Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
सत्यसिद्धिशास्त्रम्
- Tác giả
- हरिवर्मन्
- Thông tin
- GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
उपेक्षक इति । प्रीतेर्विरागादिति शान्तं भवति । योगावचरः पूर्वं प्रीतिसंसक्तमना बहुधा विक्षिप्तः । इदानीं ततो विरागाच्चित्तं शाम्यति । अत उपेक्षक इत्युच्यते । स्मृतः सम्प्रजानन् इति । प्रीत्यादीनवादेतदुभयं सदोपनीयते । न तेन प्रीतिरागता प्रभिन्ना भवति । किञ्च स्मृत इति प्रीतेरादीनवं स्मरति । सम्प्रजानान् प्रीतावादीनवं पश्यति । सुखञ्च कायेन प्रतिसंवेदयत इति । प्रीतिविरक्तस्योपेक्षकस्योपेक्षैव सुखम् । अनिञ्जनानीषत्वात् । नेदं सुखं संज्ञाविकल्पजम् । अतः सुखञ्च कायेन प्रतिसंवेदयत इति नाम । यत्तदार्या आचक्षन्त उपेक्षक इति । आचक्षणं नाम लौकिकाननुसृत्य सुखमिति कथनम् । यथाचक्षन्ते नैवसंज्ञानासंज्ञायतनमिति । अनासक्तचित्तत्वात् उपेक्षक इति । स्मृतिमान् सुखविहारीति । पुरुषो ऽयं प्रज्ञायोपेक्षते यत् प्रीतावादीनवं दृष्ट्वा निर्विद्यत इत्यतः सूपेक्षां लभते । कल्याणस्मरणं यत् प्रीतावादीनवस्मरणम् । तत्रापि वक्तव्यं सम्प्रजानन् इति । स्मृत्या साहचर्यात् नोच्यते । सुखमिति परमसुखम् । अत आर्या आचक्षन्त उपेक्षक इति ।
(पृ) तृतीयध्याने ऽस्ति सुखप्रतिसंवेदनम् । कस्मादाह- उपेक्षासुखमिति । (उ) नाहमस्मिन् शास्त्रे वदामि वेदनाव्यतिरिक्तं पृथगस्ति उपेक्षासुखमिति । सुखप्रीतिसंवेदनमेवोपेक्षासुखम् । (पृ) तथा चेत् चतुर्थध्याने सुखप्रतिसंवेदनं वक्तव्यम् । उपेक्षायाः सत्त्वात् । (उ) चतुर्थध्याने ऽपि सुखप्रतिसंवेदनमस्तीति वदामि । किन्तु तृतीयध्यानसुखस्य प्रहाणादेवमुच्यते । (पृ) यदि सुखप्रतिसंवेदनसमन्वितम् । कस्मात् । प्रथमद्वितीयध्यानयोः प्रीतिरित्याख्या । तृतीयध्याने सुखमिति । (उ) संज्ञाविकल्पस्य सत्त्वात् प्रीतिः । तस्याभावात् सुखम् । योगावचरस्य तृतीयध्याने समाहितचित्तवृत्तित्वेन संज्ञाविकल्पस्याभावात् सुखमित्युच्यते । तृतीयध्यानप्रवृत्त्युपशमस्य लाभाच्च सुखमित्युच्यते । यता इञ्जनमीषणचित्तमार्या दुःखमिति वदन्ति । इञ्जनं नाम विकल्पस्याभिधानम् । तदेव सुखम् ॥
तृतीयध्यानवर्गः सप्तषष्ट्युत्तरशततमः ।
168 चतुर्थध्यानवर्गः
सुखस्य च दुःखस्य च प्रहाणात्पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमाददुःखमसुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति । (पृ) यदि पूर्वमेव (sss_414) दुःखस्य प्रहाणम् । कस्मादत्रोच्यते । यद्यवश्यं वक्तुमिष्टम्, वक्तव्यं पूर्वमेव प्रहाणादिति । यथा पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमादिति । (उ) चतुर्थध्यानमनिञ्जनम् । तदानिञ्जनलक्षणसाधनायोच्यते नास्ति चतुर्थी वेदनेति । कस्मात् । इञ्जनं नाम कम्पनारम्भः । योगावचरस्य सुखसुखाभिद्रुतस्य चित्तमिञ्जते । चित्त इञ्जिते रागद्वेषौ भवतः । सुखस्य दुःखस्य च प्रहाणात् चित्तं नेञ्जते ।
(पृ) यदि चतुर्थध्यानं हिततमं वेद्यते । कस्मात्सुखमिति नोच्यते । (उ) वेदनाया अस्तङ्गमाददुःखमसुखमित्युच्यते । यत्रेदं सुखमिति चित्तं स्मरति प्रजानाति । तत् सुखमित्युच्यते । तृतीयध्यानकसुखविविक्तस्य चतुर्थध्यानस्य लाभान्न सुखमिति गण्यते ।
उपेक्षास्मृतिपरिशुद्धमिति । अत्रोपेक्षा परिशुद्धा । अनीषणत्वात् । त्रिषु ध्यानेष्वस्ति ईषणं यदिदं सुखमिति । अस्मिंश्च ध्याने स्मृतिरपि परिशुद्धा । कस्मात् । तृतीयध्याने सुखासङ्गित्वात् स्मृतिर्व्याकुला । चतुर्थध्यानं प्राप्य सुखरागस्य प्रहाणात् स्मृतिः परिशुद्धा ।
(पृ) कस्माच्चतुर्थध्याने न सम्प्रजन्यमुक्तम् । (उ) यद्युक्तं स्मृतिपरिशुद्धमिति । सम्प्रजन्यमुक्तमेवेति वेदितव्यम् । अनयोर्द्वयोर्धर्मयोर्मिथो ऽव्यभिचारात् । किञ्चायं ध्यानसमाधिमार्गः न सम्प्रजन्यमार्गः । सम्प्रजन्यस्य प्रज्ञा[रूप]त्वान्नोच्यते । तृतीयध्यानस्य चरमभागे ऽपि नोच्यते सम्प्रजन्यम् । उपेक्षकः स्मृतिमान् सुखविहारीति केवलमुच्यते । नोच्यते उपेक्षकः स्मृतिसम्प्रजन्यवान् सुखविहारीति । स्मृतिरियं ध्यानसमाधिं साधयति । यदि कस्यचित् समाधिरसिद्धा, [तस्य] संज्ञामादाय स्मृतिः साधयति । तेन केवलमुच्यते । उत्तमगुणमुपेक्षां प्राप्तस्य नाधमगुणो मनस्कारो ऽपेक्ष्यते । अतः सम्प्रजन्यं नोच्यते ।
(पृ) अदुःखासुखा वेदना अविद्याङ्गम् । चतुर्थध्याने भूयसा सम्प्रजन्यविरुद्धम् । अतो नोच्यते सम्प्रजन्यम् । (उ) तथा चेत् अदुःखासुखा वेदना नानास्रवा स्यात् । सुखवेदनायाः कामाङ्गत्वात् । न च [सा]नास्रवा । (पृ) तृतीयध्याने स्वभूमिदोषविरोधायोच्यते सम्प्रजन्यम् । परभूमिदोषविरोधाय चोच्यते स्मृतिः । चतुर्थध्याने स्वभूमिर्नैवं दुष्टेत्यत्यतो नोच्यते सम्प्रजन्यम् । (उ) चतुर्थध्याने ऽपि अस्ति कामादिदोषः । अतो वक्तव्यं सम्प्रजन्यम् । अत्र कामदोषो ऽतिसूक्ष्मः दुरवबोधः अतो ऽवश्यं वक्तव्यं स्यात् । अन्यभूमौ वक्तव्यमपि नोच्यते । अतो ज्ञायते यथास्मत्प्रतिवचनं स्यादिति ।
(पृ) कस्माच्चतुर्थध्यान आश्वासप्रश्वासनिरोधः । (उ) प्रश्वासः कायं चित्तञ्चाश्रयते । केनेदं ज्ञायते । यदा चित्तं सूक्ष्मं, तदा श्वासो ऽपि सूक्ष्मः । चतुर्थध्याने चित्तमचलमित्यत आश्वासप्रश्वासौ निरुद्धौ । यथा कश्चित् परमक्लान्तो भारं वहति । पर्वतं वा आरोहति तदाश्वासः स्थूलो भवति । श्वसनकाले [पुनः] सूक्ष्मः । तथा चतुर्थध्याने ऽप्येवमचलसंज्ञया चित्तमुपशान्तमित्यत आश्वासप्रश्वासौ निरुद्धौ । केचिद्वदन्ति योगिनश्चतुर्थध्यानकचतुर्महाभूतलाभितया कायगतरोमकूपाः संवृताः । अतः श्वासो निरुद्ध इति । तदयुक्तम् । कस्मात् । अन्नपानरसप्रवाहः कायमभिव्याप्नोति । यदि रोमकूपाः संवृताः, न समुदाचरेत् । वस्तुतस्तु न सम्भवति । अतो ज्ञायते चतुर्थध्यानचित्तबलमेव श्वासनिरोधकमिति ।
(पृ) चतुर्थध्याने नास्ति सुखा वेदना । तत्र कथमस्ति तृष्णानुशयः । उक्तं हि सूत्रे- सुखवेदनायां तृष्णानुशय इति । (उ) तत्रास्ति सूक्ष्मा सुखा वेदना । औदारिकसुखप्रहाणात्परमुच्यते अदुःखमसुखमिति । यथा समीरणप्रकम्पितप्रदीपः । यदि निगूढगृहे निक्षिप्यते । तदा न कम्पते । तत्रावश्यमस्ति खलु सूक्ष्मो वातः । औदारिकवाताभावात्तु न कम्पते । तथा चतुर्थध्याने ऽप्यस्ति सूक्ष्मं सुखम् । औदारिकसुखदुःखप्रहाणाददुःखमसुखमित्याख्यायते ॥
चतुर्थध्यानवर्गो ऽष्टषष्ठ्युत्तरशततमः ।
169 आकाशानन्त्यायतनवर्गः
सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तङ्गमात् नानात्वसंज्ञानाममनस्कारा दनन्तम् आकाशम् इत्याकाशानन्त्यायतनमुपसम्पद्य विहरति । रूपसंज्ञा नाम रूपरसगन्धस्पर्शसंज्ञाः । योगावचरः कस्मात्[ताः] समतिक्रामति । यदेषु रूपेषु प्रतिघः अन्तरायः । नानात्वसंज्ञा यत् घण्टाभेर्यादयः । एताः संज्ञा विविधक्लेशानां विविधकर्मणां विविधदुःखानां हेतवः । अतो हेतोः समतिक्रामति । सर्वशो रूपसंज्ञानां समतिक्रान्तस्य (sss_416) प्रतिघसंज्ञा निरुध्यते । प्रतिघसंज्ञानिरोधे नानात्वसंज्ञा न भवति । तत्र संक्षेपान्नोक्तम् अस्य समतिक्रमादस्य निरोध इति ।
केचिदाहुः- सर्वशो रूपसंज्ञेति चक्षुर्विज्ञानाश्रिता संज्ञा इति । प्रतिघसंज्ञेति श्रोत्रघ्राणजिह्वाकायविज्ञानाश्रिता संज्ञा । नानात्वसंज्ञेति मनोविज्ञानाश्रिता संज्ञा । इति । इदमयुक्तम् । कस्मात् । प्रतिघसंज्ञा निरुध्यत इति वदतो रूपं सङ्ग्रहीतमेव । कस्मात् पृथगुच्यते । रूपसंज्ञां प्रतिघसंज्ञाञ्च विना नास्ति पृथङ्मनोविज्ञानाश्रितं रूपम् । अतो न वक्तव्यं पृथङ् नानात्वसंज्ञेति । इति यथापूर्वं वक्तव्यम् ।
आकाशानन्त्यायतनमुपसम्पद्य विहरतीति । योगावचरः रूपसंज्ञाभिभवपरिश्रान्तत्वादाकाशानन्त्यायतनं भावयति । अन्तश्चक्षुर्घ्राणग्रीवाद्याकाशसंज्ञां गृह्णाति । बहिः कूपगुहाद्वारान्तर्वृक्षवाटिकाद्याकाशसंज्ञां गृह्णाति । किञ्चायं कायो मरणविपन्नः स्मशानाग्निना दग्धः प्रणश्यति । अतो ज्ञायते कायो ऽयं पूर्वं साकाश इति ।
(पृ) अयमाकाशसमाधिः किमालम्बनेन भवति । (उ) आदित आकाशालम्बनः स्वीयस्कन्धालम्बनः परकीयस्कन्धालम्बनश्च सिद्धो भवति । कस्मात् । करुणाशीर्षक एवं चिन्तयति- सत्त्वा दयनीया रूपसंज्ञापीडिता इति । (पृ) समाधिरयं कं सत्त्वमवलम्बते । (उ) सर्वसत्त्वानवलम्बते । (पृ) योगावचरो ऽयं रूपसंज्ञाविविक्तः । कथं रूपसत्त्वानवलम्बते । (उ) अयं रूपमवलम्बते । रूपे तु चित्तं न सुप्रबुद्धं नाभिरक्तं नाभ्यासक्तम् । यथोक्तं सूत्रे- आर्यः पञ्चकामगुणान् दृष्ट्वा संस्मरन् न तत्राभिनन्दति न प्रबोधयति नाध्यवसाय तिष्ठति । ततो भीतो निवर्तते । यथा तापात् चर्मच्छेदः । निर्वाणमनुस्मरतश्चित्तं तत्र सुप्रबुद्धं भवति इति । एवमयमपि रूपमवलम्बमानो न [तत्रा]भिनन्द्याध्यवसाय तिष्ठति । यथा च योगावचरो रूपसंज्ञाविविक्तो ऽपि आकाशान्तेन चतुर्थध्यानमवलम्बते । यथा अरूपसमाधिरनास्रवं रूपमबलम्बते । न तत्र दोषो ऽस्ति । अक्लेशायतनत्वात् । तथान्यदपि स्यात् ।
(पृ) आकाशं रूपायतनस्वभावम् । कथमिदमालम्ब्य रूपसंज्ञाः समतिक्रामति । (उ) समाधिरयमसंस्कृताकाशावलम्बित्वात् रूपाणि समतिक्रामति । (पृ) समाधिरयं नासंस्कृतमाकाशमवलम्बते । कस्मात् । अस्मिन् समाध्युपाये चक्षुरादिमध्य[गत]माकाशमुक्तम् । अतो ज्ञायते संस्कृतमाकाशमवलम्बत इति । न चोक्तं सूत्रे असंस्कृताकाशस्य लक्षणम् । संस्कृताकाशलक्षणमत्रमुक्तं यत्र रूपं नास्ति तदाकाशमिति । अतो नासंस्कृतमाकाशम् । (उ) न रूपस्वभावामाकाशमुच्यते । कस्मात् । उक्तं हि सूत्रे आकाशमरूपमदृश्यमप्रतिघमिति । (पृ) अस्ति पुनः सूत्रवचनम्- आलोकं प्रतीत्याकाशं जानीम इति । न रूपं विहायास्त्यन्यो धर्म आलोकं प्रतीत्य ज्ञाप्यः । (उ) रूपाभाव आकाश इत्युच्यते । रूपाण्यालोकेन ज्ञाप्यानि । अत आलोकं प्रतीत्य रूपाभावो ज्ञायते । नत्वाकाशमस्ति ।
तमस्यपि आकाशं ज्ञायते । अन्धो हस्तेनापि आकाशं जानाति । दण्डेनापि आकाशमिदमिति जानाति । अतो ज्ञायते आकाशं न रूपस्वभावमिति । न रूपमेभिः प्रत्ययैर्ज्ञाप्यते । रूपमिदञ्च सप्रतिघम् । आकाशमप्रतिघम् । आन्यादिः रूपाण्यत्यन्तं क्षपयति । नत्वाकाशम् । यद्याकाशं क्षीयते, किमात्मकं भवेत् । (पृ) रूपस्योत्पादेसत्याकाशमस्तमेति । यथा भित्तावुद्भूतायां न पुनराकाशमस्ति । (उ) तत्र रूपमुत्पन्नम् । नानेन रूपेण यत्किञ्चित् क्षीयते । कस्मात् । रूपाभावो ह्याकाशम् । नह्यभावः पुनरभावः कर्तुं शक्यः । अतो न रूपाकाशं क्षपयति । भवानाह- आकाशं रूपमिति । न तत्रास्तिकारणं येनेदं रूपं भवेत् । (पृ) पश्यामः खलु द्वारादावाकाशम् । प्रत्यक्षदृष्टे न कारणापेक्षा । (उ) आकाशं न प्रत्यक्षदृश्यमिति पूर्वमेव दूषितत्वात्- यत् तमस्यपि ज्ञाप्यमित्यादि ।
(पृ) यद्याकाशं न रूपम् । को धर्म इदं भवति । (उ) अभावधर्म आकाशम् । यत्र[रूपं] नास्तीति वचनम् तत्राकाशं भवति । (पृ) उक्तञ्च सूत्रे- षड् धातुरयं पुरुषकाय इति । किञ्चाह- आकाशमदृश्यमरूपमप्रतिघमिति । यद्यभावधर्मः, (sss_418) नैव वक्तुं शक्यते । न हि शशशृङ्गदृश्यमरूपमप्रतिघमित्युच्यते । (उ) यो वस्तुसन् धर्मः स सर्वः प्रतिष्ठितो भवति । यथा नाम रूपाश्रितम्, रूपञ्च नामाश्रितम् । आकाशन्त्वनाश्रितमतो ऽभावधर्म इति ज्ञायते । यद्भभवानाह- आकाशं धातुरिति । तदपि न युक्तम् । कस्मात् । रूपे रूपं प्रतिहन्यते रूपमसति विरुद्धरूपे विवर्धते । अनेनार्थेनाह भगवान्- षड्धातुको ऽयं पुरुषकाय इति । [यत्] भवानाह- न हि शशशृङ्ग मदृश्यमरूपमप्रतिघमित्युच्यत इति । तदप्ययुक्तम् । कस्मात् । सर्वथा आकाशवशाल्लभ्यते । अस्ति कृतकमतीतानागतवस्त्वादि । नेदृशमस्ति शशशृङ्गादौ । (पृ) चित्तमप्येवमरूपममूर्तमप्रतिघम् । नास्तीति वक्तव्यम् । (उ) चित्तन्तु कर्म करोति यदालम्बनमुपादत्ते । आकाशमकर्मकम् । अभावमात्रेण कृतकास्तितालाभादभावधर्म इति ज्ञायते अतो ऽयं समाधिरदित आकाशमवलम्बते ।
(पृ) समाधिरयं कतमां भूमिमवलम्बते । (उ) सर्वा भूमिः निरोधमार्गञ्चावलम्बते । (पृ) केचिदाहुः- अरूपसमापत्तयो निरोधालम्बना अपि अयं अनुमानज्ञानभागीयं निरोधमात्रमालम्बते । न दृष्टज्ञानभागीयं निरोधम् । इति । तत्कथम् । (उ) सर्वं निरोधमवलम्बते । दृष्टधर्मज्ञानेन प्रत्युत्पन्नस्वभूमि[गत]निरोधमवलम्यते । अनुमानज्ञानेनान्यनिरोधमवलम्बते । एवं मार्गो ऽपि । सर्वप्रतिपक्षावलम्बित्वात् ।
(पृ) आरूप्यधातुगताः सत्त्वा अन्यभूमिकचित्तमुत्पादयन्ति न वा । (उ) अन्यभूमिकचित्तमनास्रवचित्तञ्चोत्पादयन्ति । (पृ) तथा चेत् कथं न च्युतिर्भवति । (उ) कर्मविपाके वर्तमानत्त्वान्न च्यवते । यथा कामधातौ रूपधातौ चाभिज्ञाबलादन्यस्मिन् रूपे अन्यस्मिन् चित्ते स्थितो ऽपि न च्यवते । तथा तत्रापि । (पृ) आकाशानन्त्यायतनसमाधेराकाशायतनस्य कृत्स्नायतनस्य च को भेदः । (उ) आकाशानन्त्यायतनं समापित्सोरुपायमार्गः कृत्स्नमित्याख्यायते । समाधिसमापत्तिः सम्पन्ना आकाशसमाधिसमापत्तिः ? । तत्र समाधेर्हेतुफल[भावो] भूमिः सर्वा सास्रवा [वा]अनास्रवा । यदि समाधिः, समाधिं विना यदि संक्लेशः यदि वा व्ववदानम् सर्वमाकाशानन्त्यायतनमित्याख्यायते ? ॥
आकाशानन्त्यायतनवर्ग एकोनसप्तत्युत्तरशततमः ।
170 आरूप्यसमाधित्रितयवर्गः
सर्वश आकाशानन्त्यायतनं समतिक्रम्य [अनन्तं विज्ञानमिति] विज्ञानानन्त्यायतनमुपसम्पद्य विहरति । योगावचरो रूपात्परमनिर्विण्णो रूपप्रतिपक्षधर्ममप्युपेक्षते । यथा नदीं तीर्त्वा उडुपं त्यजति । यथा वा चोरं निष्कास्य निवर्तयितुमिच्छति । तथा योगावचरो ऽपि आकाशं प्रतीत्य रूपं परिभेदयन् [आकाश]मपि परिजिहीर्षति ।
विज्ञानानन्त्यायतनमिति योगावचरो विज्ञानेनानन्तमाकाशमित्यवलम्बमानः तदा अनन्तं विज्ञान[मपि आलम्बते] । अत आकाशमुपेक्ष्य विज्ञानमवलम्बते । यथा रूपपरिश्रान्त आकाशमालम्बते । तथा आकाशपरिश्रान्त उपशमेच्छया विज्ञानमात्रमालम्बते । पुद्गलो ऽयं विज्ञानेनाकाशमालम्बत इत्यतो विज्ञानप्रधान इत्युच्यते । अतो विज्ञानमात्रमालम्बते ।
योगावचरो विज्ञानेनालम्बनमनुवर्तयन् कालमनुवर्तत इत्यतो ऽनन्तमस्ति । तत्परिश्रमनिर्विण्णो विज्ञानं परिभिद्य तत्परिजिहीर्षया आकिञ्चन्यायतनमुपसम्पद्य विहरति । [तदा] एवं चिन्तयति विज्ञानमस्ति तत्र दुःखम् । मम यद्यस्ति अनन्तं विज्ञानम्, तदा अवश्यमन्ते दुःखेन भाव्यम् इति । अतो विज्ञानालम्बनचित्तं प्रगृह्णाति । चित्तस्य [परम]सूक्ष्मत्वात् आकिञ्चन्यमित्युच्यते ।
पुनरेवं चिन्तयति- अकिञ्चन्यमितीयं संज्ञा । संज्ञा च दुःखोपायायासाय भवति रोगतो गण्डतः । यस्य संज्ञा नास्ति स पुनर्मूढो भवति । यदाकिञ्चन्यं पश्यामि तदेव किञ्चिद्भवति । अतः संज्ञाभ्यो न विमोक्षलब्धः । योगावचरः संज्ञां विपदं आसज्ञिकं सम्मोहं पश्यति । इति नैवसंज्ञानासंज्ञायतनमुपसम्पद्य विहरति । शान्तं प्रणीतञ्च यत् नैवसंज्ञानासंज्ञायतनमित्युच्यते । पृथग्जनाः सदोत्रस्ता असंज्ञां सम्मोहं मन्यन्ते । अतो नात्यन्तं चित्तं निरोद्धुमलं भवन्ति ।
केचिदाहुः- असंज्ञिसत्त्वा अपि चित्तं निरोद्धुमलमिति । तदयुक्तम् । (sss_420) कस्मात् । यदि रूपधातौ चित्तं निरोद्धुमलं भवन्ति कस्मादारूप्यधातौ नालम् । (पृ) रूपधातुः रूपवानित्यतश्चित्तं निरोधयन्ति । आरूप्यधातौ प्रागेव रूपं निरुद्धम्, इदानीं पुनश्चित्तं निरुध्यते रूपचित्तयोर्युगपन्निरोधं पश्यत उत्राससम्मोहः स्यात् । (उ) यत् तत्र वर्तमानं न [तत्] निरोधकम् । तदन्तराजायमानन्तु निरोधकं स्यात् । यथा निरोधसमापत्तौ । (पृ) चित्तनिरोधस्य फलमासंज्ञिकम् । अतो रूपचित्तनिरोधे ऽत्यन्तदोषाय भवति । (उ) निरोधसमापत्तेरपि सचित्तकता फलम् । तथेदमपि । यदि फलमसमुच्छिन्नम्, [तदा] फलस्थ इति नाम । यथा निर्मितगतं रूपम् निर्मितचित्ते पुनः फलमुत्पादयति । अतो नात्यन्तं निरुध्यते । अतो रूपधातौ न चित्तनिरोधो वक्तव्यः । यद्युच्यते । अरूपधातावपि वक्तव्यः स्यात् ।
असंज्ञि समापत्तौ च न चित्तं निरुध्येत । कस्मात् । योगावचरो ऽवश्यं चित्तनिर्वेदात् चित्तविरागात् चित्तं निरोधयति । यदि चित्तनिर्विण्ण एवारूपधातौ नोत्पद्येत । किं पुनः रूपधातावुत्पद्येत इति । पृथग्जनाश्चित्ते गभीरमात्मसंज्ञामुत्पादयन्ति । यथोक्तं सूत्रे- दीर्घरात्रं [ह्येतत् भिक्षवः] अश्रुतवतः] पृथग्जनस्य अध्यवसितं ममायितं परामृष्टम् एतन्मम एषो ऽहमस्मि एष म आत्मेति । अतो न निश्शेषं निर्विद्यते विरज्यते । किञ्चोक्तं सूत्रे- तीर्थिकाः त्रयाणामुपादानानां समुच्छेदं निरोधमुपदिशन्ति नात्मवादोपादानस्य इति । अतो न चित्तं निरोद्धुमलम् । यथा मर्कटोपमसूत्रम् [अश्रुतवान्] पृथग्जनः कायं विरज्येत न चित्तम् । वरं [भिक्षवः अश्रुतवान्] पृथग्जन इमं चातुर्महाभौतिकं काय[मात्मत] उपगच्छेत् न त्वेव चित्तम् । तत्कस्य हेतोः । दृश्यते ऽयं [भिक्षव श्चातुर्महाभौतिकः] काय [एकमपि वर्षं] तिष्ठन्.....दश वर्षाणि [तिष्ठन्] यावच्छतवर्षाण्यपि तिष्ठन् । यच्च खलु [एतद्भिक्षव] उच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि तत् रात्याश्च दिवसस्य चात्ययेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते । तद्यथा [भिक्षवः] (sss_421) मर्कट [अरण्य उपवने चरन्] शाखां गृह्णाति । तां मुक्त्वा अन्यां गृह्णाति । एकमेव भिक्षवो यदिदमुच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि । तत् रात्याश्च दिवसस्य चात्यायेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते ।] तत्र श्रुतवान् [भिक्षवः] आर्यश्रावकः प्रतीत्य समुत्पादमेव साधुकं योनिशो मनसिकरोति । अतो ऽनित्यमित्येव प्रजानाति इति । प्रतीत्यसमुत्पादस्याज्ञाता वेदनाविशेषादिज्ञानं विकल्पयति । सर्वे तीर्थिका अविकल्पप्रत्ययज्ञानत्वात् न चित्तं निरोधयितुमलम् । पृथग्जनाश्च रूपविरागिणो [ऽपि] चित्ताविरागित्वान्नालं विमोक्तुम् । ये युगपच्चित्तं निरोद्धुमलम् । ते कस्मान्नालं विमोक्तुम् ।
किञ्च पृथग्जनाः [चित्त]निरोधभीरुतया निर्वाणे नालं शान्तशिवसंज्ञामुत्पादयितुम् । यथोक्तं सूत्रे- नैषो ऽहमस्मि, नैतन्ममेति पृथग्जनानामुत्रासपदम् शान्तशिवसंज्ञां नोत्पादयति । कथं चित्तं निरोद्धुमलं भवेत् । पृथग्जनानाञ्च धर्मो [यत्] उत्तमां भूमिं प्रतीत्यावरां भूमिं विजहाति । अतो नास्ति चित्तनिरोधप्रत्ययः । किन्तु समाधिबलेन सूक्ष्मसंज्ञामभिमुखीकृत्य चित्तस्य प्रबोधात् वदति नास्ति संज्ञेति । औदारिकसंज्ञामुत्पादयन् तदैव [ततः] च्युतः पतति । [स चासंज्ञीत्युच्यते ।] यथा अल्पज्ञो ऽज्ञ इति । यथा वा अल्पदशनो ऽदशन इति । यथा वा सम्मूर्छाभ्रष्टचेतनाः सुषुप्ताः क्रिमयः शीतिभूतमकराः । यथा वा नैवसंज्ञानसंज्ञायतनमित्युच्यते । तथा तत्रापि वस्तुतः संज्ञायां सत्यामपि संवृतितो ऽसंज्ञीत्युच्यते ।
आरूप्यसमाधित्रयवर्गः सप्तत्युत्तरशततमः ।
171 निरोधसमापत्तिवर्गः
सर्वशोनैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञावेदयितनिरोधं कायेन स्पृष्ट्वा विहरति । (पृ) ध्यानेषु कस्मान्नोच्यते सर्वशः समतिक्रम्येति । अरूपसमापत्तिषु च (sss_422) नोक्तो ऽस्तङ्गमः । (उ) उक्तं खल्वस्माभिः ध्यानसमाधिषु सन्ति वितर्कविचारप्रीतिसुखादयो धर्मा इति अतो नोच्यते सर्वशः समतिक्रम्येति । (पृ) आकाशानन्त्यायतने रूपचित्तमस्तीति प्रतिपादितमेव । अतो ऽरूपेष्वपि न वक्तव्यं सर्वशः समतिक्रम्येति (उ) आकाशानन्त्यायतनसमापत्तिं समापन्नो रूपचित्ताद्विमुच्यते, न वितर्कविचारादिभ्यो धर्मेभ्यः । केचिदाहुः- समतिक्रमो व्युपशमो ऽस्तङ्गमः सर्वमेकार्थकम्, व्यञ्जनमेव नाना इति । आरूप्यसमापत्तिषु च चित्तं सुस्थिरम् । अवरभूमौ चित्तं विक्षेपकम्प्यम् । अतो नोच्यते सर्वशः समतिक्रम्येति । (पृ) यत् सहैवोक्तं अस्ति कण्टको यदुत रूपसंज्ञा इत्यादि । तत् कस्मादुच्यते चित्तं सुस्थिरमिति । (उ) यद्यपि सहैवोक्त मस्ति कण्टक इति । तथापि चतुर्थध्यानमचलमित्याख्यायते । एवमरूपसमापत्तिषु समापत्तिबलमहिम्ना सुस्थिरमित्याख्या लभ्यते ।
(पृ) शैक्षो न निरोधसमापत्तिं लभेत । नैवसंज्ञानासंज्ञायतनस्य सर्वशो ऽनतिक्रमात् । (उ) शैक्षो नैवसंज्ञानासंज्ञायतने सर्वसंस्काराणां व्युपशमं पश्यति । किन्तु न पश्यति तेषामनुत्पादम् । अत उक्तदोषो लभ्यते । यत् भवता पूर्वमुक्तं नवानुपूर्विकेषु चित्तचैत्तानां निरोध इति तत् विरुध्यते । (उ) निरोधसमापत्तिर्द्विविधा- क्लेशानां क्षयरूपा क्लेशानामक्षयरूपा इति । क्लेशानां क्षयरूपा विमोक्षेषु वर्तते क्लेशानामक्षयरूपा अनुपूर्वं [विहारे]षु वर्तते । (1) क्लेशानां निरोधान्निरोधसमापत्तिः, (2) चित्तचैत्तानां निरोधान्निरोधसमापत्तिः । क्लेशानां निरोधो ऽष्टमविमोक्षः । तेदेवार्हत्फलम् । अर्हत्फलञ्च सर्वसंज्ञानां पुनरनुत्पादको व्युपशम एव । अत्र संज्ञानां व्युपशमे ऽपि अन्यसंयोजनानां सत्त्वात् पुनरनुत्पादिका न भवति ।
(पृ) यदि योगवचरो नवानुपूर्वविहारैश्चित्तं निरोधयति । स्रोतआपन्नादयः कथं चित्तनिरोधधर्मं साक्षात्कुर्वन्ति । (उ) अनुपूर्वविहारेषु निरोधो महानिरोधः । (sss_423) यदि कश्चित् ध्यानसमापत्तीः साधु भावयति, मार्गचित्तबलदार्ढ्यादिमं निरोधं लभते । यदि नास्ति तद्बलम्, तदा निरोधसमापत्तिर्नेदृशं महाबलं विन्दते । अतो ऽनुपूर्वविहारा उक्ताः । अन्यत्राप्यस्ति निरोधचित्तम् । यथा चतुर्थध्याने चित्तचैत्तान् निरुन्ध्य आसंज्ञिके प्रविशति । प्रथमध्यानादौ कस्मान्न निरोधः । अन्यत्रापि च निरोधचित्तार्थो भवेत् । यथोक्तं सूत्रे स्रोतआपन्नादयो निरोधं साक्षात्कुर्वन्ति । निरुद्धचित्तमेव निरोध इत्युच्यते न पुनरन्यो ऽस्ति धर्मो निरोध इति । अतो ज्ञायते इमा नवभूमीर्विहायाप्यस्ति चित्तनिरोध इति ।
(पृ) यदि निरोधसमापत्तौ सर्वचित्तचैत्तान् निरोधयति । कस्मात्संज्ञावेदयितनिरोधमात्रमुच्यते । (उ) सर्वाणि चित्तानि वेदितानीत्युच्यन्ते । वेदितञ्चेदं द्विविधं- संज्ञावेदितं प्रज्ञावेदितमिति । संज्ञावेदितं संस्कृतालम्बनं चित्तम् । संज्ञाकाराणां प्रज्ञप्तिगतत्वात् प्रज्ञप्तिश्च द्विविधा- हेतुसंघातप्रज्ञप्तिः धर्मप्रज्ञप्तिश्चेति । अतः सर्वसंस्कृतालम्बनं चित्तं संज्ञा भवति । प्रज्ञावेदितं असंस्कृतालम्बनं चित्तम् । अतः संज्ञावेदितनिरोध इत्युक्तौ सर्वनिरोध उक्तो भवति ।
(पृ) सर्वेषु चित्तचैत्तेषु प्राधान्यात् संज्ञावेदितं केवलमुच्यते । कस्मात् । क्लेशानामस्ति भागद्वयम्- तृष्णाभागो दृष्टिभाग इति । वेदितादुत्पद्यते तृष्णाभागः । संज्ञातो दृष्टिभागः । कामधातौ रूपधातौ च वेदितं प्रधानम् । अरूप्यधातौ तु संज्ञा प्रधाना । अतो द्विविधमेवोक्तम् । विज्ञानस्थितिषु च संज्ञावेदितमात्रमुक्तम् । विज्ञानस्थितीनां चित्तादुत्थितत्वादेव संस्कार इत्याख्या । संज्ञावेदितनिरोध इत्युक्तौ च सर्वचित्तचैत्तानां निरोध उक्तो भवति । चित्तचैत्तानां ततो ऽव्यभिचारात् । (उ) मैवम् । भवानाह- प्राधान्यात् [संज्ञावेदितं] केवलमुच्यत इति । [तदा] चित्तमात्रं वक्तव्यम् । कस्मात् । उक्तं हि तत्र तत्र (?) सूत्रे- चित्तं खल्वधिपत्तिः द्विविधानां क्लेशानामाश्रयः । चित्तस्यैव विकल्पात् संज्ञावेदितमित्युच्यते । इति । अतो वक्तव्यं चित्तमेव । चित्ते चोक्ते सुगमम् । अतो भवदुक्तिर्न [संभवति] ।
(पृ) समापत्तिरियं कस्मादुच्यते कायेन स्पृष्ट्वा विहरतीति । (उ) अष्टविमोक्षाः सर्वे कायेन स्पृष्ट्वा विहरन्तीति वक्तव्याः । अयं निरोधधर्मः अनभिलापवेद्यत्वात् कायेन साक्षात्करोतीत्याह । तद्यथा अपां स्प्रष्टा तच्छैत्यं प्रजानाति । न तु श्रोता प्रजानाति । तथेदमपि । अचित्तधर्मत्वात् इयं कायेन साक्षात्करोतीति स्यात् ।
(पृ) यद्भवानाह- निरोधसमापत्तिरचित्तधर्म इति । न तत् युज्यते । कस्मात् । समापत्तिमिमां समापन्नः सत्त्व [एव] भवति । लोके च नास्ति को ऽपि सत्त्वो ऽचित्तक इत्यतो ऽयुक्तम् । उक्तञ्च सूत्रे- आयुरूस्म विज्ञानमिमे त्रयो धर्माः सदाव्यभिचारिण इति । अतो नास्ति निरुद्धचित्तः [सत्त्वः] । सर्वे च सत्त्वाश्चतुर्भिराहारैर्जीवन्ति । निरोधसमापत्तिमुपसम्पन्नस्य न सन्त्याहाराः । कस्मात् । नह्ययं कबलीकारमाहारं भुनक्ति । स्पर्शादयो ऽपि निरुद्धाः । अतो नास्त्याहारः । चित्तञ्च चित्तादुत्पद्यते । चित्ते ऽस्मिन् निरुद्धे नान्यच्चित्तमुत्पद्यते । समनन्तरप्रत्ययाभावात् कथमूर्ध्वभावि चित्तमुत्पद्येत । किञ्चानुपधिशेषनिर्वाणप्रविष्टमात्रं चित्तं समुच्छिन्नसन्तति सत् निरुध्यते । नान्यत्र[गतं] निरुध्यते । यथोक्तं सूत्रे- रूपेण कामान् समतिक्रामति । अरूपेण रूपं समतिक्रामति । निरोधेन सर्वचेतनामनस्कारान् समतिक्रामति इति । चित्तमेव चेतना मनस्कारो भवतीत्यवश्यं निरोधेन तं समतिक्रामति । सोपधिशेषनिर्वाणलाभिनः क्लिष्टं चित्तं निरुध्यते । निरूपधिशेषनिर्वाणलाभिनो ऽक्लिष्टं चित्तं निरुध्यते । इत्ययमेव तथागतशासने सम्यगर्थः । निरोधसमापत्तिं समापन्नश्च न मृत इत्युच्यते । चित्तनिरोधो हि मरणम् । यदि निरुद्धं चित्तं पुनर्जायते । मृतश्च पुनर्जायेत । निर्वाणं प्रविष्टो ऽपि पुनर्जायेत । तदा तु नैव विमोक्षः । वस्तुतस्तु न तथा । अतश्चित्तं न निरुध्यते ।
अत्रोच्यते । यद्भवानाह- नास्त्यचित्तकः सत्त्व इति अचित्त[ता] साम्ये ऽपि मरणे ऽस्ति भेदः । यथा सूत्रे परिपृच्छति- यो ऽयं [भन्ते] मृतः [कालकृतः] यश्चायं (sss_425) संज्ञावेदयितनिरोधं समापन्नः । अनयोः किं नानाकरणम् । प्रत्याह- यो ऽयं [गृहपते] मृतः [कालकृतः] । तस्य आयुरूष्म विज्ञानमितीमानि त्रीण्येकान्तनिरुद्धानि । यश्चायं [गृहपते] संज्ञावेदयितनिरोधं समापन्नः । तस्य चित्तमात्रं निरुद्धम्, आयुरूष्म तु कायाद् विभक्तं वर्तते इति । अतो ऽचित्तकः सत्त्वो भवेदिति । पुरुषस्यास्य चित्तं स ततस्थितिलाभि भवति । [स्थिति]लाभबलात् सचित्त इत्याख्या । न तु स तरुपाषाणसमः । यद्भवानवोचत्- त्रीणि वस्तून्यव्यभिचारीणीति । तत् कामरूपधातुकसत्त्वार्थतयोक्तम् । अरूपधातावस्त्यायुः, अस्ति विज्ञानम्, नत्वस्ति ऊष्म । निरोधसमापत्तिं समापन्नस्य चास्त्यायुः अस्त्यूष्म, नत्वस्ति विज्ञानम् । अस्मिन् सूत्रे ऽप्युक्तम् विज्ञानं कायाद्विभक्तमिति । अतस्त्रीण्यविभक्तानीति यत् वचनं, तत् यत्र सन्ति तत्रोक्तम् ।
यदवोचद्भवान्- आहारं विना कथं जीवेदिति । कायो ऽयं पूर्वतनीनमनः सञ्चेतनाहारात् प्रत्युत्पन्ने वर्तते । शीतादिस्पर्शात् कायं सन्धत्ते । यदुक्तं भवता चित्तं प्रतीत्य चित्तमुत्पद्यत । [तत्र] चित्तं चित्तान्तरस्य कारकहेतुः । कारकहेतौ निरुद्धे चित्तान्तरमुत्पादयति । (पृ) कथं निरुद्धं चित्तं चित्तान्तरमुत्पादयति । यथा चक्षू निरुद्धं सत् न तद्विज्ञानं जनयति । (उ) यथा निरुद्धं कर्म विपाकमुत्पादयति । तथेदमपि । यन्मनः यच्च मनोविज्ञानम् इमे द्वे मिथः प्रतिसम्बन्धिनी । न तथा चक्षुश्चक्षुर्विज्ञानम् । अतो ऽहेतुः । यदवोचः सन्तानसमुच्छेद एव चित्तं निरुध्यत इति । तदयुक्तम् । त्रिविधो हि निरोधः- रूपनिरोधः चित्तनिरोधः कदाचिद्रूपचित्तोभयनिरोधः, कदाचिद्रूपस्य निरोधो न तु चित्तस्य यथा निरोधसमापत्तिसमापन्ने । कदाचिद्रूपचित्तोभयनिरोधः यथा सन्तानसमुच्छेदे । यदवोचः निरोधसमापत्तिं समापन्नो न मृत इत्युच्यत इति । पुरुषस्यास्य नायुरूष्म निरुद्धम् । मृतस्य त्रीण्यपि निरुद्धानीति । अयं भेदः । पुरुषस्यास्य च आयुरूष्म प्रतीत्य चित्तं पुनरुत्पद्यते । न तथा मृतस्य । यदुक्तं भवता- यदि निरुद्धं चित्तं पुनर्जायते, (sss_426) तदा न विमोक्ष इति । तदयुक्तम् । कस्मात् । निर्वाणं प्रविष्टस्य पूर्वकर्मवेद्यानि आयुरूष्मविज्ञानानि निरुद्धानि । न पुनरुत्पद्यन्ते । अस्य तु आयुरूष्मणोरनिरोधे पूर्वकालीनं चित्तमुत्पद्यते । यथा निरोधसमापत्तिवर्ग उक्तम्- निरोधसमापत्तिं समापन्नः षडायतनानि कायजीवितञ्च प्रतीत्य पुनर्व्युत्तिष्ठत इति । अतश्चित्तं पुनरुत्पद्यते । निर्वाणं प्रविष्टस्य चित्तं परं न पुनरुत्पद्यते । अतो ज्ञायते समापत्तिरियमचित्तकेति ।
(पृ) कस्मादेतत्समापत्तेर्व्युत्थितस्य दत्तं दृष्टधर्मे विपाकं प्रापयति । (उ) एतत्समापत्तेर्व्युत्थितस्य चित्तं परमशान्तम् । यथोक्तं सूत्रे- निरोधसमापत्तेर्व्युत्थितस्य चित्तं निर्वाणभागीयम् इति । अस्य च ध्यानसमापत्तिबलं सुदृढम् । तदाश्रित्य प्रज्ञापि महती । प्रज्ञामहिम्ना दायको विशिष्टं विपाकं विन्दते । यथा शतसहस्रश्रावकाणां सत्कारको नैकबुद्धस्य [सत्कार]समानो भवति । अत्र प्रज्ञयैव विशेषो न संयोजनसमुच्छेदे । तथेदमपि । इमां समापत्तिं समापन्नस्य बहुलसद्धर्मवासितचित्तत्वात् महाफलमुत्पद्यते । यथा सुकृष्टे क्षेत्रे सस्यमवश्यं बहुलं भवति । लोकान्निर्विण्णस्य दानं महाविपाकं प्रापयति । निरोधसमापत्तेर्व्युत्थितो लोकात्परमनिर्विण्ण इत्यतस्तत्सत्कारो विशिष्टः । विशुद्धचित्तस्य दानं महाविपाकप्रापकम् । नाविशुद्धचित्तस्य पुरुषो ऽयं प्रज्ञप्त्यापि न क्लिष्टचित्तः । अत[स्त]त्सत्कारो महाविपाकप्रापकः । किञ्चायं सदा परमार्थसत्ये तिष्ठति । अन्ये संवृतिसत्ये वर्तन्ते । पुरुषो ऽयं सदा सरणधर्मे वर्तते । कस्मात् । संस्कृतालम्बनं चित्तं सरणं भवति । उक्तञ्च सूत्रे-
तृणदोषाणि क्षेत्राणि रागदोषा इयं प्रजा । तस्माद्धि वीतरागेषु दत्तमस्ति महाफलम् ॥ इति ।
रागप्रत्यया प्रज्ञप्तिसंज्ञा । अस्याः समापत्तेर्व्युत्थितो निर्वाणालम्बन इत्यतः प्रज्ञप्तिसंज्ञया विविक्तः । अपि चोक्तं सूत्रे- यस्य दानपतेः सत्कारं भुङ्क्त्वा अप्रमाणसमाधिमुपसम्पद्य (sss_427) विहरति । अयं दानपत्तिः तत्प्रत्ययमप्रमाणपुण्यं लभते इति । निरोधसमापत्तेर्व्युत्थितस्य [यत्] निर्वाणालम्बनं चित्तम् । इदमुच्यते ऽप्रमाणम् । अतो दृष्ट एव विपाकं लभते । किञ्च अष्टभिर्गुणै रलङ्कृतमिदं पुण्यक्षेत्रम्- सम्यक् दृष्टिः, निर्वाणालम्बनं चित्तं अन्यानि चाङ्गानि तैः समन्वागतं भवति । अत[स्तत्र दत्तं] दृष्टविपाकं जनयति ।
(पृ) केचिदाहुः- निरोधसमापत्तिश्चित्तविप्रयुक्तसंस्कारो लौकिकधर्मश्चेति । तत्कथम् । (उ) यथोक्तवत् एतत्समापत्तेर्व्युत्थितस्य परमशान्त्यादयो गुणा भवन्ति । नेमे गुणा लौकिकाः स्युः । (पृ) निरोधसमापत्तिर्धर्माणां प्रतिरोधार्था । तेन धर्मेण हि चित्तं नोत्पादयति । अतश्चित्तविप्रयुक्तसंस्कारः स्यात् । यथा तप्ते ऽयस्मि कार्ष्ण्यं न भवति । तापापगमे पुनर्भवति । तथेदमपि स्यात् । (उ) तथा चेत् निर्वाणमपि चित्तविप्रयुक्तसंस्कारः स्यात् । कस्मात् । निर्वाणं प्रतीत्य हि नान्ये स्कन्धाः समुत्पद्यन्ते । यदि निर्वाणं न चित्तविप्रयुक्तसंस्कार इति । इयं समापत्तिरपि न चित्तविप्रयुक्तसंस्कारः स्यात् । योगावचराणामीदृशो धर्मः स्यात् निरोधसमापत्तिं समापन्ने प्रणिहितानुगमनाच्चित्तं न प्रवर्तते । अतो न वक्तव्यो विप्रयुक्तसंस्कार इति ।
(पृ) इमां समापत्तिमेवानुपूर्वं समापद्यत इति किमनुपूर्वमेव व्युत्तिष्ठेत । (उ) अनुपूर्वमेव व्युत्तिष्ठते । क्रमेण चौदारिकं चित्तं समापद्यते । (पृ) सूत्र उक्तम्निरोधसमापत्तेर्व्युत्थितं चित्तं प्रथमं त्रयः स्पर्शाः स्पृशन्ति- अनिञ्ज्यः [स्पर्शः] अनिमित्तः [स्पर्शः] अप्रणिहितः [स्पर्श] इति । कस्मादेवम् । (उ) असंस्कृतालम्बने चित्ते विद्यमानः स्पर्शः अनिञ्ज्यः अनिमित्तः अप्रणिहित इति नाम । शून्यत एवानिञ्ज्यः । संस्कृतालम्बनस्य चित्तस्य लघुत्वादस्तीञ्जनं यद्रूपवेदनादीनां ग्रहणम् । शून्ये[सति] अनिमित्तम् । अनिमित्ते [सति] रागादि किमपि नास्ति । अचित्तको ऽयं प्रथमं निर्वाणमालम्ब्य ततः संस्कृतमालम्बते । अत उच्यते व्युत्थाने त्रयः स्पर्शाः स्पृशन्तीति ।
(पृ) केचिदाहुः- निरोधसमापत्तिं समापन्नस्य चित्तं सास्रवम् । समापत्तिव्युत्थितस्य चित्तं सास्रवं कदाचिदनास्रवं कदाचिदिति । कथमिदम् । (उ) न सास्रवम् । योगावचर एतत्समापत्तिसमीप्सया प्रथमत एव सर्वान् संस्कारान् परिभेदयति । परिभेदात्समापद्यते । (sss_428) व्युत्थितस्य निर्वाणालम्बनं चित्तमेवाभिमुखी भवति । अतो ज्ञायते सर्वथा अनास्रवमिति ।
सूत्र उक्तम्- [संज्ञावेदयित]निरोधसमापत्तिं समापद्यमानस्य भिक्षोर्नैवं भवति] अहं [संज्ञावेदयित]निरोधं समापद्ये इति । व्युत्थितस्य अपि नैवं भवति [अहं व्युत्तिष्ठामीति । तथा चेन् कथं समापद्यते । (उ) नित्यं भावितत्वात् समापत्तिबलं सुदृढं भवति । तथा चिन्तनासत्त्वे ऽपि समापद्यते । योगावचरो ऽयं संस्कृता[लम्बन]समुच्छेदात् तथाभूतं निरोधं समापद्यते । यदि चित्तमगृह्य संस्कृतमालम्बते । तदा न समापन्नो नाम । अतः सूत्रमाह [अथ खल्वस्य] पूर्वमेव तथाचित्तं भावितं भावति [यत् तत् तथात्वाय] उपनयति इति ।
(पृ) यदि नास्ति शून्यादन्यदुपलभ्यम् । तदा असंस्कृतालम्बनं चित्तं भावयित्वा कमुपकारं लभते । (उ) दीर्घकालं भावितत्वात् समापत्तिदार्ढ्ये ज्ञानदर्शनं सुनिश्चितं भवति । यथा संस्कृतालम्बनं चित्तं पश्यतो ऽपि नास्ति क्षणिकादन्यत् । दीर्घकाल भावितं चित्तमात्रन्तु सुदृढं भवति । तथेदमपि स्यात् ॥
निरोधसमापत्तिवर्ग एकसप्तत्युत्तरशततमः ।
172 दशकृत्स्नायतनवर्गः
पूर्वालम्बनमकम्पयित्वा चित्तबलवशिता कृत्स्नायतनमित्युच्यते । योगावचरः परीत्तनिमित्तं गृहीतवान् अधिमुक्तिबलेन तत् विपुलयति । कस्मात् । समाहितचित्तबलात् तत्त्वे ऽवतरतः सर्वं शून्यं भवति । अधिमुक्ताववतरतः पूर्वगृहीतं निमित्तमनुवर्तते । (पृ) को ऽयमधिमुक्तिस्वभावः । (उ) नीलादीनि रूपाण्यप्रमाणानि । तन्मूलानि (sss_429) संक्षिप्य चत्वारि, पृथिव्यादीनि चत्वारि महाभूतानि, चत्वारि च रूपाणां मूलानि एतदष्टकपरिच्छिन्नमिदमाकाशम् । विज्ञानमनन्तमाकाशं प्रजानातीति अनन्तमपि । यस्मात् सान्तधर्मो नानन्तं गृह्णाति । इमानि दश भवन्ति ।
(पृ) पृथिव्यामस्ति तु द्रव्यतो ऽबादि । योगी कथं पृथिवीमात्रं भावयति । (उ) दीर्घकालं तत् भावयन् सदा पृथिवीनिमित्तं गृह्णाति । ततः पृथिवीमात्रं पश्यति नान्यद्वस्तु । (पृ) योगिना दृष्टं पृथिवीनिमित्तं द्रव्यतः पृथिवी न वा । (उ) अधिमुक्तिबलात् दर्शने पृथिवी भवति न द्रव्यतो भवति पृथिवी । (पृ) निर्माणबलात् भूयमानं निर्मितमपि किं न द्रव्यम् । (उ) निर्मितं समाधिबलात्सिद्धमित्यतः कृतकं वस्तु यदुत प्रभा अप्तेजादि च ।
(पृ) केचिदाभिधर्मिका आहुः- अष्टकृत्स्नायतनानि चतुर्थध्यानमात्रे वर्तन्त इति । तत् कथम् । (उ) यदि वर्तन्त कामधातौ त्रिषु ध्यानेषु च को दोषः । अन्तिमे द्वे कृत्स्नायतने प्रत्येकं स्वभूमौ भवेताम् । तानि च दश सास्रवाणि । आलम्बनाकम्पित्वात् । (पृ) आकाशं किं रूपप्रतिघलक्षणम् । (उ) योगी अधिमुक्त्या च चक्षुःश्रोत्राद्याकाशलक्षणं शून्यं गृह्णाति । न साक्षाद्रव्यसद्रूपं परिभेदयति । अतो ऽपि आधिमुक्तिकमित्याख्या [तस्य] ।
(पृ) उक्तञ्च सूत्रे- सर्वपृथिवीसमाधिं समापन्नस्यैवं भवति- अहमेव पृथिवी, पृथिव्येवाहमिति । कस्मादेवं भवति । (उ) [स्व]चित्तं सर्वव्यापि पश्यति । अतश्चिन्तयति सर्वमहमिति । (पृ) केचिदाहुः- अयं समाधिः कामधात्वाप्तपृथिव्यादिमात्रमालम्बत इति । कथमिदम् । (उ) यदि कामधात्वाप्तपृथिव्यादि सर्वमालम्बते को दोषः । प्रज्ञप्त्याचायं समाधिरन्यान् धर्मानवलम्बते । तत्र कः पुनर्दोषो ऽस्ति । किञ्चायं समाधिरधिमुक्तितो ऽभूतमालम्बनं भावयति । नास्ति तु किञ्चिदभूतं पृथिव्यादि । (पृ) भगवतः श्रावका अपि भूम्यादि भावयन्ति । कथमिदम् । (उ) यदि शैक्षजना भावयन्ति । सर्वं तत् परिभेदार्थम् । (पृ) वस्तुतो नास्ति खलु सर्वं पृथिवी इत्यादीनि । कथमयं समाधिर्विपर्यस्तो न भवति । (उ) भावनायामस्यामस्ति मोहभागः । तत्रात्मदृष्टेः समुद्भवात् । अशुभादिभावना यद्यपि न परमार्थसत्यम् । तथापि वैराग्यानुकूला भवति । न तथा भावनेयम् । अतो ऽस्ति मोहभागः ।
(पृ) कस्मान्न भावयति अनन्तं वेदनादि । विज्ञानमात्रन्तु भावयति । (उ) (sss_430) ग्राह्यं पृथिव्यादि । विज्ञानं ग्राहकम् । अतो विज्ञानं भावयति न वेदनादि । वेदनादि च चित्तस्य प्रभेद इति प्रतिपादितमेव पूर्वम् । किञ्च योगी न पश्यति वेदनादि सर्वत्र व्यापि । सर्वत्र सुःखदुःखवेदनयोरभावात् । भगवतः श्रावका ये ऽस्मिन् समाधौ विहरन्ति । तेषामविनाशार्थालम्बनत्वात् । यतस्तदालम्बनं योगिनो ऽभिनिवेशायतनं भवति । यदि तद्विनश्यति तदा पृथग्जनसमः स्यात् ॥
दशकृत्स्नायतनवर्गो द्विसप्तत्युत्तरशततमः ।
173 दशसंज्ञासु अनित्यसंज्ञावर्गः
अनित्यसंज्ञा, दुःखसंज्ञा, अनात्मसंज्ञा, आहारे प्रतिकूलसंज्ञा, सर्वलोके ऽनभिरतिसंज्ञा, अशुभसंज्ञा, मरणसंज्ञा, प्रहाणसंज्ञा, विरागसंज्ञा, निरोधसंज्ञा [चेतिदश संज्ञाः] । अनित्यसंज्ञा यदनित्ये अनित्यमिति समाहितः प्रजानाति । (पृ) कस्मात्सर्वमनित्यम् । (उ) सर्वे हि धर्माः प्रतीत्यसमुत्पन्नाः । हेतुप्रत्ययविनाशात्सर्वे ऽनित्यतां यान्ति ।
(पृ) न युक्तमिदम् । केचिद्धर्माः प्रतीत्यसमुत्पन्ना अपि नानित्याः । यथा तीर्थिकानां सूत्रमाह- त्रिणाचिकेतस्य कर्ता शाश्वते पदे जायते इति । ब्रह्मकाउयिकाश्च शाश्वताः । (उ) भवतां शासने ऽप्युक्तम् शक्रो देवानामिन्द्रः क्रतुशतं कृत्वा पुनः पततीति । उक्तञ्च गाथायाम्- शक्रादयः शतसहस्राधिकानां क्रतूनामनुष्ठातारो ऽनित्याः क्षीयन्त इत्रि । क्रतूनां शतसहस्रमपि न वर्तते । अतो ज्ञायते त्रिणाचिकेतो ऽनित्य इति । शक्रो देवानामिन्द्रो देवेन्द्रादिकायभागश्च क्षीयते । अतःप्रतीत्यसमुत्पन्ना धर्मा अनित्याः । किञ्च भवतां वेदः पूज्यो ऽभिमतः । वेदे पुनरुक्तम्- विद्यया अमृतमश्नुत इति । यथाह- आदित्यवर्णो महापुरुषो लोकस्वभावमतीतः । तत्पुरुषानुगतमनस्को ऽमृतमश्नुते । न पुनरन्यो मार्गो ऽस्तीति । "अणोः पुरुषस्याणुरात्मा, महतो महानात्मा सदा काये शेते । य इममात्मानं न वेद । तस्य वेदादावधीयानस्यापि न कश्चनोपकार इति ।
ब्रह्मकायिकाश्च सर्वे ऽनित्याः । कस्मात् । भवतां शासने ह्युक्तम्- ब्रह्मा सहांपतिरपि गुणानां [प्रकर्षाय] सदा क्रतुं यजमानो व्रतं धत्ते इति । यदि कायो नित्य इति प्रजानाति । कस्मात् पुण्यं करोति । श्रूयते च भवतां ग्रन्थे वचनम्- अस्ति ब्रह्मणः [सहां] पतेर्मैथुनरागः । सति च तस्मिन् द्वेषादयः सर्वे क्लेशा अवश्यं भवन्ति । सत्सु क्लेशेषु अवश्यमस्ति पापकर्म । एवं पापी कथं नित्यं विमोक्षं प्रतिलभेत । न च सर्व ऋषयो देवान् यजन्ते । नापि सर्वे ब्रह्मयानं चरन्ति । यदीदं नित्यं, तदा सर्वथा तदाचरेयुः । सर्वे च पदार्था अनित्याः । कस्मात् । यानि पृथिव्यप्तेजोवायवो भूतानि । तानि कल्पावसाने क्षीयमाणानि न किञ्चिदवशिष्यन्ते । कालश्च चक्रवत्प्रवर्तते । अतो ज्ञायते ऽनित्यानीति । शीलसमाधिप्रज्ञाद्यप्रमाणगुणसम्पन्ना महान्तो दीपङ्करबुद्धादयः प्रत्येकबुद्धा महासम्मतादयः कल्पाद्या राजानः सर्वे ऽप्यनित्याः । कः पदार्थो नित्यो भवेत् । अपि च भगवानाह- यत्किञ्चित्समुदयधर्म, सर्वं तत् व्ययधर्म इति । यथोक्तं गोमयपिण्डिसूत्रे- अथ खलु भगवान् परीत्तं गोमयपिण्डं पाणिना गृहीत्वा तं भिक्षुमेतदवोचत्- नास्ति किञ्चिदीदृशं रूपं [यत् रूपं] नित्यं ध्रुवं [शाश्वतं] अविपरिणामधर्म [शाश्वतसंज्ञम्] इति । अस्मिन्नेव सूत्रे पुनर्विस्तरश उक्तम्- शक्रब्रह्मचक्रवर्तिराजानां [ये] फलविपाकाः [ते सर्वे] ऽपि अतीता निरुद्धा विपरिणता इति । अतो ज्ञायते सर्वमनित्यमिति ।
त्रैधातुकस्य सर्वस्यायुः परिमितम् । अवीचिनरकस्य परमायुरेकः कल्पः । सङ्घातनरकस्य कल्पार्धम् । अन्येषां किञ्चिदूनं वा अधिकं वा । नागादीनामायुरधिकतरमेकः कल्पः । प्रेतानामधिकतरमायुः सप्तवर्षसहस्राणि । [पूर्व]विदेहानामायुः पञ्चाशदुत्तरवर्षशतद्वयम् । [अवर]गोदानीयानामायुः पञ्चवर्षसहस्राणि । उत्तरकुरूणां नियतामायुर्वर्षसहस्रम् । जम्बूद्वीपिनामायुरप्रमाणकल्पा वा दशवर्षाणि वायुः । चातुर्महाराजिकानां देवानामायुः पञ्चवर्षसहस्राणि । यावद्भवाग्राणामायुरष्टवर्षसहस्राणि । अतो ज्ञायते त्रैधातुकं सर्वमनित्यमिति ।
त्रिभिः श्रद्धाभिश्च श्रद्धीयते ऽनित्यमिति । दृष्टे नास्ति कश्चिद्धर्मो नित्यः । आप्तवचने ऽपि न कश्चिद्धर्मो नित्यः । अनुमितिज्ञाने ऽपि नास्ति कश्चिन्नित्यः । दृष्टपूर्वकत्वादनुमानस्य । यद्यस्ति किञ्चिन्नित्यं स्थानम् । को विद्वान् सर्वधर्मनिरोध[पूर्वं] विमुक्तिमभिलषेत् । को (sss_432) वा नेष्यात् । सुखवेदिनां सदा संवासं प्रियं वा वस्तुतस्तु विद्वान् सर्वथा विमुक्तिमेव प्रार्थयते । अतो ज्ञायते समुदयधर्म न नित्यं भवतीति । अथ पुनर्वक्तव्यं समुदयधर्म सर्वं क्षणिकं मुहूर्तमपि न तिष्ठति । कः पुनर्वादो नित्यं भवतीति ।
(पृ) अनित्यसंज्ञाश्रद्धा किं करोति । (उ) क्लेशान् विनाशयति । यथोक्तं सूत्रे- अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति । सर्वं रूपरागं [पर्यादाति । सर्वं] भवरागं [पर्यादाति] । सर्वमस्मिमानं [पर्यादाति सर्वा]मविद्यां पर्यादाति इति । (पृ)
(पृ) मैवम् । अनित्यसंज्ञेयं कामरागमपि वर्धयति । यथा कश्चित् सुभिक्षकालो न दीर्घ इति बुध्यन् मैथुनराग आसज्यते । कुसुमं नातिचिरं नवं भवतीति जानन् सुखायाशु तदुपभुङ्क्ते । परस्य [दयिताजनस्य] सुरूपं न नित्यं भवतीति जानन् मैथुनरागं द्रुततरं वर्धयति । एवमनित्यज्ञानवशात्कामराग उत्पद्यते । अतो नानित्यसंज्ञा कामरागं विनाशयति । केचिदनित्यमिति जानन्तो वधादिकमपि कुर्वन्ति । यावत्तिर्यञ्चः अनित्यमिति जानन्तो ऽपि न क्लेशान् भिन्दन्ति । अतो ऽनित्यसंज्ञां भावयतो न कश्चिदुपकारो भवति । (उ) अनित्यत्वाद्वियोगदुःखमुत्प्रेक्षमाणः सुभिक्षकालसुखजीवितधनमानानि त्यजन्ति । विदुषो नानेन प्रीतिचित्तमुत्पद्यते । प्रीतिचित्ताभावे न कामचित्तमुत्पद्यते । वेदनां प्रतीत्य हि तृष्णा भवति । वेदनानिरोधे तृष्णा निरुध्यते । अतो ज्ञायते अनित्यसंज्ञा कामरागं समुच्छेदयत्येव । यश्च धर्मो ऽनित्यः, सो ऽनात्मा इत्यनित्यमनात्म च भावयतो योगिनो नात्मबुद्धिर्भवति । आत्मबुद्ध्यभावे आत्मीयबुद्धिर्न भवति । आत्मीयबुद्ध्यभावात् कुत्र कामरागः स्यात् । अनित्यसंज्ञां भावयन् स्वपरकायं क्षणिकं मरण[धर्म] च पश्यति । कथं रागमुत्पादयेत् । योगी प्रार्थितं सर्वमनित्यं विप्रलोपनमिति अनुयाति । तदा तुच्छं भवति । तुच्छत्वात् न कामरागमुत्पादयति । यथा कश्चिद्वालकः शून्ये हस्तः तुच्छ इति ज्ञात्वैव न [तत्र]सङ्गं जनयति । किञ्च सत्त्वा नाध्रुववस्तुषु प्रीयन्ते । यथा कश्चित् भङ्गुरत्वात् भाजने न प्रमुद्यते । यथापि च काचिन्नारी अमुकस्य पुरुषस्यायुर्न सप्तदिनान्येष्यतीति श्रुत्वा [वदति] सत्स्वपि सुभिक्षकालार्जवबहुमानधनप्रभावबलेषु को वा प्रीयेत इति । जनो ऽयं सम्यगनित्यसंज्ञा- [भावन]या न कामरागमुत्पादयति । विद्वान् हि पुनरावृत्तिपतनादिदुःखमनुस्मरन् यावद्दिव्यकामेष्वपि नासज्यते । केवलमुक्तिमेव प्रार्थयते । अनित्यसंज्ञा कामरागं वर्धयतीति यद्भवानवोचत् तदयुक्तम् ।
यदि कश्चिदप्रहीणास्मिमानो भवति । तदा स बाह्यं वस्त्वनित्यं पश्यन् शोच्यते । प्रियबलोविपरिहाण्या च कामप्रार्थतां करोति । पृथग्जनो ऽयं प्रहीणकामसुखो [ऽपि] न वियोगदुःखं प्रजानाति । तद्यथा कश्चिद्बालको मात्रा ताडितः पुनर्मातरमेवायाति । विद्वांस्तु दुःखहेतौ स्थित एव न दुःखं निरोध्यमिति ज्ञात्वा त्यजति दुःखहेतुं यदुत पञ्चस्कन्धान् । अयं योगी आभ्यन्तरस्कन्धान् परिभेत्तुं अनात्मसंज्ञां प्रतिलभते । बाह्यवस्तुविनाशे ऽपि न शोकेन पीड्यते । अनात्मप्रतिलाभी किं पुनः प्रार्थयीत अनित्यसज्ञ्यपि न किञ्चित्प्रार्थयते ।
अनित्यसंज्ञा चेयं यदि दुःखे ऽनात्मसंज्ञां नोत्पादयति । तदा सा क्लेशविनाशनसम्पन्ना न भवति । अत उक्तं सूत्रे- एकाग्रेण चित्तेन पञ्चस्कन्धाननित्यान् भावयेत् । य आध्यात्मिकान् स्कन्धान् अपरिभिद्य बहिर्धा वस्तु अनित्यं पश्यति । तस्य सात्मसंज्ञत्वात् शोक उत्पद्यते । तदेयमसम्यग्भावना भवति । इति । अनित्यमिति पश्यतामपि न निर्वेदविराग उत्पद्यते । यथा औरभ्रिकव्याधादीनाम् । एषां सत्यपि अनित्यज्ञाने न साधुभावना भवति । कश्चित्सम्यग्भावयन्नपि नानवरतं भावनां व्यवस्यति । तस्य कामचित्तमन्ते विपर्यस्यति । अत उच्यते- एकग्रचित्तेतेति । किञ्च कश्चित् अनित्य[संज्ञा]मल्पकालं भावयति । क्लेशास्तु बहवः । न [तान्] परिभेत्तुमलं भवति । यथा अल्पमौषधं बह्वी र्व्याधीर्न विनाशयति । तथेदमपि । अत उच्यते- एकाग्रचित्तेन अनित्यमिति सम्यम्भावना क्लेशान् विनाशयति । इति ।
धर्मा अनित्या इति ज्ञानमेव तत्त्वज्ञानम् । सति तत्त्वज्ञाने न भवन्ति कामादयः क्लेशाः । कस्मात् । अविद्याप्रत्ययत्वात् कामादीनाम् । इति अनित्य[संज्ञा] न कामरागसंवर्धनीति वेदितव्यम् । किञ्चानित्यसंज्ञा सर्वान् क्लेशानुपशमयति । योगी यदि प्रजानाति वस्त्विदमनित्यमिति । न तदा [तत्र]सकामो भवति । पुरुषो ऽयमवश्यं मरिष्यतीति प्रजानन् कस्मै द्विष्यात् । कः सचेतनो म्रियमाणं द्विष्यात् । यदि धर्मा अनित्याः, कथं तत उद्धतसंज्ञामुत्पादयेत् । धर्मा अनित्या इति ज्ञानान्न मोह उत्यद्यते । मोहानुदयान्नविचिकित्सादयो भवन्ति । अतो ज्ञायते अनित्य[संज्ञा] क्लेशानां विरोधिनीति ॥
अनित्यसंज्ञावर्गस्त्रिसप्तत्त्युत्तरशततमः ।
174 दुःखसंज्ञावर्गः
यो धर्मो बाधात्मकः तद् दुःखमित्युच्यते । तत्रिविधम्- दुःखदुःखं विपरिणामदुःखं संस्कारदुःखमिति । प्रत्युत्पन्ने वस्तुतो दुःखं यदसिशस्त्रादि तद् दुःखदुःखम् । प्रियाणां पुनर्भार्यादीनां वियोगकाले यद्भवति दुःखम्, इदं विपरिणामदुःखम् । शून्यानात्मज्ञानलाभिनो यच्चित्तं भवति संस्कृतधर्माः सर्वे विहेठना इति । तत्संस्कारदुःखम् । तद्दुःखानुयायि चित्तं दुःखसंज्ञा ।
(पृ) दुःखसंज्ञां भावयता किं हितं लभ्यते । (उ) दुःखसंज्ञायां फलान्निर्वेदो भवति । कस्मात् । न हि दुःखसंज्ञां भावयिता कामप्रीतिं सेवते । तत्प्रीत्यभावान्न तृष्णा भवति । योगी यदि धर्मा दुःखमिति प्रजानाति । तदा न संस्काराननुभवति । धर्मा अनित्या अनात्मका अपि न दुःखजनकाः तदा नैव त्याज्याः । दुःखत्वात्तु त्याज्याः । दुःखत्यागाद्विमुच्यते । सर्वे सत्त्वा अतितरां भीता भवन्ति यदिदं दुःखमिति । यदि तरुणो वृद्धो वा पामरः पण्डितो वा आढ्यो दरिद्रो वा जानाति इदं दुःखलक्षणमिति । [तदा] सर्वे ते निर्विण्णा भवन्ति । सर्वे योगचारिणः पुरुषा निर्वाणे शान्तोपशमसंज्ञोत्पादका भवन्ति । सर्वेषां संसारे दुःखसंज्ञोत्पादनात् । केनेदं ज्ञायते । ये सत्त्वाः कामधात्वाप्तदुःखोपद्रुता भवन्ति । ते प्रथमध्याने शान्तसंज्ञामुत्पादयन्ति । एवं भवाग्रदुःखोपद्रुता निर्वाणे शान्तसंज्ञामुत्पादयन्ति ।
संसारे ऽस्त्यवद्यं यदुत दुःखम् । यथोक्तं सूत्रे- यत् रूपणमनित्यं दुःखं विपरिणामधर्म, अयं रूपस्यादीनव इति । अविद्ययाभिनिविष्टमिदं दुःखम् । केनेदं ज्ञायते । सत्त्वानां परमार्थतो दुःखे सुखसंज्ञोत्पादात् । परमदुःखसंज्ञोत्पादनात्तु निर्विद्यन्ते । अतो भगवानाह- ये दुःखं बुध्यन्ति तेषामहं दुःखमार्यसत्यं व्याकरोमि इति । तत्र भगवान् लोकसत्यमुपादाय इममर्थं प्रकाशयति । सर्वदेवमनुष्याणां यत्र सुखसंज्ञा भवति । तत्र मम श्रावका दुःखसंज्ञामुत्पादयन्ति । उत्पन्नदुःखसंज्ञा निर्विद्यन्त इति । परममोहपदं (sss_435) यद् दुःखे सुखसंज्ञोत्पादनम् । अनया संज्ञया च सर्वसत्त्वानां संसारे यातायातानां मानसं क्लिश्यति । दुःखसंज्ञाप्रतिलाभिनस्तु मुच्यन्ते ।
चतुर्भिराहारैश्चोर्ध्वदेहं समापद्यते । तत्र दुःखसंज्ञया आहारान् प्रजहाति । यथा पुत्रमांसखादनम्, यथा वा निश्चर्मगोभक्षणम्, यथा अङ्गारकर्षुभक्षणम् । यथा शक्तिशतधारावलेपनम् । तथाभूते ऽष्वाहारेषु सर्वं दुःखार्थकम् । तथा दुःखसंज्ञया आहारान् प्रजहाति । दुःखसंज्ञां भावयतो मनो न चतसृषु विज्ञानस्थितिषु सुखं विहरति सर्वत्र दुःखदर्शित्वात् । यथा मुग्धाः शलभाः सुखसंज्ञया प्रदीपे पतन्ति । विद्वान् अग्निर्दहतीति ज्ञात्वा [तं] परीहरति । प्राकृता अपि तथा अविद्यामोहादूर्ध्वदेहाग्नौ पतन्ति । विद्वांस्तु दुःखसंज्ञया विमुच्यते । सर्वञ्च त्रैधातुकं दुःखं दुःखसमुदयः । दुःखा वेदना दुःखम् । दुःखजनकं दुःखसमुदयः । [इदानी]मदुःखमपि अवश्यं चिराद्दुःखं जनयति । अतो लोके सर्वं दुःखमिति भावयेत् । निर्विण्णचित्ता धर्मान् वेदयन्तो विमुच्यन्ते ॥
दुःखसंज्ञावर्गश्चतुस्सप्तत्युत्तरशततमः ।
175 अनात्मसंज्ञावर्गः
योगी सर्वे धर्म भङ्गविपरिणामलक्षणा इति पश्यति । यस्मिन् रूपे आत्त्मतयाभिनिविशते इदं रूपं विपरिणामधर्म । तद्विपरिणामधर्मज्ञानादात्मचित्तं परिहरति । तथा वेदनादीनपि । यथा कश्चित् गिरिनिर्झरानुवाहितो यत्किञ्चिदवलम्ब्य तद्विहाय मुच्यते । तथा योग्यम्पि तदात्मतया कल्पयति । तद्विपरिणामधर्म दृष्ट्वा अनात्मकं प्रजानाति । अतो ऽनात्मके ऽनात्मसंज्ञां भावयति ।
(पृ) अनात्मसंज्ञां भावयन् किं हितं लभते । (उ) अनात्मसंज्ञाभावयिता दुःखसंज्ञां परिपूरयति । पृथग्जना आत्मसंज्ञया परमार्थतो दुःखे न दुःखं पश्यन्ति । अनात्मसंज्ञया तु अत्यल्पे ऽपि दुःखे तदुपघातं बुध्यते । अनात्मसंज्ञया चोपेक्षाचित्तं समुदाचरति । कस्मात् । आत्मसंज्ञया हि आत्मा नश्येदिति बिभ्यन्ति । यदि परमार्थं (sss_436) जानाति तदा हायपति दुःखमनात्मकं विनाश्यमिति । तदा समुदाचरत्युपेक्षा । अनात्मसंज्ञया च नित्यसुखं भवति । कस्मात् । सर्वमनित्यम् । तत्र यदि आत्मात्मीयचित्तमुत्पादयति । तदा आत्मा न भवेत्, आत्मीयमपि न भवेत्, सदा दुःखमेवास्ति इति वदेत् । नास्त्यात्मात्मीयमिति चिन्तयतो धर्मेषु विनष्ठेषु न दुःखमुत्पद्यते ।
अनात्मसंज्ञया च योगिनश्चित्तं विशुध्यति । कस्मात् । सर्वे हि क्लेशा आत्मदृष्टिसम्भूताः । इदं वस्तु आत्मनो हितमित्यतः कामराग उत्पद्यते । इदं वस्तु आत्मनो ऽहितमित्यतो द्वेषप्रतिथ उत्पद्यते । अनेनात्मैवाभिमानजनकः । अहमायुषो ऽन्ते करिष्यामि न करिष्यामिति दृष्टिविचिकित्सा भवति । एवमात्मनैव सर्वे क्लेशाः समुद्भवन्ति । अनात्मसंज्ञया तु सर्वे क्लेशाः समुच्छिद्यन्ते । क्लेशानां समुच्छेदात् चित्तं विशुध्यति । चित्तविशुद्ध्या च काञ्चनं लोष्टं चन्दनमसिधारां प्रशंसां निन्दाञ्च समं मन्यते । प्रियविप्रियैर्विविक्तं चित्तं सुनिवृत्तं शान्तं भवति । अतो ज्ञायते ऽनात्मसंज्ञकस्य चित्तं विशुध्यतीति । अनात्मसंज्ञां विहाय नास्त्यन्यो मार्गो विमुक्तिप्रापकः । कस्मात् । यद्यात्मवादी प्रजानाति नास्त्यात्मा नास्तात्मीयमिति । एवं व्यवसितं चित्तमुत्पादयन्नेव विमुच्यते ।
(पृ) मैवम् । कदाचिदनात्संज्ञया पुनःकामचित्तमुत्पद्यते । यथा स्त्रीरूपे रागः । तत्सर्वमनात्मस्नेहात् । नैरात्म्यमनुसरन्नेव पुण्यपापं सञ्चिनोति । कस्मात् । स्वकायस्योपकारे ऽपकारे वा न पुण्यपापम् । (उ) सात्मकचित्तः कामरागमुत्पादयति । स्वकाये पुरुषसंज्ञां परकाये च स्त्रीसंज्ञामुत्पाद्य [तत्र] अभिनिविशते । तदभिनिवेशोत्पादश्च प्रज्ञप्त्या भवति । तल्लक्षणैव प्रज्ञप्तिः । अतो न नैरात्म्यं कामचित्तजनकम् । अनात्मचित्तश्च न कर्माणि सञ्चिनोति । यथा अर्हतो ऽनात्मसंज्ञया न कर्माणि सञ्चीयन्ते । अनात्मसंज्ञेयं सर्वेषां क्लेशानां कर्मणाञ्च समुच्छेदिनी । अत[स्तां] भावयेत् ॥
अनात्मसंज्ञावर्गः पञ्चसप्तत्युत्तरशततमः ।
176 आहारे प्रतिकूलसंज्ञावर्गः
सर्वं दुःखजननमाहारकामाद्भवति । आहाराच्च मैथुनरागः सहोत्पद्यते । कामधातौ यानि सन्ति दुःखानि सर्वाणि तानि अन्नपान मैथुनरागं प्रतीत्य भवन्ति । आहारकामसमुच्छेदाय प्रतिकूलसंज्ञां भावयेत् ।
यथा कल्पादौ सत्त्वाः स्वर्गादागत्य लोके ऽस्मिन् उपपादुका अभूवन् । [ते] प्रभास्वरकायाः खेचराः स्वतन्त्रा भूत्वा पृथिवीरसमादावश्नुवन् । तदशनबहुलाः प्रणष्टप्रमातिशया अभूवन् । एवं क्रमेण जराव्याधिमरणशालिनः यावद्वत्सरशतं भूयसा दुःखैः पीडिताः । आहाराभिनिवेशवशात् सर्वे ते तादृशेम्यः फलेम्यः प्रणष्टाः । अत आहारं योनिशो भावयेत् । अन्नपानाभिनिवेशान्मैथुनराग उत्पद्यते । ततो ऽन्ये क्लेशा भवन्ति । तेभ्यो ऽकुशलं कर्म कुर्वन्ति अकुशलकर्मतः त्रीन् दोषान् वर्धयित्वा देवमनुष्याणामपकुर्वन्ति । तस्मात् सर्वाः क्लेशविपत्तय आहारकामात् भवन्ति जराव्याधिमरणलक्षणानि अन्नपानाधीनानि ।
आहारो ऽयं स्थाने परममभिनिवेशयति । कामरागो गुरुरपि न पुरुषं क्लेशयति । यथा आहारकर्ता । यदि वा बालो वृद्धो गृहस्थः प्रव्रजितो वा अनाहारपीडितो भवति । आहारमिमं भुङ्क्त्वा अनासक्तमना भवेत् । अविरागी अतितरां खिद्यते । यथा असिधारावलेपनी, यथा वा विष[सिक्तौ]षधसेवकः । यथा वा विषसर्पपोषकः । अतो भगवानाह- भावितचित्त इदमाहारयेत् । नाहारकामाय तद्दुःखपीडितः स्यात् इति । केचित्तीर्थिका [अपि] निरशनव्रतमाचरन्ति । अतो भगवानाह- नास्याहारस्योपच्छेदात् विमुच्यते । किन्तु योनिशो मनसि कृत्वा आहारयेदिति । ये समुच्छिन्नाहाराः तेषां क्लेशा न क्षीयन्ते । अहितं तीव्रमरणमेव भवति । अतो भगवानाह- आहारे ऽस्मिन् प्रतिकूलसंज्ञां जनयेत्, नास्ति ततो ऽवद्यमिति ।
(पृ) कथमाहारे प्रतिकूलसंज्ञा कुर्यात् । (उ) अयं कायस्वभावो ऽकुशलः । अत्युत्तरमसमाहारफलं सर्वमशुचि । अतस्ततो निर्विन्द्यात् । सुरभिगन्धमधुरपानभोजनानि शुचिकाल एव कायस्य हितकराणि । दन्तेन चर्वितं लालया सिक्तं लिङ्गं वान्तवदामाशयपतितं कायस्य हितकरम् । अतो ज्ञायते ऽशुचीति । इदमन्नपानमज्ञानात्सुखम् । यदि कश्चिन्मधुरमाहारं लभमानो ऽपि पुनर्वान्तं न भुनक्ति । इति ज्ञातव्यमज्ञानबलात्तन्मधुरं मन्यत इति ।
आहारप्रत्ययं कृषिकर्म सेवार्जनं संरक्षणमित्येवञ्जातीयदुःखान्यनुभवति । तत्प्रत्ययमप्रमाणानि पापानि कुर्वन्ति । यदशुचि सर्वं तदाहाराधीनम् । असत्याहारे केन (sss_438) भवन्ति त्वगस्थिरक्तमांसोच्चारादीन्यशुचीनि वस्तूनि । या दुर्गतयोर्वर्चःकुटीक्रिम्यादयः ते सर्वे गन्धरसाभिनिवेशादत्रोत्पद्यन्ते । यथोक्तं कर्मवर्गे- यस्तर्षितो म्रियते स जलक्रिमिभावेनोत्पद्यते । निबिडस्थाने मृतः पक्षिषूत्पद्यते । मैथुनरागेण मृतो योनावुत्पद्यते । इत्येवमादि । य एतदाहारविविक्त स महासुखं प्रतिलभते । यथा रूपधातौ निर्वाणे चोत्पद्यते । आहारानुवर्तनतः कृष्णादिदुःखं भवति । एवमाहारो ऽशुचिर्दुःख इति दृष्ट्वा प्रतिकूलसंज्ञां भावयेत् ॥
आहारे प्रतिकूलसंज्ञावर्गः षट्सप्तत्युत्तरशततमः ।
177 सर्वलोके ऽनभिरतिसंज्ञावर्गः
योगी पश्यति लोकेषु सर्वं दुःखम्, चित्ते च नास्ति किञ्चित्सुखमिति । अयञ्च योगी भावयति प्रीतिविविक्तं समाधिं तद्यथा अनात्मसंज्ञां दुःखसंज्ञामाहारे प्रतिकूलसंज्ञां मरणसंज्ञाम् । इत्यादि । तदा तस्य चित्तं न सर्वलोके ऽभिरमते । अपि चायं पश्यति- यत्प्रियं तत्कामरागवर्धनम्, यद्विप्रियं तत् द्वेषप्रतिघवर्धनमिति । अत उभयत्र नाभिरमते । धनिकस्य पालनादिदुःखमस्तीति दृश्यते । दरिद्रस्याकिञ्चन्यदुःखं दृश्यते । सुस्थानिको दुःस्थाने पतिष्यमाणो दृश्यते । दुःस्थानिको दृष्टे दुःखान्यनुभवन् दृश्यते । प्रत्युत्पन्नो धनिको ऽवश्यं पतिष्यामि, इदञ्च कामादीनां विहृतिस्थानमिति प्रजानानो दृश्यते । प्रत्युत्पन्नो दरिद्रो न प्रत्ययोपलभ्यनिर्गम इति प्रजानानः । अतो न सवलोके ऽभिरमते । अल्पतराश्च सत्त्वाः सुस्थान उत्पन्नाः, बहुतरा दुर्गतौ पतन्ति । यथोक्तं सूत्रे- अल्पतराः सुस्थान उत्पद्यन्ते बहुतरा दुस्थान उत्पद्यन्ते । तदादीनवं दृष्ट्वा निर्वाणमेव प्रार्थयन्ते । इति । पुरुषो ऽयं पश्यति कामादयो दोषाः क्लेशास्सदा सन्तानमनुवर्तन्त इति । यथा क्रोधासेवी पुरुषो ऽवकाशे लब्धे पुनर्बध्यते । अस्मिन् वधके कथमभिरमेत । क्लेशादुत्पन्नमकुशलं कर्म सदानुवर्तमानं दृश्यते । नैवाकुशलकर्मफलान्मुच्यते । यथोक्तं सूत्रे-
स चेत्तु पापकं कर्म करिष्यति करोषि वा । न ते दुःखात्प्रमोको ऽस्ति, उत्पात्यापि पलायतः ॥ इति ।
अतो नाभिरमते । जात्यादीन्यष्ट दुःखानि सदा सुकृतिनमनुवर्तन्ते । किं पुनः पापिनम् । एवं कथं लोके अभिरमेत । तद्यथा आशीविषकरण्डः पञ्चोक्षिप्तासिका वधकाः शून्ये ग्रामे चोरः । तादृशान्यवरतीराणि दुःखानि सदा सत्त्वाननुवर्तन्ते । कथं तत्राभिरमेत । तद्यथा लवणतिक्ततृष्णानदीवाहितः पञ्चकामगुणविषशल्य [विद्धः] अविद्यान्धकाराङ्गारकर्षौ [पतितस्तादृशानि] दुःखानि सत्त्वाननुवर्तन्ते । कथं [तत्र] अभिरमेत । योगी उपशमसुखमल्पं विपत्तिक्लेशदुःखानि बहूनीति प्रजानाति । कस्मात्, [यस्मात्] प्रतिदीनं लोकैस्तूयमाना वनषण्डप्रसूतस्फीतफलसमृद्धिशालिनो [ऽपि] भूपा न दीर्घकालसुखलाभिनो दृश्यन्ते । सुखसम्प्रहर्षिणो ऽल्पाः । दुःखवेदिनस्तु बहवः । अतो न सर्वलोके ऽभिरमते ।
(पृ) संज्ञामिमां भावयन् कानि हितानि विन्दते । (उ) नानाविधलोकलक्षणेषु न चित्तमभिनिविशते । तां संज्ञां भावयता क्षिप्रं मोक्षो लभ्यते । संसारे च दीर्घकालं [न]तिष्ठति । अयं योगी हितं ज्ञानं विन्दते । सदा सर्वत्रादीनवभावित्वात् । अस्य च चित्ते न क्लेशा उद्भवन्ति ।
उद्भवे वाशु निरुध्यन्ते । यथा तप्तायःकपाले पतितं जलबिन्दु । योगी लोके नाभिरमत इत्यतः परमोपशमे ऽभिरमते । यो लोकान्निर्विण्णः स उपशमे परमे ऽभिरमते । तस्मात् सर्वलोके ऽनभिरतिसंज्ञां भावयेत् ॥
सर्वलोके ऽनभिरतिसंज्ञावर्गः सप्तसप्तत्युत्तरशततमः ।
178 अशुभसंज्ञावर्गः
(पृ) अशुभसंज्ञां कथं भावयेत् । (उ) योगी पश्यति कायस्य बीजमशुभं यदुत मातापितोरशुचिमार्गजशुक्रशोणितसङ्घातः । कायो ऽयमशुचिभिः संसिद्धो यदुत जीर्णाहारप्रस्वेदप्रस्निग्धः । उपपत्तिस्थानञ्चाशुचि यदुत मातुः कुक्षौ परिपूर्णमशुचि भवति । (sss_440) विण्मूत्राद्यशुचिपदार्थाः सम्भूय कायं कुर्वन्ति । नवसु द्वारेषु सदाशुचीनि स्रवन्ति । कायो ऽयं यत्र निक्षिप्यते तदेव स्थानममङ्गलमशुचि । अन्नं पानं वस्त्रं पुरुषकायगतं परीहितं सर्वंमशुचि भवति । परेषां दूषणञ्च भवति । कायस्यास्य पदार्थः सर्वो ऽशुचिः । यथा स्नानजलं यदि वा स्नानपात्रादि । कायोत्थं केशनखशिङ्खाणश्लेष्मादि सर्वमशुचि । दृश्यते च मृतकायो ऽशुचितः । कायो ऽयं म्रियमाणः किमन्यो भवति । आदित आरभ्यायमशुचिरिति वेदितव्यम् । जायमानस्तु आत्मबुद्धिविपर्ययात् शुचिरित्युच्यते । मृतस्पृष्टी अशुचिर्भवति । केशनखादि सदा मृतवस्तु । अप्रमाणा मृतक्रिमयश्च सदा कायं स्पृशन्ति । अतो ज्ञातव्यं कायो ऽयमादित आरभ्याशुचिरिति । अशुचिलूक्षामक्षिकामशकादयः सर्वा अशुचिक्रिमयः सर्वदागत्य कायं स्पृशन्तीत्यश्चाशुचिः । कायो ऽयं वर्चःकुटीवत् सदाशुचिपूर्णः । तत्प्रतीत्य वर्चःकुट्यां सहस्रधा क्रिमयो भवन्ति । तथायं कायो ऽपि ।
कायो ऽयं श्मशानसमः । कस्मात् । मृतकायस्य हि स्थानं श्मशानमित्युच्यते । अयं कायो ऽपि बह्वयो मृतक्रिमयो ऽत्र तिष्ठन्ति । अयं कायो ऽशुचिं करोति । यानि शुचिस्थानानि सुरभिकुसुमवस्त्रमालादीनि [तानि] सर्वाण्येतत्कायवशादशुचीनि भवन्ति । ब्राह्मणा मृतगृहे प्रसूतिकागृहे च नाहारमुपभुञ्जन्ति । अशुचित्वात् । अस्मिन् काये तु शतसहस्रधा क्रिमयः सदा जायन्ते म्रियन्ते च । तदा नोपभोज्यान्नपानो भवेत् । अतो ज्ञायते ऽशुचिरिति । लोके च नरकमशुचि । कायो ऽयं क्रिमिशतसहस्राणां नरकम् । अतो ऽशुचिः । कायो ऽयं सदा स्नानमपेक्षते । यदि शुचिः । किमर्थं स्नानमपेक्षते । सुरभिकुसुमगन्धमालालङ्कृतो ऽयं कायः इति वेदितव्यं कायो ऽयं स्वभावतो ऽशुचिरिति । प्रज्ञप्त्या शुचिभिः बाह्यैरलङ्क्रियते । अयं मनुष्यकायः परममशुचिः । यथान्येषां सत्त्वानां चर्मरोमनखदन्तमज्जास्थिमांसानि कदाचिदुपयुज्यन्ते । मनुष्यकाये तु नैकमस्ति ग्राह्यम् । परमाशुचित्वात् । यथोत्पलपद्भपुण्डरीकपुष्पादीनि अशुचिसभूतत्वादशुचीनि भवन्ति । न तथा कायो ऽयमन्यपदार्थैरशुचीक्रियते । प्रकृतित एवाशुचिः । कायो ऽयं यदि शुचिः । तदा न वस्त्रेणाच्छादयेत् । यथा पुरुषो वस्त्राच्छादितमलराशिः परान् वञ्चयति । तथा स्त्री आच्छादनाभरणाच्छादितकाया पुरुषं मोहयति । तथा पुरुषो ऽपि । [अतो] ज्ञातव्यमशुचिरिति । समन्ततो ऽयं कायः सदा अशुचि निस्सारयति यदुत नवरन्ध्राणि अशुचिद्वाराणि रोमकूपेषु च नैकमस्ति शुचि ।
(पृ) अशुभसंज्ञाभावना कस्य हितस्य लाभाय भवति । (उ) स्त्रीपुरुषयोः शुभसंज्ञया कामराग उत्पद्यते । तस्मात्कामरागात्पापकानां द्वारमप्राव्रियते । अशुभसंज्ञाभावनायान्तु कामरागाणां निग्रहो भवति । कस्मात् । अयं हि कायो दुर्गन्धमलैरशुचिश्चर्मावृतत्वात्परं न ज्ञायते । वसनाच्छादिताशुचिराश्याभासवत् शुचिप्रियवस्तु परिवर्जयेत् । योगी चायं विनीलकलोहितकादिसंज्ञया सर्वकायं पर्यादाति । कायपर्यादानात् न कामरागो भवति । प्रत्यक्षं दृश्यते च विनीलकलोहितकादिरूपम् । (पृ) यद्वस्तुतो ऽविनीलकम्, तत् कस्माद्विनीलकं पश्यति । (उ) अधिमुक्तिवलाद्योगी तत् विनीलकं गृह्णाति । सर्वाणि रूपाणि च विनीलकलोहितकानि पश्यति ।
(पृ) भावनेयं कस्मान्न विपर्यस्ता भवति । (उ) कायो ऽयं विनीलकलोहितभागीयः । यथोक्तं सूत्रे- अस्ति वृक्षे विशुद्धता इति । विनीलकलोहितकलक्षणं सदा भावयन् अन्यानि रूपाण्यभिभवति । यथा [इन्द्र]नीलमणिप्रभा स्फटिकरूपं तिरस्करोति । एवं विनीलकलोहितकादिलक्षणं दीर्घकालं भावयतो ऽशुभ[संज्ञा] सम्पूर्णा भवति । अशुभसंज्ञायां न मैथु राग उत्पद्यते । अनुत्पन्ने मैथुनरागे सांवृतसर्वापत्तिविमुखो निर्वाणमेयानुयाति । अशुभसंज्ञां भावयत इदृशं हितं लभ्यते ।
अशुभभावनावर्गो ऽष्टसप्तत्युत्तरशततमः ।
179 मरणसंज्ञावर्गः
योगीमरणसंज्ञया जीविते ऽध्रुवचित्तो भवति । इत्यतः [तां] भावयेत् । अयं सदा कुशलधर्मेषु परममभिरतो ऽकुशलधर्मान् प्रजहाति । कस्मात् । सत्त्वा भूयसा मरणविस्मरणादकुशलं कर्म कुर्वन्ति । यदा तु मरणमनुस्मरन्ति तदा प्रजहति । सततमरणानुस्मरणाच्च मातापितृभ्रातृस्वसृज्ञातिसालोहितपरिजनादिषु रागतृष्णाल्पीयसी भवति । मरणसंज्ञां भावयतः स्वस्य हितं भवति यदुत चित्तैकाग्र्येण कुशलधर्माणामुपचयः । (sss_442) लौकिकाः सत्त्वा भूयसा परिहिताभिरता स्वहितं त्यजन्त्येव । किञ्चायं क्षिप्रमेव मुच्यते । कस्मात् । आजवञ्जवमनुघावतां हि लोकानां सदा मरणं भवति । अयन्तु मरणनिर्वेदा द्विमुक्तिमेव प्रार्थयते ।
(पृ) कथं मरणसंज्ञां भावयेत् । (उ) सर्वमनित्यमिति पूर्वं सामान्यत उक्तम् । इदानीन्तु कायो ऽनित्य इति मात्रं भावयेत् । स्कन्धानां सन्तानसमुच्छेदो मरण संज्ञेत्युच्यते । कायो ऽयं बाह्यवस्त्वपेक्षयाप्यनित्यतरः । तद्यथा मृण्मये घटे ऽध्रुवलक्षणम् । तदप्यतिक्रान्तो ऽयं काय इति योगी भावयति । कस्मात् । मृण्मयो ऽयं घटो यदि [सम्यक्] प्रयोगपालितः कदाचित् चिरं तिष्ठेत् । अयं कायस्तु चिरतमं तिष्ठमानो न वत्सरशतमतिक्रामति । अध्रुवत्वान्मरणसंज्ञामनुस्मरेत् । किञ्चायं कायः परिपन्थिधर्मैः सम्बहुलः यदुताशिशस्त्रगदावधकचोरप्रपातपानभोजनापरिपाचनातिशीतातिघर्मवातव्याधयः । संक्षेपतः सर्वे सत्त्वा असत्त्वाश्च कायस्य परिपन्थिनो धर्मा द्रष्टव्याः । अतो भावयेन्मरणसंज्ञाम् ।
किञ्च योगी पश्यति कायः क्षणिकनित्यो विपरिणामलक्षणो नैकं क्षणमप्यारक्ष्य इति । अतो मरणसंज्ञां भावयति । योगी दृष्टधर्मे च पश्यति बाल्ययौवनवार्धक्यानि सव्याधीनि निर्व्याधीनि वा न मरणपरिहारीणीति । एवं कायेनापि भवितव्यमित्यनुस्मृत्य मरणसंज्ञां भावयति । किञ्च योगी पश्यति अनियतविपाकं कर्म । न सर्वकर्माणि क्षीयन्ते आयुर्वर्षशतैरपि । कर्मणो ऽनियतत्वान्मरणमप्यनियतं इति । अतो मरणसंज्ञामनुस्मरेत् । अनादौ च संसारे ऽस्ति कर्माप्रमाणम । अस्ति किञ्चित्कर्म अन्यकर्मणो वरणकम् । ममापि भवेदकालिकमरणकर्म । इति कथमस्मिन्नायुषि[योगी] श्रद्दधीत । किञ्च योगी पश्यति मरणमतिप्रभविष्णु, न सान्त्ववचनेनोल्लापनीयं धनेनानुनेयं विग्रहेण वा मोचनीयम् । यथा महति शैले चतुर्भ्यो दिग्भ्य आगते नास्ति पलायनस्थानम् ।
(पृ) यदि कश्चिद्यमं सन्तपर्यति । तदा मरणान्मुच्यते । (उ) अयं बालो मूढ[एवं] वदति । यमः प्राणिनामुत्पादने वधे चास्वतन्त्रबलः । केवलं परामृशति किं कुशलचारी किं वाकुशलचारीति । विपाकवेदनायां क्षीयमाणायां हिंस्रककायप्रत्ययं म्रियते । अतो योगी कायो ऽनिश्रयो ऽशरणो मरणवर्त्मगत इति पश्यन् मरणसंज्ञामनुस्मरति । किञ्च योगी सदा पश्यति कायो ऽयं जराव्याधिपरिपीडितो ऽध्रुवस्वभावः प्रतिक्षणमुत्पन्नविनाशी (sss_443) विज्ञानसन्तानविनष्ट इत्यतो मरणसंज्ञां भावयति । किञ्चायं योगी पश्यति मरणं नियतं जीवितमनियतम् । अनियतान्नियतं विशिष्यत इत्यतो मरणसंज्ञां भावयति ।
(पृ) कस्मात् जराव्याध्यादिसंज्ञा अनुक्त्वा मरणसंज्ञामात्रमुच्यते । (उ) जराव्याध्यभिभूतः पुरुषो न परिक्षीयते । व्याधिर्बलं हरति जरा यौवनं हरति । ज्ञातिसालोहितो धनमन्यच्च[हरति] । कायस्तु तथापि तिष्ठति । मरणं पुनः सर्वमपहरति । जराव्याध्यादि च मरणस्य प्रत्ययः । अतो न पृथगुच्यते । उक्तञ्च सूत्रे- मरणं नाम महातामस्त्रम् अरश्मिकमरक्षणम् असहायकमनुपस्थापकं परमभयस्थानं इति । अतो मरणसंज्ञामनुस्मरेत् । किञ्च सत्त्वा मरणप्रत्ययं परलोकाद्विभ्यति । त्रैधातुके सर्वस्यास्ति मरणं न तथा जरा व्याधिश्च ।
(पृ) यदि सत्त्वान् विहाय नास्ति मरणसंज्ञा । सत्त्वा एव प्रज्ञप्तिसन्तः । योगी कस्मादिमां संज्ञां भावयति । (उ) विनश्वरसत्त्वलक्षण[ज्ञान]विहीनो मरणाद्विभेति । यो मरणसंज्ञां भावयति । न स बिभेति । अतो भावयेत् । अनित्यसंज्ञादयो मार्गस्य प्रत्यासन्नाः । अशुभाहारे प्रतिकूलमरणसंज्ञादयो मार्गविप्रकृष्टाः । मार्गप्रतिलाभी ईदृशसंज्ञया चित्तं प्रगृह्णाति ।
मरणसंज्ञावर्ग एकोनाशीत्त्युत्तरशततमः ।
180 अन्तिमसंज्ञात्रितयवर्गः
प्रहाणसंज्ञेति । यथा चतुर्षु सम्यक्प्रधानेषूक्तम्- उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय [छन्दं जनयति व्यायमति]वीर्यमारभते । [चित्तं प्रगृह्णाति प्रदधाति] इति । इमे च पापका अकुशला धर्मा नरकादिदुःखक्लेशानां प्रत्ययाः । पापकीर्तिशब्दानां चित्तपरितापादिदुःखानाञ्च मूलम् । तस्मात्प्रजह्यात् ।
(पृ) कथं प्रजहाति । (उ) धर्माणामकरणं प्रतिब्धस्तस्मिन् समये प्रजहाति । अयोनिशो मनस्कारः कामरागादीनां क्लेशानां प्रत्ययः । तन्मनस्कारप्रहाणात् ते धर्माः प्रहीयन्ते । (पृ) इमां प्रहाणसंज्ञां भावयन् किं हितं विदन्ते । (उ) तां संज्ञां भावयन् सदा न पापकान् धर्माननुवर्तते । कर्तव्य[मेव] करोति । अष्टावक्षणांश्च वर्जयति । पुरुषस्यात्महितं यदुतक्लेशानां प्रहाणम् । क्लेशप्रहाणाभिरति धर्मची वरसंवृतलिङ्गस्य प्रव्रजितस्य हितम् तया नोचेत् स्वकायमेव मन्येत । यदि योगी प्रहाणसंज्ञाभावनायामभिरतः, तदा बुद्धे धर्मपूजां करोति ।
विरागसंज्ञा निरोधसंज्ञा इति । रागे चात्यन्तानुत्पन्ने विरागो भवति । तद्विरागानुस्मरणमेव विरागसंज्ञा । (पृ) प्रहाणसंज्ञैव विरागसंज्ञेति मतम् । कस्मात्पुनरुच्यते । (उ) प्रहाणाल्लभ्यते विरागम् । प्रहाणं नाम कामरागस्यापनयनम् । यथोक्तं सूत्रे- कामरागस्य प्रहाणात् पञ्चस्कन्धाः प्रहीयन्ते इति । प्रहाणसंज्ञा च विरागसंज्ञा । कस्मात् । तस्मिन् समये नास्ति कामः, तस्य धर्मस्य प्रहाणं भवति । अतो विरागसंज्ञालाभिनो दुःखक्लेशाः निरुध्यन्ते । यथोक्तं सूत्रे- वीतरागो विमुच्यते इति । विमुक्तिलाभ एव प्रहाणम् । अनुपधिशेष[निर्वाणं] प्रविष्ठस्य निरोधो भवति । उक्तञ्च सूत्रे- त्रयः स्वभावाः प्रहाणस्वभावो विरागस्वभावो निरोधस्वभाव इति । यदुच्यते प्रहाणस्वभावो विरागस्वभाव इति तदर्हत एव भवति । स हि प्रहीणसर्वक्लेशस्त्रैधातुकविरक्तः सोषधिशेषनिर्वाणे तिष्ठति । यदुच्यते निरोधस्वभाव इति तदायुषो ऽन्ते जीवितव्यपगमे प्रहीणसन्तानस्य । निरुपधिशेषनिर्वाणं समापन्नस्यैव भवति ।
अस्ति च द्विधा विमुक्तिः प्रज्ञाविमुक्तिश्चेतोविमुक्तिरिति । यदभिहितं प्रहाणमिति तत् अविद्यां प्रजहातीति प्रज्ञा विमुच्यते । यद्विराग इति तत् तृष्णां विवर्जयतीति चेतो विमुच्यते । द्वयोर्विमुक्तयोः फलं निरोधो भवति । यत्प्रहाणसंज्ञेत्यभिधानं तदेवाविद्यास्रवप्रहाणस्याभिधानं यन्निरोधसंज्ञेति तदनयोर्द्वयोः फलम् । यथोक्तं सूत्रे- सर्वसंस्काराणां प्रहाणात् प्रहाणम् । सर्वसंस्कारेषु विरागाद्विरागः । सर्वसंस्काराणां निरोधात् निरोध इति । तथा चेमे त्रय एकस्यैव नामान्तरम् । यो ऽनित्यसंज्ञां (sss_445) यावन्निरोधसंज्ञां भावयति स कृतसर्वकृत्यो निरुद्धसर्वक्लेशः प्रहीणस्कन्धसंयोजनसन्ततिर्निरुपधिशेषनिर्वाणं समापद्यते ।
अन्तिमसंज्ञात्रितयवर्गो ऽशीत्युत्तरशततमः ।
181 समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्गः
(पृ) पूर्वमुक्तं भवता- मार्गसत्यं [द्विविधं] यत् समाधिः तत्परिष्कारश्चेति । तत्र समाधिरुक्तः । समाधिपरिष्कार इदानीं वक्तव्यः । यस्मात् सति समाधिपरिष्कारे समाधिः सिध्यति न त्वसति । (उ) समाधिपरिष्कारा य एकादशधर्माः- (1) परिशुद्धशीलता, (2) अभिसम्बोधिप्रतिलाभः, (3) इन्द्रिये गुप्तद्वारता, (4) भोजने मात्रज्ञता, (5) रात्र्या आद्यान्तिमभागे जागरणता, (6) कुशलवितर्कसम्पन्नता, (7) कल्याणाधिमुक्तिसम्पन्नता, (8) प्रधानीयाङ्गसम्पन्नता, (9) विमुक्त्यायतनसम्पन्नता, (10) अनावरणता, (11) अनासङ्गिता इति ।
परिशुद्धशीलतेति । अकुशलकर्मणो विरतिः शीलम् । अकुशलकर्माणि यानि प्राणातिपातादत्तादानकाममिथ्याचाराणि त्रीणि कायिककर्माणि । मृषावाद पिशुनवाचा परुषवाचा सम्प्रलाप इतीमे चत्वारि वाचिककर्माणि । एभ्यः पापकेभ्यो विरतिः शीलम् । वन्दनप्रत्युद्गमनानुव्रजनपूजादिसद्धर्माचरणमपि शीलमित्युच्यते । शीलं समाधिहेतुं करोतीति समादीयते । तथा हि तद्यथा सुवर्णकारः पूर्वं स्थूलमलमपनयति । एवं प्रथमतः शीलसमादानेन स्थूलान् शीलदोषानपनयति । पश्चात्समाध्यादिना अन्यान् सूक्ष्मदोषानपनयति । यस्मादसति शीलसमादाने ध्यानसमाधिर्न भवति । शीलसमादान प्रत्ययात्तु ध्यानसमाधिः सुलभो भवति । यथोक्तं सूत्रे- शीले मार्गस्य मूलं (sss_446) सोपानञ्चेति । किञ्चाह- शील प्रथमरथ[विनीत]म् इति । प्रथमं रथ[विनीत]मनभिरुह्य द्वितीयं रथ[विनीतं]कथमभिरोहति । अपि चाह- शीलं समा भूमिः । इमां समां भूमिं व्यवस्थाप्य चत्वारि सत्यानि पश्यति इति । आह च- द्वे बले । [कतमे द्वे ।] प्रतिसंख्याबलं भावनाबलञ्चेति । प्रतिसंख्याबलं शीलसमादानमेव । भावनाबलं मार्गः । पूर्व शीलभेदापत्तिं शीलसमादानहितञ्च प्रतिसंख्यया विचार्य शीलं समादत्ते । पश्चात् प्रतिलब्धमार्गः पापकात्प्रकृत्या विरमति । किञ्चाह- शीलं बोधिवृक्षस्य मूलमिति । असति मूले नास्ति वृक्षः । अतः परिशुद्धशीलावश्यकी ।
धर्म[ता] च तथैव स्यात् । असति शीलसमादाने न भवति ध्यानसमाधिः । तद्यथा व्याधिचिकित्साया औषधमपेक्ष्यते । तथा क्लेशव्याधिचिकित्साया असति शीले न सम्पद्यत औषधम् । आह च- परिशुद्धशीलस्य चित्तं नानुतप्यति । यावद्विरक्तचित्तो विमुच्यत इति । इमे सर्वे गुणाः शीलसमादानाधीनाः । अतः समाधिपरिष्कार इत्युच्यते ।
अस्ति च कर्मावरणं, क्लेशावरणं, अनयोर्द्वयोः फलं विपाकावरणम् । परिशुद्धशीलस्येमानि त्रीण्यावरणानि न भवन्ति । अनावृतचित्तस्य समाधिः सिध्यति । परिशुद्धशीलो न विक्षिपतीत्यतो नियमेन निर्वाणमधिगच्छति गङ्गास्रोतसि दारुस्कन्धवत् । परिशुद्धशीलसमादानात् व्यवस्थां करोति । शीलसमादानं कायिकं वाचिकमकुशलं कर्म प्रतिषेधयति । ध्यानसमापत्तिर्मानसमकुशलं कर्म प्रतिषेधयति । एवं क्लेशानां प्रतिषेधे प्रतिलब्धतत्त्वज्ञानस्यात्यन्तिकप्रहाणं भवति ।
मार्गवर्गे ऽसकृद्दर्शितं शीलं स्तम्भभूतमिति । ध्यानसमाधिचित्तनगरस्य शीलं परिघा भवति । संसारौघतरणस्य शीलं सेतुः । सज्जनपरिषदि प्रवेशस्य शीलं मुद्रा । अष्टाङ्गिकार्यक्षेत्रस्य शीलं पारभूतम् । यथा पाररहिते क्षेत्रे जलं न तिष्ठति । एवं परिशुद्धशीले ऽसति समाधिजलं न तिष्ठति । (पृ) कः परिशुद्धशीलः । (उ) यो गोगी पापक्रियानभिरताध्याशयः परलोकपरिवादादिभ्यो बिभ्यति । [स] परिशुद्धशील इत्युच्यते । किञ्च योगी चित्तविशुद्धये परिशुद्धशीलो भवति । यथोक्तं सप्तमैथुनरागसूत्रे- काये ऽनापत्तिके ऽपि चित्तमपरिशुद्धमित्यतः शीलमप्यपरिशुद्धमिति । शीलभेदप्रत्ययाः (sss_447) सर्वे क्लेशाः । तेषां प्रग्रहे परिशुद्धशीलो भवति । श्रावकाणां शीलं निर्वाणार्थमेव । तथागतमार्गार्थी महाकरुणाचित्तेन सर्वसत्त्वानां कृते न शीललक्षणं समादत्ते । शीलमिदं [तथा] करोति यथा बोधिस्वभावो भवति । ईदृशं शीलं परिशुद्धमित्युच्यते ।
अभिसम्बोधिरिति । उक्तं हि सूत्रे- द्वौ खल्वायुष्मन् प्रत्ययौ सम्यक्दृष्टेरुत्पादाय परतो घोषो योनिशो मनस्कार इति । परतो घोष एवाभिसम्बोधिः । (पृ) तथा चेत् अभिसम्बोधिमात्रमुच्यते । (उ) उक्तं हि सूत्रे- [अन्यतरो] ऽर्हन् भगवन्तं पृच्छति स्म एकान्ते निषण्णस्य मम एवमभवत्- अभिसम्बोधिसम्पदा तु मार्गप्रतिलाभस्य विकलः प्रत्यय इति । भगवानवोचत् । मैवं वोचः याभिसंबोधिः सा तु मार्गस्य प्रतिलाभस्य सकलः प्रत्ययः । कस्मात् । जातिजराव्याधिमरणाः सत्त्वा आत्मनो ऽभिसम्बोधिं लभमाना हि जातिजराव्याधिमरणेभ्यो विमुच्यन्ते इति । सत्त्वाः सम्बोधिमुपादाय शीलादीन् पञ्चधर्मात् विपुलयन्ति । तद्यथा सालवृक्षो हिमवन्तमुपादाय पञ्च वस्तूनि वर्धयति । भगवान् स्वयमेव सम्बोध्यभिरतः । यथा प्रथममार्गलब्धस्यैवमभवत्- यदि कश्चिदगुरः, तदा सो ऽपरित्रासो ऽसत्कारचित्तः सदा अकुशलधर्मविपर्यस्तो ऽनुपशमचर्यश्च भवति । केनाचार्यवान् स्याम् । कमुपनिश्रित्य तिष्ठामि । एवं चिन्तयन् सर्वान् मत्तो ऽविशिष्ठानद्राक्षम् । तदैव स्मृतिरुदपादि प्रतिलब्धो मया धर्मः यमुपादायाभिसम्बुद्धः तमेव धर्ममुपनिश्रयिष्य इति । ब्रह्मादयो देव अपि प्राशंसन् नास्ति कश्चित् बुद्धाद्विशिष्टः, सर्वे बुद्धाः सद्धर्मगुरुका इति । अभिसम्बोधिश्च प्रदीपसदृशा । (sss_448) यथा कश्चित् सचक्षुष्को ऽपि प्रदीपं विना न पश्यति । तथा योगिनः पुण्यगुणतीक्ष्णेन्द्रियताप्रत्यये सत्यपि अभिसम्बोधिं विना न भवति कश्चनोपकारः । (पृ) का नामाभिसम्बोधिः । (उ) येन पुरुषः सद्धर्मान् वर्धयति साभिसम्बोधिः । सर्वे च सज्जनाः सद्धर्मे प्रतितिष्ठन्ति [इति सा] सर्वा देवमनुष्यलोकेष्वभिसम्बोधिः ।
(3) इन्द्रियेषु गुप्तद्वारतेति या सम्यक् स्मृतिः । योगी स्वात्मानमनारक्ष्य न पश्यति । एकाग्रचित्तः सम्यक् स्मृतिं पुरस्कृत्यैव पश्येत् । संप्रजन्यमिति च [तस्य] नाम । अनेन सम्प्रजन्येन पुरोतमालम्बनं पर्यादाति । तत्पर्यादानान्न निमित्तमुद्गृह्णाति । निमित्तानुद्ग्रहणात् न प्रज्ञप्तिमनुसरति । इन्द्रियाणामगोपने निमित्तोद्ग्रहणात् क्लेशाः पञ्चेन्द्रियाणि स्त्रोतोवत् प्रवर्तयन्ति । तदैव शीलादीन् सद्धर्मान् विनाशयति । य इन्द्रियेषु गुप्तद्वारो भवति तस्य शीलादयः सुदृढा भवन्ति ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
