Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 8/15

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

सत्यसिद्धिशास्त्रम्

Tác giả
हरिवर्मन्
Thông tin
GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सूत्रे भगवानाह- दशाकुशलकर्मपथा यदुत प्राणातिपातादि । पञ्चस्कन्धकलापः सत्त्व इत्युच्यते । तदायुषश्छेदः प्राणातिपातो नाम । (पृ) यदीमे पञ्चस्कन्धाः प्रतिक्षणविनाशिनः । केन वधो भवति । (उ) पञ्चस्कन्धाः प्रतिक्षणविनाशिनो ऽपि पुनः पुनः सन्तत्या समुत्पद्यन्ते । तत्सन्ततिसमुच्छेद एव प्राणातिपातो भवति । प्राणातिपातचित्तेन च प्राणातिपातपापं लभते पुरुषः । (पृ) किं प्रत्युत्पन्नपञ्चस्कन्धानां समुच्छेदः प्राणातिपातो भवति । (उ) पञ्चस्कन्धसन्ततावस्ति सत्त्व इत्याख्या । तत्सन्ततिविनाशः प्राणातिपातः । न क्षणिकेषु सत्त्व इत्याख्यास्ति । (पृ) केचिदाहुः कश्चिदनुचरानवलम्ब्य सत्त्वान् हन्ति । अथ वा दृढासिनाभिहत्य सहसा सत्त्वान् हन्ति । तदा तस्य पापं नास्तीति । कथमिदम् । (उ) ते ऽपि पापं लभेरन् । कस्मात् । ते वधपापसमन्विताः । चतुर्भिः प्रत्ययैः खलु प्राणातिपातपापं लभन्ते । (1) सत्त्वसत्ता, (2) सत्त्वसत्ताज्ञानम्, (3) जिघत्साचित्तम्, (4) तज्जीवितोच्छेद इति । एभिश्चतुर्भिर्हेतुभिर्मण्डितः पुमान् कथमपापी स्यात् ।

अदत्तादानमिति यद्वस्तु यत्पुरुषसम्बन्धी तत् तस्मात्पुरुषाच्चौर्येण गृह्णाति । तददत्तादानमित्युच्यते । अत्रापि सन्ति चत्वारः प्रत्ययाः- (1) द्रव्यस्य परसम्बन्धिता, (sss_274) (2) परसम्बन्धिताज्ञानम् । (3) चौर्यचित्तम्, (4) चौर्येण ग्रहणम् इति । (पृ) केचिदाहुः- निधिः राजसम्बन्धी । य इमं गृह्णाति । स राज्ञः पापं लभत इति । कथमिदम् । (उ) भूमध्यगतद्रव्यस्य न विचारः । भूमावुपरि गतं द्रव्यं परं राजसम्बन्धि स्यात् । कस्मात् । अनाथपिण्डदादय आर्या अपि हीदं द्रव्यं गृह्णन्ति । अतो ज्ञायते नास्ति पापमिति । यः स्वाभाविकद्रव्यस्य लाभः न तत् चौर्यम् ।

(पृ) यदि सर्वे पदार्थाः साधारणकर्मभिरुत्पद्यन्ते । कस्मात् चौर्येण पापं लभन्ते । (उ) साधारणकर्महेतोः समुत्पत्तावपि अस्ति हेतोः प्राबल्यदौर्बल्यम् । यत् [यस्य] पुरुषस्य कर्महेतुबलतिशयाधिष्ठितं तत् द्रव्यं तत्सम्बन्धि । (पृ) यदि कश्चिच्चैत्यात् सङ्घाद्वा किञ्चित् क्षेत्रगृहादिद्रव्यमपहरति । कतरस्मात् पापं लभते । (उ) भगवतः सङ्घस्य वा द्रव्ये नास्ति ममताचित्तम् । असत्यपि ततः पापं लभते । द्रव्यमिदं नियमेन भगवतः सङ्घस्य वा सम्बन्धि । तस्य चौर्ये अदत्तादाने वा अकुशलचित्तं समुत्पन्नमित्यतः पापं लभते ।

काममिथ्याचार इति । या [यस्य] सत्त्वस्य जाया न भवति । तया सह कामचारः । [तस्य] काममिथ्याचारः । स्वजायायामपि अमार्गेण कामचारो ऽपि काममिथ्याचार इत्युच्यते । सर्वासां स्त्रीणां सन्ति पालकाः यन्मातृपितृभ्रातृगणस्वामिपुत्रवध्वादयः । प्रव्रजितस्त्रीणां राजादयः पालकाः । (पृ) गणिका न [कस्यचित्] जाया भवति । तया सह कामचारः कथं न काममिथ्याचारः । (उ) अल्पवयस्का हि जाया । यथोक्तं विनये- अल्पवयस्का जाया यावदेकेन श्मश्रृणान्तरिता इति । (पृ) यदि काचिदस्वामिनी स्त्री स्वयमागत्य प्रार्थयते जाया भवामीति । कथमिदम् । (उ) या वस्तुतो ऽस्वामिनी कस्यचित्सत्त्वस्य पुरतो यथाधर्ममागता, [तया सह गमनं] न काममिथ्याचारः । (पृ) प्रव्रजितस्य जायापरिग्रहेण काममिथ्याचारादुन्मोको ऽस्ति न वा । (उ) नोन्मोको ऽस्ति । कस्मात् । न ह्यस्ति स धर्मः । प्रव्रजितस्य धर्मः सदा काममिथ्याचाराद्विरतिः । परस्त्री- [गमन]आपत्तितो ऽतिजघन्यं पापं भवति ।

मृषावाद इति । यत्कायबाङ्मनोभिः परसत्त्वान् वञ्चयित्वा मृषा प्रतिपादयति । अयं मृषावादः । पापस्य गुरुतरत्वाद्भगवानाह बहूनां पश्नसमाधिः मृषावादः । यावदेकस्मिन् पुरुषे पृच्छत्यपि मृषावादः । किमुत बहूनाम् इति । यो वञ्चयितुमभीष्टः, (sss_275) तस्मात्पापं लभते । यदि कश्चित्परं वदति अहममुकमीदृशं वदामीति । तद्वस्तुनो ऽतत्त्वे ऽपि न मृषावादः । किञ्च संज्ञामनुसृत्य मृषावादः । यः पश्यन् न पश्यति संज्ञाम् । स पृष्टो वदति नाद्राक्षमिति । तस्य नास्ति मृषावादपापम् । इति यथा वर्णितं विनये ।

(पृ) यदि कश्चिद्वस्तुविपर्ययात् अदृष्ट्वा वदति अद्राक्षमिति तस्य कथं न मृषावादः । (उ) सर्वाणि पुण्यपापानि चित्ताधीनानि उत्पद्यन्ते । स पुरुषो ऽदृष्टवस्तुनि दृष्टसंज्ञामुत्पादयतीत्यतो नास्ति पापम् । यथा [यस्य] तात्त्विकसत्त्वे नास्ति सत्त्वसंज्ञा । असत्त्वे च सत्त्वसंज्ञोत्पन्ना । स न वधपापं लभते । (पृ) यथा वस्तुसति सत्त्व उत्पन्नसत्त्वसंज्ञो वधपापं लभते । तथा यदि दृष्टे दृष्टसंज्ञामुत्पादयति । तदा न पापं स्यात् । नत्वदृष्टे दृष्टसंज्ञामुत्पादयन् न पापं लभत इति । (उ) पापमिदं सत्त्वोपादानकचित्तमुपादायोत्पद्यते । अतः सत्त्वे सत्यपि सत्त्वसंज्ञाविहीनो न लभते पापम् । [तादृश]चित्ताभावात् । असति सत्त्वे सत्त्वसंज्ञावान् [वस्तुतः] सत्त्वस्याभावादपि न पापं लभते । सति सत्त्वे सत्त्वसंज्ञावान् प्राणातिपातपापं लभत एव । हेतुप्रत्ययानां समग्रत्वात् । यस्य दृष्टे वस्तुनि अदृष्टसंज्ञोत्पद्यते । स पृष्टो वदति नाद्राक्षमिति । स संज्ञाविपर्ययाभावात् न सत्त्वान् वञ्चयति । वस्तुविपर्यये ऽपि सत्यमित्येवोच्यते । यस्यादृष्टे वस्तुनि दृष्टसंज्ञोत्पद्यते । स पृष्टो वदति नाद्राक्षमिति । स संज्ञाविपर्ययात् सत्त्वान् वञ्चयति । वस्त्वविपर्यये ऽपि मृषावाद इत्युच्यते ।

पैशुन्यमिति । यत् कश्चित्परविभेदयिषया वाक्कर्म करोति । तत्पैशुन्यमित्युच्यते । यस्य नास्ति सम्भेदबुद्धिः । परः श्रुत्वा स्वयं भेदयति । स न पापभाग्भवति । यस्तु विनयकुशलबुद्धया दुर्जनान् सम्भेदयति । स सम्भेदे कृते ऽपि न पापभाग्भवति । यः संयोजनानुशयेन कलुषितचित्तो न भवति । स वाचं वदन्नपि न पापभाग्भवति ।

पारुष्यमिति । यत् कश्चित्कटु वदति हितकरञ्च न भवति परस्योपायासमात्रमिच्छति । तत्पारुष्यमित्युच्यते । यस्तु करुणाचित्तेन हितं कुर्वन् कटु वदति । न तस्यास्ति पापम् । यथा निरर्थकप्रयुक्त उपायासे पापमस्ति । [चिकित्सार्थं] कस्मिंश्चित्कायदेशे सूच्या वेधनं कट्वपि न पापं भवति । तथा कटुवचनमपि । बुद्धा आर्या अपि कुर्वन्ती दम् । यथा रूग्णादीनामुपदेशः । यः संयोजनानुशयकलुषितचित्तो न भवति । तेन कृतं कटुवचनं न पापमित्युच्यते । यथा वीतरागादयः । यः कलुषितचित्तेन कटु वदति । स क्लेशोत्पत्तिकाल एव पापं लभते ।

सम्भिन्नप्रलाप इति । यदनृजु असत्यार्थभाषणं स सम्भिन्नप्रलापः । अकाण्डे सत्यवचनमपि (sss_276) सम्भिन्नप्रलापः । सत्यमपि काले विपत्त्यानुलोम्येनाहितकरत्वात् सम्भिन्नप्रलाप इत्युच्यते । सत्यवचने ऽपि काले चाहिते अमूलमनर्थमक्रमं वचनं सम्भिन्नप्रलापः । मोहादिक्लेशविक्षिप्तचित्ततया वचनं सम्भिन्नप्रलापः । कायमनसोरनार्जवमपि सम्भिन्नं कर्म । किन्तु भूयसा वाक्कृतमेव व्यवहारतः सम्भिन्नप्रलाप इत्युच्यते । अन्यानि त्रीणि वाक्कर्माणि सम्भिन्नप्रलापसंमिश्राणि भवन्ति न विवेकभागीनि । यदि मृषावादः कटुवचनाञ्चाविविक्तम् । तदा द्विधा भवति मृषावादः सम्भिन्नप्रलाप इति । यदि मृषावादो ऽपि संबिभेदयिषया अकटुवचनः । तदा त्रिधा भवति मृषावादः पैशुन्यं सम्भिन्नप्रलाप इति । यदि मृषावादः कटुवचनः सम्बिभित्सा च । तदा चतुर्धा भवति । यदि नास्ति मृषावादः । कटुवचनमपि अविविक्तं केवलमकाण्डवचनमहितवचनमनर्थवचनम् । तदा सम्भिन्नप्रलापमात्रम् । अयं सम्भिन्नप्रलापो ऽपि सूक्ष्मो दुस्त्यजः । केवलं बुद्धा एव तदिन्द्रियं समुच्छेदयन्ति । अतो बुद्धा एव भगवद्वादप्रसाधने श्रद्धेयाः नान्ये ।

(पृ) उक्ताः सप्तविधाः कर्मपथाः । क उपयोगः पुनस्त्रिविधमानसकर्मकथनेन । (उ) केचिद्वदन्ति- पुण्यं पापमवश्यं कायवागधीनं न चित्तमात्रात् इति । अतो वदन्ति चित्तमपि कर्मपथः । त्रिविधस्यास्य मानसकर्मणो बलादुत्पद्यते कायिकं वाचिकमकुशलकर्म इति । इदं त्रिविधं यद्यपि गुरुतरम् । मानसकर्मणः सूक्ष्मत्वात् इति पश्चाद्वक्ष्यते । सर्वेषां लेशानामकुशलकर्मोत्पादकत्वे ऽपि इदं त्रिविधं परं सत्त्वानामुपायासकरत्वादकुशलकर्मपथ इत्युच्यते । यदि रागो मध्यमो ऽवरो वा न स कर्मपथो भवति । रागो ऽयमधिमात्रः परमधिरज्य संपीडेच्छया सोपायः कायिकवाचिककर्मोत्पादकत्वात् रागेर्ष्या कर्मपथो भवति । प्रतिघमोहावपि तथा । यदि मोह एव सर्वक्लेशात्मक उच्यत इति मतम् । तस्यैव कायवाग्भ्यां सत्त्वानामुपद्रवोत्पादकत्वात् त्रैविध्यमुच्यते ।

(पृ) कस्मान्मोहो मिथ्यादृष्टिर्भवति । (उ) अस्ति [स]मोहविशेषः । कस्मात् । न हि सर्वो मोहो ऽकुशलः । यो मोहो मिथ्यादृष्टिप्रवृत्तावधिपतिः सो ऽकुशलः कर्मपथः । सर्वाण्यकुशलानि एतत्त्रिमुखाधीनानि भवन्ति । यदि [वा] कश्चिद्धनलाभायाकुशलं कर्म करोति तद्यथा सुवर्णकार्षापणाय प्राणिनं हन्ति । द्वेषेण वा [अकुशलं कर्म करोति] तद्यथा अमित्रं चोरं वा हन्ति । अथ वा न धनलाभाय न द्वेषेण, अपि तु मोहबलेनैव परापराविज्ञानात् प्राणिनं हन्ति । (पृ) चत्वारो दुर्गतिप्रत्ययाः सूत्र उक्ता (sss_277) रागतो द्वेषतो भयतो मोहतश्च दुर्गतिषु पतन्तीति । इदानीमत्र कस्मान्नोक्तं भयतो ऽकुशलं कर्मोत्पद्यत इति । (उ) भयं मोहसङ्गृहीतम् । यदुच्यते भयत इति तन्मोहत एव भवति । कस्मात् । न ज्ञानी यावदायुर्विनाशप्रत्ययमपि अकुशलं कर्म करोति । इदञ्च पूर्वं प्रत्युक्तमेव ।

यत् क्लेशविवृद्धिः कायिकवाचिकर्मोत्पादयति स कालो ऽकुशलकर्मपथ इत्युच्यते । अस्य त्रिविधस्य भूयसा अकुशलोत्पादकत्वात् । (पृ) कस्मात्कर्मपथ इत्युच्यते । (उ) मन एव कर्म । तत्र चरतीति कर्मपथ इत्युच्यते । अन्तिमत्रितये पूर्वं चरति । आद्यसप्तके पश्चाच्चरति । त्रीणि कर्मपथाः न कर्म । सप्त कर्माणि कर्म च पन्थाश्च । (पृ) कशाताडनसुरापानादीन्यकुशलकर्माण्युक्तानि । कस्माद्दशैवोक्तानि । (उ) गुरुतरपापत्वादिमानि दशोक्तानि । कशाताडनादीनि सर्वाणि तत्परिवाराः पौर्वापरिकाः । न सुरापानं प्रकृतिसावद्यम् । नापि परोपद्रवकृत । परोपद्रवकृदिति स्वीकारे ऽपि न सुरापानं तद्भवति ।

(पृ) अकुशलकर्मपथा इमे कुत्र वर्तन्ते । (उ) सर्वत्र पञ्चगतिषु वर्तन्ते । उत्तरकुरुषु केवलं न सन्ति । मिथ्याकामचारस्त्रिभिर्वस्तुभिरुत्थापितः कामरागेण संसिद्धः । अन्ये त्रिभिर्वस्तुभिरुत्थापितः त्रिभिर्वस्तुभिः संसिद्धः । (पृ) आर्याः किमकुशलं कर्म कुवन्ति न वा । (उ) मानसाकुशलकर्मोत्पत्तावपि न कायिकवाचिककर्मोत्पादयन्ति । मानसकर्मण्यपि द्वेषचित्तमात्रमुत्पादयन्ति न वधचित्तम् । (पृ) सूत्र उक्तम्- शैक्षा अन्यान् शपमाना आहुः समुच्छिन्नवृषणो भव इति । तत्कथम् । (उ) [अन्यत्] किञ्चित्सूत्रमाह- अर्हन् शपत इति । अयं क्षीणास्रव पुरुषः प्रहीणक्लेशमूलः चित्तमेव नोत्पादयति । किं पुन शपेत इति । शैक्षस्य शापवचनमपि तथैव स्यात् । आर्या अकुशलकर्मसु अविज्ञप्तिसंवरं लभन्त । कथं कुर्युरकुशलम् । न च ते दुर्गतौ पतन्ति । यद्यकुशलमुत्पादयन्ति । पतेयुरपि । यद्यार्या इहाध्वनि अकुशलं कर्म कृत्वा दुर्गतौ न पतन्ति । अतीताध्वनि अकुशलकर्मवन्त इति कस्मान्न पतन्ति । (उ) आर्याणां मनसि तत्त्वज्ञाने समुत्पन्ने सर्वे ऽकुशलकर्मपथा मन्दा भवन्ति यथा दग्धं बीजं न पुनः प्ररोहति ।

त्रीणि च विषाणि द्विविधानि- दुर्गतिप्रापकाणि तदप्रापकाणीति । यानि दुर्गतिप्रापकाणि तानि आर्याणां प्रक्षीणानि । कर्मक्लेशाभ्यां हि शरीरमुपादीयते । आर्याः कर्मयुक्ता अपि क्लेशविकलत्वान्न पतन्ति । किञ्च ते रत्नत्रयाख्यमहास्थानबलमवष्टभ्य महदकुशलं क्षपयन्ति । यथा कश्चिद्राजाश्रित उत्तमर्णेन न पीड्यते । ते च तीक्ष्णप्रज्ञाविद्या अकुशलं कर्म क्षपयन्ति । यथा कश्चित्काये ऽग्निशक्तिविवृद्ध्या दुष्परिपाचं परिपाचयति । तेषां सन्ति बहव उपायाः । कदाचिद् बुद्धान् स्मृत्वा कदाचित्करुणां स्मृत्वा कुशलकर्महेतुभि[र्वा] अकुशलेभ्यो विमुक्तिं लभन्ते । यथा चोरो वह्वलीकैररण्यदुर्गमाश्रित्य नोपलभ्यते । आर्या इमे ज्ञानेन विमुक्तिमार्गं लभन्ते । यथा गौः स्वामिनं याति । विहग आकाशं निश्रयते । दीर्घरात्रं कुशलधर्माणामभ्यासान्न दुर्गतौ पतन्ति । यथोक्तं सूत्रे- यो नित्यं कायेन शीलं चित्तेन प्रज्ञामभ्यस्यति स नरकवेदनीयं कर्माभिमुखीभूय लघु वेदयते इति । यथा चाह गाथा-

चरन्तं करुणाचित्ते ऽप्रमाणे ऽनिरावृते । गुरुकर्माणि सर्वाणि न किञ्चिदुपयन्ति च ॥ इति ।

आर्याणामेषाञ्चित्ते ऽकुशलं कर्म न स्थिरीभवति । सन्तप्तायसि पतितैकजलबिन्दुवत् । आर्याणां कुशलं कर्म सुदूरगामि खदिर वृक्षमूलवत् । आर्याश्चेमे बहुकुशला अल्पाकुशलाः । अल्पमकुशलं बहुकुशलेषु वर्तमानं न बलवत् यथा गङ्गायां क्षिप्तमेकपललवणं न विकारयति तद्रसम् । आर्यास्ते पुण्यश्रद्धादिना धनिकाः । यथा दरिद्र एककर्षापणाय पापं स्वीकरोति । न [तथा]धनिकः शतसहस्रेभ्यो ऽपि पापं प्राप्नोति । आर्यमार्गप्रवेशाब्दहुमता भवन्ति । यथार्याः सत्यपि पापे न नरकं प्रविशन्ति । यथा व्याघ्रशार्दूलजाश्ववराहानां(णां) सह विवदमानानां बलिष्ठो जयं लभते । आर्याणामेषां चित्तामार्यमार्गोषितम् । दुर्गतिकपापानि न पुनरुपायासयन्ति । यथा राजाध्युषित एकान्तगृहे नान्ये प्रविशन्ति । आर्याः स्वविहृतिस्थानविहारिणः । न [तेषु] दुर्गतिकपापकर्माण्यवकाशं लभन्ते । तद्यथा गृध्रो वा कङ्क इति दृष्टान्तः । किञ्चार्याश्चतुस्मृत्युपस्थानेषु चित्तं प्रतिबध्नन्ति । अतो दुर्गतिककर्माणि नावकाशं लभन्ते । शाखानिवेशितवृत्तघटवत् । द्विविधसंयोजनसमन्वागमाद्धि दुर्गतौ पतितो यथाकर्म विपाकं वेदयते । आर्यास्तु एक [संयोजन]प्रहाणान्न दुर्गतौ पतन्ति । ते सदा कुशलकर्मविपाकं समाददत इत्यतो (sss_279) दुर्गतिककर्माणि नावकाशं लभन्ते । यथा पूर्वं षट्कर्मवर्गे प्रतिपादितं नरक[वेदनीयं] कर्मलक्षणम् । [तादृश]कारणाभावादार्या न दुर्गतौ पतन्ति ॥

दशाकुशलकर्मपथवर्गः षोडशोत्तरशततमः ।

117 दशकुशलकर्मपथवर्गः

दशकुशलकर्मपथा यदुत प्राणातिपातविरतिः यावत्सम्यक्दृष्टिः । इमे दशशीलसंवरसङ्गृहीता ऐककालिकाः । ध्यानमरूपसंवरसङ्गृहीतमपि ऐककालिकम् । विरतिर्नाम कर्मपथः । साविज्ञप्तिरेव । (पृ) वन्दनादीनि पुण्यानि अन्ये कर्मपथाः सन्ति । कस्माद्विरतिमात्रं कर्मपथ इत्युच्यते । (उ) विरतिप्राधान्यात् । इमानि दश कर्माणि दानादिभ्य उत्कृष्टानि । कस्मात् । दानादिना लब्धः पुण्यविपाको न शीलधारणस्य [तुला]मर्हति । यथा दशवार्षिकः पुमान् प्राणातिपातविरतिप्रत्ययमायुर्वर्धयति । दशाकुशलकर्मणां पापत्वात् तद्विरतिः प्रकृतितः पुण्यम् । अन्तिमानि त्रीणि कुशलकर्माणि कुशलकर्माणां मूलम् । तस्माद्दानादीनि कुशलानि कर्मपथसङ्गृहीतानि । अस्मिन् कर्मपथे ऽस्ति पौर्वापर्येणोपनिध्योक्तकशाताडनादिविरतिः । अतः सर्वाणि कुशलानि अत्र सङ्गृहीतानि ॥

दशकुशलकर्मपथवर्गः सप्तदशोत्तरशततमः ।

118 आदीनववर्गः

(पृ) अकुशलकर्मणां किमादीनवम् । (उ) अकुशलकर्मभिर्नरकादिदुःखं वेदयते । यथोक्तं सूत्रे- प्राणातिपातप्रत्ययं नरके पतति । यदि मनुष्येषूत्पद्यते । अल्पायु र्विन्दते । यावदेवं मिथ्यादृष्टिः । अकुशकर्मप्रत्ययं चिरं दुःखमनुभवति । यथावीचिनरके ऽप्रमाणवर्षाण्यतिवाहयन् नायुः क्षपयति इति । सत्त्वानां विद्यमानाः सर्वा अकुशलपराभवहानिपीडा अकुशलैः [कर्मभि]रेव भवन्ति । अदृष्टाकुशलकर्मणां महोपकारो ऽस्ति । यथा सैनिकव्याधादयो नानेन कर्मणा बहुमानं लभन्ते । चोरवधप्रत्ययं धनभानं लभत इति यत् भवत आशयः । तदिदं पूर्वमेव त्रिकर्मवर्गे प्रत्युक्तम् । अकुशलचारी गर्हानिर्भत्सनादीनि (sss_280) दुःखोपायासाङ्गानि विन्दते । परेषामनिष्टप्रापकं क्रूरमित्यत एभ्यो ऽकुशलकर्मभ्यो विरमितव्यम् । उक्तञ्च सूत्रे- प्राणातिपातस्य पञ्चावद्यानिः- (1) जनानामश्रद्धेयता, (2) दुर्यशःप्राप्तिः, (3) कुशलाद्विप्रकृष्याकुशलप्रत्यासत्तिः, (4) मरणकाले चित्तविप्रतिसारः, (5) अन्ते दुर्गतिपतनम् इति । प्राणातिपातप्रत्ययमल्पसुखं बहुद्दुःखं भवति । अकुशलकर्माचरणं पुरुषचित्तं संक्लेशयति । अध्वन्यध्वनि समुपचितसमुदयश्चिरं दुश्चिकित्सो भवति । अकुशलचारी तमसस्तमः प्रविष्टः प्रवृत्तिमार्गत्रितयान्न निर्याणं लभते । अकुशलचारी मनुष्यदेहोपादानं वृथाकरोति । यथोषधिनिचितात् हिमगिरेर्विषतृणस्य समाहर्तातिमूढो भवति । एवं दशकुशलकर्मपथैर्मनुष्यदेहं लभते । कुशलमनाचरन् केवलं महतीं हानिमेव करोति । किं पुनरकुशलकर्मसमादाने । किञ्चाकुशलचारी स्वकायं कामयन्नपि न वस्तुतः स्वात्मानं

कामयते । स्वात्मानं रक्षन्नपि नात्मानं रक्षति । आत्मपीडाकरकर्मप्रत्ययत्वात् । पुरुषो ऽयं कायसङ्गतः तद्यथामित्रचोरेण [सङ्गतः] स्वात्मन एव दुःखकारकत्वात् । यो ऽकुशलमाचरति । स स्वयमेव तत्कायं चोरयति । किं पुनः परः । अकुशलकर्मचर्या यद्यपीदानीं नाभिव्यज्यते विपाके तु अध्यवसीयते । तस्मादल्पीयस्यपि अश्रद्धा न कर्तव्या । यथाल्पीयो ऽपि विषं पुरुषं हन्ति । यथा वा ऋणमल्पमपि क्रमेण वृद्ध्या वर्धते । परस्य कृतं पापं परः सदा न विस्मरति । अतः कृतं चिरविप्रकृष्टमपि न श्रद्धातव्यम् । अकुशलचारी न सुखे रमते । अकुशलाचरणाद्देवमनुष्यसुखाद्भ्रश्यति । असुखरतो मूढः श्रेष्ठः । अकुशलचारिणो दुःखं गाढशोचनीयं भवति । विप्रतिसारादिदुःखं प्रत्यक्षं वेदयते । अन्ते तु दुर्गतिदुःखं वेदयते । अकुशलकर्मफलात् विहायसा गत्वा समुद्रे निमज्यापि न विमुक्तिस्थानं लभते । यथा सुवर्णतोमरो बुद्धमन्वधावत् । सर्वमकुशलं मोहोत्थितम् । अतो विद्वान् नानुस्मरेत् । उक्तञ्च सूत्रे- प्रमादः शत्रुवत्कुशलधर्मान् हन्ति इति । अतो नानुस्मरेत् । किञ्चाकुशलं कर्म बुद्धबोधिसत्त्वैरर्हद्भिरार्यैः पञ्चभिज्ञैर्महर्षिभिः पुण्यपापवेदिभिरविगीतं न भवति । अतो न कुर्वीत । पश्यामः खलु प्रत्यक्षमकुशलचित्तवैपुल्य एव भावव्यामोहविक्षेपोपायासाधिदुःखैर्विकृतमुखवर्णः पुमानप्रीतो दृश्यत इति । किं पुनः कायिकवाचिककर्मोत्पादने । एभिः प्रत्ययैर्ज्ञायते अकुशलानामप्रमाणान्यवद्यानि सन्तीति ॥

आदीनवर्गो ऽष्टादशोत्तरशततमः ।

119 त्रिकर्मगौरवलाघववर्गः

त्रिषु कर्मसु किं गुरुतरं- किं कायिकं कर्म, वाचिकं कर्म किं वा मानसं कर्म । (पृ) केचिदाहुः- कायिकं वाचिकञ्च कर्म गुरुतरम् । न मानसं कर्मेति । कस्मात् । कायिकवाचिककर्मणोर्नियमेन सत्यत्वात् । यथा पञ्चानन्तर्याणि कायं वाचञ्चोपादाय क्रियन्ते । कायो वाक् च कर्म निष्पादयति । यथा कश्चिदिमं सत्त्वं हन्मीति चित्तमुत्पाद्य कायवाग्भ्यां तत्कर्म साधयति । न मानसकर्ममात्रेण प्राणिवधपापं विन्दते । नापि चित्तोत्पादमात्रेण चैत्यनिर्माणब्राह्मपुण्यं विन्दते । कायवचस्यसति मानसिककर्ममात्रस्य न विपाको ऽस्ति । यथा कश्चिच्चित्तमुत्पादयति दानं दास्यामीति । न तु प्रयच्छति । न तस्यास्ति दानपुण्यम् । नापि प्रणिधानमात्रेण वस्तु परिनिष्पद्यते । यथा कश्चित्सङ्घस्य महादानं करोमीति प्रणिदधाति । न तु ददाति । तस्य नास्ति सङ्घदानपुण्यम् । मानसं कर्म महत्तरमिति चेत् [तदा] दानपुण्यं लभेत । तथा च कर्मविपाकः व्यामोहः स्यात् । विनये च नास्ति मानस्यापत्तिः । यदि मानसं कर्म महत्तरम् । कस्मान्नास्त्यापत्तिः । यदि चित्तमुत्पादयितुः पुण्यं लभ्यत इति । तदा पुण्यं सुलभं स्यात् । आचरिता कस्मात् सुलभमिदं कर्म त्यक्त्वा दुराचरणं दानादिकर्म कुर्यात् । तथा चेदक्षीणपुण्यः स्यात् । यथा कश्चिद् वृथा चित्तमात्रमुत्पादयति । नात्यन्तं व्याप्रियते । [तदा] कस्य क्षयः । धनं परिमितमित्यतः पुण्य[मपि] क्षीयते । न चित्तोत्पादमात्रं परस्योपकरोति । अपकरोति वा । यथा तर्षितो बुभुक्षितः सत्त्वः पानमाहारमभिलषति । न मानसकर्मणा वार्यते । लौकिकानां हानिलाभावतिमात्रौ । चित्तं लघु चलं दुर्दममित्यतो ऽकुशलाकरणं न किञ्चित्

। तदा गुर्वी हानिं विन्देरन् । ये पुण्यचिकीर्षया कुशलचित्तमुत्पादयन्ति । ते महालाभमेवाप्नुयुः । इदन्तु अत्यन्तं दुष्टम् । यदि मानसं कर्म महत्तरम्, प्राणातिपातचिकीर्षाचित्तमुत्पादयन् नरके पतेत् । एवं चिरोपचितेनापि शीलादिना किमुपकृतं स्यात् । शीलादिकुशलाचाराणां गुणा अव्यवस्थिता भवेयुः । कस्मात् । एकचित्तोत्पादमात्रेण पापलाभात् । उक्तञ्च सूत्रे- कायिकं वाचिकं कर्म औदारिकम् । अतः पूर्वं प्रजह्यात् । औदारिकक्लेशप्रहाणाच्चित्तं समाधीयत इति । यो ऽब्रह्मचर्यचित्तमुत्पादयति । तस्य मैथुनं कृतमिति शीलं विपद्येत । यश्चित्तोत्पादः न तन्मैथुनम् । एतन्मैथुनचित्तव्यतिरिक्तः को धर्मो मैथुनमित्युच्यते । उत्पद्यमानं विज्ञप्तिकर्म सर्वं कायवचसा भवति न मानसकर्मणा । यथा परपुरुषनिन्दा अवश्यं वाक्कर्माधीना मृषावादपापं गमयति । यत्पूर्वमुक्तं चतुर्भिः प्रत्ययैः (sss_282) प्राणातिपातपापं लभते यदुत सत्त्वसत्ता, सत्त्वसत्ताज्ञानं, जिघत्साचित्तं तज्जीवितोच्छेद इति चतुर्भिर्वस्तुभिः पापं सिध्यति । [अतो] ज्ञातव्यं न मानसं कर्म गुरुतरमिति । यथा चाह भगवान्- यो बालक आजन्म करुणामभ्यस्यति । स किमकुशलं कर्मोत्पादयितुं शन्कोति अकुशलं कर्म चेतयते वा इति । अतो ज्ञायते कायिकं कर्मैवोत्पादयति न मानसं कर्म इति ।

अत्रोच्यते । यत् भवानाह- कायिकं वाचिकं कर्मैव गुरुतरं न मानसम् इति । तदयुक्तम् । कस्मात् । सूत्रे भगवानाह-

चित्तं धर्मस्य वै मूलं चित्तं प्रभुश्च किङ्करः । शुभाशुभं तत्स्मरति वचनं चरणञ्च तत् ॥ इति ।

अतो ज्ञायते मानसं कर्मैव गुरुतरमिति । मनोविशिष्टत्वेन कायिकवाचिककर्मणो र्विशेषो ऽस्ति । यथा उत्तमं मध्यममधममित्यादि । विना चित्तं नास्ति कायिकं वाचिकं कर्म । सूत्रे वचनाच्च विज्ञप्तिकर्म कृत्वा नियमेन विपाकं वेदयते । आह च- सप्तविशुद्धिपुण्यानां त्रिविधमानसकर्ममात्रमुपयोजयति । इमानि सप्तविशुद्धिपुण्यानि पुण्यसम्पत्सूत्तमानि भवन्ति । करुणा च मानसं कर्म । सूत्रमाह- करुणाचित्तं विपाकप्रापकमिति । यथाह सूत्रम्- पुराहं सप्तवर्षाणि करुणासमुदाचरणान्नेएमं लोकं सप्तमहाकल्पान् प्रतिनिवर्तामीति । अतो ज्ञायते मानसं कर्मेव गुरुतरमिति । तदेव सर्वान् लोकान् व्याप्तुं शक्नोति । मानसं कर्म गुरुतरम् । यथा मानसकर्मविपाकादशीतिमहाकल्पहस्राण्यायुर्भवति । मानसकर्मणः शक्ति कायिकं वाचिकं कर्मातिशेते । यथा कुशलचारी आयुषो ऽन्ते मिथ्यादृष्टिमुत्पादयन् नरके पतति । अकुशलचारी मरणकाले सम्यग्दृष्टिमुत्पादयन् देवेषूत्पद्यते । [ततो] ज्ञातव्यं मानसं कर्म महत्तरमिति । उक्तञ्च सूत्रे- पापेषु मिथ्यादृष्टिर्गुरुतरेति । आह- यो लोकोत्तरां सम्यग्दृष्टिमुत्पादयति स वर्षशतसहस्याणि संसारे संसरन्नपि न दुर्गतौ पतति इति । मानसकर्मणो बलं कायिकं वाचिकं कर्मातिशेते । यथोक्तमुपालिसूत्रे- तीर्थिको महर्षिः [आगत्य वदेत्] एकेन मनोदण्डेन नालन्दं भस्मीकरोमीति इति । यथा दण्डकारण्यानि ऋषिणां मनोदण्डेन [भस्मी]कृतानि इति । मानसं कर्मैव विपाकप्रापकम् । यथोक्तं (sss_283) सूत्रे- यो ऽयमत्र मृतः स एव नरकं प्रविशति । स एव देवेषूत्पद्यते हस्तमुक्तेषुवत् इति । यथा मानसकर्मणोपचित्तैर्मलधर्मैर्यावदवैवर्तिकनरकं प्रविशति । [तथा] उपचितैः कुशलधर्मैर्यावन्निर्वाणम् । चैतसिकस्य सविपाकत्वादेव कायिकं वाचिकं विपच्यते । अभावे कर्मणो विपाकाभावात् । न विना मानसं कर्म कायवाक्कर्मणोर्विपाको ऽस्ति । यन्मनसा कायं वाचञ्च निश्रित्य कुशलमकुशलं वा चरति तत्कायिकं वाचिकं कर्मेत्युच्यते । विनापि कायिकवाचिककर्मणनसकर्मणो विपाको ऽस्ति । न तु विना मानसं कर्म कायिकस्य वाचिकस्य वा विपाकः । अतो ज्ञायते मानसं कर्म गुरुतरं न कायिकं वाचिकम् । इति ।

यद्भवतोक्तं कायिकवाचिककर्मणोर्नियमेन सत्यत्वात् यथा पञ्चानन्तर्याणि कायं वाच[ञ्चोपादाय] क्रियन्त इत्यतो गुरुतराणीति । तन्न युज्यते । यस्मात् चेतना गुर्वी वस्तु च गुरु तस्मात्कर्म गुरु । न कायवचसी गुरुणी इति । चित्तनैयत्यात्कर्म नियमेन सत्यम् । यथा चित्तबलमात्रेण सद्धर्मपदं प्रविशति तथा चित्तबलेनैव चानन्तर्यपापं सम्पादयति । असति चित्ते मातापितृवधो ऽपि नानन्तर्यम् । अतो ज्ञायते कायवचसी न बलवतीति ।

उक्तं भवता काये वाक् च कर्म वस्तु निष्पादयतीति । तन्न युक्तम् । कर्मसमापनं निष्पत्तिः । परस्यायुरपहरन् प्राणातिपातपापं लभते । न कायिकवाचिककर्मोत्पत्तिकाले । कर्मसमापने चित्तबलमवश्यमपेक्षते । न कायवचसी । यदुक्तं भवता- वृथाचित्तोत्पादमात्रेण नास्ति विपाक इति । तदयुक्तम् । यथोक्तं सूत्रे- दृढचित्तमुत्पाद्य तदैव देवेषूत्पद्यते नरके वाधः पतति इति । कथमाह मानसकर्मणो न विपाको ऽस्तीति । यदुक्तं भवता- नापि प्रणिधानमात्रेण वस्तु साधयतीति । तदप्ययुक्तम् । कस्यचिदुत्पन्नं गभीरं कुशलचित्तं महासङ्घ[दान]पुण्यमप्यतिशेते । यदाह भवान्- नास्ति मानस्यापत्तिरिति । तदयुक्तम् । यदाकुशलचित्तमुत्पादयति तदैव पापं लभते । यथाह भगवान्- सन्ति विविधानि पापानि कायिकवाचिकमानसपापानीति । अतो ज्ञायते ऽकुशलचित्तोत्पादमात्रम पापमिति न लभ्यते । असंयोजनमात्रं शीलम्, दुर्धरत्वात् । औदारिकं पापं शीलधारणेन वारयति । सूक्ष्मं पापं समाध्यादिना परिहरति ।

यदुक्तं भवता पुण्यं पापञ्च सुलभं स्यादिति । तदयुक्तम् । चित्तबलस्य तनुत्वात् जनाः सुलभं त्यक्त्वा दुर्लभं कुर्वन्ति । यथा करुणाचित्तादि, तत्पुण्यमतिमात्रबहुलम् । न तु दानं [तथा] । सत्त्वा अवरज्ञानबलाः करुणादि मानसं कर्म चरितुं न समर्था इत्यतो (sss_284) दानादि कुर्वन्ति । प्रकीर्णकुसमगन्धादिषु पूजोपकरणेषु विशुद्धचित्तस्य दुर्लभत्वात् । यदुक्तमक्षीणपुण्यः स्यादिति । तत्प्रतिब्रूमः । स यदि बोधिबलयुक्तः तदा अक्षीणं कुशलधर्मं लभेतैव । यदुक्तं मानसं कर्म न कस्यचिदुपकरोति अपकरोति वा इति । तन्न युज्यते । कायिकवाचिकर्माणि मानसकर्मणाहृतानीति न प्रधानानि भवन्ति । यद्बलादुत्पद्यते तत् [ततः] प्रधानम् । सर्व उपकाराः करुणाचित्तविहाराधीना भवन्ति । कस्मात् । करुणाविहारबलात्समीरणवृष्टयोः ऋतुमनुवर्तमानयोरपि बीजशतानि पच्यन्ते । यथा कल्पादौ तण्डुलानि स्वयमुत्पद्यन्ते पुरुषाणां दशवर्षायुःकाले प्राप्ते तत्सर्वं नाभूत । कथमाह- करुणाचित्तमनुपकारकमिति । करुणाविहारी सर्वाण्यकुशलमूलानि क्षपयति । अकुशलकर्माधीना हि सर्व उपद्रवाः । कथमाह- करुणाविहारो महोपकारक इति । यदि सर्वे सत्त्वाः करुणाचित्ते विरहन्ति । तदा सर्वे सुस्थान उत्पद्येरन् । न हि सर्वे प्रकृतितः पुण्यप्रयोगमभिलषन्ति । अतो ज्ञायते करुणापुण्यं परमगभीरगहनमिति । कदाचित्करुणादानाभ्यां सत्त्वानुपकुर्वन्ति । कदाचित्करुणामात्रेण । करुणाविहारिणः सत्त्वा यदि कायं स्पृशन्ति । यदि वा तच्छायायां निपतन्ति । सर्वथा निवृतिं लभन्ते । ज्ञातव्यं करुणापुण्यं दानादिभ्य उत्तममिति ।

यदुक्तं भवता- हानिलाभावतिमात्राविति । तत्प्रत्युक्तपूर्वं यन्मनोबलेन सत्त्वानुपकरोति अपकरोति चेति । अतो ज्ञायते मानसं कर्म गुरुतरमिति । यदुक्तं चिरोपचितेनापि शीलादीना न किञ्चिदुपकृतमिति । तदप्ययुक्तम् । कस्मात् । मनोविशुद्धया हि शीलविशुद्धिः । यदि मनो न विशुद्धम् । शीलमपि न विशुद्ध्यति । यथेदं सप्ताब्रह्मचर्यसूत्र उक्तम् । विशुद्धशीलश्च महाविपाकं प्रतिलभते । यथाह सूत्रम- शीलव्रतः प्राणिहितं मनो ऽनुयायि भवति । यदुत शीलविशुद्ध्या इति । शीलविशुद्धौ च चित्तं प्रशाम्यति । नान्यधर्मे [सति] । यदुक्तं कायिकं वाचिकं कर्मादौरिकम् । अतः पूर्वं प्रजहातीति । तदयुक्तम् । सूक्ष्मकुशलेन महाविपाकं लभते । यथा ध्यानसमापत्तौ चेतना । यदुक्तं यद्यब्रह्मचर्यचित्तमुत्पादयति तदा शीलं विपद्येतेति । तदयुक्तम् । यस्य मानसं कर्माविशुद्धम्, तस्य शीलमपि अविशुद्धम् । पुण्यपापयोर्भेदे लब्धे संयोजनशीलधर्मयोर्भेदः । यदुक्तं त्वया- उत्पद्यमानं विज्ञप्तिकर्म कायवाग्भ्यां भवतीति । तत् सामान्यतः प्रत्युक्तं यदुत कायिकवाचिककर्मधर्मभेदे मानसकर्मधर्मभेदः । कायिकं वाचिकं कर्म अवश्यं विज्ञापयित्रा सिध्यति । यथा चतुर्भिः प्रत्ययैः सिद्धं प्राणातिपातपापं न मानसकर्म विना भवति । लौकिकाः सत्वा वदन्ति कायिकं वाचिकं कर्माकुशलं न तथा मानसमिति । (sss_285) मानसं कर्म च न जनेषूपप्रयुज्यते नाप्युपलभ्यते ऽस्तीति । पूर्वञ्चोक्तं पुण्यपापयोर्लक्षणम् । तल्लक्षणत्वान्मानसं कर्मैव गुरुतरं न कायिकं वाचिकं वा ॥

त्रिकर्मगौरवलाघववर्ग एकोनविंशत्युत्तरशततमः ।

120 कर्महेतुप्रकाशनवर्गः

शास्त्रमाह- संक्षिप्योक्तानि कर्माणि । कर्मेदं कायोपादानस्य कारणम् । कायो दुःखस्वभावः । अतस्तं निरोधयेत् । एतत्कायनिरोद्धुकामेन तत्कर्म प्रहातव्यम् । हेतुनिरोधे फलस्यापि निरोधात् । यथा बिम्बमुपादाय प्रतिबिम्बम् । बिम्बनिरोधे प्रतिबिम्बं निरुध्यते । अतो दुःखनिरोधकामिना तद्धेतुकर्मप्रहाणाय वीर्यमारब्धव्यम् ।

(पृ) कर्मतः काय उत्पद्यत इतीदं प्रतिपादयितव्यम् । कस्मात् । केचिदाहुः- कायः प्रकृतित उत्पद्यत इति । केचिदाहुः- महेश्वरादुत्पद्यत इति । केचिदाहुः- महापुरुषात्सम्भूत इति । अन्ये केचिदाहुः- स्वभावज इति । अतो वक्तव्यं कारणं कथं ज्ञायते कर्मत उत्पद्यत इति । (उ) इदं विविधैः कारणैर्दूषितम् । ज्ञातव्यं कर्मतः कायमुपादत्त इति । पदार्था नानाविप्रकीर्णजातय इति ज्ञातव्यं हेतुरपि भिद्यत इति । यथा पश्यामः अलकसन्दुककोद्रवादीनां भेदः तद्बीजमसमं ज्ञापयति इति । महेश्वरादीनां भेदाभावात् न हेतुरिति ज्ञातव्यम् । कर्मणस्तु अप्रमाणविभक्तत्वात् नानाकाया उपादीयन्ते । किञ्च सज्जनाः श्रद्धधन्ते यत् कर्मोपादाय काय उपादीयत इति । कस्मात् । ते हि सदाचरन्ति दानशीलक्षान्त्यादिकुशलधर्मान् । विरम्यन्ते च प्राणातिपाताद्यकुशलधर्मेभ्यः । अतो ज्ञायते कर्मतः शरीरमुपादीयत इति । यदि कर्मोपादाय शरीरमुपादीयते तदा तत् निवर्तनीयम् । तत्त्वज्ञानलाभान्मिथ्याज्ञानं प्रहीयते । मिथ्याज्ञानप्रहाणात्कामक्रोधादयः क्लेशाः प्रहीयन्ते । क्लेशानां प्रहाणादूर्ध्वजन्मोत्पादकं कर्मापि प्रहीयते । तदा त्वयं कायो निवर्त्यते । ईश्वरादीनां कारणत्वे तु न निवर्तयितुं शक्यते । ईश्वरादीनामप्रहातव्यत्वात् । अतो ज्ञायते कर्मतः शरीरमुपादीयत इति । प्रत्यक्षं प्रश्यामः खलु हेतुसदृशं फलम् । यथा क्रोद्रवात्कोद्रव उत्पद्यते शालेश्च शालिः । एवमकुशलकर्मतो ऽनिष्टविपाको लभ्यते । कुशलकर्मत इष्टविपाकः । ईश्वरादीषु तु नेदृशमस्ति । अतः कर्म कायस्य मूलम् । नेश्वरादयः ।

पश्यामः खलु प्रत्यक्षं पदार्थाः कर्मसम्भूता इति । अकुशलकर्मणा हि ताडननिग्रहबन्धनकशाधातादिदुःखान्यनुभवन्ति । कुशलकर्मप्रत्ययञ्च यशोलाभसत्कारादिसुखान्यनुभवन्ति । मनोज्ञप्रियवादी मनोज्ञप्रियविपाकं विन्दते । अतो ज्ञायते कर्मतः शरीरमुपादीयते न महेश्वरादिभ्य इति । लौकिकाः स्वयं जानन्ति पदार्थाः कर्महेतसम्भूता इति । अत एव कृष्यादिकर्म कुर्वन्ति । दानशीलक्षान्त्यादिपुण्यकर्माणि च कुर्वन्ति । नान्त[र्गृह]मुपविशन्ति ईश्वरादिभ्य ईप्सितमाकांक्षमाणाः । अतो ज्ञायते कर्मतो विपाको लभ्यत इति । जना ईश्वरादीन् कारणं वदन्तो ऽपि कर्माणि निश्रयन्ते यदुत स्वदेहं खेदयन्त उपवासादीन् स्वीकुर्वन्ति च । अतो ज्ञायते कर्महेतुकमिति । यददृष्टं वस्तु तत्र परशासनमनुसरेत् यदार्याणामाचरितम् । सर्वे चार्याः शीलादिकुशलधर्मान् निश्रयन्ते यतो जानन्ति कर्महेतोर्लोको ऽस्तीति । यदि शीलादिविरतः न [स] आर्यो भवति । न कश्चिदार्यः शासनप्रतिद्वन्द्विकर्मको भवति । अतो ज्ञायते कर्मणः शरीरमुपादीयत इति । किञ्च शीलादि कर्मणामाचरणादृध्यभिज्ञानिर्मितादीनि साधयन्ति । अतो ज्ञायते कर्महेतुक इति । नरकादिदुर्गतिषु द्वेषप्रदाशादयो बहुलाः । अतो ज्ञायते द्वेषप्रदाशादिना दुर्गतयो भवन्तीति । यथा उपरि वृक्षे फलं दृष्ट्वा जानन्ति वृक्षस्तद्धेतुरिति । अतो ज्ञायते कर्म देहस्य मूलमिति । दुर्गतौ मोहादयः प्रबला इति ज्ञातव्यं क्लेशाः दुर्गतिकारणम् । सर्वेषामकुशलानां मोहाधीनत्वात् इति । दुर्गतिषूत्पन्ना बहवः, सुगतिषूत्पन्ना अल्पाः । चक्षुषा पश्यामः खलु वधाद्यकुशलचारिणो बहवः । कुशलचारिणो ऽल्पा इति । अतो ज्ञायते

हिंसादिवृत्तिर्दुर्गतिकारणमिति । वधादि सज्जना विगर्ह्य न कुर्वन्ति । यदि जानन्ति नाशुभफलानीति कस्मात् निराकुर्वन्ति । सज्जानानां चित्ते यद्यकुशलमुत्पद्यते तदैव प्रयत्नेन निगृह्यते । अकुशलविपाकभीरुत्वात् । [अतो] ज्ञातव्यं वधादयो ऽवश्यमकुशलविपाका इति । तथा नोचेत् यथेष्टं कुर्यः इदमेव परमं सुखमिति । तदा हत्वा सत्त्वानां भोजनं परद्रव्यापहारः यदि वा परस्त्रीगमनं इमान्यपि सुखानि भवेयुः । आगामिदुःखभीरुत्वात् तानि दूरतः परिहरन्ति । अतो ज्ञायते कर्मतः कायो भवतीति । सम्यक् ज्ञानभावनया सास्रवं कर्म क्षीयते । न तदा काय उपादीयते । अतो ज्ञायते कर्म तस्य मूलमिति । अर्हतो यद्यपि सास्रवकर्माणि सन्ति । सम्यक् ज्ञानभावनया तु [तानि] नोपचिनोति । अतो ज्ञायते कर्म कायस्य हेतुरिति । कायहेतुनिरोधात्कायो ऽपि निरुध्यते । चतुस्सत्यज्ञानात् सत्याश्रयाः क्लेशा न कदापि पुनरुद्भवन्ति । अनुद्भवान्न भवति कायवान् । विद्वानेवं चिन्तयन् चतुस्सत्यानि जिज्ञासति । अतो ज्ञायते कर्म कायस्य हेतुरिति । प्रत्यये विकले च न (sss_287) कायमुपादत्ते । यथा शुष्कभूमौ बीजे च दग्धे न सर्वो ऽङ्कुरः प्ररोहति । एवं विज्ञानस्थितिक्षेत्रे तृष्णास्नेहानभिष्यन्दिते कर्मबीजे च तत्त्वज्ञानदग्धे नोर्ध्वदेहाङ्कुरः प्ररोहति । विद्वानेतद्वस्तु प्रज्ञाय विज्ञानस्थितिक्षेत्रं शोषयितुं कर्म बीजं दग्धुञ्च वीर्यमधिष्ठाय प्रयतते । अतो ज्ञायते कर्म कायोपादानस्य प्रत्यय इति ॥

कर्महेतुप्रकाशनवर्गो विंशत्युत्तरशततमः । कर्माधिकारः समाप्तः ॥

121 समुदयसत्यस्कन्धे क्लेशाधिकारे आद्यक्लेशलक्षणवर्गः

शास्त्रमाह- उक्तानि कर्माणि । क्लेशा इदानीं वक्ष्यन्ते । मलिनचित्तसमुदाचारः क्लेश इत्युच्यते । (पृ) किं मलमुच्यते । (उ) यत् संसारसन्तानस्य प्रवर्तकं तन्मलिनचित्तमित्युच्यते । तन्मलिनचित्तप्रभेदा एव रागद्वेषमोहादयः । इदं मलिनचित्तं क्लेश इत्युच्यते । पापधर्म इत्यपि, परिहाणिधर्मः तिरोभावधर्म परितपनधर्म अनुपतनधर्म इत्यादिनाम्नाप्युच्यते । एतन्मलिनचित्ताभ्यासोपचयो ऽनुशय इत्युच्यते । न तु मलिनचित्त उत्पन्नमात्रे ऽनुशयः । क्लेशा नाम रागद्वेषमोहविचिकित्सामानपञ्चदृष्टयः । तत्प्रभेदा अष्टनवतिरनुशयाः ।

रागः प्रीतिसुखाख्यस्त्रिविधः । विभवप्रीतिसुखमपि राग इत्युच्यते । यथोक्तं सूत्रे- कामतृष्णा भवतृष्णा विभवतृष्णा इति । विभवो नाम प्रहाणं निरोधः । सत्त्वा दुःखाभिहता स्कन्धकायं परिजिहीर्षवो विभवं सुखं मन्यन्ते ।

(पृ) प्रीतिसुखं वेदनालक्षणं न नन्दिरागः । यथोक्तं सूत्रे- ऐहिकं सौमनस्यमामुष्मिकं सौमनस्यं इहलौकिकसुखवेदना आमुष्मिकसुखवेदना इत्यर्थमभिदधाति इति । किञ्चाह- ऐहिकं दौर्मनस्यमामुष्मिकं दौर्मनस्यं इहलौकिकदुःखवेदना आमुष्मिकदुःखवेदना इत्यर्थमभिदधाति । यथोक्तं देवताप्रश्ने- किं नन्दति पुत्रैः पुत्रवान् । भगवानाह- शोचति पुत्रैः पुत्रवान् इत्यादि ।

अत्रोच्यते । रागो नन्द्यङ्गम् । यथोक्तं सूत्रे- वेदनाप्रत्यया तृष्णा । सुखवेदनायां रागो ऽनुशयः । कबलीकाराहारे ऽस्ति नन्दिरस्ति रागः । नन्दिक्षयाद्रागक्षय इति । अतो ज्ञातव्यं रागः प्रीत्यङ्गमिति । इदं त्वनवद्यम् । केन तत् ज्ञायते । यथोक्तं सूत्रे- समुदयसत्यं यदुत तर्षणं इति । कस्याभिधानं तर्षणम् । यत् पुनर्भवलिप्सा । किंलक्षणमिदं तर्षणम् । यत् रागं निश्रित्य विविधलिप्सा । (पृ) यद्युच्यते पुनर्भवलिप्सा तर्षणलक्षणमिति । कस्मात्पुनरुच्यते रागं निश्रित्य विविधलिप्सेति । (उ) अस्ति पुनस्तर्षणलक्षणम् । विविधलिप्सेति विशिष्टलक्षणवचनम् । वीतरागस्याप्यस्ति विविधलिप्सातर्षणं यदुत सलिलादिलिप्सा । नेयं समुदयसत्यसङ्गृहीतम् । यद्रागमुपदाय पुनर्भवलिप्सा, तत्तर्षणं समुदयसत्यसङ्गृहीतम् ।

(पृ) यदि तर्षणमपि नन्दिः, रागो ऽपि नन्दिः कस्मादुच्यते रागं निश्रित्येति । (उ) आद्योत्पन्नं तर्षणम् । विवृद्धो रागः । अतस्तं निश्रित्येत्युच्यते । यथोक्तं सूत्रे- नन्दिसम्बन्धो लोक इति । अतो नन्दिरेव रागः । उक्तञ्च सूत्रे- निरोधं वर्जयित्वा रागो दौर्मनस्यञ्च सर्वे ऽकुशला धर्मा इति । तत्र राग एव नन्दिः । दौर्मनस्यं द्वेषः । यथोच्यते द्वेषो दौर्मनस्यमिति तदा ज्ञायते नन्दिः राग इत्युप्युच्यत इति । अतो ऽष्टादशमनौपविचारेषु न क्लेशा उच्यन्ते केवलं वेदना उच्यन्ते । अतो ज्ञायते नन्द्यङ्गं राग इति । पृथग्जना वीतरागा न वेदयन्ते सुखम् । वीतद्वेषाश्च न दुःखं वेदयन्ते । वीतमोहा नादुःखमसुखं वेदयन्ते । केन तत् ज्ञायते । तृतीयवेदनायामुच्यते पृथग्जना अस्या वेदनाया न जानन्ति समुदयं, न जानन्ति निरोधं, न जानन्ति आस्वादं, न जानन्ति आदीनवं न जानन्ति निस्सरणम् । अतो ऽदुःखासुखवेदनायामविद्यानुशयो ऽनुशेते । इमे पृथग्जनाः सदा पञ्चधर्मान् तान् न जानन्तीत्यतो ऽदुःखासुखवेदनायां सदाविद्यानुशयं र्वन्ति । यो ऽविद्यानुशयः तद्वेदनोपविचारस्वभावाज्ञानम् । एवं पृथग्जनानां सुखदुःखमनौपविचारावेव (sss_290) रागप्रतिघौ । यदादावागत्य चित्ते वर्तते [सा] वेदनेत्युच्यते । तदेव चित्तमधिमात्रं क्लेश इत्युच्यते ।

समुदयसत्यस्कन्धे क्लेशाधिकारे आद्यक्लेशलक्षणवर्गं एकविंशत्युत्तरशततमः ।

122 रागलक्षणवर्गः

शास्त्रमाह- नवसंयोजनेषु रागो ऽयमात्रिधातुप्रतिप्रतिसंयुक्तस्तृष्णेत्युच्यते । सप्तानुशयानामङ्गं द्विधा भवति- कामरागो भवराग इति । कस्मात् । केचिदूर्ध्वधातुद्वये विमुक्तिसंज्ञामुत्पादयन्ति । अतो भगवानाह- स्थानमिदं भव इति । भवो नाम जन्म । असति रागे न जन्म भवति इत्यतः पृथगुच्यते भवराग इति । न तु कामरागमात्रम् । केचिदाहुः- कामरागमात्रं क्लेशः । क्षीणकामरागो विमुक्तो नाम इति । अतो भगवानाह- आरूप्यध्याने ऽप्यस्ति भवराग इति । प्रदर्शयति च भगवान् तत्र[आपि] भवः सूक्ष्मः प्रवर्तत इति । अतः पृथगुच्यते ऽयं रागः । दशाकुशलकर्मपथेषु चतुर्षु बन्धनेषु च कामराग इत्याख्या भवति । कामरागस्य परद्रव्यलिप्येत्याख्या । पञ्चनीवरणानां पञ्चावरभागीयसंयोजनानाञ्च कामकामनेत्याख्या भवति । [तत्र]कामकामना नाम पञ्चकाम [गुणा]नां कामकामना । त्रयाणामकुशलमूलानामकुशलमूलराग इत्याख्या । अकुशलमूलरागो नाम अकुशलमूलानामुपचयनम् । अयं रागो यद्यधमाचरणः तदा अकुशलराग इत्याख्या । यथा परद्रव्यापहरणं, यावच्चैत्यसङ्घद्रव्यादानम् । यद्यमृतसत्त्वस्य मांसबुभुक्षा, यदि वा मातृभगिनीस्वस्राचार्यपत्नीः प्रव्रजितपत्नीं स्वपत्नीं वामार्गेण जिगमिषति । अयमकुशलराग इत्युच्यते । यत् स्वद्रव्यं न त्यक्तुमिच्छति । तत्कार्पण्यम् । कार्पण्यं राग एव । वस्तुतो ऽसति गुणे अस्तीति वक्तुमन्यप्रेरणमकुशलरागः । सति गुणे अन्यस्य तद्विजिज्ञापयिषा रागोत्पादनम् । बहुदानस्य बहुद्रव्यस्य वा लिप्सा, सा बहुरागता । यदल्पद्रव्यस्याल्पदानं लब्ध्वा प्रियतरं कामयते न तृप्यति । [इय]मसन्तुष्टिः । गोत्रकुलबन्धुयशोरूपसम्पद्यौवनजीवितादिषु यदभिष्वङ्गः [स] मद इत्युच्यते । यच्चतुःसत्काररागः [तत्] तृष्णाचतुष्टयमित्युच्यते ।

अयञ्च रागो द्विविधः कामरागः उपकरणराग इति । पुनर्द्विविधः आत्मराग आत्मीयराग इति । आद्य आद्यात्मिकप्रत्ययः । अपरो बाह्यप्रत्ययः । ऊर्ध्वधातुद्वये राग एकान्तेनाध्यात्मिकप्रत्ययः । (sss_291) पुनः पञ्चविधः- रूपरागः, संस्थानरागः, स्पर्शरागः, इर्यापथप्रलापरागः, सर्वराग इति । रूपरसगन्धशब्दस्पर्शरागः पञ्चकामगुणरागः । षट्सु स्पर्शेषूत्पन्ना तृष्णा षड्विषयरागः । तिसृषु वेदनासु रागो ऽस्ति सुखवेदनायामस्ति लिप्सारागः, तत्परिपालनरागः । दुःखवेदनायामस्ति अलिप्सारागः तत्परिजिहीर्षारागः । अदुःखासुखवेदनायामस्ति मोहरागः । सन्ति चास्य रागस्य नवाङ्गानि । यथोक्तं महानिदानसूत्रे- तृष्णां प्रतीत्य यथेष्टवस्तुपर्येषणा । यथा कश्चित् अनेन वस्तुना दुःखितो वस्त्वन्तरं पर्येषते । यथोक्तम्- सुखी न पर्येषते दुःखी तु बहु पर्येषते । रागविवृद्धिः पर्येषणा । पर्येषणाकाले यल्लभ्यते [स] तृष्णालाभः । लाभं प्रतीत्य विनिश्चयः । इदं ग्राह्यमिदमग्राह्यमिति यच्चित्तनिर्धारणं स विनिश्चयः । विनिश्चयं प्रतीत्य छन्दरागः । छन्दरागं प्रतीत्याध्यवसानम् । अध्यवसानं नाम प्रगाढच्छन्दः । अध्यवसानं प्रतीत्य परिग्रहः । परिग्रहो नाम उपादानम् । उपादानं प्रतीत्य मात्सर्यम् । मात्सर्यं प्रतीत्य आरक्षा । आरक्षाधिकरणं दण्डादानशस्त्रादानादि । इमानि नवाङ्गानि पुनरपि नवाङ्गगानि । रागो ऽयं कालमनुसृत्य अधमः, मध्यमः, उत्तमः, अधमाधमः, अधममध्यमः, अधमोत्तमः, मध्यमाधमः, मध्यममध्यमः, मध्यमोत्तमः, उत्तमाधमः, उत्तममध्यम, उत्तमोत्तम इति । रागस्य चास्य लौकिकाङ्गानि दश भवन्ति । तद्यथा प्रियरूपं दृष्ट्वा चित्ते इदं [प्रिय]मिति वचनं करोति । ततो रागं जनयति । प्रणिधानं करोति । अनुस्मरति । यथाशिक्षितं प्रकटयति । ह्र्यपत्रपां विस्मरति । सदा स्वयं पुरोवर्तते । प्रमत्तो भवति । उन्मत्तो भवति । मुर्च्छामरणं [करोति] । इदं रागलक्षणम् ॥

रागलक्षणवर्गो द्वाविंशत्युत्तरशततमः ।

123 कामहेतुवर्गः

(पृ) कामो ऽयं कथमुत्पद्यते । (उ) स्त्रीरूपाध्यालम्बने यदि मिथ्यामनस्कारमुत्पादयति । यदि वा तद्रूपे यदि वाकारे यदि वा स्पर्शे यदि वा सुभाषिते [मिथ्यामनस्कारमुत्पादयति] । तदा कामराग उत्पद्यते । चक्षुः श्रोत्रादिद्वारासंवरणे कामराग (sss_292) उत्पद्यते । भोजने चामात्रताज्ञाने कामराग उत्पद्यते । स्त्रीरूपसंस्तवे कामराग उत्पद्यते । सुखानि वेदयतः कामराग उत्पद्यते । मोहात्कामराग उत्पद्यते । अशुचिसंज्ञाजननात्, दुर्विज्ञानात्कामराग उत्पद्यते । यथा शुद्धं वस्त्र [मपगतकलङ्कं] सम्यङ् मलेन दूष्यते । रागबहुलानां पुरुषाणां संवासेन कामराग उत्पद्यते । कायादिषु चातुर्भौतिकेषु मिथ्यामनस्कारमुत्पादयन् कामाहृतो भवति । अप्रगृहीतवृत्तघटवदग्रथितकुसुमवच्च । यदि कौसीद्यान्न कुशलं भावयति । तदा कामरागो ऽवकाशं लभते । अगम्यस्थाने गच्छन् रागेणा भिभूयते । यदुत वेश्याङ्गनामद्यविक्रयवधककुट्यादयः । तद्यथा गृध्रो वा कङ्को वा इति दृष्टान्तः । अशुच्यादि विलोक्य अप्रतिहतालम्बनस्य कामरागो वेगं लभते । सुचिरादारभ्य सदा कामरागाभ्यासात् रागानुशयः सिध्यति । तदा सूत्पादो ऽयं भवति । स्त्रीरूपाद्यलम्बने प्रीतो निमित्तं गृह्णाति परिच्छेदञ्च गृह्णाति । निमित्तग्रहणं नाम पाणिपादमुखनयनालापमन्दहासकटाक्षरोदननयनबाष्पादिनिमित्तानां ग्रहणम् । परिच्छेदग्रहणं नाम स्त्री पुमानिति संस्थानविशेषविकल्पः । एवं गृहीतानुस्मरणविकल्पस्य कामराग उत्पद्यते । दुर्बलविचारणाचित्त आलम्बनमनुधावति न निगृह्णाति । तदा कामराग उत्पद्यते । यः प्रवृत्तकामरागः [तत्]क्षान्तिं वेदयन् न परित्यजति । स क्रमशो वर्धयति । अधमान्मध्यममुत्पादयति । मध्यमादधममुत्पादयति ।

कामरागस्य हितास्वादमात्रं दृष्ट्वा तदानीनवमजानतः कामराग उत्पद्यते । ऋतुना च कामराग उत्पद्यते यथा वसन्तादयः । स्थानवशेन च कामराग उत्पद्यते यथा किञ्चित्स्थानं यत्र चिरादारभ्य कामचारो बहुशो ऽभ्यस्तः । देहस्या [वस्था]वशाच्च कामरागो भवति । यथा यूनो ऽरोगस्य धनसम्पन्नस्य । बलशक्त्या च कामरागो भवति । यथा पानौषधादिः । शुभान् मनोहारिणः पञ्चकामगुणान् यदुत सुपुष्पितसरारामप्रसन्नस्निग्धवापीकूपनवमेघतटित्सुरभिवातव्यजनानि लब्धवतः, पक्षिणां कलरवं स्त्रीणां सुकुमारभूषणरुतानि सुभाषितानि वा शृण्वतः कामराग उत्पद्यते । कर्मप्रत्ययेन च कामराग उत्पद्यते । यथा विशुद्धदाता विशुद्धप्रणीतेषु पञ्चकामगुणेषु संप्रहर्षति । पापी तु अविशुद्धेषु । जातितश्च कामरागो (sss_293) भवति । यथा पुरुषः पुरुषमिच्छति । प्रज्ञप्तावत्यासङ्गे च कामराग उत्पद्यते । [यथा] कश्चिदन्तःपुंलक्षणो बहिस्तु स्त्रीलक्षणो वस्त्रवेषवैरमैत्र्यादिलक्षणश्च । अलब्धचित्तसमाधानस्य अन्तः सत्त्वं पश्यतो बहिः रूपादि पश्यतश्च कामरागो भवति । यस्य रागानुशो ऽक्षीणः तृष्णाप्रत्ययश्च सम्मुखी भवति । तस्य मिथ्यामनस्कार उत्पद्यते । एवमादिप्रत्ययैः कामरागौत्पद्यते ॥

कामहेतुवर्गस्त्रयोविंशत्युत्तरशततमः ।

124 कामदोषवर्गः

(पृ) कामरागस्य के दोषाः सन्तीति कामः प्रहातव्यः । (उ) कामरागो वस्तुतो दुःखम् । पृथग्जना विपर्ययेण मृषा [तत्र] सुखसंज्ञामुत्पादयन्ति । ज्ञानी तु दुःखं पश्यति । दुःखं पश्यन् प्रजहाति । कामोपादाने नास्ति तृप्तिः । यथा मद्यपानं तत्परितर्षणमनुवर्धयति । परितर्षणविवृद्ध्या कः सुखी भवति । कामोपादानादकुशलानि सहोपचीयन्ते । असिशस्त्रादीनां कामाधीनत्वात् । उक्तञ्च सूत्रे- कामः पापो लघुर्दूस्त्यजः । व्यापाद[गतो] लघुपापः, वस्तुतः स [ततो ऽपि] लघुत्तरः इति । कामः पुनर्भवस्य हेतुः । यथोक्तं- तृष्णाप्रत्ययमुपादानं यावन्महतो दुःखस्कन्धस्य समुदय इति । तृष्णां प्रतीत्य कायो भवति । आह च दुःखहेतुस्तृष्णा भवतीति । किञ्चाह- विद्यमानानि दुःखानि भिक्षवः कस्माद्भवन्तीति मनसिकृत्वा जानीध्वं [तानि] कामहेतुकानि । तृष्णायाश्च कायो हेतुरिति । किञ्चाह- कबलीकारे [भिक्षव] आहारे ऽस्ति नन्दि अस्ति रागः । अतो विज्ञानं तत्र प्रतिष्ठितम् इति । ज्ञातव्यं तृष्णा कायवेदनायाः प्रत्यय इति । अयञ्च रागः सदा अशुचौ समुदाचरति । यथा स्त्र्यादिषु । स्त्रीणां कायचित्तमशुचि शकृन्मृत्सु [विद्यमान]वृश्चिकवत् दष्ट्वा दूषयति । स कामरागः सदा मोहे समुदाचरति । यथोक्तं सूत्रे- यथा श्वा रक्तलिप्तमस्थिकङ्कालं स्वादयित्वा [स्व]लालायोगान्मन्यते यन्मधुर[मिद]मिति । तथा राग्यपि नीरसे कामे मिथ्याविपर्यासबलेन मन्यते यदिदं रसास्वादमिति । (sss_294) यथा मांसपेश्यादयः ससोपमा [उक्ताः] । केषाञ्चिदतीते ऽतागते वा वस्तुनि कामराग उत्पद्यते । अतो ज्ञायते मोहे सदा समुदाचरतीति । सत्त्वानां कामरागप्रत्ययं सुखमल्पं दुःखं बहु केन किम् [स्यात्] ।

कामतृष्णावान् सुखहेतोः सर्वदुःखान्यनुभवति यदुतार्जनकाले दुःखं रक्षणकाले दुःखमुपभोगकाले ऽपि दुःखम् । यथा कृषिवाणिज्यसंग्रामराजसेवापरिचर्यादीनि अर्जने दुःखं हानभीत्या रक्षणे दुःखं, प्रत्युत्पन्ने तृप्त्यभावाद्दुःखम् । इष्टसङ्गमे प्रीतिरल्पा विरहे च दुःखं बहु । यथो ज्ञायते कायो बहुदोष इति । यथाह भगवान्- कामतृष्णायाः पञ्चादीनवाः- अल्पास्वादो बहुदुःखं, संयोजनादीपनमामरणतृप्तिरार्यविगर्हणमकुशलं विना न करणम् इति । अनेन कामरागेण सत्त्वाः संसारस्रोतानुगामिनो निर्वाणाद्दूरीभवन्ति । एवमादीन्यप्रमाणान्यवद्यानि सन्ति । इति ज्ञातव्यं कायो बहुदोषः इति ।

क्लेशा रागमुपादाय भवन्ति यथा कामरागात् क्लेशाः सर्वे समुद्भवन्ति । तृष्णानुशये ऽनुन्मूलिते पुनः पुनर्दुःखमनुभवति । यथा विषवृक्षो ऽनुच्छिन्नः सदा पुरुषं हन्ति । रागेण सत्त्वा गुर्वी धुरं वहन्ति । उक्तञ्च सूत्रे- कामतृष्णा बन्धनमित्युच्यते । यथा कृष्णशुक्ला गौः स्वयमबद्धा रज्जुना परमबद्धा । एवं चक्षुर्न रूपबद्धं, रूपञ्च न चक्षुर्बद्धम्, कामरागस्तु तत्र बद्धः । इमं बन्धमवलम्बयतो न विमुक्तिर्लभ्यते । किञ्चोक्तं सूत्रे- पूर्वा कोटिर्न [प्रज्ञायते] अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां सन्धावतां संसरताम् इति । अपि चोक्तं सूत्रे- रागप्रहाणाद्रूपं प्रहीयते यावद्विज्ञानं प्रहीयत इति । रागो ऽयमनित्यतादिभावनया प्रहीयते । प्रहीणे ऽस्मिन् कामरागे चित्तं विमुच्यते । रूपरागप्रहाणे (sss_295) नास्ति रूपम् । असति रूपे दुःखं निरुध्यते । यावद्विज्ञाने ऽप्येवम् । ज्ञायते कामरागाः सुदृढं बन्धनमिति ।

कामरागश्चोरोपमः । सत्त्वास्तु तदकुशलं न पश्यन्ति । कामरागः सदा कुसुमारमुखतः समुदाचरतीत्यतः परममकुशलं नाम । किञ्च सत्त्वाश्चित्तप्रमोदेन कामरागे प्रवर्तन्ते यावन्मशकपिपीलिका[दय]ः सर्वे ऽपि आहारमैथुनयोः प्रवर्तन्ते । स कामरागो नानाकारणैः पुरुषाणां चित्तं बध्नाति यदुत मातृपितृस्वसृभगिनीपत्नीसंज्ञा धनादयः । सत्वा आहारमैथुनादिकामरागनीवृतचित्ताः सन्तो जन्मोपाददते । ध्यानसमापत्तिराग ऊर्ध्वभूमावुत्पद्यते । कामरागो ऽयं सङ्गमं करोति । सर्वेषां लोकानां रुचयः प्रत्येकं विभिन्नाः । रागात्सङ्गच्छन्ते । यथा शुष्काः सिकताः सलिलयोगे संयुज्यन्ते । संसारे कामतृष्णां रसं मन्यन्ते । यथा रूपाणामास्वादाध्यवसानमित्युक्तं यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम् । असति रागे नास्वादः । आस्वादे ऽसति संसारमाशु प्रजहाति । स च कामरागो विमुक्तिविरुद्धः । कस्मात् । यस्मात् सत्त्वाः कामः सुखं ध्यानं सुखं समापत्तिः सुखमिति संरज्यन्ते । तस्मात् विमुक्तिरसुखम् । [यत्] रागाङ्गप्रहाणं तदेव सुखं परिणमति । यथोक्तं- यस्य वैराग्यं स परमं सुखमनुप्राप्नोति इति । किञ्चाह- यः सर्वसुखलाभमिच्छति तेन सर्वाणि कामसुखानि त्यक्तव्यानि । सर्वकामानां त्यागादात्यन्तिकनित्यसुखं लभत इति । यो महासुखं लिप्सति तेनाल्पसुखमुपेक्षितव्यम् । अल्पसुखोपेक्षया अप्रमाणसुखं प्रतिलभते ।

विदुषश्च नास्ति प्रत्येकलाभ इत्युक्तम् । यथा वीतरागतृष्णचित्तस्य । यस्य चित्तं रागतृष्णाविविक्तं तस्य सर्वे दुःखोपायासा निरुद्धाः । कामरागो ऽयं सद्धर्मं विहन्ति । कस्मात् । न हि परमरागी शीलजातिधर्मशासनेर्यापथशांस्यपेक्षते । नाववादमादत्ते । नादीनवं पश्यति । नापि पुण्यपापमालोचयति । उन्मत्तवत् प्रमत्तवच्च न जानाति कुरूपं सुरूपम् । अन्धवच्च न पश्यति धनलाभम् । यथोक्तं- कामरागो न पश्यति हितम् । कामरागो न विजानाति धर्मं अन्धतमसि अज्ञानवत् । रागानपगमात् । किञ्चोक्तम्-

कामरागः समुद्रो [ऽय]मपर्यन्तश्चाप्यगाधकः । सोर्मिः सवीचिः सावर्तः सग्रहश्च सराक्षसः ॥

एवं दुर्गा अशेषाश्च मनुष्याणामतारणाः । विशुद्धशीलनौकास्थः सद्दृष्टिवायुवेगवान् ॥

नाविकश्च महान् बुद्धः सन्मार्गान् सम्प्रदर्शयन् । यथोक्तभावनायोगी सो ऽयं तरति वै तदा ॥ इति ।

नास्ति कस्यचित्क्लेशानां संज्ञाविकल्पास्वादो यथा कामरागिणः । स च कामरागो ऽत्यन्तं दुष्प्रजहः । यथोक्तं- द्वे इमे आशे दुष्प्रजहे । कतमे द्वे । लाभाशा जीविताशा इति ।

कामरागस्येदृशा दोषाः सन्ति । कथं ज्ञायते कामरागिणो लक्षणम् । (उ) कामरागबहुलः स्त्रीरूपकुसुमगन्धमालनृत्तवाद्यगीतेषु प्रमुदितो वेश्यागृहपानगोष्ठीगामी महासमाजनाटकरसिकः सानुरागालापानन्दितः सदा परितोषितचित्तः प्रसन्नवदनः साकूतसकाकुसस्मिताभिलाषी दुर्लभकोपः सुलभप्रमोदो भूयसा दयालुचित्तः पुनः पुनर्व्याधितचपलगात्रः स्वदेहाध्यासक्त इत्येवमादि रागबहुलस्य लक्षणम् । लक्षणमिदं स्वभावबन्धेनानु गतमित्यतो दुष्प्रजहम् । सर्वे च कामरागा आत्यन्तिकदुःखाः । कस्मात् । रागाभिलषितस्य विप्रयोगो ऽवश्यभावी । विप्रयोगप्रत्ययं दौर्मनस्यदुःखमवश्यभावि । यथोक्तं- रूपसुखिनो [भिक्षवो] देवमनुष्या रूपरागिनो रूपमुदिता रूपविपरिणामे दुःखचित्ता विहरन्ति इति । एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि । भगवान् तत्र तत्र सूत्रे नानादृष्टान्तैरिमं कामरागं गर्हयति यदुत [आशी] विषोपमः, प्रज्ञायुःक्षयकरत्वात् । शल्योपमः चित्तगतदुःखत्वात् । असिशूलोपमः कुशलमूलसमुच्छेदकत्वात् । अग्निस्कन्धोपमः कायचित्तपरिदाहत्वात् । अमित्र [भूतः] दुःखानामुत्पादकत्वात् । अन्तःसपत्नभूतः मनसि (sss_297) जातत्वात् । रूढमूलोपमः दुरुन्मूलनत्वात् । पङ्कभूतः यशोदूषकत्वात् । विघ्नभूतः कुशलमार्गाणामावरणत्वात् । हृद्गतशल्यभूतः अन्तर्व्यथनात् । अकुशलमूलभूतः सर्वाकुशलानामुत्पादकत्वात् । ओघभूतः संसारार्णवे संप्लाबनात् । चोरभूतः कुशलसम्पदपहारात् । एवमाद्यप्रहाणानामादीनवानां सत्त्वात् कामरागः प्रहातव्यः ।

कामानामादिनववर्गश्चतुविंशत्युत्तरशततमः ।

125 रागप्रहाणवर्गः

(पृ) कामरागस्येदृशा दोषाः सन्ति । कथं प्रहातव्यः । (उ) अशुचि भावनादिभिः प्रतिषेधयति । अनित्यतादिभावनादिभिः प्रजहाति । (पृ) केषाञ्चिदनित्यतादिबोधनात्कामरागो वर्धते । कथमिदम् । (उ) यः सर्वमनित्यमिति प्रजानाति न तस्य कामरागो ऽस्ति । यथोक्तं सूत्रे- अनित्यसंज्ञा [भिक्षवः] भाविता बहुलीकृता तदा सर्वः कामरागः पर्यादीर्यते सर्वः रूपरागः पर्यादीर्यते सर्वो भवरागः पर्यादीर्यते सर्वाविद्या पर्यादीर्यते सर्वो ऽस्मिमानः पर्यादीर्यते समुद्धन्यते इति । यः पश्यति लोको दुःखं दुःखहेतुः राग इति । तस्यायं रागः प्रहीयते । यो नित्यं स्मरति मया जातिजराव्याधिमरणान्यनुभवितव्यानीति स इमं रागं प्रजहाति । विशुद्धसुखे लब्धे अविशुद्धसुखं त्यजति । यथा प्रथमध्यानलाभे कामतृष्णां त्यजति । कामानामादीनवानुदर्शी इमां त्यजति । आदीनवश्च यथापूर्वमुक्तः । बहुश्रुतादिप्रज्ञाविवृध्या च कामरागं त्यजति । ज्ञानस्य क्लेशभेदनस्वभावत्वात् । कुशलप्रत्ययसम्पन्नस्य कामरागः प्रहीयते यदुत शीलविशुद्ध्या दीन्येकादशसमाध्युपकरणानीति पश्चान्मार्गसत्ये वक्ष्यते । रूपज्ञानादीनि धर्मज्ञानादीन्युपायाः । भगवान् महाभिषक् । सब्रह्मचारिणो ऽनुचराः । सद्धर्म औषधम् । आत्मना (sss_298) यथोक्तवदाचरणं विरेचनम् । तदा कामरागव्याधिः प्रहीयते । यथा ज्ञायते रूग्णस्य त्रिवस्तुसम्पन्नस्य तस्मिन्नेव समये व्याधिः शाम्यति इति ।

(पृ) यथोक्तं सूत्रे- अशुभ[भावनया] रागं निर्वापय इति । कस्मात् भवान् ब्रवीति अशुभादि अनित्यतादि च । (उ) सर्वाणि बुद्धशासनानि क्लेशानां भेदकानि । तथापि प्रत्येकमस्ति बलविशेषः । आदौ अशुभया रागो वार्यते पश्चादनित्यताज्ञानेन प्रहीयते । अशुभया औदरिको रागो ऽपनीयत इतीदं बहूनां ज्ञातमेव । रागानुशयः सूक्ष्म इति अनित्यतया प्रहीयते । केवलमेकस्मिन् सूत्र ईदृशं वचनमुक्तम् । सर्वेषु सूत्रेष्वन्ये ऽपि प्रहाणधर्मा उक्ताः । ईदृशप्रत्यये सति कामरागः प्रहीयते ।

रागप्रहाणवर्गः पञ्चविंशत्युत्तरशततमः ।

126 व्यापादवर्गः

शास्त्रमाह- व्यापादो द्वेषलक्षणमिति । यो द्विष्यति स विनाशं कर्तुमिच्छति । परस्य ताडनबन्धनमारणविहिंसनानि कर्तुं प्रणिदधाति । एकान्ततो निराकृत्य नैव द्रष्टुमिच्छति । अयं द्वेषः प्रतिध इत्याख्यायते । गुरुतरो द्वेष इत्यर्थः । कश्चित् द्वेषी परान् निन्दितुं दण्डेन ताडयितुञ्चेच्छति । [अयं द्वेषो] विहिंसा इत्यभिधीयते । मध्यमद्वेष इत्यर्थः । कश्चित् द्वेषी [परं] परिहर्तुं नेच्छति । कदाचित् तत्पुत्रभार्यादीन् विद्विषति । तत्रोत्पद्यमानो [द्वेषः] क्रोध इत्युच्यते । अधमद्वेष इत्यर्थः । कश्चित् द्वेषी सदाक्लिष्टचित्तः [स]म्रक्ष इत्यभिधीयते । अविपक्वेन्द्रिय इत्यर्थः । कश्चित् द्वेषी चित्तगतमकुशलमत्यक्त्वा पुनर्विपाकायेच्छति । [स] उपनाह इत्युच्यते । विपक्वेन्द्रिय इत्यर्थः । कश्चित् द्वेषी सहसा किञ्चित् गृहीत्वा नानाकारणै[र्न] त्यक्तुमिच्छति । यथा सिंहो नदीं विगाह्य (sss_299) तत्तीरनिमित्तं गृहीत्वा आमरणं न [ततो] विनिवर्तते । [स] प्रदाश इत्युच्यते । आग्रह इत्यर्थः । कश्चित् द्वेषी हितलाभिनं परं दृष्ट्वा चित्ते मात्सर्यमुत्पादयति । इयमीर्ष्यत्युच्यते । कश्चित् द्वेषी सदा कलहप्रियो धृष्टमनोवाग् भवति । [अयं] संरम्भ इत्युच्यते । रोषकलह इत्यर्थः । कश्चित् द्वेषी चिरमात्सर्येण शीलमुपदिष्टो ऽपि पुनः प्रतिलोमयति । अयं द्वेष इत्याख्यायते । क्रौर्यमित्यर्थः । कश्चित् द्वेषी किञ्चिदभीष्टस्य अमनःप्रह्लादनस्य वस्तुनो लाभे क्षुभितचित्तो भवति । इयमक्षान्तिरित्युच्यते । अक्षमेत्यर्थः । कश्चित् द्वेषी असुकुमारवचनः सदा भ्रुकुटिलालसो न मनः पूर्वमालापं योजयति । इयमपकीर्तिरित्युच्यते । अनात्तमनस्कतेत्यर्थः । कश्चित् द्वेषी सहवासिषु सदाधिक्षेपलोलुपो भवति । इदमसौरत्य मित्यभिधीयते । अदान्त इत्यर्थः । कश्चित् द्वेषी कायवाङ्मनोभिः सतीर्थ्यं संस्पृष्टोपायासं करोति । इअयं जिगीषा इत्यभिधीयते । उपायासस्पर्श इत्यर्थः । कश्चित् द्वेषी सदा गर्हाप्रकटनप्रीतो विगीतवस्तुप्रियश्च भवति । इयं तोदनता इत्युच्यते । उपालम्भ इत्यर्थः ।

द्वेषो ऽयं द्विविधः- कदाचित्सत्त्वमुपादाय भवति कदाचिदसत्त्वमुपादाय इति । सत्त्वमुपादयोत्पद्यमानो गुरुतरः पापः । उत्तममध्यमाधमविकल्पेन नवराशयो भवन्ति । नवक्लेशानुपादाय नवधा विभज्यते । विना वस्तु द्वेषपरिणाहो दशमो भवति । इदं द्वेषलक्षणम् ।

(पृ) कथं द्वेष उत्पद्यते । (उ) अमनोज्ञाद्दुःखोपायासादुत्पद्यते । दुःखवेदनास्वभावस्य असम्यक् परिज्ञानाद्व्यापाद उत्पद्यते । गर्हावधतडनादिभ्यो वा समुत्पद्यते । दुर्जनसहवृत्त्या वा व्यापाद उत्पद्यते यथा सौनिकव्याधादयः । मन्दज्ञानबलाद्वा द्वेष उत्पद्यते यथा वृक्षाणां शाखोपशाखा वातेरिता भवन्ति । चिरसमुपचितद्वेषानुशयस्य आनिर्यातनभावं द्वेष उत्पद्यते सौनिकव्याधसर्पाणामागमाद्वा द्वेष उत्पद्यते । परदोषानुस्मृतिप्रेम्णा वा द्वेष उत्पद्यत इति यथा नवक्लेशेषूक्तम् । कालवशाद्वा द्वेष उत्पद्यते यथा दशवयस्कादीनाम् । जात्या वा द्वेष उत्पद्यते यथा सर्पादीनाम् । देशस्थानाद्वा द्वेष उत्पद्यते यथा कान्यकुब्जदेशादौ । पूर्वमुक्तो रागजननप्रत्ययः । तद्विरोधे द्वेष उत्पद्यते । आत्मबुद्धिमध्ययस्य [तत्र] मानपरिपोषणं पदार्थाध्यवसानञ्चेत्येवमादिप्रत्ययेषु सत्सु द्वेष उत्पद्यते ।

(पृ) द्वेषस्य के दोषाः । (उ) उक्तं सूत्रे- द्वेषः कामरागाद् गुरुतरं पापम् इति । अतः सुविमोकः । वस्तुतस्तु दुर्विमोकः । किन्तु रागवन्न चिरं चित्तमनुवर्तते । द्वेषो द्विधा सन्तापकः । आदावात्मानं सन्तापयति अन्ते परं सन्तापयति । किञ्च द्वेषो नियमेन नरकाय भवति । द्वेषोत्थकर्मणां भूयसा नरके पातनात् । द्वेषः कुशलपुण्यानि विनाशयति यदुत दानशीलक्षान्तयः । इमास्त्रिस्रः करुणाचित्तजाः । द्वेषस्य करुणाविरोधित्वात् [ताः] विनाशयति । द्वेषजञ्च कर्म सर्वमन्ते चित्तं परितापयति । द्वेषेन्द्रियवान् निर्दयत्वात् क्रूरचण्डाल इत्युच्यते । सत्त्वाः सदा दुःखिनः पुनर्द्वेषेण पीडिताः व्रणे प्रयुक्तक्षारवत् । किञ्च सूत्रे भगवान् स्वयं द्वेषदोषानाह- द्वेषबहुलः कुत्सितः खर्वाकारो ऽप्रशान्तबुद्धिशयः सदा भीरुचित्तो जनानामश्रद्धेय इति ।

(पृ) व्यापादबहुलस्य कानि लक्षणानि । (उ) धृष्टवाङ्मनाः सदा अनात्तमना भवति । भ्रुकुटिक्षेपेण दुरभिगमो ऽसंश्लिष्टमुखवर्णो दुर्विमोकसुलभकोपः सदा व्यापादोपनाहमुदितो विग्रहभूषणायुधेषु प्रीतो दुर्मित्रपक्षपाती सज्जनविद्वेषी, जनानां भीषणायातथ्यध्यानचिन्तनो ऽल्पह्रयपत्रप इत्येवमादीनि द्वेषलक्षणानि । इमान्यन्येषां विप्रियकराणि । अतः प्रहातव्यानि ।

(पृ) कथं स प्रहातव्यो भविष्यति । (उ) सदा करुणामुदितापेक्षाभावनायां द्वेषः प्रहीयते । द्वेषस्यादीनवं पश्यन् द्वेषं प्रजहाति । तत्त्वज्ञानलाभिनो द्वेषः प्रहीयते । क्षान्तिबलाच्च द्वेषः प्रहीयते । (पृ) किं नाम क्षान्तिबलम् । (उ) यः परगर्हादिदुःखं क्षमते स कुशलधर्मपुण्यं लभते । नाक्षान्तिजमकुशलं लभते । इदं क्षान्तिबलम् । क्षान्तिविहारी श्रमण इत्युच्यते । क्षान्तिर्हि मार्गस्याद्यं द्वारं भवति । अतः श्रमणधर्मणः कोपे ऽपि न कोपविपाकः । निन्दायाञ्च न निन्दाविपाकः । ताडने च न ताडनविपाकः । यो भिक्षुः क्षमावान् स प्रव्रज्याधर्मा स्यात् । व्यापादवतो न प्रव्रजितधर्धो भवति । क्षान्तिरियं प्रव्रजितधर्मः । य आकारवेषाभ्यां भिक्षुः भिन्नव्यवहारो द्वेषचित्तसहगतश्च न स भव्यो भवति । यस्तु क्षमाविहारी स एव करुणागुणसवन्वितः । क्षमाविहारी स्वहितं साधयति । कस्मात् । द्वेषकारी परान् व्याबाधितुं कामयानः स्वात्मानमेव व्याबाधते । यानि कायवाग्भ्यां परत्र प्रत्युक्तान्यकुशलानि । [तेषा]मकुशलानां दोषाः शतसहस्रगुणमात्मनैव लभ्यन्ते । अतो ज्ञायते द्वेषो महान्तमात्मापकर्षं करोति इति । अतः प्राज्ञेनात्मनो हितं कर्तुकामेन महद्दुःखं महत्पापञ्चापाकुर्वता क्षान्तिराचरितव्याः ।

(पृ) को निन्दादिदुःखं खमते । (उ) यो ऽनित्यतां भावयति बहुलीकरोति प्रतिबुध्यते सर्वधर्मा क्षणिकाः, निन्दको वेदकः सर्वो ऽपि क्षणिक इति । तस्य कुत्र द्वेष उत्पद्येत । शून्यताचित्तस्य सम्यक् भावनया क्षममाण एवं चिन्तयति धर्मेषु वतुस्तः शून्येषु को निन्दकः को वा निन्दावेदक इति । यदि वस्तु सत्यं तदा [त]द्वेदना क्षन्तव्या । अहं सत्यतो दोषवान् इति पूर्वपुरुषाः सत्यं वदन्ति, कस्मात् द्विषामि । यदि वस्तु सत्यं । ते पुरुषाः स्वयमेव मृषावादपापं लभेरन् । कस्मादहं द्विषामीति । अशुभनिन्दां शृण्वन् एवं चिन्तयेत् सर्वे लोका यथाकर्म विपाकं वेदयन्ते । मया पुरा इदं निन्दाकर्म समुपचितमासीत् । तदिदानीं प्रत्यनुभवितव्यम् । कस्माद् द्विष्यामीति । यदि चाशुभनिन्दां शृणोति तद्दोषमात्मनि भावयेत् । आत्मवशेनैव कायमनुभवामि । कायश्च दुःखभाजनम् । अतो निन्दानुभवितव्येति । क्षान्तिविहारी एवं चिन्तयेत् पदार्थाः प्रतीत्यसमुत्पन्नाः । इदमशुभं निन्दाकर्म श्रोत्रविज्ञानमनोविज्ञानशब्दादिसमुत्पन्नम् । एषु अहं द्व्यङ्गसमन्वितः । परस्तु शब्दमात्रसमन्वितः । एवञ्च ममैव पापाङ्गं बहु । कस्मात् द्विषामि । मया शब्दस्यास्य निमित्तग्रहणादेव दौर्मनस्योपायासाः सम्भवन्ति इत्यहमेव दुष्टः । क्षान्तिमान् न परान् दोषयति । कस्मात् द्वेषादीनि पापानि न सत्त्वानां दोषाः, सत्त्वा व्याधिसमुत्थापितचित्तत्वादनीश्वराः । यथा भूतचिकित्सको भूतोच्चाटनाध्यवसितो भूतमेव द्विषति न तु रोगिणम् । अयं वीर्योत्सुकः कुशलधर्माणां सञ्चय आरज्यते । अतः परप्रवादान् न गणयति । बुद्धानार्यसङ्घञ्च स्मृत्वा न निन्दाः प्रमोचयति । यथा निन्दापटवो ब्राह्मणादयो बुद्धं विविधं निन्दन्ति । यथा वा शारिपुत्रादिषु ब्राह्मणैः प्रयुज्यन्ते ऽपवादनिन्दाः । कः पुनर्वादो ऽस्मासु तनुपुण्येषु ।

किञ्चेदं चिन्तयेत् लोका अकुशबहुला आत्मजीवितमहृत्वैव कटुकं कुर्वन्ति । किं पुनस्ताडननिन्दामिति । किञ्चैवं चिन्तयेत्- अशुभनिन्दादिना न मम दुःखमिति वेदना क्षन्तव्या । यथा भगवान् भिक्षून् शास्ति- काये क्रकचेण विदीर्णे ऽपि वेदना क्षन्तव्या । का पुनर्निन्दा इति । इदमाचरन् सदा संसारान्निर्विद्यते । निन्दायां लब्धायां निर्वेदं भूयसा मात्रया सुनिश्रितमवगम्याकुशलमाचरति । स जानाति च निन्दाया अक्षमा अन्ते दुःखंविपाकवेदना इत्येवं चिन्तयन् नरके मा भूत् पात इति गुर्वीमपि निन्दां वेदयते । सो ऽतीव ह्र्यपत्रपासापेक्षः चिन्तयति अहं महापुरुषस्य भगवतः श्रावको मार्गभावयिता । [मम]कथमुत्पादयेदकार्यं कायवाक्कर्म इति । क्षान्तिचारिभिर्बोधिसत्त्वैः शक्रादिभिश्च लभ्यं क्षान्तिबलं श्रूयते च । अतः क्षान्तिः कार्या ॥

व्यापादवर्गः षड्विंशत्युत्तरवशततमः ।

127 अविद्यावर्गः

शास्त्रमाह- प्रज्ञप्त्यनुवर्तनमविद्या । इति । यथाहुः- पृथग्जना आत्मरुतमनुवर्तन्ते । तत्र नास्ति वस्तुत आत्मा नात्मीयम् । धर्माणां समवायः केवलं प्रज्ञप्त्या पुरुष इत्युच्यते । पृथग्जनानामविवेकादात्मचित्तं प्रवर्तते । आत्मचित्तप्रवृत्तिरियमविद्यैव ।

(पृ) भगवानाह- पूर्वान्ताज्ञानविद्या इति । कस्मादुच्यते । आत्मचित्तमात्रमियमविद्येति । (उ) अतीतादौ बहवो भ्रान्ताः । अत आह- तत्राज्ञानमविद्येति । अत आह तस्याज्ञानमविद्येति । सूत्रे च विद्याया अर्थो विवृतः- यस्य कस्यचित् ज्ञानं विद्येति । केषां धर्माणां ज्ञानम् । रूपमनित्यमिति यथाभूतज्ञानम् । वेदना संज्ञा संस्कारा विज्ञानमनित्यमिति यथाभूतज्ञानम् । विद्याया विरुद्धा विद्याविद्या । तथा च यथाभूता विद्या अविद्यैव ।

(पृ) यथाभूताविद्या यद्यविद्या । तरुपाषाणादिधर्मा अपि अविद्या स्यात् । यथाभूतविद्याया अभावात् । (उ) मैवम् । तरुपाषाणानि चाचित्तकानि न पूर्वान्तादि विकल्पयन्ति । अविद्या तु विकल्पिनीति न तरुपाषाणयोः समाना । (पृ) अविद्या नाम धर्माभावः । यथा पुरुषस्य चक्षुषा रूपादर्शनं नादर्शनधर्मो भवति । अतो विद्याया अभावमात्रमविद्या । न धर्मान्तरम् । (उ) मैवम् । यद्यभावो ऽविद्या । पञ्चस्कन्धेषु अस्ति पुद्गल इति मिथ्याकल्पना घटशकले च सुवर्णसंज्ञोत्पद्यत इति कस्माद्भवति । अतो ज्ञायते मिथ्याविकल्पस्वभावाविद्या । न तु विद्याया अभावो ऽविद्येति । अविद्याप्रत्ययाः संस्कारादयः सन्तत्या प्रवर्तन्ते । यद्यभावः कथमुत्पादयेत् । (पृ) न विद्या अविद्या इति चेत् इदानीं विद्यां विहाय सर्वे धर्मा अभावाः स्युः । अतो नैको धर्मो ऽविद्या भवति । (उ) अविद्येयं स्वलक्षणत उच्यते नान्यधर्मतः । यथोच्यते अकुशलमेवाकुशलस्वरूपं नाव्याकृतम् । (sss_303) तथाविद्यापि । कुसूलं पुरुषाकारमपि पुरुषगत्यभावात् अपुरुष इत्युच्यते । एवमियं विद्या सविकल्पापि यथाभूतं न प्रजानातीत्यविद्येत्युच्यते । न तरुपाषाणयोरपि तथा ।

(पृ) यान्युक्तानि अरूपमप्रतिघमनास्रवमसंस्कृतमिति तानि सर्वाणि तदन्याभिधायकानि । कस्मादविद्यापि नैवम् । (उ) अस्ति कदाचिदयं न्यायः । अकुशलादिषु तु नैवं भवति । (पृ) केचिदाहुः- विद्याया अभावमात्रमविद्येति । यथा प्रकाशाभावे तम इति । (उ) लोके द्विधा वदन्ति- विद्याया अभावो ऽविद्येति । कदाचिद्विपरीता विद्या अविद्येति । विद्याया अभावो ऽविद्येति यथा वदन्ति लोके- अधो ऽरूपदर्शी, बधिरो ऽशब्दश्रोतेति । विपरीता विद्या अविद्येति- यथा रात्रौ स्थाणुं दृष्ट्वा पुरुष इति बुद्धिर्भवति । पुरुषं वा दृष्ट्वा स्थाणुबुद्धिः । यदि कश्चिदिदमिति यथाभूतं न प्रजानाति । तदज्ञानम् । मिथ्याचित्तं क्लेशः । अयं संस्काराणां प्रत्ययः । अर्हतः समुच्छेदान्न सन्ति अविद्याप्रत्ययाः संस्काराः । यदि न विद्या अविद्येति । अर्हतो बुद्धधर्मेषु विद्या नास्तीति विद्याविद्या स्यात् । यो ऽविद्यावान् न सो ऽर्हन् । [अतो] ज्ञातव्यं पृथगस्ति अविद्यास्वरूपम् । इदं मिथ्याचित्तमिति ।

सर्वे क्लेशा अस्या अविद्याया अङ्गानि । कस्मात् । सर्वेषां क्लेशानां मिथ्याचार [रूप]त्वात् । ते पुरुषाणां चित्तावरणा अन्धतमोरूपाः । यथाह- कामरागी न धर्मं पश्यति, कामरागी न पुण्यं पश्यति इति । तत्कामोपादाता अन्धतमोभूमः । एवं क्रोधमोहावपि । सर्वे क्लेशाः संस्काराणामुत्पादकाः । उक्तन्तु सूत्रे- अविद्याप्रत्ययाः संस्कारा इति । अतो ज्ञायते सर्वे क्लेशा अविद्या इति । अशून्यतादर्शिनो नित्यमस्त्यविद्या । क्लिष्टाविद्यामात्रं सर्वसंस्काराणां प्रत्ययः । विपरीता विद्या अविद्येत्युच्यते । अदृष्टशून्यभावस्य नित्यमस्तीयमविद्या । अतो ज्ञायते अविद्याङ्गानि सर्वे क्लेशा इति ।

(पृ) अविद्या कथमुत्पद्यते । (उ) असद्धेतुं श्रुत्वा चिन्तयतो ऽविद्योत्पद्यते । यथा अस्ति द्रव्यमस्त्यवयवी अस्ति चित्, सर्वे धर्मा अक्षणिकाः, नास्ति पुनर्भवः । शब्द आत्मा, स च नित्यः, तृणवृक्षादयः सचेतना इत्येवमादिमिथ्याग्रहे सति अविद्योत्पद्यते । असत्कारणैर्वाविद्योत्पद्यते । यदुत दुर्मित्रसंस्तवो ऽसद्धर्मश्रवणं मिथ्यामनस्कारो मिथ्यासमुदाचार (sss_304) इत्येभिश्चतुर्भिः कारणैरविद्योत्पद्यते । अन्यक्लेशजननप्रत्ययाः सर्वे ऽविद्याजननहेतवः । अविद्याहेतुभ्यश्चाविद्योत्पद्यते । यथा यवेभ्यो यवाः शालिभ्यः शालयः । एवं यत्रास्ति सत्त्वकल्पना, तत्राविद्योत्पद्यते । किञ्चोक्तं सूत्रे- मिथ्यामनस्कारप्रत्यये ऽविद्योत्पद्यत इति । मिथ्यामनस्कारश्चाविद्याया नामान्तरमेव । पुरुषं दृष्ट्वा अस्तीति बुद्धेः पूर्वमेव पुरुषमनस्कार उत्पद्यते पश्चान्निश्चय इत्यतो ऽविद्येत्युच्यते । इदमुभयं पूर्वापरलक्षणमन्योन्यसहायमुत्पद्यते । यथा वृक्षात्फलं भवति फलाद्वृक्षः ।

अविद्यायाः के दोषाः । (उ) सर्वे विपत्त्युपायासा अविद्याधीनाः । कस्मात् । [यस्मात्] अविद्यातः समुत्पद्यन्ते रागादयः क्लेशाः । तेभ्यो ऽकुशलं कर्म । ततः कायानुभवः । तत्प्रत्ययो विविधविपत्युपायासानां प्रतिलाभः । यथोक्तं सूत्रे- अविद्यानिवृतस्य [भिक्षवो वालस्य] तृष्णासम्प्रयुक्तस्यैवमयं कायः समुदागत इति । सिंह नादसूत्रे चोक्तम्- उपादानानि तृष्णानिदानानीति । गाथा चाह-

याः काश्चिदिमा दुर्गतयो ऽस्मिंल्लोके परत्र च । अविद्यामूलकाः सर्वा इच्छालोभसमुच्छ्रयाः ॥ इति ।

अविद्यासमुत्पन्नत्वात्सर्वक्लेशानाम् । पृथग्जना वेदयन्ते [सुखत] इमान् स्कन्धान् पञ्च [ये] ऽशुचयो ऽनित्या दुःखाः शुन्या अनात्मकाः । य आर्याः ते तान् दुःखान् वेदयन्ते । सम्यङ्मनस्कारात्पञ्च स्कन्धान् प्रजहाति । यथोक्तं सूत्रे- आत्मसंज्ञा मिथ्याविपर्यास इति प्रजानतो न पुनरुत्पद्यत इति । अतो ऽविद्याप्रत्ययो बन्धो विद्याप्रत्ययो मोक्ष इति । लोके सत्त्वा अविद्याबलादल्पादभिनिवेशाद्बहूनादीनवान् न पश्यन्ति । यथा शलभा अग्नौ पतन्ति । यथा वा मत्स्या अङ्कुशं गिलन्ति । तथा सत्त्वा अपि दृष्टे ऽल्पास्वादगृद्धा बहूनादीनवान् न प्रतीक्षन्ते । तीर्थिकग्रन्थैरुत्पन्नमिथ्यादृष्टिका वदन्ति न सन्ति पुण्यादीनि इति । सर्वमियमविद्या । असतां मार्गो ऽकुशलहेतुः । अकुशलहेतुः सर्वो ऽविद्या । (sss_305) मिथ्यादृष्ट्या कृतकर्मणा भूयसा नरके पतन्ति । मिथ्यादृष्टयः सर्वा अविद्ययोत्पद्यन्ते । बुद्धो भगवान् सर्वज्ञः शास्ता त्रयाणां धातूनां सम्यक् चर्याविशुद्ध आर्यविनीत इत्यादि तीर्थिका न विविच्य प्रजानन्ति । यथा सद्रत्नमन्धा निराकुर्वन्ति । इमे ऽविद्याया दोषाः ।

किञ्च सर्वसत्त्वानां विपत्त्युपायसविप्रलोपादयः सर्वे ऽविद्याधीनाः । सर्वे च लाभसंसिद्धिप्रकर्षा विद्याधीनाः । यो वर्धिताविद्यः स एकान्ततो ऽवीचिनरके पतति । यथा कल्पादौ जना आस्वादस्तुच्छ इत्यनभिज्ञाय [तत्र] रागाध्यवसायमुत्पादयामासुः । अतो रूपबलायुरादयो विनष्टाः । अतो ज्ञातव्यमविद्यया सर्वे लाभाः प्रमुषिता इति । इयमविद्या च तत्प्रज्ञानमात्रेण प्रहीयते । रागादिभिस्तु न तथा । रागचित्ते नास्ति क्रोधः । क्रोधचित्ते नास्ति रागः । अविद्या तु सर्वचित्तेषु वर्तते । अभावितप्रज्ञस्य चाविद्या सदा चित्ते वर्तते । सर्वक्लेशेषु अविद्या प्रबला । यथोक्तं सूत्रे- अविद्या पापीयसी गुर्वी दुर्विमोका च इति । अविद्या च द्वादशनिदानानां मूलम् । असत्यामविद्यायां कर्माणि नोपचीयन्ते न संसिध्यन्ति । कस्मात् । नह्यस्ति अर्हतां सत्त्व[संज्ञा]लक्षणम् । अविद्याविरहान्न कर्माण्यु पचीयन्ते । कर्मणामनुपचयाद्विज्ञानादीन्यङ्गानि न पुनः प्रादुर्भवन्ति अतो ज्ञायते अविद्या सर्वदुःखानां मूलमिति ।

प्रत्यक्षं दृश्यते खलु अस्मिन्नशुचिकाय आसङ्गः, अनित्ये नित्यसंज्ञा च । यथा रिक्तमुष्टिर्बालानामुल्लापनाय । यथा च माया मूढानां पुरः प्रदर्शयति मृदं सुवर्णमिति । प्राकृता मूढा दृष्टे पापाधिष्ठिता अभिधानेनोल्लपनीया भवन्ति । तथा लोका अपि चक्षुषा अशुचि दृष्ट्वा तद्वञ्चिता भवन्ति । चैत्ता धर्मा क्षणिकाः, निमित्तग्रहणादुत्पद्यन्ते । क्षणिके रूपे मोहान्निमित्तं गृह्णन्ति । तथा शब्दादावपि । तस्माद्दुर्विमोका । इमे ऽविद्याया दोषाः ।

(पृ) अविद्याबहुलस्य पुंसः कानि लक्षणानि । (उ) अयं भयस्थाने निर्भयो भवति । सुस्थाने प्रीतिविगतः सज्जनद्वेषी दुर्जनस्निद्घो ऽभिप्रायस्य विपर्ययग्राही प्रियमित्रे सदा प्रतिकूलः तुच्छवस्तुषु सारग्राही अल्पह्रयपत्रपो न विचिकित्साप्रतीक्षी, न परेषां तर्पण आत्मनापि दुर्निषेवणो मूढो ऽविज्ञाता सुजीर्णमलिनवस्त्रो भ्रमति । रम्यप्रदेशादशुचिप्रदेशमन्धकारे प्रयाति । आत्मनैवात्मानं महानिति श्लाघमानः परस्य लघूकरणे तृप्यति । अपथेनात्मगुणान् प्रकटयति । दोषं दोष इति न विजानाति । हितं हितमिति न विजानाति । अपरिशुद्धो ऽनैर्याणिको भाषणे ऽपटुः सदा क्रोधोपनाहमुदितः परोपदेशं विपर्ययतो गृहीत्वा [तत्र] परमाध्यावसितो दुर्लभमभ्यस्य सुविनश्वरं लभते । लब्धस्यापि (sss_306) नार्थ वेत्ति । विदितमपि मिथ्या विपर्ययति । एवमादिलक्षणानि सर्वाण्यविद्याधीनानि । अतो ज्ञायते ऽविद्याप्रमाणदुष्टा अतः प्रहातव्येति ।

(पृ) कथं प्रहातव्या । (उ) तत्त्वज्ञानं भावयतो ऽविद्या प्रहीयते । (पृ) स्कन्धधात्वायतनानां ज्ञानमपि तत्त्वज्ञानम् । कस्मात्सूत्र उक्तम्- अविद्याया भैषज्यं प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादभावना वा इति । (उ) तीर्थिका बहवो भ्रान्ताः । हेतौ भ्रान्ता वदन्ति- ईश्वरा दयो लोककारणमिति । वस्तुतस्तु भ्रान्ता वदन्ति- अस्ति द्रव्यमस्त्यवयवीत्यादि । प्रतीत्यसमुत्पादा[दि]द्वयं भावयतो [ऽविद्या] प्रही यते । (पृ) प्रतीत्यसमुत्पादो ऽविद्याया भैषज्यम् । कस्मादुच्यते द्वयमिति । (उ) अन्यज्ञानसंजिहीर्षया । स्कन्धधात्वायतनादि भावयन्नपि अविद्यां भिनत्ति । मिथ्यादृष्टिमात्रं गुरुतराविद्या । मिथ्यादृष्टिश्च प्रतीत्यसमुत्पादप्रहेया । अतो द्वयमित्युच्यते । एवं रागद्वेषावपि । लौकिका भूयसा घटादिपदे भ्रान्ताः । यथा घटपदं शृण्वतो मनसि संशय उदेति किं रूपादिः घटः किंवा रूपादिव्यतिरिक्तो ऽन्यो ऽस्ति घट इति । एवं पञ्चस्कन्धात्मकः पुरुषः किं वा तद्व्यतिरिक्तो ऽन्यो ऽस्ति पुरुष इति । समाहितचित्तः काय एवात्मा कायादन्य आत्मा इति शाश्वतोच्छदाख्ये ऽन्तद्वये न पतति । यः प्रजानाति घटः प्रतीत्यसमुत्पन्नो रूपरसगन्धस्पर्शमय इति । एवं रूपादयः स्कन्धः पुरुष इति । [स] एवं प्रजानन् नामजं संशयं प्रजहाति । इदं नाम धर्माणां परमार्थं सञ्छादयति । यथाह देवतापरिपृच्छासूत्रम्-

नाम सर्वमध्वभावि नाम भूयो न विद्यते । एकधर्मस्य नाम्नो ऽस्य सर्वे धर्मा वशानुगाः ॥ इति ।

किञ्चाह- लोकस्य समुदयं पश्यतो ऽभावदृष्टिर्निरुध्यते । लोकस्य निरोधं पश्यतो भावदृष्टिर्निरुध्यते । इति । अपि चोक्तम्- संस्काराणां सन्ततिं पञ्चस्कन्धानां संसरणं वदन्ति । इमे ऽविद्यादीनवाः प्रतीत्यसमुत्पादं भावयतो निरुध्यन्त इति । उक्त ञ्च सूत्रे- यः प्रतीत्यसभुत्पादं पश्यति स धर्मं पश्यति । यो धर्मं पश्यति स बुद्धं (sss_307) पश्यतीति । एवं यो नामजं संशयं प्रजहाति सो ऽपरप्रत्ययः परमार्थतो बुद्धं पश्यति । अतस्तत्त्वज्ञानादविद्या क्षीयते । प्रतीत्यसमुत्पादं सम्यक् प्रजानन् तत्त्वज्ञानं प्रतिलभते । संक्षेपत उक्तं चतुरशीतिधर्मस्कन्धे- या काचन प्रज्ञा सर्वा साविद्याव्यावर्तिनीति । अविद्या च सर्वक्लेशानां मूलं सर्वक्लेशानां सहकारिणी चेत्येवं प्रतीत्यसमुत्पाद [ज्ञाने] अविद्या प्रहीयते ॥

अविद्यावर्गः सप्तविंशत्युत्तरशततमः ।

128 मानवर्गः

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.