियाकारित्वानुपपन्नत्वात् / अनुपकारित्वे ऽपि यदि विज्ञानेन विज्ञेयस्वभावस्य अभावाद् विषयत्वं कल्प्यते, तथा सति यदि विज्ञानं विज्ञेयस्वभावमनुसरतीति तदा तद्विज्ञानस्यापि तदनुसरणेन नित्यतायाः प्रसङ्गः / यदि नानुसरति तदा तन्नित्यताया हानिप्रसङ्गः / यदि सर्वज्ञज्ञानं तदिति न कस्यापि वस्तुनः सामीप्यमिति कल्प्यते, तदापि प्रेक्षावद्भिस्तस्मिन् वस्तुसत्ताया व्यवहारो नोपपद्यते, विज्ञप्त्यर्थं तद्धेतुज्ञानस्याभावात् /

येन कारणेन ततो विभक्तं शशशृङ्गादिं ये ज्ञेयत्वेनोपचरन्ति, तेषां समेषां स्वभावराहित्याद विशेषो ऽभिधातव्यः, अभावाद्

विभक्तस्य राहित्यस्वभावस्य वस्तूत्वेन ज्ञानासम्भवात् / तत्र स्वभावत्वेन गृहीतलक्षणविशेषस्यात्मनः सत्त्वाभिधानमयुक्तम्, असद्वस्तुन्यपि सर्वसामर्थ्यवियोगस्वभावस्य ग्रहणात् / वन्ध्यापुत्रादिसदृशे तदभित्न्ने ऽपि यदि वस्त्विति नाम प्रज्ञप्यते, तदा नास्ति विवादः, किन्तुं कथं वन्ध्यापुत्रादयो ऽहेतुका इति नोच्यत इत्युच्यते / इत्येवम् असंस्कृतानां सत्त्वाभिधानं नैव समीचीनम् /

अत एवोक्तं लङ्कावतारसूत्रेः

असद्भावसमारोपः पुनर्महामते, यदुत आकाशनिरोधनिर्वाणाकृतकाभिनिवेशसमारोपः /

ये तावन्नित्यानित्याभ्यामनभिधेयत्वेन पुद्गलादिनामुभयथापि सिद्धिरनैकान्तिकीति प्रतिपादयन्ति, तन्न युज्यते, सद्वस्तुनि कथमपि अनभिधेयत्वासम्भवात् / एवमेव नित्यानित्यानि तावत् परस्परपरिहारस्थितलक्षणानि / यदि तानि क्रमश एकसिद्धिनिसेधाम्याम् अपरनिषेधसिद्धिभाञ्जि न स्युस्तदा असदेव स्युः / फलत एकस्य निषेध एवापरस्य सिद्धिरिति हेतोः कथं तावदनभिधेयं वस्त्वित्यभिधीयते /

अन्यथा [यद्येवं नास्ति तदा] अनभिधेयत्वात् सर्वाण्येव वस्तुन्यनभिधेयानि स्युः / फलतः स्वपरोदितानाम् अशेषवस्तुविशेषाणां विलोपसम्भवाद् महात्मभिर्वज्रकणादियुक्तिचतुष्टयस्याभिधाद् एभ्यो मार्गेभ्यो

नैव विरुद्धम् / यथोक्तम् -

न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः / उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन //

इति //

इत्येवं सर्वे धर्मा निरात्मान इति साध्यन्ते / अत एव भगवता प्रज्ञापारमितासूत्रे वस्तुषु नित्यानित्यग्राहस्य तावन्निषेधः कृतः / अन्यसूत्राणां स्त्रोतांसि पूर्वमेव निर्दिष्टानि / अतो ये रूपं नित्यमित्युदीरयन्ति, ते तावन्नैव प्रज्ञापारमितामाचरन्ति / कथमिति चेत्? यदा तद् रूपं सदेव नास्ति तदा तन्नित्याभिधानस्य तु कथैव का? इत्युक्तम् / सर्वाकारज्ञतापर्यन्तं [सर्वधर्मेषु] एवमेव प्रयोक्तव्यमिति /

अत एवात्रापि परतः कार्योत्पादे तावत् को विरोधः, कथं हि ततो ऽपि [परतो ऽपि] कार्योत्पादनिषेधः क्रियते? नात्र [कानिचित्] बाधकप्रमाणान्यपीत्यादि यदुक्तम्, एतत् सर्वं पूर्वं कृतोत्तरमेव /

सत्कार्योत्पादनिषेधार्यमपि भवतां सविधे नास्ति उभयसिद्धो हेतुर्दृष्टान्तश्चेत्यादि यदुक्तम्, तापि नैव युज्यते / तथा हि - किं तत् यत् सदित्युच्यते? अंशैस्तावन्निरंशस्य सिद्धिरसम्भविनीति यस्य स्वभावः सर्वात्मना निष्पन्नः, यश्च निष्पन्नस्वभाव इति तस्य परैः[हेतुप्रत्ययैः] अपूर्व इत्याख्यं भेदं कर्तुं नैव शक्यते / यस्यापूर्वमिति भेदं नैव शक्यते कर्तुम्, स कदापि केनाप्युत्पादयितुं नैव शक्यते, यथा - आकाशकुसुमादीनि / यस्तावत्तस्य सत्ताभिनिवेशः, सो ऽपि तद्वदेवेति तस्यापि हेत्वादयो ऽसम्भविन एवेति /

विच्छिन्नमात्रे साध्ये तथैव च हेतोर्निदेशे न ते अभूतधर्मितो विरुद्धाः / यथा सति नैव आश्रसिद्धादिदोषाः, पूर्वमेव तन्निर्दिष्टत्वात् / साध्यसाधनयोः सपक्षे ऽनुगमान्नैव विरुद्धख्यो ऽपि हेतुदोषः / व्यवहारेन भिन्नत्वाद् उत्पत्तौ व्यापकः / फलतो व्यापकनिवृत्त्या नास्ति व्याप्यो ऽपि सम्भवी / अतो नास्त्यनैकान्तिको ऽपि हेतुः / यस्य केनापि भवति भेदः, स तस्य प्रकृतिः / अतो यस्तावदन्यः, स कथं तस्येति? यश्च स्वभावतः पूर्वमेव स्थितः, स हेतुसन्निधानात् पूर्वमपि तथैव भावात् कथं ऽहेतुभिरुत्पन्नःऽ इति कथयितुं शक्यते? अतो नास्त्यनैकान्तिकत्वमिति /

भेदयोग्यत्वादुत्पत्तौ व्यापकत्वमित्यतो ऽसदुत्पद्यत इति चेद्? व्यवहारमात्रेणैवैतत् स्यात्, परमार्थतो ऽसत्त्वात् / एवमेव यदि सवभावतो ऽभाव एकप्रकृतिक एव, तदा पश्चादपि कथं स सत्स्वभावः स्यात्, सदसतोः परस्परविरुद्धात्वात् / यश्च परस्परपरिहारस्थितलक्षणो धर्मः स तद्विरुद्धधर्मिणि कथं नाम युक्तः स्यात्, यथा अमूर्तधार्मान्तर्भूतं तावदाकाशं कथं नाम मूर्तं स्यादिति / उत्पत्त्याख्यो हि प्रसिद्धः सत्स्वभावस्तावद् असत्स्वभावपरिहारस्थितलक्षणत्वात् कथं हि नाम परमार्थतो ऽभावेन सम्प्रयुक्तः स्यात् /

एवं विचार्यमाणे यद्सत्, तस्य उत्पत्तिक्रियावत्यामुत्पतौ किमप्युपदेशनं नाम नास्ति / पृथक्सामर्थ्यवतः कस्यापि भावात्मकस्य हेतोरनन्तरं प्रादुर्भावस्य सम्प्रतिभासाभावात् तद्धेतोरसदुत्पद्यत इति लोके उत्पत्तिविशेषविषयिकायाः कल्पनायाः अभिधानस्य च व्यवहारः प्रवर्तते / व्यवहारमात्रेण तु वस्तुसत्त्वे बाधालेशो ऽपि नैव सम्भवति / असद्वस्तुनि सदाख्यधर्मस्य तावत् सत्तालेशो ऽप्यस्माभिर्नाभ्युपेयते / यदि तत् सत्, तदा नैव तदसत् / यो हि पश्चादपि उत्पत्तिस्वभावः, स तावदन्य एव / यश्चान्यः, स न तस्येत्यभिधातुं शक्यते / अतः ऽअसदुत्पद्यतेऽ इति यद्क्तं तदभावतो भावसिद्धिरिति नैव युज्यते / यतो ह्यत्र भावस्वभावपरीक्षाया एवावसरः / अतः क्रियानिरोधमात्रं वक्तुं नेष्टमिति /

यद्येतद् वस्तु हेतोः सामीप्यात् पूर्वमुद्भूतं नास्ति, तदा तस्य कः स्वभाव इत्यभिधेयम् / यदि तदा किञ्चिदपि नास्ति तदा तत् कदाचिद् वस्तुत्वेनाभिधास्यत इतिचिन्ता नैव युज्यते / यदि नास्ति वस्तुनः किमपि भावात्मकमस्तित्वं तदा तस्य स्वभावो ऽसदेवेति सुस्पष्तमभिधास्यते / अन्यथा किमिति तस्यासत्त्वमित्युच्यते / एवं यो हि पूर्वमसन्, स पश्चाद्भावी कश्चन भावस्वभाव एव /

सो ऽपि कथं नामापूर्वस्वभावातिरिक्तः प्रज्ञप्तुं शक्यते / पूर्वं नासीदित्यसदुत्पत्तेर्व्यवहारस्यापि हेतुप्रत्ययाभासाः कथं सम्यगित्यभिधातुं शक्याः? एवमभूतस्य भूतसिद्धिस्तावदसतः सत्सिद्धिरेव स्यात् / यतो हि यदि नास्त्यन्यस्तदा अभूतादन्यो भूतो नास्ति सत्समीपवर्त्त्यपि / असत्यप्यन्ये अभूतादन्यस्योत्पादाभिधानसम्बद्धमेव / फलतो ऽपूर्ववस्तूनां पपश्चात् सत्त्वाभिधनं तावत् तद्विरुद्धधर्मान्वितस्यैवाभ्युपगमः /

विरुद्धधर्मान्वितः स्वभावो ऽपि तावदनुपपन्न एव / तथा सति सर्वस्य सर्वस्वभावताप्रसङ्गः / एकस्मिन् क्रमेण सत्त्वासत्त्वे अविरुद्धेइत्यभिधानमपि नैव युज्यते / तथा सति समकाले ऽप्यविरुद्धत्वप्रसङ्गः / यदि समकाले ते अविरुद्धे तदा क्रमेणापि कथं ते न तथा, अभिन्नत्वादिति /

भिन्नधर्मिणि विरुद्धलक्षणस्याविरुद्धत्वे ऽपि एकस्मिन् धर्मिणि नैव क्रमेणापि तद् भवितुं शक्रोति / यथा युगपदनेकविरुद्धधर्मान्वितत्वाद् एकत्वहानिप्रसङ्गः, तथैव क्रमेणापि तदन्वितत्वात् तत्प्रवृत्तिरिति / अन्यथा परैरपि प्रधानादीनां क्रमशो महदादिगणे परिवर्तनम् अभिव्यक्तिम् वा उपकल्पयतां व्यक्ताव्यक्तादिधर्मविरोधः कथमभिधीयते / क्रमेण वस्तूनामुत्पादकेषु ईश्वरादिषु कथं नाम समर्थासमर्थादिविरोधोद्भावनं युज्यते / ये केचन पर्वतकायवज्रादीन् दृढस्वभावान् तेषां शीतोष्माद्यवस्थाभेदेन क्रमशो भेदं व्यवस्थापयन्ति, ते ऽपि तेषां क्षणिकत्वं सिसाधयिषवः कथं क्रमेण प्रादुर्भवत्सु तेषु शीतोष्मादिविरुद्धत्वमभिधातुं शक्नुवन्ति / यदि वस्तूनि तावद् अभूत्वा उत्पद्यन्ते, भूत्वा चाभावत्वेनावभासन्त इति विचारणाद् एकस्मिन् क्रमशः सदसत्त्वविरुद्धत्वेन व्यवस्थापयितुं शक्यत इति कथयन्तीति चेन्नेदं युज्यते / यतो हि ताम्रादिष्वेवं दाढर्यमार्दवशैत्यौष्ण्यादीनि क्रमेण दृश्यन्त एव / अतस्तत्रापि अविरुद्धत्वप्रसङ्गः स्यात् / अतस्तेन अदृढतया ये स्वभावत्वेन साधयन्ति, तन्नैवोपपद्यते /

अपि च, अस्माभिरप्येतादृशी दृष्टिर्नैव परित्यज्यते / यतो हि मायास्वप्नादिसमा अलीका अपि [पदार्थाः] अभूत्वा भवन्ति, भूत्वा च विनश्यमानाः प्रतिभासन्ते / किन्तु स्वभावतः सदसतोस्तु क्रमेणापि तयोः सदसतोर्विरोध एव / तद्यथा -

यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता / प्रकृतेरन्यथाभावो न हि जातूपपद्यते //

यथोक्तं कारिकायाम्ः -

सो ऽसन् स्वभावतो ऽभाव स कथं प्रत्ययान्तरैः / निःस्वभावो भवेत् को ऽन्यो हेतुरुक्तस्तथागतैः //

आर्यकङ्कावतारसूत्रे ऽपि पूर्वं रागादीन् सत्त्वेनाभ्युपगम्य पुनरसत्त्वेनाङ्गीकरणं वैनाशिकतैव / कार्यकारणभावो यदि परमार्थत स्यात्तदा एवमभिदधानानां [सा] दृष्टिस्तावत् सम्यग् मार्गानुसरणाद् मुक्तिमार्गानुकूलैव स्त्रान्नत्वननुकूला / अतो लङ्कावतारसूत्रे यदुक्तं तदप्यविरुद्धमेवं, तथा हि -

कार्यकारणदुर्दृष्टया तीर्थ्याः सर्वे विमोहिताः / अतस्तेषां न मोक्षो ऽस्ति सदसत्पक्षवादिनाम् //

पुनश्च,

अभूत्वा यस्य चोत्पादो भूत्वा चापि विनश्यति / प्रत्ययैः सदसच्चापि न ते मे शासने स्थिताः //

हेतुप्रत्ययसामर्थ्यनिश्चये ऽपि परमार्थतो ऽसत उत्पत्तिर्नैव युज्यते, स्वभावान्तरं कर्तुमशक्यत्वत् / प्रतिनियतसामर्थ्यतो विरुद्धमपि स्वभावं कर्तुं नैव पार्यते, तथा सति शशशृंङ्गादीनामप्युत्पादप्रसङ्गः स्यादिति विद्वांसो ब्रुवन्ति / अतो हेतूनां नियतसामर्थ्येन व्यवस्थापि नियता भवेदित्यभिधानमपि तावदसम्बद्धमेव / संवृतावपि खल्वसत उत्पत्तिः कथं न वितुध्यत इति विचारणापि तावन्नैव युज्यते, वस्तुन्येव विरोधस्य व्यवस्थापन्नान्मिथ्यावस्तुनि [अवस्तुनि] तद्व्यवस्थानमसम्बद्धमेव / अन्यथा परमार्थैवैषा उत्पत्तिः स्यान्नतु संवृतौ /

अपि च, या खलु वस्तूनामुत्पत्तिः संवृतिमायावदवस्थिता, सैवरोप्यास्माभिर्विरोधिवचनैर्मिथ्यात्वेन साध्यते, नान्यत्वेनेति पश्चाद् विस्तरेण निर्देक्ष्यते / एवं वस्तूनां परमार्थसदुत्पत्तिर्नोपपद्यते, न सन्ति च तानि [वस्तूनि] असद्भूतान्यपि / एतेषामुत्पत्तिर्मायावन्मिथ्यैव प्रदर्श्यते / अत एव सर्वाणि खलु वस्तूनि मायावदेव व्यवस्थितानि / अतश्च भगवता - महामते, सतो ऽसतश्चानुत्पन्नत्वात् सर्वे धर्मा अनुत्पन्ना एवेत्यनेकधा सदसतोर्निषेधं कृत्वा अनुत्पाद एव निर्दिष्टः /

भगवत ऽपि परिकल्पिस्वभावमभिप्रेत्य सदसतोरुत्पत्तिविरोधो व्यवस्थापितः न तु तत्त्वत इत्येवं येषां कथनं तदप्यग्रे ऽभिधास्यते / यो हि वस्त्वात्मा परमार्थतो ऽनुपन्न सो ऽपि तत्त्वत उत्पन्न इत्येवंभूतो यो परिकल्पितः स्वभावस्तमपि ये परिकल्पितस्वभावत्वेनाभ्युपगच्छन्ति, तदा तन्नैव युक्तरूपम् / वस्तूनामस्य स्वभावस्य परमार्थतो ऽनुत्पन्नत्वे ऽपि ग्राह्यग्राहकारस्वभावेनानुप्पन्नत्वात् स परिकल्पितस्वभाव इति चिन्त्यते तदा परिकल्पितात्मकयोः सदस्तोर्यथा उत्पत्तिविरोधस्तथैव परमार्थात्मकस्यापि कथं नोत्पत्तिविरोधः / तत्त्वतस्तु उत्पत्तेः सदसदाकारातिरिक्त्त्वेन अन्याकारतयानुत्पन्नत्वात् साधारणमेव तदिति /

अतो यः प्रतीत्यसमुत्पन्नः स परमार्थतः शून्यः, मायादिवदिति / नास्त्ययं हेतुरनैकान्तिको ऽपि यदि विपर्ययस्तदा यथोक्तदोषदूषितानि प्रमाणान्यपि सम्भवेयुः / यो हि हेतुप्रत्ययानपेक्ष्य समुत्पद्यते तस्य कृतक एव स्वभावः, न तु पारमार्थिकः / अकृतकस्य परापेक्षा नैवोपपद्यते / य एव कृतकस्तस्य नैव प्रकृत्या स्वभावो युज्यते, प्रकृतेरविकारात् / को ऽपि तां [प्रकृतिं] परिवर्तयितुं नैव क्षमः / अतो यो हि पारमार्थिकः स्वभावः, यश्चाभूत्वा भवति, भूत्वा च विगच्चति तौ [स्वभावौ] परस्परविरुद्धत्वादसम्बद्धाविति पूर्वं निर्दिष्टमेव / अतो नास्त्यनैकान्तिकत्वमिति / तथा हिः

"न सम्भवः स्वभावस्य युक्तः प्रत्ययहेतुभिः / हेतुप्रत्ययसम्भूतः स्वभावः कृतको भवेत् //

स्वभावः कृतको नाम भविष्यति पुनः कथम् / अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च //"

नित्यानित्यस्वभावयोरुपकल्पितत्वाद् वस्तूनाम् अन्तद्वयदर्शने प्रसङ्गमापादयितुम् उत्तम् आर्यश्रीमालासूत्रे -

"भगवन्, द्वयोरन्तयो पश्यतीत्युच्यते / यदुत उच्छेदशाश्चतदर्शनम् / ऽअनित्याः संकारा इति चेद् भगवन् पश्येत् सास्य स्यादुच्छेददृष्टिः सास्य स्यान्न सम्यग्दृष्टिः / नित्यं निर्वाणमिति चेद् भगवन् पश्येत् सास्य स्याच्छश्वतदृष्टिः, सास्य स्यान्न सम्यग्दृष्टिः /"

आचार्येणाप्युक्तम् -

भवमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् / प्रसज्यते स्वभावो हि नित्यो ऽनित्यो ऽथवा भवेत् //

इत्यादि //

अतश्च सपक्षे सद्भावान्न विरुद्धो ऽपि हेतुः, यतो हि विपक्षे यस्य सद्भावः, स एव विरुद्धः, न तु यस्य सपक्षे सद्भावः, स विरुद्ध इति / मायादयस्तावत् वस्तुत्वेनानुपपन्नाः, ज्ञानज्ञेयाभ्यां विलक्षणस्वभावत्वात्तेषाम्, इति पूर्वं निर्दिष्टमेव / न हि ज्ञानज्ञेयाभ्यां भिन्नो वस्तुनः स्वभावः / अनुत्पन्नस्वभावेष्वाकाशपुष्पादिष्वदर्शने ऽपि प्रतीत्यसमुत्पादस्वभावस्तावत् सम्यक्तया युज्यत एवेति ये कथयन्तीत्यनेनापि [कथनेन] नैव [हेतोः] विरुद्धत्वं साधयितुं शक्यते ऽसम्बद्धत्वात्, व्यापकप्रवृतेः व्याप्यसाधने ऽशक्यत्वाच्च /

मायादिषु हि मिथ्यात्वेन [तत्र] नैव प्रतीत्यसमुत्पादः सिध्यति, दृष्टान्तविकलत्वादिति यत्कथनं तदप्यसम्बद्धमेव / यदि परमार्थस्वभावमधिकृत्य मायादीनामनुत्पन्नत्वं केवलमभिधीयते, तत्तु, तदा स्वीकार्यमेव / यतो ऽस्माभिरपि परमार्थत उत्पत्तिमभ्युपगम्य नैव हेतोर्निदेशः कृतः, स तु केवलमुभ्यसिद्धप्रतिभासमादायैव / न हि सिद्धान्तापेक्षया धर्मिहेत्वादीनां निर्देशः क्रियत इति तु पूर्वं निर्दिष्टमेव / यदि मायादयो व्यवहारेणाप्यनुत्पन्ना इत्यभ्युपगम्यते तदेदं लोकस्यापि निर्वर्तकत्वाद् अस्माभिरस्यां निवृत्तौ प्रयत्नो नैवास्थेयः / को ऽपि स्वस्थमनाः पुरुषो यदि ऽयथा मायादीनां प्रत्यया मन्त्रौषध्यादयश्च दृश्यते, तथा तेषामुत्पत्तिर्नैव दृश्यतेऽ इत्येवं कथयति, तत्तु तेषां [कथनं] विदुषां कृते ऽत्यन्तं हास्यास्पदमपमानकरं चेति / इत्थं नास्त्यसिद्धत्वमपि हेतोः /

यथोक्तं भगवता -

यः प्रत्ययैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतो ऽस्ति / यः प्रत्ययाधीनु स शून्य उक्तो यः शून्यतां जानति सो ऽप्रमत्तः //

सागरमतिनिर्देशसूत्रे ऽप्युक्तम् -

प्रतीत्य यद् यद् भवति तत्तन्नस्ति स्वभावतः / निःस्वभावा हि ते भावाः कदाचित् सम्भवन्ति न //

आचार्येणाप्युक्तम् -

प्रतीत्य यद् यद् भवति तत्तच्छान्तं स्वभावतः / तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च //

पुनश्च

यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्यहे / सा प्रज्ञप्तिरुपादाय प्रतीपत् सैव मध्यमा //

[31] यदि विनाशादयो हि विकल्पाः परमार्थत उत्पात्तौ बाधिता इत्युच्यते, तदपि नैव युक्तियुक्तम् / या च बाधाभिधीयते, कासौ? यदि मिथ्यात्वेन सिध्यन्तीत्युच्यते, तदा वयमप्यभ्युपगच्छामः / अतः संवृतिरेव सा इत्युच्यते / यदि युक्त्या ते प्रसिध्यन्ति तदा परमार्थत एव भवेयुः, न तु संवृत्या / यदि प्रसिद्धा तावद् बाधा निराकृतैवेत्युच्यते, तदपि नैव युज्यते, न हि प्रमाणबाधिता मिथ्यास्वभावा अपि मायादयो लोके ऽप्रसिद्धाः / अतो वस्तुस्थितं भ्रान्तं विज्ञानमपि मायादिवल्लोके प्रसिद्धमित्युच्यमानमपि न युज्यते / न ह्येकस्मिन् विविधप्रकारके विरुद्धज्ञाने तथैव मायादिस्वमियुच्यमानमपि न युज्यते / न ह्येकस्मिन् विविधप्रकारके विरुद्धज्ञाने तथैव भायादिस्वभावः सम्भवति, लोके ऽपि च तन्नैव ज्ञानस्वरुपेण प्रसिध्यति / मायादीनां ज्ञानस्वभावत्वे ऽपि ज्ञानस्य तदभिन्नतया गृहीतामिथ्याकारत्वेनावभासितत्वात् तदपि तद्वन्मिथ्यैव / अन्यथा सत्यासत्यस्वभावयोस्तावत् को हि सम्बन्धः स्यात् / अतो नास्ति भ्रान्तिः / अस्ति बाधाविरोध इत्युच्यते, तदपि न युज्यते, यदि नास्त्यात्मना विरोधस्तदा कथं स प्रमाणेन साधयितुं शक्यते /

यद्यस्त्यामनि विरोधः, स च प्रमाणैः सिध्यत्यपीत्युच्यते तदा साधननिर्भरः सः कथमस्वीकार्यः स्यात् / न स विरोधो ऽवभासत इत्युच्यते चेत्, तदास्य विसर्जनं पूर्वमेवास्माभिः कृतम् /

अपि च, अन्तर्ज्ञेयवादिनां मतानुसारं यदद्वयज्ञाने आकारद्वयं सागरपर्वतभूमिजलादिकं तदंशतयोपचर्यते, तदेकस्मिन् कथं विरुद्धावभासो ऽनुविधीयते / अतो ऽन्तर्ज्ञेयवादिभिरप्यवश्यं कथञ्चिद् भ्रान्तं ज्ञानमभ्युपेयमेव / अन्यथा सर्वे ऽपि तत्त्ववेदिनो जायेरन्, न च प्रतिवादिभिः सह विवादा अपि जायेरन् / कथं चारिष्टनीलाक्षताकामलादिभिरुपहतनेत्राणां देहादयो विरुद्धस्वभावद्वेये प्रतिभासेरन् / न च सत्यात्मकस्य ज्ञानस्य प्रतिभासमार्नैर्मिथ्याकारैः सह कश्चनापि सम्बन्धः, सत्यासत्योः परस्परविरुद्धत्वात् / न हि भवतां मते विरोधो दृश्यत इत्यतः सर्वेषां प्रत्यक्षतस्तत्त्वदर्शित्वसम्भवाद् मुक्त्यत्थिनां कृते तत्त्वभावानायाः प्रत्यत्नो निरर्थक एव स्यात् /

यद्येवं चिन्त्यते यद् ऽभ्रान्ते विज्ञाने विविधावभासानां विरुद्धत्वे ऽपि विरोधो नैव व्यवस्थाप्यते, वस्तुविसयत्वात्तेषामति / वस्तुबलप्रवृत्तानुमानद्वारा वस्तुत्वेन स्वीकृतानामेव विरोधो ऽभिधीयते, न तु मिथ्यात्वेन स्वीकृतानाम् / यद्येवं न स्यात् तदा तदनुमानं वस्तुबलप्रवृत्तमेव न स्यात् / फलतो विज्ञाने भ्रान्तानां मिथ्याकाराणामप्यवभासः स्यात् / तत्र तावत्तत्त्वान्यत्वादिविरोधो ऽपि नाभिधीयते ऽ - यद्येवं विचार्यते तदा सांवृतकार्यकारणभावस्य कथं विरोधः प्रतिपाद्यते, मिथ्याभूते तस्मिन् वस्तुबलप्रवृत्तानुमानविषयत्वासम्भवात् स विरुद्ध इति नाभिधेय एव /

यदि [विरोधः] क्रियते तदावश्यमस्माकमेवेस्टसिद्धिः, न तु युष्माकम् / यतो हि भवतां तथाविधेन विरोधेन मिथ्यात्वसिद्धिरेव स्यान्नत्ववभासनिराकृतिः, मिथ्यात्वस्यापि प्रसिद्धयविरोधात् / यदि स मिथ्यात्वेन प्रसाध्यते तदास्माकमेव पक्षः स्थापितः स्याद्, यतो वयमपि कार्यकारणदेशकालहेतुप्रत्ययविशेषाणां सत्यामप्यपेक्षायां [तं] प्रमाणबाधितं च मिथ्या चैव मन्यामहे, अत एव [सः] संवृतौ व्यवस्थाप्यते / तथाविधविरोधकरणेन भवद्भिरन्येषां वस्तुग्रहनिवृत्तिः कथं नाम न स्वीक्रियते, किन्तु निर्दोषाभिधानात्तावद् भवतामेव बाधा स्यात् अस्माकं तु प्रमाणानामप्रवृत्तिरपि नास्ति, अन्यथा कथं नाम संवृतौ साधयितुं शक्यः स्यात् /

यथैव कार्यकारणभावः सिध्यति तथैव सम्यक्त्वेन अभ्युपगतवतां मिथ्यारोपनिवृत्तये केवलं वयं प्रमाणानि प्रयुञ्जमहे, नान्यत्र / प्रमाणानां प्रयोगे सत्यपि नैव प्रत्यक्षबाधा प्रवर्तते / प्रमाणैस्तावत् केवलं वस्तुतत्त्वस्य यथास्थितिरेव स्वीक्रियते, न तु प्रसिद्धिविरोधो ऽपि / अन्यथा नैव तत् प्रमाणं स्यात् / यो हि वस्तूनां परमार्थतः, प्रज्ञप्तस्वभावः, स एव प्रमानैर्बाध्यते / अभ्रान्तत्वं हि प्रत्यक्षलक्षणम् / अभ्रान्तप्रमाणेन यो हि बाध्यते, तस्य नैव विषयत्वं युज्यते, अतिप्रसङ्गात् / अतो नास्यस्यां प्रतिज्ञायां प्रत्यक्षबाधा / यधेवं न स्यात्तदा स्पष्टावभासितया बाह्यार्थस्य प्रत्यक्षसिद्धे ऽपि न स प्रत्यक्षविरुद्धः स्यात् / फलत एकानेकस्वभावविरहितत्वे ऽपि न स निःस्वभावः सिध्यतीतिः सिध्यतीति स्यात् /

तैमिरिकादिषु केशमशकादीनामवभासे ऽपि प्रत्यक्षतो विरोधान्न केनापि तेषां मिथ्यात्वम् अस्वीक्रियते / अतः स्वानुरूपकार्यकारनभावेन अनादिकालिकपरम्पराअगतानां सर्वेषां जन्मनां देशाकालहेतुविशेषापेक्षितत्वे ऽपि मायोत्पादवत् संवृतावेव व्यवस्था क्रियते /

ये खलु यथाप्रसिद्धं व्यवस्थापयन्ति, तेषां यदा समकालिकासमकालिकव्यवस्थायां नास्ति विरोधस्तदा अक्षणिकत्वादिदोषा अपि तेषु नैव प्रर्वतन्ते, अलीकेषु विरोधस्याप्रवृत्तेः / मायास्वप्नादिसदृशेषु धर्मेषु परमार्थतस्तावत् क्षणिकाक्षणिकत्वादयो नैव हि युज्यते, यथोक्तं प्रज्ञापारमितायाम् - ये रूपस्य नित्यत्वे ऽनित्यत्वे वा आचरन्ति ते नाचरन्ति प्रज्ञापारमितायाम् तत् कथमिति? तद् रूपं यदा नास्ति तथा सत् तदा कथं तन्नित्यमनित्यं वा स्यात् /"

एवं तावत् सर्वज्ञतापर्यन्तं विस्तरेणाभिधातव्यम् /

कतिपयेष्वन्येषु [सुत्रेषु] या खलु संस्काराणां क्षणिकता देशिता, सा प्रसादसंस्कारेभ्यो मानसमुद्विग्नं कृत्वा क्रमशो नैरात्म्ये प्रवेशायैव देशिता /

नैवमुत्पद्यते किञ्चिन्निरोधो ऽपि न किञ्चन / मार्गप्रयोजनार्थाय निरोधोत्पाददेशाना //

उत्पत्त्या ज्ञायते नाशो विनाशेनाप्यनित्यता / अनित्यताप्रवेशेन सद्धर्मेषु प्रवर्तते //

यदि मायादिवदङ्कुरोत्पादादिषु बीजादीनां सामर्थ्यमभ्युपगम्यत इति चिन्त्यते तदा वस्तुनः स्वीकृतिरेव स्यात्, यतो ह्येवं यानि सांवृतिकानि बीजाख्यानि तानि सर्वाभिधानसमतिक्रान्तशशशृङ्गादिभ्यो विनिवृत्तान्येवाभिधेयानि / यद्येवं नास्ति तदा कथं भवद्भिर्लोकागविरोधपरिहारः कर्तुं शक्येत /

वयं तु यत्तावत् सर्वसामर्थ्यविरहलक्षणेभ्यः शशशृङ्गादिभ्यो विनिवृत्तं तदेव वस्त्विति कथयामः / ऽयदि भवन्तस्तथाविधमपि संवृतिसदिति नाम्नाभिधातुमभिलषन्ते तदा सहर्षं ब्रवन्तु, संवृतिपरमार्थशव्दैरभिधीयमानानां वस्तूनाम् अर्थक्रियाकारित्वाभेदादिऽत्येवं चिन्त्यते? तदपि नैव यक्तुम्, यतो ह्येवं स्वप्नादौ गजाश्वग्निभूमिवृषभादयो मिथ्याभावा ये विविधार्थक्रियां कुर्वाणाः परस्परभिन्नशरीरानुगता दृश्यन्ते ते यथैव भिन्नदेशकालवस्थासु दृश्यन्ते तथैव किं सर्वाभिधानसमतिक्रान्तशशशृङ्गादिभ्यो विनिवृत्तकायाः सन्ति? न वा? ते यद्येकान्तेन विनिवृत्तकायास्तदा तेवामपि वस्तुत्वप्रसङ्गः स्यात् /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.