Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
ज्ञानालोकालंकारसूत्र [सर्वबुद्धविषयावतारज्ञानालोकालंकार नाम महायानसूत्र] = जाअ
- Thông tin
- GRETIL — : Takayasu Kimura, Nobuo Otsuka, Hideaki Kimura, Hisao Takahashi, "Bonbun kotei 'Chikomyoshogon-kyo'; - Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra", In: Kūkai no shiso to bunka [*A Felicitation Volume Presented to Prof. Kicho Onozuka on his seventieth birthday], Tokyo 2004, pp. 1(596)-89(508).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
(4) तिष्ठन्तु तावन् मञ्जुश्रीः त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमान् कल्पान् दानं ददतः पुण्याभिसंस्काराः / सचेन् मञ्जुश्रीर् गङ्गासिकतासंख्येया बोधिसत्त्वा भवेयुः / तत एकैको बोधिसत्त्वो गङ्गासिकतासंख्येयानि बुद्धक्षेत्राणि जाम्बूनदसुवर्णमयानि, सर्ववृक्षांश् च दिव्यैर् वस्त्रैः परिवेष्टयित्वा, सर्वप्रभासमुच्चयमणिरत्नजालसंच्छन्नानि कृत्वा, वशिराजमणिरत्नमयैः कूटागारैर् विद्युत्प्रदीपमणिरत्नवेदिकापरिवृतैः परिपूर्णां कृत्वा, उच्छ्रितच्छत्रध्वजपताकाभिर् गङ्गानदीसिकतासंख्येयेभ्यो बुद्धेभ्यो दिवसे दिवसे दानं दद्यात् / एवं ददङ् गङ्गासिकतासंख्येयान् कल्पान् दानं दद्यात् / यो वान्यो बोधिसत्त्व इमं धर्मपर्यायम् अधिमुच्यान्यस्य बोधिसत्त्वस्येतो धर्मपर्यायाद् अन्तश एकाम् अपि चतुष्पादिकां गाथां देशयेद् अवतारयेद् (जाअ 82) वा / अस्य पुण्याभिसंस्कारस्य स पूर्वकः पुण्याभिसंस्कारस् तेषां बोधिसत्त्वानां दानमयः शततमाम् अपि कलां नोपैति, सहस्रतमाम् अपि, शतसहस्रतमाम् अपि, संख्याम् अपि, कलाम् अपि, गणनाम् अपि, उपनिषाम् अपि, यावद् उपनिषदम् अपि नोपैति //
§42 ms. 29b6-301b1, p. 332a2-b4, d. 303a7-302a1, t. 357 249a11-249b5, t. 358 253b19-23, t. 359(w) 264b8-29.
(1) तद्यथा मञ्जुश्रीस् त्रैधातुकपर्यापन्नाः सर्वसत्त्वा नरकतिर्यक्प्रेतयमलोकोपपन्ना भवेयुः / अथ गृही बोधिसत्त्वस् तान् सर्वान् नरकतिर्यक्प्रेतयमलोकाद् उद्धृत्य प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / यो वान्यो बोधिसत्त्वः प्रव्रजितो ऽन्तशस् तिर्यग्योनिगते ऽपि सत्त्व एकम् आलोपं दद्यात् / अयं ततो बहुतरम् असंख्येयतरं पुण्यं प्रसवयात् //
(2) सचेन् मञ्जुश्रीर् दशसु दिक्षु बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमाः प्रव्रजिता बोधिसत्त्वा भवेयुः / तत एकैको बोधिसत्त्वो दशसु दिक्ष्व् एकैकस्मिन् दिग्भागे दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमान् बुद्धान् भगवतः पश्येत् / एकैकं च तथागतं सबोधिसत्त्वं सश्रावकं दशसु बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमणुरजःसमान् (जाअ 83) कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेत् / एकैकस्य च तथागतस्य दिवसे दिवसे बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमान् लोकधातून् वशिराजमणिरत्नप्रतिपूर्णान् कृत्वा दानं दद्यात् / यो वान्यो बोधिसत्त्वो ऽस्मिन् धर्मपर्याये ऽधिमुक्तो ऽन्तशस् तिर्यग्योनिगते ऽपि सत्त्व एकम् आलोपं दद्यात् / अस्य पुण्याभिसंस्कारस्य पूर्वकः पुण्याभिसंस्कारस् तेषां बोधिसत्त्वानां दानमयः शततमाम् अपि कलां नोपैति, सहस्रतमाम् अपि, शतसहस्रतामाम् अपि, संख्याम् अपि, कलाम् अपि, गणनाम् अपि, उपनिषाम् अपि, उपनिषदम् अपि न क्षमते / तत् कस्य हेतोः / अवैवर्तिकानां बोधिसत्त्वानाम् इयं मुद्रा यदुतास्य धर्मपर्यायस्य श्रवः //
§43 ms. 30b1-31a5, p. 332b4-333a4, d. 304a1-304b6, t. 357 249b6-249c19, t. 358 -, t. 359(w) 264b30-265a11.
(1) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सत्त्वान् श्रद्धानुसारित्वे प्रतिष्ठापयेत् / यो वान्यो बोधिसत्त्व एकं सत्त्वम् अर्थानुसारित्वे प्रतिष्ठापयेत् / अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति //
(2) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशदिक्षु सर्वलोकधातुषु सर्वसत्त्वान् अर्थानुसारित्वे प्रतिष्ठापयेत् / यो वान्यो बोधिसत्त्व एकं सत्त्वं धर्मानुसारित्वे प्रतिष्ठापयेत् / अयं (जाअ 84) ततो ऽसंख्येयतरं पुण्यं प्रसवति //
(3) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सत्त्वान् धर्मानुसारित्वे प्रतिष्ठापयेत् / यो वान्यो बोधिसत्त्व एकं सत्त्वं स्रोतापत्तिफले प्रतिष्ठापयेत् / अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति //
(4) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् स्रोत-आपत्तिफले प्रतिष्ठापयेत् / यो वान्यो बोधिसत्त्व एकं सत्त्वं सकृदागामिफले प्रतिष्ठापयेत् / अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति //
(5) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठापयेत् / यो वान्यो बोधिसत्त्व एकं सत्त्वम् आनागामिफले प्रतिष्ठापयेत् / अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति //
(6) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् अनागामिफले प्रतिष्ठापयेत् / यो (जाअ 85) वान्यो बोधिसत्त्व एकं सत्त्वं अर्हत्वे प्रतिष्ठापयेत् / अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति //
(7) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् अर्हत्वे प्रतिष्ठापयेत् / यो वान्यो बोधिसत्त्व एकं सत्त्वं प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति //
(8) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / यो वान्यो बोधिसत्त्व एकं सत्त्वं बोधिचित्ते प्रतिष्ठापयेत् / अयं ततो ऽसंख्येयतरं पुण्यं प्रसवेत् //
(9) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् बोधिचित्ते प्रतिष्ठापयेत् / यो वान्यो बोधिसत्त्व एकं सत्त्वम् अवैवर्तिकत्वे प्रतिष्ठापयेत् / अयं ततो बहुतरं पुण्यं प्रसवेत् //
(10) सचेन् मञ्जुश्रीर् बोधिसत्त्वः सर्वसत्त्वान् अवैवर्तिकत्वे प्रतिष्ठापयेत् / यो वान्यो बोधिसत्त्व इमं धर्मपर्यायम् अधिमुक्तः लिखापयित्वा परेभ्यो विस्तरेण संप्रकाशयेत्, अन्तश एकं सत्त्वम् अप्य् अस्मिन् धर्मपर्याये ऽवतारयेत् / अयं ततो बहुतरं पुण्यं प्रसवेत् //
§44 ms. 31a5-32a3, p. 333a4-334a5, d. 304b6-305a7, t. 357 249c19-250a14, t. 358 253b23-253c18, t. 359(w) 265a12-265b24.
अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभाषत् /
यो बोधिसत्त्वो दशबुद्धकोटिनां सद्धर्मं धारयेत् क्षयान्तकाले / सूत्रं च यो ऽन्यः शृणुयात् सगौरवाद् इदं ततः पुण्यमहान्तं विशेषयेत् // 1 //
यो बुद्धकोटीदश पूजयेद् ऋद्ध्या समाक्रम्य दशासु दिक्षु / वन्दापयेत् स पुरुषांश् च सर्वान् कृत्वा कृपां सर्वसुखेष्व् अगृद्धः // 2 //
यश् चेदं सूत्रं जिनधर्मसूचकं परस्य देशेत मुहूर्तकं पि / प्रसन्नचित्तः सुगतस्य शासन इदं ततः पुण्यफलं विशिष्यते // 3 //
संदर्श्य सूत्रं सुगतप्रवेदितं प्रदीपभूतं मरुमानुषाणां / स तीक्ष्णप्रज्ञश् च महाबलश् च बुद्धान भूमिं लभते च शीघ्रम् // 4 //
कथां श्रुणित्वा सुगतानम् ईदृशं संश्रावयेद् यश् च द्वितीयसत्त्वे / तेषां च बुद्धान नरोत्तमानां परिनिर्वृतानां निरुपाधिशेषे // 5 //
स्तूपान् प्रतिष्ठापय उच्चशोभनान् भवाग्रपर्यन्तसुरत्नचित्रान् / छत्रैः पताकैस् तथ घण्टशब्दैः परिणाहवन्ते हि यथा भवाग्रम् // 6 //
इच्छे त्व् अयं कश्चिद् इह बोधिसत्त्वः सूत्रं श्रुणित्वा इम एवरूपम् / काये प्रतिष्ठापयि पुस्तके वा इदं ततः पुण्यफलं विशिष्यते // 7 //
यो बोधिसत्त्वो इमु धर्मु धारयेद् अपनीतमाच्छर्यमलो विशारदः / पुण्यं भवेत् तस्य हि अप्रमेयं लभेत बोधिं च यथेप्सितेन // 8 //
इदं हि सूत्रं सुगतैः प्रशस्तं परिगृहीतं बहुबोधिसत्त्वैः / तथागतानाम् इह-म्-आत्मभाव आकाशधात्वे हि सर्वेषु दर्शितः // 9 //
§45 ms. 31b6-32a3, p. 334a5-334a8, d. 305a5-8, t. 357 250a10-14, t. 358 253c14-18, t. 359(w) 265b20-24.
इदम् अवोचद् भगवान् आत्तमना आर्यमञ्जुश्रीर् बोधिसत्त्वः, ते च दशदिगनन्तापर्यन्ताशेषलोकधातुसंनिपतिता बोधिसत्त्वा महासत्त्वा इति च महाश्रावकाः सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति // //
आर्यसर्वबुद्धविषयावतारज्ञानालोकालंकार नाम महायानसूत्रं समाप्तम् // //
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत् / तेषां च यो निरोध एवंवादी महाश्रमणः //
देयधर्मो ऽयं प्रवरमहायानयायिनः भिक्षुशीलध्वजस्य च तत्र पुण्यं तद् भवत्व् आचार्योपाध्यायमातापितृपूर्वंगमं कृत्वा सकलसत्त्वराशेर् अनुत्तरज्ञानफलावाप्तय इति //
महाराजाधिराजश्रीमद्गोपालदेवराज्ये संवत् 12 श्रावणदिने 30 लिखितम् इदं उपस्थायकचाण्डोकेनेति // श्री //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
