Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
मध्यमकालोक
- Tác giả
- कमलशील
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अथवा - सर्वधर्मेषु पूर्वङ्गमत्वाच्चित्तं सर्वधर्मापेक्षया प्रधानं सिध्यते / यावद् यथा "नास्त्यर्थं चित्तमेव तु" इति यदुक्तम्, यथा वा "वासनैर्लुलितं चित्तमार्थाभासं प्रवर्तते" इत्यादि यदुक्तम्, यथा वा "वासनैर्लुलितं चित्तमार्थाभासं प्रवतते" इत्यादि यदुक्तम्, तदपि निराकारेण चित्तेन विषयग्रहणं कथमपि न युज्यत इत्यवश्यं तत् साकारमेव मन्तव्यम् / अतश्चित्ताकारं व्यतिरिच्य अर्थाकारावभासाभावात् तन्निषेधेन साकारचित्तमेव तावन्निर्दिश्यते, न तु तेन बह्यार्था भावो ऽवबोध्यते /
अथवा आत्मदिसत्तानिर्देश इव तद्विनेयजनापेक्षया यथा सद्वैद्य आतुरान् पुष्णाति तथा भगवन्तो नानविद्या देशानाः प्रवर्तयन्ति / यथोक्तं लङ्कावतारसूत्रे -
आतुरे आतुरे यद्वद् भिषग् द्रव्यं प्रयच्छति / बुद्धा हि तद्वत् सत्त्वानां चित्तमात्रं वदन्ति वै //
नान्यान् विसंवादयतीति विनेयजनानां हितसुखकरत्वात् सार्थकं वचनम् / परहितं तावदेकान्ततया सत्यमिति हेतुर्भगवत्सु तावन्नास्ति मृषावादो ऽपि / अत उक्तम् -
असत्यं यद् विसंवादि नासच्चाप्यर्थसंहितम् / ध्रुवं परहितं युक्तं हिताभावान्न चापरम् //
इत्येवं किं स्ंवृतावस्ति बाह्यार्थसत्त्वन् / वरं तावच्चित्तमत्रता, किन्तु निःसन्दिग्धं सूक्ष्मवस्तुस्वभावं सम्यक् साधयितुं नास्ति सर्वथा को ऽपि आप्तागमः / आर्यरत्नमेघसूत्रे तावत् -
"कुलपुत्र, यदि भवेत् परमार्थतो ऽसत्त्वम्, तदा निरर्थकं ब्रह्मचर्यम्" इति यदुक्तं तत्किं नास्ति सत्?
यद्येवमुच्येत तन्नैव युज्यते, यतो हि तत्प्रमाणभूतं परमार्थं को हि नाम त्यजेत् / अयं तावत् सूत्रार्थः - इयं हि पुद्गलधर्मनैरात्म्यलक्षणा तथतैव परमार्थशब्दवाच्या परमस्य ज्ञानस्य गोचरत्वात्,युक्तिमत्त्वाच्च सैव स्वयं परमेति / यदि तदप्यसत् स्यात्तदा यथा पुद्गलो धर्माश्च बालपृथग्जनेषु प्रसिद्धास्तथैव स्युः, तथा सति सर्वे जना अनायासेन आदित एव तत्त्वदर्शिनः स्युः, तत्त्वदर्शनार्थं च प्रयत्नो ऽपि निरर्थकः स्यादिति सुस्पष्टमेव / अतो नास्तीदं प्रमाणोपपन्नमिति /
आर्यरत्नकूटसूत्रे तावतः "काश्यप, वरं खलु सुमेरुमात्रा पुद्गलदृष्टिः, नाभिमानिकस्य शून्यतादृष्टिः"
इति उअदुक्तं तेन कथं न विरोधः स्यादिति चेत्? तर्हि नास्ति विरोधः / ये खलु परमार्थसत् वस्त्वभ्युपगम्य पुनस्तस्यासत्त्वं परिकल्पयन्ति, एवञ्च येषां विनाशार्थं शून्यतादेशाना, तेषां रागादीनां सम्यक् सत्त्वमेवेति परिकल्पयन्ति, ते पूर्वं सत्त्वं परिकल्प्य पश्चात् तदसत्त्वं परिगृह्णन्ति / अतः सदसदन्तयोः पतितत्वात् ते अन्तद्वयरहितं सर्वप्रपञ्चपशमं शून्यतार्थं नैवाधिगच्छन्तीति "अभिमानिनःऽ अत एव भगवन्तस्तथाविधाया दृष्टेर्निषेधेन परमार्थतः सदसत्सर्वप्रपञ्चजालविरहितस्य ज्ञानार्थं नियोजयन्तीति / अन्यैरपि सूत्रेः स्वयं भगवता एतन्निर्धार्यते / लङ्कावतारसूत्रे ऽपिः
"द्वयनिश्रितो ऽयं महामते, लोको यदुत अस्तित्वनिश्रितश्च नास्तित्वनिश्रितश्च / भावाभावच्छन्ददृष्टिपतितश्च अनिःशरणे निःशरणबुद्धिः / तत्र महामते, कथमस्तित्वनिश्रितो लोकः? यदुत विद्यमानैर्हेतुप्रत्ययैर्लोक उत्पद्यते नाविद्यमनैः, विद्यमानं चोत्पद्यमानमुत्पद्यते नाविद्यमानम् / स चैवं ब्रुवन् महामते, भावानामस्तित्वहेतुप्रत्यानां लोकस्य च हेत्वस्तिवादी भवति / तत्र महामते, कथं नास्तित्वनिश्रितो भवति? यदुत रागद्वेषमोहाभ्युपगमं कृत्वा पुनरपि रागद्वेषमोहभावाभावं विकल्पयति / यश्च महामते, भावाब्नामस्तित्वं नाभ्युपैति भावलक्षणविविक्तत्वाद्, यश्च बुद्धश्रावकप्रत्येकबुद्धानां रागद्वेषमोहान्नाभ्युपैति भावलक्षणविनिर्मुक्तत्वाद् विद्यन्ते नेति / कतमो ऽत्र महामते, वैनाशिको भवति? महामतिराह - य एष भगवन् अभ्युपगम्य रागद्वेषमोहान् न पुनरभ्युपैति / भगवानाह - साधु, साधु महामते, साधु साधु पुनस्त्वं महामते, यस्त्वमेवं प्रभाषितः / केवलं महामते, न रागद्वेषमोहभावाभावाद् वैनाशिको भवति, बुद्धश्रावकप्रत्येकबुद्धवैनाशिको ऽपि भवति / इदं च महामते, सन्धायोक्तं मयावरं खलु सुमेरुमात्रा पुद्गलदृष्टिर्न त्वेव नास्त्यस्तित्वाभिमानिकस्य शून्यताद्षृष्टिः इति /
अत एव भगवता ऽवस्तुवादिन एवाभिमानिनःऽ इत्युक्ताः / अतस्तत्रैवोक्तम् -
अभुत्वा यस्य उत्पादो भूत्व वापि विनश्यति / प्रत्ययैः सदसच्चापि न ते शासने स्थिताः //
यस्य नोत्पद्यते किञ्चिन्न च किञ्चिन्निरुध्यते / तस्यास्ति नास्ति नोपैति विविक्तं पश्यतो जगत् //
द्वितीयपद्यार्थद्वारेण स्वमतं संस्थाप्य ऽपरिकल्पितस्वभावविविक्तत्वाद् विविक्तं जगदित्येव तावत् सूत्रार्थः, अतश्च नास्ति विरोधःऽ इत्यभिदधद्भिः कः परिकल्पितः स्वभावः इत्यभिधातव्यम् / अथ प्रमाणविरुद्धमपि यद् बालैः सत्यमिति गृह्यते तदिति चेत्? तदाशेषं जगत् परमार्थतो ऽनुत्पन्नमपि बालैर्यदुत्पत्त्यादिकं परमार्थतः सदित्यारोप्यते तद् वक्ष्यमाणप्रमाणैर्निषिद्धत्वात् संवृतिस्वभावमिति कस्मान्न गृह्यते / यद्येवं नास्ति? तदा यद्धि भगवताबाह्यार्थाः परिकल्पितस्वभावत्वाछून्याःऽ इति यदुक्तं तस्य परमार्थतो न सन्तीति व्याख्यानं कस्मान्न क्रियते? प्रमाणविरुद्धत्वात्तथा व्यख्यानं न कर्त्तव्यमिति चेत्? तदा विज्ञानस्यापि तथा व्याख्यानं न कर्तुव्यम्, बाहार्थवत् तस्यापि प्रमाणविरुद्धत्वात् /
प्रमाणै कतिपयैर्यदि विज्ञानं वस्तुसत् सिध्यति तदा द्विविधमेव परिकल्पितम्, नान्यदिति सम्यग् व्याख्यातं भवेत्, किन्तु तदपि नैव सिध्यतीति निर्देष्टव्यम् / अतश्च जगदिदं यथोक्तपरिकल्पितस्वभावविविक्तमित्यस्माभिरप्यभ्युपेयत इति नास्ति सर्वथा दुरूहम् / अत एव आर्यसन्धिनिर्मोचनसूत्रे -
"मैत्रेय, परतन्त्रपरिनिष्पन्नलक्षणयोः परिकल्पितसंक्लेशव्यवदानलक्षणं यच्चात्यन्तविविक्तं तन्नालम्बनीक्रियते, सर्वशून्यतालक्षणत्वात्तस्यऽ इति यदुक्तं तदप्यनेन निराकृतं भवति" इत्युक्तम् /
तत्रापि रागादयो ये संक्लेशात्मकसंवृतिस्वभावानां परतन्त्रलक्षणानां सम्यक्तया संक्लिष्टकरणेन संसारे नियोजनेन प्रतिपक्षे च यथाक्रमं विध्यनभूताभूतत्वादिना चारोप्यन्ते, ते तेषां कृते परिकल्पितलक्षणान्येव / योगिसंवृतौ अविपर्यस्तपरिनिष्पत्त्या तावत् परिनिष्पन्नलक्षणम् / अतः परिनिष्पन्नलक्षणयुक्तानि बोधिपक्षानुकूलव्यवदानान्यपि विपक्षात्यन्तप्रतिघातरुपेण परिनिर्वाणे च नियोजनादिना सम्यक्तया वस्तुधर्मतायामारोपितानि, तान्यपि तेषां परिकल्पितलक्षणमेव / यश्च धर्मधातुः प्रकृतिप्रभास्वरस्तस्मिन्नसम्भवः परमार्थतः संक्लेशादीनाम् / अतः परिकल्पितधर्मत्वात् तयोः स्वभावयोः संक्लेशव्यवदाधर्मत्वमसम्भवमेव / संक्लेशव्यवदानपक्षसर्वधर्माणां परमार्थतो ऽनुत्पादे हि एकरसीभूतत्वेन नानाकरणमयुक्तम् / अतो द्वावपि सम्यग्रुपेण शून्यावेव / तथ्यसंवृतौ तु द्वयोरपि भावात् संक्लेशब्यदानपक्षयोरभावादोषो ऽपि न खलु प्रसज्यते /
आर्यसार्धद्विसाहस्रिकासूत्रे -
"न हि सुविक्रान्तविक्रामिन् रूपं रागधर्मि वा विरागधर्मि वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं रागधर्मि वा विरागधर्मि वा / या च रूपवेदनासंज्ञासंकारविज्ञानानां न रागधर्मता नापि विरागधर्मता इयं प्रज्ञापारमिता / न हि सुविक्रान्तविक्रामिन् एवं द्वेषधर्म वा अद्वेषधर्मि वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं द्वेषधर्मि वा अद्वेषधर्मि वा / या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न द्वेषधर्मता नापि विगतद्वेषधर्मता इयं प्रज्ञापारमिता / न हि सुविक्रान्तविक्रामिन् रूपं मोहधर्मि वा विगतमोहधर्मि वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं मोहधर्मि वा विगतमोहधर्मि वा / या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न मोहधर्मता नापि विगतमोहधर्मता इयं प्रज्ञापारमिता / न हि सुविक्रान्तविक्रामिन् रूपं संक्लिश्यते वा व्यवदायते वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं संक्लिश्यते वा व्यवदायते वा / या च रूपवेदनासंज्ञासंस्कारविज्ञानानाम् असंक्लेशता अव्यवदानता इयमुच्यते प्रज्ञापारमिता" / इत्युक्तम् /
आर्यसत्यद्वयनिर्देशसूत्रे ऽपि -
"कतमया पुनर्मञ्जुश्रीः समतया यावत् परमार्थतो यत्समं व्यवदानं तत्समाः सर्वधर्माः परमार्थत इति?
मञ्जुश्रीराह - देवपुत्र, परमार्थतः सर्वधर्मानुत्पादसमतया परमार्थतः सर्वधर्मात्यन्ताजातिसमतया परमार्थतः सर्वधर्माभावसमतया परमार्थतः समाः सर्वधर्माः" इत्युक्तम् /
आर्यसर्वबुद्धविषयावतारज्ञानालोकालङ्कारसूत्रे च -
"संक्षेपतो हि सर्वे ऽकुशलमनस्कारास्तावत् संक्लेशहेतवो भवन्ति, सर्वे च कुशलमनस्कारा व्यवदानहेतव इति / तत्र ये चापि संक्लेशहेतवो वा व्यवदानहेतवो वा धर्मास्ते सर्वे स्वभावतः शून्याः, निःसत्त्वनिर्जीवनिःपुद्गलनिरात्मकमायावन्निःस्वलक्षणत्वेभ्यः / अतस्ते अन्तःशाअन्ताः, ये अन्तःशान्तास्ते प्रशान्ताः, ये प्रशान्तास्ते तावत्तत्प्रकृतिकाः, ये खलु तत्प्रकृकास्ते नोपलभ्यन्ते, ये नोपलभ्यन्ते ते नैवोपतिष्ठन्ते, ये नोपतिष्ठन्ते त एव तावदाकाशम्, आकाशं चाभ्यवकाशः / सर्वधर्मान् आकाशसमान् विज्ञायापि संक्लेशः व्यवदानं चेति व्यवहियेते आकाशधर्मता चापि नापनीयते / कथमिदमिति चेत्? मञ्जुश्रीः, जातिनिरोधधर्मवान् न को ऽपि धर्मो भवति" इत्युक्तम् /
यदि पुनः परिकल्पितलक्षणशून्यः को ऽपि धर्मः स्यात् तदास्मिन्नेव सूत्रे -
"मञ्जुश्रीः, अद्वया, सर्वे धर्माः, अर्थान्निःस्वलक्षणा अद्वैधीकारा अनामिका अनिमित्ता अमनश्चित्तविज्ञाप्तिका अनुत्पन्ना अनिरुद्धा अहेतुका असञ्चारा असनुदाचारा अनक्षरा अनिर्घोषस्वराः सन्ति" /
इति यदुक्तम्, अपि च -
"मञ्जुश्रीः, यच्छून्यं तदभिनिवेशग्रहणाभावस्यैवैतदधिवचनम्, मञ्जुश्रीः, नोपलभ्यते परमार्थतः कश्चन शून्यताख्यो धर्मः" /
इति च यदुक्तम्,तद् विरुध्यते /
यद्येवं तदा आर्यसन्धिनिर्मोचनसूत्रे -
"अभिलापस्तावन्नास्ति असद्भूतो भावः / तत्र को हि नाम भाव इति चेत्? यः खल्यवार्यज्ञानेन आर्यदर्शनेन चानिर्वचनीयतायामवबुध्यते, स एव तदनिर्वचनीयतायामवबुद्धत्वद् असंस्कृतनाम्ना केवलं व्यवहियते" / इत्यादिकं यदुक्तम्, तथा भगवत्प्रवचनेषु च यदार्यज्ञानगोचरं प्रत्यात्मवेदनीयं तद् भावस्वभावेन सदिति निर्दिष्टम्, तत्कथं सम्भवेदिति चेत्? न विरोधः / अत्रार्यज्ञानगोचराणां सर्वधर्माणां यो हि नैरात्म्यलक्षणो धर्मधतुः स एव भावशब्देन विवक्षया वस्त्वभिनिवेशशालिनां भयस्थानं परिहर्तुकामेन तथा देशितम् / अथवा आर्यज्ञानानि सर्वे च धर्माः तथतापन्नाः, अतो वस्तुशब्दाश्रयप्रतिपिपादयिषया धर्मधातुवाभिहितः स्यादिति / भगवद्भित्रपि विनेयजनाशयानुरोधेन तावत् सा धर्मतैव विविधैरुपायैरुपदिष्टा /
आर्यलङ्कावतारसूत्रे - "महामते, पदार्थानां तथागतगर्भोपदेशं कृत्वा तथागता अर्हन्तः सम्यक्सम्बुद्धा बालानां नैरात्म्यसन्त्रासपदविवर्जनार्थं निर्विकल्पनिराभासगोचरं तथागतर्भखोपदेशेन देशयन्ति / तद्यथा महामते, कुम्भकार एकस्मान्मृत्परमाणुराशेर्विवधानि भाण्डानि करोति हस्तशिल्पदण्डोदकसूत्रप्रयत्नप्रयोगाद्, एवमेव महामते, तथागतास्तदेव धर्मनैरात्यं सर्वविकल्पलक्षणविनिवृत्तं विविधैः प्रज्ञोपायकौशल्ययोगैर्र्गर्भोपदेशेन वा नैराम्योपदेशेन वा कुम्भकारवच्चित्रैः पदव्यञ्चनपर्यायैर्देशयन्ते" /
तथातापियं सर्वथा वाच्यापि व्यवहारवशेन अशेषसंस्कृतधर्मता, अतः संकृतेति नाम्ना व्यवहियते / उत्पादाद् वा तथागतानामनुत्पादाद् वा तथागतनां सर्वकालेषु स्थितत्वाद् असंस्कृतेति नाम्नापि व्यपदिष्टा / तथता तावत् सर्वस्वभावातीतलक्षणा, अतो नान्त्युभयस्वभावापीत्थमेवावबुध्यते / अन्यथा भवत्सम्मतम् असंस्कृतस्त्वपि तत् कथं भवेत् / यतो हि [भवता] तदसंस्कृतं वस्त्वित्यप्यभिधीयते, संस्कृतमेव वस्त्वित्यपि चाभिधीयते /
आर्यरत्नकरसूत्रे ऽप्युक्तम् -
वदन्ति ये वै तथतामसंकृतां तथैव चान्ये कृतकां यतस्ताम् / नोत्साहवन्तो ह्युभये भवन्ति धर्मस्य ज्ञाने सुगतोपदिष्टे //
अतस्तदित्थं संस्कृतासंस्कृतयोर्वस्तुत्वग्राहस्तावद् अन्तग्राह इति अथवा श्रावकप्रत्येकबुद्धनां यद् गोचरं तत्स्वलक्षणं वस्तित्वत्यभ्युपगच्छातां बालानां केवलं सन्त्रासपदविवर्जनार्थमेव आर्यज्ञानगोचरं वस्तुसदित्यभिहितम् / बुद्धबोधिअत्त्वानाम् अत्यन्तलोकोत्तरज्ञानस्य विषयस्तु पारमार्थिकं वस्तुस्वलक्षणं सर्वथासत्, सर्वधर्मानुत्पादानिरोधविषयकत्वात् सदसत्पक्षविरहितमेव तदिति / सूत्रे ऽउपुक्तम् - "किं लोकोत्तरज्ञानम्? श्रावकप्रत्येकबुद्धानां स्वसामान्यलक्षणपतिताशयानां यो ह्यभिनिवेशः / किमत्यन्तलोकोत्तरज्ञानम्? बुद्धबोधिसत्त्वानां निराभासधर्प्रविचयेन अनुत्पादानिरोधदर्शनात् सदसत्यक्षविवर्जितं तदिति /"
श्रावकादयस्तावत् तथ्यसंवृतिसंगृहीतं स्कन्धमात्रं स्वसामान्यलक्षणाकरेण भावयन्ति, अतः पुद्गलनैरात्म्यमात्रगृहीतत्वात्तेषां तज्ज्ञानं वस्तुविषयकमिति व्यवह्रियते, न तु परमार्थतया /
यदि बुद्धबोधिसत्त्वानां ज्ञानस्य विषयः परमार्थलक्षणेन सहैकीभूतं तदा कथं तज्ज्ञानं सत्पक्षविवर्जितं स्यात्? अत एव हि बालानां सन्त्रासपदविवर्जनार्थम् आर्यज्ञानगोचरं वस्तुसदित्युपदिष्टम्, न तु परमार्थतो वस्तु स्वलक्षणसदिति कथनार्थम् / यद्येवं नास्ति, तदा बुद्धां बोधिसत्त्वाश्च सद्विकल्पसम्बद्धा न भवन्तीति? यथा बालानां सन्त्राअपदविवर्जनार्थमित्युक्तम्, न तु परमार्थतो वस्तुसदिति प्रतिपादनार्थम्, तथा भगवतापि सूत्रान्तरेषु देशितम्, तथा हि आर्यकङ्कावतारसूत्रे - "किमिदं भगवन् सत्त्वानां त्वया नास्त्यसिदृष्टिं विनिवार्य वस्तुस्वभावाभिनिवेशेन आर्यज्ञानगोचरविषाअभिनिवेशान्नास्तित्वदृष्टिः पुनर्नास्तित्वदृष्टिः पुनर्निपात्यते, विविक्तधर्मोपदेशाभावश्च क्रियते आर्यज्ञानस्वभाववस्तुदेशनया? भगवानाह - न मया महमते, विविक्तधर्मोपदेशाभावः क्रियते, न च न चास्तीत्वदृष्टिर्निपात्यते आर्यवस्तुस्वभावनिर्देशेनः किन्तु उत्त्रासपदविवार्जनार्थं सत्त्वानां महामते, मया अनादिकालभावस्वभावलक्षणाभिनिविष्टानामार्यज्ञानवस्तुस्वभावाभिनिवेशालक्षणदृष्ट्या विविक्तधर्मोपदेशः क्रियते, न मया माहमते, भावस्वभावोपदेशः क्रियते / किं तु महामते स्वयमेवाधिगतयाथातथ्यविविक्तधर्मविहारिणो भविष्यन्ति" - इति विस्तरः / अतो यदार्यज्ञानगोचरविषयो वस्तुस्वलक्षणत्वेन निर्दिष्ट निर्दिष्टः स तावद् भगवत उपायेनैव देशनामात्रम् / अतो भगवतो ऽसन्दिग्धं प्रवचननयमनुपादाय ते मिथ्या [मोषधर्मकं] वस्तुस्वभावत्वेन विकल्पयन्ति / ते तावाभिमानिनो भगवन्तमपि अपवाद्य स्वयं विनश्यन्ति परांश्चापि नाशयन्ति /
एवमित्थमस्निन्नेव सूत्रे वस्तुसभावाभिनिवेशिनः आत्मग्राहगृहीतत्वान्न मुक्ता भविष्यन्तीत्येवं समुपदिष्टम् - "पुनरपरं महामते, प्रमाणत्रयावयवप्रत्यवस्थानं कृत्या आर्यज्ञानप्रत्यात्माधिगम्यं स्वभावद्वयविनिर्मुक्तं वस्तु स्वभावतो विद्यत इति विकल्पयिष्यन्ति / न च महामते, चित्तमनो मनोविज्ञानचित्तपरावृत्त्याश्रयाणां स्वचित्तदृश्यग्राह्यग्राहकविकल्पप्रहीणानां तथागतभूमिप्रत्यात्मार्यज्ञानगतानं योगिनां भावाभावसंज्ञा प्रवर्तते, स एवैषामात्मग्राहः पोषग्राहः पुरुषग्राहः पुद्गलग्राहः स्यात्" / अपि च, यदि परमार्थतः स्यात् किमपि वस्तुसत् तदा तदवश्यं नित्यं वा अनित्यं वा स्याद्, अपरायाः कोटेरभावात् / तस्मिन् वस्तूनि नित्यानित्यत्वचिन्तया प्रवृत्ता या प्रज्ञा, सा वस्तुनो यथास्वभावज्ञानानुकूलतया सम्यक् प्रज्ञैव, न तु प्रज्ञापारमितेव प्रतिवर्णिका / अत एव तथागतेन प्रज्ञापारमितायां यदुक्तं तेनापि विरोधः स्यात् / तथा हि - "कौशिक, ये कुलपुत्राः कुलदुहितारो वा यदा प्रज्ञापारमितामुपदिशन्ति तदा प्रज्ञापारमितावदेवोपदिशन्ति / तत्र ते प्रज्ञापारमितेव कुर्वन्ति / यतो हि रूपमनित्यमित्युपदिशन्ति, तथैव दुःखतां निरात्मतामशुचितां चोपदिशन्ति / एवमेव वेदना संज्ञा संस्कारा विज्ञानं स्कन्धा धातव आयतनानि ध्यानाप्रमाणारुपानुस्मृतिसत्म्यक्प्रहाणार्द्धिपादेन्द्रियबलबोध्यङ्गानि तथागतस्य दशबलवैशारद्यप्रतिसंविदावेणीका बुद्धधर्माः सर्वाकारज्ञता चेति सर्वं दुःखमनात्मकशुचीत्युपदिशन्ति / एवमेव यदाचरन्ति तदपि प्रज्ञापारमितायामेवाचरन्ति / कौशिक, तत् प्रज्ञापारमितावदेव कुर्वन्ति /
तत्र ये प्रज्ञापारमितावन्न कौर्वन्ति तत्कथमिति चेत्? ते इत्थुमुपदिशन्तिकुलपुत्राः, अत्रागच्छथ, प्रज्ञापारमिताभावनायं रूपमनित्यमिति मानुपश्यथ, सर्वाकारज्ञतापर्यन्तं दुःखतां निरात्मकतामशुचितां च मानुपपश्यथ / यथो हि रूपमितिस्वभावतः शून्यम्, रूपस्य यो ऽपि स्वभावः, स [सर्वथा] असन् / यच्चासत् सैव प्रज्ञापारमिता / तस्यां नित्यमनित्यमिति नोपलभ्यते / यतश्च यत्ररूपमेव नास्ति तत्र कुतो नित्यमनित्यं वाआअ? सर्वाकारज्ञतापर्यतन्तमित्थमेव / एवं ये ह्युपदिशन्ति ते प्रज्ञापारमितावन्नोपदिशन्ति /
अपित्वेवमुपदेष्टव्यम् - कुलपुत्राः, अत्रागच्छथ, प्रज्ञापारमितां भावयथ मा च कमपि धर्मं समतिक्रमथ, मा च कस्मित्रपि धर्मे तिष्ठथ / तत् किमर्थमिति चेत्? प्रज्ञापारमितायां नास्ति को ऽम धर्मः, यः समतिक्रमितव्यः, यत्र वा स्थातव्यमिति / यतो हि सर्वे धर्मा स्वभावतः शून्याः / ये स्वभावतः शून्यता ते ऽसन्तः, सैव प्रज्ञापारमिता / या च प्रज्ञापारमिता, तस्यां न को ऽपि ग्राह्यो हेय उत्याद्यो निरोध्यश्चेति / यद्येवमुपदिशन्ति तदा प्रġयापारमितावदेवोपदिशन्ति / अतः सर्वे वस्तुवादिनस्तावद् धर्मतथतां विपरीततया निर्दिशन्त्यतः [तन्निर्देशः] प्रज्ञापारमितोपदेश इव प्रतिवर्णिक एव / सर्वधर्मनिःस्वभावतावादिनस्त्वविपरीततया निर्दिशन्त्यतः सोपत्तिका एव त इति भगवता सुस्पष्टं निर्दिष्टम् / इत्येवं भगवान् तत्तत्सूत्रे ऽनेकशो ऽशेषधर्मन् निःस्वभावत्वेनैवोपदिष्टवान् / विस्तरभिया [अस्माभिः] न बहुन्यपितु कतपयान्येवात्रोद्धृतानि / अत एव भगवता तावदसन्दिग्धं सम्यक्प्रवचननयमवधाअयितुमशक्नुवतां ऽनैव तावदागमद्वर सर्वे धर्मा निःस्वभावत्वेन साधयितुं शक्याःऽ इत्यभिदधतां प्रतिविधानमनुष्ठितम् / तत्र यद्यल्पमतितया एवंविधं गम्भीरधर्मतां नाधिमोक्तुं पारयन्ति तथापि सविकल्पमात्मनो मन्दप्रज्ञत्वदोसमवलोकयद्भिस्तत्परित्यागो नैव युज्यते / आत्मानं विनाश्य परेषामपि महार्थविरहं कृत्वा प्रणाशो नैव समीचीनः / एवं हि सति स्वपरद्रोह एव स स्यात् /
अतः प्रज्ञावन्तः श्रद्धावन्तश्च गम्भिरधर्मपरित्यादगृष्टिं परिवर्ज्य भगवन्तं प्रमाणीकृत्य आत्मनो ऽज्ञानदोषकारणात् तदपरिज्ञानं सम्भाव्यत इति विचार्य गम्भीरसूत्रेषु श्रद्धामुत्पाद्य श्रवणचिन्ताभावनादिषु योगं कुर्युः, परांश्चापि सम्यक् तदधिगन्तुमवतारयेयुः, स्वयं च तदधिमोक्तुं प्रणिदध्युरिति / अत एव आर्यरत्नकूटसूत्रे प्रोक्तम् - "ये ऽस्य गम्भीरधर्मस्य गाम्भीर्य प्रज्ञया अवबोद्धुमशक्नुवानास्ते तथागतमेव प्रमाणं कुर्वन्ति, अनन्ता बुद्धोबोधिरिति कृत्वा / यतश्च विविधाधिमोक्षानुसारं तथागता एव धर्मोपदेशे प्रवर्तन्ते, अतस्तथागता एव जानन्ति / नास्मादृशैर्ज्ञातुं शक्यत इति विचार्य तत्परित्यागो नैव युक्तरूपः" /
इत्युवमागममुखेन सर्वे धर्मा निःस्वभावा एवेति सिद्धा भवन्ति /
48 [3] ये ऽपि तावदुत्पत्त्यादिविभागं द्वयाभासिना ज्ञानेनैव कुर्वन्ति, न तु स्वसंवित्तिमात्रेण, ते द्वयाभासस्य मिथ्यात्वेन तद्व्यवस्थापितः स्वभावो ऽपि मिथैवेत्यभिदधते / तानधिकृत्येदानीमुच्यते -
यदि सर्वधर्माणामुत्पादादिधर्मता मिथ्याज्ञानावभासितत्वेन व्यवस्थाप्यते, तदा कथं सा परमार्थसती भवेत्? द्वयाभासो ऽपि यदि मिथ्यैव तदा कतज्ज्ञानरूपमवशिष्यते यत् खलु परमार्थसद् भवेत्? अन्यत्तद् विज्ञानं ग्राहकाकाररहितं तदर्वाग्दर्शिभिः नानुभवितुं युज्यते, सर्वेषां सर्वदर्शित्वप्रसङ्गात् / नानुमानेनापि निश्चेतुं शक्यम्, तथाविधहेतोरेवभावात् / तत्र न तावत् स्वभावहेतुकमनुमानं सम्भाव्यते, तत्स्वभावस्यैव साध्यत्वात् / न च कार्यहेतुरपि, यतो हि कामं स्यात्तदद्वयविरुद्धं तथापि तेन कार्यकारणभाव एव न सिद्धः, इन्द्रियानुभवातीततत्वात् / न चैतद्वयतिरिक्तमन्यत् कार्यं विद्यते, तथा सति भवन्मतेनाद्वयमेव कार्यं स्यात्, किन्तु साध्यावस्थापन्नत्वान्नैव तत् प्रमाणैः प्रसिध्यति / यो हि द्वयाभासः, स तावद् शशशृङ्गवन्नैव कार्यम् / अतश्च प्रत्यक्षानुपलम्भाभ्यां साध्यभूतस्य कार्यकारणभावस्य सिद्धये परमार्थे ऽद्वयज्ञानेन गृह्यमाणं किमपि नास्ति / अनुपलब्धेरपि प्रतिषेधसाधनत्वान्न भवति सा सत्त्वसिद्धिसाधिका / यथोच्यते कैश्चित् - यो हि यत्स्वभावविरुद्धः स तत्स्वभावविविक्तः, यथा शीतस्वभावविरुद्धमुष्णत्वं शीतस्वभावविविक्तम्, तथा च प्रतीतिष्वभावो धर्मी, द्वयस्वभावविरुद्धत्वात्, व्यापकविरुद्धोपलब्धेः / न चापि हेतोराश्रयासिद्धिः साअमान्यसुखदुःखाकारवेदकस्य धर्मिणो ज्ञानाख्यप्रतीतिस्वभावेन सिद्धत्वात् / न च स्वभावो ऽप्यसिद्धः, ग्राह्याकारस्य एकानेकस्वभाववियोगेन असत्त्वे तदाश्रितः परिकल्पितो ग्राहकाकारो ऽपि निःस्वभाव एव / न चापि सर्वाभावप्रसङ्गः, केवलेन कर्तुकर्मस्वभावेन कल्पितत्वान्मिथ्यैव / नैवात्मना आत्मत्वमित्यपि युज्यते / यदि सामान्येन परमार्थतो द्वयविविक्तस्त्वं साधयितुमिष्यते तदा सिद्धसाधनमेव, यतो हि वयमपि परमार्थतो द्वयस्य मिथ्यात्वाद् विविक्तत्वमेवाभ्युपगच्छामः / यदि ह्यभावस्वभावः खलु परमार्थत आकारविरहितविज्ञानत्वेन साधयितुमिष्यते, तदापि सिद्धसाधनमेव, यतो हि वयमपि परमार्थतः सर्वधर्माणामनुत्पन्नत्वात् सर्वविज्ञानानि तावत् परमार्थतो ऽसिद्धानि द्वयाकारसुवियुक्तानीत्यभ्युपगच्छामः /
यदि विज्ञानाख्यं धर्मिणं द्वयवियुक्तत्वेन वस्तुसत्त्वेन च साधयितुमिष्यते तदा दृष्टान्तवयासिद्धत्वादनैकान्तिकत्त्वं हेतोः, बाह्यार्थस्वभावानां शीतोष्णीदीनां सम्यगसिद्धत्वात् / एकस्मिन्नेव ज्ञाने ज्ञानतदवभासयोरवभासितत्वेन अविरोधो ऽपि स्यादतः साध्यविकलं दृष्टान्तमपि स्यादिति / यदि विज्ञानं द्वयवियुक्तं सिध्यति तदा तद्बलेन स्वभावसत्त्वमपि सिध्यतीति चेत्? दुर्मतिरेषा, सम्बन्धाभावात् / यद्धि द्वयवियुक्तं तदवश्यं सम्यग् वस्तुसदिति को ह्यत्र सम्बन्धः? यतो हि यदि तन्निवर्तते तदानर्थोपसंहितं प्रमाणमपि निवर्तते / अपि च, तथाविधदृष्टान्तो ऽप्यसिद्धः / वन्ध्यापुत्रादिभिस्तेन द्वयेन चाप्यनैकान्तिकः / तस्मिन् द्वये नान्यद् द्वयमपि सम्भाव्यते, अनवस्थाप्रसङ्गात् / शीतादिस्पर्शवियुक्तानामूष्मादीनां स्वभाववत् द्वयस्वभावातिरिक्तः तद्वियुक्तस्वभावत्वेन सिद्धः प्रतीतिस्वभावभिन्नस्तत्समानस्वभावः कश्चिदपि धर्मी नास्त्येव, द्वयात्मकस्यैव प्रतीतिस्वभावत्वात् / एवं हि अन्यव्यक्तिनिरपेक्षः सन् यश्च स्वयमेवात्मनाभिव्यज्यते, स प्रतीतिलक्षणः / कायभूमिपर्वतनदी सागरादयो विविधाकारा ये पुगतो ऽवभासमाना बाह्यार्थास्ते स्वयमेवात्मना अभिव्यज्यमानत्वात् प्रतीतिस्वभावातिक्रान्ता एव प्रवर्तन्ते /
एवमपि ये मिथ्यत्मना कुलेषु गृहेषु च प्रवृत्तिमाचरन्ति, तेषां स्वकायोपगूढदयितया प्रतीतिस्वभावालिङ्गनमिव आचरणाद् असद्द्वयसमायोगो ऽयं दूषितत्वान्न विश्वासयोग्यः / तथा च द्वयस्वभावात्मकात् प्रियतमाद् वियोगे सति किमिव नान्येन सह समायोगः स्यादतः केवलमस्यैव धर्मित्वावस्था नैवोपपद्यते / फलतश्च आश्रयासिद्ध एवायं हेतुः /
सौत्रान्तिकादयो ऽपि ज्ञानं परमार्थतो द्वयस्वभावं नाङ्गिकुर्वन्ति, अंशाभावेन विरोधात् / अतस्तस्याद्वयस्वभावसिद्ध्या कस्य सिद्धिः, बाह्यार्थानामपि तदविरुद्धत्वात् /
ये ऽन्यैः प्रमाणैर्बाह्यार्था निराक्रियन्त इति ब्रुवते, तेषां ज्ञानमपि किन्न तथा / ये तावत् कर्तृकर्मभावापेक्षया प्रज्ञप्तत्वान्मिथ्यैवेति कथयन्ति, तदप्यनुभावविपरीतमिति /
भवन्तो ऽपि विज्ञानं परमार्थतो ऽद्वयाकारमेवाभ्युपगच्छन्ति / तथा सति ये नीलादिविविधचित्ताकारा बाह्यार्थत्वेन विज्ञाने ऽवभासन्ते ते कर्मकर्तृव्यवहारानभिज्ञैः कल्पनादोषविनिर्मुक्ते चित्ते स्पष्टतो ऽनुभूता भविष्यन्तीति / विविधवस्तुविशेषापेक्षया त उपलक्ष्यन्त इति चेत्? तस्य तावद् विशेषस्य बालपर्यन्तं नास्ति सुस्पष्टावबोधः / यदि नियतदेशकालावस्थितस्य तस्याकारराशेः तथाविधस्पष्टावभासतो भिन्नानुभवो मिथ्यैवेति भवन्तः स्वीर्कुन्ति तदा विमिक्तिकांक्षिणो भवन्तः तिरोभूतद्वयस्वभावरहितात्मकं प्रतीतिस्वभावं विविक्तस्वभावत्वेनाभिनिविश्य आसक्ता एवेति किमन्यत् / तदेतदल्पीयसश्छिद्रान्निर्गते ऽपि विपुलकाये हस्तिनि तत्पुच्छावरोधवच्चिरकालं विदुषामाश्चर्याद्भुतमेवेति / अतश्च स्वतीक्ष्णप्रज्ञाखड्गेन तामासक्तिं छित्त्वा कश्चन तादात्म्यलक्षणो वा तदुत्पत्तिक्षणो वा सम्म्बन्धः सत्यासत्ययोरन्योपरिहारस्थितलक्षणत्वात् तादार्म्यविरोधः असतो ऽपि न कुतश्चिदप्युत्पत्तिभ्युपेयते / उत्पत्तौ सत्यामपि न युगपत्तादात्म्येनावभासो युज्यते, कार्यकारणयोः कालस्वभावाभ्यां भिन्नत्वात् / असम्बद्धो नियतावभासो ऽपि न युज्यते, अतिप्रसङ्गात् / इत्येवमवश्यं कल्पनाभिन्नस्य असत्स्वभावाकारावभासस्य स्वीकारणात् तल्लक्षणान्वित एवाभ्युपगन्तव्यः / अत उभावपि मिथ्यैव भवतः / यद्येवं न स्यात् कथं नाम मिथ्याकारकल्पनास्वभावोयोस्तादात्म्येनानुभवो जायेत / अतश्च सत्याभिवेशपाशमुत्खातमुलं कुरुत / भगवतापि तावदुक्तम् - "यो हि धर्मस्तथागतेनाभिसम्बुद्धः, स न सत्यं नापि मृषा" इति /
[4] तदपि युक्तिभिरपि [साधयितु] नैव शक्यते / एवं कतिपयैः प्रत्यक्षैः ऽसर्वे धर्मा विविक्ताऽ इति ज्ञातुमशक्यत्वत् / वस्त्वेव तेषां विषय इत्यभिदधानास्तावत् प्रष्टव्या किं सर्वेसां पुरुषाणां यानि प्रत्यक्षाणि तानि सर्वधर्मनैरात्म्यं नावबोद्धौं समर्थानि उताहो घनाज्ञनतिमिरोपहतमतियनानां भवदृशानां प्रत्यक्षाणि नावबोद्धुमिति / तत्र प्रथमस्तावत् पक्षो नैव युज्यते, प्रमाणाभावात् / सर्वेषां पुरुषाणां प्रत्यक्षाणि न प्रवर्तन्त इति निश्चायकस्य प्रमाणस्याभावात् /
स्वालम्बननिवृत्तिमात्रं तावद् भ्रान्तमेव / यदि तदुपलब्धिलक्षणप्राप्तस्यानुपलब्धिरेवासत्त्वेन साध्यते / तदा यतो हि कारणात् स्वेनानुपलम्भः, तस्मिन् अप्रवृत्तिज्ञानां सर्वेषां स्त्रीपुरुसाणां चित्तसन्ततौ प्रवर्तमाना या चित्तप्रवृतिः सा तावान्नैव अर्वाग्दर्शिनामुपलब्धिलक्षणप्राप्ताः, अपरेषां हि निवृत्त्युपलब्धिरप्यनियता / अतः प्रेक्षावतां प्रत्यक्षेण तज्ज्ञानं नैव भवतीति यदुक्तं तन्न युक्तमिति /
अथ द्वितीयः पक्षस्तदा सिद्धसाधनमेव / वयमपि हि अर्वाग्दर्शिभिस्तथाविधस्य तावद् गम्भीरधर्मतत्त्वस्य प्रत्यक्षतो दर्शनं नैव मन्यामहे / यद्यपि भवादृशाः खलु तथाविधतत्वावबोधे ऽसमर्थास्तथापि परमयोगिनः, ये कल्पैरनेकैरप्रमेयपुण्यग्ज्ञानसम्भारार्जनं कृत्वा अनुरूपकृत्स्नोपायसमन्विताः भूतार्थभावनाप्रकर्षपर्यन्तजम्यज्ञानप्रभाभिर्निरस्तसमस्तावरणान्धकारास्तेषं प्रत्यक्षेण तावत् सर्वधर्मनैरात्म्यबोधो भवत्येवेति कस्मात्र सम्भवति / [विषयम्] अमुमधिकृत्य पश्चाद् युक्तिरपि प्रदर्शयिष्यते /
वस्तुविषयकाणि प्रत्यक्षाणीति यदुच्यते नैव सिध्यति / एवमर्वाग्दर्शिनां यानि प्रत्यक्षाणि तानि तिमिरोपहतप्रत्यक्षवद् रुपादिमिथ्याविषयकत्वाद् वस्तुस्वभावविषयत्वेन सम्यग्विषयत्वेन वा तावन्नैव युज्यन्ते, अन्यथा सर्वेषां खलु तत्त्वदर्शित्वप्रसङ्गः / बुद्धानां बोधिसत्त्वानां महायोगिनां चापि ज्ञानानि नैव तावद् वस्तुविषयकत्वेन प्रसिध्यन्ति, यस्मान्न तैः कश्चनापि अविपरीतो वस्तुस्वभावः परिदृष्टः / आर्यबोधिसत्त्वसूत्रपिटके ऽउयुक्तम् -
यदुत सर्वे तैर्धर्मा निस्वभावाः अनिरुद्धाः प्रकृत्योपशान्ताः अत्यन्तमजाताः अत्यन्तमभूताः अत्यन्तपरिनिर्वृता एव दृष्टाः / तैस्तावद् येन दृष्टं तदप्यनिदर्शनमविदर्शनं च, यतो हि तत् सम्यग्दर्शनं यथावद् येन दृष्टं तदप्यनिर्दर्शनमविदर्शनं च, यतो हि तत् सम्यग्दर्शनं यथावद् दर्शनं चेति / किं पुनः सर्वधर्माणां यथावद् दर्शनमिति चेत्? तदेव यदनिदर्शनमिति /
आर्यधर्मसङ्गीतौ नाम सूत्रे ऽप्युक्तम् -
"सर्वधर्माणादर्शनमेव परमम् दर्शनम्" / इति / अतः प्रत्यक्षविषयाणां सम्यग्वस्तुत्वं न सिध्यति /
यद्धि असद् भवति वस्तु, तन्न कथमपि विज्ञानमुत्पादयितुं क्षममिति यदुच्यते, तदपि नैव युज्यते / अस्माभिरपि तावद् शशशृङ्गसमेभ्यो ऽवस्तुभ्यः प्रत्यक्षज्ञानोत्पादो नैवाभ्युपगभ्यते / तथापि महायोगिनः, ये मरीचिप्रतिशब्दनिभान् सर्वधर्मान् यथावद् भावयन्ति, तेषु सम्यगर्थभावनाबलेन प्रान्तकोटिकध्यानावाप्तितो ऽनुत्तराचिन्त्यप्रभावसम्पन्नतया तत्प्रत्यक्षेषु सर्वधर्मनैरात्म्यज्ञानं भवत्येव, अशेषधर्मनैरात्म्साक्षात्कारि सुस्पष्टं तावज्ज्ञानमुदेत्येव / अत एव तत् तत्त्वादर्शनमित्यभिधीयते, न तु निषेध्यस्वभावस्यासत्त्वमिति /
अथ यत्तावत् प्रत्यक्षं तत् सस्वभावमिति यदुक्तं तत् सर्वेषां धर्माणामनुत्पादैकरसत्वत् प्रत्यक्षमपि परमार्थतो निःस्वभावमेव, तथापि या संवृतिसत्याश्रिता प्रत्यक्षव्यवस्था सा सर्वा तावदव्याहयैव / सर्वेषां धर्माणां परमार्थतो निःस्वभावत्वे ऽपि माध्यकाः सर्वव्यवहाराणां व्यावहारिकाणां योगिज्ञानानामपरेषां पृथग्जनज्ञानानाम् आर्यपुद्गलादीनां ये हेतवस्तातान्नैव नाभ्युपगच्छन्ति, किन्तुं ये तावत् संवृतितो ऽप्यहेतुकास्ते खलु व्यवहारतो ऽप्यनुत्पन्ना एव, शशशृङ्गवत् / यत् सत् तत् परमार्थतो निःस्वभावमपि तावदुत्पद्यते, मायाप्रतिबिन्बादिवत् / मायादीनां सर्वेषां प्रतीत्यसमुत्पन्नत्वे ऽपि नास्ति वस्तुताप्रसङ्गः, साधकबाधकप्रमाणबाधितत्वात् /
तथैव प्रतीत्यसमुत्पन्नत्वे ऽपि सर्वधर्माणां नास्ति वस्तुताप्रसङ्गः प्रमाणबाधितत्वात / यथैव हि मन्त्रोषधादिप्रभावेण गजादिविविधमायाप्रादुर्भावस्तथैव कर्मक्लेशादिप्रभावेण् सत्त्वानामुत्पादादयः प्रादुर्भवन्ति / यगिनां तावत् स्वकीयपुण्यज्ञानसम्भारसञ्चयवशेन योगिज्ञानादिमायाप्रादुर्भावः, यतो हि विविधैर्हि प्रत्ययैः सा मायापि विविधैवावभासते /
आर्यप्रज्ञापारमितासूत्रे ऽउयुक्तम्ः "कश्चिछ्रावकनिर्मितः [कश्चित् प्रत्येकबुद्धनिर्मितः] कश्चिद् बोधिसत्त्वनिर्मितः कश्चित् तथागनित्मितः कश्चित् कर्मनिर्मितः / अनेन सुभूते, पर्यायेण सर्वधर्मा निर्मितोत्पन्ना इति" /
बालपृथग्जनेभ्यस्तावद् योगिनामेतदेव वैशिष्टयं यत्ते मायाकार इव यथावन्मायां परिजानन्ति, न च तथैव तस्यामभिनिविशन्ते /
आर्यधर्मसङ्गीतावप्युक्तम्ः
मायाकारो यथा कश्चिनिर्मितो मोक्षमुद्यतः / न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतो ऽस्य सः //
त्रिभवं निमितप्रख्यं ज्ञात्वा सम्बोधिपारगः / संनह्यते जगद्धेतोर्ज्ञातपुर्वं जगत् तथा //
यथा बालपृथग्जनजातीयदर्शकेषु उत्पत्त्यादिमायभासो भवति, तथैव ये तस्मिन् सत्यतो ऽभिनिविशन्ते, ते विपरीताभिनिवेशवशाद् "बालाः" इत्यभिधीयन्ते / अतः संवृतियोगहिनि योगिप्रत्यक्षे तथा स्थितत्वात्तेषां शशशृङ्ग इवात्यन्ताभावो नैव भवति / अत एव प्रत्यक्षतो ऽशेषधर्मनैरात्मज्ञानं तावत् सदेव / अविरोधो ऽपि तत एवेति / परमार्थतो निःस्वभावत्वे ऽपि योगिनः पृथग्जन इव व्यवहारतया व्यवस्थापयन्ति /
आर्यपरमार्थसंवृतिसत्यनिर्देशसूत्रे तावदुक्तम्ः
"परमार्थतो ऽत्यन्ताभावश्च संवृत्या च मार्गं भावयतीति कथनवत्" ऽयदर्थान्तरविविक्तपाक्षिकेन प्रत्यक्षेण परिगृह्य तदितरशून्यप्रत्यक्षेण तावदवबुध्यतेऽ - इत्यादिकं यदुक्तं तदपि नैव युज्यते, इतरेतरशून्यत्वादस्य नयस्य, न तु लक्षणशून्यत्वादिति / लक्षनशून्यत्वे उ सर्वे धर्मास्तावत् परमार्थतो निःस्वभावत्वेनैवाभ्युपगम्यन्ते, यतस्तेषां स्वसामान्यलक्षणानि परमार्थतो यथा व्यवस्थितानि, तेभ्यस्तच्छून्यत्वात् /
या हि वस्तूनामितरेतरशून्यता सा नैव परमार्थः, व्यवहारसत्यमाश्रिता खलु सा / इत्येवमनुत्पादरसैकत्वे ऽपि सर्वधर्माणां नैव भेदाभावः, तथापि स्वप्नाद्यवस्थादिवद् बालेषु परस्परभिन्नान्यवभासन्ते / अत एवात्र यथाप्रसिद्धिमर्थान्तरविविक्तग्रहणमुखेन तावदितरेतरशून्यता व्यवस्थाप्यते, न तु परमार्थतया / यतो हि स्वप्नमायादिसदृशवस्तूनां स्वभावः परमार्थतः परस्परमभिन्नः / अत एव भगवताभिहितम् -
परमार्थमनाश्रितत्वेनेयं सर्वतः प्रतिक्रुष्टेति परिवर्जनीयैव / आर्यलङ्कावतारसूत्रे तावदुक्तम् ः
"एवं महामते, इतरेतरशून्यता सर्वजघन्या, सा च त्वया परिवर्जयितव्या" /
या खलु सर्वधर्मलक्षणशून्यता, या च तस्याः स्वसामान्यकक्षणव्यवस्था, सा उपलब्धिलक्षणप्राप्तापि सती योगिभिः परमार्थतया अनुपलब्धाकारैव / अतः सर्वे धर्मा निराभासज्ञानोत्पत्त्या ज्ञाता भवन्तीति व्यवस्थाप्यते / अत एव च इतरेतरशून्यता बालपृथग्जनानां परिकल्पनामश्रित्यैवाभिहिता, असम्बधैव चैषा /
[5] सा च ऽयोगिप्रत्यक्षेण सम्यगवगम्येऽ ति कथनं नैव विदुषां रुचिकरम् / युक्त्यभावस्तत्रेति यत् कथनं तदपि नास्ति युक्तिसङ्गतम्, युक्तीनां तावद् संविद्यमानत्वात् /
विद्वांसः कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणं समुदीरयन्ति / अर्थाभावे ऽपि भावनाबलेन अर्थवभासि सुस्पष्टं ज्ञानमुत्पद्याते / तथाहि - यथा कामशोकभयोन्मादाद्युपहतेषु असकृदभासबलेन प्रमदाद्यवभासि स्पष्टं ज्ञानमुपजायते येन ते तान् पुरःस्थितनिव दृष्ट्वा सहसा विविधशरीरकम्पादिभिश्चेष्टमाना दृश्यन्ते /
अतश्च यथोक्ततत्वं भावयत्सु तज्ज्ञनमुत्पत्स्यत एवेति सम्भाव्यते / यच्च स्पष्टावभासि ज्ञानं तन्नुनं निर्विकल्पकमेव, कल्पनावायुप्रकम्पितकायाकारस्य सुअपष्टमनुपपन्नत्वात्, प्रदीपवत् /
prayogaḥ - ye tāvat kecinnirantaraṃ sādaraṃ bhāvanāmanutiṣṭhanti, te bhāvanāphalaṃ prakarṣaparyantajaṃ sfuṭāvabodhamanubhavantyeva, rāgādyupahataiḥ pramadādibhāvanāvat / yatra cirakālaṃ nirantaraṃ sādaraṃ sarvadharmanairātmyabhāvanaṃ svabhāvahetuḥ, tatra pramāṇopapannārthavisayakamavisaṃvādakaṃ [jñānaṃ] bhavatyeva, vyavahāreṇa dhūmādiliṅgajanitaniścayenotpannāgnyādijñānavat / yogināṃ khalu tannairātmajñānamapi pramāṇopapannārthaviṣayakamiti svabhāvahetuḥ /
अस्य प्रमाणोपपन्नत्वं पश्चात् प्रकाशयिष्यते / स्पष्टावभासमानं सद् यज्ज्ञानमविसंवादणं जनयति तत् प्रत्यक्षं प्रमाणम्, रुपादिव्यवहारार्थमनुपहतचक्षुषां चक्षुविर्जानादिवत्, सर्वधर्मनैरात्म्यविषयकं योगिनां ज्ञानमपि स्पष्टावभासमानं सद् अविसंवादकमिति स्वभावहेतुः / यद्येवं सर्वधर्मनैरात्म्यज्ञानं युक्तिभिः सुसाध्यं तदा कथमिव विद्वांसस्तत्र न प्रिताः? यदपि योगिज्ञानं तदसदिति यदुच्यते, तत्पूर्वमस्माभिः सम्यगुत्तरितम्, सर्वधर्माणां शशशृङ्गवदत्यन्ताभावस्याभावात् / तथापि परमार्थतस्तेषामभाव एव मायावत् / अतो नैवास्माभिः सर्वे व्यवहारास्तावन्निषिध्यन्ते, न च ते ऽस्माभिर्नाभ्युपेयन्त इति यदुक्तं तत्तथा /
[6] यैस्तावत् "अनुमानेनापि सर्ववस्तुनि निःस्वभावत्वेन साधयितुमशक्यानि, कस्यापि धर्मिनो विषयस्यासिद्धत्वात्, दृष्टान्तादीनां चानुत्पन्नतावत्, सर्वसां युक्तीनां विषयस्य स्वभावस्य चासिद्धत्वात्" इएत्यवमुक्तम्, तदप्यसम्बद्धमेव /
इत्थमस्माभिर्निःस्वभावत्वेनाभ्युपेते सति यदा भवन्तः प्रसङ्गमापादयन्ति तदा स प्रसङ्ग एव नास्ति /
यैः खलु हेतुभिरस्माभिर्वस्तूनां निःस्वभावताभ्युपेयते, तत्र परमार्थतो हेतुदृष्टान्तधर्मिणामसत्त्वाद् यद्यनुमानानुमेयादिसर्वव्यवहाराभावप्रसङ्गो ऽस्मास्वापाद्यते, तदा स प्रसङ्ग एव न भवति, इष्टापत्तेः / यतो वयमपि अनुमानानुमेयादिसर्वव्यवहारादीनां परमार्थतो ऽप्रवृतिभ्युपगच्छामः / फलतः कथमिव तावत्तदभावप्रसङ्ग आपतेदिति / अस्वीकरणं हि नाम प्राङ्गलक्षणम् /
वयं तावद् भवद्भिः प्रयुक्तं दूष्णमपि परमार्थतो ऽनुत्पन्नमेवाभ्युपगच्छामः / अतो नास्ति को ऽपि दोषावसरलेशः / अत एवाचार्यपादैः -
यदि किंचिदुपलभेयं प्रवर्तयेयं निर्वर्तयेयं वा / प्रत्यक्षादिभिरर्थैस्तदभावान्मे ऽनुपालम्भः //
इत्यक्तम् / यत् परमार्थतो ऽसत् तद् व्यवहारे ऽपि प्रवर्तितुं न शक्यत इत्येवं यो हि प्रसङ्गः, स प्रसङ्ग एव न भवति, व्याप्त्यसिद्धेः / यतो हि येन कारणेन यस्यात्मनिवर्तनं तेन तस्य व्यवहारनिवर्तनं तु नास्ति परमार्थस्वभावव्याप्तम्, अपि तु तद्विपर्ययव्याप्तमिति / व्यवहारस्तु परमार्थतो ऽभावस्वभाव एव / परमार्थस्वभावविराहिता अपि स्वप्नादयो विविधव्यवहारेषु प्रवर्तमाना दृश्यन्ते / अतः सर्वे ऽपि तावद् व्यवहारा निर्माणस्वप्नादिवदविरुद्धा एव /
निर्मितको निर्मितकं मायापुरुष स्वमायया सृष्टम् / प्रतिषेधयसे यद्वत् प्रतिषेधो ऽयं तथैव स्यात् //
सर्वत्र साध्यधर्म्यादीनां परमार्थभूतत्वादेव अनुमानादिव्यवहाराः प्रवर्तन्त इति हेतोः परमार्थतो निःस्वभावत्वे सति नानुमानादिव्यवहाराः प्रवर्त्स्यन्त इति यो हि दोष आरोप्यते, सो ऽपि तावद् दोषाभाव एव / निर्विवादरूपतया सप्रसङ्गत्वात् परमार्तधर्म्यादिभिः अनुमानादिव्यवहाराः कुत्रापि नैव सिद्धाः, तथापि लोके यथाप्रसिद्ध एव धर्मिणि व्यवहारा भवन्ति / यतो हि प्रवादिनो हि तत्त्वानिर्णयार्थमेव अनुमानादिव्यवहारान् प्रयुञ्जन्ति / यथोक्तम् -
धर्मधर्मिव्यवस्थानं भेदो ऽभेदोश्च यादृशः / असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते //
तं तथैव समाश्रित्य साध्यसाधनसंस्थितिः / परमार्थावताराय विद्वद्भिरवकल्प्यते //
पुनश्च, यथानुदर्शनं चेयं मेयमानफलस्थितिः / क्रियते विद्यमानापि ग्राह्यग्राहकसंविदाम् //
अन्यथैकस्य भावस्य नानारुपावभासिनः / सत्यं कथं स्युराकारास्तदेकत्वस्य हानितः //
इदं तावद् व्यवहारिकप्रमाणलक्षणमित्यपि कथ्यते / प्रमाणस्य तावत् सर्वाणि लक्षणानि तत्त्वप्रवृत्यर्थमेव भवन्ति, अन्यथा व्यर्थान्येव तानि स्युरिति / प्रमाणलक्षणशास्त्राण्यनधीयानासु गोपालकाङ्गनासु एवमुपदेशाभावे ऽपि धूमादिलिङ्गदर्शनतो ऽग्न्यादीनां ज्ञानमुत्पद्यत एव / अत एव वयमपि तत्त्वप्रवेशाय तथताव्यवहाराभ्यामनुमानादिप्रवर्तनाद् दोषरहिता एव /
अपि च, ये व्यवहारेणानुमानादिप्रवृत्तौ यत्रानित्यादि वस्तुधर्मं सत्स्वभावं साधयन्ति, तेषां निःसंशयं तत्र व्यवहारेण वस्तुभूतधर्मादयः स्युरेव, यतो हि तत्र तथाविधा आश्रयहीना साध्यदिस्थितिर्नैव सिद्धा /
यदि तत्र तथाविध आश्रयो नास्ति तदा साध्यनिषेधनाद् आश्रया सिद्ध्याख्यो दोषो दीयते / सो ऽपि यदि यथाभूतधर्मिणो निवृत्तिश्चेत्तदा निःसंशयं साध्यादिधर्मिणो ऽविनाभावस्य निषेधं करोति, यतो हि असिद्धे सति हेत्वसिद्धयादिदोषा दीयन्ते / स्वयमुपकल्पितानां कतिपयधर्मिणां निवृत्तावपि साधयादेः कस्यापि निषेधस्याभावाद् असिद्धयादिदोषा नैव युज्यन्ते, तदभिलषितार्थसिद्धौ बाधाभावात् / ये वस्तुधर्मं सत्त्स्वभावं साधयितुं नाभिलषन्ते, अपि तु तदारोपितधर्माणां व्यवच्छेसिद्धिमात्रं विवक्षन्ते, तेभ्यो ऽसिद्धयादिदोषानापादयितुं व्यवहारे ऽपि वस्तुभूतधर्मी नैवावश्यकः, तस्य तद्धर्माभावात् /
तदपेक्षयापि तद्धर्मिता नोपपद्यते / तदसिद्धावपि साध्याविनाभावी हेतुरभिष्टार्थसाधकः, बाधकाभावात् / वादिनो ऽभीष्टार्थसिद्धौ प्रतिवादिन उपघातकामनया धर्मिणः सदसत्त्वमन्वेषयन्ति, न तु कामचारतः / धर्मिणो ऽसत्त्वादिचर्चयापि किम्? यदि वादिनो ऽभिष्टार्थहानिर्न स्यात् / ऽचोदको दोषहीनःऽ इत्यपि कथनं विपर्ययदोषाणुपरिपूरिते परिधावनमात्रमेव, अन्यत्राभावात् / अत एव साध्यधर्मं तदनुकूलधर्मिणं चावगन्तुं पक्षलक्षणवेलायामेव युक्तिविद्भिर्विशेषेण ऽस्वधर्मऽ इत्यभिधीयते / एवं यस्तावत् स्वकार्याणि युगपन्न साधयति, स न भवत्यप्रतिहतनित्यैकस्वभावः, वन्ध्यापुत्रवत् / परैरिष्टमाकाशादिकमपि शब्दादिकार्यं न साध्यतीति व्यापकानुपलब्धि, इत्यभिहिते ऽयं तावन्न विरुद्धहेतुरपीती केचित् / साध्यसाधनयोरिव आकाशादिर्नैव वस्तुभूतः स्वभावधर्मीति साधनभूतो ऽयं हेतुराश्रयासिद्ध इत्यपरे / तत्रापि आकाशदिधर्मिणां वस्तुतायाः कृते ऽप्यत्र निराकरणे साध्याभावमात्रमभ्युपगच्छतां नास्ति को ऽपि दोषः, हेत्वभावमात्रेण च नस्ति स्वभावो ऽप्यसिद्धः, वस्तुताया अभावे ऽपि धर्मिणां सिद्धेः / अतो विप्रतिपत्तिनिराकरणाय स्वाभिमतधर्म्येव यदि बाध्यते चेत्तदा साध्य एव तावन्निषेध्यो भवति, न तु धर्मान्तरयुक्तो धर्मीत्येवं निर्देशकाले स्वेष्टप्रत्यक्षानुमानाप्तप्रसिद्धिद्वारा निषेधमविधाय स्वभावस्यैव तावन्निषेधः स्वधर्मी भवतीत्यत्र पक्षधर्मतावस्थायामाचार्येण स्वधर्मी कथित इति वार्तिककारः / तथाहिः
सर्वत्र वादिनो धर्मो यः स्वसाध्यतयेप्सितः / तद्धर्मवति बाधा स्यन्नान्यधर्मेण धर्मिणि //
अन्यथास्योपरोधः को बाधिते ऽन्यत्र धर्मिणि /
इति वस्तरः / विप्रतिपत्तिनिराकरणार्थं चोक्तम्ः
यथा परैरनुत्पाद्यापूर्वरूपं न खादिकम् / सकृच्छब्दाद्यहेतुत्वादित्युक्ते, प्राह दूषकः //
तद्वद् वस्तुस्वभावो ऽसन् धर्मी व्योमादिरित्यपि / नैवमिष्टस्य साधयस्य बाधा काचन विद्यते //
द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत् / बाधनं धर्मिणस्तत्र बाधेत्येतेन वर्णितम् //
अवश्यं चैतदवगन्तव्यम् / अन्यथा क्रमयौगपद्याभ्यामभिव्यक्तेन अर्थक्रियासामर्थ्यवियोगेन परपरिकल्पितः पदार्थाः कथमिव निषेद्धुं शक्ष्यन्ते / सद्वस्तुनस्तान्नैव कथमपि निषेधः कर्तुं पार्यते / आश्रयासिद्धदोषेण यदि असतो ऽपि नैव कर्तुं पार्यते तदा निषेध एव कस्यापि कथमपि कर्तुं नैव शक्यते / अत एव योगाचारैस्तावदुक्तम् -
विषयत्वं न चैकस्मिन्ननेकमपि नास्त्यणौ / नास्ति तत् क्षणिकं वापि सच्चापि न हि विद्यते / क्रमेण युगपच्चापि स विरुद्धो भवेदिति //
इत्यादिभिर्बाह्यादिनिषेधः कथमिव कर्त्तुं शक्यः स्यात् /
तैर्थिकैःपरिकल्पितेषु द्रव्यगुणकर्मसामान्यादिषु निषेद्धुमिष्यमाणेष्वपि कथं तत्र आश्रयासिद्धादयो दोषा नैव प्रवर्त्स्यन्ते? यदि प्रसङ्गसाधनमात्रेणैव निषेधनात्र प्रवर्त्स्यन्त इत्येवं ब्रूयात्तदा अप्रमाणं हि तत्र प्रसङ्गसाधनम् / फलत एकान्तेनैषामभावो व्यवहारे कथं सिद्धः स्यात्, प्रमाणापेक्षितात्वात्तस्य /
अथ प्रमाणमेव प्रसङ्गसाधनमिति चेत्तदा किमिव तत्र आश्रयासिद्धादयो दोषा न प्रवर्तन्ते? युक्त्तिबलेन आगन्तुशीलेषु दोषेषु प्रेक्षावद्भिः स्वतः [स्वपक्षतः] सिद्धिर्नैव युक्तिमती अथ बाह्यार्थादीन् निषेद्धुकामानां विद्यत एव वस्तुभूतो बुद्धिलक्षणो धर्मी, यतस्तेनैव बाह्यार्थेषु प्रधानादिषु चोत्पत्तिनिषेधः साधयते, अतः आश्रयासिद्धादयो दोषास्तत्र न प्रवर्तन्त इति चेत्तदा एकानेकस्वभाववियुक्तत्वक्रमयौपद्यव्याप्तार्थक्रियासामर्थ्यविरहितत्वादो हेतवस्तदा अप्रसिद्धतद्धर्मत्वधर्मिणि अभीष्टसाध्यधर्मं साधयिष्यन्त्येव /
अपक्षधर्मत्वे ऽपि साध्याविनाभावमात्रहेतुः साध्यसाधने ऽसमर्थः / यद्येवं स्यात्तदा चाक्षुषत्वमपि शब्दधर्मणि कथमनित्यत्वसाधने ऽशक्तम्? यदि ते तत्प्रसिद्धत्वमभ्युपगच्छन्ति तदा बाह्यप्रधानादिवत् बुद्धिरेव शक्तत्वैकानेकत्वव्याप्तधर्मवियुक्तत्वन्निःस्वभावैव तावत् सेत्स्यति, तेषां तद्धर्मत्वात् / अन्ये ऽपि धर्मा नान्यसिद्धां भवन्ति / सामर्थ्यादिविराहितं वस्तु तावदसिद्धमेव /
अन्यथा [यद्येवं न स्यात्तदा] ततो बह्यप्रधानादयो न निःस्वभावाः सेत्यन्ति / निःस्वभावत्वे खलु सिद्धे आश्रयासिद्धदिदोषाणां तादवस्थ्ये ऽपि नास्ति स्वपक्षहानिप्रसङ्गः / बुद्धौ तावत् सिद्धे ऽपि बाह्यप्रधानादिभिरुत्पत्तिनिषेधे प्रधानादीनां परिकल्पितस्वभावनिषेधस्तु असिद्ध एव, आकारान्तरत्वात्तस्य / यद्यसिद्ध एव सः, तदा परकल्पिताः प्रधानादयो ऽसन्त एव / एवंविधे तावद् धर्मिणि कथमसद्व्यवहारो ऽपि प्रवर्तेत / न खल्वन्येषु अन्यव्यवहारप्रवृत्तिर्यज्यते /
केचन तावदज्ञानिनस्त्रिषु प्रतिसंख्यानिरोधासंस्कृतेषु कस्याप्युत्पत्तिमत्त्वाभावं परमार्थवस्तुरुपेण परिकल्पयन्ति / तन्निषेघसाधने च बुद्धेस्तावत् कथं नाम विषयिभावो भविष्यति, यतो ह्यन्ये [वादिनः] तेषु तया उत्पत्तिमत्त्वाभावधर्मं नाभ्युपयन्ति / अतो तन्निषेघस्तावन्न कथमपि साधयितुं शक्यः /
अथ अनादिकालिनस्वबीजपरिपाकपरिनिष्पन्नबालानां बुद्धौ विद्यमानो बाह्यवस्तुविकल्प एव धर्मी, तदाधारेण प्रधानादीनां निषेध्यमानत्वात् / स परमार्थतः स्वभावविरहितो ऽपि भ्रान्त्या बाह्यमिव प्रधानाद्यभिन्नमिव सर्वसामर्थ्यशून्यं च सर्वधर्मसमवेतमिव कल्पयति / तत्र प्रधानादिस्वरूपनिषेधे प्रधानादिस्वरूपनिषेधस्तावत् साध्यसाधनविषयकः सिध्यति, यतो हि स बालैर्बाह्यपधानाद्युपगृहीतवादिप्रतिवादिभिरपि तैमिरिकैर्द्विचन्द्रदर्शनमिव तदभिन्नतयैव व्यवह्रियते /
स हि यद्यपि [सर्वथा] बुद्धया परिकल्पितमात्र एव, तथापि तदाकारतया बुद्धिरित्येवमुपचर्यते वस्तुतो ऽयं नास्ति [कथमपि] बुद्धिस्वभावः, तद्विलक्षणस्वभावेनाववभासमानत्वात्तस्य / अतः सिद्धे ऽपि तस्य निःस्वभावत्वे बुद्धिनिः स्वभावताया नास्ति प्रसङ्गः, यतो हि बाह्यप्रधानादीनां तावन्निषेधस्तु प्रमाणैः साध्यते, न तु [कदाचित्] तत्त्वनिषेधाय हेतवः प्रयुज्यन्ते /
वस्तुसतां शब्दादिबाह्यधर्मिणाम् अनित्यादिधर्मसिद्धये [ते] बाह्यशब्दादयस्तभिन्नाश्च बुद्धिस्थ उपचारधर्मिण्येवाश्रयन्ते, यतो हि ते देशकालादिभीन्नावस्थानियता बाह्यशब्दादयो वादिप्रतिवादिनां बुद्धौ स्वस्वभावेन नैव प्रत्यक्षीभवन्ति / साध्यसाधनादिविशेषाणामप्यसम्भवः, निरंशत्वात् / अतो ऽनुमानामेयादयः सर्वे व्यवहारा बुद्धिस्थ एव धर्मिण्याश्रिताः प्रवर्तन्ते, प्रकारान्तरासम्भवत् / यद्येवं तदा परमार्थतो निःस्वभावत्वे परिकल्पितधर्मिणं निःश्रित्य निषेधादिसिद्धयर्थम् आश्रयासिद्धादिदोषाणामप्रवृत्तवपि कामं बलेनास्मासु अपालम्भाः क्रियन्ते /
यथा हि परमार्थप्रवृत्त्यर्थं भवन्तः प्रधानादिनिषेध्ये परिकल्पितधर्मिण्येव साध्यसाधनादीन् मनसिकुर्वन्ति, तथैव वयमपि प्रसिद्धेषु रूपशब्दादिषु ये तावत् सदसदादिस्वभावा आरोप्यन्ते, तन्निषेधाय बालेभ्यस्तान् मायामरीचिस्वप्नप्रतीबिम्बादिसमान् निर्दिशामः /
तत्र यथा आरोपिते धर्मिणि वस्तुत्वारोपणनिषेधए ऽपि वादिप्रतिवादिषु प्रतीभासमानत्वाद् असदादिदोषा न प्रवर्तन्ते, तथैव रुपादयो ऽपि तावदागोआलङ्गनानामवभासन्ते, तत्कथं नाम ते ऽसिद्धा भविष्यन्तीति / अवभासो हि तत्कारणनिवृत्त्या जायमानेन सत्यस्वभावेन तावन्नस्ति व्याप्तः, अलीकस्याप्यवभासमानत्वात् / यद्येवं नो चेत्तदा सर्वे पुरुषास्तदर्शिनः स्युः, केवलस्य तत्त्वस्यैवावभासमानत्वात् /
यथैव हि तस्मिन् परिकल्पितधर्मिणि सामर्थ्यशून्यत्वव्याप्त्युपन्यासेन निःस्वभावत्वं प्रसाध्य प्रधानादयः साध्यन्ते, तथैवास्माभिरपि परिकल्पितवस्तुनि तत् [निःस्वभावत्वं] सम्यक्ताअ साधयितुं यथोक्तः सामर्थ्याभावादिः कथं न सिद्धः स्यात् / प्रेक्षावद्भिस्तु स्वीकरणं विचारार्हम्, भावात्मकताया निर्णयस्यायुक्तत्वात्, विचरावस्थायां तु नास्त्येव / अतत्स्तन्निर्णयो न कृतः विचारो ऽपि निर्णयार्थक एव / यतः प्रमाणाद्वारा सिद्धान्तनिर्णयकाले को ऽपि सिद्धान्तो नाभ्युपगतो भवतीत्यतस्तस्मिन् काले कस्मिन् आश्रयासिद्धिमुखेन धर्म्यसिद्धयादिदोषः प्रदातुं शक्यते / अथ वादी प्रमाणैस्तत्त्वनिर्णयं कृत्वा परेभ्यस्तत्प्रतिपादयितुं प्रवृतः, अतः स सिद्धान्ताभ्युपगमात् पूर्ववर्तीति मन्यते, तदापि तावन्न उज्यते / स्वप्रतीतिकाले सिद्धान्तो नाभ्युपगम्यत इति /
पूर्वत एव सिद्धान्तमनभ्युपगच्छन्तो वादिनः स्वयं प्रमाणतस्तत्त्वज्ञानं कुर्वन्ति, तैरेव चापरानपि बोधयन्तीति कथं सिद्धन्तो ऽभ्युपगतः स्यात् / पूर्वं स्वयं प्रमाणैस्तत्त्वश्चियं कृवा सिद्धान्तेन अपरेभ्यो ऽवबोधनमपि नास्ति सिद्धम् / अपरे ऽपि प्रेक्षावन्तस्तावत् तच्छब्दमात्रेणैव प्रमाणैरनुपपन्ने ऽर्थे नैव विश्वसन्ति / अतः स्वमिर्णयवद् अपरेभ्यो ऽपि निर्देशसमये तादवस्थ्यात् सर्वत्र प्रमाणैरेव तत्त्वनिर्णयः क्रियते / अतः सिद्धान्तो नाभ्युपगतो भवतीति / अत एव कथं तेन धर्मिणस्तावदसिद्धादयः प्रतीपाद्यन्ते / सम्यक्प्रमाणबलेन वादिनामभीष्टसाध्यसिद्धावपि ऽसिद्धान्ताभ्युपगमात् तेभ्यो दोषा जायन्तेऽ इति ये वदन्ति किं तेषां युक्त्यन्तरमिति / वस्तुतस्तत्त्वविमर्शावसरे सिद्धान्तप्रसिद्धे धर्मिणि न के ऽप्याश्रयन्ते / तथाविधस्य धर्मिणिः कुत्रापि वादिप्रतिवादिष्वसिद्धत्वादेव / यथा बौद्धेषु शब्दादयो भौतिका इत्यभ्युपगम्यन्ते, न तथा वैशेषिकादिषु, आकाशगुणत्वेन तस्याभ्युपगमात् / यदि तथाविधो धर्मि सिद्धो न स्यात्तदा न को ऽपि कुत्रापि तत्साधनार्थं प्रत्वर्तेत / यदि तथाविधो सिद्धस्तदा तद्धर्मों ऽपि उभयसम्मतः सिद्ध एव / अतो नास्ति विवादावसरः / अत एव सर्वे तत्त्वजिज्ञासवः सिद्धान्तविशेषसिद्धं धर्मिणमपहाय आगोपालप्रसिद्धमेव तमाश्रित्य साध्यसाधनविषयकं चिन्तनं परिवर्धयन्ति / अतः सिद्धान्ताश्रयणं कृत्या आश्रयासिद्धादिवचनमसम्बद्धमेव /
व्यवहारे ये ऽप्रसिद्धा धर्मिणस्तेषु चोदनमिदं समुचितमेव / अस्मासु रुपादयस्तावद् व्यवहारे ऽपि नाप्रसिद्धाः /
[7] "यत्खलु परप्रसिद्धप्रमाणैः स्वपक्षः साधनीयः" इति यदुच्यते तद् दूषणमेव तावन्न भवति, अनभ्युपगमात् / अतो व्यवहारे वयम् उभयसिद्धैर्हेत्वादिभिः साध्यं साधयाम इत्येवं पश्चान्निर्देक्ष्यामः /
[8] "सर्वे धर्मा विविक्ताः, न केनापि सम्यग्लिङ्गेनालिङ्गिता अतिपरोक्षत्वाद्" इति यदुक्तं तदपि तावन्नैव युज्यते, सिद्धे ऽपि साध्यर्मिणि साध्यधर्मसम्यग्लिङ्गयोः परस्पराविनाभूतस्य साध्यसाधनभावस्याप्रवर्तनात्, विवादाभावाच्च तत्र / तथापि कतिपयेषु धर्मिसु स सिद्धः, कतिपयेषु च सन्दिग्ध इति / अतः अविनाभावनियमनिर्देशेन सामान्यधर्मिणि साध्यधर्मं साधयेयुरिति कथनं युज्यत एव /
तद्वदत्रापि मायामरिचिस्वप्नगन्धर्वनगरादिसदृशेषु कतिपयेष्वेव धर्मिषु स सिध्यतीत्यतः परमार्थतो निःस्वभावत्वाद् एकानेकस्वभावादिधर्मेषु व्याप्तिः सिद्धैव / अपि च, अस्माभिरन्यत्र सविवादेषु रुपादिषु व्याप्तिधर्मोपदर्शनेन साधितत्वान्नास्ति दोष इति /
[9-10] ये केचन - "कार्यस्वभावाभ्यां हेतुभ्यां नैव सर्वे धर्मा निःस्वभावा इति साधयितुं शक्यन्ते, वस्तुसाधनत्वात्तयोः" इति यत् कथयन्ति, तदपि नैव युज्यते, परमार्थतो भावस्वभावसाधनावेताविति कुत्राप्यनुल्लिखितत्वात् /
यदा साधनस्वरुपान्तःप्रविष्टत्वादिमौ वस्तुसाधनावित्युच्येते तदा निःस्वभावतायामपि प्रयोगविशेषवशेन साधनस्वभावावेव / अतस्तत्साध्यामानायां कथं न तौ [हेतू] सम्भवतः? स्वभावहेतुरेव कार्यादिहेतुभ्यः प्रयोगभेदेन विविधाकारेषु प्रपञ्चितः / अत एव विद्वद्भिः "पक्षधर्मस्तदंशेन व्याप्तो हेतुः" इति सामान्येन हेतुलक्षणं निर्दिष्टम् / अतो ऽत्रापि प्रयोगभेदेन स्वभावादयः औचित्यवशान्न विरुध्यन्ते / पश्चादप्येवं निर्देक्ष्यामः /
तत्र सर्वे धर्मा परमार्थतो ऽनुत्पन्ना निःस्वभावाश्च, तथापि इमौ द्वावपि तेषु व्यवहारसत्यत्वेन विद्येते एव / अतः कथं तावेकस्मिन्न सम्भवतः / "केवलं सम्यक् कार्यमात्रेण स्वभावमात्रेण वा हेतुना भवितव्यम्" इति यदुक्तम्, तस्यापि किमपि कारणं नास्ति, यतो हि प्रतिबिम्बफलमप्युनुमानमेव स्वहेतुतयालम्बनीकरोति / "आदर्शदिगतः प्रतिबिम्बो हि तावदन्यदेकं रूपम्" इति यदुक्तम्, तदपि न युच्यते, सप्रतिघत्वस्य एकस्मिन्नेव विषये ऽनुपपन्नत्वात् / "तदेव रूपं तथैवालम्ब्यते" इदमपि कथनं नैव समीचीनम्, तथाविधविषयाकारसम्बबद्धस्वभावेन विरहितत्वात् /
यद्यपि प्रतिबिम्बादय आदर्शद्याश्रयाश्रिता भवन्ति, तथापि यदि विषयाकारादिभेदानुरूपतया आलम्ब्येरन्, तदा तद्रूपं तथाविधं स्थिरस्वभावं नास्त्येव / अन्याकारग्रहनमपि तावन्नैव युज्यते, अतिप्रसङ्गात् / ऽविज्ञानस्यैव प्रतिबिम्बाकारतया प्रतिभासनादस्ति स [आकारः] विज्ञास्वभावेन वस्तुसन्ऽ इदि यदुक्तं तदपि न युक्तियुक्तम्, यतो हि अमूर्तं नीलादिविज्ञानं निरंशतया स्थितं विविधाकाररहितमेव भवतीत्युच्यते / प्रतिबिम्बवस्तु तद्विलक्षणतया प्रतिभासत इत्यतः कथं स [आकारः] तत्स्वभावेन सन् स्यात् / यथोक्तं भवतापि त्रिंशिकायां पुद्गलनिःस्वभावतं प्रतिपादयता यद् यो हि परिकल्पितः स्वभावः स सर्वथा निथ्यैव, वन्ध्यापुत्रादिवत् /
आत्मादयः परिकल्पितस्वभावा एवेत्यादिभिः प्रयोगैः स्वभावहेतुरेवोच्यते / तथैवान्ये ऽपि परपरिकल्पितधर्मा नैवालम्बिता भवन्तीति कथं नोच्यते / यथाचार्यैर्निर्दिष्टं तथा सर्वधर्मनिःस्वभावतासाधनायां व्याप्यानुपलब्धिक्षणा धर्माः कथं नोक्ताः / तथा पश्चान्निर्देक्ष्यामः / यत्खलु स्वभावानुपलब्धिरसम्भवेत्युक्तं तत्तावत् पूर्वं कृतोत्तरमिति / नयो ऽयमन्यो ऽन्यशून्यताया इत्यप्यशक्यसाधनः / तदा किमिति प्रश्ने लक्षणशून्यतेयमिति /
[11-12] विरुद्धोपलब्ध्यादयो ऽसम्भवा इति यदुक्तं ता अत्यसम्बद्धा एवेति / यतो हि सर्वे धर्मा विविक्ताः कतिपये च सहविरुद्धा इति न सिध्यन्ति, तथापि मायाखपुष्पादयश्च सामान्यतया निःस्वभावाः सहविरुद्धाश्चेति सिध्यन्त्येव /
यद्येवं नास्ति तदा कथम् भवद्भिः परपरिकल्पिता ईश्वरादयो निःस्वभावत्वेन साधयितुं शक्यन्ते / अतः सामान्येन निःस्वभावतामात्रेण यदि व्यवहारे विरुद्धादयः सिध्यन्ति, ततः सर्वेषां धर्माणां परमार्थतः सत्त्वाभ्युपगमे विरुस्शाधर्मादीनुपदर्शय निःस्वभावत्वेन तेषां सम्यक् साधनात् किमत्र तावद् विरोध / तद्विरुद्धादीनां वस्तुतायां प्रसङ्गो न युक्तरूपः, यतो हि परमार्थतो निःस्वभावेषु धर्मेषु भूतरुपाभिव्यक्तिस्तु, कुत्रापि सम्यग्भावस्वभावे नोत्पतिष्ठति / यदि तिष्ठेत्तदा विरुद्धादयो न सिध्येयुः /
अतो यदि सर्वे धर्मा निःस्वभावाःसहानवस्थानविरुद्धाश्च सिध्यन्त्यतस्तद्विरुद्धेषु वस्तुताप्रसङ्ग इति न वक्तव्यम्, विरुद्धादीनां व्यवहारसिद्धत्वात्, न तु परमार्थतः / एवमेव दीपकादौ अदृढलक्षणे वस्तुनि परिच्छिन्ने सति दृढाकारविविक्ततैव तावत् परिच्छिद्यते, यतो न व्यवहारे व्यवच्छेदः, अतःपरिच्छेदानुपपत्तिरेव तत्र / यो यथा परिछिद्यते, यत्र च तथा परिच्छेदो नास्ति, स अभाव एव ताअवत् परस्परपरिहारस्थितलक्षणो विरधो व्यवस्थाप्यते / सदसतोः क्रमाक्रमयोश्च विरोधयोरपि तथैव द्रष्टव्यम् / नास्त्यासन्ने देशे ऽग्नि, अविकलशीलस्पर्शदित्यादिस्थलेषु स विरोधधस्तावत् सहानवस्थानलक्षणो व्यवस्थाप्यते /
प्रसिद्धे ऽपि तस्मिन् विरोधे दीपकादयो हि वस्तुरुपेणात्यन्तमनुपपन्नाः, मायादिमिथ्यावस्तुष्वपि जातिविनाशयोरवभासमानत्वात् अत एव आचार्यैः परमार्थप्रवृत्त्यर्थं यथा दीपकादिषु नित्यानित्यादिविरोधो ऽवभासते, तथैव व्यवस्था कृता / दीपकादयो बाह्यार्थत्वेन विज्ञानरूपत्वेन वा परमार्थतो ऽसिद्धाः, उभयोः स्वभावयोस्तैरेव निराकृतत्वात् / परमार्थवस्तुस्वभावेन सहानवस्थानलक्षणविरोधस्य साक्षात्कारि ज्ञानं परमार्थवस्तुस्वभावे न कथञ्चित् प्रवर्तते, अर्वाग्दर्शिनां दर्शनमार्गे ऽप्रवृतत्वात् / सहानवस्थानलक्षणो
विरोधस्तावत् सांवृतिक एव, वस्तूनां स्वयमेव विनश्यमानत्वान्नान्यकारणैः / यदि प्रत्ययान्तरैर्विनाश इति तदा न विनाशहेतुभिस्तत्र किमप्युपक्रियते / प्रत्ययान्तरैः क्रियमाणे ऽपि विनाशे स स्वहेतुभिरेव क्रियते, नान्यकारणैरिति /
यद्यवस्तुत्वाद् विनाशस्य तत्त्वेन अन्यत्वेन वा तस्य विज्ञप्तिर्न युज्यत इति चिन्त्यते तदा आत्यन्तिकतया स विनाशकारणैर्न क्रियते, निःस्वभावत्वात् / अतो ऽकिञ्चित्करा अग्न्यादयो हि कथं नाम परमार्थतो विरुद्धाः सेत्स्यन्ति / तथाप्यग्न्यादयः शीतादीन् क्रमशो निःसामर्थलक्षणान् अनित्यान् प्रकर्षतमान् उत्पादयन्त्यत एव ते ह्यग्न्यादयो विरुद्धा इति केवलं व्यवह्रियन्त एव / अत आचार्यैर्विरोधनयो ऽयमित्युक्तो न तु विरोध एवेत्युक्तः / अतश्च विरोधो ऽयं व्यवहारमात्राश्रित एवोक्तो न तु परमार्थाश्रितः अग्निशीतादयश्च न परमार्थतो बाह्यार्थस्वभावाः सिध्यन्ति, तेषां तावज्ज्ञानाकारस्वभावो ऽपि च कल्पित एव / एकस्मिन् ज्ञाने शीतोष्णयोरवभासः सम्भवति / अनेकानि सजातीयविज्ञानानि युगपन्नैव सम्भवन्ति, अतः शीतादयः स्वप्नादिन्मिथ्यावभास एव, अतो नास्ति तेषु परमार्थतो विरोधः /
[13-19] वृक्षशिंशपादीनि व्याप्यव्यापकवस्तून्यपि व्यवहारमाश्रित्य परिकल्पितसामाअन्यविशेषव्यवस्थया व्यवस्थाप्यन्ते, यतो हि वृक्षादयो व्यापकाः वस्तुतः सामान्यात्मकाः / परमार्थतस्त्वेतत् किमपि नास्त्येव /
विशेषादयस्तावन्न बाह्यार्थस्वभावाः, ज्ञानाकारा अपि परमार्थतयासिद्धत्वात् / तथाप्युक्षिततत्त्वर्था विद्वांसो गजावलोकनमिव स्वप्नदृष्टखदिरादिविविधमिथ्याविषयाणामनुभूतिवद् वृक्षादिवस्तूनां मृषात्वमेवाश्रित्य तथतायां प्रवृत्त्यर्थं परमार्थानुकूलतया व्याप्यव्यापकादिव्यवस्थां कुर्वते / तथैव बीजाङ्कुरादीनि कारणकार्यादीन्यपि संवृत्याश्रयेणैव व्यवह्रियन्ते, न तु परमार्थसत्तया, बीजादीनां परमार्थतो ऽसिद्धत्वाद् बितथानामपि स्वप्नादीनां तथैवावभासमानत्वाच्च /
जाग्रदवस्थायां मायाकार्यकारणादीनि वितथान्यप्युपलभ्यन्त एव / अतस्तानि व्यावहारिकेण कार्यकारणभावेन वस्तुस्वभावत्वेन व्याप्तानि भवन्ति / किन्तु तावता तानि परमार्थस्वभावतया न समवतिष्ठन्ते / यतो हि व्यापके विद्यमाने ऽपि सति व्याप्यस्य सिद्धिर्न नियता / तथापि वस्तुस्वभावत्वेन सुव्याप्तानि कार्यकारनवस्तूनि यदि निवतन्ते, तदा मायादिवत् परमार्थतः परिकल्पितो वस्तुस्वभाव एव निवर्तते / अतः विरोधादिसर्वा व्यवस्थास्तत्त्वप्रवृतौ समर्था भवन्ति / अतः एव विद्वद्भिस्तथताया निर्देशः कृतः / तैर्थिकपरिकल्पिततानि प्रमाणादीनी तथाताया अननुकूलत्वात् परीत्याज्यानीती सन्यक्प्रमाणलक्षणप्रतिपादकस्य शास्त्रस्य प्रणयनं कृतमिति /
इत्थं कतिपये तैर्थिकाः पिण्डात्मादिकं मिथ्यावस्तुतत्त्वं सिसाधयिषया सर्वज्ञताविरागिताकर्मफलसम्बन्धादीनां सांवृतिकीं व्यवस्थां निराकर्तुं प्रमाणानां विपरीतलक्षणानि कुर्वन्ति / अतः सुधियस्तावत्तन्निषिध्य पुद्गलधर्मनैरात्म्यतथतायां प्रवेशानुकूलां सांवृतिकीं कर्मफलसम्बन्धादिव्यावस्थां प्रतिष्ठापयितुं प्रत्यक्षादीनां विशुद्धानि प्रमाणलक्षणानि विरचितवन्तः /
तान्यपि भगवता [तथागतेन] अनुज्ञातान्येव / अतो वयं परमार्थानुकुलानि विशुद्धप्रमाणलक्षणान्येव तावन्मन्यामहे / अतो विरोधादिव्यवहाराणां स्वीकृतिआत्रेण यो हि भावस्वभावाभ्युपगमप्रसङ्गः, स तावदनैकान्तिक एव, तदभ्युपगमे ऽपि भाअस्वभावस्यासिद्धेः /
[20] नन्वेवमनुमानेन सह सम्बन्धप्रसिध्यर्थं प्रत्यक्षप्रमाणं यद्यभ्युपगम्यते तदा वस्तुनस्तावत् सिद्धिरेव, कल्पनापोढत्वादभ्रान्तत्वाच्च प्रत्यक्षप्रमाणस्य / अभ्रान्तज्ञानेनाध्यवसितः खलु वस्तुस्वभावः कथं नामानुमानेन निराकर्तुं शक्यते? यदि निरक्रियते तदा प्रत्यक्षमेव तावद् बाधितं स्यात् / यदि तद् बाधितं स्यात्तदानुमानमेव तावन्न स्यात् सिस्थितम् / प्रत्यक्षसम्बद्धेनाप्युनुमानेन प्रत्यक्षं बाध्यत इति कथनतो नैवाचितमन्यत् / यदि प्रत्यक्षसिद्धो ऽर्थो ऽनुमानेन नैव बाध्यते तदा प्राप्यस्य प्राप्त्या सुस्थित एव तावद् वस्तुवादीति कथनमपि सम्यङ्निराकृतमेवेति /
इत्यमाचार्यैस्तावत्प्रत्यक्षस्य द्वैविध्यमभिहितम् - यगिप्रत्यक्षं सामान्यप्रत्यक्षं च / तत्र यद्धि साधरणं प्रत्यक्षं तत् परमार्थमधिकृत्य नास्त्यभ्रान्तम् / अन्यथा सर्वं योगिप्रत्यक्षमेव स्यान्न च स्युः केचनाप्यर्वाग्दर्शिनः / योगिप्रत्यक्षातिरिक्तं सामान्य प्रत्यक्षं यद्यपि [अभ्रान्तं] नास्ति तथापि व्यवहारे स्वप्नादिवद् यथाप्रसिद्धेनार्थेन सहाविसंवादात्तदभ्रान्तमुच्यते / श्रावकीयाणि योगिप्रत्यक्षाणि पुद्गलनैरात्म्यमात्रसाक्षात्कारीणीत्यतस्तदविसंवादेन प्रत्यक्षप्रमानानि, न तु सर्वाकारगोचरत्वेनेति / केवलं भगवत एव प्रत्यक्षं सर्वाकारतत्त्वगोचरम्, अतस्तदेव तावदविपरीतमविसंवादकम् / फलतो यदेव सर्वाकारतत्त्वमधिकृत्याभ्रान्तं तदेव सर्वाकारतत्त्वाविसंवादाद् यथार्थमभ्रान्तमिति / अत एव भगवद्भिरेव तावत् सर्वधर्मलक्षणरहितता परिज्ञाता /
तस्य सर्वाकारज्ञानस्य नास्ति वस्तुताप्रसङ्गो ऽपि, सर्वधर्मसंगृहीइतत्वात्तस्य / अतस्तेन लक्षणाभावतायामभिसंबुध्यते / आर्यप्रज्ञापारमितायामपि - "यदुत प्रत्यक्षलक्षणं सर्वाकारज्ञानम्, अलक्षणे अभिसम्बुद्धत्वात्तथागतानाम्" - इति यदुक्तं तत्तथैव /
व्यवहारार्थस्तावत् प्रत्यक्षगोचरार्थः मिथ्याभासितस्वप्नादिवत् / स यदा बालैर्वस्तुतः परमार्थत्वेरोप्यते, तदा स अनुमानबाधितो भवति, न तु दर्शनादिव्यवहारार्थः [बाध्यते] / अतो यदभ्रान्तं तत् प्रत्यक्षम्, न चानुमानबाघितमिति / यश्च परमार्थत्वेनारोपः स एव बाध्यते, तदभ्रान्तत्वाभावात् / अतो नास्त्यनेन प्रत्यक्षापवादप्रसङ्गः /
अर्वाग्दर्शिनस्तावदनुमानेन प्रत्यक्षसम्बद्धत्वे ऽपि न परमार्थत्वप्राप्ता भवन्ति, अपितु केवलं संवृतावेव [तिष्ठन्ति] / यतो हि अर्वाग्दर्शिभिर्वास्तविकः परमार्शस्वभावः प्रत्यक्षतया पृथक् पृथक् नानुभूयते / अतो नैव वस्तुस्वभावः संवृतिमपि बाधते किन्तु यो हि तत्र सत्याकारत्वारोपस्तन्निराकृतिरेव साध्यते / फलनो वस्तुवादिनो अर्थाभावे ऽपि अर्थाभिनिवेशिनस्ते कथं सुस्थिता इति /
एकतो ऽनुमानं व्यवहारेण प्रत्यक्षसम्बद्धं सत् स्थितिं प्रत्नोति, अपरतश्च प्रत्यक्षं काष्ठद्वयघर्षणजतिताग्निरिव तद्बाधां करोतीति बाधितमेव तदिति चेन्नैतावतास्मास्वनिष्टापत्तिरिति / यथा सर्वे जागतिकधर्मा यथावत्प्रविचयाग्नेरिन्धनानि भवन्ति, स च मिथ्येन्धनानि भस्मीकृत्य स्वयमप्युपशान्तः प्रशान्तविकल्पलक्षणमुत्तमं निर्वाणमवबोधयतीति / यदुत -
विज्ञानाग्नेर्जद्धर्माः सर्व एवन्धनं मताः / तान् यथावत्य्रविचय्य ज्वालैर्दग्ध्वोपशाम्यति // अतो यदि तत्त्वज्ञानमुत्यद्यते तदानुमानलक्ष्णा कल्पना निवृत्ता सती निराश्रयापि नानभ्युपगता [भवती] / अत एव भगवता रत्नकूटे सविकल्पापि सम्प्रत्यवेक्षणा निर्विकल्पज्ञानफलोत्पत्तेः कारणमिति [मत्वा] महाफलाभिनिर्वृत्तये काष्ठद्वयघर्षणजनिताग्नेर्दृष्टान्तेन निर्दिष्टा /
[21] अपि च, सर्वधर्माणां निःस्वभावत्वसाधने यद्येको हेतुभूतो धर्मो नीर्दिश्यते तदा निवृतिसाधकः स धर्मो विरुद्धो जायते /
[22] यद्यसन् स धर्मस्तदा असतो ऽभावेनासम्बद्धत्वात् कथं हि स [अभावं] साधयेदिति /
[23] यद्युभयात्मक स धर्मस्तदाप्यनैकान्तिक एव / अतो ऽहेतुकमेव [निःस्वभावत्वमिति] ये प्रतिविदधति तदप्यसम्बद्धमेव / यतो ह्यनेन तावत् सदसदुभयधर्माणां परमार्थत्वसाधने हेतोरसम्भवत्ववोच्यते युक्तिज्ञैः न तु निःस्वभावतादिसामान्यधर्माणां लक्षणसाधने [सम्भवत्वमिति], यदि तथैव स्यात्तदा परपरिकल्पितानामीश्वरादीनामपि निःस्वभावत्वसाधने कथं नाम ते सर्वे चोद्या नाबतरिष्यन्तीती?
तद् यथा ईश्वरादिषु सामर्थ्यव्याप्यवस्तुत्वनिषेधार्थं वस्तुस्वभावे समारोपं च निसेधार्थं असद्धर्मा न भवन्त्यसम्बद्धाः / एवमेव परमार्थतः कार्यकाराणादिवस्तुधर्मेषु व्यापकनिषेधेन समारोपनिषेधं साधयितुं कथं नास्मासु साध्यसाधनसम्बन्धः / अन्यथा प्रशानादयो ऽशक्यनिषेधाभवेयुः, यतो हि वस्तुसति स्वभावे न तथा कर्तुं शक्यते / यदि असता असम्बद्धतया असामर्थं तदा कुत्र सामर्थ्यं स्यात् / परमर्थतो ऽसद्वस्तुनि न भवति कश्चन सम्बन्धो नाम / यतो हि व्यापकनिषेधेन व्याप्यनिवृत्तिस्तावर्न्निर्देशमात्रमेव / यथा सद्वस्तुनि धर्मधर्मिभावादिसर्वाणि वस्तुजातानि कल्पितानीति व्यवस्थाप्यन्ते तथा असद्वस्तुन्यपि कथं तानि नैव व्यवस्थाप्यन्ते?
अपि च, यदा को ऽपि कदाचिदपि स्वलक्षणतया भावत्वेन परमार्थतो नैव सिध्यति, तदा वस्तुलक्षणस्य तथाभूतत्वात् तदभावो ऽप्यसिद्ध एव, परमार्थतस्तत्र सदसदुभयधर्मत्वेन कस्यापि हेतोरसम्भवात् / अतस्तेषां प्रतिवादो वा परीक्षणं वा कथं युज्येत, सर्वेषां वस्तूनां मायादिवत् सदसदुभयधर्मातीतत्वात् / सत्त्वस्य तदभावस्य चापि हेतोरानुकूल्येन वादिप्रतिवादिनोर्यथाप्रसिद्धत्वेन ते प्रसिद्धयविनाभूता एवोक्ताः / अतस्तेषु धर्मधर्मित्वं विरुद्धत्वं व्याप्यव्यापकत्वं स्वभावः कार्यत्वादीनि च यथा आभासन्ते तथैव सर्वा अपि व्यवस्था अविरुद्धा एव / कैश्चिद् विद्वद्भिर्यदि दर्शनस्यास्य धर्मधर्मिविरुद्धाद्याधारेण प्रतिवादः क्रियते तदा तत्र परमार्थव्यवहारनयानवबोध एव कारनं भवतीति / अतो ऽनवमर्दनीयमेतदिति ग्राह्यम् /
[24] तदपि न शब्दमात्रेण सिध्यतीति यदुक्तं तन्न दुषनमनभ्युपगमात् / न वयमपि शब्दमात्रेण शून्यतां साधयामः /
68 [25] न च प्रसङ्गमात्रेण, अपि तु सम्यक्प्रामाणेनैवेति / इत्येवं यदि वस्तुषु परमार्थस्वभाव एको भवति तदा प्रकारद्वयमेव तत्र भवेत् हेतुप्रत्ययापेक्षितत्वात् सर्वेषाम्, उत्पद्यमानस्वभावतया अनित्यत्वाच्च / यथात्र सौत्रान्तिकयोगाचाराणामैकमत्यम्, स्वभावेन सिद्धत्वादाश्रितन्तर्भूतं वा तैर्थिकपरिकल्पात्मादिवत् / न च नित्यानित्ययोरन्योपरिहारस्थितलक्षणत्वात् तृतीईना काचन गतिः / स्वभावे ऽस्मिन् उभयमपि प्रकाद्वयं परमार्थतया न सम्भवति, साधकप्रमाणाभावाद् बाधकसम्भवाच्च / यदि प्रत्यक्षमनुमानं वा तत्र साधकप्रमाणं तदा वस्तुस्वभाव एव पूर्वं तावदुभाभ्यां न सिद्धः, स तु[वस्तुस्वभावः] तदैव स्यात्, किन्तु कार्यकारणभाव एव तावत् प्रत्यक्षेण न परमार्थतः सिद्धः / सो ऽपि तावदिन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण वा सिध्यति, यतो हि नार्वाग्दर्शिनो मानसप्रत्यक्षं व्यवहरन्ति, नापि च तन्मानसप्रत्यक्षं कुत्रापि सिध्यतीति तत्रामाण्यमङ्गीक्रियते /
तत्र केचिदिन्द्रियप्रमाणेन न सिध्यतीति ब्रुवते, पृथगर्थविषयित्वेन निर्दिष्टत्वात्तस्य, किन्तु कार्यकारनभूतस्य तस्यान्यार्थस्य परमार्थतो ज्ञानग्राह्यत्वं नैव युज्यते / विज्ञाने स्वप्रतिभास इव यो हि ज्ञानेतरस्वभावो ऽन्यावभासः [प्रतीयते], स नैव [ज्ञानाद्] अन्यः / अन्यानन्यौ हि परस्परविरुद्धौ / अतस्तदाकारेण ज्ञानेनान्यस्य प्रतीतिरिति यदुच्यते, तदपि नोपपद्यते, अतिप्रसङ्गात् /
यद्येवं तदा घटादयः, ये ऽन्यप्रकाराननुविधाय प्रादुर्भवन्ति, ते ऽपि सर्वे परस्परं गृहीतस्वभावा एव / यो ऽपि तदाकारस्तज्ज्ञानाकारमेवेति विशेषाभिधाने सत्यपि विज्ञानसदृश्येनैवान्यावबोधः संजायते, न घटमात्रादिनेत्येवं विशेषो नास्ति / विज्ञानस्वभावत्वे ऽपि तेषां स्वस्वभावस्थितत्वादन्येष्वकिञ्चित्करत्वमेव / यदि नास्ति विशेषस्तदार्थक्रियार्थिनः स्वतो वस्त्वनुधानेन सम्प्रयुज्यते, तथापि प्रतिनियतार्थक्रियास्वभावः कुत्रापि न सिध्यति, अतिप्रसङ्गात् /
नाटयचन्द्रमल्लदर्शनवद् युगपदनेकदर्शनेन तद्विज्ञानेष्वपि परस्परसाम्यं स्यात्, ज्ञानस्वभावसाम्येन च तेषामपि परस्परं प्रत्यक्षत्वं प्रसज्येत / तदुद्भूतत्वे सतीति विशेषान्तरोपादाने ऽपि अन्यार्थस्य प्रत्यक्षत्वेन प्रत्यतिरसम्भवैव, यतो हि अभ्युपगममात्रेणोपचरितत्वाद् विशेषो न प्रसिध्यतीति /
अनयच्च, अन्यार्थो यदि प्रत्यक्षत्वेन प्रसिध्यति तदा ज्ञानविशेषस्तावत्तत्सदृशस्तदुद्भूतो वा साधनीयः / कथं ज्ञानेनान्यार्थो गृह्यत इत्येवं विचार्यमाणे ऽन्यार्थो यदि प्रत्यक्षतो ऽसिद्धस्तदा कथं तावदसिद्धेन स्वभावबिशेषेण सिद्धा मार्गविशेषाः सेत्स्यन्त इति यावत् /
तद्विज्ञानक्षणिकत्वस्यापि समनन्तरप्रत्ययार्थानुबलेनोपपन्नत्वाद् यथा ज्ञानानि पूर्वक्षणसापेक्षतया समुद्भवन्ति तथा जन्मान्तराण्यपि सम्भवन्ति / अतः पूर्ववर्तिनां परवर्तिज्ञानग्राह्यत्वप्रसङ्गस्य निवृतिर्दुष्करैव /
अपि च, ये तावदवयव्यादिबाह्यवस्तूनां प्रत्यक्षत्वमामनन्ति, स्वसिद्धान्तानुसारं च यथा तद्दर्शनोपचारं कुर्वन्ति तथा प्रत्यक्षतयावभासो नास्त्येव / कदाचिदप्यवयविनस्तदाकारग्राहिज्ञाने प्रत्यक्षानुभवो न भवती / सर्वदैव पाण्याद्यनेकावयवसमूहाकारज्ञानमेव प्रत्यक्षतयानुभूयते /
नीलाद्यवयविनो गुणेषु सदित्याकारकं ज्ञानं नैवानुभूयते, आधारस्याप्रत्यक्षत्वे तद्गुणादिमात्राणां ग्रहणासम्भवात् / अरिष्टनीलाक्षपीताक्षतिमिराद्यपहतनेत्रेषु दूरसमीपस्थित एकस्मिन्नपि वस्तुनि विभिन्नानि विषमाकाराणि ज्ञानान्युत्पद्यन्ते, अतो बाह्यावयविविषयकं कल्पनाजालं चित्ते नास्त्येव विद्यमानम्, तथात्वे तस्य पृथग्ग्रहणप्रसङ्गात् / अतस्तदात्वे तत्स्वभावगुणाद्युत्पत्तिः सर्वथासती एव / विरुद्धधर्माणामपि गुणानां यद्येकत्वं तदा भिन्नसत्ताकानामप्येकत्वप्रसङ्गः /
बाधकाभावाद् गुणादीनां सर्वेषां धर्माणां प्रत्यक्षत्वप्रसङ्गः / स्वप्नादिषु तथानीलादिगुवतामर्थान्तराणां विद्यमानत्वे ऽपि नीलाद्याभासिज्ञानानां पृथगनुभवो भ्रान्त एवं, न चाकारवशेन अर्थान्तरग्रहणव्यवस्था युक्तिमती / ये खलु परमाण्वात्मकलीआद्यर्थानां प्रत्यक्षत्वमामन्वते तेष्वपि तावत् समानदोषताप्रसङ्गः, निरवयवानां सूक्ष्मपदार्थनां भिन्नाकारेषु ज्ञानेषु पृथगनुभवाभावात् / समूहविषयाणि तानि ज्ञानान्यभ्युपेअतानि, स्वप्नादिवच्च तानि स्थूलावभासीन्यनुभूतानि / न समवायिभिन्नः समवायः समस्ति, नापि समवायकल्पनया तदुपचारः सम्भवति /
यदि सञ्चितानेकवस्तुग्रहणात् स्थूलेषु भ्रान्तिरुपजायते, तदा तदानीन्तनज्ञानस्य अप्रामाण्यप्रसङ्गः, भ्रान्तत्वादिति / यदि सा स्थूलभ्रान्तिश्चित्तेनोपकल्पिता, तदाभिव्यक्तौ अनाभासताप्रसङ्गः, कल्पनाविषयाणां सर्वदा अस्पष्टावभासनात् / यदि तानीन्द्रयज्ञानान्तर्गतानि तदा परमाणुनां सर्वदाग्रहणप्रसङ्गः, सर्वदा तदाकारज्ञानानुत्पत्तेः /
यस्थूले भ्रान्तं तत्तथाग्रहणतः पूर्वमपि न [अभ्रान्तं] सिध्यति, आरम्भे उत्पत्तावेव स्थूले भ्रान्तत्वाभ्युपगमात् / पुरतः प्रमाणैर्यदि प्रमाण्यं सिध्यति तदा या स्थुले भ्रान्तिः सा ग्रहणपूर्विकैवैका सिध्यति, यदि न तथा सिध्यति तदा सा भ्रान्तिर्गृहीतेत्येव न सम्भवति / स्वप्नादिष्वन्यप्रमाणानि न गृह्यन्ते, तथापि स्थूले भ्रान्तिस्तु [तत्र] दृष्टैव, अतस्तस्यास्तत्पूर्वकत्वं न युज्यते / मरुभूमौ लघ्वपि वस्तुजातं महदित्यवलोक्यते / तत्र दूरादूरभेदेन स्पष्टाष्पष्टावभासभेदो ऽपि नैव भवति, तस्यैकवस्तुत्वेन तत्र तादृशाकारा नैव सम्भवन्तीति /
अपि च, याद्याकारा याथातथ्येनाभ्युपगम्यन्ते तदा यथा विविधानां रेखादीनां विस्तारस्तथा ज्ञानाकाराणामपि आकारवत् पृथक्त्वम् प्रसज्येत / सिद्धान्तवैविध्यस्थापनार्थम् अनेकज्ञानानामुत्पादमवगच्छतो विज्ञानस्य विषयेषु यथा प्रसारस्तथाभासो ऽसम्भाव एव / एकज्ञानेनाभिन्नस्वभावत्वाद् आकाराणामप्येकस्वभावताप्रसङ्गः / यदि [आकाराः] भिन्नास्तदा अर्थसदृश्ज्ञानेन तेषां ग्रहणं नोपपद्यते, भिन्नार्थत्वात् / तद्ग्रहणार्थं सत्यामप्यन्यान्याकारकल्पनायामाकाराणामनवस्थाप्रसङ्गः, अन्यान्याकारणां कदाचिदप्युनुभवाभावात् / यदि ते ऽलीकास्तदा तत्त्वान्यत्वविचारो ऽउप्यसम्भवी / तदानया दृष्टया तद्वशेनान्यार्थव्यवस्थानं सर्वथायुक्तम्, असम्यक्त्वात् / ग्राह्याकारो ऽपि हि प्रज्ञाप्तिरेव स्यात् /
अपि च, यदि ज्ञानसादृशयं सर्वात्मना भवति, तदा अर्थानुसारिणो ऽपि ज्ञानस्य अज्ञानस्वभावत्वं स्यात्, परचित्ताभिज्ञस्य योगिनो ऽपि सरागत्त्वादिप्रसङ्गः, सरागादीनां परचित्तादीनां परिग्रहणात् / एकदेशेनापि न सादृश्यं [युज्यते], एकस्मिन् सावयवत्वप्रसङ्गात् / यदि विपर्यये ह्युपचारत् कर्तुरेकदेश एव तदा सर्वत्र वस्तुसादृश्यसम्भावनया सर्वज्ञातृत्वं स्यात् / सादृश्यमपि प्रज्ञप्तिरेव स्त्रान्न तु परमार्थम् / अतः सादृश्येन ज्ञानेतरस्वभावग्रहणं न [सर्वथा] युज्यते ऽसम्भवात् /
तत्सादृश्यते ऽपि न तत्प्रत्यक्षत्वेन ग्रहणं युज्यते, विषयस्य हेतुत्वे तदनुभवकाले सामीप्याभावात् / सामिप्ये ऽपि नैव तद्ग्रहणम्, आत्मस्थसादृश्यग्रहणप्रवणत्वाज्ज्ञानस्य, अपरस्य अर्थस्थाकारस्य तदानीमनवभासात् / अवभासे ऽपि तद्विरुद्धत्वं तुल्यपरीक्षणीयम् / यदि स एव [अनुभवः] तदर्थाकारानुभवत्वेन गृह्यत इति चेत्? कल्पनामात्रमेवैतत् / नैव तावन्मात्रेण वस्तुनस्तादृशः स्वभाव् सन्, अतिप्रसङ्गात् / ऽअग्निर्माणवकः [बाह्मणवटुः]ऽ इति कृते ऽप्युपचारे नैव [तमिन्] दाहपाकादिः प्रयुज्यते / आकारेणान्यार्थव्यवस्थाने ऽप्यनुमानमेवैतन्नैव हि तत्प्रत्यक्षम् /
प्रत्येतव्या अर्थान्तराः सामीप्ये ऽपि न [ज्ञान]आकारव्याप्ता भवन्ति, अर्थान्तराभावे ऽपि स्वप्नादिषु तथाकारसम्भवात् / अत्यन्तपरोक्षत्वादर्थान्तराणां ते [अर्थान्तराः] तदीयज्ञानाकारवन्तः सन्तीति नैव सिध्यति / हेतुत्वं तावन्न केवलम् साकारकार्यस्योत्पादनं नाम, स्वकीयविज्ञानानां चक्षुरादिद्वारा भ्रान्तत्वात्, शब्दादिज्ञानान्तरं चक्षुर्विज्ञानोत्पादेन शब्दाद्याभासिचक्षुर्विज्ञानोत्पादसम्भवाच्च / अतस्तावत्कालिकावभासिज्ञाअनेनार्थान्तरग्रहणं नैव युज्यते / नाप्यनाभासिभिः. तेषु भेदाभावात् / तदा यदि सामीप्याद् विज्ञानेनार्थान्तरग्रहणं भवतीति कल्प्यते तदा सर्वाण्यपि विज्ञानानि सर्वसमीपविषयकाणि स्युः सर्वेषु तत्सत्ताया भेदाभावात् / फलतः सर्वैः सर्वदर्शनं स्यात् / श्रोत्रादिज्ञानान्यपि रुपादिविषयकाणि स्युः सामीप्ये भेदाभावात्तदानीम् / ततश्च ऽइदं नीलं पीतमिदम्ऽ इति विभागो नैव स्यात्, कस्यचनापि विभागविशेस्यानभ्युपगमात् / यद्यभ्युपगम्यत इति तदा तत्सादृश्यमभ्युपगतं स्यात् /
कल्पनास्वरूपमात्रे ज्ञानाभिन्नात्मके सादृश्यातिरिक्ततया न कश्चनापि भेदो भवितुर्महति, तद्दोषाणामभिहितत्वात् / सामीप्यवशाज्ज्ञानस्य यदि नार्थान्तरादनुभवस्तदा कथमिति प्रश्ने तदुत्पत्त्यैवेति वक्तव्यं स्यात् / तथाविधमभिधानं नैव युक्तम्, ज्ञानकाले विषयस्याभावात्, अभावग्रहणायोगात् समकालिककार्यणभावास्यायुज्यमानत्वाच्च / कस्याप्येवंविधाभ्युपगमाभावादिति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
