Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
सत्यसिद्धिशास्त्रम्
- Tác giả
- हरिवर्मन्
- Thông tin
- GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
(पृ) त्रयः क्लेशाः संसारस्य मूलमित्युक्तम् । अतो ऽन्यः पुनरस्ति न वा । (उ) अस्ति मानाख्यः । (पृ) कतमो मानः । (उ) मिथ्याचित्तेनात्मन उन्नतिर्मान इत्युच्यते । मानो ऽयंबहुविधः । अवर आत्मनि उन्नतिर्मानः । समेषु समतामन्यतापि मान इत्युच्यते । तत्रात्मबुद्धिनिमित्तग्रहदोषसत्त्वात् । समेषु आत्मन उन्नतिर्महामानः । विशिष्टेषु आत्मन उन्नतिरभिमानः । पञ्चसु स्कन्धेषु आत्मनिमित्तग्रहो ऽस्मिमानः । अस्मिमानो द्विविधो निमित्तप्रदर्शनो ऽनिमित्तप्रदर्शन इति । निमित्तप्रदर्शनः पृथग्जनानामात्ममानो यदुत रूपमात्मा, रूपवानात्मा, आत्मनि रूपं, रूप आत्मा इति दर्शनम्, एवं यावद्विज्ञानमपि । इति विंशतिधा प्रदर्शनात् निमित्तप्रदर्शनः । अनिमित्तप्रदर्शनः शैक्षजनानामस्मिमानः । यथा स्थविरः क्षेमक आह- न खल्वायुष्मन् रूपमस्मीति वदामि, न वेदना, न संज्ञा, न संस्कारा, न विज्ञानम्, [नाप्यन्यत्र विज्ञानादस्मीति वदामि] । अपि च म आयुष्मन् पञ्चसूपादानस्कन्धेषु अनुसहगतो ऽस्मीति मानः अस्मीतिच्छन्दः अस्मीत्यनुशयो ऽसमुद्धतः । [इत्यादि] । अयमस्मिमान इत्युच्यते ।
यः स्रोतआपत्त्यादिफलविशेषानप्रतिलभ्य प्रतिलब्धवानिति वदति सो ऽधिमानः । (पृ) अलाभे कस्माद्भवति लाभबुद्धिः । (उ) ध्यानाभ्यासे ऽल्पास्वादलाभात् संयोजना नुशयं व्यावर्तयति न पुनश्चित्ते समुदाचरति । अतो ऽयं मानो भवति । श्रुतचिन्तामयप्रज्ञाबलेन च सदा कल्याणमित्रमुपसद्य [त]त्समुदाचारविवेकमभिरोचयति । पञ्चस्कन्धानां लक्षणमल्पं ज्ञात्वा स्रोतआपत्त्यादिफलसंज्ञामुत्पादयति । [अय]मधिमानः ।
(पृ) अधिमानस्य के दोषाः । (उ) अन्ते दौर्मनस्योपायासैर्भवितव्यम् । यथोक्तं सूत्रे- यो भिक्षुः कथयति अहं समुद्धतविचिकित्सः प्रतिलब्धमार्ग इति । [तस्य] पुरत एवं कथयेत्- अतिगभीरः प्रतीत्यसमुत्पादो लोकोत्तरधर्म इति । यद्ययं भिक्षुर्वस्तुतो ऽप्रतिलब्धमार्गः । [तदास्य] इमं धर्मं शृण्वतः कौकृत्योपायासो भवति । अतो यत्नेनाधिमानमिमं समुच्छिन्द्यात् । अधिमानिनि बुद्धा भगवन्तो महाकारुणिका अपि [तं] दूरीकृत्य न धर्माववादं कुर्वन्ति । अतः समुच्छिन्द्यात् । किञ्चाधिमानी धर्मस्य मिथ्यादर्शने विहरति । अतो नास्ति तात्त्विको गुणः । तद्यथा वणिक् गभीरमहासमुद्रगतो रत्नाभासेष्वासक्तो भवति । तथायमपि बुद्धशासनार्णवगतः अल्पं ध्यानसुखं प्रतिलभ्य पारमार्थिकमार्ग इति तत्रासङ्गं जनयति । अधिमानी अन्ते मरणकाले न मार्गं वेदयते । अतो यत्नेन पारमार्थिकतत्त्वज्ञानमन्विष्यात् । अधिमानी स्वार्थं विनाशयति सम्मोहञ्च बर्धयति । अलब्धे लब्धसंज्ञावत्वात् । अतो नात्मानमात्मनैव वञ्चयेत् । इति क्षिप्रं विसृजेत् ।
यदुत्तमं पुरुषमवरं वदन्ति । तदयथा भवतीति अयथामान इत्युच्यते । अयं स्वयमुच्चो ऽपि स्वात्मभावमवनमयति । यदगुणाः सन्त आत्मानमुन्नमयन्ति । तन्मिथ्यामान इत्युच्यते । अकुशलधर्मैरात्मन उच्चकरणमपि मिथ्यामानः । यत् सुजने पूज्ये पृष्ठतो ऽसत्कार उद्धतमानः सः । इत्यादि मानलक्षणम् ।
(पृ) कथं मान उत्पद्यते । (उ) स्कन्धानां परमार्थलक्षणमजानानां मान (sss_309) उत्पद्यते । यथोक्तंसूत्रे- ये केचित् [श्रमणा ब्राह्मणा वा] अनित्येन रूपेण [दुःखेन विपरिणामधर्मेण] श्रेष्ठो ऽहमस्मीति समनुपश्यन्ति । सदृशो [ऽहमस्माति समनुपश्यन्ति] हीनो [ऽहमस्भीति समनुपश्यन्ति] किमन्यत्र यथाभूतस्यादर्शनात् । एवं यावद्विज्ञानमिति । स्कन्धानां परमार्थलक्षणं जानतां नास्ति मानः । कायानुस्मृतिं भावयतो नास्ति मानः । यथा गौः शृङ्गमपेक्ष्य तीक्ष्णो भवति । तच्छृङ्गे गते न भवति । कायो ऽशुचिः नवद्वारेषु मलप्रस्रावी । कः प्राज्ञ इममपेक्ष्य उच्चो ऽस्मीति [मन्येत] एवमादिकायानुस्मृतिप्रत्यये तु नास्ति मानः । प्राज्ञो जानाति सर्वे सत्त्वा यदि वा दरिद्री यदि वा धनी यदि वा पूज्यो यदि वा जधन्यः सर्वे ऽपि अस्थिमांसस्नायुसिरापञ्चसन्धिपेशीकललसमवायमयकायाः, जातिजराव्याधिमरणदौर्मनस्यपरिदेवदुःखोपायाससमन्विता रागक्रोधादिपुण्यपापकर्मयुक्ता नरकादिदुर्गतिभागिनश्चेति । कथमुत्पादयेन्मानम् । आभ्यन्तरं बाह्यं चित्तं प्रतीत्यसमुत्पन्नं सर्वं क्षणिकमिति पश्यतो न भवति मानः । चित्तसमाधिञ्च सम्यक् भावयतो न भवति मानः । कस्मात् । निमित्ते ऽनुगते हि मान उत्पद्यते । असति निमित्ते कुत्र मानमुत्पादयेत् । किञ्च प्राज्ञस्य शीलादिषु सत्सु न भवति मानः । कस्मात् । शीलादयो हि सर्वे एषां क्लेशानां क्षयकराः । असत्सु गुणेषु कः प्राज्ञो ऽसद्वस्तुनि मानमुत्पादयेत् । अनित्यतादिलक्षणं भावयतो मानो निरुध्यते । कः प्राज्ञो ऽनित्येन दुःखेन अशुचिना पदार्थेन मानं कुर्यात् ।
(पृ) मानस्य के दोषाः । (उ) मानात्कायो भवति । कायात्सर्वं दुःखं प्रवर्तते । यथाह भगवान् सूत्रे- यदाहं माणवको ऽभूवम्, न तदा मानलक्षणमाज्ञासिषम् अहमिति वेदनाव्याकरणं कुत्रचिदुत्पत्स्यत इति । अन्यमानानामप्रहीणत्वात् । सर्वे क्लेशा निमित्तग्रहानुवर्तिनः । अहमिति निमित्तेषु महत् । अतो ज्ञायते मानात्कायो भवतीति । मानो ऽयं मोहभागीयः । कस्मात् । चक्षुषा रूपं दृष्ट्वा अहं पश्यामीत्याह । मानो ऽयमनीत्या च प्रवर्तते । कस्मात् । सर्वे लोका अनित्या दुःखा अनात्मकाः । कथमनेन मानो भवति । अतो रागद्वेषमोहाः परमानीतयः । मनोद्धितं कर्म तीक्ष्णं गुरुकञ्च । (sss_310) गभीरासक्तत्वात् । रागोद्धितन्तु नेदृशं भवति । मानबलाद्रागादयो वर्धन्ते । अनेन रागेण लब्धो गोत्रादिमानस्तु विपुलं वर्धते । अस्मिमानप्रत्ययं प्रवर्तते नीचकुलम् । सिंहव्याघ्र वृकेष्वपि भवति । अस्मात्प्रत्ययान्नरके पतति । मानस्य सन्त्येवमादीन्यप्रमाणान्यवद्यानि ।
(पृ) किं मानबहुलस्य लक्षणम् । (उ) अयं समुपात्तधार्ष्ट्यो दुःसहभाषणो ऽसत्कारचित्तो ऽल्पभयः स्वैराचारमुदितः स्वयञ्च महादुःशासनो यत्किञ्चिज्जधन्य[मपि]स्वयं बहुमानी, परकुत्सनप्रियालुरितीमे दोषा दुरपनेयाः । अतो ज्ञानिना नाचरितव्याः । मानो ऽयं सर्वगुणानां विघटकतया प्रवर्तते ॥
मानवर्गो ऽष्ठाविंशत्युत्तरशतत्तमः ।
129 विचिकित्सावर्गः
शास्त्रमाह- विचिकित्सा नाम तत्त्वार्थे बुद्ध्यविनिश्चः किमस्ति विमुक्तिः किं वा नास्ति । किमस्ति कुशलमकुशलम् । उत न । किमस्ति रत्नत्रयम् । उत न इति ।
(पृ) वृक्षे संशयो भवति किं स्थाणुः किं वा पुरुष इति । मृत्पिण्डे संशयो भवति किं मृत्पिण्डः उत कोकिल इति । मधुकरे संशयो भवति किं मधुकरः किं वा जम्बूफलमिति । सर्पे संशयो भवति किं सर्पः किं वा रज्जुरिति । घोटकमृगे संशयो भवति किं प्रभा किं वा सलिलं इति । एवमादयः संशयहेतवश्चाक्षुषविज्ञानजनकाः । ध्वनौ संशयो भवति किं मयूरकृत उत मनुष्यकृत इति । गन्धे संशयो भवति किमुत्पलगन्धः उत संपर्कगन्ध इति । रसे संशयो भवति किं मांसरस उत मांसाभासरस इति । स्पर्शे संशयो भवति किमौत्पत्तिकतन्तव उत परिपक्वतन्तव इति । मानसविज्ञानन्तु नानाविधसंशयजनकम् । यथा किमयं धर्मो द्रव्यवान् उत गुणमात्रम् । विमस्त्यात्मा उत न इत्येवमादयः किं संशया न सन्ति ।
अत्र ब्रूमः । स्थाणुर्वा पुरुषो व इत्येवमादिभिस्तु न क्लेशा भवन्ति । न च ते पुनर्भवस्य प्रत्यया भवन्ति । क्षीणास्रवाणामप्येतत्सम्भवात् ।
(पृ) विचिकित्सेयं कथमुत्पद्यते । (उ) द्विविधधर्मदर्शनश्रवणज्ञानैर्विचिकित्सा भवति । कस्मात् । पूर्वं द्विधावस्थितं पदार्थं स्थाणुं पुरुषञ्च दृष्ट्वा पश्चाद्दूरतः पश्यति (sss_311) पुरुषादि वस्तु तदा संशेत स्थाणुर्वा पुरुषो वेति । तदा मृदादावपि । द्विधाश्रवणम्- यदि कश्चिच्छृणोति अस्ति पुण्यं पापमिति । पश्चाच्छृणोति लोके नास्तीति । अतः संशयो भवति । द्विधाज्ञानम्- यदा देवे वर्षति नदी समृद्धा भवति । जलसेतुभेदे ऽपि नदी समृद्धा । यथा देवे विवृक्षति पिपीलिकापोतान्यण्डवाहीनि । कस्मिंश्चित् [कुत्रचित्] खनत्यपि अण्डसंक्रान्तो गच्छति । मयूरकूजनं पुरुषो ऽपि कर्तुं शक्नोति । किञ्चिद्वस्तु दृश्यं यथा घटः । किञ्चिददृश्यं यथालातचक्रम् । अदृश्यं वस्तु यथा वृक्षमूलं पृथिव्यामधस्तात् जल[स्थं]वा । किञ्चिदवस्तु अदृश्यञ्च यथा द्वितीयं शिरः तृतीयो बाहुः । एवमादिभिर्द्विधाधर्मदर्शनश्रवणज्ञानैः संशयो भवति ।
अपरीक्ष्य दर्शनाच्च संशयो भवति । यथातिदूरादिभिरष्टप्रत्ययैः । द्विधाश्रद्धावत्त्वेन च संशयो भवति । यथा कश्चिद्वदति- अस्ति परलोक इति । [अन्यः] कश्चिद्वदति नास्तीति । उभयोरपि पुरुषयोः श्रद्धावतः संशयो भवति । विमते वस्तुनि यावद्विशिष्टलक्षणं न पश्यति तावत्संशयो भवति । विशिष्टलक्षणं पश्यतस्तु संशयो न भवति । (पृ) कथं विशिष्ठलक्षणं पश्यति । (उ) दर्शनश्रवणज्ञानानां विनिश्चयाद्विगतसंशयो भवति । भगवच्छासने यः कायेन धर्मतालक्षणं साक्षात्करोति । सो ऽत्यन्तविगतसंशयो भवति । यथा बोधिसत्त्वो बोधिमण्डे निषण्णो ऽवदत् व्यवसायेन ब्राह्मणलब्धं गमीरं धर्ममभिसमेत्य प्रत्ययान् जानन् पश्यंश्च प्रक्षीणसंशयजालो भवेयमिति । सद्युक्तिप्रज्ञालाभिनश्च संशयः प्रहीयते । यथा ज्ञानी संस्काराणां प्रतीत्यसमुत्पादं श्रुत्वा विज्ञाय च निर्धास्यति संसारो ऽनादिरित्येवमादि ।
(पृ) विचिकित्सायाः के दोषाः । (उ) विचिकित्साबहुलस्य लौकिकं लोकोत्तरं सर्वं न सिध्यति । कस्मात् । सन्दिद्घः पुमान् न कार्यं कर्म करोति । यत् करोति तत् जघन्यं भवति । साधयितुमक्षमत्वात् । उक्तञ्च सूत्रे- विचिकित्सा चित्तस्यानुप्ररोहः । तद्यथा सतृणक्षेत्रे ऽनुप्ररोहबहुलत्वादन्यतृणान्येव न प्ररोहन्ति । किः पुनः शालिसस्यादीनि । (sss_312) एवं चित्तं विचिकित्साप्रसृष्टमसद्वस्तुन्येव समादधाति । किं पुनः सम्यक् समाधौ इति । किञ्चाह भगवान्- विचिकित्सा नाम तमसो राशिरिति । स तमसो राशिस्त्रिविधः अतीतो ऽनागतः प्रत्युत्पन्न इति । स तमसो राशिरात्मदृष्टीनामुत्तिस्थानम् । पुरुषो ऽयं चित्तं समादधानो ऽपि मिथ्या समादधाति । विना भगवच्छासनं न सम्यक्समाधिमान् इति वक्तुं शक्यते । बहवः सत्त्वा आमरणं विचिकित्साविनष्टाः । तद्यथाह- अष्टकादयः पञ्चाभिज्ञा महर्षयः संशयालीढा विपन्ना इति । संशयानस्य दानादि कुर्वतः पुण्यमविपाकं वा स्यादल्पविपाकं वा । कस्मात् । इमानि पुण्यकर्माणि चित्तोद्गतानि । तस्य पुरुषस्य चित्तं सदा विचिकित्साकलुषितमित्यतो नास्ति कुशलम् । उक्तञ्च सूत्रे- विचिकित्सितचित्तो दानं दत्वा प्रत्यन्तभूमौ विपाकं वेदयत इति । कस्मात् । विचिकित्साबहुलो नैकाग्रचित्तो यथाकालं पाणिभ्यां प्रयच्छति । नापि विविधं सत्कारचित्तमुत्पादयति । अतः प्रत्यन्तभूमौ क्षुद्रं विपाकं वेदयते । तद्यथा पायास्यादयः क्षुद्रराजाः ।
(पृ) नास्तीयं विचिकित्सा । कस्मात् । विचिकिकित्सा नाम चैतसिकधर्मः । चैतसिकाश्च क्षणिकाः । सन् न विचिकित्सा । असन् अपि न विचिकित्सा । नैकं चित्तं सत् असदिति भवति । अतो नास्तीति ज्ञायते । (उ) नाहं वदामि क्षणिकेष्वस्ति विचिकित्सेति । अनिर्धारितचित्तसन्तानो विचिकित्सेत्याख्यायते । न तस्मिन् समये चित्तं निर्धारयति अयं स्थाणुरयं पुरुष इति । सतन्यमानमिदं चित्तमश्रद्दधानत्वादाविलम् । मिथ्यादर्शनादस्ति वा नास्ति वेति विचिकित्सन्न श्रद्दधते ।
अश्रद्धेयं द्विविधा विचिकित्सासम्भवा मिथ्यादर्शनसम्भवा इति । विचिकित्सासम्भवा लघुतरा । मिथ्यादर्शनसम्भवा तु गुरुतरा । श्रद्धा च द्विविधा सम्यद्गर्शनसम्भवा श्रवणसम्भवेति । सम्यद्गर्शनसम्भवा श्रद्धा दृढा भवति श्रवणसम्भवा तु नैवं भवति ॥
विचिकित्सावर्ग एकोनत्रिंशदुत्तरशततमः ।
130 सत्कायदृष्टिवर्गः
पञ्चसु स्कन्धेषु आत्मबुद्धिः सत्कायदृष्टिः । वस्तुत आत्मनो ऽभावात्पञ्चस्कन्धालम्बिनीत्युच्यते । कायः पञ्चस्कन्धात्मकः । तत्रोत्पन्ना [आत्म]दृष्टिः सत्कायदृष्टिरित्युच्यते । निरात्मक आत्मनिमित्तग्रहणात् दृष्टिरित्याख्यायते ।
(पृ) पञ्चसु स्कन्धेषु आत्मेति नामकरणे को दोषः । यथा घटादयः पदार्थाः प्रत्येकं स्वलक्षणाः । न तत्रास्ति दोषः । तथात्मापि । स्कन्धव्यतिरिक्त आत्मास्तीति ब्रूवतस्तु दोषः स्यात् । (उ) यद्यपि न स्कन्धव्यतिरिक्त आत्मेत्युच्यते । तथापीदं दुष्टम् । कस्मात् । तीर्थिका हि वदन्ति- आत्मा नित्यः । अस्मिन्नध्वनि कृतकर्मणामन्ते विपाकवेदनात् इति । एवं ब्रुवतः पञ्चस्कन्धा एव नित्याः स्युः । आत्मवादी मन्यते आत्मा एक इति । तथा सति पञ्चस्कन्धा एक एव स्युः । इत्ययं दोषः । आत्मग्रहश्च दुष्टः । कस्मात् । आत्मबुद्धौ हि आत्मीय [बुद्धि]रस्ति । आत्मीये सति रागद्वेषादयः सर्वे क्लेशाः समुद्भवन्ति । अतो ज्ञायत आत्मबुद्धिः क्लेशानामुत्पत्तिस्थानमिति । यद्यपीमे न वदन्ति स्कन्धव्यतिरिक्त आत्मेति । [तथापि] स्कन्धेषु निमित्तग्रहान्न [तेषां] शून्यतायामवचरन्ति । शून्य[ता]यामनवचरणात्क्लेशाः सम्भवन्ति । क्लेशेभ्यः कर्म सम्भवति । कर्मतो दुःखम् । एवं जननमरणसन्तानो ऽविच्छिन्नो भवति । इम आत्मकल्पनया कायशिरश्चक्षुर्हस्तपादस्यौदारिकं विवेकमेव न लभन्ते । किं पुनः स्कन्धानां विवेकम् । एक आत्मा नित्य आत्मेति समादानात् । यो न विवेचयति । को ऽवक्रामति शून्य[ताया]म् । आत्मदर्शीनिर्वाणभीत आत्मा न भविष्यतीति । यथोक्तं सूत्रे- पृथग्जनाः शून्यानात्मतां श्रुत्वा महाभीतिमुत्पादयन्ति आत्मा न भविष्यति । अतो नास्ति किञ्चिदुपलभ्यमिति । एवं पृथग्जना यावत्पामोपहतं कायं प्रार्थयमाना न निर्वाणाय प्रयन्ते । यः शून्यताज्ञानप्रतिलाभी स पुनर्निर्भीतो भवति । यथोहोपसेनसूत्रम्-
ब्रह्मचर्यं सुचरितं मार्गश्चापि सुभावितः । तुष्ट आयुःक्षये भोति रोगस्यापगमे यथा ॥ इति ।
आत्मास्तीति यो वदति स मिथ्यादृष्टौ पतति । यद्यात्मा नित्यः तदा सुखदुःखयोर्विकारो न स्यात् । असति विकारे नास्ति पुण्यं पापं वा । यद्यनित्य आत्मा । तदा नास्ति परलोकः । स्वभावतो विमुक्तस्यापि नास्ति पुण्यं पापं वा । अतो ज्ञायते सत्कायदृष्टिर्गुरुतरं पापमिति । किञ्च सत्कायदृष्टिको ऽत्यन्तमूढः । पृथग्जनाः सर्वे सत्कायदृष्ट्या विक्षिप्तचित्ता भवन्ति । अत्यासङ्गात् संसारे यातायाता भवन्ति । यो नैरात्म्यं पश्यति तस्य यातायातं समुच्छिद्यते ।
(पृ) यदि पञ्चस्कन्धा अनात्मकाः । कस्मात् सत्वानां तत्रात्मबुद्धिर्भवति । (उ) मर्त्यो देवः पुमान् स्त्री इति नामनिमित्तं शृण्वतः संज्ञाविकल्पादात्मबुद्धिरुत्पद्यते । न तु हेतुना । हेत्वभावेनात्मबुद्धिरुत्पद्यते यदुत यद्यात्मा नास्ति कः सुखं सुखं वेदयेत्, इर्यापथव्यवहारोद्धितपुण्यपापकर्मणा विपाकं [को] वेदयेतेति । अनादौ संसारे च चिरसञ्चितमात्मनिमित्तन्तु तदनुशयसाधनम् । यथा घटादिनिमित्तम् । अत आत्मबुद्धिरुत्पद्यते । सर्ववेदनास्कन्धेषु आत्मबुद्धिरुत्पद्यते न तु वेदनायाम् । अत उच्यत आत्ममतिर्यत्रोत्पद्यते तत्रात्मास्तीति । कस्मात् । न हि सर्वत्रात्ममतिर्भवति । व्यामोहादात्ममतिरुत्पद्यते । तद्यथा अन्ध[कल्प]स्य शकलादि लब्ध्वा सुवर्णमणिसंज्ञा भवति । किञ्चायं शून्यताविवेकज्ञानालाभी मोहात्पश्यत्यात्मानम् । तद्यथा माया[मरीची]गन्धर्वनगरालातचक्रादिषु अस्तीति मतिर्भवति ।
(पृ) पश्यामः खलु प्रत्यक्षं रूपकाये केशनखरोमाद्यवयवान् प्रत्येकं विभिन्नान् । कः सचेतनस्तानात्मानं मन्येत । (उ) केचित्पश्यन्ति आत्मानं यवसदृशं सर्षपादिसमानं हृदयान्तर्वर्तिनञ्च । ब्राह्मणानामात्मा शुक्लः । क्षत्रियाणामात्मा पीतः । वैश्यानामात्मा रक्तः । शूद्राणामात्मा कृष्ण इति । उक्तञ्च वेदे-
पुरासीन्महान् पुरुष आदित्यवर्णः तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यते [ऽयनाय] । अणोरणियान् महतो महीयान् आत्मा गुहायां निहितो ऽस्य जन्तोः । तमक्रतुः पश्यति [वीतशोकः] सूत्रं मणिगणेष्विव ।
एवं केचिन्मन्यन्ते रूपमात्मेति । स्थूलचेतना आहुः वेदनात्मेति । वृक्षशिलादौ वेदनाया अभावात् ज्ञेयं वेदनैवात्मेति । मध्यमचेतना आहुः संज्ञा आत्मा, सुखदुःखयोरतीतयोरपि [तत्] संज्ञावदात्मेति बुद्धि[सत्त्वा]त् । सूक्ष्मचेतना आहुः संस्कार आत्मेति । घटादावतीते ऽपि [तत्] चेतनावानात्मेति बुद्धेः । परमसूक्ष्मचेतना आहु- विज्ञानमात्मेति । चेतनापि औदारिकी । चेतनायामस्यामतीतायामपि [तत्] विज्ञानवानात्मेति बुद्धेरिति जानन्ति । [यस्य] पञ्चसु स्कन्धेषु आत्मबुद्धिर्भवति । न स विवेचयति वेदनादीन् स्कन्धान् । रूपं चित्तञ्च सम्मिश्र्य आत्मसंज्ञा समुत्पद्यते । यथा रूपादिचतुर्धर्मसामान्ये घटसंज्ञोत्पद्यते । रूपादिविभागेन विंशतिभागैः पश्यति रूपमात्मेति । कस्मात् । रूपवानयमात्मेति प्रतीतो धर्मो वेदनादीनामाश्रयः । वेदनादय इमे रूपे प्रतिबद्धा इत्यत उच्यते रूप[वान्] आत्मेति । केचिद्वेदनादिगतं रूपं पश्यन्ति । वेदनादय इमे ऽनुपलभ्यमानधर्मा इत्यतो रूपमाश्रयन्ते । यथा आकाशो ऽनुपलभ्य इत्यतः पृथिव्यादय आश्रीयन्ते । एव [मात्मदृष्टे] विंशतिभागा मोहाद्भवन्ति ।
(पृ) चक्षुरादिषु कस्मान्नोच्यत आत्मेति भागः । (उ) अस्ति च । यथोक्तं सूत्रे- यद्याह कश्चित् यच्चक्षुरयमात्मेति । तन्न युज्यते । कस्मात् । चक्षुरुत्पन्नविनाशि । यदि चक्षुरयमात्मा । तदा आत्मा उत्पन्नविनाशी स्यात् । चक्षुरादीनि पृथक् पृथग्विशिष्टलक्षणानि । यद्युच्यते चक्षुरात्मेति । श्रोत्रादयो नात्मा स्युः । तत्तु न (sss_316) युज्यते । यदि श्रोत्रादयः पुनरा[त्मा] । तदा एक एव पुमान् बह्वात्मा स्यात् । रूपादीनां सविशेषत्वात् वक्तुं शक्यं रूपमेवा न वेदनादय इति ।
(पृ) नास्त्यात्मेति यद्वचनम् । सापि मिथ्यादृष्टिः । कथमिदम् । (उ) अस्ति सत्यद्वयम् । परमार्थतो ऽस्त्यात्मेति यद्वचनं सा सत्कायदृष्टिः । संवृतितो नास्ति आत्मेति वचनं मिथ्यादृष्टिः । लोकसत्यतो ऽस्त्यात्मा परमार्थतो नास्त्यात्मेति वचनं सम्यक् दृष्टिः । परमार्थतो नास्ति संवृतितो ऽस्तीति वदन् न दृष्टौ पतति । एवमस्ति नास्तीति वचनं ज्ञेयम् । यथा व्याघ्री स्वपोतं मुखेनापहरति अतिनिष्ठुरग्रहणे क्षतं [भवेदिति] अतिशिथिलग्रहणे भ्रंशो [भवेदिति] । एवमास्तित्वं प्रतिपन्नश्चेत्सत्कायदृष्टौ पतति । आत्मनास्तित्वं प्रतिपन्नश्चेन्मिथ्यादृष्टौ पतति । कृतहानमकृताभ्यागम उभयं दुष्टम् । नास्तीति प्रतिपन्नस्य [कृत]हानम् । आत्मास्तीति प्रतिपन्नस्या [कृता]भ्यागमः । अतः सूत्र उक्तं- द्वावन्तौ परिहार्याविति । परमार्थतो नास्तीति वदन् संवृतितो ऽस्तीति च वदन् अन्तद्वयं परित्यज्य मध्यमायां प्रतिपदि चरतीत्याख्यायते । बुद्धशासनमविवादमनुत्कर्षणम् । परमार्थतो नास्तीत्युक्तौ पण्डितो नोत्कर्षति । संवृतितो ऽस्तीत्युक्तौ पामरो न विवदते । तथागतशासने ऽशाश्वतानुच्छेदा परिशुद्धा मध्यमा प्रतिपत् । परमार्थतो नास्तितया न शाश्वतः । संवृतितोस्तितया नोच्छेदः ।
(पृ) यो धर्मः परमार्थतो नास्ति स सुतरां नास्तीति स्यात् । केन पुनरुच्यते संवृतितो ऽस्तीति । (उ) सर्वैर्लौकिकैर्व्यवह्रियते अस्तीति यदुत कर्म कर्मविपाको यदि वा बन्धो यदि वा मोक्ष इति । इमे सर्वे मोहजाः । कस्मात् । इमे पञ्चस्कन्धाः शून्या मायोपमाः ज्वालावच्च सन्तानेनोत्पन्नत्वात् । पृथग्जनानां तितीर्षया अस्तीतिवचनमनुवर्तते । यदि नास्तीति वदेत् । तदा पृथग्जना व्यामुह्य यदि वा उच्छेदवादे पतेयुः यदि वा स्कन्धानां नास्तीताकथने अविनेयाः स्युः । पुण्यपापादिकर्मभिर्बन्धो वा मोक्षो वा न सिध्येत् । यस्तं मोहवादं विनाशयति । सः स्वयमेव शून्यतायामवतरति । तदास्य सर्वा मिथ्यादृष्टयो न भवन्ति । अतः परमार्थसत्यं पश्चादुच्यते । यथा स्त्रीपुंनिमित्तव्यावृत्तये कायप्रत्यवेक्षणमादावुपदिश्यते । अथ केशरोमनखादिभिः कायविकल्पलक्षण[मुपदिश्यते] पञ्चस्कन्धमात्रमस्तीति । अथ शून्यतालक्षणेन पञ्चस्कन्धनिरोधलक्षण[मुपदिश्यते] । पञ्चस्कन्धनिरोधलक्षणं परमार्थसत्यमित्युच्यते । संवृत्यास्तीति कथने न तदा पुनः परमार्थतो (sss_317) नास्तीति वचनमपेक्ष्यते । उक्तञ्च सूत्रे- यः सर्वधर्मान् निःस्वभावान् प्रजानाति स शून्यतायामवतरति । इति । अतो ज्ञायते पञ्च स्कन्धा अपि न सन्तीति । उक्तञ्च परमार्थशून्यतासूत्रे- चक्षुरादि परमार्थतो नस्ति । अस्ति तु संवृतित इति । महाशून्यतासूत्र उक्तम्- यदिदं जरामरणमिति वचनं यदि वायं पुरुषो जरामरण[-लक्षण] इति वचनं । यदि वा तीर्थिकानां वचनं काय एव जीवः, यदिवान्यः कायो ऽन्यो जीव इतीदमेकार्थकं, व्यञ्जनमेव नाना । काय एव जीवः अन्यः कायो ऽन्यो जीव इतीदं
वचने न ब्रह्मचर्यं भवति । यः प्रतिषेधः अयं पुरुषो जरामरण[लक्षण] इति नैरात्म्यस्याभिधानम् । यः प्रतिषेध इदं जरामरणमिति तत् जरामरणस्य व्यावर्तनम् । यावदविद्यायाः इति । अतो ज्ञायते परमार्थतो न जरामरणादि । संवृत्या तूच्यते जातिप्रत्ययं जरामरणम् । इयमुच्यते मध्यमा प्रतिपत् । किञ्चोक्तं राधसूत्रे- रूपं राध यूयं विकिरत विधमत विध्वंसत विक्रीडनकं कुरुत [तृष्णा]क्षयाय [प्रतिपद्यत] तद्यथा पांस्वागारिकाः । अवस्तुत्वात् क्षयाय भाव्या इति । स्कन्धा अपि क्षयाय [भाव्याः] । परमार्थतो ऽभावात् स्कन्धवृत्तिलक्षणवृत्तिमनुसरतो नात्ममतिरत्यन्तं प्रहीयते । हेतुप्रत्ययानामनिरोधात् । यथा वृक्षः परशुना छिन्नो भस्मसात्कृतः । तथापि [तत्र] वृक्षसंज्ञामनुवर्तते । यदा तु महावाते ओपूयते जलेन वा प्रवाहितः तदा वृक्षसंज्ञा निरुध्यते । एवं यदा विध्वंसितानि विक्रीडनकं कृतानि विकीर्णानि विध्मातानि निरुद्धानि पञ्चस्कन्धलक्षणानि, तस्मिन् समये शून्यतालक्षणं सम्पन्नं भवति । यथाह सूत्रम्- राध यूयं [रूपं] विध्वंसत विक्रीडनकं कुरुत विकिरत विधमत भागशो विदलयत सत्त्वक्षयाय इति । अस्मिन् सूत्र उक्तम्- पञ्चस्कन्धा अनित्याः सत्त्वशून्याः न सन्तीति । पूर्वस्मिन् सूत्र उक्तम्- पञ्चस्कन्धा विकीर्णा निरुद्धाः ते धर्मशून्या भवन्ति इति ॥
सत्कायदृष्टिवर्गस्त्रींशत्युत्तरशततमः ।
131 अन्त[ग्रह]दृष्टिवर्गः
धर्माः समुच्छिद्यन्ते वा शाश्वता वा इति यदिदं वचनं तदन्त[ग्रह]दृष्टिरित्युच्यते । केचिदाभिधर्मिका आहुः- यदा कश्चिदाह आत्मा शाश्वतो वा अशाश्वतो वेति इयमेवान्तग्रहदृष्टिः न सर्वे धर्माः[शाश्वता वा अशाश्वता वा] इति । कस्मात् । दृष्टं खलु प्रत्यक्षं [यत्] बाह्यं वस्तु समुच्छिद्यत इति । उक्तञ्च सूत्रे- अस्तीति दर्शनं शाश्वतग्रहः । नास्तीति दर्शनमुच्छेदग्रह इति । काय एव जीव इत्युच्छेददृष्टिः । अन्यः कायो ऽन्यो जीव इति शाश्वतदृष्टिः । नास्ति कर्म परं मरणादिति उच्छेददृष्टिः । अस्ति कर्म परं मरणादिति शाश्वतदृष्टिः । अस्ति च नास्ति च कर्म परं मरणादित्यत्र यदस्तीति स शाश्वत[वादः] यन्नास्तीति स उच्छेदवादः । नैवास्ति न च नास्तीत्यप्येवम् ।
(पृ) अयं चतुर्थो ग्रहो न दृष्टिः स्यात् । (उ) लोकसत्यतो ऽपि पुद्गलरहितत्वाद्धर्माणां दृष्टिरित्युच्यते । शाश्वतो ऽशाश्वतः अन्तवाननन्तवानित्यादि चतुष्कोटिकमप्येवम् । उक्तञ्च सूत्रे- षट् स्पर्शायतनानि निरुध्यन्ते सन्त्यन्यानीति शाश्वतवादः । न सन्त्यन्यानीति उच्छेद[वाद] इति । आत्मा पूर्वमकरोत् पश्चात्करिष्यतीति यद्दर्शनं सा शाश्वतदृष्टिः आत्मा पूर्वं नाकरोत् पश्चान्न करिष्यतीतीयमुच्छेददृष्टिः । अपि चाह मिथ्यादृष्टिसूत्रम्- पुरुषस्य सप्तकायाः पृथिव्यप्तेजोवायवः सुखंदुःखं जीवितमिति । म्रियमाणस्य चत्वारि महाभूतानि तम्मूलप्रतिशरणानीन्द्रियाण्याकाशप्रतिशरणानि इति । किञ्चाह- क्षुरेण च क्रकचेन प्राणिनो हत्वा [एक]मांसपुंञ्च कुर्यात् नास्ति [ततो निदानं]पापं [नास्ति पापस्यागम] इति । इयमुच्छेददृष्टिः । ब्रह्मजालसूत्र उच्छेददृष्टिलक्षणमुक्तम् । अस्ति परलोकः यः कारकः स एव वेदक इति यद्वचनम् । इयं शाश्वतदृष्टिरित्युच्यते ।
(पृ) शाश्वतोच्छेददृष्टिः कथमुत्पद्यते । (उ) येन हेतुना भवति तथागतः परं मरणादिति वदन्ति ततो निदानं शाश्वतदृष्टिर्भवति । येन हेतुना न भवति तथागतः परं मरणादिति वदन्ति ततो निदानमुच्छेददृष्टिर्भवति । (पृ) कथमियं दृष्टिः प्रहीयते । (उ) शून्यतां सम्यग्भावयतो नास्त्यात्मदृष्टिः । असत्यामात्मदृष्टौ नास्त्यन्तद्वयम् । यथोक्तं यमकसूत्रे- नास्त्यैककस्मिन् स्कन्धे तथागतः । नास्ति समुदिते स्कन्धे तथागतः । नास्ति चान्यत्र स्कन्धात्तथागतः । एवं दृष्ट एव धर्मे [तथागतो] ऽनुपलभ्यमानः । कथं वक्तव्यं [यथा] क्षीणास्रवो ऽर्हन् कायस्य भेदा [दुच्छेत्स्यति विनंक्ष्यति] न भवति परं मरणादिति । अतो ज्ञायते नोपलभ्यते पुद्गल इति । पुद्गलस्यानुपलम्भादात्मदृष्टिः शाश्वतोच्छेददृष्टिश्च नास्ति । धर्माः प्रतित्यसमुत्पन्ना इति पश्यतो नास्त्यन्तद्वयम् । यथा पुनरुक्तम्- लोकसमुदयं पश्यतो ऽभावदृष्टिर्निरुध्यते । लोकनिरोधं पश्यतो भावदृष्टिर्निरुध्यत इति । मध्यमायां प्रतिपदि विहरतश्चान्तद्वयं निरुध्यते । कस्मात् । धर्माणां सन्तत्योत्पादं पश्यत उच्छेददृष्टि र्निरुध्यते । [तेषां] क्षणिकतां पश्यतः शाश्वतदृष्टिर्निरुध्यते । किञ्चोक्तम्- न पञ्चस्कन्धास्तथागतः । न चास्ति अन्यत्र स्कन्धात्तथागत इति । अतो ज्ञायते नोच्छेदो न शाश्वत इति । कायादन्य उपलभ्यत इत्यतो नैकः कायेन भवति । सहायं सत्त्व इत्यतो नान्यो भवति । पञ्चस्कन्धाः पुनः सन्तन्यन्त इत्यतः सत्त्वो जायते म्रियत इति वक्तमेव न प्रभवति । सन्तानेन प्रवृत्तत्वादन्य इति न वक्तुं शक्यते । सन्तानस्यैकत्वेनाभिधानात् । (sss_320) इमे स्कन्धास्ते स्कन्धाश्चान्य इत्यभिधानात् शाश्वतवादो न भवति । स्वसन्तानप्रत्ययबलेन प्रवर्तत इत्यत उच्छेदवादो न भवति ।
अन्तग्रहदृष्टिवर्ग एकत्रिंशदुत्तरशततमः ।
132 मिथ्यादृष्टिवर्गः
वस्तुतः सत्सु धर्मेषु नास्तीति चित्तोत्पादनं मिथ्यादृष्टिः । यथा वदन्ति न सन्ति चतुस्सत्यानि त्रीणि रत्नानीत्यादि । ऊक्तञ्चसूत्रे- कतमा भिक्षवो मिथ्यादृष्टिः, नास्ति दत्तं नास्तीष्टं, नास्ति हुतं, नास्तिसुकृतदुष्कृतानां फलं विपाकः । नास्त्ययं लोकः नास्ति परो लोकः, नास्ति माता नास्ति पिता, न सन्ति सत्त्वा औपपातिकाः, न सन्ति श्रमणब्राह्मणाः सम्यग्गताः सम्यक् प्रतिपन्ना य इमं लोकं परञ्च लोकं स्वयमभिज्ञाय साक्षात्कृत्य प्रवेदयन्ति- क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमित्थत्वाय इति । दत्तं [यत्] परहिताय प्रयच्छति । इष्ठं इति वेदोक्तो देवानां कृते यागः । हुतमिति देवेभ्यो घृतादिद्रव्यहोमः । सुकृतमिति त्रयाणां सुकृतकर्मणामिष्टफलप्रतिलाभः । दुष्कृतमिति त्रयाणां दुष्कृतकर्मणामनिष्टफलप्रतिलाभः । सुकृतदुष्कृतकर्मणां [फलं] विपाकः इहलोकशुभाशुभकीर्त्यादिः देवकायादयः पारलौके विपाकश्च । अयं लोक इति वर्तमानः । परलोक इति अनागतः । माता पिता जनकौ । सत्त्व औपपातिक इति अस्माल्लोकात्परलोकगन्ता । अर्हन्निति क्षीणास्रवः । यदिदं सर्वं नास्तीति सा मिथ्यादृष्टिः । सत्त्वानां संक्लेशो व्यवदानं ज्ञानदर्शनमज्ञानदर्शनम्- इदं सर्वमहेतुकम् । नास्ति बलं नास्ति वीर्यम् । नास्ति च तेषां फलमित्यादि मिथ्यादृष्टिः । संक्षिप्येदं ब्रूमः- यद्विपर्ययचित्तं सर्वं तन्मिथ्यादृष्टिः इति । तद्यथा अनित्ये नित्यसंज्ञा, दुःखे सुखसंज्ञा, अशुचौ शुचिसंज्ञा, अनात्मनि (sss_321) आत्मसंज्ञा अनुत्कृष्ट उत्कृष्टसंज्ञा, उत्कृष्टे चानुत्कृष्टसंज्ञा, व्यवदानमार्गे अव्यवदानमार्गसंज्ञा, अव्यवदानमार्गे च व्यवदानमार्गसंज्ञा, अभावे भावसंज्ञा, भावे चाभावसंज्ञा इत्येवमादीनि विपर्ययचित्तानि । अभिधर्मे याः पञ्चदृष्टयः ब्रह्मजालसूत्रे च द्वाषष्टिदृष्टयः सर्वा[स्ता] मिथ्यादृष्टयो भवति ।
मिथ्यादृष्टिः कथममुत्पद्यते । (उ) मोहादुत्पद्यते । अहेतौ हेत्वाभासे चासंक्लिष्टासक्तत्वाद्भवति । सुखहेतावासङ्गाद्वदति नास्ति दुःखमिति । भ्रष्टशून्यतामार्गत्वाद्वदन्ति नास्ति दुःखमिति । न हि दुःखवेदको ऽस्तीति । लौकिकाः पदार्था अहेतुका अप्रत्यया इति यद्वदन्ति । यदि वा वदन्ति ईश्वरादिहेतुका न तृष्णाहेतुका इति । इदं नास्ति समुदय इति । येन हेतुना वदन्ति नास्ति निर्वाणमिति । अन्यथा वा वदन्ति निर्वाणम् । इदं नास्ति निर्वाणमिति । असति निर्वाणमार्गे केन प्राप्येत । अथ वा वदन्ति अस्ति विमुक्तेर्मार्गान्तरमुपवासादिरिति । इदं नास्ति मार्ग इति । नास्ति बुद्ध इति । ते वदन्ति धर्मा अप्रमाणाः । कथमेकः पुरुषः सर्वान् जानीयात् इति । अथ वा मन्यन्ते बुद्धः पुरुषाणां पूज्यो नास्ति पुरुष इत्यतो नास्ति [स] बुद्ध इति द्रष्टव्यम् । क्लेशानां क्षयाभावान्नास्ति धर्मः । सम्यक्चर्यया तद्धर्मप्रतिलाभिनो न सन्तीत्यतो नास्ति सङ्घः । दत्तस्य दृष्टफलानुपलम्भाद्वदन्ति नास्ति दत्तमिति । उक्तञ्च सूत्रे- नास्ति दत्तम् । तदनुमानमप्यनैकान्तिकम् । लोके कश्चिद्दानाभिरतो दरिद्रो भवति । कृपणस्तु धनिक इत्यादिभिः नास्ति कारणैर्वदन्ति दत्तमिति । नास्तीष्टं नास्ति हुतमित्यप्येवम् । यद्यग्नौ प्रक्षिप्तं द्रव्यं भस्मसाद्भवति । तस्य किं फलमस्ति । नास्ति सुकृतं दुष्कृतं, नास्ति च सुकृतदुष्कृतानां [फलं] विपाकः । यदि जीवो नित्यः तदा नास्ति सुकृतं दुष्कृतम् । यदि जीवो ऽनित्यः तदा नास्ति परलोकः । नास्ति परो लोक इत्यतो नास्ति सुकृतं दुष्कृतं, नास्ति सुकृतदुष्कृतानां विपाकः, नास्त्ययं लोक इति । अवयवशः प्रविभज्यमाना धर्मा अत्यन्ताभावतां प्रतिगच्छन्ति । नास्ति परो लोक इति । मरणात्परं न भवति प्रतीत्यसमुत्पाद इत्यतो वदन्ति नास्ति परो लोक इति । नास्ति माता पिता । ते ऽप्यवयवशः प्रविभज्यमानाः प्रक्षीयन्ते । वदन्ति च गोमयमुपादाय क्रिमयो भवन्ति । न हि गोमयं क्रिमीणां पितरौ । ये मस्तकादयः शरीरावयवाः, न त एव मतापित्रोः शरीरावयवाः । धर्माणां क्षणिकत्वात् माता पिता च किं करोति । न सत्त्वा औपपातिका इति । सत्त्वधर्माभावादयं लोक एव नास्ति । किं पुन[स्तदूर्ध्व]कायं वेदयत इति ।
चेतनाख्यः सत्त्वो ऽयं किं कायात्मकः किमकायात्मकः । यदि कायात्मकः । तदा चक्षुषा परिदृश्यमानो ऽयं कायः खन्यमानो मृद्भवति । हूयमानो भस्म भवति । क्रिमिभुक्तः पुरीषं भवति । अतो नास्त्यौपपातिकः । अकायात्मक इत्ययं द्विविधो यदि चित्तात्मको यदि वा चित्तव्यतिरिक्त इति । यदि चित्तात्मकः, तदा चैत्तधर्मः । चैत्तधर्मश्च प्रतिक्षणमुत्पत्तिविनाशी, न स्थायी । किमुत परदेहं प्राप्नुयात् । यदि चित्तव्यतिरिक्तः तदा नात्ममतिः । परस्य चित्त एव नात्ममतिः, किमुताचित्तस्थाने । अतो नास्त्यौपपातिकः ।
नास्त्यर्हन्निति । स क्षुधितः सर्वान् दृष्ट्वा अन्नं प्रार्थयते । शीते सत्यौष्ण्यं प्रार्थयते । तापे शीतं प्रार्थयते । निन्दितः कुप्यति । सत्कृतस्तृप्यति । अतो नास्ति क्षीणास्रवः । सूत्रे केचिद्वदन्ति- नास्त्यर्हन्निति । इदं सूत्रमनुसृत्य सा मिथ्यादृष्टिर्भवति । संक्लेश इति । काय एव संक्लेशः । अतो वदन्त्यकारणमिति । ज्ञानदर्शनमज्ञानदर्शनमप्येवम् । नास्ति बलं नास्ति वीर्यमिति । पश्यामः खलु सर्वे सत्त्वाः प्रज्ञप्तिकारणका इति । केचिद्वदन्ति ईश्वरः [स्वातन्त्र्येण] करणीयं करोतीति । पश्यामश्च सर्वान् सत्त्वान् कर्मकारणतन्त्रान् न स्वतन्त्रान् । अतो वदन्ति नास्ति बलं नास्ति वीर्यं [नास्ति] च तत्फलमिति ।
अनित्ये नित्यसंज्ञेति । येन कारणेन क्षणिक[वादः] खण्ड्यते । तेन कारणेन शाश्वतदृष्टिरुत्पद्यते । वदन्ति च धर्मा निरुध्यमानाः पुनः परमाणवो भवन्तीति । [अन्ये] केचिद्वदन्ति मूलप्रकृतौ प्रतियन्तीति । धर्माणां विनाशे ऽपि संज्ञानुस्मरणात् सुखदुःखे वेदयते । तस्य शाश्वतदृष्टिरुत्पद्यते । आहुश्च जीवो नित्यः । शब्दो ऽपि नित्य इति । एभिः कारणैः शाश्वतदृष्टिर्भवति ।
दुःखे सुख[संज्ञे]ति । येन कारणेन वदन्ति अस्ति सुखमिति । यथा पूर्वमुक्तं त्रिवेदनावर्गे । अनेन कारणेनोत्पद्यते सुखसंज्ञा । अशुचौ शुचिसंज्ञेति । काये ऽभ्यासङ्गात् चक्षुषा अशुचि दृष्ट्वा शुचिसंज्ञामुत्पादयन्ति । केचिच्चिन्तयन्ति- आत्मा पुरुषलक्षणलब्धः । अस्य पुरुषस्य कायमशुचिं पश्यामः । अस्ति पुनः सत्त्वो येन शुचीक्रियत इति । एभिः कारणैः शुचिसंज्ञोत्पद्यते ।
अनात्मनि आत्मसंज्ञेति । स्कन्धानां सन्तानेन प्रवृत्तिं दृष्ट्वा एकलक्षणं गृह्णाति । (sss_323) तदा आत्मेति मन्यन्ते । यथा च पूर्वमुत्पन्नं सत्कायदृष्टेः कारणम् । अनेनैव कारणेनात्मसंज्ञा सम्भवति । अनुत्कृष्ट उत्कृष्टसंज्ञेति । पूरणादिषु तीर्थिकाचार्येषु उत्कृष्टसंज्ञामुत्पादयन्ति । ब्रह्मा स्वयमाह- अहमस्मि महाब्रह्मा प्रभुर्देवानां कर्ता जगत इत्येवमादि । केचिदाहुः- यदि कश्चित्पञ्चकामानां सुखवेदनासम्पन्नः अयमुत्कृष्ट धर्म इति । केचित्पुनराहुः - यदि कश्चिद्विरक्तः प्रथमध्यान[मारभ्य]यावच्चतुर्थध्यानमुपसम्पद्य विहरति अयमुत्कृष्ट धर्म इति । केचिदाहुः- लोके प्रत्यक्षदृष्टेषु ब्राह्मणाः पूज्याः । परेक्षेषु सत्त्वेषु देवाः पूज्या इति । इयमनुत्कृष्ट उत्कृष्टसंज्ञेति । उत्कृष्टे चानुत्कृष्टसंज्ञेति । सर्वेषु सत्त्वेषु बुद्धः परमपूज्यः । केचित्तस्मिन् अनुत्कृष्टसंज्ञामुत्पाद्य वदन्ति- अयं क्षत्रियः अल्पकालिकशिक्षामार्गः । बुद्धवचनञ्च न चाटुकाव्य[वत्] क्लेशगुरुकं न वेदसदृशम् । तदुत्कृष्टमिति न वदन्ति । सन्ति सङ्घे चतुष्कोटिकाः पुद्गला इत्यतो ऽनुत्कृष्टः । एवमुत्कृष्टे ऽनुत्कृष्टसंज्ञामुत्पादयन्ति ।
अव्यदानमार्गे व्यवदानमार्गसंज्ञेति । यत्केचिदाहुः- भस्मतीर्थादिस्नानैः पुरुषः शुध्यतीति । केचिदाहुः- जननमरणयोः क्षयो ऽवसानं व्यवदानमार्ग इति । शीलधारण ब्रह्मचर्यमात्र आसज्य देवपूजादयश्च [व्यवदानमार्ग आख्यायेत] ईश्वर [प्रसादेन] च विशुद्धिं लभत इति च वदन्ति । केचिदाहुः- तपश्चर्यया पूर्वतनीनकर्मक्षयो व्यवदानमार्ग इति । [केचिदाहुः]- लशुनं त्यक्त्वा दधिनवनीतादिना विशुद्धिं लभते । पुनः प्रयतः स्नात्वा ब्रह्मयज्ञपठनतदूर्ध्वभोजनं विशुद्धिमार्ग इति । एभिर्नानाविधैरसन्मार्गैर्विमुक्ति र्लभ्यते नत्वष्ठाङ्गिकविशुद्धिमार्गेणेति ।
भावे ऽभावसंज्ञेति । यत् धर्मा लोकसत्यतः सन्तो ऽपि अभाव इत्युच्यन्ते । अभावे भावसंज्ञेति यदुच्यते सन्ति द्रव्याणि अस्त्यवयवीति । सन्ति संख्यापरिमाणादयो गुणा इत्यपि वदन्ति । सामान्यलक्षणं पृथक्त्वलक्षणं समवायञ्च वदन्ति । प्रकृतिकालादयो ऽसत्पदार्थाः सन्तीति च वदन्ति । एभिः कारणैरुत्पन्नानि विपर्ययचित्तानि मिथ्यादृष्टयो भवन्ति । आसु मिथ्यादृष्टिषु विशिष्य चतस्रो दृष्टयः । अन्या य उग्रक्लेशा सा मिथ्यादृष्टिः ।
(पृ) इयं मिथ्यादृष्टिः कथं प्रहीयते । (उ) सूत्रे भगवता प्रोक्तसम्यक्दृष्ट्या प्रजहाति । (पृ) सम्यग्दृष्टिः कथमुत्पद्यते । (उ) यो दर्शनश्रवणान्वयज्ञानैः सम्यग्विनिश्चिनोति । तस्य सम्यग्दृष्टिर्भवति । सम्यक्समाधिं भावयतः सम्यग्दृष्टिरुत्पद्यते । यथाह सूत्रम्- समाहितो यथाभूतं प्रजानातीति । न विक्षिप्तचित्त [इत्यर्थः] ।
(पृ) अस्या मिथ्यादृष्टेः के दोषाः । (उ) सर्वे दोषा विपत्तिव्यसनानि च मिथ्यादृष्ट्या भवन्ति । स आह- नास्ति पापं नास्ति पुण्यं सुकृतदुष्कृतानां फलं विपाक इति । अतो दृष्टधर्म एव न सन्ति सुवृत्तानि । किं पुनरनागतानि । एवं दूषितसुकृतदुष्कृतः पुमान् समुच्छिन्नकुशलमूल इत्युच्यते । स नियतमवीचौ पतिष्यति । यथोक्तं षट्पादाभिधर्मे- क्रिमिपिपीलिकाहननं पुरुषहननाद् गुरुतरम् इति । स मिथ्यादृष्टिकः पुरुषः लोकदूषकः सत्वानां भूयसापकाराय प्रवर्तते । यथा विषवृक्षो हिंसायै प्ररोहति । तेन कृतं कायिकं वाचिकं मानसं कर्म सर्वमशुभविपाकाय भवति । यथोक्तं सूत्रे- मिथ्यादृष्टिकस्य [भिक्षवः] पुरुषपुद्गलस्य यत्कायकर्म यथादृष्टिसमात्तं समादत्तं यच्च वाक्कर्म........यच्च मनःकर्म या चेतना या प्रार्थना यः प्रणिधिः ये च संस्काराः सर्वे ते ऽनिष्टाय अकान्ताय अमनापाय अहिताय दुःखाय संवर्तते । तद्यथा तिक्तकालाबुबीजं कोषातकीबीजं पिचुमन्दबीजमाद्रायां पृथिव्यां निक्षिप्तं यच्चैव पृथिवीरसमुपादीयते यच्चापोरसं तेजोरसं वायुरसमुपादीयते सर्वं तत् तिक्तकत्वाय कटुकत्वाय असातत्वाय संवर्तते । [तत्कस्य हेतोः] बीजं हि भिक्षवः पापकम् । एवमेव मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य चित्तचैतसिका धर्मा अनिष्टाय [अकान्ताय (sss_325) अमनापाय अहिताय दुःखाय] संवर्तते । [तत्कस्य हेतोः] दृष्टिर्हि भिक्षवः पापिका इति । अतस्तस्य पुरुषपुद्गलस्य कृतमपि दानादि नेष्टफलं भवति । पूर्वकृतमिथ्यादृष्टिचित्तेन विनष्टत्वात् । तत्कृतस्याशुभमेवाधिमात्रं भवति । पापकचित्तस्य चिरसञ्चितत्वात् ।
संवरेण च कश्चिदसद्धर्मं प्रतिरोद्धुं शक्नोति । अस्य पुरुषपुद्गलस्य नास्ति सुकृतं दुष्कृतमित्यतो न यतः कुतश्चित्प्रतिविरतिः । अत्यन्तप्रमत्तो ऽसद्धर्म चरति । ह्र्यपत्रपाख्यद्विविधशुक्लधर्मसभिन्नः पशुसमो भवति । यश्च वदति नास्ति सुकृतं दुष्कृतं वेति स सदा चित्ते ऽकुशलमेव काङ्क्षते । तस्य सद्धर्मसमादापनकारणमेव नास्ति । कस्मात् न हि स सज्जनमुपगच्छति । ना[पि] सद्धर्मं शृणोति । तस्य दुष्कृतचित्तं सूत्थानं भवति । सुकृतचित्तं दुरुत्पादम् । दुष्कृतस्य सूत्थानत्वात्सुकृतस्य कारणमेव नास्ति । एवं क्रमेण दुष्कृतोपचये समुच्छिन्नकुशलमूलो भवति ।
मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य दुस्थानगत इत्याख्या । यथा नारकाः सत्त्वा न मार्गप्रतिलाभप्रवणाः । तथा च पुद्गलो मध्यमदेश उत्पन्न इष्टानिष्टविवेकाय षडिन्द्रियसम्पन्नो ऽपि न मार्गप्रतिलाभप्रवणो भवति । मिथ्यादृष्टिकस्य नास्ति [यत्किञ्चित्] दुष्कृतमकुटम् । नास्ति विरतिर्लघोरल्पाद्वा [दुष्कृतात्] । अल्पमप्यकुशलं कुर्वन् नरके पतति । कर्मणो ऽस्य गुरुपापकचित्तेन समुत्पन्नत्वात् । यथा कर्मवर्गे नरकविमोचकं कर्म इत्यनेन कारणेन तत्पुरुषकृतं सर्वं नरकाय संवर्तते । न च स पापकमकुशलं कर्म क्षपयति । अकुशलधर्मस्य सदा चित्तगतत्वात् । दुर्लभा च तस्योत्तरोत्तरान्नरकाद्विमुक्तिः । कस्मात् । समुच्छिन्नकुशलमूलस्य हि यदा कुशलं न प्रवर्तते तदनन्तरं नरकान्नैव विमुक्तिः । चित्ते मिथ्यादृष्टिकत्वात् तस्य कुशलमूलं कथं प्रवर्तेत । मिथ्यादृष्टिकः पुद्गलो ऽचिकित्स्यः तद्यथा समुपस्थितमरणनिमित्तो रोगी । चिकित्सकः सन्नपि न चिकित्सितुं शक्नोति । एवमयमपि । अन्यकुशलरहितत्वाद्यावद् बुद्धा अपि न चिकित्सन्ते । अतो ऽवश्यमवीच्यां पतति ॥
मिथ्यादृष्टिवर्गो द्वात्रिंशदुत्तरशततमः ।
133 परामर्शद्वयवर्गः
अभूतवस्तुनि इदमेव सत्यमन्यन्मिथ्येति वचनं दृष्टिपरामर्श इत्युच्यते । पूर्वोक्ते ऽनुत्कृष्टधर्म उत्कृष्टसंज्ञाविनिश्चयो ऽपि दृष्टिपरामर्शः ।
(पृ) दृष्टिपरामर्शस्य के दोषाः । (उ) स पुरुषो न्यूनगुणं लब्ध्वा आत्मानं पूर्णं मन्यते । तस्य गुणञ्चातिवक्ति । कस्मात् । अकुशले वस्तुनि अत्यन्तकुशलसंज्ञामुत्पाद्य वीर्यमारभते । तेन हेतुना च पश्चात्परितपति । विदुषां परिहास्यश्च भवति । अनुत्कृष्टे उत्कृष्टसंज्ञायाः कृतत्वात् । यो ऽनुत्कृष्टमुत्कृष्टं वदति स बालो मूढसंज्ञः । यथान्धो घटशकले सुवर्णसंज्ञामुत्पाद्य चक्षुष्मतां लघु हास्यो भवति । दृष्टिपरामर्शस्येदृशा दोषाः ।
यत् कश्चित् बोधिमुपेक्षमाणः स्नानादिशीलेन विशुद्धिप्राप्तिं काङ्क्षते तत् शीलव्रतपरामर्श इत्युच्यते । (पृ) ननु शीलेन न विशुद्धिलाभः । (उ) प्रज्ञयैव विशुद्धिलाभः । शीलन्तु प्रज्ञेन्द्रियस्य मूलम् । (पृ) के दोषाः शीलव्रतपरामर्शस्य । (उ) ये दोषा उक्ता दृष्टिपरामर्शस्य "न्यूनं वस्तु [लब्ध्वा] सम्पूर्णं मन्यते इत्यादिना त एव दोषाः । शीलव्रतपरामर्शप्रत्ययमत्यधिकं दुःखान्यनुभवति । यदुत शीतोष्णवेदना, भस्मभूमितरुकण्टकादिषु शयनं जलह्रदाग्निप्रवेशो भृगुपतनमित्यादि । परलोके ऽपि अतिमात्रदुःखविपाकः । यथोक्तं सूत्रे- गोव्रतिकः संसिद्ध[व्रत]ः [कायस्य भेदात्परं मरणात्] गवां सहव्यतामुपपद्यते । असंसिद्धो नरके पतति इति । स तमसः तमः प्रविशति । यतस्तं धर्मं समाददानो दृष्टधर्मे दुःखमनुभवति । ऊर्ध्वमपि दुःखम् । स गुरुतरं पापञ्च विन्दते । कस्मात् । अधर्मं धर्मं मत्वा सद्धर्मं विनाशयति । सद्धर्मचर्यापबादकश्च बहून् सत्त्वान् नरके पातयति । सुविशुद्धधर्मस्य पृष्ठीकृतत्वात् । सञ्चितमहापापो ऽवश्यमवीचिनरके विपाकमनुभवति ।
[अतो] अनाचाराद्विरम । मा चर मिथ्यामार्गम् । कस्मात् य आदितो नाचरति तस्य मार्गचरणं सुकरम् । मिथ्याचारपराहतचित्तस्य तु दुष्करो मार्गप्रवेशः । शत्रुरपि (sss_327) न तथा पुद्गलं ग्लपयति यथा मिथ्यादृष्टिः । कस्मात् । न हि शत्रुस्तथा पुद्गलं परिभावयति यथा मिथ्यादृष्टयनुगामिनां तीर्थिकाचरितानां नानादुःशीलानां नग्नतानिर्लज्जताभस्मरजःकायताकेशोल्लुञ्च्छनादीनां समादानम् । मिथ्यादृष्टिकः सर्वस्माल्लौकिकहितकामात् भ्रश्यति । दृष्टधर्मे पञ्चकामगुणेभ्यो भ्रश्यति । तदूर्ध्वं सुगतिसुखान्निर्वाणाच्च भ्रश्यति । सुखं प्रार्थयित्वा दुःखं लभमानो विमुक्तिं प्रार्थयित्वा बन्धं लभमानः पुरुषः किं न मत्तः । तत् कस्मात् । [य] एकेनान्नदानप्रत्ययेन स्वर्गे जन्मलाभार्हो भवति । तस्य पुरुषस्य मिथ्याचारचारित्वात् दानाय कायजीविते सत्यपि न किञ्चन हितं भवति ॥
परामर्शद्वयवर्गस्त्रयस्तिंशदुत्तरशततमः ।
134 उपक्लेशवर्गः
गुरुचित्तस्य स्वापकामता मिद्धम् । चित्तसमाधानाय प्रबोधविरतिः स्वापः । विषयेषु विक्षिप्तचित्तता औद्धत्यम् । चित्ताकांक्षिते दौर्मनस्यबन्धः कौकृत्यम् । तद्यथा कृतमकर्तव्यमकृतञ्च कर्तव्यमिति । कुशलकुहनकुटिलचित्तं माया । मायाचित्तवृत्तिनिर्वर्तनं शाठ्यम् । स्वकृताकुशलस्याह्रेपणमाह्रीक्यम् । सङ्घे कृताकुशलस्याह्रेपणमनपत्राप्यम् । अकुशलानुगं चित्तं प्रमादः । यदसन्तं गुणं ख्यापयति तेन जना वदन्ति अस्तीति । [सा] कुहना । लाभसत्कारायाद्भुतं प्रख्याप्य परेषां मनःप्रह्लादिनी वाक् लपना । परद्रव्यलिप्सया तल्लिप्सामुपगूह्य वदति इदं वस्तु सुन्दरमित्यादि । तन्नैमित्तिकता । यदेतत्पुरुषनिन्दायै अन्यं स्तौति- तव पिता व्यवसायी त्वन्तु नेति । [तत्] निष्पेषिकता । यत् दानेन दानं प्रार्थयमानो वदति- इदं दानवस्तु अमुकात्पत्यन्ताल्लब्धमित्यादि । (sss_328) तत् लाभेन लाभजिगृक्षा । यत् पुरुषस्य निद्राव्याधौ निरतिः सा तन्द्रीत्युच्यते । या मार्गचर्याकारणसुदेशसंपत्तावपि सदोत्कण्ठितता [सा] अरतिरित्युच्यते । यत् पुरुषस्य कायस्य जृम्भणा अदमनं स्त्यानमिद्धस्य प्रत्ययः सा विजृम्भिका । य आहारे बह्वल्पतादमनानभिज्ञः । [स] आदितो ऽदम इत्युच्यते । यो नातिमात्रव्यवसायी भवति । [स] विवर्त्यचित्त इत्युच्यते । यो महामात्राणां वचनं न सत्करोति न बिभेति । सो ऽबहुमानीत्युच्यते । अकुशलरुचिकः पुरुषः पापमित्र इत्युच्यते । इत्यादय उपक्लेशाः । क्लेशेभ्य उत्पन्नत्वात् ॥
उपक्लेशवर्गश्चतुस्त्रिंदुत्तरशततमः ।
135 अकुशलमूलवर्गः
त्रीण्यकुशलमूलानि यदुत लोभद्वेषमोहाः । (पृ) मदमानाद्यपि अकुशलमूलं स्यात् । कस्मात्तीण्येवोक्तानि । (उ) सर्वे ऽपि क्लेशा स्त्रयाणां क्लेशानामङ्गान्येव । मानादिकं मोहाङ्गम् । अतो न पृथगुच्यते । त्रयः क्लेशा सावानां चेतसि भूयसा वर्तन्ते । न मानादि । सर्वेषामवीतरागाणां मशकपिपीलिकापर्यन्तानामिमे त्रयः क्लेशा एव चित्तवर्तिनः । नैवं मदमानादिः । रागे सति द्वेषो ऽकुशलमूलं भवति । अनुरक्तस्य विरोधे द्वेषो ऽनुप्रवर्तते । मोहस्तु द्वयोर्मूलम् । कस्मात् । यस्य नास्ति मोहः न तस्य रागद्वेषौ । यथोक्तं सूत्रे- दशाकुशलकर्माणि त्रिविधानि लोभद्वेषमोहजानीति । न तूक्तं मानादिजानीति । सन्ति च तिस्र एव वेदना न पुनरस्ति चतुर्थी । आसु तिसृषु वेदनासु त्रयः क्लेशा अनुशया भवन्ति । यद्यस्ति पृथङ् मानादिः । कस्यां वेदनायामनुशयः स्यात् । तद्वस्तुतो नाभिधातुं शक्यते । [इति] ज्ञातव्यं तानि त्रीण्येव क्लेशमूलानीति ।
(पृ) कस्मात्सुखवेदनायां रागो ऽनुशयः । (उ) प्रत्यक्षं हि तत्र तस्योत्पत्तिः । यथोक्तं सूत्रे- सुखवेदनीयस्पर्शं लभमानस्य भवति प्रीतिः । दुःखवेदनीयस्पर्शं लभमानस्य भवति अप्रीतिः । तस्य वेदनानामुदयव्ययास्वादादीनवनिस्सरणानां यथाभूताप्रज्ञानात् । इति । अदुःखासुखवेदनायामविद्यानुशयः । कस्मात् । नह्ययमारूप्यधात्वाप्तानां स्कन्धानां सन्तानं यथाभूतं प्रजानाति । तदा [खल्वस्य] तत्र भवति निर्वाणसंज्ञा वा विमुक्तिसंज्ञा वा अदुःखासुखसंज्ञा वा आत्मसंज्ञा वा । अत उक्तं- अदुःखासुखवेदनायां मोहो ऽनुशयो भवतीति ।
(पृ) अनुशयाः किं धर्मे ऽनुशेरते कि वा सत्त्वे ऽनुशेरते । (उ) धर्मानुपादाय सत्त्वबुद्धिर्भवति । सत्त्वबुद्धिमनुसृत्य वेदना वेद्यन्ते । वेदना अनुसृत्य लोभादयः क्लेशानुशयाः । अतो ज्ञायते धर्मानुपादायोत्पन्नो ऽनुशयः सत्त्वे ऽनुशेत इति । कस्मात् तत् ज्ञायते । यस्य सत्त्वस्याप्रहीणः सो ऽनुशयः तस्य सो ऽनुशयो ऽनुशेते । यस्य तु प्रहीणः न तस्यानुशेते ऽनुशयः । यदि धर्मे ऽनुशयो ऽस्ति । धर्माणां नित्यसत्त्वादनुशया नित्यानुशयाः स्युः । नित्यस्याप्रहातव्यत्वात् । असत्त्वसंख्यातो ऽपि सानुशयः स्यात् । तथा चेत् पुरुषस्यानुशयो ऽस्तीति भित्त्यादिरनुशयवान् स्यात् । पुरुषस्य विज्ञानमस्तीति भित्त्यादिरपि विज्ञानवान् स्यात् । नेदं वस्तुतो ऽस्ति । तथार्हन्न स्यात् । अन्येषां पुरुषपुद्गलानामनुशयो ऽस्तीति [सो] ऽनुशयवान्[स्यात्] ।
(पृ) अयमनुशयः अप्रहीणः सन् अनुशेते । प्रहीणस्सन्नानुशेते । (उ) द्विधानुशयो ऽनुशेते । (1) आलम्बनतोनुशयनम् (2) सम्प्रयोगतो ऽनुशयनमिति । अयमनुशयो यदि प्रहीणो यदि वाप्रहीणः स आलम्बनतः संप्रयोगतश्च । कस्मादुच्यते प्रहीणः सन् नानुशेत इति । तथा चेत् तृतीयानुशयनलक्षणं वक्तव्यम् । अनभिधानात् ज्ञातव्यं नास्तीति । अनुशयो भूम्यन्तरालम्बनो नानुशेते । अतो ज्ञायते सत्त्वमात्रे ऽनुशयो न धर्म इति ।
(पृ) द्विधानुशयो ऽनुशेत (1) आलम्बनतो ऽनुशयः (2) सम्प्रयोगतो ऽनुशय इति । एषां सत्त्वानामनुशया नालम्बनतो न सम्प्रयोगतः । कथं भविष्यत्यनुशयः । (sss_330) (उ) प्रत्युक्तपूर्वमिदम्- अनुशया धर्ममुपादायोत्पन्नाः सत्त्वे ऽनुशेरत इति । यथोक्तमभिधर्मकाये- कामधातुकसत्त्वानां कत्यनुशया इत्यादि । यदि सत्त्वेषु नानुशयीरन् । कथमेतादृशः प्रश्नः स्यात् ।
(पृ) यद्यनुशयः सत्त्वे ऽनुशेते । सुखायां वेदनायां रागो ऽनुशय इति सूत्रोक्तं विरुध्येत । (उ) नेदं पार्यन्तिकं वचनम् । वक्तव्यं खलु सुखायां वेदनायां समुत्पन्नो रागः सत्त्वे ऽनुशेत इति । (पृ) स रागो रूपादीनुपादायापि भवति । कुतो ऽत्रोच्यते केवलं सुखवेदनामुपादाय भवतीति । (उ) संज्ञानुस्मरणविकल्पप्रीत्यादिना राग उत्पद्यते न तु रूपादिमात्रात् । (पृ) दुःखवेदनामुपादायापि रागो भवति । यथा वदन्ति- सुखी न प्रार्थयते दुःखी तु बहु प्रार्थयते । कस्मात्केवलमुक्तं सुखवेदनातो भवतीति । (उ) न दुःखवेदनया राग उत्पद्यते । दुःखस्य पीडनात्मकत्वात् पुरुषस्य सुखायां वेदनायामेव राग उत्पद्यते ।
(पृ) अदुःखासुखायां वेदनायामपि रागानुशयो ऽनुशेते । कस्मादुक्तं केवलं सुखायां वेदनायामिति । (उ) अदुःखासुखवेदनाः सुख[रूप]त्वात् [तत्र] पुरुषस्य राग उत्पद्यते । अत उच्यते सुखायां वेदनायां रागानुशय इति । तासु त्रिषु वेदनासु त्रयः क्लेशा अनुशया इत्यतस्त्रय एवोच्यन्ते ॥
अकुशलमूलवर्गः पञ्चत्रिंशदुत्तरशततमः ।
136 सङ्कीर्णक्लेशवर्गः
(पृ) सूत्र उक्तम्- त्रय आस्रवाः- कामास्रवो भवास्रवो ऽविद्यास्रव इति । कतमे इमे । (उ) कामधातावविद्यां वर्जयित्वा अन्ये सर्वे क्लेशाः कामास्रवा इत्युच्यन्ते । एवं रुपारूप्यधात्वोर्भवास्रवः । त्रैधातुकी चाविद्या अविद्यास्रवः ।
(पृ) आस्रवाः कथं वर्धन्ते । (उ) उत्तमाधमध्यमधर्मैः क्रमशो वर्धन्ते । रूपादिविशिष्टालम्बनलाभाच्च वर्धन्ते । (पृ) इमे त्रय आस्रवाः; कथं वदन्ति सप्तास्रवा इति । (उ) वस्तुत आस्रवा द्विविधाः सत्यदर्शनहेया [ये] आस्रवाणां मूलभूताः । भावनाहेया [ये] आस्रवाणां फलभूताः । पञ्चभिरारास्रवसहकारिभिः प्रत्ययै मिलित्वा सप्त भवन्ति । ते क्लेशा एव । भगवानर्थत आह- त्रय आस्रवाः, चत्वार ओघाः, चत्वारो बन्धाः, चत्वार्युपादानानि, चत्वारो ग्रन्था इत्यादि ।
(पृ) चत्वार ओघाः कामौघो भवौघो दृष्ट्योधो ऽविद्यौघ इति । कतम इमे । (उ) दृष्टिमविद्याञ्च वर्जयित्वा तदन्ये कामधातुकक्लेशाः सर्वे कामौघ इत्युच्यते । रूपारूप्यधातुकभबौघो ऽप्येवम् । सर्वा दृष्टयो दृष्टयौघः । अविद्या अविद्यौघः । (पृ) ओघेषु कस्मात् दृष्ट्यौघः पृथगुच्यते । नास्रवेषु । (उ) तीर्थिका बहवो दृष्टिवाहिताः । अत ओघेषु पृथगुच्यते । च्युतिं बहतीति ओघः । त्रीन् भवान् बध्नातीति बन्धः ।
(पृ) चत्वार्युपादानानि- कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मवादोपादानमिति । कतमानीमानि । (उ) आत्मनो ऽभावात् तद्वादोपादानमात्मवादोपादानम् । अस्त्यात्मेति पश्यतो ऽन्तद्वयं भवति- अयमात्मा नित्यो ऽनित्योवेति । अनित्य इत्यवधारयन् पञ्चकामगुणानुपादत्ते । नास्ति परलोक इति दृष्टसुख आसज्यते । नित्य इत्यवधारयन् मन्देन्द्रियः पारलौकिकसुखमाकांक्षमाणः शीलव्रतमुपादत्ते । किञ्चित्तीक्ष्णेन्द्रिय एवं चिन्तयति- यदि जीवो नित्यः तदा अदुःखसुखविकारः, तदा पुण्यपापाभावादिति मिथ्यादृष्टिमुत्पादयति । एवमात्मवादमुपादायैव चत्वार्युपादानानि भवन्ति ।
(पृ) चत्वारो ग्रन्थाः अभिध्याकायग्रन्थो व्यापादः कायग्रन्थः शीलव्रतपरामर्शः कायग्रन्थः इदं सत्याभिनिवेशः कायग्रन्थ इति । कतम इमे । (उ) परद्रव्याभिध्यया अन्यस्मिन्नददति द्वेषबुद्धिमुत्पादयति, कशाशस्त्रादिना [गृह्णाति] । गृहस्थानामिदं विग्रहमूलम्, सुखान्तनुवर्तनमित्युच्यते । यः शीलव्रतपरामर्शकः कामयते अनेन शीलव्रतेन विशुद्धिं लभेय इति । तस्येदमेव तथ्यमन्यन्मिथ्येति दृष्टिर्भवति । इदं प्रव्रजितानां विवादमूलं, दुःखान्तानुवर्तनमित्युच्यते । पञ्च स्कन्धाः काय इत्युच्यन्ते । चत्वार इमे ग्रन्था अवश्यं कायवाङ्मया इति कायग्रन्थ इत्युच्यन्ते । केचिदाहुः- चत्वार इमे धर्मा जननमरणे सङ्ग्र ऽथ्नन्तीति ग्रन्थाः ।
(पृ) पञ्च नीवरणानि- कामच्छन्दो व्यापादः स्त्यानमिद्धं औद्धत्यकुकृत्यं विचिकित्सा चेति । कतमानीमानि । (उ) पुरुषस्य कामेषु अभिनिवेशाद्व्यापादो ऽनुवर्तते । यथोक्तं सूत्रे- तृष्णात उत्पद्यते व्यापादः । ईर्ष्यादयः क्लेशाः कशाशस्त्रादिदुश्चरितानि च कामच्छन्दादुत्पद्यन्ते इति । पुरुषो ऽयं कायचित्तयो रागद्वेषपरिक्षिप्यमाणयोर्बहुव्यापारैः (sss_332) परिच्छिन्नयोश्च स्त्यानमिद्धमिच्छति । स्त्यानमिद्धेन किञ्चिद्विश्रम्य पुना रागद्वेषविक्षिप्तचित्तो न ध्यानसमाधिं लभते । चित्तस्य बाह्यालम्बनानुवर्तनादौद्धत्यं भवति । अशुद्धकर्मकस्य पुरुषस्य चित्ते सदा दौर्मनस्यकौकृत्यं भवति । विक्षिप्तचित्तत्वात्कौकृत्यचित्तत्वाच्च सदा विचिकित्सते- विमुक्तिरस्ति नवेति । यथा राजकुमारो ऽचिरवतं श्रमणोद्देशमवोचत् ।
(पृ) कस्मान्नीवरणमित्याख्या । (उ) कामच्छन्दो व्यापादश्च शीलस्कन्धं निवृणुतः । औद्धत्यकुकृत्यं समाधिस्कन्धं निवृणोति । स्थानमित्थं प्रज्ञास्कन्धम् । केचित् तेषां नीवरणानां वर्जनाय वदन्ति- इदं कुशलमिदमकुशलमिति । स तत्र विचिकित्सते किमस्ति किं वा नास्तीति । सा विचिकित्सा सिद्धा स्कन्धत्रयं निवृणोति । एषु पञ्चसु नीवरणेषु त्रीणि दृढबलानीति केवलं नीवरणमित्युच्यन्ते । अन्ये द्वे नीवरणे तनुबले इति द्वौ धर्मौ सांसर्गिकौ । इमे द्वे नीवरणे जननकारणसहिते इत्यतः सांसर्गिके इत्युच्येत । स्त्यानमिद्धस्य पञ्चधर्माः प्रत्यया यदुत चाञ्चल्यमरतिर्विजृम्भिका, आहारे ऽमात्रता चेतसो ऽवलीनता इति । औद्धत्यकौकृत्यस्य चत्वारो धर्माः प्रत्ययाः- ज्ञातिवितर्को जनपदःवितर्को ऽमरणवितर्कः, पूर्वतनीनक्रीडितसुखितालापितहसितानुस्मरणमिति । इमानि जननकारणानि । प्रतिपक्षो ऽपि समानः । स्त्यानमिद्धस्य प्रज्ञा प्रतिपक्षः । औद्धत्यकुकृत्यस्य समाधिः प्रतिपक्षः । निवारणमपि समानम् । इमे द्वे सांसर्गिके नीवरणे । इमे पञ्चधर्मा नीवरणानि वा भवन्ति । अनीवरणानि वा भवन्ति । कामधात्वाप्ता अकुशला नीवरणानि । अन्यात्रानीवरणानि ।
पञ्चावरभागीयेषु संयोजनेषु कामच्छन्दो व्यापादः शीलब्रतपरामर्शः अवरगमनार्थत्वादवरभागीयानि । तद्यथा गोव्रतिकः संसिद्धः कायस्य भेदात्परं मरणात् (sss_333) गवां सहव्यतामुपपद्यते । असंसिद्धो नरके पतति । विचिकित्सा वैराग्यस्य विघ्नभूता । सत्कायदृष्टिश्चतुर्णां मूलम् । इतीमानि पञ्च । कामच्छन्दव्यापादौ कामधातोर्नातिवर्तेते । सत्कायदृष्टिरात्मबुद्धेर्नातिवर्तते । शीलव्रतपरामर्शो ऽवरधर्मान्नातिवर्तते । विचिकित्सा पृथग्जनत्वान्नातिवर्तते । कामच्छन्दव्यापादौ कामधातुं नातिक्रामतः । अतिक्रमे पुनराक्षिप्यते । अन्यानि त्रीणि पृथग्जनत्वं नातिक्रामन्ति । अत उच्यन्ते ऽवरभागीयानीति ।
पञ्चोर्ध्वभागीयानि [औद्धत्यं मानो ऽविद्या रूपरागः अरूपरागः ।] औद्धत्यस्य ध्यानसमाधिविधातित्वान्न चित्तमुपशाम्यति । इदमौद्धत्यस्य निमित्तग्रहानुवर्तनान्मानः प्रवर्तते । निमित्तग्राहि चित्तमिदमविद्यासम्भूतमित्यतो रूपरागो ऽरूपरागश्च स्तः । तानि पञ्च संयोजनानि शैक्षजनानामूर्ध्वसमुदाचरणार्थत्वादूर्ध्वभागीयानीत्युच्यन्ते । तानि शैक्षजनानां चित्त उच्यन्ते न पृथग्जनानाम् । (पृ) औद्धत्यं कस्मात् रूपारूप्यधातुकं संयोजनं न कामधातुकम् । (उ) तत्र स्थूलक्लेशाभावादौद्धत्यं व्यक्तं भवति । तदौद्धत्यं समाधिभङ्गे बलवदित्यतः संयोजनमित्युच्यते । तदूर्ध्वभागीयं समुच्छेदयतो विमुक्तिर्लभ्यते । केषाञ्चित् रूपे आरूप्ये च विमुक्तिसंज्ञा भवति । तत्प्रतिषेधायोच्यते सन्त्यूर्ध्वभागीयानि संयोजनानीति ।
पञ्च मात्सर्याणि- आवासमात्सर्यं, कुलमात्सर्यं, लाभमात्सर्यं, वर्णमात्सर्यं धर्ममात्सर्यमिति । [तत्र] आवासमात्सर्यम्- अहमेव अत्र वसामीति नान्यान् प्रयोजयति । कुलमात्सर्यम्- कुलमिदमहमेव प्रविशामीति नान्यान् प्रयोजयति । सत्स्वप्यन्येषु अहमेवोत्कृष्ट इति । लाभमात्सर्यमिति- अहमेवात्र दानं लप्स्य मान्येभ्यः प्रयच्छतु इति । अन्ये सन्त्यो ऽपि मा मामतिक्रामन्तु । वर्णमात्सर्यम्- मामेव वर्णय, मान्यान् । अन्यान् वर्णयन्नपि मा मामतिरिच्यतु इति । धर्ममात्सर्यम्- अहमेव द्वादशाङ्गप्रवचनार्थं जानामि । गभीरमर्थरहस्यं जानन्नपि न प्रवदामीति ।
(पृ) पञ्च मात्सर्याणां के दोषाः । (उ) इम आवासादयो बहूनां पुरुषाणां साधारणाः । अयन्तु स्वकुलं त्यक्त्वा साधारणभूतेषु मात्सर्यमुत्पादयति । इत्ययं दोषक्लेशः । स विमुक्तेर्नैव भागी भवति । कस्मात् । स साधारणभूतान् धर्मानेव न त्यजति । कः पुनर्वादः (sss_334) स्वीयान् पञ्च स्कन्धान् त्यजतीति । स च प्रेतादीनां दुरुपपत्त्यायतनेषु पतति । लाभनिवृत्तचित्तस्य मान उत्पद्यते । सज्जनानन्यान् लघूकृत्य नरके पतति । अन्येभ्यो दानभङ्गान्मनुष्यदेहं लाभमानो दरिद्रो भवति । मात्सर्यचित्तेन दातर्गुणं प्रतिग्रहीतुर्देयञ्च समुच्छेदयतीत्यतो गुरुतरं पापं लभते । धर्ममत्सरो ऽन्धादिपापभाग्भवति । तद्यथा जात्यन्धस्य सपत्नबहुलानाञ्च जन्म न स्वातन्त्रयप्रापकम् । आर्यगर्भाच्च परिहीयते । त्रिषु अध्वसु दशसु दिक्षु [गतानां] बुद्धानां शत्रुः सन् संसारे संसरन् सदा मूढो भवति । सज्जनान् दूरीकरोति । सज्जनदूरीकरणादकुशलं विना न वर्तते । अकुशलं त्रिविधम्- अकुशलाकुशलं महाकुशलं अकुशलमध्याकुशलमिति । अकुशलं प्राणातिपातादत्तादानादि । महाकुशलं यदात्महननं, परस्त्यात्महननसमादापनं, स्वयं मात्सर्य[करणं] परस्य मात्सर्यसमादापनम् । स धर्ममात्सर्येण बहून् पुरुषानुकुशले पातयति । बुद्धधर्ममार्गञ्च क्षपयति । यथोक्तं सूत्रे- सन्त्यावासमात्सर्यस्य पञ्च दोषाः- अनागतस्य सुभिक्षोरागमनाय नेच्छति । आगतं पुनस्तर्जयन्न तृप्यति । गमनायानुचिन्तयति । सङ्घदेयं गोपयति । सङ्घदेयेषु आत्मीयबुद्धिं करोति । कुलमात्सर्यस्य पञ्च दोषाः- कुलाभिनिवेशादवदातवसनैस्तुल्यसुखदुःखो भवति ।
धनायावदातवसनं प्रजहाति । प्रतिग्रहीतुर्दानं लभते । तदुभयप्रहाणात्तस्मिन् कुले वर्चः कुट्यां भूतत्वायोत्पद्यते । लाभमात्सर्यस्य पञ्च दोषाः- सदा सम्भारसम्भवाय क्लमति । द्वयोर्भेदेन लाभी भवति । सज्जनान् निन्दति सदा दौर्मनस्यचित्तः । वर्णमात्सर्यस्य पञ्च दोषाः- अन्येषां वर्णं श्रुत्वा व्याकुलकषायचित्तो भवति । शतसहस्रेषु लोकेषु अशुद्धचित्तः सज्जनानधिक्षिपति । आत्मोन्नत्या परानवनमति । दुर्यशो ऽन्तर्धापयति इति । सर्वेषां मात्सर्याणां सामान्यत इमे दोषाः सन्ति- प्रभूतधनसञ्चयः । परिषद्भीरुता, बहुजनविद्वेषिता, सदा व्याकुलचित्तता, आत्मनः सदैकाकिता, अवरकुले जन्म इत्येवमादयो ऽप्रमाणाः पञ्चमात्सर्याणां दोषाः ।
पञ्च चेतः खिलाः- [इहायुष्मन्तो भिक्षुः] शास्तरि विचिकित्सते, धर्मे विचिकित्सते, शीले विचिकित्सते, शिक्षायां विचिकित्सते । यो भिक्षुः शास्तुर्महापुरुषाणाञ्च (sss_335) वर्णवादी, तस्मिन् जने अनात्तमना आहतचित्तो भवति । अयं पञ्चमः । शास्तरि विचिकित्सक एवं चिन्तयति- किं शास्ता महान्, किं वा पूरणादयः इति । धर्मे विचिकित्सक [एवं चिन्तयति] किं शास्तुः प्रवचनमुत्कृष्टमुत वेदस्येति । शीले विचिकित्सते किं शास्तृप्रोक्तं प्रवचनमुत्कृष्टं, किं वा कुक्कटश्वादिव्रतमिति । शिक्षायां विचिकित्सते किं मानपानादि धर्मो निर्वाणं गमयति उत नेति । अनात्तमना आहत [चित्तो] व्यापादबुद्ध्या भयगौरवचित्तं विना सज्जनान् गर्हयति । एभिः पञ्चभिः धर्मैर्विप्रलुप्तचित्तो, न नानाकुशलेन्द्रियाण्यवष्टम्भयति । अतश्चेतः खिल इत्युच्यते ।
(पृ) कस्माच्छास्त्रादौ विचिकित्सते । (उ) सो ऽबहुश्रतत्वाद्विचिकित्सते । बहुश्रुतस्य तु विचिकित्सा आल्पीयसी भवति । स च बालो मूढो ऽज्ञो न तथागतधर्मान्यधर्मयोर्विवेकं प्रजानाति । अतो विचिकित्सते । धर्मे च नास्वादं लभते । अतश्च । विचिकित्सते । न च वेददीन् ग्रन्थान् शृणोति अध्येति वा । जनैर्वर्णितं श्रुत्वा उत्कृष्टचित्तमुत्पादयति । अध्वन्यध्वनि बहुलमिथ्याविचिकित्सः सदा कलुषितचित्ततया शास्त्रादौ विचिकित्सते । यथा शास्तुरुपस्थायकः सुनक्षत्रः । स च मिथ्यादृष्टिबहुलैः पुरुषैः समानकृत्यतया विचिकित्सते । किञ्च वेदव्याकरणादीनि मिथ्यादृष्टिसूत्राण्यधीयानः परिभिन्नसम्यक्प्रज्ञो भवति इत्यतो विचिकित्सते । धर्माणां [यथाश्रुते] ऽर्थे प्रीतः कुस्मृतिं जनयन् न सूत्रकृदाशयं लब्धुं शक्नोति । अतो विचिकित्सते सर्वदा स्वहितालाभप्रत्ययतः शास्त्रादिषु विचिकित्सते ।
पञ्च चेतसो विनिबन्धाः- यः कायो ऽविगतरागो स काय आसज्यते । कामेष्ववीतरागः कामेष्वासज्यते । गृहस्थेन प्रब्रजितस्य समागमः । आर्यवचने चेतो न प्रहृष्यति । अल्पहितवस्तुनात्मानं पूर्णं मन्यते । तत्र चत्वारो विनिबन्धाः कामरागमुपादायोद्भवन्ति । य आध्यात्मिकात्मभावे ऽविगतरागः स बाह्यरूपादिकामेष्वासज्यते । अत उभयोः समागममभिलषति । अभिलाषाव्याकुलतया आर्यवचने उपशमप्रदर्शने धर्मे न प्रहृष्यति । अतः शीलबाहुश्रुत्यध्यानसमाध्यादिष्वल्पं हितं वस्तु लब्ध्वा तेनात्मानं पूर्णं मन्यते । तदल्पहितवस्त्वभिनिवेशान्महाहितं विस्मरति । प्राज्ञस्तु नाल्पहिताभिनिविष्टो महाहितं विघ्नयेत् । (sss_336) अयं यद्यष्टाक्षणविहीनः [सः] पुरुषकायं दुष्करं लब्ध्ववानित्यतश्चित्तैकाग्र्येण वीर्यमारभेत । पृथग्जनता चाश्रद्धेया । अस्य समग्रस्य प्रत्ययस्य विगमे ऽन्ये प्रत्यया भवन्ति । [इति] नैवार्यमार्गे ऽवतरति [पृथग्जनः] । अल्पहितमकामयमानः प्रव्रज्याफलविपाकं लभते । म्रियमाणश्च न विप्रतिसरति । स्वपरहितञ्च करोति । सगुणेष्वेव नाभिनिविशते । कः पुनर्वादो ऽकुशले धर्मे । अतः [स] सम्यगाचार इत्युच्यते । पृथग्जनादीनवा न किमपि संक्लेशयन्ति ।
(पृ) के पृथग्जनानामादीनवाः । (उ) सूत्र उक्तं- पृथग्जनो विंशतिधा स्वचित्तं निगृह्यैवं चिन्तयेत्- मम विभिन्नाकारवेषमात्रस्य वृथा, न किञ्चिल्लभ्यम्, अशुभेन [पथा] मरिष्यामि, महाभयार्णवे पतिष्यामि, तद्भयस्थाने न ज्ञास्याम्यभयस्थानं, नापि ज्ञास्यामि मार्गं, न ध्यानसमाधीन् लप्स्ये, असकृत्कायदुःखमनुभविष्यामि, दुष्परिहारा भविष्यन्त्यष्टावक्षणाः, शत्रुः सदानुसरिष्यति, सर्वे मार्गा विवृताः, दुर्गतेरविमोक्षः, अप्रमाणदृष्टिभिः सदा विनिबन्धः, पञ्चस्वानन्तर्येषु अप्रतिबन्धः, अनादिः संसारो नान्तवान्, अकुर्वतो न पुण्यपापप्रतिलाभः । कुशलाकुशलयोर्न प्रतिनिधिलाभः । न सद्धर्म करोमि, नैवास्ति सुखलयः कृतयोः कुशलाकुशलयोर्नैव विस्मृतिर्विनाशो वा आमरणं न दान्तो भविष्यामि इति । एते विंशतिधर्माः कं न दूषयन्ति । कर्तव्यमयं कृतवानित्यतश्चित्तं न विप्रतिसरति । [कामा]भिनिविष्ठस्य गार्हस्थ्यधर्मः प्रव्रज्याधर्मश्चन सिध्यतः । अतो नाल्पहिते ऽभिनिवेशेत् ।
सप्तानुशयाः । (पृ) क्लेशाः कस्मादनुशय इत्युच्यन्ते । (उ) जननमरणसन्ताने सदा सत्त्वमनुर्वर्तत इत्यनुशयः । तद्यथा धात्री सदा बालमनुवर्तते । यथा वाविमुक्तो वातज्वरः । यथा वा ऋणी अनुदिनमुच्छवसति । यथा वा अनपगतमाखुविषम् । तप्तायसः कृष्णलक्षणम् । यथा वा यवस्याड्कुरः । स्वयंदत्तदासपत्रत्वम् । यथा वा प्रणष्टस्य वस्तुनः साक्षिजनः । यथा प्रज्ञा क्रमशः समुपचीयमाना[स्ति] । यथा कर्म सदोपचीयामानम् । यथा ज्वाला सन्तन्यते । एवं क्रमेण सन्तत्या वर्धत इत्यनुशय इत्युच्यते ।
(पृ) अयमनुशयः किं चित्तसम्प्रयुक्तः किं वा चित्तविप्रयुक्तः । (उ) चित्तसम्प्रयुक्तः । कस्मात् । रागादयो ऽनुशयलक्षणाः । इमे ऽनुशयलक्षणाः सौमनस्यसम्प्रयुक्ताः । यदिदं सौमनस्यं चित्तविप्रयुक्तमितीदं न युज्यते । सौमनस्यमिदं यदि सुखायां वेदनायां वर्तते [तदा] रागानुशय इत्युच्यते । रागो नामासङ्गः । चित्तविप्रयुक्ते नासङ्गभावो ऽस्ति । अतो ज्ञायते ऽनुशयाश्चित्तसम्प्रयुक्ता इति ।
(पृ) न युक्त[मिद]म् । अनुशया न चित्तसम्प्रयुक्ताः । कस्मात् । उक्तं हि सूत्रे- बालानां मैथुनचित्तमेव नास्ति । कः पुनर्वादो मैथुनरागसामर्थ्यम् । रागानुशयानुशयिताश्च भवन्ति इति । किञ्चाह- नास्ति चेतना नास्ति विकल्पः । विज्ञाप्रतिष्ठितमालम्बनञ्चास्ति इति । किञ्चोक्तं सूत्रे- सत्कायदृष्टिसमुच्छेदे ऽनुशयाः सहैव समुच्छिद्यन्ते इति । आर्यमार्गश्च न क्लेशानां यौगपद्यं लभते । अत आर्यमार्गसमुत्पादश्चित्तविप्रयुक्तानुशयसमुच्छेदकः । तथा नोचेत् आर्यमार्गेण कस्य समुच्छेदः स्यात् । यदि नास्ति चित्तविप्रयुक्तो ऽनुशयः । पृथग्जनाः शैक्षजनाश्च यदा कुशलचित्ते ऽव्याकृतचित्ते च वर्तन्ते । तदा अर्हन्तः स्युः । अनुशयश्च पर्यवस्थानहेतुः । अनुशयात्पर्यवस्थानमुत्पद्यते । पर्यवस्थानलब्धो ऽनुशयो वर्धते । अतो ज्ञायते ऽनुशयाश्चित्तविप्रयुक्ता इति । यदि कश्चित्कुशलाव्याकृतचित्तो ऽपि सानुशय इत्युच्यते । यस्य नास्ति चित्तविप्रयुक्तो ऽनुशयः । कुतो ऽनुशयवान् भवति । अतो जायते ऽनुशयश्चित्तविप्रयुक्त इति ।
अत्रोच्यते । न युक्तमिदम् । यदुक्तं बालानामसति रागे रागानुशयो ऽस्तीति । तदयुक्तम् । बालानां रागापनयनौषधालाभादप्रहीणकामरागा इत्यतो रागानुशयो ऽनुशेते । यथा भूतसमाविष्टो ऽनुद्भवकाले ऽपि भूतसमाविष्ट इत्युच्यते । कस्मात् । तद्व्याधिप्रशमनमन्त्रोषधानामलाभात् । यथा च चतुर्दिनज्वरार्तो दिनद्वये [ज्वरा]नुद्भवे ऽपि ज्वरार्त इत्युच्यते । यथा वा आखुविषमनपनीतव्याधित्वाद्धनगर्जने प्रादुर्भवति । एवं यस्मिन् चित्ते ऽनुशयापनयनमोषधमप्रतिलब्धम् । [तत्] अप्रहीणा[नुशय]मित्युच्यते । अन्ये ऽपि प्रश्नाः सामान्यतः प्रत्युक्ता एव । यदुच्यते भवता नास्ति चेतना नास्ति विकल्पः विज्ञानस्यमालम्बनमस्ति इति । तदपि अप्रहीणानुशयत्वात् । यदाह भवान्- सत्कायदृष्टिरनुशयेन सह समुच्छिद्यत इति । भवतः पर्यवस्थानं चित्तसम्प्रयुक्तम् । अनुत्पत्तिकाले । (sss_338) प्रहीणमेव । एवमनुशयो ऽपि । आर्यमार्गकाले ऽविद्यमानमपि प्रहीणमित्युच्यते । विरोधिधर्मप्रतिलम्भात् । यद्ब्रवीषि- मार्गः क्लेशैः सह नैककालिको ऽस्तीति । [तत्]अप्रहीणत्वादस्तीत्युच्यते । यदवोचः पृथग्जनाः शैक्षजनाश्च यदि कुशलाव्याकृतचित्तगताः, तदा अर्हन्तः स्युरिति । प्रहीण[क्लेशो] ऽर्हन् । तेषान्त्वप्रहीण[क्लेश]त्वात् । यथा कश्चिन्मासवर्जनधर्ममसमादानो मांसमभुञ्जन्नपि न वर्जितमांस इत्युच्यते । अविद्यामिथ्यास्मृतिमिथ्यासङ्कल्पादयः सन्तीत्यतो ऽप्रहीणाः क्लेशास्तदा समुत्पद्यन्ते । अर्हतस्तु नास्ति सहेतुरिति नान्यैः साम्यम् । यदुक्तं त्वया पर्यवस्थानलब्धो ऽनुशयस्तु वर्धत इति । तदयुक्तम् । सर्वे क्लेशा उत्तममध्यमावरधर्मैर्वर्धन्ते, न पर्यवस्थानलाभात् । यद्ब्रषीषि कुशलाव्याकृतचित्तगतो ऽनुशयवान् स्यादिति । तदपि अप्रहीणत्वादनुशयवानित्युच्यते । एभिः कारणैर्ज्ञायते ऽनुशया न [चित्त]विप्रयुक्ता इति ।
अष्ट मिथ्यामार्गाः- मिथ्यादृष्टिर्यावन्मिथ्यासमाधिरिति । अयथाभूतविपर्यय ज्ञानदर्शनान्मिथ्यादृष्टिः यावन्मिथ्यासमाधिः । (पृ) सम्यगाजीवो मिथ्याजीवश्च न कायवाक्कर्मव्यतिरिक्तौ । कस्मात्पृथगुच्यते । (उ) मिथ्याजीवः प्रव्रजितानां दुस्समुच्छेदत्वात् पृथगुच्यते । मिथ्याजीवो [येन] मायाशाठ्यादयः पञ्चधर्माः पुष्टिं लभन्ते स मिथ्याजीवः । संक्षिप्येदमुच्यते- प्रव्रजितानामकार्यं धनार्जनकर्म यदुत राजसेवावाणिज्यरोगचिकित्सादिकर्म । अनादेयञ्च प्राणिधधनधान्यादि । आदाने मिथ्याजीवः । विनये यत्प्रतिषिद्धं तेन च स्वात्मजीवनं मिथ्याजीवः । यथोक्तं सूत्रे- पञ्च वाणिज्यान्युपासकेनाकरणीयानीति । (पृ) केन कुर्याज्जीवितम् । यथाधर्मभिक्षया जीवेत् । न मिथ्याजीवं जीवेत् । कस्मात् । अविशुद्धचेतसा सद्धर्मं प्रणाशयति । मार्गयोगानवष्टम्भात् । मार्गावचर एवं चिन्तयेत्- भगवतः शासने ऽवतारो मार्गाचरणार्थः न (sss_339) जीवनार्थ इति । अतः सद्धर्माभिरतः परिशुद्धजीवनमाचरेत् । भिक्षुर्भिक्षधर्मे सुनिष्णातः स्यात् । यो मिथ्याजीवनमाचरति, न [स] भिक्षुधर्मा भवति ॥
सङ्कीर्णक्लेशवर्गः षट्त्रिंशदुत्तरशततमः ।
137 नवसंयोजनवर्गः
तृष्णादीनि नवसंयोजनानि । (पृ) कस्माद् दृष्टिषु द्विधा परामर्श उच्यते । (उ) शीलव्रतपरामर्शस्य दुर्विमोकत्वात् । यथा उडुपमोघपतितं दुस्तरं भवति । तथायमपि । एवं चिन्तयति- अहमनेन शीलेन स्वर्ग उत्पत्स्य इति । तदर्थञ्च जलमज्जन दहनप्रवेशभृगुपतनादीनि नाना दुःखान्यनुभवामीति । लौकिका न शीलव्रतपरामर्शस्य दोषं पश्यन्ति । अत उक्तं भगवता संयोजनमिति । तं शीलव्रतपरामर्शं निश्रित्य अष्टाङ्गमार्गमुपेक्षन्ते । सो ऽसम्यङ्मार्गो ऽव्यवदानमार्गो दुःखान्तानुवर्तनमित्युच्यते । शीलव्रतपरामर्शः प्रव्रजितानां विनिबन्धः । कामा गृहस्थानाम् । शीलव्रतपरामर्शी यद्यपि नानाप्रव्रज्याधर्मानाचरति । तथापि वृथा न किञ्चिदनेन लभ्यते । स नैहिकं सुखं विन्दते, परत्र च महद्दुःखमनुभवति । यथागोव्रतिकः संसिद्धव्रतिको गौर्भवति । विक्षिप्तव्रतो नरके पतति । तच्छीलव्रतपरामर्शमुपादाय सम्यङ् मार्गं सम्यङ् मार्गचारिणञ्चापवदति । शीलव्रतपरामर्शः तीर्थिकानां मानोत्पत्तिस्थानम् । [त] एवं चिन्तयन्ति- अहमनेन धर्मेणान्यमतिशेय इति । शीलव्रतपरामर्शहेतुना षण्णवतिधा विभक्ता धर्मा सन्ति । शीलव्रतपरामर्शः स्थूलदर्शन इत्यतो बहूनां सत्वानां गोचरः । प्रज्ञामार्गस्त्वतिसूक्ष्मो दुर्दर्शनः । लौकिका न प्रजानन्ति तदाचरणहितम् । सा च दृष्टिर्जनानां चित्तं हरति । अतो बाला बहवस्तं धर्ममाचरन्ति । सा गुर्वी पापिका दृष्टिरित्युच्यते । सम्यङ्मार्गाचारस्य प्रतिलोम्येनामार्गत्वात् ।
दृष्टिपरामर्शो येनासद्धर्माभिनिविष्टस्तत्परिहर्तुमसमर्थो भवति । तदृष्टिपरामर्शस्य बलम् । तद्वलेन च संयोजनानि दृढानि भवन्ति । (पृ) शक्नप्रश्ने कस्मात्केवलमुक्तमीर्ष्यामात्सर्यसंयोजना देवामनुष्या इति । (उ) इदं क्लेशद्वयमतिग्राम्यं जवन्यम् । कस्मात् । पश्यामः खलु परसत्त्वान् क्षुत्पिपासापीडितान्, मात्सर्यचित्तत्वान्नातिक्रान्तान् । [ते] परतो लब्धं दृष्ट्वापि ईर्ष्यासूयाचित्तमुत्पादयन्ति सोत्कण्ठासन्तापम् । अनेन कारणेन च दरिद्राणां नीचानां कुत्सितानामतेजस्विनाञ्च स्थाने पतन्ति । शक्रस्य देवानामिन्द्रिस्यैतत्संयोजनं बहुतरमसकृदागत्य चित्तं पीडयति । अतो भगवान् वचनमाह । तत्संयोजनद्वयं गुरुपापकस्य निदानम् । कस्मात् । तदुपादाय गुरूणि पापकर्माण्युद्भवन्ति ।
त्रिषु विषेषु रागः प्रतिघश्च गुरुपापकमुत्पादयति । तयोर्विवृध्या तत्संयोजनद्वयमुत्पद्यते । तत्संयोजनद्वयं स्त्रियं पुरुषञ्च पीडयति । दुरुत्सर्गञ्च भवति । कस्मात् । यः कुशलचित्तं निभृतं भावयति । सो ऽत्यन्तमीर्ष्यासूयं समुच्छेदयति । दानञ्च निभृतमभ्यस्यान्ते सर्वमात्सर्यचित्तं समुच्छेदयति । कर्मविपाकमपश्यन् तद्गुरुतरवस्तु त्यजतीदमति दुष्करम् । यथा कस्यचित्स्वत उत्कृष्टवस्तुलाभिनं पुत्रमेव पश्यतश्चित्तं दुष्प्रीतिकं भवति । कः पुनर्वादः शत्रुम् । तत्संयोजनद्वयोः प्रियविप्रयनिश्चितत्वादतिदुष्करः परित्यागः । अस्मात् कर्मप्रत्ययात् भगवता केवलमुक्तम् ॥
नवसंयोजनवर्गः सप्तत्रिंशदुत्तरशततमः ।
138 प्रकीर्णप्रश्नवर्गः
शास्त्रमाह- सर्वे क्लेशा भूयसा दशानुशयसङ्गृहीताः । अतो दशानुशयानुपादाय शास्त्रं रचितव्यम् । दशानुशया इति रागप्रतिघभानाविद्याविचिकित्साः पञ्चदृष्टयश्च । (पृ) दशक्लेशमहाभूमिकधर्माः तद्यथा अश्राद्धयं कौसीद्यं मुषितस्मृतिता विक्षेपो ऽविद्यासम्प्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्च । इमे धर्माः सर्वक्लेशचित्तैः सदा सम्प्रयुक्ताः । कथमिदम् । (उ) सत्प्रयोगः पूर्वं खण्डित एव । चैतसिकश्चैकैक एवोत्पद्यते । अतो न युज्यते । न च सन् न्यायो भवति । केनेदं ज्ञायते । (sss_341) किञ्चिदकुशलचित्तकुशलश्रद्धासमन्वितमस्ति । किञ्चिदकुशलचित्तं श्रद्धासमन्वितं नास्ति । तथा वीर्यादिकमपि । अतो ज्ञायते न सर्वक्लेशचित्तेषु ते दश धर्माः सन्तीति । यद्भवानाह- मिद्धमौद्धत्यं सर्वक्लेशचित्तेषु वर्तत इति । तदयुक्तम् । यदा चित्तं लीनं भवति । तस्मिन् समये मिद्धसमन्वितं स्यात् । नौद्धत्यचित्ते स्यात् इतीदृशा दोषाः सन्ति ।
(पृ) कामधातौ सकला दशक्लेशाः सन्ति । रूपधातावारूप्यधातौ च द्वेषवर्जिता अवशिष्टाः सन्ति । कथमिदम् । (उ) तत्रापि सन्तीर्ष्यादयः । केनेदं ज्ञायते । सूत्र उक्तम्- महाब्रह्मा ब्रह्मकायिकानामन्त्र्याह मा भवन्तो श्रमणं गौतममुपसङ्क्रमन्तु । इहेव तिष्ठत जरामरणस्यान्तं लप्स्यध्वे इति । इयमीर्ष्या । ईर्ष्यासत्त्वाद्वेषो ऽपि भवेत् । उक्तञ्च सूत्रे- [अथ खलु केवधं] महाब्रह्मा तं भिक्षुं बाहौ गृहीत्वा एकमन्तमपनयित्वा तं भिक्षुमेतदवोचत्- अहमपि न जानामि यत्रेमानि चत्वारि महाभूतान्यपरिशेषाणि निरुध्यन्ते इति । एवं मायाचित्तेन ब्रह्मकायिकानां वञ्चनं मायेत्युच्यते । यदाह- अहमस्मि [महाब्रह्मा] कर्ता निर्माता श्रेष्ठ.......इति । अयं प्रमादः । इत्यादीनि छिद्राणि सन्ति । ईदृशानां पापकानां क्लेशानां सत्त्वात् ज्ञातव्यमस्ति च [तत्रा] अकुशलमिति ।
केचिदाभिधर्मिका आहुः- मातापित्रुपाध्यायाचार्यादिषु यो रागः स कुशलरागः । अन्यपदार्थादिषु रागो ऽकुशलरागः । अन्येषामुपकारो ऽपकारो वा यन्न क्रियते । [अय]मव्याकृतरागः । असद्धर्मे दुर्विज्ञादिषु द्वेषः कुशलद्वेषः । सद्धर्मद्वेषः प्राणिद्वेषश्च अकुशलद्वेषः । यो ऽसत्त्वपदार्थद्वेषः अव्याकृतद्वेषो [ऽयम्] । यन्मानं निश्रित्य मानं समुच्छेदयति अयं कुशलमानः । अन्यस्य सत्त्वस्यावमानमकुशलमानः । अविद्यादिष्वप्येवं [वक्तव्यम्] ।
किञ्चाहुराभिधर्मिकाः- यः कुशलः न [स] क्लेशो भवति । (पृ) कामधातौ सत्कायदृष्टिमव्याकृता वदन्ति । कस्मात् । यदि सत्कायदृष्टिररकुशला । सर्वे पृथग्जना आत्मचित्तमुत्पादयन्ति । ना[नेन] नरके पतनीया भवन्ति । अतो ऽव्याकृतेति (sss_342) वदन्ति । कथमिदम् । (उ) सत्कायदृष्टिरियं सर्वक्लेशानां मूलम् । कथमव्याकृता । स परेषामात्मास्तीति वदन् पतति । तदा कथमव्याकृता भवेत् । एवमन्तग्रहदृष्टिरपि [वक्तव्या] । (पृ) यदि मिथ्यादृष्टिं प्रवर्तयित्वा संशये पातयति । किमिदमकुशलम् । (उ) नेदमकुशलम् । कस्मात् । वरं संशय एव पातयति न मिथ्यादृष्टावतारयति ।
केचिदाहुः- कामधात्वाप्ताः क्लेशाः सर्वे कामभवसन्तानकराः । एवं रूपरूप्यधात्वाप्ता अपि । कथमिदम् । (उ) तृष्णैव भवसन्तानकरी । नन्दिपूर्विका हि जातिः । आह च- दुःखसमुदयस्तृष्णेति । अपि चाह- भोजनकामरागादितृष्णा सुखमिति । अतो यथास्थानं जन्म वेदयते । मिथ्यादृष्ट्यादिषु नैवमर्थो ऽस्ति । सूत्रे यद्युप्युक्तं- मानप्रत्यया जातिरिति । तथापि मनापूर्वकतृष्णयोत्पद्यते । एवं द्वेषो ऽपि । अतो ज्ञायते तृष्णया सर्वे भवसन्तानां भवन्तीति ।
(पृ) क्लेशेषु कति सत्यदर्शनहेयाः कति भावनाहेयाः । (उ) रागप्रतिघमानाविद्या द्विधा सत्यदर्शनहेया भावनाहेयाश्च । अन्ये षट् सत्यदर्शनमात्रहेयाः । (पृ) शैक्षजनस्याप्यस्त्यहंबुद्धिः । अतो ज्ञायते ऽनिमित्तनिरूपणसत्कायदृष्टिभागः शैक्षजनस्याहेय इति । (उ) [अहं] मानो ऽयं दृष्टिः । निमित्तनिरूपणा हि दृष्टिः । (पृ) केचिदाहुः- ईर्ष्यामात्सर्यकौकृत्यमायादयो भावनाहेया इति । कथमिदम् । (उ) इमे सर्वे द्विधापि भवन्ति सत्यदर्शनहेया भावनाहेयाश्चेति । केनेदं ज्ञायते यथा नाथपुत्रादयो भगवच्छ्रावकान् सत्कारला भिनो दृष्ट्वा ईर्ष्याचित्तमुत्पादयमासुः । इयमीर्ष्या मार्गदर्शिनो निरुद्धेत्यतो ज्ञायते सत्यदर्शनहेयेति । कश्चित्पूर्वं भगवच्छ्रावकेषु मत्सरी सन् नाददत् । मार्गदर्शनलब्धः परं प्रायच्छत् । तदा मात्सर्यमिदं सत्यदर्शनहेयम् । यथा सुनक्षत्रादीनां कौकृत्यं सत्यदर्शनहेयमपि । यथा स्रोतआपन्नस्य नरकपतनप्रत्ययः अष्टमलोके कायवेदकमाया च सत्यदर्शनहेयापि ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
