Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
सत्यसिद्धिशास्त्रम्
- Tác giả
- हरिवर्मन्
- Thông tin
- GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
(4) भोजने च मात्रज्ञतेति । न रूपबलाय [न] मैथुनाय [न] कामानामास्वादाय भोजनम् । [यावदेवास्य] कायस्य यापनाय । (पृ) योगी कस्मात्काययापनं करोति । (उ) सद्धर्मस्य भावनायै । यः सद्धर्मादुपरमते तस्य मार्गो न भवति । असति मार्गे दुःखाद्विसंयोगो न भवति । यदि कश्चित् कुशलस्य भावनायै न भुनक्ति । तदा [स] वधकं चोरमेव पुष्णाति । दानपतेः पुण्यञ्च विनाशयति । जनानां सत्कारञ्च मोधयति । एवं न भुञ्ज्यात् जनानां भोजनम् । (पृ) भोजने च का मात्रा । (उ) यथा कायं यापयति । सा मात्रा । (पृ) किं भोजनं भुञ्ज्यात् । (उ) यत् भोजनं शीतोष्णादि व्याधिं कामक्रोधाद्याधिञ्च न वर्धयति । तत् भुञ्ज्यात् । तदपि भोजनं यथाकालं भुञ्ज्यात् । भोजनमिदमस्मिन् काले शीतोष्णकामक्रोधाधिव्याधिं वर्धयतीति प्रजानन् न भुञ्ज्यात् ।
(पृ) तीर्थिका वदन्ति- यः परिशुद्धमाहारं भुङ्क्ते स परिशुद्धं पुण्यं विन्दते । यत् यथेष्ठमभिमतरूपरसगन्धस्पर्शवत् अप्प्रोक्षितमभिनिमन्त्रितं भुञ्ज्यते तत् परिशुद्धमित्युच्यते । कथमिदम् । (उ) भोजने नास्ति प्रतिनियता परिशुद्धिः । कस्मात् । यदि (sss_449) परिभोगेनाहारो ऽपरिशुद्धो भवति । सर्व आहारा नापरिभोज्याः । यथा स्तन्यं वत्सपरिभुक्तम् । मधु मक्षिकापरिभुक्तम् । आपः क्रिमिपरिभुक्ताः । कुसुमं भ्रमपरिभुक्तम् । फलं पक्षिपरिभुक्तम् इत्यादि । किञ्चायं कायो ऽशुचिसम्भूतः । कायस्वभावो ऽशुचिः अशुचिपरिपूर्णः । आहारः पूर्वमेवाशुचिः पश्चादपि कायं प्रविष्टो नैकधाशुचिर्भवति । दोषविपर्ययेण परं शुचिरिति मिथ्या वदन्ति । (पृ) यद्यत्यन्तमशुचिः [कायः] । तदा चण्डालादिभिः को विशेषः । (उ) प्राणातिपाताद्विरतिरदत्तादानाद्विरतिर्मिथ्या जीवाद्विरतिरित्यादिना अनुरूपमाहारं लब्ध्वा आहारे च प्रतिकूलसंज्ञां दृष्ट्वा प्रज्ञाजलप्रोक्षितमथ तावद्भुङ्क्ते । न केवलं जलप्रोक्षितं पुनः शुचिर्भवति ।
(5) रात्र्य आद्यान्तिमभागे जागरणतेति । योगी प्रजानाति व्यवसायाधीना कार्यसिद्धिरिति । अतो न निद्राति । पश्यति न मिद्धं वृथा, नानेन किञ्चिल्लभ्यत इति । यदि भवान् मिद्धं सुखं मन्यते । तत् सुखमत्यल्पं दृष्टञ्च अपार्यप्रवचनम् । किञ्च योगी क्लेशैः सममेकत्र नाभिरमते । यथा कश्चिच्चोरैः सह वासे नाभिरमते । कथं कश्चित् लोके चोराणां रणभूमौ निद्रास्यति । अतो न निद्राति ।
(पृ) मिद्धं गाढमागतं कथं निरुणद्धि । (उ) अयं भगवच्छासनास्वादने ऽधिचित्तं प्रीतिञ्च लब्ध्वा निरुणद्धि । संसारे च जराव्याधिमरणदोषाननुस्मरतश्चित्तं बिभ्यति । अतो न निद्राति । किञ्च योगी पश्यति- मनुष्यकायो लब्धः समग्राणीन्द्रियाणि, प्राप्तं बुद्धशासनमनर्घम्, साध्वसाधुविवेको ऽतिदुष्करः, इदानीं तरणं नान्विष्यामि, कदा विमोक्षिष्य इति । अतो मिद्धं तिरस्कर्तुं वीर्यमारभते ।
समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्ग एकाशीत्युत्तरशततमः ।
182 अकुशलवितर्कवर्गः
कुशलवितर्कसम्पन्नतेति । यदि कश्चिदनिद्रन्नपि अकुशलवितर्कानुत्पादयति यदुत कामवितर्को व्यापादवितर्को विहिंसावितर्को जातिवितर्को जनपदवितर्को ऽमरणवितर्कः परानुग्रहवितर्कः परावमन्यनावितर्क इत्यादयः । वरं मिद्धम्, नैषामकुशलानां वितर्काणामुत्पादः । नैष्क्रम्यादिकुशलवितर्कान् सम्यगनुस्मरेत् यदुत नैष्क्रम्यविर्तर्को ऽव्यापादाविहिंसावितर्को ऽष्टमहापुरुषवितर्कः ।
कामवितर्क इति । यत् कामं निश्रित्य पञ्चकामगुणेषूत्पन्नवितर्कः पश्यति हितं सुखमिति । अयं कामवितर्कः । सत्त्वानां विहिंसार्थो[वितर्को] व्यापादवितर्को विहिंसावितर्कः । योगी नानुस्मरेदिमांस्त्रीन् वितर्कान् । कस्मात् । ताननुस्मरन् हि गुरुतरं पापं विन्दते । पूर्वमुक्त एव कामादीनामादीनवः । तेषामादीनवत्वान्नानुस्मरेत् ।
(पृ) मोहवितर्कः कस्मान्नोक्तः । (उ) इमे त्रयो ऽकुशलवितर्काः क्रमिकाः । अन्ये क्लेशास्तु नैवं भवन्ति । योगी कदाचित्पञ्चकामगुणानुस्मरणात्कामवितर्कमुत्पादयति । कामितालाभाव्द्यापादो भवति । व्यापादसंसिद्धा विहिंसा । अतो नोक्तो मोहादिः । मोहसंसिद्धमेव फलं यदुत व्यापादः । यदि व्यापादादकुशलः कर्मान्तो भवति । ते त्रयो वितर्का अकुशलकर्महेतवो भवन्ति । यथोक्तं सूत्रे- अयं वल्मीको रात्रौ धूमायति । दिवा प्रज्वलति । [यत्खलु भिक्षो दिवा कर्मान्तानारभ्य रात्रा]वनुवितर्कयति [अनुविचारयति] इदं [रात्रौ] धूमायनम् । [यत्खलु भिक्षो रात्रावनुवितर्कयित्वा दिवा] कर्मान्तान् [प्रयोजयति कायेन वाचा मनसा । इदं [दिवा] प्रज्वलनम् ।
ज्ञातिवितर्क इति । ज्ञातिवशादुत्पद्यन्ते ऽनुस्मरणानि । ज्ञातिः क्षेमखुखं विन्दतु (sss_451) इतीच्छति । तस्य विनाशविहिंसामनुस्मरतः शोक उत्पद्यते । यत् ज्ञातिभिरेककार्याण्यनुस्मरति [अयं] ज्ञातिवितर्कः । योगी नानुस्मरेदिमं वितर्कम् । कस्मात् । पूर्वमेव हि प्रव्रज्याकाले ज्ञातीन् त्यक्तवान् । इदानीं तद्विकर्माश्रयणं नानुरूपं भवति । यदि प्रव्रजितः इमं ज्ञातिवितर्कमनुस्मरति । तदा गृहपरिवारपरित्यागो वृथाकिञ्चित्साधनः । ज्ञातिस्नेहादध्यवसानं भवति । अध्यवसानादारक्षा । आरक्षाप्रत्ययं दण्डादानशस्त्रादानादिकर्मानुक्रमं प्रवर्तते । अतो नोत्पादयेत् ज्ञातिवितर्कम् । ज्ञातिसमागमे च कुशलधर्मं न वर्धयति । योगिना स्मर्तव्यं सर्वेषु सत्त्वेषु जननमरणप्रवाहप्रवृत्तेषु नास्ति ज्ञातिरज्ञातिः । कस्मात् पर्यासज्यते इति । संसारे ज्ञात्यर्थमेव शोककरुणपरिदेवाश्रूणि महासागरनिर्वर्तनानि भवन्ति । इदानीं पुनरध्यवसाने दुःखमनवस्थमेव । सत्त्वाश्च कार्यनिमित्तं हि मिथः स्निह्यन्ति । नास्ति तु कुत्रचित् स्नेहनैयत्यम् । ज्ञातीनामनुस्मरणमिदं मोहलक्षणम् । लौकिका मूढाः स्वहितविहीनाः परहितं कामयन्ते । ज्ञातिमनुस्मरतः स्वहितमत्यल्पं भवति । इत्येभिः [कारणैः] योगी न ज्ञातिवितर्कमुत्पादयेत् ।
जनपदवितर्क इति । योगी [कश्चित्] चिन्तयति- अमुको जनपदः सुखः क्षेमः शिवः, तत्र गत्वा निभृतं सुखं लप्स्य इति । चित्तञ्च चपलं सर्वत्र भ्रमणदर्शनकांक्षीति । योगी नेदृशं वितर्कमुत्पादयेत् । कस्मात् । सर्वेषु हि जनपदेषु अस्ति कश्चिद्दोषः । कश्चिज्जनपदो ऽतिशीतः । कश्चिदत्युष्णः । कश्चित् क्षामबहलः । कश्चिच्चोरबहुलः । एवमादयो विविधा दोषाः सन्तीत्यतो न चिन्तयेत् । यश्चपलः स ध्यानसमाधेः परिहीयते । यत्राभिरतः कुशलधर्मं वर्धयति अयं रमणीय इत्युच्यते । क उपयोगो जनपदानां पर्यालोकनेन । सर्वो जनपदो दूरत एव श्राव्यो नावश्यं गत्वा श्लाघनीयः । लौकिका बहुधा दुष्टा इति वचनात् । जनपदेषु भ्रमणी नानादुःखान्यनुभवति । कायो ऽयं दुःखहेतुः । दुःखहेतुमिमं कायं धृत्वा यत्र यत्र गच्छति तत्र तत्र दुःखान्यनुभवति । सुखदुःखवेदना कर्मकारणाधीना । सुदूरं गच्छतो ऽपि नास्ति कश्चनोपकारः । अतो न जनपदवितर्कमुत्पादयेत् ।
अमरणवितर्क इति । योगी चिन्तयत्येवम्- मार्गो मया पश्चाद्भावयितव्यः । आदौ सूत्रविनयाभिधर्मक्षुद्रकपिटकबोधिसत्त्वपिटकान्यध्येतव्यानि । बाह्यग्रन्थाश्च सुविस्तरमभ्यसितव्याः । बहवः शिष्या आर्जयितव्याः । कल्याणमित्रमुपस्थाय चतुरस्तूपान् वन्दित्वा जनान महादानं कर्तुं प्रोत्साह्य च पश्चान्मार्गो भावयितव्य इति । [अय]ममरणवितर्कः । नैवं चिन्तयेत् योगी । कस्मात् । न हि मरणकालो नियतः । न पूर्वमेव ज्ञेयः । वृत्त्यन्तरेषु व्यापृतेन न मार्गो भावितुं शक्यः । पश्चान्मरणकाले समुपस्थिते चित्तं कौकृत्येन पीड्यते । मयायं कायो वृथा पोषितः न किञ्चिल्लब्धम् । पशुभिः समं म्रियत इति । यथोक्तं सूत्रे- पृथग्जनो विंशतिधा स्वचित्तं निगृह्येवं चिन्तयेत्- विभिन्नाकारवेषमात्रं मम वृथा [सर्वं] न किञ्चिल्लब्धम्, यावदामरणमदान्तो भविष्यामीति । पण्डितो न करोत्यकार्यम् । यथोक्तं धर्मपदे-
[येषाञ्च सुसमारब्धा नित्यं कायगता स्मृतिः] अकृत्यं ते न सेवन्ते नित्यं सातत्यकारिणः । स्मृतानां सम्प्रजानानामस्तं गच्छन्ति चास्रवाः ॥ इति ।
अपि चोक्तं सूत्रे-
चतुस्सत्येष्वलाभी [यः] कामान् लब्धुमुपायतः । यत्नेन वीर्यमातिष्ठेत् भृशं तत्परिपालने ॥ इति ।
अतो नामरणवितर्कमुत्पादयेत् । अमरणवितर्कश्च मूढस्य प्राणितम् । को ज्ञानी तृणाग्रे ऽवश्यायबिन्दुवत् जीवितमध्रुवं ज्ञात्वा क्षणमेकं जीवेयमिति [मन्येत] । उक्तञ्च सूत्रे- भगवानवोचत् कथं पूनर्यूयं भिक्षवो भावयथ मरणस्मृतिम् । [अन्यतरो (sss_453) भिक्षु]र्भगवन्तमवोचत्- [इह ममैवं भवति- अहो वत] अहं सप्त वर्षाणि न जीवेयमिति । एवमपचयो ऽभूत यावन्मुहूर्तं न [जीवेय]मिति । अन्य[तरो भिक्षुर्भगवन्तमेतदवोचत्] अहं षड् वर्षाणि न जीवेयमिति । एवमपचयो ऽभूत्- यावन्मुहूतमपि [न जीवेय]मिति । एवमुक्ते भगवान् तान् भिक्षूनेतदवोचत्- यूयं भिक्षवः प्रमत्ता [विहरथ, दन्धा]मरणस्मृतिं भावयथ इति । अन्यतरो भिक्षु [र्भगवन्त]मुपेत्यावोचत्[ममैवं भवति अहो बत] अहं [तदन्तरं] न जीवेयं यदन्तरं आश्वसित्वा प्रश्वसामि प्रश्वसित्वा वाश्वसामि इति । भगवानवोचत्- साधु साधु त्वं [खलु भिक्षो] भावयसि मरणस्मृतिम् इति । अतो नोत्पादयेदमरणसंज्ञाम् ।
परानुग्रहवितर्क इति [यद्]बन्धावनुग्रहप्रापणमिच्छति । यद्येवं चिन्तयति- अमुकं धनमानसुखानां दानमाचरयामि । अमुकस्तु नोपैति इति । योगी नेदृशं वितर्कमुत्पादयेत् । कस्मात् । नानया स्मृत्या परस्य सुखं दुखं वा प्रापयति । किन्तु समाहितं चित्तमेव विक्षिपति । (पृ) परस्यानुग्रहचिकीर्षा किं करुणाचित्तं ननु । (उ) योगी मार्गमर्थयन् चिन्तयेत्पारमार्थिकं हितं यदुत अनित्यतादि । यद्यप्यत्र किञ्चित्पुण्यमस्ति तथापि मार्गप्रतिरोधकस्य हितमल्पं, दोषस्तु बहुलः । समाहितचित्तस्य विक्षेपात् । यो व्यग्रचित्ततया परस्य हितमनुस्मरति । स कामासक्त्या नादीनवं पश्यति । अतो नानुचिन्तयेत् ।
परावमन्यनावितर्क इति । यद्योगी चिन्तयति- गोत्रवंशाकृतिरूपधनमाननैपुण्येषु शीलतीक्ष्णेन्द्रियत्वध्यानसमाधिप्रज्ञादिषु च नायं मत्सम इति । नेदृशं योगी वितर्कमुत्पादयेत् । कस्मात् । सर्वेषां वस्तुनामनित्यत्वात् । य उत्तमो ऽधम इति । तेषु को विशेषो ऽस्ति । एषां कायकेशरोमनखदन्तं सर्वमशुचि, समं भवति न विषमम् । जराव्याधिमरणादिविपदपि समा । सर्वेषां सत्त्वानामध्यात्मं बहिर्धा च दुःखविहिंसापि समा न (sss_454) विषमा । पृथग्जनानां धनसमृद्धिः पापप्रत्यया । धनसमृद्धिश्च न दीर्घकालिकी । [अतः] पुनर्दरिद्रो भवति । अतो न परावमन्यनावितर्कमुत्पादयेत् । अयं मानो ऽविद्याङ्गम् । विद्वान् कथमिमं वितर्कमुत्पादयिष्यति ॥
अकुशलवितर्कवर्गो द्व्यशीत्युत्तरशततमः ।
183 कुशलवितर्कवर्गः ।
नैष्क्रम्यवितर्क इति प्रविवेकाभिलाषिचित्तता । यत् पञ्चकामगुणेभ्यो रूपारूप्यधातुभ्यश्च प्रविवेकः । अस्मिन् प्रविवेके ऽभिलाषो नैष्क्रम्यवितर्कः । प्रविवेकाभिलाषादस्मा द्दुःखानामसम्भवात् । कामासक्तिवशाद्धि दुःखं भवति । असत्यां कामासक्तौ सुखं भवति ।
वितर्केषु द्वौ वितर्कौ सुखं यदुताव्यापदवितर्को ऽविहिंसावितर्कः । कस्मात् । द्वौ हीमौ वितर्कौ क्षेमवितर्कौ । यथोक्तं तथागतवर्गे- तथागतस्य खलु द्वौ वितर्कौ नित्यमुपतिष्ठतो यदुत योगक्षेमवितर्कः प्रविवेकवितर्कश्च इति । योगक्षेमवितर्कः अव्यापादाविहिंसावितर्क एव । प्रविवेकवितर्को नैष्क्रम्यवितर्कः । त्रीनिमान् वितर्कयतः पुण्यं वर्धते । समाहितचित्तत्तापि सिध्यति । चित्तं विशुध्यते च । त्रीनिमान् वितर्कान् वितर्कयन् पर्युत्थानानि प्रतिहन्ति । पर्युत्थानानां समुच्छेदात् प्रहाणं साक्षात्करोति । किञ्च योगी प्रविवेकामिलाषया बहूनां कुशलधर्माणामुपचयादाशु विमुच्यते ।
अष्टमहापुरुषवितर्क इति अल्पेच्छस्यायं धर्मो ना[यं धर्मो] महेच्छस्य । सन्तुष्टस्या[यं धर्मो नायं धर्मो ऽसन्तुष्टस्य] । प्रविविक्तस्य [अयं धर्मो नायं धर्मः (sss_455) सङ्गणिकारामस्य] । आरब्धवीर्यस्य [अयं धर्मो नायं धर्मः कुसीदस्य] । उपस्थितस्मृतिकस्य [अयं धर्मो नायं धर्मो मुष्टस्मृतिकस्य] । समाहितस्य [अयं धर्मो नायं धर्मो ऽसमाहितस्य] । प्रज्ञावतो [ऽयं धर्मो नायं धर्मो दुष्प्रज्ञस्य] । निष्प्रपञ्चारामस्यायं धर्मो नायं धर्मः प्रपञ्चारामस्य इतीमे ऽष्टौ ।
अल्पेच्छो योगी यो मार्गं भावयितुमपेक्षितमिच्छति । न बहु प्रार्थयते अन्यदनुपयुक्तम् । अयमल्पेच्छः । सन्तुष्ट इति । कश्चित् [केनचित्] कारणेन वा शीलाय वा परस्य चित्तप्रसादनाय वाल्पं गृह्णाति न तु सन्तुष्टचित्तो भवति । यो ऽल्पं गृहीत्वा सन्तुष्टचित्तो भवति । अयं सन्तुष्टः । कश्चिदल्पं गृहीत्वापि रमणीयं कामयते । अयमल्पेच्छो न सन्तुष्टः । यो ऽल्पलाभेन तृप्यति स सन्तुष्टः । (पृ) यद्यपेक्षितग्राही अल्पेच्छ इति । सर्वे सत्त्वा अल्पेच्छा भवेयुः । एषां प्रत्येकमपेक्षितत्वात् । (उ) योगी अनासक्तत्तित्ततया गृह्णाति उपयोगार्थमात्रं, न बहु गृह्णाति । न तु यथा लौकिका यशोमण्डनवर्धनाय बहु गृह्णान्ति । (पृ) योगी कस्मादल्पेच्छयः सन्तुष्टो भवति । (उ) [स] हि परिपालनादावादीनवं पश्यति । अनुपयुक्तद्रव्यसङ्ग्रहः सम्मूढस्य लक्षणम् । प्रव्रजितो न बहु सञ्चिन्वन्नवदातवसनैः समो भवेत् । तादृशदोषसत्त्वादल्पेच्छः सन्तुष्टो भवति । योगी यदि नाल्पेच्छः सन्तुष्टः, तदा कामचित्तं क्रमशो वर्धेत । धनलाभित्वादप्रार्थनीयं प्रार्थयीत । धनलाभाभिलाषश्च नैव संशाम्यति । [तत्र] अध्यवसायित्वात् । प्रविवेकसुखाय प्रव्रजितो धनकामितया तत्करणीयं विस्मरति । क्लेशानपि न प्रजहाति । कस्मात् । बाह्यपदार्थानेव न प्रजहाति । कः पुनर्वाद आध्यात्मिकान् धर्मान् प्रजहातीति । लाभदृष्टिर्विपत्तिविहिंसाहेतुः । यथा करकवृष्टिः सस्यानि विनाशयति । अतः सततमल्पेच्छसन्तुष्टतां भावयेत् ।
दृश्यते च देयस्य पदार्थस्य प्रत्यर्पणं दुष्करम् । यठा ऋणी [ऋण]मप्रत्यर्पयन् पश्चात्तद्दुःखं व्यथामनुभवति इति । लाभसत्कारदृष्टिः बुद्धादिभिः सज्जानैस्त्यक्ता । (sss_456) यथाह भगवान्- नाहं लाभसत्कारमनुप्राप्नोमि मा लाभसत्कारो मामनुप्राप्नोत्विति । अयञ्च योगी सद्धर्मसन्तुष्टत्वाल्लाभसत्कारं प्रजहाति । यथाह भगवान्- देवा न प्रतिलभन्ते नैष्क्रम्यसुखं प्रविवेकसुखमुपशमसुखं यथा मया प्रतिलब्धम् । अतो लाभसत्कारं प्रजहामि इति । यथाह शारिपुत्रः-
अनिमित्तं भावयित्वा चाहं शून्यसमाधिना । समीक्षे सर्ववस्तूनि खेटपिण्डान् यथा बहिः ॥ इति ।
किञ्च योगी पश्यति न कामोपभोगेन तृप्तिर्भवति । यथा लवणोदकं पिबन् न तर्षणमपनयति इति प्रज्ञां प्रर्थयानस्तृप्तो भवति ।
महेच्छः सदा प्रार्थनामुत्पादयन् बहु प्रार्थयित्वाल्पं विन्दते । अतः सदा खिद्यते । पश्यामश्च भिक्षार्थी जनैरवमन्यते न सत्क्रियते यथाल्पेच्छः । प्रव्रजितो महत्प्रार्थयत इत्यकार्यमेतत् । जनैर्दत्तस्याग्रहणन्तु युक्तरूपम् । अतो ऽल्पेच्छासन्तुष्टिमाचरेत् ।
प्रविविक्त इति यत् गृहस्थप्रव्रजितयोः कायिकप्रविवेकसमाचारः क्लेशेषु मानसप्रविवेकसमाचारः अयं प्रविवेकः । (पृ) योगी कस्मात्प्रविविक्तो भवति । (उ) प्रव्रजिता अप्रतिलब्धमार्गा अपि प्रविवेकारामा भवन्ति । अवदातवसनादयः तत्स्थानगतस्त्रीरूपविक्षेपावकृष्टा न तत्र कदाचित्सुखिनो भवन्ति । प्रविवेके तु चित्तं सूपशमं भवति । यथा सलिलमनाविलं प्रकृतितः स्वच्छम् । अतः प्रविवेके चरति । प्रविवेकधर्मो ऽयं गङ्गानदीवालुकासमैर्बुद्धैरभिसंस्तुतः । केनेदं ज्ञायते । भगवान् ग्रामोपकण्ठे निषण्णं भिक्षुं दृष्ट्वा अप्रीतमनस्को भवति । शून्यायतने च शयानं भिक्षुं दृष्ट्वा भगवान् प्रीतमनस्को भवति । तत्कस्य हेतोः । ग्रामोपकण्ठे निष्षण्णस्य भिक्षोर्बहुभिः कारणैः समाहितचित्तविक्षेपे लब्धव्यं न लभ्यते साक्षात्कर्तव्यं न साक्षात्क्रियते । शून्यायतने शयानस्य किञ्चित्कौसीद्ये सत्यपि समाध्याशासम्भवे चित्तं परिगृह्यते । परिगृहीतं चित्तं विमुच्यते । निमित्तोद्ग्रहमुपादाय च कामादयः क्लेशाः समुद्भवन्ति । शून्यायतने न रूपादीनि निमित्तानि सन्तीति क्लेशाः सुप्रहाणाः । यथाग्निरसतीन्धने स्वतः शाम्यति । उक्तञ्चसूत्रे- यो भिक्षुः सङ्गणिकाविहाररतः सम्भाष्यरतः [स] गणादविविक्त इत्यतः सामयिकीमेव विमुक्तिं न (sss_457) प्रतिलभते । कः पुनर्वादः अकोप्यां विमुक्तिं प्रतिलभत इति । प्रविविक्तविहारी पुनरुभयं साक्षात्कुरुते । इति । यथा प्रदीपो वातविविक्तः प्रकाशते । एवं योगी प्रविवेकविहारितया तत्त्वज्ञानं विन्दते ।
आरब्धवीर्य इति । योगी यदि सम्यक्प्रधानमाचरन् अकुशलधर्मान् प्रजहाति कुशलधर्मांश्च सञ्चिनोति । [तदा] तत्र सम्यक्प्रधानामाचरतीति आरब्धवीर्य इत्युच्यते । एवञ्च भगवच्छासने हितं प्रतिलभते । तत्कस्य हेतोः । [स हि] कुशलधर्मसञ्चयेन प्रतिदिनमभिवर्धते । यथोत्पलपद्मादीनि यथासलिलमभिवर्धन्ते । कौसीद्यचारी पुनः काष्ठमुसलवत् प्रथमाभिनिर्वर्तनादारभ्य प्रतिदीनमपचीयते । आरब्धवीर्यस्य अर्थप्रतिलाभितया चित्तं सदा प्रमुद्यते । कौसीद्यचारी तु अकुशलधर्मनिवृत्तचित्तः सततं दुःखोपद्रवमनुबध्नाति । आरब्धवीर्यस्य च क्षणे क्षणे कुशलधर्मो नित्यमभिवर्धते, नापचीयते । वीर्यप्रकृष्टमाचरन्नाप्नोति प्रकृष्टं स्थानं यदुत बुद्धानां गतिम् । यथोक्तं सूत्रे भगवता आनन्दं प्रति प्रकृष्टं वीर्यमभ्यसन् बुद्धगतिं यातीति । आरब्धवीर्यस्य चित्तसमाधीः सुलभः । मन्देन्द्रिय आरब्धवीर्यः संसारादेवाशु मुच्यते । तीष्णेन्द्रियः कुसीदस्तु न विमुच्यते । यदस्ति किञ्चिदैहिकमामुष्मिकं लौकिकं लोकोत्तरं हितं, तत् सर्वं वीर्यमुपादाय भवति । सर्वेषां लोकानां यदस्ति अलाभव्यसनं, तत् सर्वं कौसीद्यमुपादाय भवति । एवं कुसीदस्य दोषमारब्धवीर्यस्य गुणं दृष्ट्वा वीर्यमनुस्मरति ।
उपस्थितस्मृतिक इति । कायवेदनाचित्तधर्मेषु सदा स्मृतिं समुपस्थापयति । (पृ) एषां चतुर्णां धर्माणां स्मृत्या कीदृशं हितं विन्दते । (उ) पापका अकुशला धर्मा न चित्तमागच्छन्ति । यथा सुरक्षिते न पापकः पुरुषो ऽवतरति । यथा च घटः पूर्णो न पुनरुदकमादत्ते । एवमस्य पुरुषस्य कुशलधर्मसम्पूर्णस्य न पापकानि प्रसज्यन्ते । यो भावितसम्यक्स्मृतिकः स विमुक्तिभागीयान् सर्वान् कुशलधर्मान् सङ्गृह्णाति । यथा समुद्राम्बुपायिनः सर्वाणि स्त्रोतांसि पीतानि भवन्ति । सर्वेषामुदकानां समुद्रवर्तित्वात् । अस्याः स्मृतेर्भावयिता स्वतन्त्रचर्यास्थाने विहरतीत्युच्यते । क्लेशमारो न किञ्चिदाकोपयति काकोलूकदृष्टान्तवत् । अस्य च चित्तं सुप्रतिष्ठितं दुष्कम्पनं भवति । यथा वृत्तो (sss_458) घटःशिक्यमधिनिविश्यते । स चाचिरमेवार्थं लप्स्यते । यथोक्तं भिक्षुणीसूत्रे- भिक्षुण्य आनन्दमेतदवोचन्- इह भदन्त [आनन्द] वयं चतृषु स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्य [उदारं] पूर्वेणापरं विशेषं सम्प्रजानाम इति । आनन्दो ऽवोचत्- एवमेतत् भगिन्य एवमेतत् भगिन्य इति ।
समाहित इति । चित्तसमाधिं भावयतः प्रवरो ऽर्थो भवति । यथोक्तं सूत्रे- समाहितो यथाभूतं प्रजानाति इति । अनेन मनुष्यकायेनातिमानुषधर्मो भवति यदुत कायेनोदकर्ममग्निञ्चा[वगाह्य] निर्गच्छति । विहायसा गमने च स्वतन्त्र इत्यादि । किञ्चास्य सुखं भवति यत् यावद्देवाः सहांपतिब्रह्मादयो ऽपि नाप्नुवन्ति । अयं यत् कर्तव्यं तत् करोतीत्युच्यते । यदकर्तव्यं न तत् करोति । समाहितस्य सद्धर्मः सदा वर्धते समाहितस्य चित्तं नानुतप्यते । अयंप्रव्रज्याफलभाग्भवति तथागतशासनानुयायी च । नान्यपुरुषवत् वृथा सत्कारं स्वीकरोति । अयमेव दानपुण्यं विपाचयति नान्ये । अयञ्च समाहितधर्मो बुद्धैरार्यैश्च निषेवितः । सर्वेषां कुशलधर्माणां समार्जनाय योग्यश्च भवति । यदि समाहितस्य सिद्धिर्भवति तदा आर्यमार्गस्य प्रतिलाभो भवति । यदि न सिद्धिः, तदा शुभदेवेषूपपद्यते यदुत रूपारूप्यधातौ । तत्कस्य हेतोः । न हि दानादिना ईदृशं कार्यं प्रतिलभते यदेकान्ततः पापकानामकरणम् । यथोक्तं सूत्रे- यो दहरो युवा आजन्म मैत्रीं भावयति । स किं पापकं चित्तमुत्पादयेत् । पापकं वा चिन्तयेत् । नो हीदं भगवन् । [तत्कस्य हेतोः] [तत्समाधिप्रभाव एषः । इति । चित्तसमाधिश्च तत्त्वज्ञानस्य प्रत्ययः । तत्त्वप्रज्ञा सर्वान् संस्कारान् क्षपयति । संस्काराणां क्षयात् सर्वे दुःखोपायासाः शाम्यन्ति । योगी सर्वाणि लौकिकानि लोकोत्तराणि स्मरन्नेव कुर्यात् न क्लमथेन कार्यं प्रयोजयन् । अन्ये पुद्गलास्तेन लब्धं प्रमातुं चित्तमेव नोत्पादयन्ति । अत आह- समाहितो ऽर्थमाप्नोतीति ।
प्रज्ञावानिति । प्रज्ञावतश्चित्ते क्लेशा न सम्भवन्ति । यदि सम्भवन्ति, तदैव निरुध्यन्ते यथा तप्तायःपात्रे पतिता जलकणिका । प्रज्ञावतश्चित्ते संज्ञा नाविर्भवन्ति । यद्याविर्भवन्ति, तदैव निरुध्यन्ते यथा तृणाग्रे ऽवश्यायबिन्दुः सूर्य उदितमात्रे शुष्यति । यः प्रज्ञाचक्षुष्कः स बुद्धधर्मं पश्यति । यथा चक्षुष्मतः सूर्य उपयोगाय कल्पते । प्रज्ञावान् बुद्धस्य धर्मदायभागित्युच्यते । यथा जातः पुत्रः पित्रोर्धनभाग्भवति । प्रज्ञावानेव स जीव इत्युच्यते । अन्ये मृता इति । प्रज्ञावान् तत्त्वमार्गिकः, मार्गस्य परिज्ञानात् । प्रज्ञावानेव भगवतः शासना[मृत]रसं वेत्ति । यथा अविपरिणतजिह्वेन्द्रियः पञ्चरसान् विवेचयति । प्रज्ञावान् भगवच्छासने समाहितो न कम्पते तद्यथा शैलो न वायुना कम्प्यते । प्रज्ञावान् श्राद्ध इत्युच्यते । चतुः श्रद्धालाभितया पराननुयायितत्वात् । आर्यप्रज्ञेन्द्रियप्रतिलाभी जिनौरसो भवति । अन्ये बाह्याः पृथग्जनाः । अत उच्यते प्रज्ञावानर्थं विन्दत इति ।
निष्प्रपञ्चाराम इति । यदेकानेकत्ववादः स प्रपञ्चः । यथा आनन्दः शारिपुत्रं पृच्छति- षण्णाम् [आयुष्मन्] स्पर्शायतनानामशेषविरागनिरोधादस्ति अन्यत्किञ्चित् । शारिपुत्रः प्रत्याह[मा ह्येवमायुष्मन्] । षण्णा[मायुष्मन्] स्पर्शायतनानामशेषविरागनिरोधादस्त्यन्यत्किञ्चिदिति (sss_460) वदन् अप्रपञ्चं प्रपञ्चयसि । नास्ति किञ्चिदिति, अस्ति च नास्ति चान्यदिति, नैवास्ति नो च नैवास्त्यन्यदिति च प्रश्ने प्रतिवचनमपि तथा स्यात् ।
(पृ) कस्मादिदमप्रपञ्चम् । (उ) अयं वस्तुत आत्मधर्मप्रश्नः यद्येकः यदि वानेक इति । अतो न प्रत्युवाच । आत्मा च न नियतः । पञ्चस्कन्धेषु केवलं प्रज्ञप्त्याभिधीयते । यद्यस्ति किञ्चिदिति । यदि वा नास्ति किञ्चिदिति प्रतिब्रूयात्, तदा शाश्वतोच्छेदपातः स्यात् । यत् प्रतीत्यसमुदेनात्मव्यवहारः स निष्प्रपञ्चः । यदि पश्यति सत्त्वं शून्यं धर्माश्च शून्या इति स निष्प्रपञ्चारामः । अतो निष्प्रपञ्चारामा भगवच्छासने ऽर्थं विन्दन्ते । इयं कुशलवितर्कसम्पदा ।
कुशलवितर्कवर्गस्त्र्यशीत्युत्तरशततमः ।
184 अन्तिमपञ्चसमाधिपरिष्कारवर्गः
(7) कल्याणाधिमुक्तिसम्पदिति । योगी यत् निर्वाणे ऽभिरमणः संसारं विद्वेषयति । इयं कल्याणाधिमुक्तिः । एवमधिमुक्तः क्षिप्रं विमुक्तिभाग्भवति । निर्वाणाभिरतस्य चित्तं न कुत्रचिदभिनिविशते । निर्वाणाभिरतस्य नास्ति भयम् । यदि पृथग्जनस्य चित्तं निर्वाणमनुस्मरति । तदैव सन्त्रासो भवति- अहमत्यन्तं नक्ष्यामीति ।
(पृ) केन प्रत्ययेन निर्वाणे ऽधिमुच्यते । (उ) योगी लोकमनित्यं दुःखं शून्यमनात्मकं दृष्ट्वा निर्वाणे उपशमसंज्ञामुत्पादयति । पुद्गलो ऽयं स्वाभाविकक्लेशप्रतनुभूतो निर्वाणभाणकं शृणोति । तदा [तस्य] चित्तं तत्राधिमुच्यते । यदि वा कल्याणमित्रात् यदि वा सूत्राध्ययनात् संसार आदीनवं शृणोति । यथा अनवराग्रसूत्रे पञ्चदेवदूतसूत्रे चोक्तम् । तदा संसारान्निर्विण्णो निर्वाणे ऽधिमुच्यते ।
(8) प्रधानीयाङ्गसम्पदिति । यथोक्तं सूत्रे- पञ्च प्रधानीयाङ्गानि । (sss_461) कतमानि [पञ्च] । इह [भिक्षवो] भिक्षुः श्राद्धो भवति । अशठो भवति । अल्पाबाधो भवति । आरब्धवीर्यो भवति । प्रज्ञावान् भवतीति । श्रद्धावान् नाम[यः] त्रिषु रत्नेषु चतुर्षु सत्येषु च विगतविचिकित्सो भवति । विगतविचिकित्सत्वात् क्षिप्रं समाधिः सिध्यति । श्रद्धावतः प्रीतिबहुलत्वाच्च क्षिप्रं समाधिः सिध्यति । श्रद्धावान् सुसमाहितो दान्तश्च भवति । अतो ऽपि सहसा समाधिं विन्दते । (पृ) यदि समाधिना प्रज्ञोत्पद्यते । अथ विचिकित्सां प्रजहाति । कथमिदानीं समाधेः पूर्वमेवोच्यते विगतविचिकित्स इति । (उ) बहुश्रुतत्वात् किञ्चिद्विचिकित्सां प्रजहाति । न समाधिलाभात् । अधिमुक्तकुलोत्पन्नः श्राद्धेन सहवृत्तिकः सदाधिमुक्तिचित्तं भावयन् अप्रतिलब्धसमाधिरपि विचिकित्सां न करोति । एवमादि ।
अशठ इति । ऋजुचित्तस्य नास्ति किञ्चिद्गोपनीयम् । सदपि सुतीर्णं भवति । यथा कश्चिद्भिषजमुपेत्य व्याधिस्वरूपमुक्त्वा सुचिकित्सो भवति । अल्पाबाध इति । स पूर्वरात्रे ऽपररात्रे च व्यवस्यति, न विरमति । यद्याबाधाबहुलः, तन्मार्गचर्याया अन्तरायो भवति । आरब्धवीर्य इति । मार्गार्थित्वात् सदा विर्यमारभते । अतो ऽग्निं मन्थानो न विरममाणो सहसाग्निं विन्दते । प्रज्ञावानिति । प्रज्ञावत्त्वेन चतुर्णामङ्गानां फलं भवति यदुत मार्गफलम् ।
(पृ) स्मृत्युपस्थानधर्मा अपि प्रधानीयाङ्गानि । कस्मात् केवलमेते पञ्च धर्मा उक्ताः । (उ) यद्यपि सकलमङ्गम् । तथापीमे धर्मा मुख्यतमाः योगिभिरप्यपेक्ष्यन्ते । अत इमे केवलमुक्ताः । सर्वेषां पापकानां परिवर्जनं सर्वेषां कुशलानां सञ्चयश्च योगिनो ऽङ्गम् । यथा......... सूत्रे वर्णितम् ।
(9) विमुक्त्यायतनसम्पदिति यत् पञ्चविमुक्त्यायतनानि । इहशास्ता [अन्यतरो वा] गुरुस्थानीयः [स ब्रह्मचारी] भिक्षूनां धर्मं देशयति । यथा यथा धर्मं देशयति । तथा तथा [तस्मिन् धर्मे] अर्थप्रतिसंवेदी च धर्मप्रतिसंवेदी च भवति । [तस्यार्थ]प्रतिसंवेदिनो (sss_462) धर्मप्रतिसंवेदिनः प्रीतिर्जायते । प्रीतमनसः कायः प्रश्रभ्यते । प्रश्रब्धकायः सुखं वेदयते । सुखिनश्चित्तं समाधीयते । इदं प्रथमं विमुक्त्यायतनम् । यत्र भिक्षो[रप्रमत्तस्यातापिनः] प्रहितात्मनो विहरतो [ऽविमुक्तं] चित्तं विमुच्यते । [अपरिक्षीणा] वा आस्रवाः परिक्षयं गच्छन्ति । [अननुप्राप्तं] वा अनुत्तरं योगक्षेममनुप्राप्नोति । द्वितीयं [विमुक्त्यायतनं] विस्तरेण सूत्राध्ययनम् । तृतीयं परेषां धर्मदेशना । चतुर्थं विमुक्ते स्थाने धर्माणामनुवितर्कः अनुविचारः । पञ्चमं समाधिनिमित्तस्य सुग्रहणं यदुत नवनिमित्तादीनि यथापूर्वमुक्तानि ।
(पृ) शास्ता [अन्यतरो] वा गुरुस्थानीयः सब्रह्मचारी कस्मात् भिक्षूणां धर्मं देशयति । (उ) धर्मसमापादानेन महान्तमर्थमाप्नोति । इत्यतो देशनां करोति । सब्रह्मचार्ययः शास्तारमुपादाय प्रव्रजितः । इन्द्रियाणां परिपाचनाय धर्मं देशयति । गुरुस्थानीयः सब्रह्मचारी समानकर्मत्वाच्च धर्मदेशनां करोति । भिक्षवो ऽवश्यं धर्मं शृण्वन्तीत्यतश्च [धर्म]देशनां करोति । इमे पुद्गला विशुद्धशीलादिगुणसम्पन्नाः तद्यथा सुभाजनं समृद्धिं समादातुं भव्यम् इत्यतो धर्मदेशनां करोति ।
इमास्तिस्रः प्रज्ञाः धर्मप्रतिसंवेदो बहुश्रुतमयी प्रज्ञा । अर्थप्रतिसंवेदश्चिन्तामयी प्रज्ञा । अभाभ्यामुभाभ्यां जायते प्रीतिः यावत्समाहितस्य यथाभूतज्ञानं जायते । इयं भावनामयी प्रज्ञा । आसां त्रिसृणां प्रज्ञानां त्रीणि फलानि भवन्ति यदुत निर्वेदो वैराग्यं विमुक्तिः । धर्मं श्रुत्वाधीत्य च परेषां धर्मं देशयति । इयं बहुश्रुतमयी प्रज्ञा । धर्माननुवितर्कयति अनुविचारयति । इयं चिन्तामयी प्रज्ञा । समाधिनिमित्तं सुगृह्णाति । इयं भावनामयी प्रज्ञा ।
(पृ) या चित्तविमुक्तिः [यश्च] आश्रवक्षयः । अनयोः को भेदः । (उ) समाधिना क्लेशानां व्यावृत्तिश्चित्तविमुक्तिः । क्लेशानामत्यन्तप्रहाणमास्रवक्षयः । (पृ) शीलादयो धर्मा अपि विमुक्त्यायतनम् । यथोक्तं- शीलवतश्चित्तं न विप्रतिसरति । अविप्रतिसारिणः प्रीतिर्जायत इत्यादि । कदाचित् दानदिहेतोरपि विमुक्तिर्भवति । कस्मादिमे पञ्चैव धर्मा उक्ताः । (उ)प्राधान्यात्त एवोक्ताः । (पृ) एषां धर्माणां किं प्राधान्यम् । (उ) विमुक्तेः सन्निकृष्टो हेतुः । शीलादयस्तु विप्रकृष्टाः । (पृ) कथं ज्ञायते सन्निकृष्टो हेतुरिति । (उ) योगी धर्मं श्रुत्वा प्रजानाति स्कन्धायतनधातून् । तद्धर्मकलापमात्रे नास्त्यात्मेति । अतः प्रज्ञप्तिर्भज्यते । तत्प्रज्ञप्तिभङ्ग एव विमुक्तिरित्याख्यायते । अतः सन्निकृष्टो हेतुः । उक्तञ्च सूत्रे- बहुश्रुतस्यानिशंसा यदुत परशासनं नानुवर्तते, चित्तं सुसमाधीयते इत्यादि । अनेनापि ज्ञायते सन्निकृष्टो हेतुरिति । तथागतशासने महान् लाभो ऽस्ति, क्लेशान् निरोधयति, निर्वाणञ्च यातीत्यादि । अस्मिन्नुपशमधर्मे श्रोता वा अध्येता वा अनुविचिन्तयिता वा क्षिप्रं विमुच्यते । अतः सन्निकृष्टो हेतुः । दानेन महत्पुण्यं विन्दते । शीलेन गौरवम् । बाहुश्रुत्येन प्रज्ञाम् । प्रज्ञया आस्रवाणां क्षयं विन्दते न पुण्यं गौरवं वा । अतो ज्ञायते सन्निकृष्टो हेतुरिति । शारिपुत्रादयो महाप्राज्ञा इति कीर्त्यन्ते । [तत्] सर्वं बहुश्रुत्यात् ।
(पृ) यदि बाहुश्रुत्येन चित्तं सुसमाधीयते । आनन्दः कस्मात् प्रथमे ऽन्तिमे च यामे विमुक्तिं नालभत । (उ) आनन्दो न यावन्मस्तकमुपधाने न्यधत्त तावदेव विमुक्तिमलभत । अतो ऽसदद्भुतधर्मे ऽवर्तत । कस्मान्न क्षिप्रम् । आनन्दस्यतस्मिन् समये वीर्यं किञ्चिद्दुष्टमासीत् । अतिमात्रक्लान्तत्वान्नालभत विमुक्तिम् । आनन्दो ऽस्मिन् याम आस्रवाणां क्षयमनुप्राप्नोमीति प्रणिदध्यौ । यथा च बोधिसत्त्वो बोधिमण्डे प्रणिहितवान् । कस्तादृशबलो यथा आनन्दः । सर्वमिदं बाहुश्रुत्यबलम् ।
(10) अनावरणतेति- यानि त्रीण्यावरणानि कर्मावरणं, विपाकावरणं क्लेशावरणमिति । यस्येमान्यावरणानि न सन्ति । न स दुःस्थाने पतति । यो ऽक्षणेभ्योमुक्तः स मार्गं समादातुं भव्यो भवति । स चतुर्भिश्चक्रैः सम्पन्न इत्युच्यते । [तानि] प्रतिरूपदेशवासः सत्पुरुषोपाश्रयः आत्मसम्यक्प्रणिधिः पूर्वे च कृतपुण्यता इति । [स] चत्वारि स्रोतआपत्त्यङ्गानि च साधयति यदुत सत्पुरुषसंवासः सद्धर्मश्रवणं, योनिशोमनस्कारो धर्मानुधर्मप्रतिपत्तिः । रागादीन् त्रीन् धर्मानपि समुत्सृजति । यथोक्तं सूत्रे- त्रीन् धर्मानप्रहाय न जराव्याधिमरणानि सन्तरति । इति ।
(11) अनासक्ततेति । "नावरतीरमुपगच्छति । न पारतीरमुपगच्छति । न मध्ये संसीदति । न स्थल उत्सीदिष्यति । न मनुष्यग्राहो भविष्यति । नामनुष्यग्राहो भविष्यति । नावर्तग्राहो भविष्यति । नान्तःपूती भविष्यति" । अवरतीरमिति षण्णामाध्यात्मिकानामायतनामधिवचनम् । पारतीरमीति षण्णां बाह्यानामायतनानामधिवचनम् । मध्ये संसीदति इति नन्दिरागस्याधिवचनम् । स्थल उत्साद इति अस्मिमानस्याधिवचनम् । कतमो मनुष्यग्राहः । [इह] भिक्षुर्गृहिसंसृष्टो विहरति । [कतमो] ऽमनुष्यग्राहः । [इह भिक्षुरेकत्य एकत्यो] ऽन्यतरं देवनिकायं प्रणिधाय ब्रह्मचर्यं चरति । अयमुच्यते ऽमनुष्यग्राह इति । आवर्तग्राह इति पञ्चानां कामगुणानमधिवचनम् । [कतमश्च] अन्तःपूतिभावः । इह भिक्षुरेकत्यो दुश्शीलो भवति । पापधर्मा अशुचिः शङ्कास्मरसमाचारो ऽब्रह्मचारी । अयमुच्यते ऽन्तःपूतिभाव इति ।
यस्यास्ति आध्यात्मिकायतनेषु आत्मग्रहः । तस्य बाह्यायतनेषु आत्मियग्रहः । आध्यात्मिकबाह्यायतनेभ्यो नन्दिरागो भवति । अतस्तत्रैव निमज्जते । तेभ्यस्तु अहङ्कारो जायते । कस्मात् । यदि कश्चित्कायासक्तः सुखी भवतीत्यतो [ऽपरः] कश्चिदागत्य लघु (sss_465) निन्दति । तदा [तस्य]मानो जायते । एवमात्मीयनन्दिरागाहङ्कारास्तच्चित्तं विक्षेपयन्तो ऽन्यानपि निर्वर्तयन्ति ।
(पृ) दृष्टान्ते ऽस्मिन् किं स्त्रोतो भवति । यद्यार्यो ऽष्टाङ्गिकमार्गः स्रोतः । तदा षडाध्यात्मिकबाह्यायतनानि पारौ न स्युः । नन्दिरागादयो मध्यौघ आवर्तः पूतिभावो ऽपि च न स्युः । यदि कामतृष्णा स्रोतः । कथमिमाननुवर्त्य निर्वाणमनुप्राप्नोति । (उ) आर्यो ऽष्टाङ्गिकमार्ग एव स्रोतः । दृष्टान्तो नावश्यं सर्वाकारैः समानो भवति । यथायं दारुस्कन्धो ऽष्टाक्षणविनिर्मुक्तो महार्णवं गच्छति । एवं भिक्षुरोघो ऽक्षणैर्विनिर्मुक्त आर्याष्टाङ्गिकमार्गं स्त्रोतो ऽनुवर्त्यं निर्वाण[महार्णव]मवतरति । यथा कुम्भसदृशं स्तनमिति वचनं तदाकारमात्रं गृह्णाति न काठिन्यं मार्दवं वा । यथा च चन्द्रोपमं वदनमिति वचनं शोभा पौष्कल्यं गृह्णाति न तदाकारम् । किञ्च योगी आर्यमार्गनिर्गतो ऽध्यात्मबहिर्धायतनेष्वासज्यते । न तु यथायं दारुस्कन्धः स्त्रोतोमध्यगतस्तस्मिन् पारे ऽस्मिन् वा आसज्यते पूतीभवति वा । इत्यादि ।
शास्त्राचार्य आह- यथा गङ्गास्त्रोतो नियमेन महार्णवं प्राप्नोति । एवमार्याष्टाङ्गिकमार्गस्त्रोतो नियमेन निर्वाणं प्राप्नोति ।
एवं संक्षिप्यैकादशमाधिपरिष्कारा उक्ताः, येषु सत्सु नियमेन समाधिर्लभ्यते ॥
अन्तिमपञ्चसमाधिपरिष्कारवर्गश्चतुरशीत्युत्तरशततमः
185 आनापानवर्गः
आनापानस्य षोडशाकारा यदुत सस्मृत एवाश्वसिति स्मृत एव प्रश्वसिति । दीर्घं वा आश्वसन् दीर्घमाश्वसिमीति प्रजानाति दीर्घं वा प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति ॥ ह्रस्वं वा आश्वसन् ह्रस्वमाश्वसिमीति प्रजानाति । ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति (sss_466) प्रजानाति ॥ सर्वकायप्रतिसंवेदी आश्वसिष्यामीति शिक्षते ॥ सर्वकायप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ प्रश्रम्भयन् कायसंस्कारमाश्वसिष्यामीति शिक्षते । प्रश्रम्भयन् कायसंस्कारं प्रश्वसिष्यमीति शिक्षते ॥ प्रीतिप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । प्रीतिप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ सुखप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । सुखप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ चित्तसंस्कारप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । चित्तसंस्कारप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ प्रस्रम्भयन् चित्तसंस्कारमाश्वसिष्यामिति शिक्षते । प्रश्रम्भयन् चित्तसंस्कारं प्रश्वसिष्यामीति शिक्षते ॥ चित्तप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । चित्तप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ अभिप्रमोदयन् चित्तमाश्वसिष्यामीति शिक्षते । अभिप्रमोदयन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ समादधन् चित्तमाश्वसिष्यामीति शिक्षते । समादधन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ विमोचयन् चित्तमाश्वसिष्यामीति शिक्षते । विमोचयन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ अनित्यानुदर्शी आश्वसिष्यामीति शिक्षते । अनित्यानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ विरागानुदर्शी आश्वसिष्यामीति शिक्षते । विरागानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ निरोधानुदर्शी आश्वसिष्यामीति शिक्षते । निरोधानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ प्रतिनिस्सर्गानुदर्शी आश्वसिष्यामीति शिक्षते । प्रतिनिस्सर्गानुदर्शी प्रश्वसिष्यामीति शिक्षते ।
(पृ) कथमानापानस्य दीर्घं ह्रस्वं वा भवति । (उ) यथा कश्चित्पर्वतमारोहति । यदि वा [वा] भारं वहति । [तदा] क्लान्तः ह्रस्वं श्वसति । तथा योग्यपि औदारिके चित्ते प्रवृत्ते ह्रस्वं [श्वसति] । औदारिकचित्तमिति चपलं रोगविक्षिप्तं चित्तम् । दीर्घं श्वसतीति यदि योगी सूक्ष्मचित्ते स्थितः, [तदा] तस्याश्वासप्रश्वासा दीर्घा भवन्ति । कस्मात् । सूक्ष्मचित्तानुवर्तिन आश्वासप्रश्वासा अपि सूक्ष्मा अनुपतन्ति । यथा तस्यैव क्लान्तस्य विश्रान्तस्य आश्रासप्रश्वासा सूक्ष्मा अनुपतन्ति । तस्मिन् समये दीर्घा अश्वास प्रश्वासा भवन्ति ।
सर्वकाय[प्रतिसंवेदी]ति । योगी काये तुच्छाधिमुक्तः सर्वरोमकूपेषु वायुमन्तर्बहिश्चारिणं पश्यति । प्रश्रम्भयन् कायसंस्कारमिति । धातुबललाभिनो व्युपशान्तचित्तस्य योगिन औदारिका आश्वासप्रश्वासा व्युपशान्ता भवन्ति । तदा योगी कायम्मृत्युपस्थानसमन्वितो भवति । प्रीतिप्रतिसंवेदीति । अस्मात्समाधिधर्मादस्य चित्ते महती प्रीतिर्भवति । प्रकृतितो विद्यमानापि नैवं भवति । अस्मिन् समये प्रीतिप्रतिसंवेदीत्याख्यायते । सुखप्रतिसंवेदीति । प्रीतेः सुखं जायते । कस्मात् । प्रीतमनसः कायः प्रश्रभ्यते, प्रश्रब्धकायः सुखं विन्दते । यथोक्तं सूत्रे- प्रीतमनसः कायः प्रश्रम्यते । प्रश्रब्धकायः सुखं वेदयते । इति ।
चित्तसंस्कारप्रतिसंवेदीति । योगी प्रीतावादीनवं पश्यति । रागजनकत्वात् । रागो ऽयं चित्तसंस्कारः चित्तादुत्पन्नत्वात् । वेदनायां रागो जायत इत्यतो वेदनां चित्तसंस्कारं पश्यति । प्रश्रम्भयन् चित्तसंस्कारमिति । योगी पश्यति वेदनातो रागो जायते । तत् प्रश्रम्भयतश्चित्तमुपशाम्यति । औदारिकवेदनामपि प्रश्रम्भयतीति प्रश्रम्भयन् चित्तसंस्कारमित्युच्यते । चित्तप्रतिसंवेदीति । योगी प्रश्रम्भयन् वेदनास्वादं पश्यति चित्तं शान्तं न लीनं नोद्धतम् । चित्तमिदं कस्मिंश्चित्समये पुनर्लीनं भवति । तस्मिन् समये ऽभिप्रमोदयति । यदि पुनरुद्धतम् । तस्मिन् समये समादधाति । यद्युभयधर्मविनिर्मुक्तम् । तस्मिन् समये समुत्सृजेत् । अत उच्यते विमोचयन् चित्तमिति । एवं योगी समाहितो ऽनित्याकारमुत्पादयति । अनित्याकारेण क्लेशान् प्रजहाति । अयं निरोधाकरः । क्लेशानां प्रहाणाच्चित्तं निर्विद्यते । अयं विरागाकारः । विरक्तचित्ततया सर्वेषां प्रतिनिस्सर्गमनुप्राप्नोति । अयं प्रति निस्सर्गाकारः । एवमनुपूर्वं विमुक्तिमनुप्राप्नोतीति षोडशाकारा आनापानस्मृतेर्भवन्ति ।
(पृ) कस्मादानापानस्मृतिरार्यविहार इति दिव्यविहार इति ब्रह्मविहार इति शैक्षविहार इति अशैक्षविहार इति चोच्यते । (उ) वायुराकाशे विहरति । आकाशलक्षणं रूपलक्षणं प्रकटयति । रूपलक्षणमिदं शून्यमेव । शून्यतैवार्यविहार इत्यार्यविहारो (sss_468) भवति । शुभदेवेषूत्पत्यर्थत्वात् दिव्यविहारः । उपशमप्रापणार्थत्वात् ब्रह्मविहारः । शैक्षधर्मप्रतिलाभार्थत्वात् शैक्षविहारः । अशैक्षार्थत्वादशैक्षविहारः ।
(पृ) यद्यशुभभावनया कायाद्विरक्तो विमुक्तिमनुप्राप्नोति । क उपयोग एभिः षोडशभिराकारैः । (उ) अशुभभावनया अलब्धवैराग्यस्य आत्मदुर्विण्णस्य कायचित्ते व्यामोहिते स्याताम् । यथा दुष्टमौषधं सेवमानस्य व्याधिः पुनर्भवति । एवमशुभभावनया दुर्निवेदो भवति । यथा वल्गुमुत्तितीर्षया भिक्षवो ऽशुभभावनया अतीव निर्विण्णा विषपानभृगुपतनादिभिर्विविधैरात्मानं ध्नन्ति स्म । न तथा इमे षोडशाकारा वैराग्यप्रापका अपि न दुर्निवेदजनका भवन्तीत्यतो विशिष्यन्ते । किञ्च अयमाकारः सुलभः स्वकायावलम्बित्वात् । अशुभा[कारस्तु] सुविनाशः । अयमाकारः सूक्ष्मः स्वकायविपरिणामकत्वात् । अशुभाकार औदारिकः । अस्थिकङ्कालविपरिणामदुष्टः । अयमाकारः सर्वेषां क्लेशानां भेदकः । अशुभाकारस्तु मैथुनरागमात्रस्य कस्मात् । सर्वे हि क्लेशा वितर्कं प्रतीत्य जायन्ते । आनापानस्मृतेश्च सर्ववितर्कोपच्छेदार्थत्वात् ।
(पृ) अनापानं किं कायानुबन्धि किं चित्तानुबन्धि । (उ) कायानुबन्धि चित्तानुबन्धि च । कस्मात् । गर्भाशयगतस्याभावात् ज्ञायते कायाधीनमिति । चतुर्थध्यानादिकस्याचित्तकस्य चाभावात् ज्ञायते चित्तानुबन्धीति । (पृ) आश्वासप्रश्वासो ऽभूत्वोत्पन्नश्चित्ताधीनो न स्यात् । कस्मात् । स न मनसो वशादुत्पद्यते । यथा अन्यद्वस्तु स्मरति चित्ते सदा आश्वासप्रश्वासा भवन्ति । यथा [भुक्त] आहारः स्वयं परिपच्यते । यथा च प्रतिबिम्बं स्वयं प्रवर्तते न पुरुषः करोति ।
(उ) आश्वासप्रश्वासो ऽभूत्वोत्पद्यते न स्मृतिवशात् । किन्तु प्रत्ययसामग्र्योत्पद्यते । सचित्तस्यास्ति अचित्तकस्य पुनर्नास्ति । अतो ज्ञायते चित्ताधीन इति । यथाचित्तञ्च भिद्यते । औदारिकचित्तस्य ह्रस्वः । सूक्ष्मचित्तस्य दीर्घः । आनापानं भूम्यधीनं चित्ताधीनम् । आनापान(भूमि)गतस्य आनापानभूमिरप्यस्ति । [तस्य] तस्मिन् समये चित्तमप्यस्ति । आनापानभूमिर्नाम कामधातु स्त्रीणि ध्यानानि च । य (sss_469) आनापानभूमिगतः [तस्य] अस्ति तु आनापानभूमि- चित्तम् । अचित्तकस्य तस्मिन् समये [तद्भूमि]चित्तमपि नास्ति । आनापानविहीनभूमिगतस्य तस्मिन् समये [तद्भूमिश्चित्त]मपि नास्ति ।
(पृ) श्वास उत्पद्यमान किं पूर्वमाश्वसति । किं वा पूर्वं प्रश्वसति । (उ) उपपत्तिकाले पूर्वमाश्वसति । मरणकाले ऽन्ते प्रश्वसति । एवं चतुर्थध्याने निर्गमनप्रवेशावपि । (पृ) आनापानस्मृतिरियं कथं परिपूर्णा भवति । (उ) योगी यदि षोडशाकारान् प्रतिलभते । तस्मिन् समये परिपूर्णा भवति । केचिच्छास्ताचार्या वदन्ति- षडिभः प्रत्ययैः परिपूर्णेति । [षट् प्रत्यया] यदुत गणना अनुबन्धना शमथो विपश्यना विवर्तनं परिशुद्धिः । गणना आनापानगणना एकत आरभ्य यावद्दश । त्रिप्रकारा गणना समा वा अतिरिक्ता वा न्यूना वा । समा नाम दशसु सत्सु दशेति गणयति । अतिरिक्ता नाम एकादशसु दशेति गणयति । न्यूना नाम नवसु दशेति गणयति । अनुबन्धनं नाम योगिनश्चित्तमानापानमनुबध्नाति । विपश्यना नाम योगी आश्वासप्रश्वासान् कायानुबद्धान् मणिषु सूत्रवत्पश्यति । शमथो नाम चित्तस्यानापाने प्रतिष्ठापनम् । विवर्तनं नाम चित्तं प्रतीत्य कायस्य प्रवृत्तिः, चित्तं प्रतीत्य च वेदनायाः । प्रत्युत्पन्नचित्तधर्मो ऽप्येवम् । परिशुद्धिर्नाम योगिनि सर्वक्लेशैः सर्वाक्षणैश्च विमुक्ते चित्तं परिशुध्यति ।
नेमे ऽवश्यनियताः । कस्मात् । आकारेषु गणानुबन्धनरूपयो द्वयोधर्मयोर्नावश्यमुपयोगो भवति । यतो योगी केवलमानापाने चित्तं प्रतिष्ठापयन् सर्वान् वितर्कानुपच्छेदयति । यः षोडशविधमाचरितुं समर्थः स परिपूर्ण इत्युच्यते । इदं परिपूर्णलक्षणञ्चानियतम् । मृद्विन्द्रियाचरितं तीक्ष्णेन्द्रियस्यापरिपूर्णम् ।
(पृ) आनापानसूत्रे ऽस्मिन् कस्मादुक्तम्- आहाराय भवतीति । (उ) आनापानस्तिमितस्य कायः सुखी भवति । यथा मधुरान्नभुजः कायः प्रह्लाद्यते । अतः आहाराय भवतीत्युच्यते । (पृ) एषु षोडशाकारेषु किमानापानं संस्मरति । (उ) अस्य पुरुषेण (sss_470) पञ्चस्कन्धान् निराकर्तुमुपाय इत्याख्या । पञ्चस्कन्धेषु निराकृतेषु प्रज्ञप्तिर्निराकृतेति कः पुनरुपयोग आनापानस्मृत्या । इदमेव कायानुस्मृतिरित्युच्यते । चतुर्धा कायमनुस्मरतीति कायानुस्मृतिः ।
(पृ) स्मृतिरतीतालम्बना । आश्वासप्रश्वासाः प्रत्युत्पन्नाः । कस्मात् तत् स्मृतिर्भवति । (उ) इदं प्रज्ञप्तिभेदकं ज्ञानमनुस्मृतिनाम्नोच्यते । चैतसिकधर्माणामन्योन्यं नाम भवति । यथा दशसंज्ञादयः स्मृतिपूर्वं क्रियमाणत्वात् अनुस्मृतिरित्युच्यते । दीर्घह्रस्वादीनां नार्यविहार इत्यभिधानम् । कथं विहारविर्हीनं स्मृत्युपस्थानमित्याख्यायते । उक्तञ्च सूत्रे योगी आनापानं शिक्षमाणः दीर्घ[माश्वसन्] वा [शिक्षते] ह्रस्वं वा सर्वकायप्रतिसंवेदी वा प्रश्रम्भयन् कायसंस्कारं वा [शिक्षते] । तस्मिन् समये कायस्मृत्युपस्थानं भवति ।
अयमाद्य उपायमार्गः । विशुद्धये भवतीत्यतो ऽन्ते प्रहाणमार्र्ग इत्युच्यते । अत्र अनित्याद्याकारो ऽस्ति । अस्मिन्सूत्रे परं नोक्तम् । अन्यस्मिन् सूत्रेतूक्तम्- योगी आनापाने [स्थितः] काये समुदयधर्मानुदर्शी व्ययधर्मानुदर्शी, समुदयव्ययधर्मानुदर्शी विहरतीति । आह- कायमनित्यं पश्यतीत्यादि । चतुर्थे परमनित्याद्याकारः परिपूर्णत्वादुक्तः ॥
आनापानवर्गः पञ्चाशीत्युत्तरशततमः ।
186 समाध्यपक्षाल वर्गः
समाधिरयं तत्प्रतिबन्धिभिरपक्षालैर्विनिर्मुक्तः सन् महद्धितं साधयति । समाध्यपक्षालमिति यदुत औदारिकी प्रीतिः । यथोक्तं सूत्रे- ममौदारिकं प्रीतिप्रामोद्यं चित्तस्य दूषणमभूत् इति । योगी नोत्पादयेदिदमौदारिकं प्रीतिप्रमोद्यम् । रागादिदोषाणां समाहित चित्तविक्षेपकत्वात् ।
(पृ) धर्मादुत्पद्यमानं प्रीतिप्रामोद्यं कथं नोत्पादयेत् । (उ) योगिनः शून्य तामनुस्मरतो न प्रीतिप्रमोद्यं जायते । अस्ति सत्त्व इति संज्ञया हि प्रीतिप्रामोद्यं जायते । पञ्चसु स्कन्धेषु नास्ति सत्त्वः, कथं प्रीतिप्रामोद्यं भविष्यति । योगी एवमनुस्मरेत्- हेतुप्रत्ययै विविधा धर्मा जायते यदुतातपालोकादयो धर्माः । तत्र किं प्रीतिप्रामोद्यम् । ये प्रीतिप्रामोद्यकरा धर्माः ते सर्वे परिमार्गिता व्यग्रविक्षेपका इति पश्यतो योगिन औदारिकं प्रीतिप्रामोद्यं निरुध्यते । योगी पुनर्महान्तमर्थं प्रार्थयते । नातपालोकादिभिर्धर्मैरयं भवति । अतो न प्रीतिप्रामोद्यं जायते । योगी निरोधलक्षणं लाभं पश्यतीत्यतो नातपालोकादिभिः [तस्य] प्रीतिप्रामोद्यं भवति । अयं योगी उपशमं भावयन् क्लेशानां क्षयमिच्छति । अतो न प्रीतिप्रामोद्यमुत्पादयति । ईदृशैः प्रत्ययैरौदारिकं प्रीतिप्रामोद्यमुपशमयति ।
भीरुता च समाधेरपक्षालः । अहङ्कारमालम्बनं दृष्ट्वा भीरुतां जनयति । लोके यानि भैरवस्थानानि तानि सर्वाणि योगी पश्यति । तानि सर्वाणि अनित्यं विक्षेपकमिति परीक्ष्य [तानि] नानुविदधीत । कस्मात् । ध्याननिषण्णधर्मे ऽस्त्ययं भैरवदर्शनस्य प्रत्ययः । नानेन भीरुतां जनयेत् । सर्वमिदमभूतं शून्यं मायावत् । बालानां वञ्चनमतत्त्वम् । एवं चिन्तयतो (sss_472) भीरुता वियुज्यते । धर्मान् शून्यानुपाश्रयतो नास्ति भीरुता । विहारबलादिदं वैलक्षण्यमनुभवामीत्यनुस्मरन् न बिभ्यात् । किञ्च काये शीलश्रुतादिगुणसम्पदस्ति । न हिंसाप्रयोगप्रत्यय इत्यनुस्मरतो न भवति भीरुता । योग्ययं मार्गे परमाभिरत इत्यतः कायजीविते ऽनपेक्षो भवति । कस्मात् बिभ्यात् । किञ्चास्य चित्तं सदा सम्यक्स्मृतौ तिष्ठति । अतो भीरुता नावकाशं लभते । शूरलक्षणानुस्मरणाच्च न बिभेति । भीरुता चेयमबलीनतालक्षणम् । एवमादिना भीरुतामपसारयति ।
अदमः समाधेरपक्षालः । [अदमो] यत् योगी शीतवातादिभिर्व्याधिमान् । यदि वातिक्लान्तिजरामरणप्रत्ययैरदान्तकायो भवति । रागतृष्णेर्ष्यादिभिः क्लेशैरदान्तचित्तस्य ध्यानसमाधयो नश्यन्ति । अतो योगी स्वकायचित्ते संरक्षन् दमयेत् ।
वैलक्षण्यञ्च समाधेरपक्षालः । [वेलक्षण्यं] यत् मलिनत्वलक्षणम् । किञ्चिदमलिनतालक्षणमपि ध्यानसमाधीनां विक्षेपकम् । यथा दानादिलक्षणम् ।
वैषम्यञ्च समाधेरपक्षालः । [वैषम्यं] यत् वीर्यं दुष्ठुलं यदि वातिलीनम् । दुष्ठुलस्य कायचित्ते ऽतिक्लान्ते । अतिलीन[वीर्यो] न समाधिनिमित्तं गृह्णाति । उभावपि समाधेश्च्युतौ भवतः । यथा वर्तकापोतो गाढं गृहीतो ऽतिल्कान्तो भवति । शिथिलं गृहीतो हस्तादुत्पतेत् । यथा वा दान्ता वीणायास्तन्त्र्यो ऽत्यायता वातिशिथिला वा उभयथा न स्वरं साधयन्ति । आरब्धवीर्यं प्रवेगवत् तदा दुषणावसानं भवेत् । यथा भगवाननुरुद्धमाह- अत्यारब्धवीर्यस्य कौसीद्यं भवेत् इति । कस्मात् । अत्यारब्धवीर्यो हि वस्त्वप्रसाध्य कौसीद्ये पतेत् । अतिलीनवीर्यो ऽपि न वस्तु साधयति । अतो वैषम्यं समाधेरपक्षालो भवति ।
अमनस्कारः समाधेरपक्षालः । अमनस्कारो नाम सद्धर्मामनस्कारः । मनस्कारप्रीतिधर्मे सत्यपि नास्ति वेदयितम् (?) । समाधिनिमित्तमनस्कृत्य बाह्यरूपस्य मनस्कारश्चामनस्कारः । योगी चित्तैकाग्र्येणारब्धवीर्यो वेदनीयधर्मं मनसि कुर्यात् । यथा तैलपात्रमाहरेत् ।
वैपरीत्यञ्च समाधेरपक्षालः । [वैपरीत्यं] यत् रागबहुलः करुणाचरितमुपादत्ते । द्वेषबहलो ऽशुभं भावयति । इमौ द्वावपि प्रतीत्यसमुत्पादं भावयतः । अतिलीने चित्ते शमथं भावयति । अत्युद्धते चित्ते वीर्यमारभते । अनयो द्वयोश्चित्तयोरुपेक्षामाचरति । इदं वैपरीत्यम् ।
अभिजल्पः समाधेरपक्षालः । [अभिजल्पो] यत् वितर्कविचारबाहुल्यम् । वितर्कविचाराणामभिजल्पहेतुत्वात् । चित्तञ्च नालम्बने सुदृढप्रतिबद्धविहरणं, नाभिरमते ।
लक्षणग्रहणञ्च समाधेरपक्षालः । लक्षणं त्रिविधम्- यत् शमथलक्षणमारम्भलक्षणमुपेक्षालक्षणमिति । पुनस्त्रिविधं समाधौ समापत्तिलक्षणं स्थितिलक्षणं व्युत्थानलक्षणम् इति । ईदृशलक्षणानां प्रविभागाकुशलो योगी ध्यानाच्यवते ।
मानञ्चसमाधेरपक्षालः । यदाह- अहमेव समाधिमुपसम्पद्य विहरामि न तु स इतीदं मानं भवति । यदाह- स एवोपसम्पद्य विहरति नाहमितीदं मानकल्पं भवति । यद्यप्रतिलब्धसमाधिराह- प्रतिलब्धवानिति । इदमधिमानम् । अप्रणीतसमाधौ प्रणीतसंज्ञामुत्पादयति इदं मिथ्यामानम् ।
रागादिधर्मा अपि समाध्यपक्षालाः । यथोक्तं सूत्रे- यो भिक्षुरेकधर्मेण समन्वितः स न पश्यति चक्षुरनित्यमिति । [कतमो ऽसावेकधर्मः] रागः इति । (पृ) सर्वे ऽवीतरागाः सत्त्वा किं न पश्यन्ति चक्षुरनित्यमिति । (उ) वचनमिदं किञ्चित् न्यूनम् । प्रत्युत्पन्ने (sss_474) समुत्पन्नरागो न पश्यति चक्षुरनित्यमिति इति वक्तव्यम् । [राग]समन्विते ऽपि कश्चिद्भेदः । केषाञ्चिद्रागादयो घनतराः सदा चित्तमाविशन्ति । तदा [तेषां ते] समाधिं प्रतिबध्नन्ति । तनुभूतास्तु न सदाविशन्ति । तदा नापक्षाला भवन्ति ।
सूत्रे चोक्ता स्रयोदश कृष्णधर्माः समाधिप्रतिकूलाः त्रयोदश शुक्लधर्माः समाध्यनुकूलाः । यद्भगवानाह- त्रीण धर्मानप्रहाय न जराव्याधिमरणं तरति । [कतमे त्रयः] रागद्वेषमोहाः । त्रीन् धर्मानप्रहाय न समुच्छेदयति रागद्वेषमोहान् । [कतमे त्रयः ।] सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा । अथ सन्ति त्रयो धर्माः अयोनिशोमनस्कारो दुश्चरितमतिलीनचित्तता । अथ सन्ति त्रयो धर्मा मुषितस्मृतिता, असम्प्रजन्यं विक्षिप्तचित्तता इति । अथ सन्ति त्रयो धर्मा औद्धत्यमिन्द्रियेष्वगुप्तद्वारता शीलविपन्नता । अथ सन्ति त्रयो धर्माः अस्राद्ध्यं दौश्शील्यं कौसीद्यमिति । अथ सन्ति त्रयो धर्माः सज्जने ऽरतिः सद्धर्मश्रवणे द्वेषः परदोषप्रकटने प्रीतिः । अत सन्ति त्रयो धर्मः अगौरवता संकथ्यदूषणं दुष्प्रज्ञसेवनम् । त्रीन् धर्मानप्रहाय न प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम् [कतमे त्रयः ।] अह्रीक्यमनपत्राप्यं प्रमादः । अह्रीक्यमनपत्राप्यं प्रमादं प्रहाय प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम् । [एवं] यावत्सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां प्रजहन् प्रजहाति रागद्वेषमोहान् जराव्याधिमरणानि च तरति ।
अत्र जराव्याधिमरणानां तरणमेव यन्निरुपधिशेषनिर्वाणम् । रागद्वेषमोहानां समुच्छेद एवार्हत्फलं सोपधिशेषनिर्वाणम् । सक्तायदृष्टिशीलव्रतपरामर्शविचिकित्सानां समुच्छेद एव यच्छ्रामण्यफलम् । अयोनिशोमनस्कारदुश्चरितातिलीनचित्तानां समुच्छेद एव यदूष्मगतादिनिर्वेधभागीयकुशलमूलम् । मुषितस्मृत्यसं प्रजन्यविक्षिप्तचित्तानां समुच्छेद एव यत् चतुर्णां स्मृत्युपस्थानानां भावना । औद्धत्येन्द्रियेष्वगुप्तद्वारताशीलविपन्नतानां समुच्छेद एव यत् प्रव्रजितशीलसमादानम् । सज्जनारतिसद्धर्मश्रवणद्वेषपरदोषप्रकटनप्रीतिनां, अश्राद्धयदौश्शील्यकौसीद्यानां, असत्कारसंकथ्यदूषणदुष्प्रज्ञसेवनानां, अह्रीक्यानपत्राप्यप्रमादानाञ्च समुच्छेद एव यत् गृहिणः परिशुद्धिः ।
कस्मात् । यत् कश्चित् रहोगतः पापकं कृत्वा न लज्जते तदाह्रीक्यम् । यत् स पापकचित्तप्रवृत्तेरूर्ध्वं सङ्घमध्ये ऽपि पापकं कृत्वा नापत्रपते । तदनपत्राप्यम् । सद्धर्ममूलात्कुशलधर्मद्वयाद्भष्टस्य सदाकुशलधर्मानुवर्तनं प्रमादः । एभिस्त्रिभिर्धर्मैः समन्वितो गुरुस्थानीयेनचार्येणानुशिष्ठं न समादत्ते । सा अगौरवता । आचार्यशासनस्य विपर्ययाचरणं संकथ्यदूषणम् । एवं सति आचार्यं परिवर्ज्य चिरं दुर्जनोपसदनं दुष्प्रज्ञसेवनम् । एभ्यो ऽनूत्पन्नमह्रीक्यमगौरवता । अनपत्रपाद्भवति संकथ्यदूषणम् । प्रमादाद्भवति दुर्जनोपसदनम् । अतो ऽश्राद्धो भूत्वा दौःशील्यं समादाय कुसीदो भवति । दुर्जनं सेवमानः [आर्य]शासनमश्रद्दधान आह- नास्ति दुष्कृतस्य विपाक इति । दुष्कृतमाचरन् विपाकं विन्दत इति शृण्वन्मात्रो वा कुक्कटश्वादिधर्मं समादायात्यन्तिकपापमेव काङ्क्षते । तद्धर्मं समादाय न किञ्चिद्धितमविन्दतेति कौसीद्यमुत्पादयति । कौसीद्यात् सज्जने ऽप्रीतो भवति यत् तत्त्वतो नास्ति सम्यक् चर्याविहारीति । सद्धर्मश्रवणं द्विषन् आह सम्यक् चरितधर्मा मिथ्याधर्माः नास्ति ततः कश्चनोपकार इति । चित्तकषायात् परदोषप्रकटने प्रीत आह- परस्य धर्मचर्यातो मत्सदृशं नास्ति किञ्चिलब्धमिति । एवं क्लेशानामनिगृहीतवतश्चित्तमुद्धतं भवति । औद्धत्यादिन्द्रियाणामसमादधानस्य शीलं विपद्यते । शीलविपत्त्या स्मृतिर्मुषिता भवति । असम्प्रजन्ये विहरतश्चित्तं विक्षिप्यते । अयोनिशोमनस्कारश्च जायते । जातायोनिशोमनस्कारत्वात् दुर्मार्गे चरति । दुर्मार्गे चरन् नार्थं प्रतिलभते । अतश्चित्तं मुग्धमतिलीनं भवति । चित्तस्य मोहात् न त्रीणि संयोजनानि समुच्छेदयति । असमुच्छिन्नत्रिसंयोजनत्वान्न रागादिक्लेशान् प्रजहति । ततो व्याध्यादयः सर्वा विपत्तयश्च भवन्ति । एषां विरुद्धाः शुक्लधर्माः ।
शोकः समाधेरपक्षालः । तस्मिन् वर्षे मासे अयने समाधिममुकं नालभ इति चिन्तयतो योगिनः शोको जायते ।
प्रीत्यास्वादने ऽभिनिवेशो ऽपि समाध्यपक्षालः । अनभिरतिश्च समाधेरपक्षालः । प्रतिरूपदेशकल्याणमित्रादिप्रत्ययान् लब्ध्वापि न चित्तमभिरमते ।
कामादीनि नीवरणानि समाधेरपक्षाला भवन्ति । संक्षिप्य यावच्चीवरपिण्डपातादयो धर्माः कुशलमूलापकर्षः अकुशलमूलप्रकर्षश्च सर्वाणि समाधेरपक्षालानि भवन्ति । इति बुद्ध्वा यत्नेन तान्यपनेतुं पर्येषेत ॥
समाध्यपक्षालवर्गः षडशीत्युत्तरशततमः ।
187 शमथविपश्यनावर्गः
(पृ) भगवान् तत्र तत्र सूत्रे भिक्षूनामन्त्र्याह- [इह भिक्षुः] अरण्यगतो वायतनगतो वा वृक्षमूलगतो वा शून्यागारगतो वा मनसि कुर्यात् द्वौ धर्मौ यदुत शमथो विपश्यनाच इति । यदि सर्वे ध्यानसमध्यादिधर्मा मनसि कर्तव्याः । कस्मात् शमथविपश्यनामात्रमाह । (उ) शमथो नाम समाधिः । विपश्यना प्रज्ञा । सर्वे च कुशलधर्मा भावनाजाता इति द्वाविमौ परिगृहीतौ । विक्षिप्तचित्तगताः श्रुतचिन्तामयादिप्रज्ञा अप्यत्र सङ्गृहीताः । आभ्यां द्वाभ्यामेव मार्गधर्मं करोति । कस्मात् । शमथो हि संयोजना व्यावर्तयति । विपश्यना समुच्छेदयति ।
शमथस्तृणग्रहोपमः विपश्यना असिना तल्लवनोपमा । शमथो भूमिमार्जनोपमः । विपश्यना गोमयविकीर्णनोपमा । शमथो रजोमार्जनोपमः । विपश्यना जलेन क्षालनोपमा । शमथो जले निमज्जनोपमः । विपश्यना अग्नावुत्तापनोपमा । शमथो गण्डोपमः । विपश्यना शस्त्रचिकित्सोपमा । शमथः सिरोद्गमोपमः । विपश्यना रक्तपाटनोपमा । शमथश्चित्तदमनोपमः । विपश्यना अतिलीनचित्तव्युत्थानोपमा । शमथः सुवर्णस्य चुलुकीकरणोपमः । विपश्यना अधिधमनोपमा । शमथः सूत्रपातोपमः । विपश्यना भूमिसमीकरणोपमा । शमथः सन्दशिन्या सन्दंशोपमः । विपश्यना शस्त्रेण कृन्तनोपमा । शमथः कवचोपमः । विपश्यना भटानां शस्त्रादानोपमा । शमथः समीक्रियोपमाः । विपश्यना शङ्कुवेधोपमा । शमथो मेदःसेवनोपमः । विपश्यना औषधप्रदानोपमा । शमथः सुवर्णकुट्टनोपमः । विपश्यना भाजनकरणोपमा ।
लौकिकाः सत्त्वाः सर्वे सुखं दुःखं वा इति द्वयोरन्तयोः पतिताः । शमथः सुखं त्यजति । विपश्यना दुखं परिहरति । किञ्च सप्तसु विशुद्धिषु शीलविशुद्धिश्चित्तविशुद्धिश्च शमथः । अन्याः पञ्च विपश्यना । अष्टमहापुरुषवितर्केषु षड्वितर्काः शमथः । (sss_477) द्वौ विपश्यना । चतुर्षु स्मृत्युपस्थानेषु त्रीणि शमथः । चतुर्थं विपश्यना । चत्वारि ऋद्धिपादानि शमथः । चत्वारि सम्यक्प्रधानानि विपश्यना । पञ्चसु इन्द्रियेषु चत्वारीन्द्रियाणि शमथः । प्रज्ञेन्द्रियं विपश्यना । एवं बलमपि । सप्तसु बोध्यङ्गेषु त्रीणि बोध्यङ्गानि शमथः । त्रीणि बोध्यङ्गानि विपश्यना । स्मृतिस्तु उभयगा । अष्टसु मार्गाङ्गेषु त्रीण्यङ्गानि शीलम् । द्वे अङ्गे शमथः । त्रीण्यङ्गानि विपश्यना । शीलमपि शमथानुबन्धि । शमथो रागं समुच्छेदयति । विपश्यना अविद्यामपनयति । यथोक्तं सूत्रे- शमथो भावितश्चित्तं भावयति । चित्तं भावितं रागं प्रजहाति । विपश्यना भाविता प्रज्ञां भावयति । प्रज्ञा भाविता अविद्यां प्रजहाति इति । कामवियुक्तत्वात् चित्तं विमुच्यते । अविद्यावियुक्तत्वात् प्रज्ञा विमुच्यते । तदुभयविमुक्ति लाभिनो न पुनः किञ्चिदवशिष्यते । अतो द्वयमात्रमुक्तम् ।
(पृ) यदि शमथो विपश्यना चित्तं भावयति प्रज्ञां भावयति । चित्तप्रज्ञाभावित्वात् रागमविद्याञ्च प्रजहाति । कस्मान्नियम उच्यते । शमथश्चित्तं भावयन् रागं प्रजहाति । विपश्यना प्रज्ञां भावयन्ती अविद्यां प्रजहातीति । (उ) विक्षिप्तचित्तकस्य चित्तसन्तानानि रूपादिषु समुदाचरन्ति । सन्तन्यमानमिदं चित्तं शमथं लभते । तच्छमनादुच्यते शमथश्चित्तं भावयतीति । शमिताच्चित्ताज्जायते प्रज्ञा । अत उच्यते विपश्यना प्रज्ञां भावयतीति । उत्पन्नविपश्यनस्योर्ध्वं यत्किञ्चिद्भावितं सर्वं भाविता प्रज्ञेत्युच्यते । आद्या प्रज्ञा विपश्यना पश्चाप्रज्ञेत्युच्यते ।
यथोक्तं सूत्रे- शमथो भावितो रागं प्रजहातीति । इदं विध्नीभूतप्रहाणं भवति । केन तत् ज्ञायते । रूपादिषु बाह्यकामेषु रागो जायते । शमथौषधं लब्धवतो न पुनर्जायते । यथोक्तं सूत्रे- योगी निरामिषां प्रीतिं लभमानः सामिषां प्रीतिं जहाति इति । यदुक्तमविद्याप्रहाणमिति, तदात्यन्तिकप्रहाणम् । केन तत् ज्ञायते । अविद्याप्रहाणाद्धि रागादयः क्लेशाः प्रहीयन्ते निरुध्यन्ते नावशिष्यन्ते । सूत्रे ऽप्युक्तम्- रागविरागात् चेतोविमुक्तिः । इदं विघ्नीभूतप्रहाणं भवति । अविद्याविरागात् प्रज्ञाविमुक्तिः । (sss_478) इदमात्यन्तिकप्रहाणम् । इति । अस्ति च द्विधा विमुक्तिः सामयिकविमुक्तिः अकोप्यविमुक्तिरिति । सामयिकविमुक्तिर्विघ्नीभूतप्रहाणम् । अकोप्यविमुक्तिरात्यन्तिकप्रहाणम् ।
(पृ) सामयिकी विमुक्तिः पञ्चविधानामर्हतामनास्रवा विमुक्तिः । अकोप्या विमुक्तिश्चाकोप्यधर्मणो ऽर्हतो ऽनास्रवा विमुक्तिः । कस्माद्विध्नीभूतप्रहाणमात्रमुच्यते । (उ) नेयमनास्रवा विमुक्तिः । कस्मात् । समयविमुक्तो हि यत् अधिकबलेन कञ्चित्कालं संयोजनानि विघ्नयति नात्यन्तं प्रजहाति । पश्चात्पुनः [संयोजनानि]प्रादुर्भवन्ति । अतो नानास्रवा[सा] भवति । विमुक्तिरियं सामयिकतृष्णाविमुक्तिः । क्षीणास्रवस्यार्हतो नास्ति किञ्चिदिष्यमाणम् । (पृ) तथा चेद् नार्यस्येष्यमाणं शीलम् । (उ) शैक्षाणामक्षीणास्रवत्वात् आत्ममतिः कदाचित्प्रादुर्भवति । अतः शीले जायत इष्टम् । नार्हतो ऽत्यन्तप्रहीणात्ममतेः ।
(पृ) गोधिको ऽर्हन् षड्वारं सामयिकविमुक्तेः परिहिणः । सप्तमपरिहाणभयादसिनात्मानं जघान । यदि स आस्रवान् विनाशितवान्, नात्मानं हन्यात् । अतो ज्ञायते समयविमुक्तो नानास्रव इत्युच्यते । (उ) अयं स्पृष्टात् संयोजनप्रहाणात्समाधेः परिहीणः । अस्मात्समाधेः षट्कृत्व परिहीणः । सप्तमवारं स्पृष्ट्वा समाधिमिमं आत्मानं हन्तुमैच्छत् । तस्मिन् समये संकल्पितो ऽर्हन्मार्गमस्पृशत् । अतो मारः शैक्षो विवृत्तकायस्कन्धं मृत इति आचतुर्दिगन्तं तद्विज्ञापनाय येन भगवान् तेनोपसंक्रम्य भगवन्तमेतदवोचत् ।
श्रावकस्ते [महावीर मरणं मरणाभिभूः ।] अकांक्षते चेतयते [तन्निषेधद्युतेन्द्रिय] ।
अथ खलु भगवान् [मार इति विदित्वा त]मवोचत् ।
[एवं हि धीराः कुर्वन्ति नाकांक्षन्ते [च] जीवितम् ।] समूलां तृष्णामृद्गृह्य गोधिकः परिनिर्वृतः ॥ इति ।
(पृ) यः क्षीणरागः स विघ्नीभूतप्रहाणकः । सूत्र उक्तं- रागाच्चेतोविमुक्तिः । द्वेषमोहाभ्यां प्रज्ञाविमुक्तिरिति । किञ्चाह- नन्दिरागप्रहाणाच्चेतो विमुक्तिरिति । आह- कामास्रवाच्चित्तं विमुच्यत इति । एवं विघ्नीभूतविमुक्तिः स्यात् न पारमार्थिकविमुक्तिः । (उ) अत्राप्युक्तम्- अविद्या प्रहीयत इति । अतो ज्ञायत इयमात्यन्तिकविमुक्तिरिति । यदि मतं रागप्रहाणं कदाचिद्विध्नीभूतप्रहाणं, कदाचिदात्यन्तिकप्रहाणमिति । अनुत्पन्नतत्त्वज्ञानस्येदं विध्नीभूतप्रहाणम् । तत्त्वज्ञानानुसारिण अत्यन्तिकप्रहाणम् । नास्ति तु कश्चित् [केवलं] शमथं स्पृष्ट्वा रागमात्यन्तिकं प्रजहातीति । तथा चेत् तीर्थिका अपि रागमात्यन्तिकं प्रजह्युः । वस्तुतस्तु न तथा । अतो ज्ञायत इदं विघ्नीभूतप्रहाणमात्रमिति ।
(पृ) सूत्र उक्तम्- शमथेन चित्तं भावयति । विपश्यनामुपादाय विमुक्तिं स्पृशति । विपश्यनया चित्तं भावयति । शमथमुपादाय विमुक्तिं स्पृशतीति । तत् कथम् । (उ) योगीयदि समाधिं प्रतीत्य क्षयमालम्ब्य प्रज्ञामुत्पादयति । तदोच्यते शमथेन चित्तं भावयति । विपश्यनामुपादाय विमुक्तिं स्पृशतीति । यदि विक्षिप्तचित्तेन स्कन्धधात्वायतनादीनि विकल्पयति । तत्प्रतीत्य क्षयमालम्ब्य शमथं स्पृशति । तदोच्यते विपश्यनया चित्तं भावयति । शमथमुपादाय विमुक्तिं स्पृशतीति । यदि स्मृत्युपस्थानादीनि निर्वेधभागीयानि स्पृष्ट्वा चित्तं परिगृह्णाति । तदा शभथं विपश्यनां युगनद्धं भावयतीति । सर्वे च योगिनो द्वाविमौ धर्मौ निश्रित्य चित्तं निरुध्य विमुक्तिं स्पृशन्ति ॥
शमथविपश्यनावर्गः सप्ताशीत्युत्तरशततमः ।
188 समाधिभावनावर्गः
(पृ) भवानवोचत्- समाधिं भावयेदिति । समाधिचित्तमिदं प्रतिणक्षमुत्पन्नविनाशि । तत् कथं भावयितव्यं भवति । (उ) प्रत्यक्षं पश्यामः खलु कायिकं कर्म प्रतिक्षणविनाश्यपि भावनावशाद्विभिन्नकौशलं भवति । भावनावशात् चिरं पुनः पुनः प्रवर्त्यमानं सत् सुकरं भवति । तथा वाचिकं कर्मापि । अनुविहितावृत्ति आवृत्त्या च प्रगुणीकृतं दृढीभूतञ्च सुस्मरणं भवति यथाध्ययनादि । मानसं कर्म च क्षणिकमपि भावयितव्यमिति ज्ञातव्यम् । यथाग्निर्जन्यं विकारयति । आपः शिला भेदयन्ति । वायुः पदार्थान् विधमति । एवं क्षणिकधर्माणां सर्वेषां संहतानां बलमस्ति । क्लेशा यथावासनमनुवर्धन्ते । यथा कश्चित् पुनः पुनर्मैथुनचित्तं भावयन् बहून् कामानभिनिर्वर्तयति । तथा द्वेषमोहावपि । यथोक्तं सूत्रे- यो यद्वस्तुचित्तं मनसि करोति स तत्र प्रतिपन्नः । तद्यथा सदा कामवितर्कचित्तमनुसरन् कामाय प्रतिपद्यते । एवमन्यौ द्वौ वितर्कावपि । इति । अतो ज्ञायते चित्तमिदं क्षणिकमपि भावयितव्यं भवतीति ।
भावना नामोपचयः । दृश्यन्ते दृष्टे सर्वे धर्माः सोपचयाः । यथोक्तंसूत्रे- योगी खलु अयोनिशो मनसिकारात् कामादीनास्रवाननुत्पन्नानुत्पादयति । उत्पन्नान् विवर्धयति । यदवरान्मध्यमुत्पादयति । मध्यादुत्तममुत्पादयति । तद्यथा बीजादङ्कुरमङ्कुरात्काण्डं काण्डान्नाऌअं नाऌआत् पत्रं पत्रात्पुष्पं पुष्पात्फलमिति प्रत्यक्षतो हेतुतो ऽनुपूर्वं विवर्धते । समाधिसम्प्रजन्यादिधर्मा अप्येवमेव स्युः । प्रत्यक्षतो दृष्टं खलु वासिततिलस्य गन्धः संङ्ग्क्रात्या वर्धत इति । अयं गन्धस्तिलञ्च प्रतिक्षणमविद्यमानं, तथापि तद्वासनाबलमस्ति । अतो ज्ञायते क्षणिका धर्मा अपि भावयितव्या इति ।
(पृ) तिलं वर्तमानधर्मः । वासितो गन्ध आगन्तुकः । अविद्यमानं चित्तं क्षणिकज्ञानेनागत्य भाव्यते । कथं दृष्टान्तो भवेत् । (उ) नास्ति कश्चिद्विद्यमानधर्मः सर्वे च धर्माः क्षणिका इति पूर्वमेव साधितम् । अतो नास्ति दूषणम । यदि धर्मा अक्षणिकाः, न भावयितव्याः । स्वरूपत एव सदास्थितस्य भावनया क उपकारः । यदि धर्मः प्रतिक्षणविनाशि, (sss_481) [तदा] अवरान्मध्यं मध्यादुत्तममिति धर्मस्य भावना भवेत् । (पृ) कुसुमानि तिलं प्राप्य वासयन्ति । ज्ञानन्तु न चित्तमाप्नोति । अतो नास्ति भावना । (उ) पूर्वकर्मदृष्टान्ते प्रतिपादितमिदम् । यदुत्तरभाविकर्म न पूर्वभाविकर्म प्राप्नोति । पुर्ववचनं नोत्तरभाविवचनमपेक्षते । तथापि कायिकवाचिककर्मणोरस्ति च भावनालक्षणम् । अतो ऽप्राप्तं न भाव्यत इति तव वचनं न दूषणाय भवति । प्रत्यक्षतो दृश्यते च हेतुफलयोरयौगपद्ये ऽपि भवत्येव हेतोः फलं भवतीति । एवं चित्तधर्मस्य क्षणिकत्वे ऽपि भावनास्त्येव । यथा च बीजं सलिलसिक्तमङ्कुरादीनप्राप्यापि अङ्कुरादीनङ्कुरयति । एवं प्रज्ञा पूर्वचितं भावयति तदूर्ध्वचित्तमुपचितं भवति ।
(पृ) यदि क्षणिकात्तिलात् तिलान्तरं जायते । किमिदं तिलं वासितं जायते, अवासितं वा । यद्यवासितं जायते, नैव भवेद्वासनावत् । यदि वासितं जायते । पुनः क उपयोगश्चिरवासन [क्रिय]या । (उ) वासनाहेतुत्वात् । यथा बिजात्सलिलसिक्तादङ्कुरो ऽङ्कुरयते । एवं पूर्वकुसुमयोगं प्रतीत्य तिलान्तरं जायते । इदं तु वासितं जायते । भवानवोचत्- क उपयोगश्चिरकालवासनयेति । यथा भवतां सूत्र उक्तं- अग्निसंयोगादणुषु कृष्णवर्णे निरुद्धे रक्तवर्णं जायत इति । यद्यादावग्निसंयुक्तधर्मस्य कृष्णवर्णं निरुध्यत इति । न स्यात्पुनः कृष्णवर्णस्योत्पत्तिः । यद्यादावग्निसंयुक्तधर्मस्य रक्तवर्णमुत्पद्यत इति पुनः पश्चादग्निसंयुक्तधर्मः किमर्थम् । यद्यादावग्निसंयोगकाले कृष्णवर्णमुत्पद्यते । रक्तवर्णं नैवोत्पद्येत । यदि द्वितीयक्षणे रक्तवर्णं जायते । पुनरश्चिरकालाग्निसंयोगः किमर्थम् । यदि भवतामभिसन्धिः रक्तवर्णं क्रमशो जायत इति । चित्तमप्येवमिति को दोषः । तथा विपरिणामादिरपि ।
सर्वे धर्मा सहेतुसप्रत्यया अपि क्रमशो जायन्ते । यथा गर्भाधानादिक्रमेण शरीरमभिनिर्वर्त्यते । एवं प्रज्ञासमाध्यादयो धर्माः क्षणिका अपि अवरमध्योत्तमधर्मक्रमेण जायन्ते । भावनाधर्मः सूक्ष्मो ऽपि चित्तसन्ततिमन्यथयति । यथा पक्षच्छदस्योष्मणि मृदुन्यपि अण्डं क्रमशो विक्रियते । पाणितलमांसमर्दनात् वाशीजटा सूक्ष्मशः क्षीयते । एवं चित्तमपि । समाहितप्रज्ञा सूक्ष्मेत्यतः क्रमशो भाव्यते । धर्मं भावयन् प्राप्तिकाले तावत् जानाति ।
यथोक्तं गाथायाम्-
आचार्यात्सर्वमादत्ते, सर्व[तत्] मि(मै?)त्रहेतुकम् । आत्मचेतनया सर्व, सर्व पाके कालमपेक्षते ॥ इति ।
कश्चिदजस्रमधीयानो ऽपि न प्रत्येति परिपव्ककालिक इव । यथा बहुभिः पुष्पैरेकस्मिन् समये तिलं वासयति न यथा पुष्पाल्पानि क्रमशश्चिरं वासयन्ति । मेदसा परिपुष्टिः जले [नौका] निमज्जनं भित्तिनिर्माणं इत्यादिरपि तथा । प्रत्यक्षं खलु [नः] बीजाङ्कुरादीनामुपचयो ऽतिसूक्ष्मः, नैव द्रष्टुं शक्यते । तेषां दैनन्दिन उपचयः क्लेशानां गणना । बालकादीनां शरीरं स्तन्यपानादिना परिपच्यत इतीदमपि तथा स्यात् । अतो ज्ञायते धर्मभावना सूक्ष्मा प्रणीता दुरवबोधा चेति ।
(पृ) कदाचिद्धर्मो युगपदुपचीयते । कश्चित्पूर्वं रूपमदृष्ट्वापि तद्दर्शनमात्रेण तत्राभिनिविशते । कश्चिदल्पकाले ऽपि बहु प्रतिसंवेदी भवति । कस्मादुच्यते क्रमिकैव भावनेति । (उ) सर्वस्यातीतभावित्वात् । अतो ज्ञायत उपचिता भावना क्रमिकेति । इदं प्रतिपादितमेव । न चित्तोत्पादमात्रेण यत्किञ्चित्साधयति । यथोक्तं सूत्रे- यः कुशलधर्मेषु न भावनायोगमनुयुक्तः कुशलधर्माननुपादाय केवलं प्रणिदधाति आस्रवेभ्यश्चित्तविमोकम् । नैवास्य चिन्तितं प्रणिधानाद्भवति । कुशलधर्मेषु भावनायोगाननुयुक्तत्वात् इति ।
योगी यदि कुशलधर्मेषु भावनायोगमनुयुक्तो भवति । अकृतप्रणिधानस्यापि [तस्य] आस्रवेभ्यश्चित्तं विमुच्यते । हेतोर्हि फलं जायते न प्रणिधानात् । तद्यथा पक्षिणामण्डसंस्पर्श आवश्यकः । न प्रणिधानात् जन्तुरण्डान्निर्गच्छति । न च प्रणिधानात्प्रदीपप्रकाशः परिशुद्धो भवति । किन्तु परिशुद्धतैलं परिशुद्धवर्तिकाञ्चोभयमपेक्ष्य [अन्य]वस्तुसंस्पर्शचाञ्चल्यराहित्ये च तत्प्रकाशः परिशुद्धो भवति । किञ्च न प्रणिधानमात्रेण धान्यं लभ्यते । किन्तु अवश्यं सूक्षेत्रसद्बीजर्तुवृत्तिसमीक्रियाकृषिकर्मणां साकल्ये तत्प्रतिलाभो भवति । नापि च प्रणिधानमात्रात् देहो रूपं बलञ्च लभते । अवश्यं वस्त्रौषधाहारपोषणादिप्रत्ययेन तु परिपूर्णो भवति । एवं न प्रणिधानमात्रादास्रवाणां क्षयो भवति । अवश्यं तत्वज्ञानमपेक्ष्य विमुच्यते । को ज्ञानी हेतोः फलं जायत इति प्रजानन् तद्धेतुमुपेक्ष्य अन्यस्मात्फलमाकांक्षेत ।
धर्म भावयन् दृष्ट एव फलविपाकं पश्यति । यथोक्तं सूत्रे- तिष्ठन्तु सप्तदिनानि मया शासिताः श्रावका मुहूर्तं तावत्कुशलधर्मं भावयन्तो ऽप्रमाणवर्षेषु नित्यं सुखां वेदनां स्पृशन्ति इति । भिक्षुण्यो भदन्तमानन्दमवोचन्- वयं स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्यः पूर्वेणापरं विशेषं सम्प्रजानीम इति । सूत्रे च भगवान् भिक्षूनामन्त्र्याह- अशठस्य मामुपसङ्क्रमतो यन्मया प्रातरुपदिष्टो धर्मः तदर्थ सायं विन्दते । यत् सायमुपदिष्टो धर्मः प्रातस्तद्धितं विन्दत इति । यच्चार्हन्मार्गं स्पृशति न तत् परपुद्गलः प्रयच्छति । नानन्यपुद्गलः । केवलं सम्यग्घेतुभावनातस्तद्धितमाप्नोति । अनुत्तरं बुद्धमार्ग एव ननु कुशलधर्मस्योपचितभावनया स्पृशति । यथोक्तं सूत्रे- भगवान् भिक्षूनामन्त्र्याह- द्वौ धर्मौ निश्रित्याहमनुत्तरं मार्गं समापन्नः यत् शुभाभिरतावनिर्वेदो मार्गभावनायामक्लान्तिश्च इति । भगवतः कुशलधर्माणां नास्ति सीमा ।
बोधिसत्त्वाः समाधिमस्पृशन्तो ऽपि न कुसीदा भवन्ति । कस्मात् । कुशले ऽकृते न किञ्चिलभ्यते । कुशले कृते ऽपि नाकारे परिवृत्तिः । कुशलमकुर्वतो नैव क्षैमं भवति । इदं चिन्तयित्वा वीर्यमारभमाणः कुशलधर्मं भावयेत् । वीर्यमारभमाणस्य लाभो वा भवति हानिर्वा । अकृतवीर्यस्य नैवास्ति प्रत्याशा । अतो भावनामारभेत मा परिखेदो भूदिति । प्राज्ञः पर्यवसाने ऽवश्यं मुच्यते । भावनाविनिर्मुक्तस्य न पुनरस्त्युपायः । अतः प्राज्ञेन भावनारब्धव्या, मा परिखेदो जनयितव्यः । योगी सुचरितचर्याया अस्ति फलविपाक इत्यनुस्मृत्य अलभमानो ऽपि न विषादं करोति । किञ्च योगी मनसि कुर्यात्- मया भावनायाः फलविपाको ऽनुप्राप्त एव । पूर्वागतैः सत्त्वैः सर्वेषां ध्यानसमाधीनां [फलविपाकस्य] अनुप्राप्तत्वात् । ममेदानीं सम्यग्भावनापि फलविपाकमनुप्राप्स्यतीति । अतो न परिखिद्यात् ।
सुचरितशालिनि तथागतः प्रत्यक्षं करोति । अहमिदानीं सम्यगाचरामीत्यतो ज्ञानमवश्यमनुप्राप्स्यते । अहं मार्गसमापत्तिप्रत्ययसम्पन्नः यत् मनुष्यदेहप्राप्तिरविकलेन्द्रियता पुण्यपापविज्ञातृता विमुक्तावपि चाधिमुक्तता अभ्यागतसम्बुद्धिता इत्येतैः प्रत्ययैः समन्वितः कथं न भावनाफलविपाकमनुप्राप्स्ये । वीर्यसमाचरणममोघमेव । अतो न परिखिद्यते । (sss_484) क्लेशानां प्रहाणमतिसूक्ष्मं दूरवबोधं वाशीजटायां क्रमशः क्षयवत् । मम क्लेशानामपि भवेत्प्रहाणम् । सौक्ष्म्यात्परं न सम्बुध्यते । अतो ज्ञायते कुशलं भावयितुं वीर्यमुत्तमं भवतीति । अल्पीयसी प्रज्ञापि क्लेशान् विनाशयति यथा अल्पीयान् प्रकाशो ऽन्धकारमपनयति । एवमल्पीयसीं प्रज्ञां लभमानः कृतकृत्यो भवति । अतो न परिखिद्यते । दीर्घकाये ऽपि दुस्साधना यत् समाधिसमापत्तिः । यदि समाधिं समापद्यते । तदान्ये गुणा अचिरेण भवन्ति । अतः क्षिप्रमलभमानो ऽपि न परिखिद्यते ।
योगी समनुचिन्तयेत् समाधिसमापत्तिरतिकृच्छ्रा यथा पुरा बोधिसत्त्वः पुण्येन प्रज्ञया च घनिष्ठः षट्वर्षाणि व्यवस्यन् अन्ते ऽनुप्राप्तः । अन्येषां भिक्षूणां समाधिसमापत्तिरपि कृच्छ्रा, किं पुनर्मम पृथग्जनस्य मन्देन्द्रियस्य वेगेनानुप्राप्तिरिति । एवमनुचिन्त्य न परिखिद्येत । योगिभिरवश्यं कर्तव्यं यत् समाधिभावना, नास्ति पुनः कर्मान्तरम् । अतो ऽननुप्राप्तस्यानुप्राप्तये भावयितव्यम् । भावयिता समाधिमसमापन्नो ऽपि कायप्रविवेकलाभी भवति । प्रविविक्तकायस्य समाधिः सुलभो भवति । समाधिभावनामारभमाणो भगवदनुग्रहस्यानृणो भवति । प्रविवेकचारित्वात् योगावचर इत्याख्यामपि विन्दते । दीर्घकालं कुशलं भावयतः कुशलस्वभावः सिध्यति । यावत्कायप्रवृत्ति कुशलमेव सदानुपतति । अतः सुजनैः सङ्गच्छेत । इदं महते ऽर्थाय भवति । सदा कुशलस्य भावयिता दृष्ट एव कायेन आस्रवाणां क्षयं स्पृशेत् । यदि वा मरणकाले स्पृशेत् यदि वा आयुषो ऽन्ते सुस्थान उपपद्य तदन्तरा स्पृशेत् । इति यथाधर्मश्रवणानुशंस उक्तम् ।
योगी अध्यात्मं चित्तं वीरलक्षणं पुरस्कृत्यैवं चिन्तयति अहं क्लेशावरणमपर्यादाय न कदाचिद्वृथा प्रतिनिवर्त इति । किञ्च योगी मानचित्तमाश्रित्यैवं चिन्तयति- श्रद्धादीनि कुशलेन्द्रियाणि सन्तीति अन्ये समाधिं प्रतिपद्यन्ते । ममापीदानीं सन्ति । किमर्थं न समापद्य इति । यथा पुरा बोधिसत्त्वः अराडादिभ्यो मुनिभ्यो धर्मं श्रुत्वैवमचिन्तयत् इमे श्रद्धादिकुशलेन्द्रियत्वात् धर्ममनुप्राप्नुवन् । समापीदानीं सन्ति कस्मान्नानुप्राप्स्यामीति । योगी प्रजानाति- क्लेशा दुर्बलाः प्रज्ञा बलवती । तत्प्रहाणं किमिति दुष्करमिति । यथोक्तं- भिक्षुः षड्भिर्धर्मैः समन्वागतो मुखमारुतेन हिमवन्तं [पर्वतराजमपि] प्रदलयेत् । कः पुनर्वादो अविद्यामिति ।
किञ्च योगी चिन्तयति- अहं पूर्वाध्वनि न समाधिं भावितवान् । अत इदानीं नानुप्राप्नोमि । इदानीं न प्रयते पश्चात्पुनर्नानुप्राप्स्यामीति । अतो भावनामारभते । सदा समाधिभावित्वात् चित्तमेकत्र प्रतितिष्ठति । यथा घटस्य प्रवर्तनमनुपरतमवश्यमेकत्र प्रतितिष्ठति । अपि च योगी चिन्तयति- यद्यहं सदा वीर्यमारभे यदि चाननुप्राप्तमनुप्राप्नोमि । तदोर्ध्वंमवश्यं न विप्रतिसरिष्यामीति । अतश्चित्तैकाग्र्येण समाधीन् भावयितुमारभेत ॥
समाधिभावनावर्गो ऽष्ठाशीत्युत्तरशततमः ।
189 मार्गसत्यस्कन्धे ज्ञानाधिकारे ज्ञानलक्षणवर्गः
तत्त्वस्य प्रज्ञा ज्ञानमित्याख्यायते । तत्त्वं यत् शून्यानात्मता । तस्य प्रज्ञा तत्त्वज्ञानं भवति । प्रज्ञाप्तौ प्रज्ञेति संज्ञा न तु ज्ञानम् । कस्मात् । उक्तं हि सूत्रे- यथासिः परिकृन्तति । आर्यश्रावकाः प्रज्ञासिना संयोजनानुबद्धान् अनुशयपर्यवनद्धान् सर्वान् क्लेशान् समुच्छेदयति । नान्यधर्मेणेति वदन्ति । नातत्त्व[ज्ञाने] न क्लेशान् समुच्छेदयति इति । अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]मिति ।
(पृ) यत् भवानाह- प्रज्ञैव क्लेशान् समुच्छेदयतीति । तदयुक्तम् । कस्मात् । संज्ञयापि हि क्लेशान् समुच्छेदयति । यथोक्तं सूत्र- अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति । [सर्वं] रूपरागं [सर्व]भवरागं [सर्व]मस्मिमानं [सर्वा]मविद्याञ्च पर्यादाति । इति । (उ) मैवम् । प्रज्ञया यः क्लेशानां समुच्छेदः [स एव] संज्ञयेत्युच्यते । (sss_486) अस्ति भगवतो द्विविधं वचनं- परमार्थवचनं संज्ञावचनमिति । यथोक्तं सूत्रे- मैत्री व्यापादं समुच्छेदयतीति । अयं मैत्रीधर्मः परमार्थतो न संयोजनं समुच्छेदयति । ज्ञानमात्रं समुच्छेदयति । यथोक्तं- ज्ञानासिः सर्वान् क्लेशान् समुच्छेदयति इति । अतो ज्ञायते मैत्री संयोजनं समुच्छेदयतीति संज्ञावचनम् । किञ्चोक्तं प्रज्ञार्थसूत्रे- विमुक्तिं प्रजानातीति प्रज्ञा । किं वस्तु विमुक्तिरिति प्रजानाति । यत् अनित्यं रूपं अनित्यमिति यथाभूतं प्रजानाति । अनित्या वेदना, संज्ञा, संस्कारा, विज्ञानमनित्यमिति यथाभूतं प्रजानाति । इयं प्रज्ञैवेति । किञ्चाह- आर्यश्रावकाः समाहिता यथाभूतं प्रजानन्तीति । अतो ज्ञायते परमार्थ एव प्रज्ञेति । प्रज्ञादृष्टान्ते चोक्तम्- ज्ञानमसिः प्रज्ञा इषुरित्यादि । दृष्टान्तो ऽयं सर्वक्लेशप्रहाणमुपदर्शयति । तत्त्वज्ञानमेव क्लेशान् समुच्छेदयतीत्यतः प्रज्ञैव तत्त्व[ज्ञान]मिति ज्ञायते । उक्तञ्च गाथायाम्-
योगी पश्यति वै लोके सर्वे देवाश्च मानुषाः । तत्त्वज्ञानपरिभ्रष्टा नामरूपे ऽभिनिविष्टाः ॥ इति ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
