Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 11/15

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

सत्यसिद्धिशास्त्रम्

Tác giả
हरिवर्मन्
Thông tin
GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

निरोधसत्यदर्शनं मार्गलाभ इत्युच्यते । अतो ज्ञायते निरोधः परमार्थसन्, न स्कन्धा इति । यदि स्कन्धाः परमार्थसन्तः, योगावचरो ऽपि दृष्ट्वा मार्गलाभी स्यात् । वस्तुतस्तु न तथा । अतो ज्ञायते पञ्चस्कन्धा न परमार्थसन्त इति । स्कन्धनिरोधश्च सत्यम् । अतो ज्ञायते स्कन्धा न सत्यमिति । न सम्भवति स्कन्धाः सत्यं स्कन्धाभावो ऽपि सत्यमिति वक्तुम् । दृश्यस्य सर्वस्य मोहहेतुकत्वात् । यथा न कश्चिदवञ्चितलोचनो मायां पश्यति । तथा यो ऽमुग्धः न स पश्यति स्कन्धान् । अतः स्कन्धा न परमार्थसन्तः । उक्तञ्च सूत्रे- यत्रास्मीति तत्रेञ्जितम् । स्कन्धेषु चास्ति अस्मीति । यथाहानन्दः- धर्मानुपादाय अस्मीति सिध्यति यदुत रूपस्कन्धं यावद्विज्ञानस्कन्धमुपादायेति । स्थविरा भिक्षवः क्षेमकमाहुः- किमस्मीति वदसि । क्षेमकः प्रत्याह- न खल्वायुष्मन्तो रूपमस्मीति वदामि । नाप्यन्यत्ररूपादस्मीति वदामि । एवं यावद्विज्ञानमपि । अपि च मे आयुष्मन्तः पञ्चसूपादानस्कन्धेषु (sss_378) अस्मीति अधिगतम् । [अयमहमस्मीति न समनुपश्यामि] । इति । अयं सूत्राशयः- शैक्षजनाः कदाचित् स्मृतिविक्षेपादस्मिमानमुत्पादयन्ति । समाहितस्मृतिकस्य पञ्चसूपादानस्कन्धेषु अस्मिमानं निरुद्धमेव । पुष्पवत् । न मूलकाण्डशाखापत्राण्येव पुष्पम् । नाप्यन्यत्र तेभ्य पुष्पम् । एवमेव न रूपा दीनि अस्मीति [वदामि] । नाप्यन्यत्र रूपादिभ्यः अस्मीति [वदामि] । एवमस्मिनिरोधप्रत्ययमस्मिमानं न प्रवर्तते । अतो ज्ञायते पञ्चोपादानस्कन्धा अपि शून्या इति ।

योगावचरः सर्वनिमित्तानि निरुध्यानिमित्तं साक्षात्कुर्यात् । यदि वस्तुसत् निमित्तम्, किमर्थं नानुस्मरति । न तीर्थिकानामिव रूपप्रहाणकाले ज्ञायते वस्तुसत् रूपं, परन्तु नानुस्मर्यत इति । योगी अवश्यं रूपादीनां स्कन्धानां निरोधं पश्यति निरोधदर्शनात् अनिमित्ते ऽवतरति । अतो ज्ञायते रूपादयो न परमार्थसन्त इति । यत्र सन्ति पञ्चस्कन्धाः तत्रास्मीति बुद्धिर्भवति । पञ्चस्कन्धा न सन्तीत्यतो ऽस्मीति बुद्धिर्निरुध्यते । अतः स्कन्धाः सर्वे शुन्याः । फेनसूत्रे भगवानाह- यदि पुरुषः फेनपिण्डं पश्येत् योनिश उपपरीक्षेत । स[तत्]तुच्छकञ्चैव जानीयात् । एवमेव भिक्षुर्यदि रूपस्कन्धं सम्यगुपपरीक्षते । स[तं] रिक्तकञ्चैव जानाति, तुच्छकञ्चैव[जानाति], असारकञ्चैव[जानति], विक्षेपलक्षणञ्चैव जानाति । वेदनामुपपरीक्षते यथा बुद्धुदम्, संज्ञा [मुपपरीक्षते]यथा मरीचिकाम्, संस्कारा[नुपपरीक्षते] यथा कदलीम्, विज्ञान[मुपपरीक्षते] यथा मायाम् । तत्र पञ्च दृष्टान्ताः शून्यार्थनिरूपणाः । कस्मात् । पश्यामः खलु चक्षुषा फेनमपचीयमानमभावतां याति । तथा बुद्बुदादीन्यपि । अतो ज्ञायते स्कन्धा न परमार्थसन्त इति । ये जिनपुत्राः संसारात् परमनिर्विण्णाः । [ते]धर्माणां प्रकृतितो ऽनुत्पादमाकिञ्चन्यञ्च पश्यन्ति । अतो ये ऽनित्यं (sss_379) पश्यन्ति । [तेषां] विक्षेपविनाशदुःखलक्षणमेव भवति । ये निःस्वभावं पश्यन्ति, अन्यलक्षणाभावात् ते दुःखचर्यां परिपूरयन्ति । एतत्त्रिविधदुःखपरिपूरणं विमुक्तिप्रापकमित्युच्यते । [अतः] सर्वधर्माः शून्या इति ज्ञातव्यम् ।

शून्यता च विमोक्षमुखम् । शून्यता चेयं न केवलं सत्त्वशून्यतात्मिका । धर्मशून्यता[त्मिका]पि चास्ति । यथोक्तम्- चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति । निरुध्यमानं न क्वचिद्गच्छति । तदा प्रजानाति अतीतमनागतं चक्षुः शून्यमिति । प्रत्युत्पन्नं चक्षुरपि चतुर्महाभूतविकल्पितमित्यतः शून्यमिति । यथाह भगवान्- यच्चक्षुषि मांसपिण्डे खक्कटं खरगतं स पृथिवी [धातु]ः इत्यादि । य इमां शून्यतां प्रतिलभते स वदति नास्ति यत्किञ्चिदिति । किञ्चाह- सर्वसंस्काराः प्रहीयन्त इति प्रहाणस्वभावाः । विमुच्यन्त इति विमुक्तिखभावाः । निरुध्यन्त इति निरोधस्वभावाः इति । अतो ज्ञायते सर्वे संस्कारा निरुद्धा भवन्तीति । यदि वस्तुसन्तः संस्काराः तदा न स्युः सम्यक् प्रहाणविमुक्तिनिरोधाः । निरोधश्चाभाव इत्युच्यते । अतो द्रष्टव्यं परमार्थतः संस्काराः सर्वे ऽभावात्मकाः संवृतितस्तु सन्ति संस्कारा इति ॥

धर्मचित्तनिरोधवर्गस्त्रिपञ्चाशदुत्तरशततमः ।

154 निरोधवर्गः

यन्निर्वाणालम्बनं तत् शून्यचित्तमित्युच्यते । (पृ) निर्वाणमसद्धर्मः । चित्तं किमालम्बते । (उ) चित्तमिदं यत्किञ्चताभावमालम्बते । इदं पूर्वमेव प्रतिपादितम् । निर्वाणज्ञानत्वात् । (पृ) शून्यचित्तमिदं कुत्र निरुध्यते । (उ) स्थानद्वये [निरुध्यते] (1) अचित्तकसमाधिमुपसम्पन्नस्य (2) अनुपधिशेषनिर्वाणं प्रविष्ठस्य सन्तानसमुच्छेदे वा निरुध्यते । कस्मात् । हेतुप्रत्ययनिरोधात् । अचित्तकसमाधावालम्बननिरोधात् [तत्] निरुध्यते । सन्ताने समुच्छिद्यमाने पुनः कर्मक्षयात् [तत्] निरुध्यते ।

शास्त्रमाह- एतानि त्रीणि चित्तानि निरोधयतो योगावचरस्य कर्मक्लेशा नैव पुनः समुदाचरन्ति (पृ) कस्मात् न समुदाचरन्ति । (उ) पुरुषो ऽयं नैरात्म्यसम्पन्न इत्यतः कर्मक्लेशा निरुध्यन्ते । यथा प्रदीपो धर्मश्च सति निश्रये वर्तते । असति निश्रये न वर्तते । एवमात्मचित्ते निश्रये सति कर्मक्लेशानां समुदयः । असति तु न समुदयः । अनास्रवा सम्यग्दृष्टिः सर्वाणि निमित्तानि तथा प्रदहति यथा न किञ्चिदवशिष्यते । यथा कल्पाग्निः पृथिव्यादिन् निःशेषं दहति । निमित्ताभावात् कर्मक्लेशानां न पुनः समुदयो भवति । अस्मिचित्तकस्य तु कर्मक्लेशाः समुद्यन्ति । अर्हतः शून्यताज्ञानगतिंगतस्य अस्मिमानरहितस्य न पुनः समुद्यन्ति ।

अस्य नूत्नकर्मानुपचये ऽपि प्राक्तनकर्महेतुना कस्मान्नोपपत्तिर्भवति । (उ) सम्यक्- प्रज्ञया तत्कर्मविनाशान्न विपाकभाग्भवति । यथा दग्धं बीजं न पुनः प्ररोहति । असति च तृष्णाचित्ते न कर्माणि पच्यन्ते । यथा अनभिष्यन्दितायां भूमौ बीजं न प्ररोहति । योगावचरस्यास्य सर्वविज्ञानस्थितिषु सर्वनिमित्तनिरोधे विज्ञानं निराश्रयं भवति । अतो नास्त्युपपत्त्यायतनम् । यथा बीजमनाश्रयं नोत्पद्यते । कर्मक्लेशपौष्कल्यात् कायमुपादत्ते । अपौष्कल्ये तु निरुध्यते ।

स क्लेशाभावात् विकलहेतुप्रत्ययः सत्स्वपि कर्मसु नोपपत्तिं वेदयते । सत्त्वाः क्लेशहेतोर्गतिषु कायं वेदयन्ते । कायं वेदयत इत्यतः तस्य कर्माणि विपाकं प्रयच्छन्ति । असति क्लेशे कायो न वेद्यते । कायवेद्यभावात् कर्माणि कस्य विपाकं प्रयच्छन्ति । यथा अधर्मेण प्रबलमधितिष्ठति उत्तमर्णो नावकाशं लभते । तथा योगावचरो ऽपि । संसारे ऽवर्तमानस्य सन्त्यपि कर्माणि न विपाकं प्रयच्छन्ति । यथा बद्धं पुरुषमन्ये जना यथेष्टं निन्दन्ति । एवं क्लेशबद्धानां सत्त्वानां कर्मतारतम्यवशात् [क्लेशाः] विपाकं प्रयच्छन्ति । प्रतिलब्धविमोक्षे तु नावकाशं लभन्ते ।

स्वीयं कर्म च विपाकं प्रयच्छति । शून्यचर्याविहारित्वादस्य पुरुषस्य धर्मेषु स्वलक्षण[संज्ञा] नास्तीत्यतः कर्माणि न विपाकं प्रयच्छन्ति । यथा दत्तीकृतस्य पुत्रस्य दायभागो नास्ति । तथेदमपि । क्लेशबलेन च कर्माणि प्रवर्तन्ते । क्लेशवेगे क्षीणे तु न तानि प्रवर्तन्ते । यथा चक्रं गतिस्थमपि वेगक्षयान्न पुनः प्रवर्तते । क्लेशबले च कर्माणि (sss_381) विकारयन्ति । यथा सुतवत्सलाया मातुः रक्तं स्तन्यं परिणमते । निरुद्धवात्सल्यचित्तायास्तु न पुनः परिणमते । एवं क्लेशबलात् कर्म विपाकं प्रयच्छति । [क्लेश]विरहे तु न प्रयच्छति । अयञ्च पुरुषः शीलसमाधिप्रज्ञादिगुणैर्भावितकायः । तत्प्रभावमाहात्म्यात् कर्माणि नावकाशं लभन्ते । अतः सदपि प्राक्तनं कर्म न विपाकं प्रयच्छति । एवमस्य प्राक्तनं कर्म प्रत्युत्पन्ने किञ्चि[द्विपाक]मर्पयति । नूत्नं तु कर्म न करोति । यथाग्निरिन्धनानां भस्मीभावे शाम्यति । एवमयं पुरुषो ऽपि वेदनीयाभावान्निरुध्यते । [इति] त्रिविधचित्तानां निरोधात्सर्वदुःखेभ्यो ऽत्यन्तं विमुच्यते । अतो विद्वान् त्रिविधचित्तानि निरुन्ध्यात् ॥

निरोधवर्गश्चतुःपञ्चाशदुत्तरशततमः ।

[निरोधसत्यस्कन्धः समाप्तः ।]

अथ मार्गसत्यस्कन्धः

155 मार्गसत्यस्कन्धे समाध्यधिकारे समाधिहेतुवर्गः

शास्त्रमाह- इदानीं मार्गसत्यं विचार्यते । मार्गसत्यम्- आर्यो ऽष्टाङ्गिको मार्गः सम्यक् दृष्टिर्यावत् सम्यक् समाधिः । आर्यो ऽष्टाङ्गिको मार्गः संक्षिप्य द्विविधः (1) समाधिः परिकरश्च (2) ज्ञानमिति ।

इदानीं समाधिर्विचारयितव्यः । (पृ) किंलक्षणा समाधिः । (उ) चित्तस्यैकत्रावस्थानं समाधिलक्षणम् । (पृ) कथं चित्तमेकत्रावतिष्ठते । (उ) बहुलीकृतभावनया तत्रावतिष्ठते । यदि बहुवारं न भावयति तदा क्षिप्रमेव विक्षिप्यते । (पृ) कथं भावयितव्यम् । (उ) यथासुखं भावयितव्यम् । (पृ) कथं सुखयति । (उ) कायचित्तयोर्दौष्ठल्यं दुःखम् । प्रश्रब्धिधर्मेण कायचित्तयोर्दौष्ठल्ये ऽपनीते सुखं भवति । (पृ) कथं प्रश्रब्धिर्भवति । (उ) प्रीतिप्रत्ययं कायचित्ते दान्ते भवतः । (पृ) कथं प्रीतिर्भवति । (उ) त्रिरत्नस्मरणधर्मश्रवणादिना चित्तप्रामोद्यात् भवति । (पृ) कथं चित्तप्रामोद्यं भवति । (उ) परिशुद्धशीलधारणात् चित्तस्यौकौकृत्ये भवति ।

(पृ) उक्तः समाधिहेतुः । इदानीं कस्य समाधिर्हेतुः । (उ) अयं यथाभूतज्ञानस्य हेतुः । यथाभूतज्ञानं शून्यताज्ञानम् । यथोक्तं योगावचरः समाहितचित्तो विशुद्धचित्तो विनीवरणचित्तश्चित्तरथो ऽचलचित्तो यथाभूतं प्रजानाति दुःखमार्यसत्यं दुःखसमुदयं दुखनिरोधं दुःखनिरोधगामिमार्गमार्यसत्यम् इति । अतो यथाभूतज्ञानलिप्सुना समाधि भावनायां वीर्यमारब्धव्यम् । विक्षिप्तचित्तस्य लौकिकसूत्रशिल्पादिहितमेव न भवति । किं पुनर्लोकोत्तरं हितम् । अतो ज्ञायते लौकिकं लोकोत्तरञ्च हितं समाहितचित्तेनैव लभ्यते । सर्वञ्च सत् कुशलं सम्यक् ज्ञानाधीनम् । सर्वमसदकुशलं मिथ्याज्ञानाधीनम् । यथोक्तं सूत्रे अविद्या भिक्षवः पूर्वङ्गमाकुशलानां धर्माणां समापत्तये । अन्वगेवाह्रीक्यमनपत्राप्यम् । (sss_383) विद्या भिक्षवः पूर्वङ्गमा कुशलानां धर्माणां समापत्तये अन्वगेव ह्रीः अपत्राप्यम् । इति । समाधिस्तु सम्यग्ज्ञानस्य हेतुः । अतो ज्ञायते सर्वं सत्कुशलं समाधिमुपादाय भवतीति । तस्मात् भावनायां योगः कर्तव्यः ॥

समाधिहेतुवर्गः पञ्चपञ्चादुत्तरशततमः ।

156 समाधिलक्षणवर्गः

(पृ) उक्तं भवता चित्तस्यैकत्रावस्थानं समाधिलक्षणमिति तत्र समाधिश्चित्तञ्चैकं उत भिन्नम् । (उ) न ते भिन्ने । केचिदाहु- समाधिश्चित्तञ्च भिन्ने । समाधिलब्धचित्तमेकत्रावतिष्ठत इति । सदपीदं वचनमयुक्तार्थकम् । यदि चित्तं समाधिलब्धमालम्बने ऽवतिष्ठत इति । समाधिरियमपि आलम्बने ऽवतिष्ठमाना समाध्यन्तरमुपादायावतिष्ठेत । एवमनवस्था भवति । तत्तु न सम्भवति । यदीयं समाधिः प्रकृतितो ऽवस्थानमिति । चित्तमपि न समाधिमुपादायावतिष्ठेत । अतः समाधेरन्यत् चित्तमिति यद्वचनं तदप्रकृष्टार्थकम् । वेदनासंज्ञादयश्चेतसिकधर्मा अप्यालम्बने ऽवतिष्ठन्ते । ते ऽपि कं धर्ममुपादायावतिष्ठन्त इतीदं वक्तव्यम् । यदि वेदनासंज्ञादीनां प्रत्येकं समाधिरस्ति । तुल्यः पूर्वदोषः स्यात् । सूत्रे च चित्तस्यैकाग्रता समाधिलक्षणमिति केवलमुक्तम् । न तु चित्तं समाधिलब्धमवतिष्ठत इति । अतो ज्ञायते न युक्तमिति । चित्तस्यैकाग्रतेत्युक्ते नान्यधर्मः प्रकाशितो भवति । यथा पूर्वमुक्तम्- यत्र चित्तं सुखि भवति तस्मिन्नालम्बने ऽवतिष्ठत इति । चित्तस्य कोटिः समाधिर्न पृथग्भवतीति द्रष्टव्यम् । यथा चित्तं दीर्घकालावस्थानं समाधिरित्युच्यते ।

(पृ) समाधिरियं किं सास्रवा उतानास्रवा । (उ) समाधिर्द्विविधा सास्रवा अनास्रवा चेति । लौकिका ध्यानसमाधयः सास्रवाः । धर्मावस्थामुपसम्पन्नस्य समाधयो ऽनास्रवा इत्युच्यन्ते । कस्मात् । कालो ऽयं यथाभूतज्ञानदर्शनमित्युच्यते । तस्य कालस्य द्विविधं नाम समाधिरिति प्रज्ञा चेति । चित्तसमाधानात् समाधिः । यथाभूतप्रज्ञानात् (sss_384) प्रज्ञा । चित्तसमाधानं त्रिविधं कुशलमकुशलमव्याकृतमिति । तत्र कुशलेन चित्तसमाधानमेव समाधिः । नत्वकुशलेन अव्याकृतेन वा । सा समाधिर्द्विविधा एका विमुक्तिहेतुः अपरा अविमुक्तिहेतुः । विमुक्तिहेतुर्नाम नियतमूलकम् । केचिदाभिधर्मिका आहुः- अनास्रवसमाधिरेव नियतमूलमिति । स वादो न युक्तः । सास्रवानास्रवा यदि विमुक्तिं करोति । सा सर्वापि नियतमूलमित्युच्येत ।

समाधिरियं यथालम्बनावस्थानं त्रिधा विभज्यते । परीत्ता विपुला अप्रमाणा चेति । चित्तं किञ्चित्कालमवस्थाय यदि परीत्तमालम्बनं पश्यति[तदा] परीत्तेत्युच्यते । अन्ये द्वे अपि तथा । समयवशात्रिविधं लक्षणं भवति । प्रग्रहलक्षणं व्युत्थानलक्षणं त्यागलक्षणमिति । चित्ते ऽबलीने व्युत्थानलक्षणमुपयोक्तव्यम् । चित्त उद्धत प्रग्रहलक्षणं प्रयोक्तव्यम् । दान्ते च चित्ते त्यागलक्षणं प्रयोक्तव्यम् । यथा सुवर्णकारः सुवर्णं द्रवयति तापयति सेचयति काले च स्थपयति । यदि सदा तापयति । तदा द्रवीभवति । सदा सेचने घनीभवति । सदा स्थपनेस्फूर्यते । एवं योगावचरस्य चित्तमपि । कम्पितस्याप्रग्रहे सदा विक्षेपः । अवलीनस्याव्युत्थाने कौसीद्यम् । दान्तस्यात्यागे पुनरदमनम् । यथा च दान्तो ऽश्वः प्रवेगे प्रगृह्यते । दन्धः [कशया]ताड्यते । दान्तः परित्यज्यते । एवं योगावचरस्य दान्तं चित्तमपि ।

समाधेरस्यास्त्रिविध उपायः समाध्यवतारोपायः समाध्यवस्थानोपायः समाधिव्युत्थानोपाय इति । यथाधर्मं समाधावतरति । अयं समाध्यवतारोपायः । समाधिस्थितो न चलति । अयं समाध्यवस्थानोपायः । यथाधर्मं समाधेर्व्युत्तिष्ठते । अयं समाधिव्युत्थानोपायः । (पृ) कथमिमान् त्रिविधानुपायान् प्रतिलभते । (उ) योगावचरः स्वचित्तलक्षणं गृह्णन् एवं प्रगृह्णन् एवं व्युत्तिष्ठन् एवं परित्यजन् समाधाववतरति । तथा निर्गच्छति च । (पृ) साक्षादेव समाधिग्रहे क उपयोग उपायस्य । (उ) त्रिविधोपायान् प्रवर्तमानस्य आदीनवो भवति । यथेप्सितञ्च न विन्दते । अवतरितुमिच्छन् व्युतिष्ठेत व्युत्थातुमिच्छन् पुनरवतरेत् । इतीदृशा दोषाः सन्ति । लाभं हानिं मन्येत । हानिञ्च लाभम् । यथा किञ्चिद्विशुद्धरूपं किञ्चित्प्रकाशरूपञ्च दृष्ट्वा वदेत- महाहितं लब्धमिति । अनित्यं दुःखं शून्यमित्याद्यनुस्मरतः चित्तं न सुखि भवति । प्रत्युत हानिकरमिति वदेत् ।

(पृ) योगावचरस्य कस्मात् कदाचित्समाधिलाभो ऽस्ति कदाचिन्नास्ति । (उ) समाधिलाभस्य चत्वारः प्रत्ययाः- (1) इहाध्वनि युनक्ति, (2) पूर्वकायप्रत्ययः (3) समाधिलक्षणं सुगृह्णाति, (4) श्रुत्वा समाधिधर्माननुवर्तयति इति । समाधिभावनाश्चतुर्विधाः- (1) सदाप्रयोगी नैकाग्रं चरति । (2) एकाग्रं चरति न सदाप्रयुक्तो भवति । (3) सदाप्रयुक्तश्च भवति एकाग्रञ्च चरति । (4) न सदा प्रयुक्तो नैकाग्रं चरति । किञ्च सन्ति चतुर्विधाः बहुकुशलः अल्पप्रज्ञः, अल्पकुशलो बहुप्रज्ञः, बहुकुशलो बहुप्रज्ञः, अल्पकुशलो ऽल्पप्रज्ञ इति । एषुतृतीयो योगावचरो ऽवश्यं लभते । चतुर्थो नावश्यं लभते । प्रथमद्वितीयौ यदि दान्तौ समौ तदा लभेते ॥

समाधिलक्षणवर्गः षट्पञ्चाशदुत्तरशततमः ।

157 त्रिसमाधिवर्गः

(पृ) उक्तं सूत्रे- त्रयः समाधयः एकाङ्गभावनसमाधिः, उभयाङ्गभावनसमाधिः अर्यः सम्यक्समाधिरिति । किमिदम् । (उ) एकाङ्गभावन इति यत् समाधिं भावयति न प्रज्ञाम् । प्रज्ञां वा भावयति न समाधिम् । उभयाङ्गभावन इति समाधिं भावयति प्रज्ञाञ्च भावयति । अयं लौकिकसमाधिरूष्मादिधर्मगतः । आर्यः सम्यक्समाधिरिति यद्धर्मावस्थामुपसम्पन्नो निरोधसत्यं साक्षात्करोति । स आर्यः सम्यगित्युच्यते । केनेदं ज्ञायते । यथा स्थविरो भिक्षुराह- योगावचरः समाधिना चित्तं भावयन् प्रज्ञामुपादाय क्लेशान् प्रतिषेधयति । प्रज्ञया चित्तं भावयन् समाधिमुपादाय क्लेशान् प्रतिषेधयति । समाधिना प्रज्ञया च चित्तं भावयन् स्वभावमुपादाय विमुच्यते । स्वभावो नाम यः प्रहाणस्वभावः वियोगस्वभावो निरोधस्वभावः । समाधिप्रज्ञयोर्युगपत्प्रपूरणादार्यः सम्यगित्युच्यते । यथा समाधिप्रज्ञाभ्यां विमुक्तिलब्धः सर्वशो विमुक्तैत्युच्यते ।

(पृ) केचिदाहुः- एकाङ्गभावन इति यदि समाधिमुपादाय रश्मिं पश्यति न रूपाणि । यदि(वा)रूपाणि पश्यति न रश्मिम् । उभयाङ्गभावन इति यत् रूपञ्च पश्यति रश्मिञ्च पश्यति । आर्यः सम्यक्समाधिरिति यत् शैक्षाशैक्षाभ्यां प्रतिलब्धः समाधिः (sss_386) इति । कथमिदम् । (उ) रश्मिमात्रं पश्यति न रूपमिति नास्ति किञ्चन सूत्रम् सूत्रे केवलमुक्तम्- अहं प्रकृतितो रश्मिमपश्यं रूपमप्यपश्यम् । इदानीं रश्मिर्विनष्टः, रूपमपि न पश्यामीति । भवता च वक्तव्यं केन कारणेन रश्मिं पश्यति न रूपम् इत्यादि । इति नावोचः ।

(पृ) सूत्र उक्तं- त्रयः समाधयः शून्यतो ऽनिमित्तो ऽप्रणिहित इति । एषां त्रयाणां समाधीनां को भेदः । (उ) यदि योगावचरो न पश्यति सत्त्वं नापि धर्मम् । अयमुच्यते शून्यतः [समाधि]रिति । ईदृशे शून्ये[यदि]ग्राह्यनिमित्तं नास्ति । अयं शून्य एवानिमित्तः । शून्ये च नास्ति प्रणिहितं किञ्चन । अयं शून्यः[समाधि]रेवाप्रणिहित इत्युच्यते । अतस्त्रयो ऽप्येकार्थकाः । (पृ) तथा चेत् कस्मात् त्रय इत्युच्यन्ते । (उ) शून्यं भावयेदिति शून्यतासमर्थ आह । शून्यं भावयन् हितं लभते यदुत निमित्तं न पश्यतीति । निमित्तादर्शनादनिमित्तः । अनिमित्तत्वादप्रणिहीतः । अप्रणिहितत्वान्न कायं वेदयते । कायावेदनात्सर्वदुःखान्मुच्यते । इत्यादि हितानि शून्यताभावनया लभते । अत उच्यते त्रय इति ।

केचिदाभिधर्मिका आहुः यः समाधिः शून्यानात्माकारेण भवति अयं शून्य इत्युच्यते । य आकारो ऽनित्यतो दुःखतो हेतुतः समुदयतो जनकतः प्रत्ययतो मार्गतो यथावदाचरतो निर्याणतो भवति । अयमप्रणिहितः । य आकारो निरोधत उपशमतः प्रणीततो वियोगतो भवति । अयमनिमित्त इति । कथमिदम् । (उ) यदाह भवान्- अनित्यतो दुःखत आकारः अप्रणिहित इति । तदयुक्तम् । कस्मात् । भगवान् सदा वदति यदनित्यं तदेव दुःखम् । यत् दुखं तदेवानात्मकम् इति । नैरात्म्यं प्रजानन् न पुनः प्रणिदधाति । अतो ज्ञायते शून्यत्वाच्च न प्रणिदधातीति । हेतुतः समुदयतो जनकतः प्रत्ययत आकार इति मतम् । तत् तथैव स्यात् । कस्मात् । उक्तं हि सूत्रे- यत्किञ्चित्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति पश्यन् निर्विद्यते इति । मार्गे च न भवेदप्रणिहित आकारः । कस्मात् । प्रणिधानं हि तृष्णाङ्गम् । यथासूत्रमुक्तम् हीनं मध्यमं प्रणिधानं न मार्ग आसक्तिजनकम् । अतो न भवेदप्रणिहित आकारः । किञ्चोक्तं सूत्रे- पञ्चानां स्कन्धानां निरोधान्निरोध इत्युच्यते इति ज्ञातव्यम् । शून्य एव निरोध इत्युच्यते । न (sss_387) तत्रास्ति प्रणिधानम् । कायतृष्णा हि प्रणिधानं भवति । अतो ज्ञायते इमे त्रय एकार्थका इति न स्याद्भेद इति ।

(पृ) किञ्चोक्तं सूत्रे- त्रयः समाधयः शून्यशून्यः, अप्रणिताप्रणिहितः, अनिमित्तानिमित्त इति । कथमिदम् । (उ) शून्येन पञ्चस्कन्धान् शून्यान् दृष्ट्वा एकेन शून्येन पुनरिमं शून्यं शून्यीकरोति । अयं शून्यशून्य इत्युच्यते । अप्रणिहितेन पञ्चस्कन्धान् निर्विद्य अप्रणिहितेन पुनरिममप्रणिहितं निर्वेदयति । अयमप्रणिहिताप्रणिहितः । अनिमित्तेन पञ्चस्कन्धान् प्रशान्तान् दृष्ट्वा अनिमित्तेन पुनरनिमित्तं न गृह्णाति । अयमनिमित्तानिमित्तः ।

(पृ) आभिधर्मिका आहुः- त्रय इमे समाधयः सास्रवा इति । कथमिदम् । (उ) इमे न सास्रवाः । कस्मात् । समयस्यास्या नास्रवानुशयत्वात् । समाधिरयं शून्यादिप्रधानः । कथं सास्रवो भवेत् । (पृ) यदि शून्यादयः समाधयो वस्तुतः प्रज्ञात्मकाः । कथं समाधिरित्युच्यते । (उ) समाधीनां भेदात् । समाधिश्च यथाभूतज्ञानदर्शनाधायकत्वात् समाधिरित्युच्यते । फले हेतूपचारात् ।

(पृ) केचिदाभिधर्मिका आहुः- शून्यशून्यादयः समाधयो ऽशैक्षजनमात्रलभ्या नान्यैरिति । कथमिदम् । (उ) शैक्षजना अपि लभेयुः । कस्मात् । योगावचरेण हि सास्रवाणामनास्रवाणां सर्वेषां धर्माणां निरोधो ऽधिगन्तव्यः । अतः शैक्षजनैरपि अनास्रवधर्माणां निरोधो ऽधिगन्तव्यः स्यात् ॥

त्रिसमाधिवर्गः सप्तपञ्चाशदुत्तरशततमः ।

158 चतुस्समाधिभावनावर्गः

अस्ति समाधिभावना दृष्टधर्मसुख [विहार]आयं संवर्तते । अस्ति समाधिभावना ज्ञानदर्शन[प्रतिलाभ]आय संवर्तते । अस्ति समाधिभावना स्मृतिसम्प्रजन्याय संवर्तते । अस्ति समाधिभावना आस्रवाणां क्षयाय संवर्तते । यः समाधिः दृष्टधर्मसुखप्रापको यदुत द्वितीयध्यानादयः । [सा प्रथमा भवना ।]केनेदं ज्ञायते । भगवानाह- द्वितीयध्यानं समाधिजं प्रीतिसुखं नाम्ने संवर्तते अन्यधर्माय संवर्तते यथा पिण्डपाताय श्रावस्त्यां प्रवेश इति ।

(पृ) प्रथमं ध्यानमपि सप्रीतिसुखम् । कस्मान्नोच्यते स दृष्टधर्मसुखविहार इति । (उ) प्रथमध्यानस्य चित्तविक्षेपकवितर्कविचारव्यामिश्रितत्वात् न तदुच्यते दृष्टधर्मसुखमिति (पृ) द्वितीयध्यानस्यापि सन्ति प्रीत्यादयश्चित्तविक्षेपका धर्माः । कस्मादुच्यते सुखमिति । (उ) सर्ववितर्कविचारपूर्वकं चित्तपरिग्रहात् प्रीत्यादयः सुखमित्युच्यन्ते, दुःखाकारतः परं सर्वं दुःखमित्युच्यते । प्रथमध्याने दुःखमौदारिकम् । द्वितीयध्यानादिषु दुःखं सूक्ष्मम् । सूक्ष्मदुःखत्वात् सुखमित्याख्यां लभते ।

(पृ) द्वितीयध्यानादयः सांपरायिकसुखविहारा अपि भवन्ति । कस्मात् दृष्टधर्मसुखविहारमात्रमुच्यते । (उ) यथाजातशत्रोः सान्दृष्टिकं श्रामण्यफलमुक्तम् । प्रत्यासत्योच्यते [तथा] । पञ्चकामसुखानां भेदायोच्यते दृष्टधर्मसुख[विहार इ]ति । यदि पञ्चकामसुखासक्तः कश्चित्, अतो न ध्यानभाग्भवति । तदर्थमाह- पञ्चकामसुखानां वियोगे परमं दृष्टधर्मसुखं प्रतिलभध्व इति । बुद्धा न सांपरायिककायवेदनं प्रशंसन्ति । अतो नाभिदधति साम्परायिकं सुखम् । लौकिका वदन्ति सुखं गृहस्थस्य न प्रव्रजितस्येति । अतो भगवानाह- इदं प्रव्रजितस्य दृष्टधर्मे सुखमिति ।

इमाश्चतस्रः समाधिभावनाः सर्वा दृष्टधर्मसुख[विहारा]य संवर्तन्ते । प्रथमाया नामोपचारात् केवलमुच्यते दृष्टधर्मसुख[विहाराये]ति ।

(पृ) यदीमाश्चस्रः समाधिभावना नानाहितानि साधयन्ति । कस्मात्केवलमुच्यन्ते चत्वारीमानि हितानि । (उ) हितं द्विविधं लौकिकं लोकोत्तरमिति । द्वितीया समाधिभावना लौकिकहिताय भवति यदुत ज्ञानदर्शनम् । ज्ञानं नामाष्टविमोक्षायतनदशकृत्स्नायतनादिहितम् । दर्शनं पञ्चाभिज्ञादिहितम् । कस्मात् । चक्षुषा दृश्यमानत्वात् हितमिदं दर्शनमित्युच्यते । इदं रश्मिग्रहमुपादाय सिद्धत्वात् ज्ञानदर्शनमिति भवति । यत् रश्मिलक्षणमित्युच्यते द्वितीयमिदं लोकोत्तरं हितम् ।

पञ्चस्कन्धान् सम्प्रजानातीति सम्प्रजन्यम् । अतः सूत्र उक्तम्- सस्मृतिसम्प्रजन्यो (sss_389) योगावचरो या वेदना वितर्काः संज्ञा उत्पद्यन्ते सर्वा[स्ताः] प्रतिजानाति इति । वेदनानां प्रज्ञानं नाम स्पर्शप्रत्यया वेदना, नास्ति तु वेदक इति । वितर्कानां प्रज्ञानं नाम अहमिति वितर्कः; कथं [स] न भवेत् । यः स्त्रीपुरुषादिप्रज्ञप्तिसंज्ञाविकल्पः, तत्संज्ञाप्रतिभेदना वितर्का न भवति । यथोक्तं सूत्रे- वितर्कः किं निदानः । [वितर्कः] [प्रपञ्च] संज्ञा [संख्या] निदान इति । अतो ज्ञायते प्रज्ञप्तिसंज्ञाप्रतिभेदनात् स्मृतिसम्प्रजन्यं नाम । स्मृतिसम्प्रजन्येनास्रवक्षयो लभ्यते । यथोक्तं सूत्रे- योगावचरः पञ्चानां स्कन्धानामुदयव्ययानुदर्शी स्कन्धानां निरोधं साक्षात्करोति इति । अतो ज्ञायते । सर्वाणि लौकिकानि लोकोत्तराणि हितानि चतुर्षु सङ्गृहीतानीति ।

(पृ) केचिदाभिधर्मिका आहुः- चतुर्थध्याने ऽर्हत्फलं प्रतिलभमानस्य आनन्तर्यमार्ग आस्रवक्षय इत्युच्यते इति । कथमिदम् । (उ) न हि तत्रास्ति विशिष्टहेतुः चतुर्थध्यानमात्रस्यानन्तर्यमार्ग आस्रवक्षयो नान्यस्येति । अत[स्त]न्न युज्यते ।

समाधिभावना च त्रिविधहिताय संवर्तते- (1) दृष्टधर्मसुख[विहारा]य, (2) ज्ञानदर्शन [प्रतिलाभा]य, (3) आस्रवक्षयाय च । द्विविधाय वा संवर्तते । उक्तवदेकान्तक्षयार्थत्वात् सुविशुद्ध्यर्थत्वात्, संसारक्षयार्थत्वात्, नानास्वभावविवेकार्थत्वात् मार्गमुपदिशति चक्षुष्मान् । तत्र पूर्वे त्रयः प्रहाणस्याभिधानम्, अन्तिमो ज्ञानस्य । नात्र भगवान् दृष्टधर्मसुख[विहार]माह ।

चतुस्समाधिभावनावर्गो ऽष्टपञ्चाशदुत्तरशततमः ।

159 चतुरप्रमाणसमाधिवर्गः

मैत्री करुणा मुदिता उपेक्षा । [तत्र] मैत्री नाम व्यापादविरुद्धं कुशलचित्तम् । यथा सुविज्ञः सुविज्ञाय सदा हितं प्रार्थयते । तथा योगावचरो ऽपि सर्वसत्वानां कृते सदा सुखं प्रार्थयते । अतो ऽयं सर्वसत्त्वानां सुविज्ञो भवति । (पृ) किं नाम सुविज्ञस्य (sss_390) लक्षणम् । (उ) नित्यं लक्ष्यत ऐहिकामुष्मिकहितसुखप्रकर्षप्रार्थनां कुर्वन् नैव विरुद्धासुखप्रार्थनाम् । तथा योगावचरो ऽपि सत्त्वानां सुखमेव प्रार्थयते नासुखम् ।

करुणा विहिंसाविरुद्धं मैत्रचित्तम् । कस्मात् । सत्त्वानां सुखप्रार्थनत्वात् । (पृ) द्वेषविहिंसयोः को भेदः । (उ) चित्ते द्वेषस्मृतिमुत्पाद्य सत्वान् ताडयितुं विहिसितुं वा इच्छति । द्वेषोद्धितं कायवाक्कर्म विहिंसेत्युच्यते । द्वेषो विहिंसाया हेतुः । द्वेषाकांक्षी अवश्यं प्रदाशमाचरति ।

मुदिता ईर्ष्याविरुद्धं मैत्रचित्तम् । ईर्ष्या नाम परस्योत्कर्षं दृष्ट्वा अक्षममाणस्योत्पन्नो ऽसूयाव्यापादः । योगावचरस्य सर्वसत्त्वानां लाभप्रकर्षं दृष्ट्वा महती प्रीतिर्भवति यथात्मनो हितलाभे ।

(पृ) किमिमानि त्रीणि मैत्री[रूपाणि]आ (उ) मैत्रचित्तस्यैव त्रयः प्रकाराः । कस्मात् । अव्यापादो मैत्री । न कश्चिदद्विषन् दुःखिनं सत्त्वं दृष्ट्वा दयते । यदा सर्वेषु सत्त्वेषु परमं मैत्रचित्तं कश्चिद्दुःखोपद्रवसम्भ्रान्तं पुत्रं दृष्ट्वेव समाचरतितस्मिन् समये प्रवृत्तं मैत्रचित्तं करुणेत्युच्यते । अथ वा कश्चित् परस्य दुःखे करुणामुत्पादयन्नपि न परस्योत्कर्षे प्रमुदितचित्तो भवति । केनेदं ज्ञायते । कश्चित्सपत्नस्य दुःखं दृष्टवैव करुणायते । किं पुनर्लब्धविजयं पुत्रं दृष्ट्वा [न] प्रमोद्यत इति । योगावचरः सर्वसत्त्वान् समृद्धिलाभिनो दृष्ट्वा स्वाभेदतः प्रमुदितचित्तो भवति । इयं मुदितेत्युच्यते । अतो ज्ञायते मैत्रीचित्तविशेषः करुणा मुदिता चेति ।

(पृ) कस्योपेक्षया उपेक्षा । (उ) शत्रुं मित्रञ्च पश्यतो मैत्रचित्तं न सममस्ति । मित्रे ऽधिकम् । उदासीने न तुल्यम् । शत्रौ तु अल्पम् । तथा करुणा मुदितापि । अतो योगावचरो मित्रे मैत्रमुपेक्ष्य शत्रौ शात्रवमुपेक्ष्य चित्तसाम्यं चिकीर्षति । पश्चात् सर्वसत्त्वेषु समचित्तो भवति । तथा करुणा मुदितापि । अतः सूत्र उक्तम्- रागप्रतिघप्रहाणायोपेक्षां भावय इति । (पृ) तथा चेत् न पृथगस्त्युपेक्षाचित्तम् । चित्तसाम्यमात्रमुपेक्षां भवति । (उ) पूर्वमेवोक्तं मया मैत्रचित्तविशेषाः करुणामुदितादय इति । मैत्रचित्तञ्चोत्तमाधममध्यधर्मैस्त्रिविधम् । त्रयाणामेषां समभाव उपेक्षा । यथा वदन्ति उत्तममैत्रचित्तेन त्रीणि ध्यानानि भावयतीति ।

(पृ) केनोपायेन तन्मैत्रचित्तं प्रतिलभते । (उ) उत्तरत्न वक्ष्यन्ते प्रतिघस्यादीनवाः । तानादीनवान् प्रज्ञाय मैत्रचित्तं भावयति । मैत्रचित्तस्य हितगुणञ्च पश्यति । यथोक्तं सूत्रे मैत्रचेतोविहारी सुखं स्वपिति । सुखंप्रतिपद्यते । न पापकं स्वप्नं पश्यति । देवता रक्षन्ति । मनुष्याणां प्रियो भवति । [अमनुष्याणां प्रियो भवति ।] नास्मै अग्निर्वा विषं वा शस्त्रं वा क्रमते । [उत्तरमप्रतिविध्यन् ब्रह्मलोकोपगो भवति] इति । इमान्यानिशंसानि श्रुत्वा भावयति । योगावचरो ऽनुस्मरति- अहं व्यापादमुत्पाद्य अहमेव विपाकमनुभवामि नान्य इति । अतो व्यापादमकृत्वा मैत्रचित्तं भावयति । किञ्च योगावचरो मनसि करोति अहमल्पकेन पापकेन अन्यस्य कृतेन बहूनि पापकानि तच्छतगुणानि तदभिन्नान्यनुभवामि । अतः पापकानि परिवर्जयेदिति । उक्तञ्च सूत्रे- पञ्च द्वेषप्रहाणकारणानि सदानुस्मर्तव्यानीति । व्यापादश्च योगावचरस्य नालं भवति । अष्ट कुशलानिंशसानि पूर्वमनुस्मरेत् । पापकानि वर्जयतो व्यापादः शाम्यति । पुरुषस्य पूर्वाध्वनि माता वा स्यात्, गर्भिणी प्रसवित्री च मदर्थः दुःखं व्यवस्यमाना स्यात् । अथ वा स्यात् मम पिता भ्राता भार्या पुत्रो वा । कथं द्वेष्टव्यम् । इति । अनुस्मरेच्चागामिन्यध्वनि मम पिता माता भ्राता वा भवेत् इति । अर्हन् प्रत्येकबुद्धो बुद्धो वा भवेदिति [अनुस्मरणं] कुर्यात् । कथं द्वेष्टव्यम् । दुर्जनान् दृष्ट्वा पापकमाचरन् उभयोरध्वनोर्दुःखं वेदयते । अतो न द्वेष्टव्यम् । पूर्वञ्च निभृतं पश्येत् जनस्य स्वभावः कुशलो ऽकुशल इति । यदि दुर्जनो मम [अकुशल]मादधाति, कस्मादहं द्विषामि । यथाग्निना दग्धो ना[ग्निं]द्विषेत् । क्लेशोपहतः पिशाचपीडित इव न स्वातन्त्र्यभाग्भवति । इति पूर्वं पश्यन् किमर्थं द्विषति । येन प्रत्ययेन क्षान्तिं भावयति । तं धर्ममनुस्मरेत् । तदा व्यापादः शाम्यति, मैत्रचित्तञ्च वर्धते । क्षान्तिगुणो योगावचरो ऽनुविचिन्तयति- अहं यदि परं द्विषामि । तदा पृथग्जनस्य ग्रामीणस्य तस्य [मम] च नास्ति भेदः । अतः क्षन्तव्यमिति । यथाह भगवान् गाथाम्-

सुविनीतो यथा हस्ती सहते शरमस्त्रकम् तथा चाहमपीहैव तितिक्षे सर्वपापकम् ॥ इति ।

अपि चाह गाथाम्-

अश्लीलमपवादञ्च विगर्हां प्रतिघं तथा । न क्षमेताधमः सत्त्वः शिलवृष्टिं यथा खगः ॥

अश्लीलमपवादञ्च विगर्हीं प्रतिघं तथा । क्षमेत हि माहसत्त्वः पुष्पवृष्टिं यथा गजः ॥ इति ।

अतः क्षन्तव्यम् । तदकुशलं गुणः परिणमते । अकुशलेभ्यो गुणसंसिद्धेः । योगावचर इमे सत्त्वा मूढा अविज्ञा बालसमाना न विद्वेष्या इति प्रजानाति । इत्यनेनोपायेन मैत्रचित्तं भावयति ।

(पृ) कथं करुणां भावयति । (उ) योगावचरो ऽल्पसुखिनो दुःखबहुलान् दृष्ट्वा करुणायते । कथमहं दुःखिनि सत्त्वे पुनर्दुःखमाअध्याम् इति । अत्यन्तसुखासक्तान् दृष्ट्वा च चिन्तयति- कथमहं परप्रणिहितं हापयेयमिति । अतः करुणायते । दुःखिनं सत्त्वं दृष्ट्वा दृष्टधर्मे दुःखित्वात् दुःखी भवति । सुखिनं सत्त्वं दृष्ट्वा अनित्य[सुख]त्वात् दुःखी भवति । अतः सर्वे सत्त्वा दुःखभागिन आदावन्ते वा न विमुक्तिलाभिन इत्यनेन प्रत्ययेन करुणायते ।

(पृ) कथं मुदितां भावयति । (उ) योगावचरः परहितेर्ष्यालुता पृथग्जनलक्षणमिति दृष्ट्वा मुदितां भावयति । चिन्तयति चैवम्- सत्त्वानां सुखमुत्पादयेयमिति । [यदि] परः स्वयं लभते । तदा स मां सत्करोति । अतो मुदितामुत्पादयेत् । तदेर्ष्यादृष्टिर्वृथा नास्ति किमपि हितम् । न परमुपहन्ति । प्रत्युतात्मानमेव हिंसति । यथोक्तञ्च सूत्रे- ईर्ष्या संयोजना इति । तत्संयोजनपरिजिहीर्षया मुदितामुत्पादयति ।

(पृ) कथमुपेक्षां चरति । (उ) विषमचित्ते दोषं दृष्ट्वा चित्तसाम्यचिकीर्षया उपेक्षां चरति । योगावचरो रागप्रतिघचित्ते दोषदर्शनादुपेक्षाचर्यां भावयति ।

(पृ) इदमप्रमाणचित्तं कस्यां भूमौ वर्तते । (उ) त्रिषु धातुषु वर्तते । (पृ) आभिधर्मिकाः केचिदाहुः- तृतीयध्यानादूर्ध्वं नास्ति सौमनस्येन्द्रियम् इति । कथमिदम् । (sss_393) (उ) नाहं वदामि मुदितचित्तं सौमनस्येन्द्रियस्वभावमिति । किन्तु परहिते ऽकलुषमुदितचित्तता मुदितेत्युच्यते । चत्वारीमान्यप्रमाणानि प्रज्ञास्वभावानि ।

(पृ) कथमारूप्यधातौ चत्वार्यप्रमाणानि भवन्ति । रूपलक्षणेन हि सत्त्वो विकल्प्यते । तत्र रूपणे रूपलक्षणं कथं भवेत् । (उ) अरूपसत्त्वा अपि विकल्पनीयाः । यथोक्तंसूत्रे- सरूपारूप्यादिषु कुर्यादिति । किञ्चोक्तंसूत्रे- शुभविपाकप्रतिलाभपरमां मैत्रचेतोविमुक्तिं भावयति । आकाशानन्त्यायतनप्रतिलाभपरमां करुणा[चेतोविमुक्तिं] भावयति । विज्ञानानन्त्यायतनप्रतिलाभपरमां मुदिता[चेतोविमुक्तिं]भावयति । आकिञ्चन्यायतनप्रतिलाभपरमामुपेक्षा[चेतोविमुक्तिं]भावयति । इति । अतो ज्ञायते आरूप्ये ऽपि सन्त्यप्रमाणानीति । (पृ) एकैकस्यां भूमावेकमप्रमाणमस्ति । किं नैवसंज्ञानासंज्ञायतने किमपि नास्ति । (उ) सर्वेष्वप्यायतनेषु सर्वाणि सन्ति । अत्यधिमैत्रीभावनया परं शुभायतनमुत्पद्यते । कर्मणां सरूपविपाकजनकत्वात् । यः सत्त्वानां सुखाकांक्षी स सुखविपाकं लभते । तथा करुणापि । कायाधीनतया भूयसा दुःखानां समुदयः । आकाशे च रूपं नास्तीत्यतो विज्ञानानन्त्यायतनचित्तस्यालम्बने परमसुखविहारित्वात् । आकिञ्चन्यायतनपरमा उपेक्षेति । योगावचरः संज्ञापरिक्लान्तत्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति । नैवसंज्ञानासंज्ञायतने ऽपि अप्रमाणमस्ति । अतिसूक्ष्मात्वान्नोपलभ्यत इति नोच्यते । सर्वेष्वप्यायतनेषु सर्वमस्ति इति बाहुल्यवशात् उच्यते । शुभे मैत्र्यांः परमाधिक्यात् इत्येवमादि । ध्यानसमाधिषु चत्वार्यप्रमाणचित्तानि विपाकवेदनाप्रधानानि सत्त्वालम्बनत्वात् ।

(पृ) आभिधर्मिका आहुः- चत्वार्यप्रमाणानि कामधातुकसत्त्वमात्रालम्बना नीति । तत्कथम् । (उ) कस्मान्नान्यसत्त्वालम्बनानि तानि । वक्तव्यो ऽत्र हेतुः । भगवानप्रमाणसूत्र आह- इह भिक्षुर्मैत्रसहगतेन चेतसा एकां दिशं[स्फुरित्वा विहरति । तथा] द्वितीयां तथा तृतीयां चतुर्थी इत्यूर्ध्वमधस्तिर्यक्[सर्वदा सर्वत्रतायै] सर्वावन्तं लोकं [मैत्रसहगतेन चेतसा] स्फुरित्वा विहरति इति । रूपारूप्यकधातुकसत्त्वा अनित्या भङ्गुरा दुर्गति गामिन इत्यस्ति हेतुः ।

(पृ) आभिधर्मिका आहुः- कामधातुगतो योगावचर एवाप्रमाणान्युपसम्पद्य विहरतीति । कथमिदम् । (उ) सर्वायतनजाताः सर्व उपसम्पद्य विहरन्ति । (पृ) यदि तन्न जाता अपि उपसम्पद्य विहरन्ति । तदा न पुण्यं क्षीयेत । तत्र नित्यमुत्पद्येरन् । (उ) यथा तत्र ध्यानादीन् कुशलधर्मानुसम्पद्य विहरन्तो ऽपि[ततो]निवर्तन्ते । तथा मैत्रादीनपि (पृ) यद्ययं न्यायः । कस्मान्न क्षिप्रं निवर्तन्ते । (उ) अस्तीदृशं कर्म सत्यपि निवृत्तिहेतौ न निवर्तन्ते । यथा काम[धातुक]देवादयः सत्यपि कुशलकर्मणि दुर्गतावुपपद्यन्ते । तथेदमपि ॥

(पृ) मैत्रसमाधिविहारिणं कस्मान्न विषंशस्त्रमग्निर्वा क्रमते । (उ) कुशलपुण्यघनगभीरमकुशलानि नाधितिष्ठन्ति देवैः सुरक्षितत्वात् । (पृ) सूत्रमाह- मैत्रसहगतं स्मृतिसम्बोध्यङ्गं भावयति इति । सास्रवानास्रवयोः कथं सहभावना । (उ) मैत्री[स्मृति]सम्बोध्यङ्गेनानुगता भवति । यथोक्तं सूत्रे- यदि कश्चिदेकाग्रचित्तेन धर्मं शृणोति । तदा पञ्चनीवरणानि प्रहाय सप्तसम्बोध्यङ्गानि भावयति । धर्माश्रवणे ऽपि सम्बोध्यङ्गानि भावयति । इति । किञ्चोक्तं सूत्रे- भावयथ भिक्षवो मैत्रचित्तम्, प्रतिजानामि अनागामिफलं प्राप्स्यथेति । मैत्रचित्तं यद्यपि न संयोजनं हापयति । [तथापि]पूर्वमेव मैत्रचित्तेन पुण्यगुणज्ञानहितसञ्चयादार्यमार्गप्रज्ञां लब्ध्वा संयोजनानि प्रजहाति । अत उच्यते मैत्री भावनया अनागामिफलं लभत इति । मैत्री भावनया सम्बोध्यङ्गमप्येवम् ।

(पृ) अर्हन् प्रहीणसत्त्वसंज्ञः । कथमप्रमाणानि भावयति । (उ) अर्हन् मैत्रचित्तमुपसम्पद्य विहरन्नपि नमैत्रकर्मसिद्धिं सञ्चिनोति । उपपत्तिवेदनाभावात् । (पृ) बुद्धानां भगवतां महाकरुणा कथम् । (उ) बुद्धानां भगवतां नैव मीमांसाज्ञानमस्ति । धर्माणामत्यन्तशून्यतां प्रजानन्तो ऽपि पृथग्जनेषु गभीरं महाकरुणामाचरन्ति ।

(पृ) करुणाया महाकरुणायाश्च को भेदः । (उ) कृपाचित्तमात्रं करुणा । क्रियां साधयतीति महाकरुणा । कस्मात् । बोधिसत्त्वः सत्त्वानां दुःखं दृष्ट्वा तत्क्षयाय वीर्यमारभते । अप्रमाणकल्पेषु भावनासाध्यत्वान्महाकरुणेत्युच्यते । आज्ञेन्द्रियेण सत्त्वानां (sss_395) दुःखं दृष्ट्वा [तत्] अपनेष्यामीति नियमेन चित्तोद्धापनं महाकरुणा । उपकारबहुलेति महाकरुणा । अप्रतिहतेति महाकरुणा । कुतः । करुणाचित्तं हि परस्य पापकं स्मृत्वा प्रतिघातमुत्पादयेत् । महाकरुणा तु नानाविधपरमपापकेष्वपि अप्रतिहतगतिर्भवति । करुणाचित्तं कदाचित् घनं, कदाचित् तनीयः, न समं भवति । सर्वत्र समेति महाकरुणा । आत्मनो हितं त्यक्त्वा परस्य हितमात्रमाकांक्षत इति महाकरुणा । करुणा तु नैवमित्ययं भेदः । बुद्धे मैत्र्यादि महदित्युच्यते । करुणा तु [कदाचित्] दुःखाकांक्षिणीति केवलेत्युच्यते ॥

चतुरप्रमाणसमाधिवर्ग एकोनषष्टुत्तरशततमः ।

160 पञ्चाङ्गार्यसमाधिवर्गः

उक्तं हि सूत्रे- पञ्चाङ्ग[भूता] आर्यसमाधयः यदुत प्रीतिः सुखं चित्तविशुद्धिः प्रकाशलक्षणं भावनालक्षणमिति । प्रीतिः प्रथमद्वितीयध्यानयोः । प्रीतिलक्षणं सममिति एकाङ्गमुच्यते । तृतीयध्याने प्रीतिविरहात् सुखं पृथगेकमङ्गमुच्यते । चतुर्थध्याने चित्तविशुद्धिस्तृतीयमङ्गमुच्यते । इमानि त्रीण्यङ्गान्याश्रित्योत्पद्यते प्रकाशभावनालक्षणम् । प्रकाशलक्षणं भावनालक्षणस्य हेतुं कृत्वा पञ्चस्कन्धान् परिभेदयति । पञ्चस्कन्धानां शून्यताभावनं भावनालक्षणमित्युच्यते । निर्वाणगामित्वादार्यम् ।

(पृ) सूत्र उक्तम्- पञ्च आर्यसमाधिज्ञानानि । कतमानि इमानि । (उ) भगवान् स्वयमाह- योगी चिन्तयति ममायं समाधिरार्यो निरामिष इति प्रथमज्ञानमुत्पद्यते । (sss_396) समाधिरयमकापुरुषसेवित इति द्वितीयज्ञानमुत्पद्यते । समाधिरयं शान्तः प्रणीतः प्रीतिप्रश्रब्धिलब्ध इति तृतीयज्ञानमुत्पद्यते । अयं समाधिः प्रत्युत्पन्नसुख आयत्याञ्च सुखविपाक इति चतुर्थज्ञानमुत्पद्यते । स खलु पुनरहमिमं समाधिं स्मृत एव समापद्ये स्मृत एव व्युत्तिष्ठामीति पञ्चमं ज्ञानमुत्पद्यते । इति । अनेन समाधावपि ज्ञानमस्तीति भगवान् प्रकाशयति । चित्तधारणा परं नास्ति । समाधिं भावयतो यदि क्लेशा भवन्ति । [तदा तान्] तत्रोत्पन्नं ज्ञानमपनयति । समाधिं कृत्वा आर्यं निरामिषं छन्दयामीतीदं प्रथमज्ञानमुच्यते । आर्यो निरामिषो यदुताकापुरुषसेवित इत्ययं पण्डितप्रगीतः । अकापुरुषा यदार्यजनाः । ज्ञानलाभित्वात्कापुरुषा न भवन्ति । [यत्] ज्ञानं प्रज्ञप्तिं भिनत्ति । इदं द्वितीयज्ञानमित्युच्यते । रागादिक्लेशानामल्पीयसां निरोधात् शान्तम् । शान्तत्वात् प्रणीतम् । क्लेशादीनां विसंयोगाल्लब्धं विसंयोगलब्धमित्युच्यते । अयं वीतरागमार्गः- इदं तृतीयज्ञानं भवति । क्लेशप्रहाणसाक्षात्कारात् क्षेमं शान्तं लभते । तापविनिर्मुक्तं सुखं प्रत्युत्पन्नसुखमायतीसुखम्, प्रत्युत्पन्नं सुखं क्लेशविनिर्मुक्तं सुखम् । आयत्यां सुखं यन्निर्वाणसुखम् । इदं चतुर्थज्ञानं भवति । योगी नित्यमनिमित्तचित्तो विहरति । अतो नित्यं स्मृतो व्युत्तिष्ठति स्मृतः समाधिमुसम्पद्यते । इदं पञ्चमं ज्ञानं भवति । तस्माद्यदि पञ्चमज्ञानमिदं नोत्पन्नं, उत्पादयितव्यम् । यद्युत्पन्नं समाधिफलं लब्धमेव ॥

पञ्चाङ्गार्यसमाधिवर्गः षष्ट्युत्तरशततमः ।

161 षट्समाधिवर्गः

(पृ) उक्तं सूत्रे- समाधयः षट् अष्ट्येकलक्षणभावना एकलक्षणत्वाय संवर्तते । अस्त्येकलक्षणभावना नानालक्षणत्वाय संवर्तते । अस्त्येकलक्षणभावना एकलक्षणनानालक्षणत्वाय संवर्तते । एवं नानालक्षणभावनापि । कतमानीमानि । (उ) एकलक्षणमितीदं ध्यानसमाधिः स्यात् । ध्यानसमाधेरेकालम्बन एकाग्रताविहरणात् । नानालक्षणमितीदं ज्ञानदर्शनं भवेत् । धर्माणां नानास्वभावस्य [परि]ज्ञानात् । पञ्चस्कन्धादिधर्माणामुपायत्वात् । (पृ) कथमेकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति । (उ) यत् कश्चित् समाधिमुपादाय पुनः समाधिमुत्पादयति । एकलक्षणा नानालक्षत्वाय संवर्तत इति (sss_397) यदि कश्चित् समाधिमुपादाय ज्ञानदर्शनमुत्पादयति । एकलक्षणा भावना एकलक्षणनानालक्षणत्वाय संवर्तत इति यदि कश्चित् समाधिमुपादाय ध्यानसमाधिं पञ्चस्कन्धोपाय ञ्चोत्पादयति । एवं नानालक्षणभावनापि ।

(पृ) केचिदार्मिधर्मिका आहुः- एकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति यदि कश्चित् चतुर्थध्यानमुपादाय अर्हत्फलं साक्षात्करोति तत् । एकलक्षणा भावना नानालक्षणाय संवर्तत इति यत् कश्चित् चतुर्थध्यानमुपादाय पञ्चाभिज्ञाः साक्षात्करोति तत् । एकलक्षणा भावना एकलक्षणनानालक्षणाय संवर्तत इति यत् कश्चित् चतुर्थं ध्यानमुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति तत् । नानालक्षणा भावना नानालक्षणाय संवर्तत इति यत् कश्चित् पञ्चाङ्गभूतसमाधीनुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति । तथा अन्यौ द्वावपि । कथमिदम् । (उ) [अत्र] हेतुर्वक्तव्यः । कस्मात् चतुर्थध्यानमर्हत्फलञ्चैकलक्षणम् । पञ्चाङ्ग[भूत]समाधिः पञ्चाभिज्ञाश्च नानालक्षणा इति । पञ्चाङ्गानि नाश्रीयन्ते । पञ्चाङ्गसमाधिश्चतुर्णां ध्यानानां प्रकाशलक्षणो भावनालक्षणः । कथं तान्याश्रित्य अर्हत्फलं लभते । कस्मात् । अवश्यं ध्यानमेकमाश्रित्य अर्हत्फलं लभते । किञ्च प्रकाशलक्षणमाश्रित्यापि अर्हत्फलं लभेत । तस्मान्नास्ति [हेतुः] । केचिदाहुः- षड्विधाः समाधिसमापत्तयः आनुलोमिकसमापत्तिः, प्रातिलोमिकसमापत्तिः आनुलोमिकप्रातिलोमिकसमापत्तिः आनुलोमिकव्युत्क्रान्तिः प्रातिलोमिकव्युत्क्रान्तिः आनुलोमिकप्रातिलोमिकव्युत्क्रान्तिरिति । कथमिदम् । (उ) केचिदाभिधर्मिका आहुः योगी निरोधसमापत्तावतारमिच्छतीत्यतो ध्यानेषु समापत्ति (= प्रवेश) व्युत्थाने क्रमिके । तस्मान्न स्यात् यदि वानुलोम्येन यदि वा प्रातिलोम्येन यदि वानुलोम्यप्रातिलोम्येन व्युत्क्रमादिः । पञ्चसमापत्तिव्युत्थानैः किं हितं लभते । योगी निरोधसमापत्तिं प्रापयितुरवश्यं क्रमशो ऽवतरेत् क्रमशश्च व्युत्तिष्ठेत् । यद्युत्तमभूमिभाक् कस्मात्पुनरधो भूमिमवतरति । अधोभूमिः कण्टकभूता । यथा न कश्चित्पुनर्बालक्रीडायामभिरमते । यथा च विदग्धो जनो न पुनरभिरमते मूढे । तथेदमपि स्यात् ।

यदुक्तं व्युत्क्रामतीति । इदमयुक्तम् । सूत्रे केवलमुक्तं क्रमिका ध्यानसमाधीनां (sss_398) समापत्तय इति । यदि योगी व्युत्क्रामति आतृतीयम् । कस्मान्न व्युत्क्रामति आचतुर्थपञ्चमम् । बलानुभावसदृशमिदमिति यदि मतम् । यथा कश्चित् श्रेणिमारुह्य एकं सोपानं व्युत्क्रमेत् न द्वौ । दृष्टान्तो ऽयमपि नैकान्तिकः । महाबलिष्ठः कश्चित् चत्वारि सोपानान्यपि व्युत्क्रमेत् । शतं पक्रमान् प्रक्रममाणो ऽपि कश्चिदस्ति । अतो न युज्यते । सूत्रे यद्यप्युक्तं भगवता निर्वाणं समापद्यमानो ऽनुलोमप्रतिलोमं व्युत्क्रम्य ध्यानसमाधीन् समापद्यत इति । सूत्रमिदं सम्यगर्थविरुद्धम् । न श्रेद्धेयम् । सत्यपि वचने ऽस्मिन् नायमर्थो युक्तः । कस्मात् । यदि योगिनो निरोधसमापत्तावतारं वदति तदानुलोम्येन समापत्तिः स्यात् नैकक्षणे पञ्चधा । योगी यदि साक्षान्निरोधसमापत्त्यवतारमिच्छति तदा नैकक्षणे स्यात् । यदि ध्यानसमाधिषु स्वचित्तं बुभुक्षति, वशित्वापरिहाणित्वात् अनुलोमप्रतिलोमं व्युत्तिष्ठति समापद्यते व्युत्क्रामति च । यथा कश्चिदश्वमारूढो यदि प्रतिबलरुद्धः, तदा नावश्यं प्रतिनिवर्तते । यदि दमनं निषेवितुमिच्छति । तदा रहसि [करोति] ।

यदुक्तम्- अधोभूमिः कण्टक[भूता] । न [तत्र] समापद्येतेति । अधोभूमेर जयात् पुनः समापद्यते । योगिगोचरमार्गत्वात् । यदुक्तं यथा न कश्चित् बालक्रीडायामभिरमत इति । [तत्र] निदानं कदाचिद्बालक्रीडात्मकं भवति । यथा कश्चिद्वृद्धो नटः सर्वदा नृत्यति न तृप्तो भवति । शिक्षणार्थत्वात् । एवमार्यः अनुलोमप्रतिलोमं ध्यानेषु व्युत्तिष्ठति समापद्यते व्युत्क्रामति च देवमनुष्याणां प्रदर्शनकामित्वात् महर्षीणां समाधिषु वशिताबलाच्च । भगवान् परिनिर्वाणगमनकाले परमप्रणीतध्यानसमाधिभिर्वासितशरीरत्वात् स्वतन्त्रं समापद्यत व्युदतिष्ठत् अनुलोमं प्रतिलोमं व्युदक्रामीत् । अनुपधिशेषनिर्वाणगतं भगवन्तं पश्यन् सर्वेभ्यो ऽकुशलसंस्कारेभ्यो निर्विद्येत । अतो भगवानस्मिन् धर्मे ऽद्भुतं प्रेमाविश्चकार ।

इदं सूत्रं सम्यगर्थविरुद्धमिति यत् भवानवोचत् । तदिदमयुक्तम् । यत् भवतोक्तं कस्मान्न व्युत्क्रामति यावच्चतुर्थमिति । [तत्] बोधिसत्त्वपिटक उक्तं व्युक्त्रान्तिलक्षणम्- प्रथमध्यानात् व्युत्क्रम्य निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्क्रम्य यावद्विक्षिप्तचित्तमवतरति इति । चित्तबल महिम्ना एवं शन्कोति ॥

षट्समाधिवर्ग एकषष्टयुत्तरशततमः ।

162 सप्तसमाधिवर्गः

शास्त्रमाह- सप्त निश्रयाः प्रथमं ध्यानं निश्रित्यास्रवक्षयं लभते । यवदाकिञ्चन्यायतनं निश्रित्यास्रवक्षयं लभत इति । निश्रयो नाम यत् सप्तध्यानान्युपादायार्यज्ञानं प्रतिलभते । यथोक्तम्- समाहितस्य यथाभूतज्ञानमुत्पद्यत इति । प्रतिलब्धध्यानसमाधिमात्रं कञ्चन सम्पन्नं वदति । अतो भगवानाह- नायं सम्पन्न इति । समाधिमिमं निश्रित्य आस्रवाणां क्षयाख्यं विशिष्टं धर्मं प्रार्थयीत । अत उच्यते निश्रय इति ।

(पृ) कथमिमान् ध्यानसमाधीन् निश्रित्यास्रवाणां क्षयं लभते । (उ) भगवानाह- योगी येनाकारेण येनालम्बनेन प्रथमं ध्यानं समापद्यते स योगी तदाकारं तदालम्बनं न पुनः स्मरति । किन्तु पश्यति प्रथमध्याने यद्रूपाणि यदि वा वेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतः शल्यतो ऽघतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतः । एवं पश्यतश्चित्तमास्रवेभ्यो विमोक्षाय निर्विद्यते । यावदाकिञ्चन्यायतनमप्येवम् । परन्तु त्रीण्याकाशानन्त्यायतना[दी]नि आरूप्यदर्शनीयानि । योगी कामधातुमोहितः प्रथमं ध्यानं निर्वाणमिति पश्यति । तत्तु पश्चाल्लभते । अतो भगवानाह- मा मन्यध्वं निर्वाणसुखलक्षणमिति । किन्तु पश्यत प्रथमध्याने पञ्चस्कन्धानामष्टादीनवान् इति । तथा निश्रयान्तरेष्वपि ।

(पृ) कामधातुः कस्मान्न निश्रय इत्युच्यते । (उ) उक्तं हि सुसीमसूत्रे- अतिक्रम्य सप्त निश्रयान् अस्ति आर्यमार्गप्रतिलम्भनम् इति । अतो ज्ञायते कामधातुरप्यस्तीति ।

(पृ) केचिदाहुः- प्रथमध्यानसामन्तकमप्राप्तभूमिं निश्रित्य [अपि] अर्हत्फलं लभत इति । कथमिदम् । (उ) मैवम् । यद्यप्राप्ता भूमिर्निश्रयो भवति । तदास्ति (sss_400) दोषः । यद्यप्राप्तां भूमिं लब्धुं शक्नोति । कस्मान्न प्रथमं ध्यानं समापद्यते । अतो न युक्तमिदम् । (पृ) नैवसंज्ञानासंज्ञायतनं कस्मान्न निश्रय इत्युच्यते । (उ) न तत्रास्ति संज्ञानम् । समाधौ भूयसा प्रज्ञाल्पीयसी । अतो नोच्यते [स] निश्रयो भवतीति । सप्तसंज्ञासमाधयस्तु सप्त निश्रया भवन्ति । कस्मादाह भगवान् सप्तनिश्रयाः सप्त संज्ञासमाधय इति । (उ) तीर्थिका अतत्त्वज्ञत्वात् संज्ञामात्रमाश्रयन्ते । सर्वे निश्र्याः संज्ञाकलुषिता न विमोक्षाय भवन्ति इत्यतः संज्ञासमाधिरित्याख्या । आर्यास्तु संज्ञां भङ्क्त्वा समाधिमिमं निश्रित्य आस्रवाणां क्षयमुपाददते । अतो निश्रय इत्याख्या । यथोक्तं योगी धर्मानिमान् पश्यति रोगतो गण्डत इति । नैवसंज्ञानासंज्ञायतनमपि संज्ञया असंज्ञानान्न संज्ञासमाधिरित्युच्यते ।

सप्तसमाधिवर्गो द्विषष्टयुत्तरशततमः ।

163 अष्टविमोक्षवर्गः

शास्त्रमाह- सूत्र उक्तं- अष्टौ विमोक्षाः- अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति इति प्रथमो विमोक्षः । योगावचरो ऽनेन विमोक्षेण रूपाण्यभिभावयति । केनेदं ज्ञायते । द्वितीयविमोक्षे ह्युक्तम्- अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि इति । अध्यात्मरूपपरिभेदनादाह- आध्यात्ममरूपसंज्ञीति । अतो ज्ञायते योगावचरः प्रथमविमोक्षे क्रमेण कायरूपमभिभवतीति । द्वितीयविमोक्षं प्राप्य तत्र रूपमभिभूतमेव । बाह्यरूपमात्रमस्ति । तृतीयविमोक्षे बाह्यरूपमप्यभिभूतम् । अतो न पश्यति अध्यात्मं बहिर्धा रूपञ्च । इदं रूपशून्यमित्याख्यायते । यथोक्तं पारायणसूत्रे-

रूपलक्षणविध्वंसी सर्वान् कामान् जहाति च । अन्तर्बहिश्च नो पश्यन् अहं पृच्छामि वस्त्विदम् ॥ इति ।

[अत ऊर्ध्वं] चतुर्षु विमोक्षेषु चित्तं विज्ञानशून्यमित्याह । यथोक्तं षड्धातुसूत्रे- यो भिक्षवः पञ्चसु धातुषु अत्यन्तनिर्विण्णः, [तस्य] अन्यत् ज्ञानमात्रमस्ति इति । (sss_401) ज्ञातव्यं चतुर्षु विमोक्षेषु विज्ञानान्यनुभवतीति । अष्टमविमोक्षे सर्वेषां क्षयः । कस्मात् रूपनिरोधे चित्तनिरोधे संस्कृतानामात्यन्तिकनिरोधः । इदमेवार्हत्फलमित्युच्यते । एवं क्रमेण क्षयभाक् भवति । इमे ऽष्टविमोक्षाः ।

कश्चिदाह- प्रथमौ द्वौ विमोक्षावविशुद्धौ । तृतीयस्तु विशुद्ध इति । नेदं युज्यते । कस्मात् अयं विमोक्ष इति नास्ति [यत्किञ्चित् । यस्य] अविशुद्धभावनया विमोक्षं लभते । विशुद्धभावनयापि नास्ति विमोक्षः । केवलं शून्यभावनया विमोक्षं लभते । तीर्थिका विशुद्धाविशुद्धभावनां भजन्तेन विमोक्षभागिन इत्याख्यायन्ते ।

(पृ) तीर्थिका अपि रूपलक्षणं विनाश(य)न्ति । कथमिदम् । (उ) तीर्थिका विमोक्षाधिमुक्त्या रूपलक्षणं विनाशयन्ति न तु शून्यभावनया । कस्मात् । यथाभावनाधिमुक्तिप्रयोगं मृतपरित्यक्तं कायं श्माशानिककृमयो भक्षयन्ति इत्यादि पश्यन्ति । (पृ) तीर्ति(र्थि)का रूपविनिर्मुक्तमारूप्यसमाधिं विन्दन्ते । [तेषां] आरूप्यविमोक्षो भवेत् । (उ) तीर्थिकानां सत्यपि आरूप्यसमाधौ [तत्र] आसङ्गान्न[स]विमोक्ष इत्युच्यते । आर्याः पुनरारूप्यसमाधिमुपादाय चतुरः स्कन्धान् रोगत इत्याद्यष्टभिराकारैः पश्यन्ति । अतो विमोक्ष इत्युच्यते ।

(पृ) भवानवोचत्- निरोधसमापत्तिरर्हत्फलमिति । इदमयुक्तम् । कस्मात् । शैक्षा अपि अष्टविमोक्षभाज उच्यन्ते । निरोधसमापत्तिरास्रवक्षयात्मिकेति भवतोक्तम् । तथा च शैक्षा आस्रवक्षयभाजः स्युः । (उ) सूत्रे सामान्यलक्षणेन निरोध उक्तः । न तु विविच्य अयं चित्तनिरोधः अयं क्लेशक्षय इति । यथोक्तं सूत्रे- निरोधो द्विविधः [क्षय]निरोधः अनुपूर्वनिरोध इति । द्विविधं निर्वाणं दृष्टधर्मनिर्वाणम् आत्यन्तिकनिर्वाणमिति । किञ्चाह क्षेमो द्विविधः- [अवर]क्षेमः परमक्षेम इति । क्षेमलाभो ऽपि द्विविधः [अवर]क्षेमलाभः परमक्षेमलाभ इति । अतः शैक्षजनानां प्रतिलब्धो न पारमाथिकनिरोधः । किञ्चोक्तं (sss_402) सूत्रे निरोधसमापत्तिमुपसम्पन्नो भिक्षुः कृतकरणीय इति । यदि निरोधसमापत्तिर्नार्हत्फलम्, तदा कृतकरणीय इति नाभिदध्यात् ।

(पृ) किं शैक्षा वस्तुतो नाष्टविमोक्षान् लभन्ते । (उ) सूत्र उक्तं शैक्षो नवानुपूर्वसमाधीन् लभत इति । न तूक्तं क्षयनिरोधं प्रतिलभत इति । योगावचरो यदि क्षयनिरोधं प्रतिलब्ध्वा न ध्यानसमाधीन् समापद्यते । अयं प्रज्ञाविमुक्त इत्युच्यते । यदि ध्यानसमाधीन् समापद्यते न क्षयनिरोधं लभते । [तदा] कायसाक्षीत्युच्यते । यद्युभयं लभते । तदा उभयतो विमुक्त इत्युच्यते । कस्मात् । क्लेशा एको भागः । ध्यानसमाध्यावरणधर्मा अपरो भागः । उभाभ्यां भागाभ्यां विमुक्त उभयतो[भाग]विमुक्त इत्युच्यते । (पृ) अनुपूर्व[विहारे]षु निरोधो विमोक्षेषु निरोधश्च किं नाना । (उ) व्यञ्जनमेकम् । अर्थस्तु नाना । अनुपूर्वेषु निरोधश्चित्तचैत्तानां निरोधः । विमोक्षेषु निरोधः क्लेशानां निरोधः । यथोक्तं सूत्रे- संस्काराणामनुपूर्वनिरोधः । तथाहि- प्रथमध्यानं समापन्नस्य वाक् निरुध्यते । द्वितीयध्यानं समापन्नस्य वितर्कविचारा निरुद्धा भवन्ति । तृतीयध्यानं समापन्नस्य प्रीतिर्निरुध्यते । चतुर्थध्यानं समापन्नस्य सुखं निरुध्यते । आकाशानन्त्यायतनं समापन्नस्य रुपसंज्ञा निरुद्धा भवति । विज्ञानानन्त्यायतनं समापन्नस्य आकाशानन्त्यायतनसंज्ञा निरुद्धा भवति । आकिञ्चन्यायतनं समापन्नस्य विज्ञानानन्त्यायतनसंज्ञा निरुद्धा भवति । नैवसंज्ञानासंज्ञायतनं समापन्नस्य आकिञ्च न्यायतनसंज्ञा निरुद्धा भवति । निरोधसमापत्तिं समापन्नस्य संज्ञा च वेदना च निरुद्धा भवति । इति । एषु निरोधेषु निरोधो विशिष्टो यदुत योगावचरो रागद्वेषमोहेभ्यो निर्विण्णो विमुच्यते ।

(पृ) कथं ज्ञायते अनुपूर्वेषु चित्तचैत्तानां निरोधः विमोक्षेषु क्लेशानां निरोध इति । (उ) निरोधस्तुल्यार्थो ऽपि मेदवान् स्यात् । अनुपूर्वेषूच्यते संज्ञावेदयितनिरोध इति । विमोक्षेषु अविद्यावेदनास्पर्शनिरोध इति । कस्मात् । प्रज्ञप्तितो हि वेदनोत्पद्यते । प्रज्ञप्तिभेदे वेदना निरुध्यते । सूत्रेष्वस्तीदृशो विभागः । यद्याह- कण्ठतो योगावचरः (sss_403) क्षयनिरोधलाभीति । तदा [स] कृतकरणीय इति । ज्ञातव्यं निर्वाणं सक्षात्कुर्वतः सर्वे क्लेशा निरुध्यन्त इति । न त्वाह चित्तचैत्ता निरुध्यन्त इति । (पृ) यद्यष्टविमोक्षाः क्लेशनिरोधधर्मकाः । तदा सर्वे ऽर्हन्तः सर्वदा लभेरन् । (उ) सर्वे लभन्ते । न तु समापद्यन्ते । ये ध्यानसमाधीन् साक्षात्कुर्वन्ति ते समापद्यन्ते । (पृ) योगावचरस्य यदि न सन्ति ध्यानसमाधयः । कथं स कायचित्तशून्यतां लभते क्लेशांश्च क्षपयति । (उ) अयं समाधियुक्तो ऽपि न साक्षात्करोति । अस्ति पुनस्तटिदुपमसमाधिः । [इमं] समाधिमुपादाय क्लेशान् क्षपयति । यथोक्तं सूत्रे- मम भिक्षवश्चीवरमुपादित्सोः क्लेशो भवति । चीवरमुपादाय पुनः क्लेशो न भवति । इत्यादि । कस्मात् । तटिदुपमसमाधिचित्तं वज्रोपमं तत्त्वज्ञानं क्लेशान् भिनत्ति । अर्थो ऽयं भगवता तृतीयबल उक्तः यदुत ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानविभागयथाभूतज्ञानम् । तत्र ध्यानं नाम चत्वारि ध्यानानि । केचिदाहुः- चत्वारि ध्यानानि चत्वारो ऽरूपसमाधयः सर्वे ध्यानमित्युच्यन्ते । विमोक्षः अष्टविमोक्षाः । समाधिरेकक्षणतटिदुपमसमाधिः । समापत्तिः ध्यानविमोक्षसमाधिषु वशिताबललाभः यथाह- शारिपुत्रः- सप्तबोध्यङ्गेषु समापत्तिं व्युत्थानञ्च वशीकरोमि इति । अतो ज्ञायते प्रज्ञाविमुक्तस्यार्हतः सन्ति ध्यानसमाधयः । किन्तु न [तत्र] समापद्यते । अभ्यासप्रकर्षात् समापत्तिं वशीकरोति ।

(पृ) कस्मादर्हन् न ध्यानसमाधीनां प्रकृष्टमभ्यस्ता भवति । (उ) पुरुषो ऽयं प्रतिलब्धमार्गः कृतकृत्यो भवति । उपेक्षाभिनवात् न सम्यगभ्यस्यति । यद्युपेक्षाचित्तं नास्ति तदासमापत्तिं समापद्यते इति नास्ति दूषणम् । यथोक्तं सूत्रे- योगावचरश्चतुर ऋद्धिपादान् सम्यगभ्यसन् हिमवन्तं पर्वतराजं तथा धमति यथा रेणुपर्यवसन्नं भवति । किं पुनर्मरणमविद्याम् इति । अतो ज्ञायते अष्टविमोक्षेषूच्यते आस्रवक्षयनिरोधः न निरोधसमापत्तिं समापद्यत इति । उक्तञ्च सूत्रे- अस्ति विद्यास्वभावः अस्ति शून्यस्वभावः, अस्त्याकाशानन्त्यायनस्वभावः, अस्ति विज्ञानानन्त्यायत(न)स्वभावः अस्त्याकिञ्चन्यायतनस्वभावः अस्ति नैवसंज्ञासंज्ञायतनस्वभावः अस्ति निरोधस्वभावः । अविद्यामुपादायास्ति विद्यास्वभावः । (sss_404) अशून्यमुपादयास्ति शून्यस्वभावः । रूपमुपादायास्त्याकाशानन्त्यायतनस्वभावः । अकाशानन्त्यायतनस्वभावमुपादायास्ति विज्ञानानन्त्यायतनस्वभावः । विज्ञानानन्त्यायतनस्वभावमुपादायास्त्याकिञ्चन्यायतनस्वभावः । आकिञ्चन्यायतनस्वभावमुपादायास्ति नैवसंज्ञानासंज्ञायतनस्वभावः । पञ्चस्कन्धानुपादायास्ति निरोधस्वभाव इति । पञ्चस्कन्धान् प्रज्ञप्तिलक्षणान् यो न परिभेदयति तस्याविद्या भवति । यस्तान् परिभेदयति । तस्य भवति विद्यास्वभावः । यथा भगवान् एकं भिक्षुमनुशास्ति- शून्येषु सर्वसंस्कारेषु संस्कारान् शून्यान् भावयित्वा दमय स्वचित्तम् इति । यथा कश्चित्प्रदीपमादाय शून्यागारं प्रविश्य पश्यति सर्वं शून्यमिति । [तथा] योगावचरो रूपमुपादायाधिगच्छति रूपमिदं निरुद्धमिति । अयं शून्यस्वभाव इत्युच्यते । तीर्थिका आकाशानन्त्यायनमुपादाय प्रतिलभन्ते रूपाद्वियुज्यन्ते । यावन्नैवसंज्ञानासंज्ञायतनमुपादाय आकिञ्चन्यायतनात् वियुज्यन्ते ।

स्कन्धानुपादायास्ति निरोधस्वभाव इति । योगावचर[श्चिन्तयति]- यत्किञ्चनमनस्कारः यत्किञ्चनकृतकरणम् सर्वेषां निरोधः श्रेयानिति । अयं स्कन्धानुपादायास्ति निरोधस्वभाव इति ।

(पृ) इमे स्वभावाः कं समाधिं निश्रित्य प्रतिलभ्यन्ते । (उ) सूत्र उक्तम्- विद्यास्वभावो यावत् नैवसंज्ञानासंज्ञायतनस्वभावः सर्वं खयं समाधिसमापत्तिविहरणात्प्रतिलभते यदुत संस्कृतमार्गविहरणात्प्रतिलभत इति । कस्मात् । आद्यो रूपज्ञानालम्बनो विद्यास्वभावः । द्वितीयस्वभावो ऽपि रूपोपादानो रुपमुपादाय तथा विवेचयति यथा शून्यं भवति । एवं यावन्नैवसंज्ञानासंज्ञायतनस्वभावः, सर्वे संस्कृतधर्माः शून्या इति निरोधसमापत्त्या निरोधं प्रतिलभते । अत्र सर्वेषां संस्कृतधर्माणां क्षयनिरोधात् । अतो ज्ञायते अत्रोक्तो निरोधः क्षयनिरोधो निर्वाणमिति ।

(पृ) इमे विमोक्षाः कस्यां भूमौ भवन्ति । (उ) योगावचरो रूपपरिभेदेच्छया कामधातुप्रतिलब्धं समाधिं वा रूपधातुप्रतिलब्धं वा समाधिं निश्रयमाणो रूपं शून्यं प्रतिलभते । सर्वभूमिगतं चित्तञ्च शून्यं प्रतिलभते । (पृ) एषु विमोक्षेषु कति सास्रवाः कति अनास्रवाः । (उ) शून्यस्वभावत्वात् सर्वे ऽनास्रवाः ॥

अष्टविमोक्षवर्गस्त्रिषष्ट्युत्तरशततमः ।

164 अष्टाभिभ्वायतनवर्गः

अध्यात्मं रूपसंज्ञी [एको] बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि । तान्यभिभूय जानाति पश्यति । एवं संज्ञी च भवति । इदं प्रथममभिभ्वायतनम् । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति अधिमात्राणि[सुवर्णदुर्वर्णानीति विस्तरो यावत्] इदं द्वितीय[मभिभ्वायतन]म् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि [सुवर्णदुर्वर्णानीति यावत्] इदं तृतीय[मभिभ्वायतन]म् । अध्यात्ममरूपसंज्ञी बहिर्धी रूपाणि पश्यति अधिमात्राणि [सुवर्णदुर्वर्णानीति यावत्] इदं [चतुर्थमभिभ्वायतन]म् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिर्भासानि तद्यथा उमकापुष्पं[सम्पन्नं] वाराणसेयं वा वस्त्रं[नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासम् । तानि खलु रूपाण्यभिभूय जानाति पश्यति । एवंसंज्ञी च भवतीदं] पञ्चम[मभिभ्वायतन]म् । षष्ठं पीतानि पश्यति । सप्तमं- रक्तानि पश्यति । अष्टमं- अवदातानि पश्यति । योगावचर एवमप्रमाणानि रूपाणि पश्यति । कस्मात् । न केवलं सन्तीमानि नीलादीनि चत्वारि रूपाणि । संक्षिप्यकथनादष्टाभिभ्वायतनानि भवन्ति । योगावचरो यदा शून्यतया रूपाणि परिभेदयति । तदा अभिभ्वायतनमित्युच्यते ।

(पृ) क इदं प्रतिलभते । (उ) इमे भगवतः श्रावका नान्ये । (पृ) इमान्यष्टाभिभ्वायतनानि कस्या भूमौ भवन्ति । (उ) कामधातौ भवन्ति । (पृ) किं सास्रवाणि उतानास्रवाणि । (उ) पूर्वं सास्रवाणि सन्ति शून्यतया रूपाणां परिभेदे ऽनास्रवाणि भवन्ति । (पृ) कस्मादयं धर्मः केवलमभिभ्वायतनमित्युच्यते । (उ) इदं योगावचराणामभ्यासक्तमायतम् । अतो भगवान् श्रावकाणां कृत आह- अभिभ्वायतनमिति । तदालम्बनाभिभवप्रदर्शनार्थम् ॥

अष्टाभिभ्वायतनवर्ग श्चतुष्पष्टयुत्तरशततमः ।

165 नवानुपूर्व[विहारेषु]प्रथमध्यानवर्गः

नवानुपूर्वविहाराः- चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः निरोधसमापत्तिश्च । प्रथमं ध्यानम्- यथोक्तं सूत्रे योगावचरो विविच्यैव कामैर्विविच्याकुशलै (sss_406) धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरतीति । (पृ) प्रथमध्यानलक्षणमात्रं वक्तव्यम् । कस्मात्पुनरुच्यते विविच्यैव कामैरिति । (उ) केचिदपवदन्ति नास्ति कामविविक्तो लोक इति । लौकिकानां [सदा] पञ्चकामेषु स्थितत्वात् । न हि कश्चिच्चक्षुषा रूपं न पश्यति । श्रोत्रेण शब्दं न शृणोति, घ्राणेन गन्धं न जिघ्रति, रसनया रसं न रसयति, कायेन न स्पर्शाननुभवतीति । अत उच्यते विविच्यैव कामैरिति । कामो नाम कामचित्तं न रूपादिः । यथोक्तम्- रूपादयः पदार्था न कामा इति । कथं तज्जानीमः । व्यवसायी खलु रूपादिषु स्थित्वैव कामं प्रजहाति । यथोक्तं सूत्रे- रूपादयस्तद्भागा न कामा भवन्ति इति । अतो रागचित्तं काम इत्युच्यते । यस्य रागचित्तं भवति स कामान् पर्येषते । कामपर्येषणाप्रत्ययं रागप्रतिधवधविहिंसा अकुशला धर्मा अनुवर्तन्ते । यथोक्तं महानिदानसूत्रे- तृष्णां प्रतीत्य पर्येषणा इत्यादि । अतो ज्ञायते कामरागैर्विविक्तत्वात् विविच्यैव कामैरिति । केचिदाहुः- रूपादिभिः पञ्चकाम[गुणै]र्विविक्तं कामैर्विविक्तमिति । विविच्याकुशलै र्धर्मैरिति पञ्चनीवरणैर्विविक्तम् ।

प्रथमं ध्यानं विक्षिप्तचित्तासन्नत्वात्सवितर्कम् । योगावचरस्यापरिनिष्पन्नसमाधिबलस्य चित्तविक्षेपस्योदयात्सवितर्कम् । यथोक्तं सूत्रे- सवितर्क सविचारं विहारं विहरामीति । [अतो] ज्ञातव्यं भगवानवोचत्- विक्षिप्तचित्तं वितर्क इति । वितर्को ऽयं क्रमशश्चित्तसमाधानप्रवृत्तौ विचारो भवति । यदा समाधिपरिनिष्पत्त्या चित्तं न भूयसा विक्षिपति तदा विचारः । विचारो ऽयं योगावचमनुतर्तयन् ध्यानान्तरालं प्राप्नोति । वितर्कविचारविविक्तस्य प्रीतिलाभे विवेकजा प्रीतिरिच्यते । प्रीतिरियं प्रथमलब्धा कायं सुखयतीति सुखं भवति । वितर्कविचारविवेक[जा] प्रीतिरेकालम्बनस्थिता ध्यानमित्युच्यते । ध्यानस्यास्य वितर्कविचारव्याकुलत्वात् कायान्तरविपाकं प्रतिलभते । अस्योत्तममध्यमाधमविभागात्सन्ति ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणः ।

(पृ) यदि वितर्कविचारविवेक[जा] प्रीतिः प्रथमं ध्यानम् । तदा न स्यात् पञ्चाङ्गं प्रथमं ध्यानम् । यदि वितर्कविचारविवेकः, द्वितीयध्यानस्य को भेदः । उक्तञ्च सूत्रे- प्रथमं ध्यानं सवितर्कं सविचारम् । अन्यत् प्रश्रब्धिसुखम् अन्या च प्रीतिरिति । यदि प्रीतिरेव सुखम्, तदा सप्तसम्बोध्यङ्गेषु प्रस्रब्धिबोध्यङ्गं न पृथगुक्तं स्यात् । (sss_407) (उ) प्रथमं ध्यानं न स्यात्पञ्चाङ्गमिति भवद्वचनमयुक्तम् । न ह्युच्यते पञ्चाङ्गानि प्रथमध्यानस्वभावा इति । प्रथमध्यानस्यासन्नभूमाविमौ वितर्कविचारौ स्त इत्यङ्गमित्युच्येते ।

(पृ) यद्यासन्नभूमिको धर्मगणो ऽङ्गमिति । प्रथमं ध्यानमपि पञ्चकाम[गुणा]नां प्रत्यासन्नमिति [ते] अङ्गानि वक्तव्यानि स्युः । (उ) पञ्चकाम[गुणा]न प्रत्यासन्ना भवन्ति । योगावचरचित्तं हि [त]द्विविक्तमेव । प्रथमध्यानानन्तरञ्च न कामचित्तमुदेति । पञ्चकामगुणाश्च न प्रथमध्यानस्याङ्गानि वर्तन्ते । अङ्गं नाम कारणम् । भाग एव कारणम् । यथार्यमार्गाङ्गानि सञ्चितानि कारणानित्यादि । तथा वितर्कविचारावपि प्रथमध्यानस्य कारणम् । यत् योगावचर आलम्बने समाहितः, [ततो] व्यावर्तने पुनस्समाधिनिमित्तमुपादाय तत्रालम्बने चित्तं समाधाय मौलिकं निमित्तं मनसि करोति । इमौ वितर्कविचारौ । अतो ज्ञायते वितर्कविचारौ प्रथमध्यानस्य कारणमिति । द्वितीयध्याने चित्तसमाधानं स्थितमेव । अतो न तौ कारणम् । ध्यानद्वयसमनन्तरञ्च न वितर्कविचारौ भवतः ।

यदाह भवान् प्रथमं ध्यानं वितर्कविचारसहगतमिति । तदयुक्तम् । प्रथमध्यान उत्पन्ने ऽथ वितर्कविचारौ भवतः । तयोः प्रत्यासन्नत्वात् तत्सहगतमित्युच्यते । यथा शिष्येण सह गच्छतीति किञ्चिद्विप्रर्षे ऽपि सहेत्युच्यते । अम्या भूमेर्जननहेतुकतया वितर्कविचारौ स्तः । यथा भूतपीडितः पुरुषो [भूत] अनुद्ग्रमे ऽपि पीडित इत्युच्यते । पुरुषस्यास्य भूतदूषितस्य पुनरुद्भवप्रत्ययो ऽस्तीति [कृत्वा] पीडित इत्युच्यते । सुखवेदनैव प्रीतिः । किन्तु विभज्योच्यते । प्रश्रब्धितो ऽपि सुखं पृथगुच्यते । यथोक्तं सूत्रे- प्रश्रब्धकायः सुखं वेदयत इति ।

(पृ) तथा चेत् कथं प्रथमं ध्यानं पञ्चाङ्गमित्युच्यते । (उ) कालतः पञ्चोच्यन्ते । यथा सप्तबोध्यङ्गानि कालाभिसन्धिं लब्ध्वा चतुर्दश भवन्ति । तत्रोच्यते अस्ति कायप्रश्रब्धिः अस्ति चित्तप्रश्रब्धिरिति । न तु वस्तुतो ऽस्ति कायप्रश्रब्धिः । चित्तमेव सुखितमिति [तत्] कायो ऽपि वेदयते । एवं प्रीतिरपि प्रथमतः कायगता प्रीतिसुखमित्युच्यते । प्रीतिः प्रथमलब्धलक्षणा सुखं भवति । पश्चात्परं प्रीतिरित्यायते । (sss_408) कालभेदात् । न ह्यस्ति पृथक् प्रश्रब्धिधर्मः । प्रीतौ जातमात्रायां कायचित्ते अदुष्ठुले सुकुमारे दान्ते च भवत इत्यतः प्रश्रब्धिरित्युच्यते । यथा रोगिणश्चतुर्महाभूतानां निरोधः, अरोगिणश्चतुर्महाभूतानामुदयः तदा अयं पुरुषः सुखीति नाम । एवं प्रश्रब्धिरपि । प्रशमने ऽपि प्रश्रब्धिरित्युक्तम् । यथोक्तं सूत्रे- संस्काराणामनुपूर्वनिरोधः- तथाहि- प्रथमं ध्यानं समापन्नस्य वाक् निरुद्धा भवति । यावन्निरोधसमापत्तिं समापन्नस्य संज्ञा वेदना च निरुद्धा भवति । इति । अतो नास्ति पृथक् प्रश्रब्धिधर्मः ।

यदि मतं प्रथमं ध्यानं वितर्कविचारसम्प्रयुक्तमिति तदपि न युक्तम् । कस्मात् । उक्तं हि सूत्रे- यदि योगावचरः प्रथमं ध्यानं समापद्यते । तदा वाक् निरुद्धा भवति इति वितर्कविचारौ च वाचो हेतुः । कथं वाचो हेतुरस्ति, वाक् च निरुद्धा भवति । यदि मतं वितर्कविचारौ यद्यपि वर्तेते । व्यवहारमात्रं निरुद्धं भवतीति । तदा कस्यचित् कामधातुकचित्तगतस्य अव्यवहारकाले ऽपि [विअतर्कविचार]रोधो भवेत् ।

(पृ) प्रथमध्याने वितर्कविचारौ न स्तः । आर्यस्तृष्णींभावः स्यात् । भवांस्तु द्वितीयध्यानमार्यतूष्णींभावमाह । न प्रथमध्यानम् । अतो ज्ञायते प्रथमध्याने वितर्कविचारौ स्याताम् इति । (उ) वितर्कविचारप्रत्यासन्नत्वान्नाह आर्यतूष्णींभाव इति । न तु वितर्कविचारसम्प्रयुक्तत्वात् । उक्तञ्च सूत्रे- प्रथमध्यानस्य शब्दः कण्टक इति । अतो नाह तूष्णीभाव इति । (पृ) प्रथमध्यानस्य कस्मात् शब्दः कण्टको भवति । (उ) प्रथमध्याने समाधिगतं चित्तं कुसुमे सलिलवत् पेशलम् । द्वितीयध्यानादौ समाधिगतं चित्तं सर्जरस्रसतरुवत् सुदृढन् । स्पर्शादयो ऽपि प्रथमध्यानस्य कण्टकाः । स्पर्शस्य प्रथमध्यानस्योत्थापकत्वात् । न तथा द्वितीयध्यानादेः । कस्मात् । प्रथमध्याने पञ्चविज्ञानानामव्युपशभात् । द्वितीयध्यानादौ च तेषां व्युपशमात् ॥

नवानुपूर्व [विहारे]षु प्रथमध्यानवर्गः पञ्चषष्ट्युत्तरशततमः ।

166 द्वितीयध्यानवर्गः

[पुनश्च योगावचरः] वितर्कविचाराणां व्युपशमात् अध्यात्मं सम्प्रसादनं चेतस एकोतिभावमवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसम्पद्य विहरति । (पृ) यदि वितर्कविचाराणां व्युपशमात् द्वितीयध्यानम्, तर्हि प्रथमध्यानं सवितर्कं सविचारमेष्टव्यम् । यथा द्वितीयध्याने प्रीतिरस्तीति व्युपशान्तप्रीति तृतीयध्यानमित्युच्यते । (उ) यथा प्रथमध्याने दुःखेन्द्रिये ऽसत्यपि द्वितीयध्याने दुःखेन्द्रियव्युपशम उच्यते । तथेदमपि । (पृ) प्रथमध्याने दुःखेन्द्रिये ऽसत्यपि [पञ्च] विज्ञानानि सन्ति । विज्ञानानि च दुःखेन्द्रियस्याश्रयाः । अत उच्यते प्रथमध्याने दुःखेन्द्रियस्याव्युपशमः । (उ) प्रथमध्याने सन्त्यपि विज्ञानानि न दुःखेन्द्रियस्याश्रया भवन्ति । (पृ)पञ्चविज्ञानस्वभावो दुःखेन्द्रियस्याश्रय[ता] । स्वाभाव्यात्प्रथमं ध्यानं सदुःखमुच्यते । (उ) तथा चे द्दौर्मनस्येन्द्रियं मनोविज्ञानस्वभावजमिति सर्वत्र भवेत् । (पृ) अधुना कस्मादुच्यते प्रथमध्याने दुःखेन्द्रियव्युपशमः । (उ) प्रथमध्यानसमाधिचित्तप्रत्यासन्नम् । असमाहितचित्तः कामधातुकप्रतीसंयुक्तानि विज्ञानान्युत्पादयति । तत्र दुःखेन्द्रियं भवति । अतो नोच्यते प्रथमध्याने दुःखे[न्द्रिय]व्युपशमः । (पृ) तथा चेत् प्रथमध्यानमपि दौर्मनस्येन्द्रियप्रत्यासन्नम् । तत् दौर्मनस्येन्द्रियमपि वक्तव्यं यदि द्वितीयतृतीयध्यानयोर्निरुद्धम् । (उ) कामाश्रयं दौर्मनस्येन्द्रियं कामश्रयप्रीतिजननम् । सुविशुद्धप्रीतिलाभिनो ऽविशुद्धप्रीतिर्निरुध्यते । अतः प्रथमध्याने नास्ति दौर्मनस्येन्द्रियम् । असमाधिं निश्रित्य दुःखेन्द्रियमुत्पद्यते । प्रथमध्यानस्य विक्षिप्तचित्तप्रत्यासन्नत्वात् न [तस्य] व्युपशम उच्यते । यथा तृतीयध्याने दुःखं नास्ति । उच्यते च दुःखस्य सुखस्य च प्रहाणात् चतुर्थध्यानमुपसम्पद्य विहरतीति । तथेदमपि ।

योगावचरः प्रथमध्याने ऽपरिपूर्णसमाधिः सदा वितर्कविचाराभ्यां विक्षिप्यत इत्यत उच्यते द्वितीध्याने वितर्कविचाराणां व्युपशम इति । अध्यात्मं सम्प्रसादनमिति । द्वितीयध्याने निभृतश्चित्तसमाधानाद्विक्षेपः सदा नावकाशं लभते । अध्यात्ममविक्षिप्तचित्तत्वादध्यात्मं सम्प्रसादनमित्याख्या । इदं द्वितीयध्यानस्य रूपम् । चेतस एकोतिभावमवितर्कमविचारमिति । चेतस एकोतिभावश्चेतस (sss_410) एकस्मिन् मार्गे विहरणं ध्यानमित्युच्यते । इदमेवाध्यात्मं सम्प्रसादनम् । एतत्समाधिलाभात् वितर्कविचारौ न भवतः । न यथा प्रथमध्याने चैत्ता वितर्कविचारस्थाः । उत उच्यते अवितर्कमविचारमिति ।

समाधिजं प्रीतिसुखमिति । प्रथमध्याने विवेकात्प्रीतिं लभते । अत्र तु समाधिपरिनिष्पत्त्या प्रीतिं लभते । अत आह समाधिजमिति । (पृ) प्रथमध्यानगतप्रीतेः द्वितीयध्यानगतप्रीतेश्च को भेदः । (उ) प्रथमध्याने दौर्मनस्यव्युपशमात् प्रीतिः । द्वीतीयध्याने दुःखव्युपशमात् प्रीतिः । प्रथमध्याने प्रीतिरविशुद्धप्रीतिविरोधितया लभ्यते । यद्युभे अपि प्रीति तृष्णाप्रत्यये । तथापि प्रथमध्याने सातिपेशला ।

(पृ) एतादृशो ऽर्थः किं सास्रवः किमनास्रवः । (उ) सर्वं सास्रवम् । आत्मसंज्ञायां सत्यामस्ति प्रीतिः । यस्यानास्रवं चित्तम् । तस्य नास्त्यात्म[संज्ञा] । आत्मनो ऽसत्त्वान्नास्ति प्रीतिः ।

(पृ) असत्यास्रवे नास्ति प्रीतिरितीदमप्ययुक्तम् । भगवान् सप्तसम्बोध्यङ्गेषु प्रीतिसम्बोध्यङ्गमाह । प्रीतिसम्बोध्यङ्गन्तु अनास्रवम् । अतो ज्ञाउयते ऽस्त्यनास्रवा प्रीतिरिति । उक्तञ्च सूत्रे- प्रीतिमनस्कस्य कायः प्रश्रभ्यति । प्रश्रब्धकायः सुखं वेदयते इति । यदि नास्त्यनास्रवा प्रीतिः । नास्त्यनास्रवा प्रश्रब्धिः नास्तनास्रवं सुखमित्यपि भवेत् । परमकुशलधर्मचारिणः परिषद्गणान् पश्यतो भगवतः प्रीतिर्भवति । अतो ज्ञायते ऽस्त्यनास्रवा प्रीतिरिति । (उ) सप्तभिः सम्बोध्यङ्गैरनास्रवां प्रीतिमधिगच्छतीति तव[मत]मिदमयुक्तम् । सम्बोध्यङ्गं द्विविधं सास्रवमनास्रवञ्चेति । यथोक्तं सूत्रे- यस्मिन् समये योगावचरो धर्मं शृणोति । अस्य पञ्च नीवरणानि तस्मिन् समये न भवन्ति, सप्तबोध्यङ्गानि च तस्मिन् समये भावनापरिपूरिं गच्छन्ति । सम्बोधिश्च असंम्बोधिज्ञानस्याख्या । यदि सम्बोधाय भवन्ति । अविशुद्धादिधर्माणामाचरणं सम्बोध्यङ्गमुच्येत । भवानाह- नास्त्यनास्रवा प्रीतिरित्यपि स्यादिति । पूर्वं प्रीतौ समुत्पन्नायां पश्चादनास्रवं यद्यथाभूतदर्शनं प्रतिलभते । न च सर्वाः प्रश्रब्धयः प्रीतिं प्रतीत्य भवन्ति । यथा द्वितीयध्याने (sss_411) प्रीतिर्नास्ति, अस्ति च प्रश्रब्धिः । न वयं ब्रूमो ज्ञानविनिर्मुक्तो ऽस्ति पृथग्वेदनाधर्म इति । इदमनास्रवं प्रथमतश्चित्तगतं सुखमित्युच्यते । अतो ऽस्त्यनास्रवं सुखम् । न तु प्रीतिं प्रतीत्य भवति । किञ्चोक्तं सूत्रे- कायचित्तयोर्दौष्ठल्यापनयनं प्रश्रब्धिः । अनास्रव[ज्ञान]प्रतिलम्भकाले कायचित्तयोर्दान्तत्वात् अस्त्यनास्रवा प्रश्रब्धिः । भगवान् सदोपेक्षाचित्ते विहरतीत्यत आह- अस्ति भगवतः प्रीतिरिति । इदं वस्तु प्रकाशयितव्यम् ।

यस्य नास्त्यात्मा । न तस्यास्ति प्रीतिः । यद्यर्हतो ऽस्ति प्रीतिः । दौर्मनस्यमपि भवेत् । वस्तुतस्तु नास्ति दौर्मनस्यम् । अतो ज्ञायते नास्ति प्रीतिरिति । (पृ) यथा द्वितीयध्याये ऽस्ति प्रीतिः नास्ति तु दौर्मनस्यम् । तथा अर्हतो ऽपि प्रीतिरस्ति न दौर्मनस्यम् । को दोषः । (उ) सर्वेषु ध्यानसमाधिषु अस्ति दौर्मनस्यं यथा इन्द्रियार्थेषूच्यते । दौर्मनस्यं प्रीतिश्च यावद्भवाग्रं[भवति] । सुखदुःखे च यावच्चत्वारि ध्यानानि कायमनुगच्छतः । किञ्च तृतीयध्यानगतः प्रीतेर्विरागादुपेक्षको विहरतीत्युच्यते । अतो नास्त्यनास्रवा प्रीतिरिति । यद्यस्ति, कथं विरागादिति वचनं भवेत् । अनास्रवे चित्ते च प्रीति र्न भवेत् । प्रीतयः सर्वाः प्रज्ञप्तिसंज्ञाविकल्पं निश्रित्य भवन्ति ।

(पृ) तथा चेत् प्रथमद्वितीयध्यानयोर्नास्त्यनास्रवा वेदना । उक्तं हि सूत्रे- प्रथमद्वितीयध्यानयोः केवलं प्रीतिरस्ति न चैतसिकं सुखमिति । इदानीं प्रीतिरपि नास्ति । किमस्ति पुनः । (उ) इयं प्रीतिः प्रीतेर्विरागादित्यादि नानास्रवं ध्यानमाह । किञ्चित्पुनः सूत्रमाह- अनास्रवं ध्यानम्, यद्योगावचरो यदाकारं यदालम्बनं प्रथमध्यानमुपसम्पद्य विहरति । न तदाकारं तदालम्बनं स्मरति । किन्तु पश्यति प्रथमध्यानगतानि रूपवेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतो यावदनात्मतः ।

(पृ) रोगतो गण्डतः शल्यतो ऽघत इत्येतानि चत्वारि लोकचरितानि नानास्रवाणि । अत इदं सूत्रं प्रमाणीकृत्य नानास्रवं साधयितुं शक्नोषि । (उ) इमे चत्वार आकारा दुःखस्य नामान्तराणि । अतो ऽनास्रवाणि । (पृ)शैक्षस्यापि किं नास्त्यनास्रवा प्रीतिः । (उ) मार्गचित्तगतस्य नास्ति प्रीतिः । व्यवहारगतस्य त्वस्ति । अशैक्षस्य सर्वदा नास्ति । (पृ) उक्तं हि सूत्रे- प्रीतिसुखचित्तेन चत्वारि सत्यानि प्रतिलभत इति । कथमाह- नास्त्यनास्रवा प्रीतिरिति । (उ) अनात्मचित्तमेव सुखम् । (sss_412) योगावचरः प्रतिलब्धानात्मचित्तो विपर्ययं विनाशयति । परमार्थज्ञानात्तु चित्तं प्रमोद्यते । न पृथगस्ति प्रीतिः । किञ्च तत्सूत्रं प्रकाशयति न प्रीत्या परमार्थज्ञानं प्रतिलभत इति । अत एवमुच्यते ॥

द्वितीयध्यानवर्गः षट्षष्ट्युत्तरशततमः ।

167 तृतीयध्यानवर्गः

प्रीत्याश्च विरागादुपेक्षको विहरति स्मृतः सम्प्रजानन् सुखञ्च कायेन प्रतिसंवेदयते यदार्या आचक्षन्ते उपेक्षकः स्मृतिमान् सुखविहारीति तृतीयं ध्यानमुपसम्पद्य विहरति ।

(पृ) कस्मात् प्रीत्याश्च विरागादिति । (उ) योगावचरः प्रीतौ परिभ्रमेदिति विरागः । प्रीतिश्चेयं संज्ञाविकल्पजा, चञ्चला प्रवृत्तिलक्षणा । प्रथमत आरभ्य दुःखानुयायिनी । हेतुनानेन विरागः । योगावचरः शान्तं तृतीयध्यानं लभमानो द्वितीयध्यानं प्रजहाति । प्रीतिजं सुखञ्च मन्दम् । प्रीतिविरागजं सुखं गभीरम् । यथा कश्चित् पुत्रभार्यादिभिः सदा न प्रीतो भवति । प्रीतेः संज्ञाविकल्पजत्वात् । सुखं न संज्ञाविकल्पजमिति सदा भवति । तथा योगावचरो ऽपि प्रीतिं प्रथमत आगतां तु सुखं मन्यते । पश्चात्तु [ततो] निर्विद्यते ।

(पृ) यदि कश्चिद्धर्मपीडितः, स तु शीतं सुखं मन्यते । योगावचरः केन दुःखेन पीडितः तृतीयं ध्यानं सुखं मन्यते । (उ) द्वितीयध्याने प्रीतिश्चञ्चलसंज्ञोदिता कण्टकाहतिवत्, योगावचरो ऽनया प्रीत्या पीडित इति अप्रीतिसमाधौ सुखसंज्ञां करोति । (पृ) धर्मदुःखास्तित्ववशात् शीतं सुखं भवति । यदि धर्मविविक्तो भवति । न तदा शीतं सुखं भवति । योगावचरः प्रीतिविविक्तः कस्मात्पुनस्तृतीयध्याने सुखसंज्ञां करोति । (उ) सुखजननं द्वितीयध्यानं कदाचित् दुःखवर्तनात्सम्भवति । यथा धर्मदुःखिनः शीतं सुखं भवति । कदाचित् दुःखविवेकात् सम्भवति । यथा विप्रियविवेकः । यथा भगवान् कौशाम्बिभिक्षुविविक्त आह- अहं सुखीति । तथेदमपि चलसंज्ञाविविक्तः तृतीयध्याने सुखसंज्ञा करोति । यथा पञ्चकामगुणविवेकात्प्रथमं ध्यानं सुखं भवति ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.