Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 10/15

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

सत्यसिद्धिशास्त्रम्

Tác giả
हरिवर्मन्
Thông tin
GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

(पृ) क्लेशेषु कति दुःखदर्शनहेयाः कति समुदयनिरोधमार्गदर्शनहेयाः कति भावनाहेयाः । (उ) पूर्वोक्ताः सत्यदर्शनहेयाः षडनुशयाश्चतुर्धा भवन्ति दुःखदर्शनहेयाः समुदयनिरोधमार्गदर्शनहेयाः । अन्ये चत्वारो ऽनुशयाः पञ्चधा भवन्ति । (पृ) सत्कायदृष्टिरन्तग्रहदृष्टिर्दुःखदर्शनमात्रहेयाः । शीलव्रतपरामर्शो द्विधा दुःखदर्शनमार्गदर्शनहेयाः । कथमिदम् । (sss_343) (उ) सर्वे क्लेशा वस्तुतो निरोधसत्यदर्शनकाले प्रहीयन्ते । अतः सत्कायदृष्ट्यादयो न दुःखदर्शनमात्रहेयाः स्युः । सत्कायदृष्टिश्चतुर्षु सत्येषु भ्रमति । पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः । आत्मा तु नानित्यो न प्रतीत्यसमुत्पन्नः । पञ्चस्कन्धाः सनिरोधाः, आत्मा त्वनिरोधः, मार्ग आत्मदृष्टेर्विरोधिधर्मः । अतः सत्कायदृष्टिश्चतुर्धा हेया । अन्तग्रहदृष्टिरपि चतुर्धा हेया । कस्मात् । योगी समुदयसम्भूतं दुःखं दृष्ट्वा उच्छेददृष्टिं व्यावर्तयति । मार्गलब्धं निरोधं दृष्ट्वा शाश्वतदृष्टिं व्यावर्तयति । शीलव्रतपरामर्शो ऽपि चतुर्धा । हेतौ सति फलमस्ति । अतो दुःखं पश्यन् प्रजानाति- शीलं दुःखं, नानेन विशुद्धिर्लभ्यत इति । इदं समुदयदर्शनहेयम् । मिथ्यादृष्ट्या निर्वाणमपोद्यते, यदनया दृष्ट्या विशुद्धिर्लभ्यत इति । इदं निरोधदर्शनहेयम् । अनया मार्गो ऽपोद्यते- इदं मार्गदर्शनहेयम् । यथा दृष्टिपरामर्शो मिथ्यादृष्ट्याश्रितेति चतुर्धा हेयः । एवं शीलव्रतपरामर्शो ऽपि स्यात् ।

(पृ) तथा चेन्न स्युरष्टनवतिरनुशयाः । सर्वे ऽनुशया भूमिवशात्प्रहीयन्ते न धातुवशात् । अष्टनवतिरनुशया इति नान्तो भवति । (पृ) रागो मानो मिथ्यादृष्टिं वर्जयित्वा अन्याश्चतस्रो दृष्टयो दुःखदौर्मनस्येन्द्रिये वर्जयित्वा [तदन्य]त्रिविधेन्द्रियसम्प्रयुक्ताः । द्वेषो ऽपि सुखसौमनस्येन्द्रिये वर्जयित्वा [तदन्य]त्रिविधेन्द्रियसम्प्रयुक्तः । अविद्या पञ्चेन्द्रियसम्प्रयुक्ता । मिथ्यादृष्टिर्विचिकित्सा च दुःखेन्द्रियवर्जं चतुरिन्द्रियसम्प्रयुक्ता । द्वेषम्रक्षपापमात्सर्येर्ष्याश्च दौर्मनस्येन्द्रियमात्र सम्प्रयुक्ताः । कथमिदम् । (उ) सम्प्रयोगो नास्तीति पूर्वमेव दूषितम् । पश्चादपि वक्ष्यते पञ्चसु विज्ञानेषु नास्ति क्लेश इति । भवतः शासने रागः सौमनस्येन्द्रियसम्प्रयुक्तः । मात्सर्यन्तु न तथा इत्यत्र नास्ति हेतुः । मात्सर्यस्य रागाङ्गत्वात् । एवं मानो न दौर्मनस्येन्द्रियसम्प्रयुक्त इत्यत्रापि नास्ति हेतुः । अतो ज्ञायते भवद्भिरुक्तं सर्वं स्वसंज्ञानुस्मरणविकल्पमात्रमिति ।

(पृ) केचिदाहुः- दुःखहर्शनहेयाः पञ्चमिथ्यादृष्टयो विचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याः । समुदयसत्य[दर्शन]हेयाश्च मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याश्च इमे सर्वत्रगानुशया अन्ये ऽसर्वत्रगानुशयाः । कथमिदम् । (उ) सर्वे सर्वत्रगाः । कस्मात् । सर्वेषां मिथोहेतुप्रत्ययत्वात् । मम[शासने]मिथ्यादृष्टौ रागो भवति, नास्ति दुःखं यावन्नास्ति मार्गः । तस्यां दृष्टावभिनिविष्ट आत्मानमुन्नमयति । यदि शृणोति दुःखमिति, तदा विद्विषति । स च रागो निरोधसत्यालम्बनः । द्वेषो (sss_344) निर्वाणद्वेष्यपि भवति । निर्वाणेनाप्यात्मन उच्चमतिर्भवति । तद्वन्मार्गेणापि, अन्ये ऽप्यनुशयाः सर्वत्रगा इति द्रष्टव्यम् । कामधात्वाप्ताः क्लेशा रूपधात्वालम्बनाः । यथा रागेण सुखमभिनन्दति । द्वेषेणाशुभं विद्विषति । तेन धर्मेणात्मानमुन्नमयति, तत्प्रधाना भवन्ति [रूपधातौ] न कामधातौ । यथा कामधातुकक्लेशारूपधात्वालम्बनाः तथा रूपधातुकादृष्टयादयः क्लेशा अपि कामधात्वालम्बनाः । एवमारूप्यधातावपि । किञ्चेमे क्लेशाः सामान्यविशेषलक्षणालम्बनाः । कस्मात् । रागः सामान्यलक्षणालम्बनो ऽपि चतुरो देवान् तदधस्तनांश्च संक्लेशयति । यथाह दीर्घनखसूत्रम्- सर्वं क्षमत इतीदं संरागाय । सर्वं न क्षमत इतीदमसंरागाय इति । सर्वं न क्षमत इतीदं संरागाय । सर्वं क्षमत इतीदमसंरागाय । तेन क्लेशेनात्मानमुन्नमयति । क्लेशो ऽयं कायवाक्कर्म प्रवर्तयति । कस्मात् । उक्तं हि सूत्रे- ईदृशीं दृष्टिमुत्पाद्य ईदृशं वस्तु वदति यदस्ति जीव इत्यादि ।

ते सर्वे क्लेशाः षष्ठविज्ञाने वर्तन्ते । न पञ्चसु विज्ञानेषु । कस्मात् । षष्ठविज्ञानस्य संज्ञोपगत्वात् । सर्वे च क्लेशाः संज्ञासम्भूताः । तथा नो चेत् सत्कायदृष्ट्यादयो ऽपि पञ्चसु विज्ञानेषु वर्तेरन् । कस्मात् । चक्षुषा रूपं दृष्ट्वा वदति अहं पश्यमीति । तथा मानविचिकित्सादिष्वपि । (पृ) सूत्र उक्तम्- षट् तृष्णाकाया इति । कथमुच्यते पञ्चसु विज्ञानेषु न क्लेशाः सन्तीति । (उ) यथा षण्मनौपविचारा मनोविज्ञाने वर्तन्ते । केवलं चक्षुरादिभिराहृता इत्यतः षण्मनौपविचारा इत्युच्यन्ते । तथेदमपि । मनोविज्ञाने हि विद्यमानं विकल्पकारणं न पञ्चसु विज्ञानेषु । अतो ज्ञायते पञ्च विज्ञानेषु न सन्ति क्लेशा इति ॥

प्रकीर्णप्रश्नवर्गो ऽष्टस्त्रिंशदुत्तरशततमः ।

139 दोषप्रहाणवर्गः

(पृ) केचिदाहुः- क्लेशा नवविधा- अधममध्यमोत्तमा अधमाधमाधममध्यमाधमोत्तमा मध्यमाधम मध्यममध्यममध्यमोत्तमा उत्तमाधमोत्तममध्यमोत्तमोत्तमा इति । ज्ञानमपि नवविधम् । क्लेशेषूत्तमोत्तमः पूर्वं प्रहेयः । अधमाधमो ऽन्ते प्रहेयः । अधमाधपज्ञानेनोत्तमोत्तमक्लेशं प्रजहाति । यावदुत्तमोत्तमज्ञानेन अधमाधमक्लेशं प्रजहाति इति । कथमिदम् । (उ) अप्रमाणचित्तैः क्लेशान् सर्वान् प्रजहाति । कस्मात् । सूत्रे भगवानाह- तद्यथा दक्षः (sss_345) कर्मकरो हस्तेन परशुमादाय चक्षुषा मुष्टिप्रदेशं दृष्ट्वा यान्यंशसहस्रानि प्रतिदिनं क्षीयमाणानि तान्यगणयनन्नपि क्षीणमात्रं दृष्ट्वा प्रजानाति इदं क्षीणमिति । तथा स भिक्षुरपि मार्गचर्यां भावयन् कान्यद्य क्षीणाण्यास्रवसहस्राणि कानि ह्यः क्षीणान्यास्रवहस्राणीति अगणयन्नपि क्षीणमात्रे प्रजानाति क्षीण आस्रव इति । अतो ज्ञायते ऽप्रमाणै ज्ञानैः क्लेशाः क्षीयन्त नत्वष्ठ नव वा इति ।

(पृ) कं समाधिं निश्रित्य कः क्लेश प्रहीयते । (उ) सप्तप्रतिशरणान्युपादाय क्लेशान् समुच्छेदयति । यथोक्तं सूत्रे भगवता- प्रथमध्यानमुपादायास्रवाणां क्षयो यावदाकिञ्चन्यायतनमुपादायास्रवाणां क्षय इति । तानि सप्तप्रतिशरणानि विनापि आस्रवाणां क्षयं करोति । यथोक्तं सुसीमसूत्रे- अतिक्रम्य सप्तनिश्रयानास्रवक्षयमनुप्राप्नोतीति । अतो ज्ञायते कामधातुकसमाधिं निश्रित्यापि आस्रवक्षयं प्रतिलभत इति ।

(पृ) सत्यदर्शनहेयाः क्लेशा नारूप्यसमाधिं निश्रित्य प्रहीयेरन् । तस्य योगिनो रूपलक्षणभङ्गात् । (उ) इदं पूर्वमेव प्रयुक्तम् । यदारूप्यसमाधि[रपि] रूपमवलम्बत इति । (पृ) पूर्वं प्रथमध्यानाद्वीतरागः किं क्रमेण द्वितीयध्यानादीन् प्राप्नोति किं वा एककालमेव । (उ) क्रमेण भवितव्यम् । प्रथमध्याने वीतरागस्य द्वितियध्यानादीनामुत्पत्तेः । (पृ) किं कामधातावस्ति क्रमः । (उ) क्लेशानां प्रतिक्षणनिरुद्धत्वात्स्यादपि क्रमः । यथा च याम्या देवाः परिष्वङ्गे कामं साधयन्ति । तुषिता देवाः पाणिं गृहीत्वा कामं साधयन्ति । निर्माणरता वागालापेन कामं साधयन्ति । परनिर्मितवशवर्तिनो देवा आकारं दृष्ट्वा कामं साधयन्ति । [एवं] ज्ञातव्यं कामधातुकक्लेशाः क्रमेणापि क्षीयन्त इति । केचिदाहुः- पुण्यगुणप्रत्ययं तत्रोत्पद्यन्ते । न क्लेशप्रहाणेन । प्रणीतकामत्वात् तत्साधने विशेषः । मृद्विन्द्रियत्वात्परिष्वङ्गेन कामं साधयन्ति । तीक्ष्णेन्द्रियत्वादाकारं दृष्ट्वा कामं साधयन्ति इति ।

(पृ) केचिदाहुः- भावनाहेयाः क्लेशाः क्रमेणा प्रहीयन्ते । पूर्वं कामधात्वाप्ताः पञ्चाद्रूपारूप्याप्ताः । सत्यदर्शनहेयास्त्वेककालं प्रहीयन्त इति । कथमिदम् । (उ) यथा सत्यदर्शनहेयाः सर्वे क्लेशा निरोधसत्यदर्शनेन प्रहीयन्ते । उक्तपूर्वमिदम् यत् निरोधदर्शनप्रहेयाः (sss_346) सत्कायदृष्ट्यादयः क्लेशाः सर्वे निरोधसत्यदर्शनेन प्रहीयन्ते । ऊष्मधर्मादारभ्य अनित्याद्याकारैः पञ्चस्कन्धलक्षणानि भावयित्वा आदौ प्रहेयाः क्लेशा निरोधदर्शनेन क्षीयन्ते ।

(पृ) कामधात्वाप्तदुःख[सत्य]भावनया कामधातुकसंयोजनानि प्रजहाति । समुदयसत्यभावनायाप्येवम् । यथा कामधातौ तथा नैवसंज्ञानां संज्ञायतने ऽपि । कामधातुकनिरोध[सत्य]भावनया त्रैधातुकसंयोजनानि प्रजहाति । एवं मार्ग[भावनया]पि । कथमिदम् । (उ) निरोधज्ञः क्लेशान् प्रजहाति । अतो भवदुक्तं न युज्यते । (पृ) [ननु] सूत्र उक्तम्- पञ्चस्कन्धाननित्यादिना भावयित्वा स्रोतआपत्तिपलं यावदर्हत्फलं विन्दते इति । कथमाह भवान् निरोधसत्यदर्शनमात्रेण क्लेशान् प्रजहातीति । (उ) इमान् पञ्चस्कान् भावयन् प्रजानाति निरोधमिश्रभावनाम् । अतः प्रजहाति क्लेशानुशयान् । यथोक्तं सूत्रे- भिक्षुर्भावयति इदं रूपं, अयं रूपसमुदयः, अयं रूपनिरोध इति सर्वदा मम पश्यतो धर्मं विजानतः क्लेशाः प्रहीयन्त इति । ज्ञातव्यंनिरोधसत्यदर्शनेन क्लेशानां क्षय इति । पञ्चस्कन्धा दुःखम् ततः क्लेशाः समुत्पद्यन्ते । यदा पञ्चस्कन्धानां निर्वाणमुपशमं पश्यति । तदा दुःखसंज्ञा सम्पन्ना भवति । अतो ज्ञायते स्कन्धानां निरोधं पश्यतः क्लेशाः क्षीयन्त इति । यथोक्तम्- धर्मानुपादायाकायस्वभावमेकमुपेक्षाचित्तमाश्रित्य प्रहाणमिति । अकायस्वभाव एव निरोधः । यो रूपमकायस्वभावं यावद्विज्ञानमकायस्वभावं पश्यति सो ऽत्यन्तविसंयोगभाग्भवति । त्रीणि विमोक्षमुखानि निर्वाणस्य प्रत्ययाः । विमोक्षमुखैरेभिरेव क्लेशान् प्रजाहाति । नान्योपायैः । अतो ज्ञायते ऽसंस्कृतालम्बनो मार्ग एव क्लेशान् प्रजहातीति । अतो भवदुक्तो [यः] क्लेशप्रहाणधर्मो नायं युक्तः ।

शास्त्रमाह- क्लेशानामेवंजातीयानामप्रमाणानि विक्लपस्वभावानि भवन्ति [इति] विमुक्तिप्रार्थिभिर्ज्ञातव्यम् । कस्मात् । एतद्बन्धदोषज्ञानबलाद्विमुच्यते । यदा कश्चिच्छत्रुं विज्ञाय दूरीकरोति । यथा वा विषममार्गं ज्ञात्वा वर्जयति । एवं क्लेशानपि । क्लेशबन्धो ऽतिसूक्ष्मो वेमचित्रमसुरराजं बवन्ध । यावद्भवाग्रं सत्वाः क्लेशबद्धाः । अतो ज्ञातव्यं तेषामादीनवम् । सत्त्वा यादद्भवाग्रमाजवञ्जवपतिताः । यतः क्लेशानामादीनवज्ञानं न पश्यन्ति । अप्रहीणसंयोजनत्वादप्रहीण आत्ममानो वर्धते । ततस्तु विमतिकौकृत्ये भवतः । अतः क्लेशदोषैर्मा वञ्चितः स्यामिति ज्ञातव्यम् । यत् सत्वा विशुद्धं परमं निर्वाणसुखमुपेक्षन्ते प्रत्युतातितुच्छं कामसुखं भवसुखं कामयन्ते तदिदं सर्वं क्लेशानां दोषः । यदा क्लेशान् (sss_347) प्रजहाति तदा महाहितं प्रतिलभन्ते । अतः क्लेशदोषाणां ज्ञानदर्शनं कुर्यात् । विमुक्तेरावरणधर्मा यदुत क्लेशाः । क्लेशानामप्रहाणे नैवास्ति विमुक्तिनिदानम् । कस्मात् । क्लेशाः कामनिदानम् । क्लेशानुयायी कायो भवति । कायानुयायि दुःखम् । अतो दुःखवियोगार्थी क्लेशानां प्रहाणाय वीर्यमारभेत ॥

क्लेशप्रहाणवर्ग एकोनचत्वारिंशदुत्तरशततमः ।

140 विद्याहेतुवर्गः

(पृ) क्लेशाः कायस्य निदानमित्येतद्विद्या स्यात् । कस्मात् । तीर्थिका हि नेदं श्रद्दधन्ते । केचिदाहुः- कायो ऽहेतुको ऽप्रत्ययः, तृणवृक्षवत् स्वयंभूत इति । केचिदाहुः - पदार्था महेश्वरादिभिः सृष्टा इति । केचिदाहुः- पदार्थाः कालस्वभावजाः इति । केचिदाहुः- परमाणुसमवायजा इति । एवंजातीयवचनानि विद्या स्युः । (उ) कर्मणः कायो भवतीदं पूर्वमेव साधितम् । तत्कर्म क्लेशेभ्यः सम्भूतम् । अतः क्लेशाः कायस्य निदानम् ।

(पृ) कथं ज्ञायते क्लेशहेतुकं कर्मेति । (उ) प्रज्ञप्तिचित्तमविद्येत्युच्यते । प्रज्ञप्तिचित्तकः कर्माण्युपचिनोति । अतो ज्ञायते क्लेशप्रत्ययं कर्म भवतीति । अर्हन्न कर्माण्युपचिनोति न निष्पादयति । अतो ज्ञायते कर्माणि क्लेशसिद्धानीति । यथोक्तं भगवतासूत्रे- यः प्रतिलब्धविद्यः सन्यस्ताविद्यः स किं पापकं कर्म पुण्यं कर्म आनेञ्ज्यञ्च कर्म करोति न वा । नो भगवन् इति । नास्ति चानास्रवं कर्म । अतो ज्ञायते प्रज्ञप्त्यनुयायी केवलं कर्माणि करोतीति । अनास्रवं चित्तं न प्रज्ञप्तिमवलम्बत इति न कर्माणि करोति । शैक्षस्य नास्ति चर्या । यथोक्तं सूत्रे- शैक्षजनः प्रत्यागतं नाचरति, निरुद्धं न करोतीति । क्रियालक्षणा हि चर्या । चर्यैव कर्मेत्युच्यते । अनास्रवं चित्तञ्च न चर्यालक्षणमित्यतो नास्त्यनास्रवं कर्म । तस्मात् सर्वाणि कायवेदनीयकर्माणि क्लेशहेतुसम्भूतानि । प्रहीणक्लेशो न पुनर्जन्मानुभवति । अतो ज्ञायते विद्यमानः कायः क्लेशहेतु[क] इति ।

(पृ) सर्वे सत्त्वा अक्लेशतया जायन्ते । पश्चात्तु क्लेशाः समुद्भवन्ति । यथा पुरुषस्य जननकाले ऽविद्यमानं दशनं पश्चादुत्पद्यते । (उ) न युक्त[मिद]म् । क्लेशवानेव (sss_348) [जायते] यत्र भवलक्षणं क्वरोदनादि जननकाले प्रत्यक्षमस्ति । अतो ज्ञायते क्लेशैः सहैव सर्वे जायन्त इति । प्रत्यक्षं पश्यामः खलु सत्त्वा बहवो वर्चःकुट्यादिषु प्रसूयन्ते न तु शिलादिषु । गन्धरसाद्यासङ्गात्तत्र प्रसूयन्त इति द्रष्टव्यम् । अतो ज्ञायते क्लेशवशादुत्पद्यन्त इति । (पृ) नरकादौ न जन्म लभेरन् । कस्मात् । न हि कश्चिनरकादौ सुखं कामयेत । (उ) मोहबलाद्विपर्ययचित्ता उत्पद्यन्ते । म्रियमाणा दूरतो नरकं दृष्ट्वा इदं पद्मसर इति तदासङ्गात्तत्रोत्पद्यन्ते । यथोक्तं सूत्रे- यो निबिडितस्थाने विपुलं स्थानं लभेयमिति म्रियते स पक्षिषूत्पद्यते । यः परितर्षितो म्रियते स जलजन्तुर्जायते । यः शीतार्तो म्रियते स तपननरके जायते । यस्तापतर्षितो म्रियते स शीतनरके जायते । यो मैथुनकामासक्तः स चटकेषु जायते । य आहारासक्तः स कुणपेषु कीटो जायते । इति । कामासङ्गहेतुना अकुशलानि करोति । अकुशलप्रत्ययदार्ढ्यात्फलविपाकं वेदयते । कायासक्त्या कर्माणि विपाकजनकानि । कस्मात् । कायासक्तस्य मोहबलान्मानादयः क्लेशा जायन्ते । ततः कर्मणि सञ्चिनोति । कर्मबलाद्गतिषूत्पद्यते ।

(पृ) यदि क्लेशप्रत्ययेन कायो भवति । प्रहीणक्लेशस्य पञ्चस्कन्धसन्तानो न स्यात् । (उ) कायो ऽयं पूर्वं क्लेशजातः । [इदानीं] क्लेशेषु प्रहीणेष्वपि तद्वेगबलात्कायः पुनर्न प्रहीयते । यथा दण्डेन चक्रभ्रमणम् । मुहूर्तं दण्डे विरमत्यपि [चक्रम्] भ्रमत्येव न तु शाम्यति । (पृ) यदि पूर्वकर्मक्लेशवेगात्कायो भवति । तदा प्रहीणक्लेशः पूर्वकर्मक्लेशवेगात्पुनः कायमुपादद्यात् । (उ) निमित्तग्रहाद्विज्ञानमवश्यं तिष्ठति । अयं प्रक्षीणपूर्वकर्मवेगः । इदानीमनिमित्तविमोक्षमुखं भावयन् नोर्ध्वदेहमुपादत्ते । यथा तत्पपाषाणे न बीजानि प्ररोहन्ति । एवं ज्ञानाग्निना विज्ञानस्थितिषु दग्धासु न विज्ञानबीजं प्ररोहति । (sss_349) ऊर्ध्वसन्तानः समुच्छिद्यते । संस्कारप्रत्ययवैकल्यात् न पुनः सन्तानो भवति । यथोक्तं सूत्रे भगवता- विज्ञानं बीजम् । कर्मसंस्काराः क्षेत्रम् । रागतृष्णा सलिलम् । अविद्या अवकिरणम् । एभिः प्रत्ययैरायत्यां कायमुपादत्त इति । अर्हतस्त्वेषां प्रत्ययानां वैकल्यान्नायत्यां कायो भवति इति ज्ञातव्यं क्लेशप्रत्यया कायवेदनेति । विगतक्लेशस्य दुःखज्ञानादिचित्तमस्ति । इदानीमुपपत्तिवेदको न पश्यति तच्चित्तमस्तीति । अतो ज्ञायते विगतक्लेशो नोपपतिं वेदयत इति । (पृ) स्रोतआपन्नादिनां दुःखादिचित्तमस्ति । त उपपत्तिकाले ऽपि न पश्यन्ति अस्तीति । (उ) अर्हतां ज्ञानबलं सुदृढम् । सर्वे ऽपि क्लेशा नोत्कर्षन्ति । अतो म्रियमाणा उपपत्तिवेदनां प्रतिघ्नन्ति । स्रोतआपन्नादीनां ज्ञानबलन्तु न तथा । अतो न दृष्टान्तः स्यात् ।

भवतोक्तं यथा दशनं पश्चात्क्रमेण भवति तथा क्लेशा अपीति । इदमयुक्तम् । कस्मात् । अर्हन्तो ऽनास्रवप्रज्ञादद्घक्लेशा इत्यतो नोत्पद्येरन् । यथा दग्धं बीजं न पुनः प्ररोहति । प्रत्यक्षं खलु लोके ऽस्मिन् क्लेशजः काय इति । यथा कामरागात्कायरूपं विक्रियते । तथा द्वेषादपि । अतो ज्ञायते आयत्यां पञ्चस्कन्धा अपि क्लेशजा इति ।

(पृ) पश्यामः खलु आहारप्रत्ययाः पञ्चस्कन्धा उत्पद्यन्ते । तथापि नोच्यते आहारः कायवेदनाप्रत्यय इति । (उ) आहारश्चित्तप्रज्ञप्तितो रूपादीनां जनकः । क्लेशास्तु न तथा, अप्रज्ञप्तितो रूपादिजनकाः । अतो ज्ञायते क्लेशाः कायप्रत्यया इति । प्रत्यक्षं खलु चटकादयः कामबहुलाः, सर्पादयो द्वेषबहुलाः, सूकरादयो मोहबहुलाः । ज्ञातव्यमिमे सत्त्वा अवश्यं पूर्वाभ्याससञ्चितमैथुनरागादिक्लेशा इत्यतस्तेषूत्पद्यन्त इति । (पृ) उत्पत्तिस्थान धर्मस्तथा न तु पूर्वाभ्याससञ्चितक्लेशहेतुकम् । (उ) तथा चैन्मैथुनरागादयो निर्हेतुकाः स्युः । नेदं सम्भवति । इति ज्ञातव्यं पूर्वाभ्याससञ्चितहेतुना भवतीति । कामक्रोधादिषु क्लेशेषूद्दीपितेषु हननादिपापानि कुर्वन्ति । तेभ्यः पापेभ्यो दृष्ट एव बधबन्धनादिदुःखमनु भवन्ति । क्लेशेष्वल्पेषु शीलधारणकुशलाभ्यासादिहितं लभन्ते । तत्कुशलशीलमुपादाय दृष्ट एव ख्यातियशोलाभसत्कारादिसुखं लभन्ते । यथेह लोके लाभो हानिश्च क्लेशहेतुका, तथामुष्मिन्नप्येवमिति ज्ञायते ।

(पृ) यदि क्लेशहेतुकः कायो भवति । तदा समुच्छिद्येत संसारे गतागतम् । कस्मात् । क्लेशविवृद्ध्या दुर्गतौ पतति स एव पापकायमनुभूय क्लेशान् पुनर्वर्धयति । सदा च विमुक्तिहेतुरहितः । एवञ्च न सुस्थाने जन्म लभेत । यदि पुण्यवर्धनाय (sss_350) पुण्यकायमुपादते । तदा पुनरपि न दुस्थान उत्पद्येत । एवञ्च न स्यात्संसारे गतागतम् । (उ) जनो ऽयं दुर्गतौ पतितो ऽपि कदाचित्कुशलचित्तभाग्भवति । सुस्थान उत्पन्नो ऽपि कदाचिदकुशलचित्तमुत्पादयति । अतः संसारे गतागतं न समुच्छिद्यते । रागादिक्लेशानां तनुत्वतः सुस्थाने जन्मानुवर्तते । तेषामेव महत्वतो दुःस्थाने जन्मानुवर्तते यथा सूकरश्वादयः । अल्पकेशत्वतः सुस्थाने जायत इति यथा [कश्चित्] क्लेशतनुत्वात् दानशीलादिकर्माचरन् षट्सु कामदेवेषूत्पद्यते । प्रहीणाब्रह्मचर्यारागत्वाद्विशिष्टध्यानसुखं प्रतिलभते । प्रहीणरूपसंक्लेशत्वाद्विशिष्टसमाधिसुखं प्रतिलभते । सर्वसंयोजनानां क्षये ऽनुपमं निर्वाणसुखं प्रतिलभते । अतो ज्ञायते कायो ऽयं क्लेशहेतुक इति ।

पश्यामः खलु सत्त्वा कुदेशभूमौ रता दुर्जनैः सह कुत्सितमधिवसन्तीति सर्वमासङ्गाद्भवति । अतो ज्ञायते संसारे सत्त्वानामधिवासो ऽप्यासङ्गाद्भवति । यथा शलभा भास्वररूपरागात्प्रदीपदग्धा भवन्ति । आसक्तिरियं न ज्ञानद्भवति । कस्मात् । शलभा इमे न जानन्ति अग्निर्दुःखस्पर्श इत्यतस्तत्र पतन्ति । तथा सत्त्वाः पौनर्भविकदुःखपतिता अविद्याप्रत्ययकामतृष्णार्त उत्पद्यन्ते । यथा मत्स्या अङ्कुशं ग्रसन्तः, हरिणाः शब्दानु चारिणः । ते सर्वे कामासङ्गान्म्रियन्ते । यथा च कश्चित् कामासक्त्या विप्रकृष्टां विदिशं गच्छन् न प्रतिनिवर्तते । तत् सर्वं क्लेशाज्जातमिति द्रष्टव्यम् । यथा वृक्षस्य मूले ऽनुन्मूलिते स वृक्षः पुनः प्ररोहति । तथा रागमूले ऽनुन्मूलिते दुःखवृक्ष सदा वर्तते । यथाह भगवान्-

यथापि मूले ऽनुपद्रुते दृढे च्छिन्नो ऽपि वृक्षः पुनरेव रोहति । एवमपि तृष्णानुशये ऽनुद्धृते निर्वर्तयति दुःखमिदं पुनः पुनः ॥ इति ।

कायो ऽयमशुचिरनित्यो दुःखं शून्यो ऽनात्मकः । स्वतो ऽविद्यां विना को ज्ञानी तत् व्ययदुःखं कामयमानो वेदयेत । यथान्धो मलिनवासो रत्नाभरणमिति प्रलोभितः स्यात् । तथाविद्यान्धीभूत आदीनवबहुलानशुचीन् पञ्चस्कन्धाननुभवति । आत्ममत्या दुःखमपि कायमनुभवन् न त्यजति । अनात्मबुद्धौ तु प्रजहाति । यथाह शारिपुत्रः- विशुद्धसंवर- प्रतिलब्धमार्गो म्रियमाणो ऽभिनन्दति । तद्यथा विषकुम्भे भग्ने । अतो (sss_351) ज्ञायते क्लेशप्रत्ययो ऽयं काय इति । अज्ञानादस्मिन् काय आसज्यते । यथा चित्रकारण्डो ऽशुचिसमृद्धः । अनपावृतो रमणीयः । अपावृते तु पूतितृणानि [दृश्यन्ते] । यथा विषसर्पसम्पूर्णे गृहप्रकोष्ठे ऽप्रज्वलिते च दीपे सुखाध्यवसानं भवति । [विषसर्प]दर्शने तु तदपैति । तथा सत्त्वा अपि अविद्यायां सत्यां लोके ऽभिरमन्ते । उत्पन्नायान्तु विद्यायां चित्तं निर्विद्यते । एवं कामतृष्णा भवस्य मूलम् । कस्मात् । कामतृष्णया हि प्रार्थयते । प्रार्थना हि द्विविधा- कामप्रार्थना भवप्रार्थना इति । प्रत्युत्पन्नेषु कामेषु प्रार्थना कामप्रार्थना । पुनर्भवप्रार्थना भवप्रार्थना । अतो ज्ञायते कामतृष्णा भवस्य मूलमिति । पञ्चस्कन्धासक्तौ सत्कायदृष्टिरुत्पद्यते यदुताहमित्यात्मवादोपादानम् । तदुपादानमुपादायान्यानि त्रीण्युपादानानि भवन्ति । उपादानप्रत्ययो भवः । भवप्रत्यया जातिरिति ज्ञातव्यं क्लेशाः कायस्य मूलमिति ।

कायो ऽयं दुःखम् । दुःखकाये ऽस्मिन् सुखसंज्ञाविपर्यय उत्पद्यते । तेन सुखविपर्ययेण विपरीततृष्णा प्रवर्तते । तथा विपरीततृष्णया पुनर्भवं वेदयते । अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति । कायो ऽयमाहारप्रत्ययात्तिष्ठति । कबलीकाराहारासक्त्या न कामधातुमतिवर्तते । यथोक्तं कर्मस्कन्धे- गन्धरसासक्त्या वर्चःकुट्यादिषूत्पद्यते । स्प्रष्टव्यासक्त्या गर्भावास उत्पद्यते । शीतोष्णस्पर्शासक्त्या अण्डजः स्वेदजो वा भवति । इति सर्वे न कामधातुमतिक्रामन्ति । धातुस्पर्शमुपादाय तिस्रो वेदना भवन्ति । अतः स्पर्शप्रत्यया वेदनेत्युच्यते । मनःसञ्चेतनाहारो ऽप्येवम् । पुनर्भवसमुत्थानाय प्रणिदधाति इदमहं करिष्यामीति । ज्ञादर्शनविहीनं विज्ञानं पुनर्भवप्रापककामतृष्णामूलं भवति । एवं चत्वार आहाराः कामतृष्णाधीनाः । सर्वे हि सत्त्वा आहारेण जीवन्ति । अतो ज्ञायते तृष्णाप्रत्यया जातिरिति ।

चतस्रो जातयः- अण्डजो जरायुजः संस्वेदज उपपादुक इति । मैथुनकामतृष्णया अण्डजो जरायुजश्च । गन्धरसाद्यासङ्गात् संस्वेदजोपपत्तिं वेदयते । यथाभिलषितं गुरुकर्मोपचीय उपपादुकजन्म वेदयते । अतो ज्ञायते चत्वारो जातिविभागाः कामतृष्णाधीना इति । चतस्रः कायवेदनाः- कश्चिदात्मघातको न परघातक इत्यादयश्चतस्रः । ताः (sss_352) सर्वाः कामतृष्णाविशेषा भवन्ति । अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति । चतस्रो विज्ञानस्थितयः- रूपोपगं विज्ञानं तिष्ठत् रूपप्रतिष्ठितं रूपारम्बणं नन्द्युपसेवनम् । वेदनासंज्ञासंस्कारेष्वप्येवम् । न तूच्यते विज्ञानमेव विज्ञानस्थितिरिति । विज्ञानकाले क्लेशाभावात् । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति ।

द्वादशनिदानानि चाविद्याधीनानि । कस्मात् । प्रज्ञप्त्यनुयायिचित्तमविद्या । तामविद्यामुपादाय प्रवर्तते [कर्म]पुण्योपगमपुण्योपगमानेञ्ज्योपगम् । कामसंलालितं पुण्योपगम् । दुःखसम्पीडितमपुण्योपगम् । मैत्रीकरुणादिचित्तसङ्गृहीतमानेञ्ज्योपगम् । तेषां कर्मणामनुगामिविज्ञानं पुनर्भवे तिष्ठति । विज्ञानं निश्रित्य भवन्ति नामरूपषडायतनस्पर्शवेदनाः । इमानि चत्वारि पूर्वाध्वनीनकर्मक्लेशविपाकाः । पुनरिमां वेदनामुपादाय प्रवर्तते तृष्णोपादानं भवः । इमे कर्मक्लेशा आयत्यां जातिजरामरणादीन्युत्पादयन्ति । एवं द्वादशाङ्गभवसन्ततिरविद्यामूलिका । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति ।

संसारो ऽनादिः । केनेदं ज्ञायते । उक्तं हि सूत्रे- कर्मप्रत्ययानि चक्षुरादीनीन्द्रियाणि । कर्म तृष्णाहेतुकम् । तृष्णा अविद्याहेतुका । अविद्या अयोनिशोमनस्कारहेतुका । अयोनिशोमनस्कारश्चक्षुर्हेतुको रूपप्रत्ययो मोहात्प्रवृत्त इति । अतो ज्ञायते संसारचक्रमनादीति । ईश्वरादयः कारणमिति वदतो न भवत्यनादिः । तत्तु न सम्भवति । अतो ज्ञायते क्लेशप्रत्ययः काय इति । क्लेशानामात्यन्तिकनिरोधे विमुक्तिर्लभ्यते । सत्त्वानां देहा नाना विजातीयाः । ईश्वरादीकारणत्वे वैजात्यं न स्यात् । क्लेशकर्मणां बहुविधत्वात् देहा अपि नैके ।

द्वाविंशताविन्द्रियेषु षडिन्द्रियाण्युपादाय षड्विज्ञानानि भवन्ति । तत्रास्ति स्त्रीपुरुषेन्द्रियम् । सर्वधर्माणामेषां सन्तत्यविच्छेदात् जीवितमित्युच्यते । जीवितं कस्येन्द्रियं भवति, यदुत कर्मणः । कर्मेदं क्लेशानां हेतुः । क्लेशा वेदनानिश्रिता इत्यतः पञ्च वेदना इन्द्रियाणि भवन्ति । एवमन्योन्य[हेतु] प्रवृत्ता संसारसन्ततिः । श्रद्धादीनीन्द्रियाणि (sss_353) निश्रित्य सन्ततिं विच्छेदयति । एवं द्वाविंशतीन्द्रियैः संसारे यात्यायाति च । अतो ज्ञायते क्लेशैः कायो भवतीति ।

किञ्च विमुक्त्यर्थी शीलसमाधिप्रज्ञा विमुक्तिज्ञानदर्शनस्कन्धानुत्पादयति । एषां क उपयोगः । [ते] सर्वे क्लेशानां निरोधाय भवन्ति ज्ञानी तद्धितं दृष्ट्वा तान् स्कन्धानुपाश्रयते । अतो ज्ञायते क्लेशप्रत्ययः काय इति । क्लेशाश्च क्रमेण निरुध्यन्ते । प्रहीणत्रिविधसंयोजनः स्रोतआपत्तिफलभाग् भवति । तनुकामच्छन्दादिकः सकृदागामिफलभाक् । प्रक्षीणकामधातुसंयोजनो ऽनागामिफलभाक् । ध्यानसमाधिष्वपि अयं क्रमः । अत्यन्तक्षीणसर्व[संयोजनः] अर्हत्फलभाग् भवति । एवं क्लेशानां क्रमशो निरोधात्कायो ऽपि क्रमशो निरुध्यते । ईश्वरादिकारणत्वे न स्यात्क्रमनिरोधः । अतो ज्ञायते क्लेशप्रत्ययः काय इति । सुजना रागादीनां क्लेशानां प्रहाणं प्रार्थयन्ते । द्रष्टव्यमवश्यं रागादिप्रत्ययमिदानीमायत्याञ्च ग्लान्युपायासान् लभन्त इत्यतो ऽवश्यं [तेषां] प्रहाणं प्रार्थयन्ते । तथा नो चेन्न प्रहाणप्रार्थना स्यात् । ये वदन्ति ईश्वरादयः कायस्य हेतुरिति । ते ऽपि प्रार्थयन्ते कामच्छन्दादीनां प्रहाणम् । अतो ज्ञायते कामच्छन्दादिप्रत्ययः काय इति । विद्वान् प्रज्ञया विमुक्तिं लभन्ते । [अतो] अज्ञानाद्वध्यत इति ज्ञेयं भवति । तस्मात् ज्ञायते क्लेशप्रत्ययः कायो भवतीति ।

भगवानाह- तत्र तत्र सूत्रे नन्दिरागक्षयात्सम्यग्विमुक्तिं लभत इति । कस्मात् । चक्षूरूपादयो हि न बन्धा इत्युच्यन्ते । नन्दिरागादयस्तु बन्धाः । नन्दिरागभङ्गात् चित्तं सम्यग्विमुच्यते । सम्यग्विमुक्तं चित्तं निर्वाणे ऽवतरति । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति । अनिमित्तानाकारशून्यतया हि विमुक्तिं प्रतिलभते । अतो ज्ञायते क्लेशप्रत्ययः काय इति । कस्मात् । धर्माणां शून्यतादर्शनमेवानिमित्तप्रतिलाभः । निमित्तनिरोधान्न पुनर्भवं प्रणिदधाति । अतः शून्यता विमोक्षमुखमित्युच्यते । तद्विपर्यये बन्धः । इत्यादिना क्लेशाधीनः कायो भवतीति प्रदर्शितम् ॥

विद्याहेतुवर्गश्चत्वारिंशदुत्तरशततमः ।

[इति] समुदयसत्यस्कन्धः समाप्तः ।

अथ निरोधसत्यस्कन्धः

141 निरोधसत्यस्कन्धे आद्यः प्रज्ञप्तिस्थापनवर्गः

शास्त्रमाह- त्रिविधचित्तानां निरोधो निरोधसत्यं यदुत प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तम् । (पृ) कथमेषां त्रयाणां चित्तानां निरोधः । (उ) प्रज्ञप्तिचित्तं बहुश्रुतप्रत्ययज्ञानेन वा निरुध्यते । चिन्तनाप्रत्ययज्ञानेन वा निरुध्यते । धर्मचित्तमूष्मगतादिधर्मेषु शून्यताबुद्धया निरुध्यते । शून्यताचित्तं निरोधसमापत्त्यवतरणेन निरुध्यते । यदि वानुपधिशेषनिर्वाणे ऽवतरतः सन्तानसमुच्छेदे निरुध्यते ।

(पृ) कतमा प्रज्ञप्तिः । (उ) स्कन्धानुपादाय ये विकल्पा तद्यथा पञ्चस्कन्धानुपादाय पुरुष इत्युच्यते । रूपरसगन्धस्पर्शानुपादाय घट इत्युच्यते इत्यादि । (पृ) कस्मादियं प्रज्ञप्तिः । (उ) सूत्रे भगवानाह-

यथाह्यङ्गसम्भाराद्भवति शब्दो रथेति च । एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः ॥ इति ।

यथा च भगवान् भिक्षूनवोचत्- धर्मा अनित्या दुःखाः शून्या अनात्मानः प्रतीत्यसमुत्पन्ना अनियतस्वभावा नाममात्रमनुस्मरणमात्रं भोगमात्रम् । इमानेव पञ्चस्कन्धानुपादाय नाना नाम प्रवर्तते सत्त्वो मनुष्यो देव इत्यादि इति । सूत्रे ऽस्मिन् वस्तुसतो धर्मस्य प्रतिषेधादुच्यते नाममात्रमिति ।

किञ्चाह भगवान्- द्वे सत्ये परमार्थसत्यं संवृतिसत्यमिति । परमार्थसत्यं यदुत (sss_355) रूपादयो धर्मा निर्वाणञ्च । संवृतिसत्यं यत् प्रज्ञप्तिमात्रं निःस्वभावम् । यथा रूपादिप्रत्ययो घटः सिध्यति । तथा पञ्चस्कन्धप्रत्ययः पुरुषः सिध्यति । (पृ) यदि परमार्थतो नास्तीदम् । लोकसत्यस्य क उपयोगः । (उ) लौकिकाः सत्त्वा लोकसत्यमुपादायोपयोजयन्ति । केनेदं ज्ञायते । यथा चित्रितो ऽग्निरित्युक्तौ जनाः श्रद्दधन्ते । बुद्धा भगवन्तो लौकिकानां प्रज्ञप्तितो वियोजनाय लोकसत्येन व्यवहरन्ति । यथोक्तं सूत्रे- नाहं [भिक्षवो] लोकेन विवदामि । लोकश्च मया विवदति । न [भिक्षवः] धर्मवादी [केनचिल्लोके] विवदति । इति ।

पुरा किल जना वस्तूपभोगकामनया वहुवस्तुनामुत्पत्तिकाले घट इत्यादि नाम स्थापयाञ्चक्रुः । सद्धर्मे सति नोपयोगो लभ्येत । अतो लोकसत्यमित्युच्यते । सत्यद्वय उक्ते भगवतः शासनं सुविशुद्धम् । परमार्थतस्तु विद्वान् न विशिष्यते । लोकसत्यतो बालैर्न विवदन्ते । सत्यद्वयं वदन् न शाश्वतोच्छेद [दृष्टौ] पतति । न पतति मिथ्यादृष्टौ सुखान्ते दुःखान्ते च । कर्मविपाकादि सर्वं सिध्येत् । लोकसत्यं बुद्धानां शासनविनयमूलम् । यदुत दानशीलयोर्विपाकः सुस्थान उपपत्तिः । अनेन धर्मेण तच्चित्तं दमयित्वा मार्गशासनं ग्राहयित्वा पश्चात्परमार्थसत्यमुपदिशति । एवं जिनशाअनमादावगाधगभीरम्- तद्यथा महासमुद्रः क्रमशो गभीरः । अतो लोकसत्यं वदन्ति । यो मार्गस्य लाभज्ञानं साधयति [स] परमार्थधर्मोपदेशार्हो भवति । यथा भगवत एवं चेतः परिवितर्क उदभुत्- परिपव्काः खलु राहुलस्य [भिक्षोः] विमुक्तिपरिपचनीया धर्माः यन्नूनमहं राहुलं उत्तर आस्रवानां क्षये विनयेयमिति । तद्यथा घ्राणपाकः तद्विनाशे सुखं जनने दुर्भेदनम् । एवं लोकसत्येन चित्तं दमयित्वाथ परमार्थज्ञानेन विनाशयति । उक्तञ्च सूत्रे- धर्माणां प्रविचयपूर्वकं निर्वाणं परिज्ञातव्यमिति । योगी पूर्वं धर्माः [किं] प्रज्ञप्तिसन्तः [किं वा] परमार्थसन्त इति ज्ञात्वा पश्चान्निरोधसत्यं साक्षात्करोति । क्लेशाः स्थूलसूक्ष्मक्रमेण निरुध्यन्ते । यथा केशरोमादिनिमित्तेन स्त्रीपुरुषादिनिमित्तं निरुध्यते । रूपादिनिनिमित्तेन केशरोमादिनिमित्तं निरुध्यते । (sss_356) अथ शून्यतादिनिमित्तेन रूपादिनिमित्तं निरुध्यते । यथा कीलेन किलो ऽपनीयते । अतो लोकसत्यमुच्यते ।

लोकसत्येन मध्यमा प्रतिपत्साध्यते । कस्मात् । पञ्चस्कन्धाः सन्तानेन प्रवर्तन्त इति नोच्छेदः । क्षणिका इति न शाश्वतः । शाश्वतोच्छेदविनिर्मुक्त इति मध्यमा प्रतिपत् । यथोक्तं सूत्रे- लोकसमुदयं पश्यतः नास्तीति दृष्टिर्न भवति । लोकनिरोधं पश्यतः अस्तीति दृष्टिर्न भवति इति । अत उच्यते लोकसत्यम् । लोकसत्यतो भगवतः शासनं सर्वं सत्यमेव यदुत अस्त्यात्मा नास्त्यात्मा इत्यादि पर्यायाः । लोकसत्यतो ऽस्त्यात्मेति वदतो नास्त्यवद्यम् । परमार्थतो नास्त्यात्मेति वदतश्च सत्यम् ।

लोकसत्येन प्रतिदूषणं स्थाप्यते । परमार्थतस्तु प्रतिवचनम् । अस्ति वस्तुतः सत्त्व इति या दृष्टिः अयं महामोहः । नास्तीति यद्वचनं तदपि मोहतमसि पातयसि । कस्मात् । इयं भावाभावदृष्टिः शाश्वतोच्छेदात्मिका । येन योगिनो भावान्तान्निर्गम्य अभावान्ते पतन्ति । लोकसत्ये ऽसति केन निर्गमं लभेरन् । यदप्रतिलब्धशून्यताप्रज्ञो वदति नास्ति सत्त्व इति । इयं मिथ्यादृष्टिः । जननमरणवेदकः सत्त्वो नास्तीति वचनं हि मिथ्यादृष्टिः । यदि शून्यताबुद्धिप्रतिलाभी वदति नास्ति सत्त्व इति । न तदा दोषः । यथोक्तं सूत्रे- अर्हन्ती भिक्षुणी पापीयांसं मारमवोचत्-

किं नु सत्त्व इति प्रत्येषि मारदृष्टिगतं नु ते । शुद्धसंस्कारपुञ्जो ऽयं नेह सत्त्व उपलभ्यते ॥ इति ।

किञ्चाह-

कायो ऽयं स्कन्धसन्तानः शून्यश्चाप्यकिञ्चनः । मायावत् निर्मितवच्चापि प्राकृतानामक्षिमोहनः ॥

शल्यवद्गण्डवच्चापि सपत्नो ऽमित्रहारकः । दुःखं शून्यो निरात्मा च जातिव्ययविनाशनः ॥

इति ।

(पृ) सर्वस्यापि नास्ति यत्किञ्चन चित्तम् । कस्मात् केषाञ्चिन्मिथ्यादृष्टिरित्युच्यते केषाञ्चित्परमार्थदृष्टिरिति । (उ) यस्य पुरुषस्य शून्यतातत्त्वज्ञानं नोत्पन्नं तस्यास्त्यात्मेति मतिर्भवति । अतो नास्त्यात्मेति श्रुत्वैव सन्त्रासमुत्पादयति । यथाह भगवान्- ये बालाः पृथग्जनाः शून्यो नास्त्यात्मा, न पुनः करोति इति श्रुतवन्तः ते महाभीता भवन्ति । इति । अतो ज्ञायते अप्रतिलब्धशून्यताज्ञानः अस्त्यात्मेति मत्या निर्वाणाद्बिभेति । तदा मिथ्यादृष्टिर्भवति । प्रतिलब्धशुन्यताज्ञानस्तु नास्ति मूलत आगतिरिति प्रजानाति । तदा नास्ति किञ्चन भयमिति । अप्रतिलब्धशून्यतातत्त्वो नास्ति किञ्चनेतिदृ ष्ट्या दुर्गतौ पतति यदुतोच्छेददृष्टि[रूप]मिथ्यादृष्टिः । यो ऽयं लोकसत्यतो ऽस्त्यात्मेति प्रज्ञाय अस्ति कर्मफलमिति श्रद्दधानः पश्चात् संस्कारा अनित्या उत्पत्तिनिरोधलक्षणा इति भावयित्वा निरोधं साक्षात्करोति । [तस्य] आत्मबुद्ध्यभावे कामचित्तं निरुध्यते । स यदि नास्ति किञ्चनेति वचनं शृणोति । तदा नास्ति कश्चन दोषः । अत उच्यते लोकसत्यम् ।

केचित्तीर्थिका अपवदन्ति श्रमणो गौतमः परमार्थत आत्मानं दूषयतीति । अतो भगवानाह- लोकसत्यतो वदामि अस्ति सत्त्व इति । सम्यग्दृष्टिं प्रकाशयन् वदामि सन्ति सत्त्वाः सन्धावन्तः संसरन्त इति । इयं सम्यग्दृष्टिरिति वदामि । पृथग्जन मिथ्यामनस्कारान्निःसत्त्वे वस्तुसदिति वचनं, तन्मिथ्यामनस्कारस्य दूषणम् । न सत्त्वस्य दूषणम् । यथा घटादयः प्रज्ञप्त्योच्यन्ते । तत्र न रूपादयो घटाः । न रूपादिव्यतिरिक्तो घटः । एवं न रूपादयः स्कन्धाः सत्त्वः । नापि रूपादिव्यतिरिक्तः सत्त्वः । यथा रूपादीनुपादाय प्रज्ञप्तिमतिक्रामति । एवं निरोधलक्षणेन रूपादीनतिक्रामति । दृष्टान्तेनार्थः सुविभज्यते । यथा चित्रितः प्रदीपः प्रदीप इत्युक्तो ऽपि न प्रदिपवृत्तिको भवति । एवं घटो ऽस्तीति कथितो ऽपि न वस्तुसन् भवति । सन्ति पञ्चस्कन्धा इत्युक्ता अपि न परमार्थाः ॥

प्रज्ञप्तिस्थापनवर्ग एकचत्वारिंशदुत्तरशततमः ।

142 प्रज्ञप्तिलक्षणवर्गः

(पृ) कथं घटादयः प्रज्ञप्तितः सन्ति न वस्तुतः । (उ) (1) प्रज्ञप्तौ निमित्तप्रदर्शनमस्ति न परमार्थे । यथा वदन्ति इदं रूपं इदं घटरूपमिति । न वक्तुं शक्यत [इदं] रूपरूपमिति । नापि वक्तुं शक्यत इदं वेदनादिरूपमिति । (2) प्रदीपो रूपसहगमात् प्रज्वलतीति [वदन्ति] स्पर्शसहगमात्प्रदहतीति । परमार्थधर्मस्तु नैवं दृश्यते । कस्मात् । विज्ञानं नान्यसहगमाद्विजानातीति । वेदनापि नान्यसहगमाद्वेदयत इति । अतो ज्ञायते सहभावः प्रज्ञप्तिसन्निति । (3) अन्यधर्ममुपादाय प्रज्ञप्तिसन् सिध्यति । यथा रूपादीनुपादाय घटः । परमार्थधर्मस्तु नान्यधर्ममुपादाय सिध्यति । कस्मात् । यथा वेदना नान्यधर्ममुपादाय सिध्यति । (4) प्रज्ञप्तिश्च नानाधर्मवती । यथा प्रदीपः प्रकाशते प्रदहति च । नैवं दृश्यते परमार्थधर्मः । कस्मात् । यथा वेदना न वेदयते विजानाति च । (5) रथशब्दो रथाङ्गादिषु भवति । रूपादिशब्दस्तु न पदार्थे वर्तत । इत्येवं विभागः । रथाङ्गादयो रथसाधनाः प्रत्ययाः । न तत्रास्ति रथशब्दः । तथा च रथकारणे नास्ति रथधर्मः । तदुपादाय तु रथः सिध्यति । अतो ज्ञायते रथः प्रज्ञप्तिरिति । (6) रूपादिशब्देनोक्ता रूपादयो लभ्यन्ते । घटादिशब्देनोक्ता घटादयस्तु न लभ्यन्ते । अतो ज्ञायते घटादयः प्रज्ञप्तय इति । (7) प्रज्ञप्तौ चित्तं विक्षिपति, न समादधाति । यथा कश्चिदश्वं दृष्ट्वा वदति- अश्वं पश्यामीति । कश्चिदश्वकायं पश्यामीति । कश्चिच्चर्म पश्यामीति । कश्चिद्रोमाणि वा पश्यामीति । कश्चिद्वदति वीणाशब्दं शृणोमीति । कश्चित् तन्त्रीनादं शृणोमीति । कश्चिद्वदति कुसुमं जिघ्रामीति ।

कश्चित्कुसुमगन्धं जिघ्रामीति । कश्चिद्वदति सुरां पिबामीति । कश्चित्सुरारसं पिबामीति । कश्चिद्वदति पुरुषं स्पृशामीति, कश्चित् पुरुषकायं स्पृशामीति, कश्चित् पुरुषभुजं स्पृशामिति, कश्चित् पुरुषहस्तं स्पृशामीति, कश्चित् पुरुषस्याङ्गुलिं स्पृशामीति, कश्चित् पुरुषस्याङ्गुलिपर्व स्पृशामिति । मनोविज्ञानमपि सत्त्वादौ विक्षिपति यदुत कायः सत्त्वः चित्तं सत्त्व इति । एवं रूपादय एव घट अथवा रूपादिव्यतिरिक्तो घट इत्यादि । परमार्थवचने तु चित्तं समादधाति न विक्षिपति । रूपं पश्यामीति [वत्] शब्दमपि पश्यामीति न वक्तुं शक्यते ।

(8) ज्ञेयादौ [सर्व]मव्यपदेश्यमपि अस्तीत्युच्यते । [यत् व्यपदिश्यते] इयं प्रज्ञप्तिः यथा घटादयः । अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति । कस्मात् । रूपादयो धर्मा ज्ञेयादावनभिधेया इति न व्यपदिश्यन्ते । यथा रूपादयः स्वलक्षणेन व्यवदेश्याः । न घटादयः स्वलक्षणेन व्यपदिश्यन्ते । अत इमे प्रज्ञप्तिसन्त इति ज्ञायते । (9) केचित् अस्तीति प्रज्ञप्तिलक्षणं वदन्ति । इदं लक्षणमन्यत्र वर्तते न प्रज्ञप्तौ । यथोक्तं सूत्रे- कर्म विदुषो ऽविदुषश्च लक्षणमिति । यः कायवाङ्मनोभिः कुशलं करोति स विद्वान् । यः कायवाङ्मनोभिरकुशलं कर्म करोति सो ऽविद्वान् । कायवाक्कर्म चत्वारि महाभूतान्युपादाय तिष्ठति । मानसं कर्म चित्तमाश्रयते । इमानि त्रीणि कथं विदुषो ऽविदुषश्च लक्षणम् । अतो ज्ञायते नास्ति प्रज्ञप्तेः स्वलक्षणम् । (10) प्रज्ञप्तिलक्षणमन्यत्र वर्तमानमपि न पुनरेकम् । यथोक्तम्- शल्यविद्ध इव रूप्यते इति । रूप्यत इति रूपलक्षणम् । वेदयत इति वेदनालक्षणे पुरुष उच्यते । यथाह भगवान्- विद्वान् मूढश्च सर्वः सुखं दुःखं वेदयते । विद्वान् सुखे दुःखे न काममुत्पादयति । बह्वादिनिमित्तोद्ग्रहणं संज्ञालक्षणमित्यपि पुरुष एवोच्यते । यथाह- प्रभामहं पश्यामि रूपमहं पश्यामीति । [संस्कृत]मभिसंस्करोतीति संस्कारलक्षणे ऽपि पुरुष एवोच्यते । यथाह- अयं पुरुषपुद्गलः पुण्योपगं संस्कारमभिसंस्करोति । अपुण्योपगं संस्कारमभिसंस्करोति । आनेञ्ज्योपगं संस्कारमभिसंस्करोतीति । विजानातीति विज्ञानलक्षणे ऽपि पुरुष एवोच्यते । यथाह- [क्षिप्रं] धर्मं विजानाति विज्ञो जिह्वा सूपरसं यथा । इति । अतो यदन्यत्रगतमुक्तमपि बहुलक्षणमुच्यते । इदं प्रज्ञप्तिलक्षणम् । रूपादि[स्व]लक्षणं नान्यत्रगतं नापि बहुलक्षणम् ।

(11) यो धर्मः सर्वेषामनुशयकरः स प्रज्ञप्तिसन् । परमार्थधर्मस्तु नानुशयकरः । अनुशया हि पुरुषं कुर्वन्ति । (12) प्रज्ञप्तौ च न ज्ञानोत्पादो भवति । पुरोवर्तिरूपादिषु ज्ञानोत्पादो भवति । तदुत्तरं मनोविज्ञानेन विकल्पयति घटमहं पश्यामीत्यादि । घटस्य ज्ञानमवश्यं रूपाद्यपेक्षम् । कस्मात् । रूपरसगन्धस्पर्शानुपादाय हि अयं घट इति व्यवहारः । परमार्थज्ञानन्तु न यत्किञ्चिदपेक्ष्य भवति । (13) प्रज्ञप्तौ च भवति संशयः यथा स्थाणुर्वा पुरुषो वा इति । रूपादिषु तु न संशयो भवति रूपं वा किं वा शब्द इति । (पृ) रूपादावपि संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति । (उ) नेदं युक्तम् । रूपं पश्यन् नैव संशेते अयं शब्द इति । अन्यस्मात् कारणात् संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति । यथा रूपं शून्यमिति श्रुत्वा पुना रूपं पश्यन् संशेते किमस्ति किं वा नास्तीति । निरोधसत्यं पश्यतो ऽयं संशयः प्रहीयते । (पृ) निरोधसत्ये ऽपि संशयो भवति किमस्ति निरोधः किं वा नास्ति निरोध इति । (उ) अभिनिविष्टेषु संशयो भवति न तु निरोधसत्ये । अस्ति निरोध इति मतं नास्ति निरोध इति मतञ्च यः शृणोति तस्य भवति संशयः किमस्ति किं वा नास्तीति । स तदा न निरोधसत्यं पश्यति । कस्मात् । निरोधसत्यं पश्यतो न पुनः संशयो भवति । अतो ज्ञायते संशयोत्पादस्थले प्रज्ञप्तिरस्ति ।

(14) एकस्मिन् वस्तुनि बहुविज्ञप्त्युत्पत्तिलाभे प्रज्ञप्तिरस्ति । यथा घटादौ । परमार्थधर्मे तु न तथा । कस्मात् । रूपादौ न भवन्ति श्रोत्रादिविज्ञप्तयः । (15) बह्वायतनसङ्गृहीतं प्रज्ञप्तिसत् । यथा घटादयः । अतः केचिद्वदन्ति प्रज्ञप्तिसत् चतुर्महाभूतसङ्गृहीतम् । परमार्थधर्मस्तु न बह्वायतनसङ्ग्रहं लभते । (16) यत् निःस्वभावं सत् क्रियासमर्थं भवति । इदं प्रज्ञप्तिसत् । यथा पुरुषः करोतीति । पुरुषस्वभावः कर्मस्वभावश्च न परमार्थ उपलभ्यते । स्नेहद्वेषादिविकल्पो यः कश्चन स सर्वः प्रज्ञप्तिसन् । न परमार्थसन् । कस्मात् । रूपादिधर्माणां साक्षाद्दर्शने न स्नेहद्वेषादिसंज्ञोत्पद्यते । (17) गम्यते आगम्यत इत्यादि, उच्छिद्यते विनश्यति इत्यादि, दाह्यते (sss_361) प्रदाह्यते इत्यादि या काचन क्रिया सर्वा सा प्रज्ञप्तिसती । न परमार्थसती । कस्मात् । परमार्थधर्मास्यादाह्यत्वात् । अविनाश्यत्वात् । पुण्यपापादिकर्म सर्वं प्रज्ञप्तिसत् । कस्मात् । प्राणातिपातादि पापं प्राणातिपातविरत्यादि पुण्यं सर्वं न परमार्थसत् । (18) प्रज्ञप्तिसदापेक्षिकम्- यथा इदं, तत्, गुरु लघु, दीर्घं ह्रस्वं, महदल्पं, आचार्यः अन्तेवासी, पिता पुत्रः आर्य अनार्य इत्यादि । परमार्थस्तु नापेक्षिकः । कस्मात् । रूपं नान्यपदार्थमपेक्ष्य शब्दादीन् साधयतीति । न शून्यतया प्रज्ञप्तिखण्डनं प्रज्ञप्तिसत् । यथा वृक्षान् निश्रित्य वनं खण्ड्यते । मूलकाण्डं निश्रित्य वृक्षः खण्डयते । रूपादि निश्रित्य मूलकाण्डं खण्ड्यते । तथा शून्यतया यत् खण्डनं तत्तु परमार्थसत् । यथा रूपादि शून्यतया खण्ड्यते ।

(19) शून्यताचार्यायतनानुवर्तनं प्रज्ञप्तिसत् । नैरात्म्यचर्यायतनानुवर्तनन्तु परमार्थसत् । (20) सन्ति चत्वारो वादाः- एकत्वं, नानात्वं, अनिर्वचनीयत्वं, अभाव इति । एते चत्वारो वादाः सावद्याः । अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति ।

एकत्वम्- रूपरसगन्धस्पर्शा एव घट इति । नानात्वम् रूपादीन् विहायान्यो ऽस्ति घट इति । अनिर्वचनीयत्वम्- रूपादय एव वा घटः किं वा तद्वयतिरिक्तो घट इति न निर्वक्तुं शक्यते । अभावः- नास्त्ययं घट इति । इमे चत्वारो वादा अयुक्ताः । अतो ज्ञायते घटः प्रज्ञप्तिरिति ।

प्रज्ञप्तिलक्षणवर्गो द्विचत्वारिंशदुत्तरशततमः ।

143 एकत्वखण्डनवर्गः

(पृ) एषामेकत्वादीनां चतुर्णां वादानां के दोषाः । (उ) एकत्ववादे दोषो यदुत रूपादीनां धर्माणां लक्षणं प्रत्येकं विभक्तम् । यदि घट एकः, तदा न सम्भवति । रूपादीनि नैकैकं पृथिवीधातुरित्युच्यन्ते । तत्समवायः कथं पृथिवी भवेत् । कस्मात् । यद्येकैको ऽश्वो न गौर्भवति । तत्समवायः कथं गौर्भवेत् । (पृ) यथा एकैकं तिलं न कलापं साधयति । तत्समवायस्तु साधयति । एवं रूपादीन्येकैकं न पृथिवीं साधयन्ति । तत्समवायस्तु साधयति । (उ) न युज्यते । कस्मात् । तिलकलापः प्रज्ञप्तिसन् । एकत्वादि तु परमार्थधर्मे विचार्यते । इति कथं दृष्टान्तः स्यात् ।

रूपरसगन्धस्पर्शाश्चत्वारो धर्माः । पृथिवी तु एकधर्मः । न चत्वार एकः स्यात् । यदि चत्वार एकः । एको ऽपि चत्वारः स्यात् । तत्तु न सम्भवति । अतो ज्ञायते रूपादय एव न पृथिवीति । लौकिका वदन्ति- पृथिवीरूपं पृथिवीगन्धः पृथिवीरसः पृथिवीस्पर्शं इति । न पश्यामो रूपरूपमिति वदन्तं यं कञ्चन । अन्यधर्मलक्षणेनावश्यं प्रदर्श्यते- यथा अमुकस्य पुरुषस्य कुटीति । (पृ) इदं नान्यधर्मलक्षणेन प्रदर्शनं, स्वधर्मेणैव स्वात्मप्रदर्शनम् । यथा शिलापुरुषस्य हस्तपादमिति । कस्मात् । न हि हस्तपादव्यतिरिक्तः शिलापुरुषो ऽस्ति । एवं रूपादिव्यतिरिक्ता पृथिवी यद्यपि नास्ति । तथापि स्वात्मरूपेणैव स्वात्मप्रदर्शनं [इति वदतः] को दोषः । (उ) यद्युच्यते पृथिवी रूपादिना स्वात्मानमेव प्रदर्शयतीति नायं न्यायो भवति । शीलापुरुषदृष्टान्तो यद्यपि भवतोक्तः । स दृष्टान्तस्तु न युक्तः । कस्मात् । शिलापुरुषस्य हस्त इति प्रदर्शने तदन्यः कायः शिलापुरुष इति स्यात् । शून्यतायामपि च अस्तीत्यभिधीयते । यथा वदन्ति शिलापुरुषस्य काय इति । तस्मिन् समये शिलापुरुष एव न पुनस्तदन्यो ऽस्तीत्युच्यते । यथा भगवानाह- सन्त्यस्मिन् काये केशा रोमाणि रक्तं मांसं इत्यादि । तानि केशादीनि विहाय नास्त्यन्यः कायः । केशादीनां निश्रयस्थानमिदं पृथगसदपि [अस्तीति] अभिधीयते । अतो ज्ञायते शिलापुरुष इति वचनमपि मृषावचनम्, इति । यदि शिलापुरुषदृष्टान्तेन पृथिवीं साधयसि । तथापि नास्ति पृथिवी । भवतां सूत्रे उक्तं- रूपरसगन्धस्पर्शवती पृथिवीति । इयं पृथिव्येव नास्ति कायवत् । अतो ज्ञायते रूपरसगन्धस्पर्शा एव, नैवास्तीयं पृथिवीति ।

गुणानाञ्च न लक्षणं प्रदर्शयितुं शक्यते । रूपं गन्धवदिति न वक्तुं शक्यते । रूपरसगन्धस्पर्शवती पृथिवी इति तु वक्तुं शक्यते । अतो नैकत्वमिति । रूपादिबुद्धिः पृथिवीबुद्धिश्च पृथक् । अतो ज्ञायते रूपादीनि न पृथिवीति । अन्यद्रूपादीनां नाम अन्यत् पृथिव्या नाम । (पृ) बुद्धिभेदो नामभेदश्च सर्वः संयोगे भेदवान् । (उ) यदि बुद्धिर्नामसंयोगमात्रेणास्ति । [तदा] संयोगो नाममात्रं भवेत् । तथा च पृथिवी नाममात्रमस्ति । इति नास्त्येकत्ववादः ।

पृथिवी स सर्वेन्द्रियज्ञेया भवति । केनेदं ज्ञायते । पुरुष एवं चिन्तयति- पृथिवीं पश्यामि, पृथिवीं रसयामि, पृथिवीं स्पृशामि इति । यदि रूपरसगन्धस्पर्शाः पृथिवी । न (sss_363) स्यात् रूपमात्रे पृथिवीं पश्यामीति पृथिवीसंज्ञा । गन्धादावप्येवम् । वस्तुतस्तु न रूपमात्रे पृथिवी ज्ञायते । अतो ज्ञायते न रूपादीन्येव पृथिवीति । प्रज्ञप्तिसंज्ञाकारणे एकस्मिन्नवयवे च प्रज्ञप्तिसंज्ञाभिधीयते । यथा कश्चिद् वृक्षशाखां छिन्दन् वदति- वृक्षं छिन्दामि, वनं छिन्दामीति च । गुणानां सीमानि द्रव्याणि अन्यानि । तत्र यद्यस्ति कारणम् । नानेन सिध्यति एकत्ववादः ।

सांख्याः पुनराहुः- पञ्च गुणाः पृथिवीति । तदप्ययुक्तम् । कस्मात् । यथा पूर्वमुक्तं- शब्दो रूपादिव्यतिरिक्तः क्षणिकः सन्तानप्रवृत्तः । न चतुर्महाभूतसाधनहेतुरिति । अतो ज्ञायते न सर्वाणि भौतिकानि शब्दवन्तीति ॥

एकत्वखण्डनवर्गस्त्रिचत्वारिंशदुत्तरशततमः ।

144 नानात्वखण्डनवर्गः

(पृ) नानात्ववादे के दोषाः । (उ) रूपादीन् विहाय नास्ति पृथिवी । कस्मात् । केन तत् ज्ञायते । न हि रूपरसगन्धस्पर्शान् विहाय पृथिवीबुद्धिरुत्पद्यते । रूपादिधर्मेष्वेवोत्पद्यते । कस्मात् । यथा अन्यत् रूपं अन्ये शब्दादयः । न च शब्दादीनपेक्ष्य रूपबुद्धिरुत्पद्यते । यदि रूपादिव्यतिरिक्ता पृथिवी । रूपादीन्यनपेक्ष्यापि पृथिवीबुद्धिः स्यात् । न वस्तुतस्तान्यनपेक्ष्य भवति । अतो नास्ति पृथिवी पृथक् । (पृ) नान्यधर्ममनपेक्ष्य भवति । अवश्यं रूपलक्षणमपेक्ष्य रूपबुद्धिर्भवति । (उ) सामान्यलक्षणखण्डनवर्गे वक्ष्यते । न रूपव्यतिरिक्तं रूपलक्षणं पृथगस्तीति । अतो न युज्यते ।

पृथिव्यादिपृथग्धर्मस्य नेन्द्रियं ज्ञापकम् । अतो ज्ञायते न पृथक् सन्ति पृथिव्यादयो धर्मा इति । (पृ) पृथिव्यादयो द्वीन्द्रियग्राह्या यदुत कायेन्द्रियग्राह्याश्चक्षुरिन्द्रियग्राह्याः । केन तत् ज्ञायते । चक्षुषा दृष्ट्वा जानीमो ऽयं घट इति । कायेन्द्रियेण स्पृष्ट्वापि जानीमः अयं घट इति । अतो नेन्द्रियग्राह्या इति भवतो वचनमयुक्तम् । (उ) तथा चेत् घटो ऽयमिन्द्रियचतुष्टयग्राह्यः स्यात् । घ्राणेनापि मृत जिघ्र्यते । रसनयापि मृत् रस्यते । (पृ) घ्राणरसनाभ्यां न गृह्णाति घटम् । कस्मात् । न ह्यन्धकारे विवेचयति घटो वा जिघ्रयते कपालं वा । घटो वा रस्यते कपालं वा इति । (उ) यद्यपि न विवेचयति किं घट उत कपालमिति । तथापि मृदि ज्ञानं भवति मृदं (sss_364) जिघ्रामि, मृदं रसयामीति । यदि घट उद्गतमुखं खन्यते । तदा दृष्ट्वा स्पृष्ट्वा वा न निर्धारयति किमयं घट शरावः किं वा घतशकलमिति । अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियञ्च न घटं गृह्णीयात् इति । अन्धकारे घटबुद्धिरुत्पन्नापि न विवेचयति सुवर्णघटो रजतघटो वा इति । अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियमपि न घटं गृह्णीयात् । घ्राणेन्द्रियं जिह्वेन्द्रियं पुष्पफलक्षीरसुरादीन् धर्मान् गृह्णाति । चक्षुरिन्द्रियं कायेन्द्रियन्तु न गृह्णाति । यथा [चक्षुः] पुष्पादि पश्यति न विविच्य जानाति गन्धः सुरभिरसुरभिर्वा रसो मधुरो ऽमधुरो वा इत्यादि । अतो यदि मतं चक्षुःकायेन्द्रियाभ्यां जानीमो द्रव्यं न घ्राणजिह्वाभ्यामिति । नेदं सम्भवति । यथा घ्राणजिह्वे द्रव्यं पृथक्कृत्य न विकल्पयतः । तथा चक्षुःकायेन्द्रिये अपि द्रव्यमपृथग्भूतमपि न विकल्पयतः ।

पञ्चेन्द्रियेषु प्रज्ञप्तिग्राहकं ज्ञानं नास्ति । अतो ज्ञायते प्रज्ञप्तिर्न चक्षुःकायघ्राणजिह्वेन्द्रियैर्लभ्यते । षष्ठस्य त्वस्ति प्रज्ञप्तिज्ञापकं ज्ञानम् । कस्मात् । मनोविज्ञानस्य सर्वधर्मालम्बनत्वात् । चक्षुर्यदि रूपं पश्यति अरुपञ्च पश्यति । तदा शब्दादीनमपि पश्येत् । तथा चेत् श्रोत्रादीनीन्द्रियाणि नावश्यकानि स्युः । न तु सम्भवति । अतश्चक्षुःकायेन्द्रियाभ्यां न द्रव्यं गृह्यते । (पृ) रूपेण द्रव्योपलब्धौ चक्षुः पश्यति । न तु सर्वो रूपात्पृथग्भूतो धर्मो दृश्यः । (उ) रूपेण घटोपलब्धिरितीदं न युज्यते । कस्मात् । कः करोति घटरूपम् । संयोगमात्रमिदम् । अतो न रूपेण घटोपलब्धिः । यदि च दृश्यधर्मेण तदन्यधर्म उपलभ्य दृश्यो भवति । घटादिनादृश्यधर्मेण रुपोलब्धिरिति रूपमपि अदृश्यं स्यात् । घटो ऽपि द्विविधः स्यात् दृश्यो ऽदृश्य इति । दृश्यधर्मस्यादृश्योपलब्ध्यर्थत्वात् । यद्यवश्यं रूपादिधर्मस्योपलब्धत्वात् चक्षुरादीन्द्रयग्राह्यमिति । [तदा] रूपलक्षणं चक्षुरिन्द्रियग्राह्यमिति न स्यात् । कस्मात् । भवतां सूत्रे रूपमुपादाय (=रूपहेतुकं) इन्द्रियेण रूपं दृश्यमितीदं रूपलक्षणं पुनरलक्षणं भवति । तथा तु रूपलक्षणमदृश्यमिति स्यात् । अतो न युज्यते ।

यदि रूपोपलब्ध्या दृश्यमिति । [तर्हि] सर्वाणीन्द्रियाणि द्रव्यं जानीयुः । श्रोत्रेन्द्रियमपि आकाशं जानीयात् शब्दोपलम्भात् । कायेन्द्रियेण वायुं जानीयात् स्पर्शोपलम्भात् । (sss_365) भवतां मते तु न युज्यते । अतो नेदं धर्ममुपलम्भयति । (पृ) अन्ये धर्मा नोपलब्धिकराः । रूपमात्रमुपलब्धिकरम् । (उ) मैवम् । न तत्रास्ति विनिगमना रूपमात्रमुपलब्धिकरं नान्ये धर्मा इति । यथा भवानाह महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिरिति । एवं रूपहेतुकं रूपमुपलभ्यते । रूपलक्षणोपलम्भेन रूपं तदुत्तरमुपलभ्यम् । न रूपमात्रमुपलब्धिकरमिति । एवमुक्ते [ऽपि] न पूर्वोक्तदोषपरिहारः ।

अन्यकालं रूपबुद्धिरुत्पद्यते अन्यकालञ्च घटबुद्धिः । अतो रूपात् घटोपलम्भे क उपकारः । यथा अन्धो ऽभ्यस्तघटपरिमाणो विनष्टचक्षुष्को ऽपि स्पृष्ट्वा घटं जानाति । अतो न रूपमात्रं दर्शनस्य कारणम् । अन्धः कायेन्द्रियेण च वायुं जानाति । अतो न रूपमात्रोपलम्भात् ज्ञानमुत्पद्यते । भवतां सूत्रे ऽप्युक्तम्- कायागतस्पृष्टः स्पर्शो न पृथिव्यप्तेजसांमिति ज्ञातव्यम्- अदृष्टलिङ्गो वायुरिति । तदप्ययुक्तम् । कस्मात् । अन्ध इमं वायुं जानन्नपि न जानाति वायुरयं किं दृश्यः किंवा अदृश्य इति । पुरुषश्चक्षुषा संख्यापरिमाणादीन् धर्मान् पश्यति । न तत्रास्ति रूपोपलब्धिः । गन्धमाघ्रायापि अगन्धधर्मे ज्ञानं लभते । रसं रसयित्वापि अरसधर्मे ज्ञानं लभते । अतो ऽवश्यं रूपोलम्भेन द्रव्यं तदूर्ध्व ज्ञेयमितीदमयुक्तम् ।

(पृ) यदि रूपोपलम्भो दर्शनस्य न कारणम् । ये संख्यापरिमाणादयो धर्माः [ते] अदृश्यद्रव्यगताः, वायुश्च दृश्यः स्यात् । (उ) अस्मन्मते रूपं विहाय नास्त्यन्यो धर्मो दृश्यः । अतो ज्ञायते मते [ऽस्मिन्] यत्र रूपमुत्पन्नमस्ति तत्र चक्षुः पश्यति । चक्षुषा दृष्टरूपस्यैव घटसंज्ञा भवति । यस्मिन् धर्मे नास्त्युत्पन्नं रूपम्, तत्र सचक्षुष्कस्यापि नोत्पद्यते ऽन्यघटसंज्ञा । अतो रूपदि विहाय पृथगस्ति घट इतीदं न न्याय्यम् ॥

नानात्वखण्डनवर्गश्चतुश्चत्वारिंशदुत्तरशततमः ।

145 अनिर्वचनीयत्वखण्डनवर्गः

(पृ) अनिर्वचनीयत्वे के दोषाः । परमार्थधर्मो नैकत्वनानात्वाभ्यामनिर्वचनीयः । कस्मात् । न हेतुदृष्टान्तौ स्तः इदमनिर्वचनीयमिति ज्ञापयितुम् । रूपादयो धर्माः परमार्थसन्तः । अतो नानिर्वचनीयाः । धर्माः प्रत्येकं सस्वलक्षणाः । यथा रूपणलक्षणं रूपम् । न नानात्वलक्षणम् । कथमुच्यते ऽनिर्वचनीयमिति । विज्ञानविशेषाद्धर्मविशेषः । यथा चक्षुर्विज्ञानेन रूपं ज्ञायते, न शब्दादि । अतो ऽस्य नानिर्वचनीयता । रूपं रूपायतनसङ्गृहीतं न शब्दादिसङ्गृहीतम् । यद्यनिर्वचनीयत्वमिच्छसि । इदं रूपमिदं रूपमिति निर्वचनीयमस्ति । रूपमिदमरूपमिदमिति अनिर्वचनीयम् । एवं शब्दादयो ऽपि । धर्माणां क्रमः संख्या चास्ति । यद्यनिर्वाच्याः । तदा धर्मा असंख्याः स्युः । कस्मात् । प्रथमं द्वितीयमिति लक्षणभेदस्याभावात् । अतो ज्ञायते परमार्थतो नानिर्वाच्याः धर्माः प्रज्ञप्तावेव एकत्वनानात्वसत्वादुच्यते ऽनिर्वाच्य इति ॥

अनिर्वचनीयत्वखण्डनवर्गः पञ्चचत्वारिंशदुत्तरशततमः ।

146 अभावखण्डनवर्गः

(पृ) अभाववादे के दोषाः । (उ) अभावत्वे न पुण्यपापादीनां विपाको विमुक्त्यादयः सर्वे धर्माः । विद्यमानं नास्तीति ग्रहे स ग्रहो ऽपि अभावः स्यात् । वक्तुः श्रोतुश्चाभावात् । अस्ति नास्तीति वादाः श्रद्धयोक्ताः प्रत्यक्षज्ञानश्रद्धया वा भवन्ति अनुमितिज्ञानश्रद्धया वा भवन्ति । सूत्रम्रन्थानुसारेण वा भवन्ति । यत्किञ्चन नास्तीति यत् वचनं तदेषु त्रिषु न भवति । सूत्रं वानुसराम इति भवतामाशयो [यः] नायं युज्यते । सूत्राशयो ऽपि दुःसंवादः । कदाचिदस्तीत्याह कदाचिन्नास्तीत्याह । कथं श्रद्धां गृह्णीमः । यद्यनुमानज्ञानं श्रद्दध्यात् । अवश्यं प्रत्यक्षपूर्वकमनुमितिज्ञानं भवेत् । घटादयो धर्मा इदानीं प्रत्यक्षदृष्टाः सन्ति । ज्ञानजनकत्वात् । यो ज्ञानजनकः धर्मो ऽस्ति नाभाव[रूपः] ।

इदानीं घटशरावादयः सविशेषा दृश्यन्ते । यदि सर्वे ऽभावाः । कः सविशेषः स्यात् । मिथ्यासंज्ञया सविशेषा इति भवतां मतम् । कस्मात् आकाशे घटादीन् न विकल्पयति । मोहात्पदार्थबुद्धिरुत्पद्यत इति भवतां मतम् । सर्वेषामभावत्वे मोहो ऽप्यभावः स्यादिति केन प्रवर्तेत । सर्वे धर्मा अभावा इति भवत आशये ज्ञानमिदं किं प्रतीत्य भवति । न हि ज्ञानान्यभावप्रत्ययेनोत्पद्यन्ते । पदार्थान् जानातीति ज्ञानम् । नेदं ज्ञानमभाव इति वाच्यम् । यद्यत्यन्ताभावा इति । तदा सर्वे जना यथाभिप्रेतं यत्किञ्चन कुर्युः । किन्त्वार्या दानशीलक्षान्त्यादिकुशलकर्माभिरता अकुशलधर्मविविक्ताश्च भवन्ति । अतो ज्ञायते नाभावा इति । घटादयो धर्माः प्रत्यक्षज्ञेयाः । भवांस्त्वाह- प्रत्यक्षं सर्वमभावरूपमिति । अभावधर्मकत्वाच्च न सूत्रे श्रद्दधीत । तथा च केन कारणेनाह- सर्वमभाव इति । अतः सर्वमभाव इतीदं [न] स्पष्टं भवेत् । यदि कारणेन न प्रकाशयति [तदा] परगृहीतं प्रकृतितः सिध्येत् । परवादस्य सिद्धत्वात् भवतां धर्मो विनश्येत् । यो भावः कारणेन साध्यः न सो ऽभाव इत्युच्यते ॥

अभावखण्डनवर्गः षट्चत्वारिंशदुत्तरशततमः ।

147 अभावस्थापनवर्गः

अभाववाद्याह- यद्यपि वचसा शून्यतां खण्डयसि । तथापि धर्मांः परमार्थतो ऽभावाः । इन्द्रियैर्विषयाणामनुपलम्भात् । कस्मात् । न ह्यस्ति धर्माणामवयवी ग्राह्यः । अतः सर्वे धर्मा अग्राह्याः । अग्राह्यादभावा[त्मकाः] । अवयविन्यग्राह्ये ऽपि अवयवा ग्राह्या इति भवतो यन्मतम् । तन्न युक्तम् । नावयवेषु बुद्धिर्भवति । कस्मात् । स्थूलघटादीनां पदार्थानामेव ग्राह्यत्वात् । न चावयवा अवयविनं कुर्वन्ति । कस्मात् । अवयविनमुपादाय हि अवयवा उच्यन्ते । अवयविनो ऽभावादवयवा अपि न सन्ति । द्रव्येषु गुणेषु असत्सु नावयवाः सन्ति । अतो न सन्त्यवयवाः । सूक्ष्मावयवान् पश्यतो ऽवयवबुद्धिः सदा भवति न घटबुद्धिः । कस्मात् । अवयवान् नित्यं स्मरतो घटबुद्धिर्नैव भवेत् । यद्यवयवस्मरणपूर्वकं घटबुद्धिर्भवति । तदा घटबुद्धिर्विलम्ब्य भवेत् । न वस्तुतो विलम्ब्य (sss_368) भवति । अतो नावयवाः स्मर्यन्ते । घटं दृष्ट्वा यन्नावयवविकल्पबुद्धिर्भवति सैव घटबुद्धिः ।

सर्वे चावयवा अभावा[त्मकाः]ः । कस्मात् । सर्वेह्यवयवा अवयवशो भिद्यमाना अणुतां यान्ति । अणुशो भिद्यमाना अत्यन्ताभावतां प्रतियन्ति । सर्वेषां धर्माणां निष्ठा शून्यताबुद्धिजननमवश्यम् । अतो ऽवयवाः परमार्थतो ऽभावत्मकाः । अवयववादिनः सत्यद्वयभङ्गः स्यात् । कस्मात् । यो वदति नास्त्यवयवी केवलमवयवाः सन्तीति । तस्यातीतागामिदर्शनप्रहाणादीनि कर्माणि न स्युः । एवञ्च लोकसत्यं नास्ति । भवान् परमार्थं शून्यतां मन्यते । परमार्थे चाभावात्मका अवयवाः । अतो ज्ञायते अवयवमात्रवचनं न सत्यद्वये ऽवतारयति । सत्यद्वये ऽनवतारादभावः ।

यो धर्मो ऽपनेयः सो ऽभाबात्मकः । यथा अवयवानुपादाय अवयवी निराक्रियते । अवयवान्तराण्युपादाय पूर्वावयवा निराक्रियन्ते । अतो ऽयमवयववादो ऽभावात्मकः । रूपादीन्यपि अभावात्मकानि । कस्मात् । न हि चक्षुः सूक्ष्मं रूपं पश्यति । न च मनो गृह्णाति प्रत्युत्पन्नं रूपम् । अतो रूपमग्राह्यम् । चक्षुर्विज्ञानं न विकल्पयति इदं रूपमिति । मनोविज्ञानन्तु अतीते अनागते वर्तते न रूपे वर्तते । अतो नास्ति किञ्चिद्रूपविकल्पकम् विकल्पकाभावाद्रूपमग्राह्यं भवति । नाद्यविज्ञानं रूपं विकल्पयति । तथा द्वितीयादिविज्ञानान्यपि । अतो नास्ति किञ्चिद्रूपविकल्पकम् ।

(पृ) चक्षुर्विज्ञानेन रूपे गृहीते ततो मनोविज्ञानमनुस्मरति । अतो न नास्ति विकल्पकमिति । (उ) चक्षुर्विज्ञानं रूपं दृष्ट्वा निरुद्धमेव । तत ऊर्ध्वं मनोविज्ञानमुत्पद्यते । मनोविज्ञानमिदं न रूपं पश्यति । अदृष्ट्वा कथमनुस्मरेत् । यद्यदृष्ट्वानुस्मरेत् । अन्धो ऽपि रूपमनुस्मरेत् । न वस्तुतो ऽनुस्मरति । अतो मनोविज्ञानं नानुस्मरति । (पृ) चक्षुर्विज्ञानान्मनोविज्ञानमुत्पद्यते । अतो ऽनुस्मरति । (उ) मैवम् । कस्मात् । सर्वाणि चरमचित्तानि चक्षुर्विज्ञानमुपादाय समुत्पन्नानि अनुस्मरेयुः । नैव विस्मरेयुः । तस्मादुत्पन्नत्वात् । (sss_369) न वस्तुतो युज्यते । अतो ज्ञायते मनोविज्ञानमपि नानुस्मरति । यथाकाशानुस्मरणम्, रूपघटादिग्रहः । सर्वे ऽपि पदार्थस्तुच्छा अभावात्मकाः मृषागृहीताः । अतः सर्वे पदार्था अभावात्मकाः ।

यदि वदसि चक्षुः पश्यतीति । किं रूपं प्राप्य पश्यति किं वाप्राप्य पश्यति । यदि प्राप्य [पश्यतीति] तदा न पश्यति । चक्षुर्नातीतलक्षणमितीदं पूर्वमेव प्रतिपादितम् । यद्यप्राप्य पश्यतीति । तदा सर्वस्थं रूपं पश्येत् । न वस्तुतः पश्यति । अतो ज्ञायते नाप्राप्य पश्यतीति । (पृ) रूपं ज्ञानगोचरगतं चक्षुः पश्यति । (उ) को नाम ज्ञानगोचरः । (पृ) यस्मिन् काले चक्षुः पश्यति । [स]ज्ञानगोचरः इत्युच्यते । (उ) यदि चक्षुरप्राप्तमपि ज्ञानगोचर इत्युच्यते सर्वस्थं रूपं ज्ञानगोचरः स्यात् । अतः प्राप्याप्राप्योभयथा न पश्यति । अतो ज्ञायते रूपमदृश्यमिति । यदि सति पूर्वमेव चक्षुषि रूपे च पश्चाच्चक्षुर्विज्ञानमुत्पद्यते । तदेदं चक्षुर्विज्ञानं निराश्रयं निष्प्रत्ययञ्च स्यात् । यद्येककाल[मुत्पद्यते] तदा न चक्षूरूपप्रत्ययं चक्षुर्विज्ञानमित्याख्यायते । ऐककालिकयोर्मिथो हेतुत्वाभावात् ।

किञ्च चक्षुश्चतुर्महाभूत[मयम्] । यदि चक्षुः पश्यति । श्रोत्रादीन्यपि पश्येयुः । चतुर्महाभूतसाम्यात् । एवं रूपमपि [पश्येत्] । चक्षुर्विज्ञानं स्यात् सायतनं निरायतनं वा । उभयथास्ति दोषः । तथा हि- यदि च चक्षुर्विज्ञानं चक्षुराश्रितं, तदा सायतनम् । यदि पदार्थो निरायतनः तदा आश्रित्य तिष्ठतीति न लभ्यते । यदि ब्रवीषि विज्ञानं चक्षुषो ऽल्पभाग उत्पद्यते यदि वा व्याप्योत्पद्यते । यदि वोभयोश्चक्षुषोरेककालमुत्पद्यते । तदा सायतनं भवति । सायतनत्वे सावयवम् । एवं सति बहुभिर्विज्ञानैरेकं विज्ञानं सिध्यति । इत्ययं दोषः । बहूनां विज्ञानानामैककालिकत्वदोषश्चास्ति । एकैकविज्ञानावयवो न विजानाति अवयवी तु विजानाति । वस्तुतस्तु नास्त्यवयवी इत्ययं दोषः । यदि निरायतनं, तदा न चक्षुराश्रितं स्यात् ॥

अभावस्थापनवर्गः सप्तचत्वारिंशदुत्तरशततमः ।

148 शब्दखण्डनवर्गः

अभाववाद्याह- एकत्वग्रह एव नास्ति । कस्मात् । चित्तं हि क्षणिकम् । शब्दो ऽपि क्षणिकः । यथा वदन्ति पुरुष इति । अय [मेकत्व]वादो न श्राव्यः । कस्मात् । "पु" श्रवणमनु विज्ञानं न "रुं" शृणोति । "रुं" श्रुत्वा शृणोति षम् । इति नास्त्येकं विज्ञानमक्षरत्रयग्राहकम् । अतो नास्ति विज्ञानमेकत्ववादग्राहकम् । अतो ज्ञायते शब्दो न श्राव्य इति । विक्षिप्तचित्तः शब्दं शृणोति । समाहितचित्तस्तु न शृणोति । समाहितचित्तेन तत्त्वं ज्ञेयं भवति । अतः शब्दो न श्रवणीयः । शब्दो ऽयं प्राप्य अप्राप्य वा उभयथापि न श्रवणीयः । उभयथाप्यश्रवणीयत्वान्नास्ति शब्दः ।

केचिदाहुः- श्रोत्रमाकाशस्वभावमिति । तम्य पदार्थाभावरूपत्वात् आकाश इत्याख्या । अतो नास्ति श्रोत्रम् । श्रोत्राभावात् शब्दो नास्ति । शब्दकारणं नास्तीत्यतः शब्दो नास्ति । शब्दकारणं महाभूतसंश्लेषः । अयं संश्लेषधर्मो नोपलभ्यते । कस्मात् । ये धर्मा विभिन्नस्वभावाः, न ते संश्लिष्यन्ते । ये न विभिन्नस्वभावाः, कथं तेषां स्वतः संश्लेषः । एकत्र स्थितमपि क्षणिकम् । अतो न संश्लेषो लभ्यते ।

शब्दखण्डनवर्गो ऽष्टचत्वारिंशदुत्तरशततमः ।

149 गन्धरसस्पर्शखण्डनवर्गः

न गन्धो ग्राह्यः । कस्मात् । न हि घ्राणविज्ञानं विकल्पयति । अयं चम्पकगन्धः इमे ऽन्ये गन्धा इति । मनोविज्ञान[मपि] न गन्धं जिघ्रति । तस्मान्मनोविज्ञानमपि न विकल्पयति चम्पकगन्धमिमम् । (पृ) यद्यपि चमपकगन्धमिमं न विकल्पयति । किन्तु गन्धं गृह्णात्येव । (उ) मैवम् । यथा कश्चिच्चम्पकवृक्षमलब्ध्वा मोहाच्चम्पकबुद्धिमुत्पादयति । तथा गन्धमलब्ध्वा मोहाद्ग्रन्धबुद्धिमुत्पादयति । पूर्वोक्तवत् गन्धः प्राप्तो वा अप्राप्तो गृह्यत इत्युभयथास्ति दोषः । तस्मान्नास्ति गन्धः । तथा रसो ऽपि स्पर्शो ऽपि नास्ति । कस्मात् । सूक्ष्माद्यवयवेष्वेव स्पर्शज्ञानं नोत्पद्यत इति यथापूर्वं वक्तव्यम् । अतो नास्ति स्पर्शः ॥

गन्धरसस्पर्शखण्डनवर्ग एकोनपञ्चाशदुत्तरशततमः ।

150 मनोविज्ञानखण्डनवर्गः

मनोविज्ञानमपि धर्मान्न गृह्णाति । कस्मात् । मनोविज्ञानं हि न प्रत्युत्पन्नान् रूपरसगन्धस्पर्शान् गृह्णाति । [यत्] अतीतमनागतं तन्नास्तीति पूर्वमुक्तमेव । अतो मनोविज्ञानं न रूपादीन् गृह्णाति । (पृ) यदि मनोविज्ञानं रूपादीन् धर्मान् न जानाति । स्वात्मानं [वा] जानीयात् । (उ) न [कश्चित्] धर्मः स्वात्मानं जानाति । कस्मात् । न प्रत्युत्पन्ने स्वात्मवेदनं सम्भवति । तद्यथा असि[धारा] न स्वात्मानं छिनत्ति । अतीतानागतयोरसद्धर्मत्वात् नान्यच्चित्तमस्ति । अतो मनोविज्ञानं न खात्मानं विजानाति ।

(पृ) यदि कश्चित् परचित्तं जानाति । तदा तन्मनोविज्ञानं चैत्तधर्मं जानात्येव । (उ) यथा कस्यचित् चित्तं स्वात्मानमज्ञात्वापि चिन्ता भवति अहं चित्तवानिति । एवं परचित्ते ऽपि । यो ऽनागतधर्मो ऽभाव[रूपः] सो ऽपि ज्ञानजनकः । परचित्तमप्येवमिति चेत्को दोषः । धर्मालम्बनं मन इति [मतं] बहुधा दुष्टम् । यथा मनः प्राप्यालम्बते विजानाति । [वा] अप्राप्यालम्बते । मनश्च न रूपादीननुस्मरेत् । एभिर्दोषैर्न मनोविज्ञानं धर्मान् विजानाति ॥

मनोविज्ञानखण्डनवर्गः पञ्चाशदुत्तरशततमः ।

151 हेतुफलखण्डनवर्गः

अभाववाद्याह- यद्यस्ति फलम् । हेतौ पूर्वं सन् वा गुण उत्पद्येत । पूर्वमसन्[वा] गुण उत्पद्येत । उभयथा चास्ति दोषः । यथा द्वयोर्हस्तयोः पूर्वमसन् शब्दो भवति । दधिहेतौ पूर्वमसत् दधि, दधि उत्पादयति । शकटहेतौ पूर्वमसमत् शकटं, शकटमुत्पादयति । अतो न हेतौ पूर्वं सन् गुणः फलमुत्पादयति ।

भवतो यदि मतं हेतौ पूर्वमसन् गुणः फलमुत्पादयतीति । तदा रूपरहितवायुसूक्ष्मरेणू रूपमुत्पादयेत् । तथा चेत् वायू रूपवान् स्यात् । वज्रादीनां गन्धवत्ता स्यात् । दृष्टे पश्यामः खलु शुक्लतन्तुः शुक्लपटं साधयति । कृष्णतन्तुः कृष्णपटं साधयति । यदि (sss_372) हेतौ पूर्वमसन् गुणः फलं साधयति । कस्मात् शुक्लतन्तुः शुक्ल[पट]मेव साधयति न कृष्णम् । अतो न हेतौ पूर्वमसन् गुणः फलमुत्पादयति ।

इमौ द्वावपि दृष्टान्तौ दुष्टौ । अतो नास्ति फलम् । यदि हेतौ सत्कार्यम्, तदा नोत्पद्येत । कथं सदुत्पद्येत । यद्यसत् । तदपि नोत्पद्येत । असत्कथमुत्पद्येत । (पृ) दृष्टे पश्यामः खलु घटं कियमाणम् कथं नास्ति घट इति । (उ) घटो ऽयं पूर्वमकृतः कथं करणीयः । तस्यैवाभावात् । यदि पूर्वं कृत एव । कथं करणीयः । तस्य सत्त्वात् । (पृ) क्रियमाणः क्रियत इत्युच्यते । (उ) नास्ति क्रियमाणम् । कस्मात् । यः कृतभागः स कृतकोटौ पतति । यो ऽकृतभागः [सो] ऽकृतकोटौ पतति । अतो नास्ति क्रियमाणम् । यदि घटः क्रियावान्, अतीतो ऽनागतः प्रत्युत्पन्नो वा स्यात् । अतीतो न क्रियावान् । निरुद्धत्वात् । अनागतो न क्रियावान् असत्त्वात् । प्रत्युत्पन्नो ऽपि न क्रियावान्, भूयमानत्वात् ।

कारकमुपादाय क्रियावतः कर्म सिध्यति । तत्र कारक एव वस्तुतो नोपलभ्यते । तथा हि । शीर्षाद्यवयवेषु क्रियावृत्त्यभावान्नास्ति कारकः । कारकाभावात् क्रियावृत्तिरपि नास्ति । हेतुः कार्यस्य पूर्वं वा, किं वा पश्चात्, किं वा समकालम्, सर्वथा न युज्यते । कस्मात् । यदि पूर्वं हेतुः पश्चात्कार्यम् । हेतौ निरुद्धे केन फलमुत्पद्येत यथा अविद्यमानः पिता कथं पुत्रमुत्पादयेत् । यदि पश्चाद्धेतुः पूर्वं फलम् । हेतुः स्वयमनुत्पन्नः कथं फलमुत्पादयेत् । यथा अनुत्पन्नः पिता कः पुत्रमुत्पादयति । यदि हेतुः फलञ्च समकालम् न तर्हि अयं न्यायः । यथा द्वे शृङ्गे युगपदुद्भूते नोच्येते वामदक्षिणे ऽन्योन्यहेतुके । सिद्धान्ता इमे त्रयो ऽपि अयुक्ताः । अतो नास्ति फलम् ।

हेतुफले इमे यद्येकं, यदि वा नाना । उभयथास्ति दोषः । कस्मात् । यदि नाना । तदा तन्तून् विहाय पटः स्यात् । यद्येकम् । तन्तुपटयोर्विभागो न स्यात् । लौकिका न पश्यन्ति कञ्चन धर्मं हेतुफलयोरपृथग्भावरूपम् ।

यद्यस्ति फलम् । स्यात् स्वकृतं परकृतमुभयकृतमहेतुकृतं वा । सर्वमिदमयुक्तम् । कस्मात् । न कश्चिद्धर्मः स्वात्मानं करोति । यद्यस्ति स्वरूपतः । किं स्वात्मक्रियया । यदि नास्ति स्वरूपतः । कः करोति स्वात्मक्रियाम् । न च पश्चामः कञ्चन धर्मं स्वात्मानं (sss_373) कुर्वन्तम् । अतो नास्ति स्वकृतन् । परकृतमयुक्तम् । कस्मात् । चक्षूरूपयोर्विज्ञानोत्पत्तौ वृत्त्यभावात् न परकृतम् । कर्तृत्वसंज्ञाभावात्सर्वे धर्मा अकर्तृकाः । यथा "बीजस्य नैवं भवति- अहमङ्कुरमभिनिर्वर्तयामीति । चक्षुषो रूपस्य नैवं भवति- आवां सह विज्ञानमभिनिर्वर्तयाव इति । अतः सर्वधर्माणां नास्ति कर्तृत्वसंज्ञा । उभयकृतमप्ययुक्तम् । स्वकृतपरकृतदोषसत्त्वात् । अहेतुकृतमपि न युक्तम् । हेतावासति फलमपि नास्तीत्युच्यते । यदि चतुर्धापि नास्ति । कथमस्ति फलम् । यद्यस्ति, उच्येत ।

फलमिदं यदि क्रियाचित्तपूर्वकं स्यात्, यदि वाक्रियाचित्तपूर्वकं स्यात् । यदि क्रियाचित्तपुर्वकम् । गर्भे ऽपि बालानां चक्षुरादिकायावयवेषु कः सचित्तत्वं करोति । ईश्वरादयो ऽपि न कुर्वन्ति । पूर्वकृतस्य कर्मणो ऽपि नास्ति क्रियाचित्तम् । कर्मेदमतीतगतम् । कथं क्रियाचित्तं भवेत् । अतो न कर्मणो ऽप्यस्ति चित्तम् । यद्यक्रियाचित्तपूर्वकमिति । कथं परस्य दुःखकृत् दुःखं लभते । परस्य सुखकृत् सुखं लभते । दृष्टे च कर्मकरणे चित्ते विकल्पयति- एवं कर्तव्यं, एवं न कर्तव्यमिति । यदि नास्ति क्रियाचित्तम् । कथमयं विभागो भवेत् । अतः सचित्तपूर्वकमचित्तपूर्वकं सर्वमयुक्तम् । एवमादयः सर्वे ऽपीन्द्रियविषया नोपलभ्यन्ते । अतो नास्ति धर्मः ।

हेतुफलखण्डनवर्ग एकपञ्चाशदुत्तरशततमः ।

152 लोकसत्यवर्गः

उत्तरमुच्यते । यत् भवान् नानाकारणैर्ब्रवीति- सर्वे धर्माः शून्या इति । तन्मतमयुक्तम् । कस्मात् । पूर्वमेवोक्तं मया- यदि सर्वमभाव[रूप]म् । शास्त्रमिदमप्यभावरूपम् । नापि सर्वधर्मेषु इत्यादिशून्यतादूषणमप्रतिवदन्नपि शून्यतां स्थापयसि । अतो न सर्वधर्मा अभावात्मकाः । यद्भवतोक्तं- नास्तीन्द्रियं, नास्तिप्रत्यय इत्यादि । न तदस्माभिः प्रतिपादितम् । कस्मात् । भगवान् सूत्रे स्वयमिदं न्यषेधीत् । यदुत पञ्च वस्तून्यचिन्त्यानि (sss_374) लोकवस्तु, सत्त्ववस्तु, कर्मप्रत्ययतावस्तु, ध्याननिष्ठावस्तु, तथागतवस्तु इति । इदमसर्वज्ञः पुरुषो ऽभ्यूह्य न नितीरयितुं शक्नोति । तथागताः केवलं धर्मविवेचनज्ञानसमर्थाः । श्रावकाः प्रत्येकबुद्धाश्च निर्वाणज्ञानमात्रगतिंगता धर्माणां विवेचनज्ञानस्येकदेशलाभिनः । तथागताः परं सर्वधर्माणां सर्वाकारं प्रकृतितो नैस्स्वाभाव्यं विशेषसामान्यलक्षणानि सर्वाणि प्रतिविध्यन्ति । यथा पुरुषालयादयः पदार्थाः सुविनाशा दुष्कल्पाः । एवं शून्यताज्ञानं सुलभम् । धर्माणां प्रविचयज्ञानं दुरुत्पादम् ।

(पृ) यथा भगवता बोधिमण्डगतेन धर्माणां लक्षणं प्रतिलब्धम् । यथा च भगवतोपदिष्टम् । तत्तथैव भविष्यति । (उ) भगवान् सर्वधर्मानुपदिशन्नपि न सर्वाकारमुपदिशति । विमुक्त्यर्थत्वाभावात् । तद्यथा भगवानुपदिशति सर्वधर्माः प्रतीत्य समुत्पन्ना इति । नोपदिशत्येकैकशः किंप्रत्यय इति ।

दुःखनाशनप्रयोजनमात्रमपेक्षितमिति[तत्]- उपदिशति । विचित्राङ्कादीनि रूपाणि नृत्तगीतादयो नादा गन्धरसस्पर्शा अप्रमाणविशेषा नोपदेश्याः । उपदेशे ऽपि नास्ति महद्धितम् इत्यत ईदृशं वस्तु नोपदिशति भगवान् । न [तानि] न सन्तीति वक्तुं शक्यते । यथा कश्चित् चित्राङ्कनादिधर्मविकल्पमज्ञात्वा वदति तानि न सन्तीति । तथा भवानपि यत्किमप्यसाधयित्वा वदति नास्तीदं- वस्तु इति । ज्ञातुस्तु अस्ति । अज्ञातुः पुनर्नास्ति । यथा जात्यन्धो वदति नास्ति कृष्णमवदातं वा, मयादृष्टत्वात् । न चादृष्टत्वाद्रूपाणि न सन्तीति सम्भवति । यद्येवम्, प्रतीत्यसिद्धत्वान्न सन्ति सर्वे धर्मा इति वक्तुं पार्यते ।

तथागताः सर्वज्ञा इति श्रद्धेयमस्माभिः । तथागतस्तु आह- सन्ति पञ्च स्कन्धा इति । अतो ज्ञायते रूपादयः सर्वधर्माः सन्ति यथा घटादयः संवृतितः सन्तीति ॥

लोकसत्यवर्गो द्विपञ्चाशदुत्तरशततमः ।

153 धर्मचित्तनिरोधवर्गः

(पृ) पूर्वमुक्तं- भवता त्रिविधचित्तनिरोधो निरोधसत्यमिति । हेतुप्रत्ययाख्य प्रज्ञप्ति [चित्त]निरोधो ज्ञात एव । इदानीं वक्तव्यं किं धर्मचित्तं, कथं तस्य निरोध इति । (उ) सन्ति वस्तुतः पञ्चस्कन्धा इति चित्तं धर्मचित्तमित्युच्यते । पञ्चस्कन्धान् शून्यान् दृष्ट्वा सम्यग्भावयतो धर्मचित्तं निरुध्यते । (पृ) योगी पश्यति पञ्चस्कन्धान् शून्यान् यदुत पञ्चस्कन्धेषु नास्ति नित्यधर्मः स्थिरधर्मो ऽविनाशधर्मो ऽविपरिणामधर्म आत्मामीयधर्म इति । ते शून्या इत्युच्यन्ते । न तु स्कन्धानेव न पश्यतीति । (उ) योगावचरो नैव पश्यति पञ्चस्कन्धान् । कस्मात् । योगावचरः संस्कृतालम्बनचित्तं प्रहाय असंस्कृतालम्बनचित्तं प्रतिलभते । अतो योगावचरः पञ्चस्कन्धान् न पश्यति, स्कन्धनिरोधमात्रं पश्यति । पञ्चस्कन्धानां दर्शने न शून्या इत्युच्यन्ते । स्कन्धानामेवाशून्यत्वात् । एवं शून्यताज्ञानन्तु विकलं स्यात् ।

(पृ) योगावचरो रूपं नैरात्म्यतः शून्यं पश्यति । यथोक्तं सूत्रे- योगावचर इदं रूपं पश्यति यावदिदं विज्ञानं शून्यं षश्यति इति । न तु रूपादयः पञ्चस्कन्धा न सन्तीति ज्ञातव्यम् । (उ) अस्तीदं वचनं, न तु व्यवदाना[र्थक]म् । यथोक्तं धर्ममुद्रासूत्रे- योगावचरः पश्यति रूपादीन् धर्मान् अनित्यलक्षणान् विक्षेपलक्षणान् विनाशलक्षणान् मायालक्षणान् निर्वेदलक्षणान् इति । इदं शून्याख्यमपि न व्यवदानात्मकम् । पुरुषो ऽयं [य]दन्ते पञ्चस्कन्धानां निरोधं पश्यति । तद्दर्शनं तावद्वयवदाना[त्मकम्] अतो ज्ञायते पञ्चस्कन्धानां निरोधं पश्यतीति ।

(पृ) संस्कृतालम्बनज्ञानेन कस्मान्न व्यवदानं लभते । (उ) योगावचरस्य पञ्चस्कन्धसंज्ञाप्रवृत्तस्य कदाचित्प्रज्ञप्तिचित्तं पुनर्भवेत् । अतः संस्कृतालम्बनचित्तेन न व्यवदानं लभते । पञ्चस्कन्धानां निरोधं साक्षात्कुर्वतस्तु न तत् पुनरभिमुखीभबति । प्रज्ञप्तिकारणनिरोधस्य (sss_376) प्रसाधितत्वात् प्रज्ञप्तिसंज्ञा नानुवर्तते । तद्यथा कश्चन वृक्षः क्रकचकृत्तो भस्मसात्कृतः प्रक्षीणः । न [तत्र] वृक्षसंज्ञा प्रहीणा पुनरनुवर्तते । तथा इदमपि । भगवान् राधमाह- सत्त्वं तथा विभिद, विधम, यथा नोपतिष्ठति इति । किञ्चाहैकं सूत्रम- रूपं राध तथा विभिद, विधम यथा नोपतिष्ठति इति । अतो ज्ञायते यः सत्त्वपरिभेदः इयं प्रज्ञप्तिशून्यता । यो रूपपरिभेदः इयं धर्मशून्यतेति ।

भावना च द्विविधा- शून्य[ता]भावना नैरात्म्यभावना इति । शून्यताभावना च यत् प्रज्ञप्तिसत्त्वादर्शनम् । यथा कश्चित् जलं नास्तीति घट शून्यं पश्यति । तथा पञ्चस्कन्धेषु पुद्गलो नास्तीति [तान्] शून्यान् पश्यति । यत् धर्मान् न पश्यति । इदं नैरात्म्यमित्युच्यते । उक्तञ्च सूत्रे- नैरात्म्यज्ञानलाभी सम्यग्विमुच्यते इति । अतो ज्ञायते रूपस्वभावनिरोधो वेदनासंज्ञासंस्कारविज्ञानस्वभावनिरोधो नैरात्म्यमित्युच्यते । नैःस्वाभाव्यमेव नैरात्म्यम् । (पृ) यदि नैःस्वाभाव्यं नैरात्म्यमित्युच्यत इति । किमिदानीं न सन्ति वस्तुतः पञ्चस्कन्धाः । (उ) न सन्ति वस्तुतः । सन्ति तु संवृतितः । कस्मात् । भगवानाह- संस्काराः संवृतितः सन्ति मायावत् निर्मितवत् । न तु परमार्थतः । परमार्थतः शून्यमिति वचनम्- अयमर्थसत्यतः शून्यो न संवृतिसत्यत इति । परमार्थश्च यदुत रूपं शून्यमकिञ्चनम् यावद्विज्ञानं शून्यमकिञ्चनम् । अतो यद्रूपादीनां धर्माणां शून्यतादर्शनं तत् परमार्थशून्यतादर्शनमित्युच्यते ।

(पृ) यदि पञ्च स्कन्धाः संवृतिसत्यतः सन्ति । कस्मादुच्यन्ते रूपादयो धर्माः परमार्थसत्या इति । (उ) सत्त्वानां कृत उच्यन्ते । सन्ति केचित् पञ्चस्कन्धेषु समुत्पन्नपरमार्थसंज्ञाः । तदर्थमुच्यन्ते पञ्च स्कन्धाः परमार्थतः शून्या इति । (पृ) किं नु खलु सूत्रे नोक्तम् अस्ति कर्म अस्ति फलम्, कारकस्तु नोपलभ्यते इति । (उ) अयं हेतुः धर्मणां कारकाख्यो नोपलभ्यत इतीदं प्रज्ञप्तिशून्यताभिधानम् । यथोक्तं सूत्रे- धर्माः प्रज्ञप्तिसंज्ञामात्रम् । प्रज्ञप्तिसंज्ञा च यदुत अविद्याप्रत्ययाः संस्कारा यावज्जरामरणदुःखसमुदयनिरोधो भवति इति । अस्माद्वचनात् ज्ञायते पञ्चस्कन्धा अपि परमार्थतो न सन्तीति । (sss_377) महाशून्यतासूत्रे ऽप्युक्तम्- य आह इदं जरामरणं, तस्य जरामरणम् इति । य आह- स एव जीवः तदेव शरीरम्, अन्यो जीवो ऽन्यत् शरीरम् इति । इदमेकार्थकम्, व्यञ्जनमेव नाना । येषामेषा दृष्टिः न ते मच्छ्रावका न ब्रह्मचारिण इति । यत् तस्य जरामरणं प्रतिषिध्यते तत् प्रज्ञप्तिखण्डनम् । यदिदं जरामरणं प्रतिषिध्यते । तत् पञ्चस्कन्धखण्डनम् । किञ्चाह- जातिप्रत्ययं जरामरणं मध्यमा प्रतिपदित्युच्यते । नास्ति जरामरणं परमार्थत इत्युक्तमिति ज्ञातव्यम् । संवृतित उच्यते जातिप्रत्ययं जरामरणमिति । यथा घटसंज्ञात्यये नास्ति घटः परमार्थतः । एवं रूपादिधर्माणामत्यये नास्ति रूपं परमार्थतः । उक्तञ्च सूत्रे- यो धर्मो माया स मृषा । यो धर्मो ऽमाया, स एव परमार्थः इति । सर्वे संस्कृतधर्मा विपरिणामित्वात् माया इत्युच्यन्ते । मायात्वादभूताः । अभूतत्वान्न परमार्थसन्तः । यथाह गाथा-

अभूतबद्धो लोको ऽयं सुनिश्चितवत्प्रभासते । असत् दृष्टं सदाभासमसद्वै परया धिया ॥ इति ।

[अतो] ज्ञातव्यं स्कन्धा अपि शून्या इति ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.