Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 14/15

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

सत्यसिद्धिशास्त्रम्

Tác giả
हरिवर्मन्
Thông tin
GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

लौकिका भूयसा तुच्छकं नित्यं सुखं सुभमित्यादि दृष्ट्वा तत्त्वज्ञानाद्भष्टा भवन्ति । यः परमार्थतः शून्यमनात्म इत्यादि पश्यति, स तत्त्वज्ञानी भवति । अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]म् इति ।

आह च भगवान् सूत्रे- यस्य धनं विनष्ठं, तस्याल्पीयान् लाभो विनष्टः । यस्य प्रज्ञा विनष्टा, तस्य महीयान् लाभो विनष्ट इति । किञ्चाह- लाभेषु धनमल्पीयान् लाभः । प्रज्ञा तूत्तमो लाभ इति । आहच- प्रद्योतानां चन्द्रसूर्यप्रद्योत अल्पीयान् प्रज्ञाप्रद्योतो ऽग्र इति । यदि प्रज्ञा न तत्त्व[ज्ञानं], कस्मादेवं वदेत् । उक्तञ्च सूत्रे- प्रज्ञेन्द्रियमार्यसत्यसङ्गृहीतमिति । आह च- दुःखसमुदयज्ञानादिः तत्त्व[ज्ञान]मिति प्रजानीयात् । परमार्थसत्यालम्बनेयं प्रज्ञा इति । आह च- [बोधिपक्षिक]धर्मेषु प्रज्ञा अग्रा इति । (sss_487) किञ्चाह- अनुत्तरा सम्यक्सम्बोधिः प्रज्ञेन्द्रियमित्यभिधीयते इति । अतः सा तत्त्वमिति । भगवतो दश बलानि ज्ञानमयानि । अतो ज्ञायते प्रज्ञा वस्तुतः परमार्थालम्बना भवतीति । (पृ) तथा सति प्रज्ञा अलौकिकी भवेत् । (उ) वस्तुतो ऽलौकिकी प्रज्ञा । केनेदं ज्ञायते । लौकिकं चित्तं प्रज्ञप्तिमवलम्बते । लोकोत्तरं चित्तं नैरात्म्यशून्यतामवलम्बते । कस्मात् । प्रज्ञप्तिर्हि लोक एव । प्रज्ञप्तेरतिक्रान्तं लोकोत्तरम् ।

(पृ) भवदुक्तं न युज्यते । कस्मात् । उक्तं हि सूत्रे- किं विजानाति विज्ञानम् । यदुत रूपशब्दगन्धरसस्पर्शान् विजानाति । यथा स्कन्धधात्वायतनादीनि विज्ञानेन विजानाति । इदं विज्ञानं लोकोत्तरं भवेत् । इति । अतो लौकिकं चित्तं प्रज्ञप्तिमात्रमालम्बते न तत्त्वमिति भवद्वचनमयुक्तम् । मनोविज्ञानमपि तत्त्वालम्बनम् । वेदनासंज्ञासंस्काराद्यालम्बित्वात् । किञ्चाह भगवान्- द्वे सम्यक् दृष्टी लौकिकी लोकोत्तरेति । पुण्यपापाद्यस्तित्व [सम्यक् दृष्टि]लौकिकी यदार्यश्रावकाणां दुःखसमुदयनिरोधमार्गानालम्ब्य अनास्रवस्मृत्या सम्प्रयुक्ता प्रज्ञा लोकोत्तरा । उक्तञ्च गाथायाम्-

लौकिकोत्तमदृष्टीको यातायातो ऽपि संसृतौ । अध्वनां शतसाहस्रं न यावद्दुर्गतौ गतः ॥ इति ।

उक्तञ्च सूत्रे- मिथ्याचारिणः सुस्थाने जन्म भवति । अस्त्य पापकर्मणो ऽनभिनिर्वृत्तौ कुशलप्रत्ययः पूर्वं विपच्यते । कदाचिन्मरणकाले समुपस्थिते सम्यक् दृष्टिसम्प्रयुक्तं कुशलचित्तमभिमुखीभवति । अतः सुस्थाने जायते । इति । दशसु कुशल[कर्म]पथेष्वपि सम्यग्दृष्टिरुक्ता । कथं भवानाह लोकोत्तरं ज्ञानमिति । आह च भगवान्- त्रिविधा प्रज्ञा श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञा । श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा लौकिकी । भावनामयी उभयविधा इति । किञ्च भगवान् [आनापान]स्मृतिं जनयामास । राहुलो भिक्षुरपरिनिष्पन्नां विमुक्तिप्रज्ञामनुप्राप । आह च पञ्चधर्मा अपरिपव्कं विमुक्तिचित्तं विपाचयन्ति इति । एषा सर्वा लौकिकी प्रज्ञैव । किञ्चोक्तं सूत्रे- केचिदभिनिष्क्रमणकुशलाः, न विपश्यनाकुशलाः । केचिद्विपश्यनाकुशलाः न सन्तरणकुशला इति । लौकिक ज्ञानलाभितया अभिनिष्क्रमणकुशल इत्युच्यते । चतुस्सत्यादर्शितया न विपश्यनाकुशलः । (sss_488) चतुस्सत्यानि पश्यन्नपि आस्रवक्षयालाभितया न सन्तरणकुशलः । भगवान् स्वयमाह- धर्मज्ञानमन्वयज्ञान परचित्तज्ञानञ्च लौकिकं ज्ञानमिति । किञ्चाह- पूर्वनिवासज्ञानं च्युत्युपपत्तिज्ञानं सास्रवमिति । अपि चाह- धर्माणां स्थितिज्ञानं निर्वाणज्ञानं भवति । इत्यादिसूत्रेषूक्तत्वात् ज्ञातव्यं अस्ति सास्रवं ज्ञानमिति ।

अत्र प्रतिब्रूमः । यद्यस्ति सास्रवा प्रज्ञा । इदानीं वक्तव्यं सास्रवानास्रवयोः प्रविभक्तं लक्षणम् । (पृ) यो धर्मो भवे पातकः स सास्रवः । तदन्यो ऽनास्रवः । (उ) को धर्मो भवे पातकः । को वा न भवे पातकः । इदं प्रतिवक्तव्यम् । अप्रतिब्रूवाणस्य नास्ति सास्रवानास्रवयोर्लक्षणम् । यद्भवतोक्तम्- अस्ति लौकिकं चित्तमप्रज्ञप्त्यवलम्बनं यद्विषयादीनां विज्ञानमिति । तदयुक्तम् । कस्मात् । आह खलु भगवान्- पृथग्जनाः सततं प्रज्ञप्तिमनुधावन्तीति । अस्यार्थः । सर्वपृथग्जनचित्तं प्रज्ञप्तिं न पर्यादातीत्यतः सदा अस्मितालक्षणमनुधावति । नैव ततो विसंयुज्यते । रूपं पश्यतो ऽपि न घटादिलक्षणाद्विसंयुज्यते इति । अतः पृथग्जन चित्तं न तत्त्वार्थमवलम्बते । वेदनासंज्ञादीन् धर्मानवलम्बमानो ऽपि अहं ममेति पश्यति । अतो ज्ञायते सर्वं लौकिकं चित्तं प्रज्ञप्तिमवलम्बत इति ।

यदुक्तं भवता- लौकिकी प्रज्ञा यदुत द्विधा सम्यग्दृष्टिरित्यादि इति । तत्रेदं प्रतिवक्तव्यम्- अस्ति चित्तद्वैविध्यं मोहचित्तं ज्ञानचित्तमिति । प्रज्ञप्तिधर्मावलम्बनं चित्तं मोहचित्तम् । यत् शून्या नात्मरूपधर्ममात्रावलम्बनं चित्तं ज्ञानचित्तम् । यथोक्तमविद्याविभङ्गसूत्रे- अविद्या कतमा । यत् पूर्वान्ते ऽज्ञानमपरान्ते ऽज्ञानं पूर्वान्तापरान्ताज्ञानं कर्मण्यज्ञानं कर्मविपाके ऽज्ञानं पूर्वापरकर्मविपाकाज्ञानं इत्यादि तत्र तत्र यथाभूतस्याज्ञानमदर्शनमनभिसमयः तमः संमोहः [अविद्या]न्धकारः इयमुच्यते ऽविद्या इति । यथाभूतस्या ज्ञानमिति यत् शून्यानात्मा ज्ञानम् । इदं पृथग्जनचित्तं सदा प्रज्ञप्तिगतं सत् प्रज्ञप्तिमवलम्बते । अतो ऽविद्येत्याख्यायते । शून्यालम्बनं ज्ञानम् । इदानीं यदि सर्वं लौकिकं ज्ञानं प्रज्ञप्तिमवलम्बते । प्रज्ञप्त्यालम्बनं चित्तमविद्या भवति । कथमुच्यते अस्ति लौकिकी प्रज्ञा इति ।

(पृ) भवतोक्तवत् प्रज्ञप्त्यालम्बनं प्रज्ञालक्षणमविद्या । इदानीमर्हतो ऽविद्या भवेत् । घटाद्यालम्बनचित्तस्य सत्त्वात् । (उ) अर्हतो नास्ति घटाद्यालम्बनं चित्तम् । कस्मात् । (sss_489) प्रथमाभि सम्बोधिकाल एव सर्वप्रज्ञप्तिलक्षणानां विध्वस्तत्वात् । क्रियार्थार्य केवलमभिदधाति । न तत्र मानदृष्टावभिनिविशते । सन्ति त्रयो वादाः- (1) दृष्टिजः, (2) मानजः, (3) क्रियार्थज इति । त्रिभ्यः क्रियार्थो भवति । पृथग्जना यद्वदन्ति घट इति पुद्गल इति । अयं वादो दृष्टिजः । शैक्षा आत्मदृष्टिविहीना अपि सम्यक्स्मृतिप्रमोषत् पञ्चसु स्कन्धेषु अस्मिमानलक्षणेन वदन्ति- अयं पुद्गलः अयं घट इति । यथा क्षेमकसूत्र उक्तम् । क्रियार्थज इति यदर्हतः । यथा महाकाश्यपः सङ्घाटिं दृष्ट्वा आह- इयं ममेति [यत्] दिव्यर्द्धौ विचिकित्सां जनयति । भगवान् तद्विवृण्वन्नाह- अयमत्यन्तसमुद्धतमानेन्द्रियः प्रदग्धहेतुप्रत्ययः कथं साभिमानः स्यात् । प्रज्ञप्त्या परं [तथा] वदतीति । अतो ज्ञायते अस्त्यर्हतो घटादिचित्तमिति ।

(पृ) यद्यलौकिकी प्रज्ञा । द्वे सम्यग्दृष्टी इत्यादी सूत्रं कथं नेयम् । (उ) इदं सर्वं संज्ञाज्ञानमिति नाम्नोच्यते । भगवान् धर्माणां तत्त्वलक्षणप्रतिसंवेदी विनेयसत्त्वाननुसृत्य विविधं नाम स्थापयति । यथा प्रज्ञामेव वेदनादिनाम्नोपदिशति । यदुत वेदकः सर्वधर्मेभ्यो विमुच्यत इति । अपि चाह अनित्यादिसंज्ञा भाविता सर्वान् क्लेशान् परिभेदयतीति । आह च- चतुर्थमकृष्णमशुक्लं कर्म सर्वकर्माणि शैक्षचेतनाख्यानि क्षपयतीति । किञ्चाह- मनसा सर्वानभिविवेशान् प्रजहातीति । आह च-

श्रद्धया तरति ओघम् अप्रमादेन चार्णवम् । वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति ॥ इति ।

अपि चाह- चक्षू रूपदर्शनायेच्छति इति । चक्षुषि वस्तुतो ऽसत्यामपीच्छायां चित्तमेव दर्शनायेच्छत् चक्षुर्नाम्नोच्यते ।

(पृ) यदि लौकिकं ज्ञानं संज्ञा । कस्मात् ज्ञानं भवति । यदि हेतुप्रत्ययान् विनोपदिष्टं ज्ञानम् । तदा सर्वाः संज्ञा ज्ञानं भवेत्युः । वक्तव्या च द्विविधा संज्ञा लोकं प्रतीत्य सत्यं, परमार्थं प्रतीत्य सत्यमिति । (उ) मैवम् । संज्ञायाः सन्ति नानाविभागाः । काचित् मोहकाष्ठात्मिका संज्ञा यावत् लौकिककुशलाकुशलानि न विजानाति । काचिदवरमोहात्मिका संज्ञा कुशलाकुशलानि विवेचयति । काचिदल्पमोहात्मिका संज्ञा अस्थिसंज्ञाद्यालम्बते । प्रज्ञप्ति मविहाय न स्कन्धलक्षणानि विधमति । इतीयं संज्ञा स्कन्धलक्षणपरिभेदकं ज्ञानमनुकूलयतीत्यतो भगवानुपदिशति ज्ञानमिति । इयञ्च संज्ञा तत्त्वज्ञानस्य हेतुं करोतीत्यतो ज्ञानमि त्युच्यते । अस्ति च लोके कारणे कार्योपचारः । यथा सुवर्णं भुङ्क्ते । पुरुषस्य पञ्चवृत्तीर्ददाति । स्त्री शीलं मलिनं करोति । सुपारा जलधारा सुखा । धर्मवसनः पुरुषः सुख इति । सप्तास्रवसूत्रे च वचनप्रहाणवृत्तिप्रहाणादय आस्रवहेतव आस्रवा इत्युच्यन्ते । आहुश्च आहारो जीवितं पशवस्तृणानीति । अपि चाहुः- अन्नवस्रादीनि बाह्यजीवितम्, यत् परस्वापहरणं तदेव परजीवितापहरणम् इति । इदं सर्वं हेतुमेव फलतया वदन्ति । एवं ज्ञानहेतुरेव ज्ञानमित्युच्यते । अतो ऽनवद्यम् ।

(पृ) स्मृत्युपस्थानेषु उष्मादिषु च गतं चित्तं तत्त्वधर्ममालम्बते । किमिदमनास्रवम् । (उ) यदनास्रवं चित्तं तत् प्रज्ञप्तिं विधमति । अतो यत्र प्रज्ञप्तिविधमनं चित्तं तदनु समागतं चित्तमनास्रवं भवति । (पृ) कुत्र चित्तं प्रज्ञप्तिं युगपत् विधमति । (उ) यत्र पञ्चानां स्कन्धानामुदयव्ययानुदर्शनसम्पन्नो भवति । तदा [तेषा]मनित्यसंज्ञामनुप्राप्नोति । अनित्यसंज्ञा च योगिनो ऽनात्मसंज्ञां सम्पादयति । यथोक्तम्- आर्यश्रावकाणामनित्यसंज्ञया चित्तं भावयतामनात्मसंज्ञा प्रतितिष्ठति । अनात्मसंज्ञया चित्तं भावयतां क्षिप्रं रागद्वेषमोहेभ्यो विमुच्यते इत्यादि । कस्मात् । अनात्मसंज्ञया हि चित्तं भावयतां दुःखसंज्ञा प्रतितिष्ठति । आत्मसंज्ञित्वात् दुःखमपि प्रतिबुध्यते । अतो यो धर्मो ऽनित्यो ऽनात्मा, स दुःखो ऽपि इति प्रजानन् अकुशलान्निर्विद्यते । अतो ऽनात्मसंज्ञा दुःखसंज्ञां सम्पादयति ।

(पृ) कस्माद्भवानाह [अन्यथा] विधनक्रमम् । सूत्रे तूक्तम्- यदनित्यं तद्दुःखम् । यद्दुःखं तदानात्म इति । अतो ऽनित्यसंज्ञा दुःखसंज्ञा सम्पादयति । दुःखसंज्ञानात्मसंज्ञां सम्पादयति ।

(उ) सूत्र उक्तम्- अनित्यसंज्ञाभावितं श्रावकाणां चित्तमनात्मसंज्ञायां प्रतितिष्ठति इति । अतो ऽनित्यसंज्ञा अनात्मसंज्ञां सम्पादयति । एवं वदतो ऽपि अस्ति मार्गनयः । कस्मात् । आत्मवादी हि परलोकसाधनायाह- आत्मा नित्य इति । अतः पञ्चस्कन्धा अनित्या इति पश्यन् अनात्मान इति प्रजानाति । यथोक्तं सूत्रे- चक्षुरात्मेति यो वदेत् । तत् नोपपद्यते । चक्षुष उत्पादोपि व्ययो ऽपि प्रज्ञायते । यस्य खलु पुनरुत्पादो ऽपि व्ययो ऽपि प्रज्ञायते । आत्मा म उत्पद्यते व्येति चेत्यस्यागतं भवति । इति ।

(पृ) सूत्रद्वयमिदं कथं प्रतिसंवेदनीयम् । (उ) दुःखलक्षणं द्विविधम्- अनित्यसंज्ञोत्थितं विपरिणामदुःखलक्षणम् । अनात्मसंज्ञोत्थितं संस्कारदुःखलक्षणम । अतः सूत्रद्वयमप्यविरुद्धम् । (पृ) तथा चेत् स्मृत्युपस्थानोष्मादावस्त्यनित्यसंज्ञा । अयं धर्मो ऽनास्रवः स्यात् । (उ)स्मृत्युपस्थानादौ यदीयमनास्रवा, को दोषो ऽस्ति । (पृ) पृथग्जनानां चित्ते न स्यादियमनास्रवा । पृथग्जनानां चित्ते ऽप्यस्ति अभूतस्मृत्युपस्थानम् । कथमिदनास्रवं भवेत् । (उ) पुद्गलो ऽयं न वस्तुतः पृथग्जनः । अयं स्रोतआपत्तिफलप्रतिपन्नक इत्युच्यते । (पृ) अयं स्रोतआपत्तिफलप्रतिपन्नकः सत्यदर्शनमार्गे वर्तते । स्मृत्युपस्थानादिधर्माश्च न सत्यदर्शना भवन्ति । (उ) स्रोतआपत्तिफलप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च भवति । स्मृत्युपस्थानादिगतो विप्रकृष्टः प्रतिपन्नकः सत्यदर्शनगतस्तु सन्निकृष्टः । केनेदं ज्ञायते । उक्तं हि भगवता वाशीजटोपमसूत्रे- जानतः पश्यत आस्रवाणां क्षयं वदामि । किं जानतः किं पश्यत आस्रवाणां क्षयो भवति । इति रूपं, इति रूपस्य समुदयः । इति रूपस्यास्तङ्गमः । इति वेदना संज्ञासंस्कारविज्ञानानि यावदस्तङ्गमः । मार्गमभावयतो नास्रवाणां क्षयो भवति । भावयतस्तु भवति । तद्यथा [कुक्कुट्या] अण्डानि सम्यगधिशयितानि । एवमेव भावनानुयोगमनुयुक्तस्य भिक्षोर्नैवं ज्ञानं भवति एतावत्को बत मे ऽद्यास्रवाणां क्षीणम् । एतावत्को हयः एतावत्कः परमिति । अथ खल्वस्य क्षीणे क्षीणान्त एव ज्ञानं भवति । तद्यथा वाशीजटायां [दृश्यन्ते ऽङ्गुलिपदानि] (sss_492) । सप्तत्रिंश[व्दोध्य]ङ्ग भावनानुयोगमनुयुक्तस्य भिक्षोरल्पकृच्छ्रेणैव संयोजनानि प्रतिप्रश्रभ्यन्ते । पूतिकानि भवन्ति । तद्यथा सामुद्रिकयानानो[र्बन्धनानि] । अतो ज्ञायते स्मृत्युपस्थानादिगतो मार्गाङ्गभावनानुयोगमनुक्तः स्रोतआपत्तिफलप्रतिपन्नक इति । यद्येकस्मिन् क्षणे यदि वा पञ्चदशसु क्षणेषु न भावनानुयोगं विन्दते । [तदा] ज्ञातव्यमयं विप्रकृष्टः स्रोतआपत्तिप्रतिपन्नक इति ।

(पृ) इति रूपं, इति रूपस्य समुदयः इति रूपस्यास्तङ्गमः, इति वेदना इति ज्ञानमिति प्रथममुक्तमाद्यफलस्य मार्गः । अनन्तरास्रयो दृष्टान्तास्रयाणां फलानां मार्गाः । अतो नाद्यफलप्रतिपन्नक इत्युच्यते । (उ) यद्यण्डानि न सम्यगधिशयितानि । तदा विनश्यन्ति । सम्यगधिशयतानि संसिध्यन्ति । एवं स्मृत्युपस्थानादारभ्य प्रथमं भावनामारभते । स यदि न साधयति । न स प्रतिपन्नको भवति । साधयन्स्तु शैक्षजनो ऽतिमात्रपूतिवेदक इत्युच्यते । अतः स्मृत्युपस्थानादौ पूतिभूतः सन् पृथग्जनो भवति । यः संसिद्धभावनः स आद्यफलप्रतिपन्नको भवति । तद्यथा अण्डान्तर्गत । अण्डाब्दहिर्गतः स्रोतआपन्नो भवति । अतो ज्ञायते स्मृत्युपस्थानादिगतः विप्रकृष्टः प्रतिपन्नक इत्युच्यते । किञ्चोग्रेण सङ्घे निमन्त्रिते देवता उपसङ्क्रम्य आरोचयन्ति- अमुको गृहपते अर्हन् यावदमुक आद्यफलप्रतिपन्नक इति । यदि स सत्यदर्शनमार्गगतः । कथमारोचयेयुः । ज्ञातव्यं स विप्रकृष्टः प्रतिपन्नक इति ।

किञ्चोक्तं भगवता सूत्रे- यस्य [खलु भिक्षव इमानि] पञ्चेन्द्रियाणि (श्रद्धादीनि) न सन्ति । तमहं बाह्यः पृथग्जनपक्षे स्थित इति वदामीति । अस्यार्थः- अस्ति बाह्य आभ्यन्तरश्च पृथग्जनः । यस्य निर्वेधभागीयानि कुशलेन्द्रियाणि न सन्ति । स बाह्यः पृथग्जन इति । यस्य सन्ति स आभ्यन्तर इति । अयमाभ्यन्तरः पृथग्जन आर्य इत्युप्युच्यते पृथग्जन इत्यप्युच्यते । बाह्यं पृथग्जनमुपादाय आर्यः । सत्यदर्शनमार्गमुपादाय पृथग्जनः । यथानन्दश्छन्नमामन्त्र्याह- पृथग्जनो नानुस्मरति रूपं शून्यमनात्मा, वेदना, संज्ञा (sss_493) संस्कारा विज्ञानं शून्यमनात्मा । सर्वे संस्कारा अनित्याः । सर्वे धर्मा अनात्मानः । तेषां निरोधो निर्वाणमिति । अथ च [तत्र] छन्नस्य [चित्तं] न धर्मनियामे प्रस्कन्दति । नापि पृथग्जनस्यैवं भवति इत्याह ।

(पृ) सन्निकृष्टो विप्रकृष्टो वा, उभावपि प्रतिपन्नकौ । कः प्रविभागस्तयोः । (उ) यो निरोधं पश्यति स तत्त्वतः प्रतिपन्नकः । यो दूरभागीयकुशलेन्द्रियगतः पश्यति पञ्चस्कन्धा अनित्याः दुःखा शून्या अनात्मान इति । न तु निरोधं पश्यति । स संज्ञाप्रतिपन्नकः । कस्मात् । यथोक्तं सूत्रे- भिक्षवो भगवन्तं पृच्छन्ति- कथं धर्मं पश्येम इति । भगवानाह- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । तत्सहभुवो वेदनासंज्ञा चेतनादयः सर्वे [धर्मा] अनित्या विपरिणामधर्माणः अश्रद्धेयाः । यो धर्मो ऽनित्यः, तद् दुःखम् । दुःखस्यास्य समुदयो ऽपि दुःखम् । स्थितिरपि दुःखम् । पुनः पुनर्भवलक्षणमपि दुःखम् । एवं यावन्मनो धर्मा अपि । यदीदं दुःखं निरुध्यते । अन्यानि दुःखानि न सम्भवन्ति । न पुनः सन्तानो भवति । योगिनश्चित्त एवं भवति- इदं प्रणीतमुपशमपदं यत् सर्वेषां मृषाभूतानां कामतृष्णानामपगमः क्षयो विरागो निरोधो निर्वाणम् । यदस्मिन् धर्मे चित्तं प्रस्कन्दति अधिमुच्यते नेञ्जते न परावर्तते न शोचते न परित्रासते । ततो निदानं धर्मं पश्येयम् इति । अतो ज्ञायते योगी अनित्याद्याकारैः पञ्चस्कन्धानवलोकयन् विप्रकृष्टः प्रतिपन्नक इत्युच्यते । तेषां निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नक इति । यथा छन्नः स्थविरान् प्रतिवदति- ममाप्येवं भवति- रूपमनित्यं [विज्ञानमनित्यं रूपमनात्मा, विज्ञानमनात्मा, सर्वे संस्कारा अनित्याः, सर्वे धर्मा अनात्मान इति । अथ च पुनर्मे] सर्वसंस्कारसमर्थे तृष्णाक्षये निरोधे निर्वाणे चित्तं न प्रस्कन्दति, न प्रसीदति, न विमुच्यते [परितर्षणा । उपादानमुत्पद्यते । प्रत्युदावर्तते मानसम् । अथ कस्तर्हि म आत्मेति ।] न खल्विमं धर्मं पश्यतो भवति । इति ।

किञ्चाह- योगी यदस्मिन् धर्मे मृदुप्रज्ञया क्षान्तिं श्रद्दधते स श्रद्धा[नुसारी] प्रतिपन्नकः । पृथग्जनमतीत्य धर्मनियाममवतार्याद्यफलमलब्ध्वा न देवेषु भवति । यस्तीक्ष्णप्रज्ञया क्षान्तिं श्रद्दधते स धर्मा[नुसारी] प्रतिपन्नकः । [यो] धर्ममिमं पश्यन् (sss_494) त्रीणि संयोजनानि समुच्छेदयति । न स्रोतआपन्नः यो निरवशेष[क्षया]भिज्ञः सो ऽर्हन् । अतो ज्ञायते निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नको भवतीति ।

(पृ) योगी कस्मान्नात्यन्तं निरोधं पश्यति । (उ) सूत्र उक्तम्- धर्मा निस्स्वभावाः प्रतीत्यसमुत्पन्नाः । अयं धर्मः परमगम्भीरः । सर्वतृष्णाक्षय उपशमो निरोधो निर्वाणम् । इदं पदमतिदुर्दर्शम् । भगवान् द्वादशनिदानानां निरोधं दृष्ट्वा अनुत्तरमभिसम्बुद्धो ऽभूत् इति । धर्ममुद्रायाञ्चोक्तम्- पञ्चस्कन्धाननित्यान् विप्रलोपान् मृषाभूतानसारान् शून्यांश्च पश्यतो योगिनो ज्ञानदर्शनमविशुद्धं भवति इति । सूत्रमिदमन्त आह- योगिन एवं भवति- यन्मया दृश्यते श्रूयते आजिघ्र्यते रस्यते स्पृश्यते मन्यते तत् सर्वं प्रतीत्यसमुत्पन्नं विज्ञानम् । यदस्य विज्ञानस्य हेतुप्रत्यया नित्या वा अनित्या वा इति । तदनित्यज्ञानम् । अनित्येभ्यो हेतुप्रत्ययेभ्य उत्पन्नं विज्ञानं कथं नित्यं भवेत् । अतः सर्वे पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः क्षयलक्षणाः विपरिणामलक्षणा वियोगलक्षणा निरोधलक्षणा इति पश्यति । तदा योगिनो विशुद्धं ज्ञानदर्शनं भवति । आत्यन्तिकनिरोध इत्यनेन विशुद्धं ज्ञानदर्शनमुच्यते । अतो निरोधज्ञानदर्शनमेव आर्यसत्यदर्शनं भवति । आदौ च धर्मस्थितिताज्ञानमन्ते निर्वाणज्ञानं भवति । अतो निरोधसत्यदर्शनमेवार्यमार्गलाभो भवति ।

ज्ञानलक्षणवर्ग एकोननवत्युत्तरशततमः ।

190 एकसत्यदर्शनवर्गः

(पृ) यद्भवानाह- निरोधं पश्यन्नेव फलप्रतिपन्नक इति । तदयुक्तम् । कस्मात् । सूत्रे हि भगवतोक्तम्- चतुर्णामर्यसत्यानां यथाभूतमननुबोधात् एवमिदं दीर्घमध्वानं [सन्धावितं] संसरितं मम च युष्माकञ्च इदानीमिमानि चत्वारि सत्यान्यनुबद्धानि । ततो निदानञ्च समुच्छिन्नं संसरितम् । न पुनः कायस्य वेदना भवति । इति । ज्ञातव्यं चतुस्सत्यदर्शनात् फलप्रतिपन्नको भवति इति । न निरोधमात्रदर्शनात् । किञ्चाह भगवानुत्तमधर्मो यदुत चत्वार्यार्यसत्यानि इति । अतो योगी सर्वाणि [सत्यानि] जानीयात् पश्येच्च । आह च- ये हि केचित् धर्मकञ्चुका निन्दितकायाः सम्यक्प्रव्रज्यां श्रद्दधन्ते । (sss_495) सर्वे ते चतुर्णामार्यसत्यानां यथाभूतमभिसमयाय । ये हि केचित् स्रोतआपत्तिं सकृदागामितामनागामिताञ्च लिप्सन्ति । सर्वे ते चतुर्णामार्यसत्यानाभिसम्बुद्धत्वात् । ये हि केचित् अर्हतां प्रत्येकबुद्धतां बुद्धमार्गञ्च लिप्सन्ति । सर्वे ते चतुर्णामार्यसत्यानामभिसम्बुद्धत्वात् । अतो ज्ञायते न निरोधसत्यदर्शनमात्रमार्गमार्ग इति । आह च भगवान्- चत्वार्यार्यसत्यान्यनुपूर्वेणानुप्राप्नोतीति । धर्मचक्रप्रवर्तने चोक्तम्- इदं दुःखमयं दुःखसमुदयः अयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदिति पश्यतो मम तेषु चक्षुरुदपद्यत ज्ञानमुदपद्यत विद्योदपद्यत बोधिरुदपद्यत इति, एवं त्रिपरिवर्तं चत्वार्यार्यसत्यान्यवोचत् । किञ्चोक्तं सूत्रे- अवदातवसने ह्रदे प्रक्षिप्ते सति रूपं [यथा] वेदयते । एवमयं पुरुष एकत्र निषण्णश्चत्वारि सत्यानि पश्यति इति । किञ्चाह परिशुद्धचित्तः सम्यक् भावयति- दुःखसत्यं यावन्मार्गसत्यम् । एवं

पश्यतः कामास्रवात् भवास्रवादविद्यास्रवात् चित्तं विमुच्यते । इति । यत्र यत्र सूत्र उक्तमार्यसत्यम् । तत्र सर्वत्र चत्वारि सत्यान्युक्तानि । न निरोधसत्यमात्रम । भगवानाह चत्वारि ज्ञानानि दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानमिति । तानि चतुर्णामार्यसत्यानामर्थाय भवन्ति इति । योगी धर्मशः परिपश्येत् चत्वारि सत्यानि । यथा भिषक् रोगं ज्ञात्वा रोगनिदानं रोगविनाशं रोगविनाशौषधञ्च जानीयात् । एवं योगी दुःखानां निस्सरणमिच्छन् दुःखं दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च जानीयात् । यदि न जानाति दुःखं केन ज्ञास्यति दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च । अतो ज्ञायते न निरोधदर्शनमात्र[मार्यसत्यम्] इति ।

अत्रोच्यते । यत् केषाञ्चिदुक्तं- चतुस्सत्यानां प्रतिलाभ इति । सर्वं [तत्] स्कन्धधात्वायतनादिषूक्तम्- यदिदं रूपं इत्यादि अयं रूपस्य समुदय इत्यादि अयं रूपस्य व्यय इत्यादि प्रजानत आस्रवाः क्षीयन्त इति । किञ्चाह भगवान्- रूपादीनां स्कन्धानां यथाभूतमास्वादमादीनवं निस्सरणप्तप्रज्ञायानुत्तरं मार्गमस्पृशमिति न वदामि । यथाभूतं प्रजानन्स्तु मार्गमस्पृशमिति प्रजानामीति । नगरोपमसूत्रे चोक्तम्- यदा मम न ज्ञानमभूत्- [इति] जरामरणं जरामरणसमुदयो जरामरणनिरोधो जरामरणनिरोधगामिनी प्रतिपत् । यावत् संस्काराः संस्कारसमुदयः संस्कारनिरोधः संस्कारनिरोधगामिनी प्रतिपत् इति । न (sss_496) तदा वदामि- अधिगतो मार्ग इति । इति । एवमादि [वचनानि] दृष्ट्वा यदि [वदामः] अयमेव दर्शनमार्गाधिगम इति । तदा षोडशचित्त[क्षणा] न मार्गाधिगमः स्युः ।

(पृ) नाहं वदामि- अयमुच्यते दर्शनमार्गाधिगम इति; किन्तु अयं सम्मर्शन कालीन इति । (उ) चतुर्षु सत्येष्वप्येवमुच्यते । वक्तव्यञ्चेदं सम्मर्शनकालीनमिति । तथा नो चेत् निदानं वक्तव्यं- चतुस्सत्यदर्शनं मार्गाधिगमकालीनं पञ्चस्कन्धादिदर्शनं सम्मर्शनकालीनमिति । (पृ) क्लेशानां प्रहाणज्ञांन मार्गाधिगमो भवति । पञ्चस्कन्धादीनां सम्मर्शनं न क्लेशानां प्रहाणाय भवति । (उ) पूर्वमेवोक्तमस्माभिः- पञ्चस्कन्धादिज्ञानमपि क्लेशानां प्रहाणाय भवतीति । यथोक्तम्- रूपादिज्ञानदर्शनादास्रवाः क्षीयन्त इति । आह च- लोकसमुदयं समनुपश्यतो नास्तितादृष्टिर्निरुध्यते । लोकनिरोधं समनुपश्यतो ऽस्तितादृष्टिर्निरुध्यत इति । भगवान् स्वयं निदानान्यवलोकयन् मार्गमधिजगाम । किंशुको[पम]सूत्रे चोक्ता नानामार्गाधिगमप्रत्ययाः । केचित् पञ्चस्कन्धान् पश्यन्तो मार्गमधिगच्छन्ति । केचित् द्वादशायतनानि वा अष्टादशधातून् वा द्वादशनिदानानि वा अन्यानि वा पश्यन्तो मार्गमधिगच्छन्ति इति । अतो ज्ञायते न चतुस्सत्य[दर्शन]मात्रेण मार्गाधिम इति । यदि भवतो मतं सत्यप्यस्मिन् वचने नैतद्दर्शनेन क्लेशान् प्रजहातीति । चतुस्सत्यदर्शनेनापि न क्लेशान् प्रजहतीति वक्तव्यम् । सत्य[दर्शने]न न मार्गमधिगच्छतीति अवश्यं वक्तव्यमिति । चतुस्सत्यविभङ्ग उक्तम्- जातिरपि दुःखं जरापि दुःखं व्याधिरपि दुःखं मरणमपि दुःखं विप्रियसंयोगो दुःखं प्रियवियोगो दुःखं यदिष्टं न लभ्यते तदपि दुःखं संक्षेपेण पञ्चोपादानस्कन्धा दुःखमिति । किञ्चाह दुःखसमुदयो येयं तृष्णा पौनर्भविकी तत्र तत्राभिनन्दिनी इति । एवमादिदर्शनेन नास्रवाणां क्षयः स्यात् । इदं सर्वं लोकसत्यं न तु परमार्थसत्यम् ।

(पृ) यद्यपि जातिमरणादि पश्यतो नास्रवक्षयः स्यात् । तथापि पञ्चोपादानस्कन्धा दुःखमित्युक्तम् । तेषां परिज्ञातुः क्लेशा भिद्यन्ते । (उ) अन्यानि त्रीणि सत्यानि कथं भवन्ति । अतो ज्ञायते [तत्] भवतः स्वसंज्ञानुस्मरणविकल्प इति । पञ्चोपादानस्कन्धा दुःखमिति पश्यतश्चित्तमेव विक्षिप्यते न मार्गो ऽधिगम्यते । (पृ) यदि चतुर्भिः सत्यौर्न मार्गमधिगच्छति । केन धर्मेणाधिगच्छेत् । (उ) एकेनसत्येनाधिगच्छति यो ऽयं निरोधः । यथोक्तं सूत्रे- मृषा नाम अनृतम् । सत्यं तद्विपरीतम् । सर्वे संस्कृतधर्मा अनृतमृषाग्रहा इति । अतो ज्ञायते योगी चित्तत एव संस्कृतधर्मे वर्तते न परमार्थत इति । यथोक्तं सूत्रे- संस्कृतधर्मा अनृता मायोपमा ज्वालोपमा स्वप्नोपमा ऋणोपमा इति । यथोक्तं धर्मपदे-

अभूतबद्धो लोको ऽयं सुनिश्चितवत् प्रभासते । असत् दृष्टं सदाभासं असद्वै परया धिया ॥ इति ।

स्त्री पुरुष इति धर्मो यथाभूतं नास्ति । पञ्चस्कन्धानां कलापमात्रे स्त्री पुरुष इति सुदृढं कीर्तयन्तः पृथग्जना विपर्ययमुग्धा वदन्ति । स वस्तुतो नास्ति । इति । योगी तु इमे पञ्चस्कन्धाः शून्या अनात्मान इति भावयति । अतो न पुनस्तं पश्यति । यथोक्तं धर्ममुद्रासूत्रे- योगी भावयति रूपमनित्यं शून्यं वियोगलक्षणमिति । इति । अनित्यमिति यत् रूपं स्वरूपतो ऽनित्यम् । शून्यमिति यथा घटे जले ऽसति शून्यो घट इति वदन्ति । एवं पञ्चस्कन्धेषु नास्त्यात्मा इत्यतः शून्या भवन्ति । एवं भावयितापि शून्यः । [तस्य] ज्ञानदर्शनमपि अविशुद्धम् पञ्चस्कन्धानां निरोधादर्शत्वात् । अन्ते तु निरोधं पश्यति यदुत योगिन एवं भवति यन्मया दृष्टं श्रुतमित्यादि । अतो ज्ञायते निरोधं पश्यत एव क्लेशाः क्षीयन्त इति ।

(पृ) कस्मान्निरोधं पश्यतः क्लेशाः क्षीयन्ते नान्यसत्यानि । (उ) योगिनस्तस्मिन् समये दुःखसंज्ञा व्यवस्थिता भवति । निरोधलक्षणसाक्षात्कुर्वतस्तु संस्कृतेषु दुःखसंज्ञा न (sss_498) व्यवस्थिता भवति । यथा कस्यचित् प्रथमध्याने प्रीतिसुखमलब्धवतो न पञ्चकामगुणेषु निर्वेदसंज्ञा जायते । यथा च अवितर्काविचारसमाधिमलब्ध्वा न सवितर्कसविचारसमाधौ दोषं मन्यते । तथा योग्यपि निर्वाणमुपशमलक्षणमनधिगम्य न संस्कारदुःखमधिगच्छति । अतो ज्ञातव्यं निरोधसत्यं पश्यत एव दुःखसंज्ञा सम्पन्ना भवति । दुःखसंज्ञासम्पन्नत्वात् तृष्णादीनि संयोजनानि प्रहीयन्ते इति ।

(पृ) यदि निरोधसत्यदर्शनात् दुःखसंज्ञा सम्पन्ना भवति । निरोधसत्यं पश्येत् पश्चात् क्लेशाः प्रहीयेरन् । कस्मात् । निरोधसत्यं दृष्टवत् एव दुःखसंज्ञायाः सम्पन्नत्वात् । (उ) न पश्चात्प्रहीयेरन् । यस्मिन् समये निरोधस्य निरोधलक्षणमधिगतम्, तस्मिन्नेव समये दुःखसंज्ञा सम्पद्यते । पश्चात्तु अभिमुखीभवति । यथोक्तं सूत्रे- योगी [यत्] समुदयलक्षणं तत् निरोधलक्षणमिति प्रजानन् सुविशुद्धं धर्मचक्षुरनुप्राप्नोति । इति । स्कन्धेषु च सदास्ति आत्ममतिः । स्कन्धा अनित्या दुःखा इति पश्यन्नपि न निरोधमनुप्राप्नोति । निरोधसत्यं पश्यतस्तु असल्लक्षणत्वादात्ममतिरत्यन्तं निरुध्यते । (पृ) यदि निरोधसत्यं पश्यत आत्ममतिः क्षीयते । कस्मात् भगवान् पुद्गलः सुकुमारमतिरित्यादि दृष्ट्वा चतुस्सत्यान्युदेशयति, न तु निरोधसत्यमात्रम् । (उ) तत्रास्ति मार्गानुलोम्येन चरितम् । किमिति । अनित्यसंज्ञया अनात्मसंज्ञासम्पन्नत्वात् इदं दुःखमिति दर्शनमनुप्राप्नोति । इदं मार्गस्य सन्निकृष्टमित्यतो मिलित्वा वदति ।

(पृ) मार्गलाभसमय एव यदि सत्कायदृष्टिः प्रहीयत इति । कस्मात् पुनराह शीलव्रतपरामर्शो विचिकित्सा इति । (उ) योगी मार्गमनुप्राप्य धर्माः शून्या अनात्मान इति दृष्टतः पश्यन् न पुनर्विचिकित्सते । न पृथग्जनानां श्रुतचिन्तादिदर्शनैः समानो भवति । मार्गसत्यं पश्यन् प्रजानाति इदमेकमेव तत्त्वं नान्यदस्तीति । अतस्त्रीण्याह । (पृ) यदि मार्गलाभकाल एव सत्यदर्शनप्रहेयाः क्लेशाः क्षीयन्ते । कस्मात् त्रयाणां संयोजनानामेव क्षयमाह । (उ) सर्वे क्लेशाः सत्कायदृष्टिमूलकाः । यथा भगवान् भीक्षून् पृच्छति- केन वस्तुना किं वस्तूपादाय किं वस्त्वभिनिविश्य ईदृशी दृष्टिर्भवति । अस्मिन् काये म्रियमाण एव ईदृशादयः सर्वा दृष्टयो निरुध्यन्ते । भिक्षव आहुः- भगवन्मूला हि (sss_499) नो भगवन् धर्माः । भगवन्तमेव प्रार्थयामहे व्याकरणायेति । भगवानाह- रूपे खलु सति रूपमुपादाय रूपमभिनिविश्य सक्तायदृष्टिर्भवति । यावद्विज्ञानमप्येवम् । इति ।

अतो ज्ञातव्यं सत्कायदृष्टिमुपादाय सर्वे क्लेशाः सम्भवन्तीति । कस्मात् । सत्यां हि सत्कायदृष्टौ वदन्ति- अयमात्मा नित्यो वानित्यो वेति । नित्य इति पश्यतः शाश्वतदृष्टिः । अनित्य इति पश्यत उच्छेददृष्टिः । यद्यात्मा नित्यः । तदा न कर्म, न विपाकः, दुःखविमोक्षः । न मार्गभावनया निर्वाणमनुप्राप्नोति । यदस्या दृष्टेः प्राधान्यम् । स एव दृष्टिपरामर्शः । [तस्या एव] यत्प्रकर्षलाभः । स एव शीलव्रतपरामर्शः । आत्मदृष्टौ तृष्णा । परदृष्टौ द्वेषः । आत्मन उच्चदर्शनमेव मानः । यथाभूताज्ञानात् यत्संयोजनानां प्रादुर्भावः । सैवाविद्या । अतः सत्कायदृष्टिसमुच्छेदात्सत्यदर्शनेन संयोजनप्रहाणं भवति ।

(पृ) यदि सत्कायदृष्टिसमुच्छेदादन्यान्यपि प्रहीयन्ते । कस्माद्विशिष्याह शीलव्रतपरामर्शं विचिकित्साञ्च । (उ) तयोः प्राधन्यात् । धर्मलक्षणं साक्षात्कुर्वतो योगिनो न विचिकित्सा भवति । विचिकित्सेयमस्त्यात्मा नास्त्यात्मेति विचिकित्सते । मार्गो विशुद्धिं प्रापयति नवेत्यपि विचिकित्सते । इदानीं दुःखसत्यं पश्यत आत्मदृष्टिः प्रहीयते । अयमेव मार्गो न पुनरन्यो ऽस्तीत्यपि प्रजानाति । अत उच्यते सत्कायदृष्टिप्रहाणमेव वस्तुतो दुःखदर्शनम् । शीलव्रतसमुच्छेदात् मार्गं प्रयुज्य ज्ञाने ज्ञेयधर्मेषु च न विचिकित्सते । यः सम्यक्ज्ञानेन ज्ञेयधर्मान् प्रजानाति । स एव समुदयं प्रहाय निरोधमधिगच्छन् चतुस्सत्यसम्पन्न इत्युच्यते । अत एषां त्रयाणां वचनमेव निर्विचिकित्सालक्षणं प्रदर्शयति । विचिकित्सेयमात्मनि मार्गे च भवति । यथोक्तं सूत्रे- आद्याभिसम्बोधिलक्षणं यदुत धर्मं पश्यति धर्मं प्रतिलभते धर्मं प्रजानाति धर्मं प्रतिसंवेदयते । विचिकित्साजालं वितीर्य परशासनं नानुवर्तते । भगवच्छासने च वैशारद्यबलमनुप्राप्य फले सुप्रतितिष्ठति । इति ॥

एकसत्यदर्शनवर्गो नवत्युत्तरशततमः ।

191 सर्वालम्बनवर्गः

(पृ) कस्मात् ज्ञानं सर्वालम्बनं भवति । (उ) यत् ज्ञानं धात्वायतनादिगोचरं तत् सर्वालम्बनमित्युच्यते । कस्मात् । आयतनेषु धातुषु चोक्तेषु पदार्था आलम्बनानि विषया ज्ञेया इत्यादयः सर्वे धर्मा भवन्ति । [तान्] यत् ज्ञानमालम्बते तत् सर्वालम्बनमित्युच्यते ।

(पृ) ज्ञानमिदं न सम्प्रयुक्तसहभ्वादिधर्मान् जानाति । (उ) जानाति यद्यायतनाद्यालम्बनं, तत्सामान्यलक्षणज्ञानं भवति । सामान्यलक्षणज्ञानत्वात् सर्वमालम्बते । कस्मात् । द्वादशायतनानीति वदतो नान्यः पुनर्धर्मो ऽस्ति । अतो ज्ञायते ज्ञानमिदमपि स्वात्मानमालम्बत इति । (पृ) उक्तं हि सूत्रे- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । अतो न स्वात्मालम्बनं ज्ञानं स्यात् । ज्ञानानां दृष्टान्तान् प्रतीत्य नास्ति स्वात्मालम्बनम् । तद्यथा- अङ्गुल्यग्रं नात्मानं स्पृशति । न चक्षुः स्वात्मानं पश्यति । (उ) यत् भवानाह- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । न तत् नियमेन भवति । आलम्बनं विनापि ज्ञामुत्पद्यते । न हि सर्वं द्वाभ्यां प्रत्ययाभ्यामुत्पद्यते । किञ्चित् षष्ठस्य विज्ञानस्य स्वकलापे सर्वथा असदालम्बनं भवति । दृष्टधर्मा[लम्बन]त्वात् । विज्ञानस्यास्य रूपादिधर्मानालम्बनत्वात् । यद्यालम्बते अन्धो ऽपि रूपं पश्येत् । पुरुषस्यास्य तस्मिन् समये चित्तचैत्ता अतीतानागतगताः । अतीतानागताश्च असद्धर्माः, कस्यालम्बनानि स्युः । आत्माध्यवसानमात्रस्य प्रतिषेधादेवमुच्यते । यदि विज्ञानानि भवन्ति । तानि सर्वाणि आभ्यां द्वाभ्यामेव भवन्ति । न चतुर्भिः प्रत्ययैः । किञ्चित् विज्ञानं द्वौ प्रत्ययौ विनोत्पद्यते । यथोक्तं सूत्रे- षडायतनप्रत्ययः स्पर्श इति । न वस्तुतः स्पर्शस्य षडायतनानि प्रत्यया भवन्ति । उत्पद्यमानं न षडायतनेभ्यो भवति । सप्तमायातनस्य प्रतिषेधात् । एवं चतुरः प्रत्ययान् प्रतिषिध्याह भगवान् द्वे आयतने इति ।

अतीतानागताकाशकालदिगादीनाञ्च ज्ञानमुत्पद्यते । ते धर्माश्च न वस्तुसन्तः । इदमेवानालम्बनं ज्ञानं भवति । (पृ) अनेनैव हेतुना अतीतानागतादयोः धर्माः सन्तः स्युः । यद्यसन्तः, किं तज्ज्ञानमुत्पादयति । शशशृङ्गकूर्मरोमाहिपदादिषु न जातु ज्ञानमुत्पद्यते । (उ) कारित्रे ज्ञानमुत्पद्यते । एवं पुरुषदर्शने ऽतीते तदतीतकालं स्मरति । पुरुषं भाषमाणं शृण्वन् तद्भाषणकालं स्मरति । एवमतीतादिधर्माणां नास्ति कारित्रमित्यतो ऽयुक्तम् । (पृ) इदानीमतीते किं कृत्वा स्मर्यते । (उ) स्मरणस्य नास्ति को ऽपि धर्मः । भवानाह- शशशृङ्गादि कस्मान्न स्मरतीति । यो धर्म उत्पद्य निरुद्धः स स्मरणीयः । यः प्रकृतितो ऽसन् । किं स्मर्येत यथा धर्मः पूर्वं सत्त्वाख्य इदानीमतीतो ऽपि सत्त्वाख्यः । एवं तस्मिन् धर्मे पूर्वं स्मृत्युत्पादात् तदेव चित्तं पुनः स्मर्यते । न तु चित्तान्तरम् । अनेन पुरुषेण पूर्वं तद्धर्मनिमित्तमुपात्तम् । तस्मिन् धर्मे निरुद्धे ऽपि तत्संज्ञानुस्मरणमुत्पाद्य [तं धर्मं] विकल्पयति । यो धर्मस्तस्य चित्ते जायते स धर्मो विनष्टः । पश्चात् [त]न्मनोविज्ञानं तत् वस्तु विजानाति इद[मेव] निमित्तालम्बनं विज्ञानमित्याख्ययते । निमित्तमिदं पाश्चात्यनिमित्तालम्बनविज्ञानस्य प्रत्ययं करोति । शशशृङ्गादिविज्ञानन्तु अनिमित्तहेतुकमित्यतो नोत्पद्यते । शशशृङ्गादि प्रतीत्यापि विज्ञानं भवेत् । यदि न भवति । कथं वक्तुं प्रभवेत् ।

(पृ) शशविषाणस्वभावो न विज्ञेयः । कस्मात् । तस्य ह्रस्वत्वदीर्घत्वशुक्लत्वकृष्णत्वादिस्मृतिर्हि न जातु जायते । तथातीतधर्मो ऽपि । कस्मात् । नह्यस्माकमतीतधर्म इदानीमभिमुखीभवति । यथा आर्या अनागतं वस्तु ज्ञात्वा वदन्ति- इदं वस्तु तथा स्यात्, इदं वस्तु तथा न स्यादिति । (उ) आर्यज्ञानबलं हि तथा धर्ममसन्तमपि प्राक् प्रजानाति । यथा आर्याः पाषणभित्तिं भित्त्वा अप्रतिहतमुन्मज्जन्ति निमज्जन्ति च । तथेदमपि वस्तु असदपि जानन्ति । स्मृतिबलाच्च जानन्ति । यथा चक्षुर्विज्ञानं न स्त्रीति पुरुष इति वा विकल्पयति । यदि चक्षुर्विज्ञानं न विकल्पयति । मनोविज्ञानमपि (sss_502) न विकल्पयेत् । वस्तुतस्तु मनोविज्ञानं विकल्पयति । तथेदमपि स्यात् । यथा चास्माकमनुभूतनिरुद्धे ज्ञानमुत्पद्यते । तथार्याणामपि असति धर्मे ज्ञानमुत्पद्यते । यथा देवदत्त इति वचने नैकं विज्ञानं चत्वार्यक्षराणि विजानाति । तथापि [तानि] विजानाति । यथा च संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वादयः । ते धर्मा अदृष्टा अपि [स्व]विज्ञानमुत्पादयन्ति । यथा च पुरुषस्य स्वरूपं नैकक्षणेन परिज्ञेयमम् । नापि प्रत्यङ्गविज्ञानेन । असत्यपि प्रत्यङ्गं पुरुषज्ञाने एकक्षणं [त]ज्ज्ञाने पुरुषज्ञानमुत्पद्यते । इदमपि तथा स्यात् ।

भवानवादीः- दृष्टान्तं प्रतीत्य नास्ति किञ्चित् स्वात्मालम्बनं ज्ञानमिति । तत्रास्ति वचनं मनः स्वात्मानं विजानातीति । योगी चित्तविपश्यनामनुसरति अतीते ऽनागते तु चित्तं नास्ति इति वचनात् । यथा प्रत्युत्पन्नचित्तेन प्रत्युत्पन्नचित्तमालम्बते । नो चेत् न जातु कश्चित्प्रत्युत्पन्नचित्तसम्प्रयुक्त धर्मं विजानाति । (पृ) सूत्र उक्तम्-

सर्वे धर्मा अनात्मानः प्रज्ञया यदि पश्यति । अथ निर्विन्दते दुःखे एष मार्गो विशुद्धये ॥ इति ।

इयं प्रज्ञा आत्मानं सहभूधर्मानन्यानि सर्वधर्मालम्बनानि चापनयति । (उ) ज्ञानमिदं सास्रवालम्बनमेव, नत्वनास्रव[आलम्बन]म् । कस्मात् । तस्यां हि गाथायामुक्तम्- अथ निर्विन्दते दुःख इति । अतो ज्ञायते तत् दुःखसत्यालम्बनमेवेति । आत्मदृष्टिप्रणाशाय च (sss_503) अनात्मभावना । आत्मदृष्टिः पञ्चोपादानस्कन्धालम्बिनी । ज्ञातव्यमनात्म[दृष्टि]रपि पञ्चस्कन्धानालम्बत इति । पञ्चस्कन्धा अनित्यत्वादनात्मानः । यथोक्तं सूत्रे- यदनित्यं तदनात्मा । यदानात्मा तद्दुःखम् इति । भगवानाह यद्भिक्षवो युष्माकं तत्प्रजहत इति । भिक्षव आहुः- आज्ञप्तं भगवन् । भगवानाह- कथं युष्माभिराज्ञप्तम् । रूपं भगवन् [अनात्मा] अनात्मीयम् । वेदना, संज्ञा, संस्कारा, विज्ञान[मनात्मा] अनात्मीयम् । तदस्माभिः- प्रहातव्य]मिति । भगवानाह- साधु साधु खलु भिक्षव इति । [अतो] ज्ञातव्यमुपादानस्कन्धेष्वेव अनात्मबुद्धिर्भवतीति । उक्तञ्च सूत्रे- यत्किञ्चित् [भिक्षवो] रूपमतीतमनागतं प्रत्युत्पन्नमाध्यात्मिकं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा [हीनं वा प्रणीतं वा] यद्दूरे ऽन्तिके वा सर्वं जानाति नात्मा नात्मीयमिति । एवं यथाभूतं सम्यक् प्रज्ञया पश्यति इति । आह च- रूपं नात्मा, वेदना, संज्ञा, संस्कारा विज्ञानञ्च नात्मा इति पश्यति । रूपमनित्यं तुच्छं मायावत् बालालापनं वधकं स्तेयकमनात्मा अनात्मीयमिति । किञ्चाह भगवान्- अत्र निषण्णः कश्चिन्मूढो ऽविद्याण्डगतो ऽविद्यान्धीभूतः परित्यज्य बुद्धशासनमिमां मिथ्यादृष्टिमुत्पादयति- यदि रूपं नात्मा, वेदना, संज्ञा, संस्कारा, विज्ञानञ्चनात्मा । कथमनात्मा कर्म कृत्वा आत्मना अनुभवति इति । अतो ज्ञायत उपादानस्कन्धालम्बनमेव नैरात्म्यमिति । सूत्रे च अनात्मज्ञानं सर्वधर्मनालम्बत इति वचनस्थानं न किञ्चनास्ति । तत्र तत्र सर्वत्रोक्तं पञ्चस्कन्धानालम्बत इति ।

(पृ) भगवान् स्वयमाह- सर्वधर्मा अनात्मान इति । अतो ज्ञायते संस्कृतो ऽसंस्कृतश्चैतज्ज्ञानस्यालम्बनम् । न तु पञ्चोपादानस्कन्धमात्रमिति । आह च- दश शून्यताः सर्वधर्मालम्बना इति । या शून्यता तदेव नैरात्म्यम् । किञ्चाह- सर्वे संस्कारा अनित्या दुःखा, सर्वे धर्मा अनात्मान इति । यदनात्मज्ञानं तद् दुःखसत्यालम्बनमेव । कस्मान्नाह- सर्वसंस्कारा अनात्मान इति । सर्वे धर्मा अनात्मान इत्युक्तत्वात् ज्ञातव्यं यत् संस्कारा इति वचनं तत् संस्कृताभिधायकम् । यत् धर्मा इति वचनं तत् सर्वा[भिधायक]मिति । आह च- क एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानाति यथा विद्याचक्षुषा रूपं (sss_504) पश्यति । केवलं बुद्धा भगवन्तः सम्यक् सम्बुद्धा विमुक्तिलाभिन एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानन्ति यथा विद्याचक्षुषा रूपं पश्यन्ति इति । अनात्मलक्षणेन हि सर्वधर्मा एकलक्षणाः । अतो ज्ञायते अनात्म[ज्ञानं] सर्वधर्मानालम्बते । न तु दुःखमात्रम् इति ।

उच्यते । सर्व[मिति] द्विविधं सर्वसङ्ग्राहकमेकदेशग्राहकमिति । सर्वसङ्ग्राहकमिति यथा भगवानाह- अशं सर्वज्ञ इति । [अत्र] सर्वं नाम द्वादशायतनानि । एकदेशग्राहकमिति यथाह- सर्वमादीप्तमिति । अनास्रवमसंस्कृतन्तु नादीप्तमुपलभ्यते । यथा च तथागतवर्गे उक्तम्- तथागतः सर्वत्यागी सर्वजयी इति । शीलादयो धर्मा न त्याज्याः । किन्तु अकुशलधर्मानुद्दिश्याह- सर्वत्यागीति । अजेय्या अन्ये बुद्धाः । अन्यान् सत्त्वानुद्दिश्यापरमाह- सर्वजयीति । किञ्चाह- कतमो भिक्षुः सर्वज्ञः । यः षट्स्पर्शायतनानामुत्पादं निरोधञ्च यथाभूतं प्रजानाति । अयमुच्यते सामान्यलक्षणज्ञः सर्वधर्माणां, न तु विशेषलक्षणज्ञ इति । भगवांस्तु सामान्यविशेषज्ञः सर्वज्ञ इत्युच्यते । भिक्षुरयं सामान्येन सर्वे धर्मा अनित्या इति प्रजानातीत्यतः सर्वज्ञो भवति । तस्य नामसाम्ये ऽपि वस्तुतो ऽस्ति भेदः । [तत्] एकदेशसङ्ग्राहकं नाम ।

आह च भगवान्- यत्सूत्रे ऽवतरति । विनये च सन्दृश्यते । धर्मताञ्च न विलोमयति । स धर्म उपादेय इति । किञ्चाह- य आह इदं बुद्धवचनमिति । स सुव्यञ्जनः । न स्वर्थः । विद्वान् तत्र स्वर्थं सुव्यञ्जनं ब्रूयात् । येनार्थेन भिक्षोरस्य व्यञ्जनं प्रशस्यं भवति । पुनरस्ति कश्चिद्वक्ता स्वर्थस्य, न सुव्यञ्जनस्य । स्वर्थं सुव्यञ्जनेन प्रक्षिपेत् । इत्येवमादिसूत्रे भगवान् सर्वं तत् संश्रावयति । अस्ति च नीतार्थं नेयार्थञ्च सूत्रम् । इदन्तु नेयार्थं सूत्रम् । कस्मादेकस्मिन् वस्तुनि सर्वमिति वचनं भवति । तस्याभिसन्धि र्ज्ञातव्यास्ति । लौकिका अपि वदन्ति एकस्मिन् सर्वमिति । यथा वदन्ति- सर्वत्यागं करोति । सर्वेषाञ्च भोजनं प्रयच्छति । अयं सर्वभुक् इति । अतो ज्ञायते सर्वमनात्मेति वचने सत्यपि पञ्चोपादानस्कन्धान[भिसन्धाय] उक्तं, न तु सर्वधर्मानिति द्रष्टव्यम् ।

यदुक्तं भवता- दश शून्यता इति । तत्रासंस्कृतं शून्यमिति नोपलभ्यते । (sss_505) कस्मात् । न हि कश्चिदसंस्कृत आत्मसंज्ञामुत्पादयति । तदन्यस्मिन् शून्ये ऽपि न काचित्क्षतिः । भवानपि दुःखज्ञानेन शून्यं संयोजयति । अतः शून्यता न सर्वधर्मालम्बिनी । (पृ) लौकिकी शून्यता सर्वधर्मानालम्बते न तु अनास्रवशून्यता । (उ)नास्ति तु लौकिकी शून्यता । सर्वा शून्यता अनास्रवा । (पृ) उक्तं हि धर्ममुद्रासूत्रे- शून्यता लौकिकी शून्यतेति । (उ) इयं लोकोत्तरशून्यता न तु लौकिकी शून्यता । (पृ) अत्रोक्तं ज्ञानदर्शनस्याविशुद्धत्वात् ज्ञायत इयं लौकिकी शून्यतेति । (उ) उक्तन्तु प्रागस्माभिः- अनास्रवं चित्तं प्रज्ञप्तिविदारणमिति । अतः प्रज्ञप्तिविदारणादागतमनास्रवं चित्तम् । पश्चान्निरोधसत्यं दृष्ट्वा अभिमानं विहाय ज्ञानदर्शनं विशुद्धं भवति । अतो न लौकिकी शून्यता ।

यद्भवानाह- सर्वे संस्कारा अनित्याः सर्वे धर्मा अनात्मान इति । एवं हि स्यात्- योगी यदा नैरात्म्यसंज्ञासमन्वितः तदा धर्मसंज्ञासमन्वितत्वात् नैरात्म्ये धर्म इति स संज्ञोच्यते । यथोक्तं दर्शनवर्गे- यो दुःखं न पश्यति, स आत्मदर्शी भवति । यो यथाभूतं दुःखं पश्यति, न स पुनरात्मानं पश्यति । इति । यथाभूतमिति यदनात्मदर्शनम् । अतः सर्वे धर्मा अनात्मान इति वचनं दुःखसत्यमात्रमालम्ब्य अनात्मा संस्कार इत्यभिदधाति । यद्भवानवोचत्- बुद्धा [भगवन्तः] एकलक्षणं लक्षणान्तरञ्चाभिमुखं पश्यन्तीति । तदपि धात्वायतनादीनामेकत्वादेकलक्षणमित्युच्यते इति स्यात् । को दोषः ॥

सर्वालम्बनवर्ग एकनवत्युत्तरशततमः ।

192 आर्यविहारवर्गः

अस्ति द्विविधो विहारः शून्यविहार अनात्मविहार इति । पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं शून्यविहारः । पञ्चस्कन्धा अपि न सन्तीति दर्शनमनात्मविहारः । केनेदं ज्ञायते । उक्तं हि सूत्रे- रूपं निस्खभावं पश्यति [यावत्] वेदनां संज्ञां संस्कारान् विज्ञानं निःस्खभावं पश्यतीति । किञ्चोक्तं सूत्रे- निःस्खभावमुपादाय विमुच्यत इति । अतो ज्ञायते रूपस्वभावो न वस्तुसन् यावद्वेदनासंज्ञासंस्कारविज्ञानस्वभावा न वस्तुसन्त इति । अपि (sss_506) चोक्तं सूत्रे- पञ्चस्कन्धाः शून्या मायावत् इति । न हि माया वस्तुसतीति निर्वाच्या । यदि माया वस्तुसती, न मायेति भवति । नास्तीत्यपि न निर्वक्तुं सम्भवति । अवस्तुत्वादेव [बाला]लापनं करोति । अयञ्च योगी सर्वं शून्यं पश्यति । अतो ज्ञायते पञ्चस्कन्धा न वस्तुसन्त इति । यथा एकलक्षणविधमनाद्भित्त्यादिरेको [ऽपि] धर्मो नास्ति । तथा पञ्चस्कन्धा अपि, नैकः [तादृशः] परमार्थिको धर्मो ऽस्ति ।

(पृ) यदि रूपादयो धर्मा अपि अवस्तुसन्तः । तदा एकं लोकसत्यमेव स्यात् । (उ) निरोधः परमार्थसत्यत्वादस्ति । यथोक्तं सूत्रे- मृषा नाम यत् तुच्छकम् । सत्यं नाम यथाभूतमिति । निरोधः स नियतं यथाभूत इत्यतः परमार्थसन् इति । (पृ) यद्भवतोक्तं पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं [शून्यविहार] इति । केन हेतुना पञ्चस्कन्धाः सत्त्व इत्युच्यन्ते । [स] किं सास्रव उतानास्रवः । (उ) सास्रवो ऽनास्रवश्च (पृ) सूत्र उक्तम्- यः सत्त्वं पश्यति स पञ्चोपादानस्कन्धान् पश्यति इति । (उ) अनास्रवधर्मो ऽपि सत्त्वाख्ये वर्तते नासत्त्वाख्ये तरुपाषाणादौ । अतो ज्ञायते अनास्रवान् स्कन्धानुपादायापि सत्त्व इत्युच्यन्ते । यदाचार्यो ऽनास्रवचित्तगतः । तस्मिन् समये ऽप्यस्ति चित्तं सत्त्व इति । अतो ऽनास्रवचित्तमपि सत्त्वो भवति । सर्वे स्कन्धा उपादानस्कन्धा इत्युच्यन्ते । उपादानादुत्पन्नत्वात् ।

(पृ) कथं ज्ञायते सर्वे उपादानादुत्पद्यन्त इति । (उ) अनास्रवधर्मो दानशीलसमाधिभावना कर्मचित्तादुत्पद्यते । असति तु [तस्मिन्] नोत्पद्यते । यथोक्तं सूत्रे- अविद्यानिवृततृष्णासंयोजनया प्रतिबद्धो मूढ इमं कायमनुप्राप्नोति । एवं विद्वानपि इति । काय एवोपादानस्कन्धः । (पृ) यदि सर्वे स्कन्धा उपादानस्कन्धाः । सास्रवो ऽनास्रव इति स्कन्धानां प्रविभागः कथम् । (उ) सर्वे स्कन्धा उपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्युच्यन्ते । नैव पुनर्भवमुपाददत इत्यतो ऽनास्रवाः । इत्ययं प्रविभागः । स्कन्धा उपादानस्कन्धैः सहोपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्यभिधीयन्ते । इदं सूत्रं न विरुध्यते ।

इमौ द्वौ विहारौ यत्किञ्चिदभावमालम्बेते । यद्रूपादये धर्माः शून्याः स्वभावनिरुद्धा इति । अयमेव यत्किञ्चिदभावः । (पृ) इमौ द्वौ पञ्चस्कन्धानालम्बेते । उक्तं हि सूत्रे- रूपं पश्यति शून्यमनात्मा वेदनासंज्ञासंस्कारान् विज्ञानञ्च पश्यति शून्यमनात्मा इति । (उ) (sss_507) स्कन्धानुपादाय पश्यति शून्यमनात्मेति । कस्मात् । सत्त्वकारणे सत्त्वशून्यं पश्यति । रूपादीनां धर्माणामपि निरोधं पश्यति । (पृ) एवञ्चोभयालम्बनम् । यद्योगी स्कन्धांश्च शून्याननुस्मरति । तदेव स्कन्धान् यत्किञ्चिदभावञ्चालम्बते । (उ) योगी सत्त्वकारणे न सत्त्वं पश्यतीत्यत एव शून्यचित्तमुत्पाद्य ततः शून्यं पश्यति । पञ्चस्कन्धानां निरोधे च न पश्यति रूपस्वभावं वेदनासंज्ञासंस्कारविज्ञानस्वभावम् । अतो ज्ञायते इमौ द्वौ यत्किञ्चिदभावालम्बनाविति ॥

आर्यविहारवर्गो द्विनवत्त्युत्तरशततमः ।

193 ज्ञानदर्शनवर्गः

(पृ) सम्यग्दर्शनस्य सम्यग्ज्ञानस्य च को विशेषः । (उ) उभयमेकात्मकमेव । नास्ति कश्चिद्विशेषः । सम्यग्दर्शनं द्विविधं लौकिकं लोकोत्तरमिति । लौकिकं यदस्ति पुण्यं पापमित्यादि । लोकोत्तरं यत् दुःखादीनां सत्यानां प्रतिसंवेदः । तथा सम्यक् ज्ञानमपि ॥

(पृ) भवतोक्तं ज्ञानदर्शनयोर्नेदृशं लक्षणम् । कस्मात् क्षान्तयो दर्शनमात्रं न ज्ञानम् । क्षयज्ञानमनुत्पादज्ञानं, पञ्चविज्ञानसम्प्रयुक्ता च प्रज्ञा ज्ञानमेव च दर्शनम् । (उ) कस्मात् क्षान्तयो न ज्ञानम् । (पृ) आज्ञातमाज्ञास्यामीत्यत आज्ञास्यामीन्द्रियम् । यदि दुःखे धर्मक्षान्तिर्ज्ञानम् । दुःखे धर्मक्षान्तिर्ज्ञातैव दुःखे धर्मज्ञानमाज्ञेन्द्रियं स्यात् । नाज्ञास्यामीन्द्रियम् । अतो क्षान्तिर्न ज्ञानम् । उक्तञ्च सूत्रे- यत् धर्मेषु धर्मान् परीत्तं प्रज्ञया विपश्यति । क्षान्ति[रियं विपश्यना] अपरिनिष्पन्ना । परिनिष्पन्ना तु ज्ञानम् इति । या क्षान्तिः, अपरिनिष्पन्ना विपश्यना [सा] । प्रथमा चानास्रवा प्रज्ञा प्राथमिकं दर्शनं क्षान्तिः । न प्राथमिकं दर्शनं ज्ञानं भवेत् । क्षान्तिकाले च न विनिश्चयो भवति । ज्ञानकाले तु विनिश्चयो ऽवश्यं भवति । क्षान्त्युत्पत्तिकाले विचिकित्सा पुनरनुवर्तते । अतः क्षान्तिर्न ज्ञानम् । (उ) या क्षान्तिस्तदेव ज्ञानम् । कस्मात् । छन्दः अभिरतिः क्षान्तिः (sss_508) सर्वमेकार्थकम् । योगी पूर्वं दुःखं ज्ञात्वा पश्चात् [तत्]क्षान्तावभिरमते । यदि पूर्वमेव नास्ति ज्ञानम् । क्षन्तव्ये काभिरतिः । परीत्तवचने च केवलमुक्तं विपश्यना क्षान्तिरिति न ज्ञानम् । तथा चेत् प्रतिपत्तिफलवेदको ज्ञानरहितः स्यात् । यदि मन्यसे योगिनो ज्ञानवत एव क्षान्तिर्भवतीति । तदा क्षान्तिवेदनमेव ज्ञानं भवति । उक्तञ्च सूत्रे- [एवं] जानन् पश्यन् आस्रवाद्विमुच्यत इति । आह च- ज्ञानं दर्शनञ्चैकार्थकमिति । किञ्च भगवानाह- दुःखज्ञानं समुदय[ज्ञानं] निरोध[ज्ञानं] मार्गज्ञानम् इति । न त्वाह क्षान्तिरिति । अतो ज्ञायते ज्ञानमेव क्षान्तिरिति ।

भगवान् विमुक्त्यर्थमाह- यथाभूतं प्रजानातीति ज्ञानम् इति । क्षान्तिरपि यथाभूतं प्रजानातीति न [ज्ञाना]दन्या स्यात् । यदि भवत् आज्ञात[माज्ञास्यामी]न्द्रियमेव क्षान्तिरिति । तदयुक्तम् । न वयं वदामः पूर्वं क्षान्तिः पश्चात् ज्ञानमिति । एकस्यैव चित्तस्य क्षान्तिः ज्ञानमित्याख्या भवति । अयं सूत्रार्थो ऽसिद्धः । भवतः कथमसिद्धेन लक्षणसिद्धिर्भवति । भवानाह- क्षान्तिपरिनिष्पन्नेति । प्रत्युक्तमिदं मया यत् ज्ञानपूर्विका क्षान्तिरिति । [अतः] परिनिष्पन्नैव क्षान्तिरिति द्रष्टव्यम् । यदि परिनिष्पत्तिं न जानाति । कथं क्षमते । भवानवोचत्- क्षान्तिकाले न विनिश्चयो ऽस्तीति । भवतां शासनेक्षान्त्या संयोजनं प्रजहाति । एवमनिश्चितं किं संयोजनं प्रजहाति । भवानवोचत्- क्षान्तिकाले विचिकित्सानुवर्तते इति । तथा चेत् मार्गसत्यदर्शने ऽपि विचिकित्सानुवर्तमाना भवति । तत्र ज्ञानमुत्पद्यमानमपि अज्ञानं स्यात् । न सविकल्पिकेयं क्षान्तिः इदं ज्ञानं भवति । यथा लौकिकी विपश्यना चतुस्सत्यानुसारिणी क्षान्तिरित्यप्युच्यते ज्ञानमित्यप्युच्यते । अनास्रवा क्षान्तिर्ज्ञानञ्च तथा स्यात् ।

(पृ) क्षयज्ञानमनुत्पादज्ञानञ्च ज्ञानमात्रं न दृष्टिः । (उ) किं कारणम् । (पृ) सूत्रे हि पृथुगुच्यते सम्यग्दृष्टिः सम्यक् ज्ञानमिति । अतो ज्ञानं न दृष्टिः । (उ) तथा चेत् सम्यग्दृष्टिर्न सम्यग् ज्ञानं भवति । यदि भवतो मतं सम्यग् (sss_509) दृष्टिः सम्यग् ज्ञानमिति । सम्यग् ज्ञानमपि सम्यग् दृष्टिः स्यात् । पञ्चाङ्गधर्मकाये प्रज्ञास्कन्धात् पृथगुक्तं विमुक्तिज्ञानदर्शनं न प्रज्ञा भवेत् । तथा च क्षयज्ञानममुत्पादज्ञानमपि न प्रज्ञा भवति । इदानीं सम्यग्दृष्टिरेव भिन्नलक्षणतया सम्यग् ज्ञानमित्युच्यते । यदुत सर्वक्लेशानां क्षयो ऽर्हतश्चित्ते समुत्पद्यत इत्यत[स्तत] सम्यग् ज्ञानमित्युच्यते ।

(पृ) यदि सम्यग् ज्ञानमेव सम्यग्दृष्टिः । तदा अर्हन्न दशाङ्गसम्पन्नः स्यात् । (उ) एकस्यैव नामान्तरम् । यथा धर्मज्ञानं दुःखज्ञानमिति । आह च- अर्हन् अष्टगुणपुण्यक्षेत्रसम्पदिति । अतः सम्यग् ज्ञानमेव सम्यग्दृष्टिः । षट्सु सामीचीषु षष्ठी सामीची समतादृष्टिरित्युच्यते । यदि भवतोक्तवत् भवति । तदा क्षयज्ञानमनुत्पादज्ञानं न सामीची भवति । किञ्च सम्यग्विपश्यतीति सम्यग्दृष्टिः । क्षयज्ञानमनुत्पादज्ञानञ्च सम्यग्विपश्यतीत्यतो ऽपि सम्यग्दृष्टिः ।

(पृ) पञ्चविज्ञानसम्प्रयुक्ता प्रज्ञा ज्ञानमात्रं न दृष्टिः । (उ) कस्मान्न दृष्टिः । (पृ) पञ्चविज्ञानानि निर्विकल्पकानि । प्रथमत आलम्बनगतत्वात् । दृष्टिर्नाम सञ्चित्योपनिध्यानम् । पञ्चविज्ञानानि च प्रत्युत्पन्नमालम्बन्ते । अतो न दृष्टिः । (उ) तत्र वितर्कविचाराभावात् न विकल्पयन्ति । प्रथमत आलम्बनगतत्वात् न दृष्टिरिति यदि मतम् । तदयुक्तम् । कस्मात् । भवतां हि शासनं चक्षुर्विज्ञानं सन्तानालम्बनं यथा मनोविज्ञानमिति । अतो न वक्तव्यं प्रथमत आलम्बनगतमिति । तथा चेन्मनोविज्ञानमपि न दृष्टिर्भवेत् । भवान् पुनराह- प्रत्युत्पन्नालम्बनत्वान्न दृष्टिरिति । इदमपि न युक्तम् । परचित्तज्ञानमपि प्रत्युत्पन्नालम्बनम् । इदमपि न दृष्टिः स्यात् । पञ्चविज्ञानेषु नास्ति यथाभूतज्ञानम् । प्रतिपत्त्यभावात् । सदा प्रज्ञप्त्यनुवर्तनाच्च । दृष्टिः ज्ञानं प्रज्ञा इत्यादि सर्वं नास्ति । किं पुनर्दृष्टिमात्रं नास्तीति ।

केचिदाहुः- चक्षुरिन्द्रियं दृष्टिरिति । कथमिदम् । (उ) न चक्षुरिन्द्रियं (sss_510) दृष्टिः । चक्षुर्विज्ञानं [विषया]लम्बनं भवति । लोकव्यवहारमनुसृत्य चक्षुर्दृष्टिरित्युच्यते । (पृ) केचिदाहुः- सन्त्यष्टदृष्टयो यदुत पञ्चमिथ्यादृष्टयो लौकिकी सम्यग्दृष्टिः शैक्षदृष्टिरशैक्षदृष्टिः । एता अष्टदृष्टिर्वर्जयित्वा अन्या प्रज्ञा न दृष्टिरित्युच्यत इति । कथमिदम् । (उ) ज्ञानदर्शनं विमुक्तिलाभः प्रतिसंवेदनं साक्षात्कार इतीदं सर्वमेकार्थकम् । इयं दृष्टिरियं न दृष्टिरिति यत् वचनम् । सर्वं तत् स्वसंज्ञाविकल्पितं वचनम् । (पृ) उक्तं ननु सूत्रे- जानन् पश्यन् आस्रवाद्विमुच्यत इति । कथमस्ति प्रविभागः । (उ) यत् ज्ञात्वा आदौ प्रज्ञप्तिं विदारयति तत् ज्ञानमित्युच्यते । धर्मस्थितायामवतरणं दर्शनम् । आद्यविपश्यना ज्ञानम् । [तत्]प्रतिसंवेदनं दर्शनम् । इत्येवमस्ति प्रविभागः ॥

ज्ञानदर्शनवर्गस्त्रिनवत्युत्तरशततमः ।

194 त्रिविधप्रज्ञावर्गः

तिस्रः प्रज्ञा, श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञेति । सूत्रादि द्वादशाङ्गप्रवचनादुत्पन्ना श्रुतमयी । इदमनास्रवां प्रज्ञां जनयतीति प्रज्ञा । यथोक्तं सूत्रे- राहुलो भिक्षुर्विमुक्तिप्रापिणीं प्रज्ञां सम्पादयति इति । वेदादीन् व्यावहारिकग्रन्थान् शृण्वन्नपि नानास्रवां प्रज्ञामुत्पादयतीत्यतो न [सा] श्रुतमयी प्रज्ञा भवति । यत् सूत्राणामर्थं चिन्तयति सा चिन्तामयी प्रज्ञा । यथोच्यते- योगी धर्मं श्रुत्वा तदर्थगतिं चिन्तयति । इति । अपि चाह- योगी धर्मं श्रुत्वा तदर्थं चिन्तयन् सदा प्रतिपदमनुवर्तत इति । यत् ज्ञानदर्शनमभिमुखीभवति सा भावनामयी प्रज्ञा । यथोच्यते- योगी समाहितचित्ते पञ्चस्कन्धानुत्पादनिरुद्धान् पश्यतीति । यथोक्तं सूत्रे- यूयं भिक्षवो ध्यानसमाधिं भावयन्तो यथाभूतज्ञानदर्शनमभिमुखं लभध्वे । इति । किञ्चोक्तं सप्तसम्यग्ज्ञानसूत्रे- यत् भिक्षु धर्मं प्रजानाति । [इयं] श्रुतमयी प्रज्ञा । यदर्थं प्रजानाति [इयं] चिन्तामयी प्रज्ञा । यत् (sss_511) कालादीन् प्रजानाति । इयं भावनामयी प्रज्ञा । इति । यथा च राहुलः पञ्चोपादानस्कन्धनिकायादीनधीते । इयं श्रुतमयी प्रज्ञा । यद्विविक्तदेशे तदर्थं चिन्तयति । इयं चिन्तामयी प्रज्ञा । पश्चात्सम्बोधिकाले भावनामयी प्रज्ञा । किञ्चोक्तं सूत्रे- त्रीण्यायुधानि श्रुतायुधं विवेकायुधं प्रज्ञायुधमिति । श्रुतायुधं नाम श्रुतमयी प्रज्ञा । विवेकायुधं चिन्तामयी प्रज्ञा । प्रज्ञायुधं भावनामयी प्रज्ञा । अपि चोक्तं सूत्रे- पञ्चानुशंसाधर्मश्रवणे । कतमाः पञ्च । अश्रुतं शृणोति । श्रुतं पर्यादापयति । कांक्षां विहन्ति । दृष्टिं ऋजु करोति । चित्तमस्य प्रसीदति ।

इति । अश्रुतं शृणोति । श्रुतं पर्यादापयति इतीयं श्रुतमयी प्रज्ञा । कांक्षां विहन्ति । दृष्टिं ऋजुकरोति इतीयं चिन्तामयी प्रज्ञा । चित्तमस्य प्रसीदति इतीयं भावनामयी प्रज्ञा । धर्मश्रवणानुशंसायाञ्चोक्तम्- श्रोत्रेण धर्मं शृणोति । वाचा धर्ममधीते । इयं श्रुतमयी प्रज्ञा । मनसा मीमांसते । इयं चिन्तामयी प्रज्ञा । पश्यन् अभिसमेति । इयं भावनामयी प्रज्ञा इति । चतुर्षु श्रोतआपत्त्यङ्गेषु सद्धर्मश्रवणं श्रुतमयी प्रज्ञा । योनिशोमनस्कारश्चिन्तामयी प्रज्ञा । धर्मानुधर्मप्रतिपत्तिर्भावनामयी प्रज्ञा । पञ्चविमुक्तिद्वारेषु [यदन्यतरस्मात्] गुरुस्थानीयात् धर्मं श्रृणोति । इयं श्रुतमयी प्रज्ञा । [तस्मिन् धर्मे] यदर्थप्रतिसंवेदी भवति । इयं चिन्तामयी प्रज्ञा । तस्य यत् प्रमोद्यादि जायते । इयं भावनामयी प्रज्ञा ।

अपि चोक्तं सूत्रे- भगवान् धर्ममुपदिशति आदौ कल्याणं मध्ये कल्याणमन्ते कल्याणमित्यादि । तं धर्मं शृणोति सत्पुरुषस्तरुणो वृद्धो वा । श्रुत्त्वा प्रतिसञ्चिक्षति- सम्बाधो गृहावासो ऽभ्यवकाशा प्रव्रज्या । नेदं सु करमगारमध्यावसता [एकान्तपरिशुद्धं] सद्धर्मं चरितुमिति । तदैव भोगस्कन्धं प्रहाय ज्ञातिपरिवृत्तं प्रहाय अगारादनागारं (sss_512) प्रव्रजति । शीलं धत्ते । इन्द्रियाणि रक्षति । इर्यापथेषु सम्प्रजन्यकारी भवति । विविक्तदेशे चिन्तयति । पञ्च नीवरणानि प्रहाय प्रथमध्यानादीनुपसम्पद्य विहरति । यावदास्रवक्षयमनुप्राप्नोति । इति । तत्र यत् धर्मं शृणोति तरुणो वा वृद्धो वा इति । इयं श्रुतमयी प्रज्ञा । श्रुत्वा यत् प्रतिसञ्चिक्षति- सम्बाधो गृहावासो ऽभ्यवकाशा प्रव्रज्येति । इयं चिन्तामयी प्रज्ञा । पञ्च नीवरणानि प्रहाय यावदास्रवक्षयमनुप्राप्नोति । इयं भावनामयी प्रज्ञा । किञ्चोक्तं सूत्रे- द्वाभ्यां प्रत्ययाभ्यां सम्यग्दृष्टिरुत्पद्यते । [कतमाभ्यां द्वाभ्याम्] । परतो धर्मश्रवणं योनिशोमनस्कार इति । परतो धर्मश्रवणं श्रुतमयी प्रज्ञा । योनिशोमनस्कारश्चिन्तामयी प्रज्ञा । सम्यग्दृष्टिसमुत्पादो भावनामयी प्रज्ञा । उक्तञ्च गाथायाम्-

निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य च । विविक्तदेशाभिरतः तच्चित्तं विनयेत्पुनः ॥ इति ।

तत्र निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य चेतीयं श्रुतमयी प्रज्ञा । विविक्तदेशाभिरत इतीयं चिन्तमयी प्रज्ञा । तच्चित्तं विनयेत्पुनरितीयं भावनामयी प्रज्ञा । किञ्च भगवान् भिक्षूननुशास्ति- यत्किञ्चिद्भाषमाणैर्युष्माभिश्चतुस्सत्यानि भाषयितव्यानि । यत्किञ्चिच्चिन्तयद्भिश्चतुस्सत्यानि चिन्तयितव्यानि इति । तत्र चतुस्सत्यभाषणं श्रुतमयी प्रज्ञा । चतुस्सत्यचिन्तनं चिन्तामयी प्रज्ञा । चतुस्सत्यानां लाभः भावनामयी प्रज्ञा । एवमादिना तत्र तत्र सूत्रे भगवान् त्रिविधां प्रज्ञामवोचत् ।

(पृ) तिसृषु प्रज्ञासु कति कामधातौ । कति रूपधातौ । कति आरूप्यधातौ भवन्ति । (उ) कामधातौ सर्वा भवन्ति । यथा हस्तक उपासको ऽतप्यद्देवेषूपपद्य तत्र धर्मं देशयति । धर्मं देशयन् अवश्यं तदर्थं चिन्तयति । अतो ज्ञायते रूमधातावप्यस्ति चिन्तामयी प्रज्ञेति । आरूप्यधातावस्ति भावनामयी प्रज्ञा । (पृ) केचिदाहुः कामधातौ नास्ति भावनामयी प्रज्ञा । रूपधातौ नास्ति चिन्तामयी प्रज्ञेति । (sss_513) कथमिदम् । (उ) केन प्रत्ययेन कामधातौ नास्ति भावनामयी प्रज्ञा । (पृ) न कामधातुकमार्गेण सर्वाणि नीवरणानि सर्वाणि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेत् । (उ) भवतां शासने नेदं वचनमस्ति यत् न कामधातुकमार्गेण नीवरणानि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेदिति । आह च कामधातुकमार्गेण क्लेशान परिभेदयतीति । किमिति । कामधातावस्ति अशुभादिभावना । यथोक्तं सूत्रे- अशुभभावनां भावयन् कामरागं समूहन्ति इति । तथा करुणादावपि । (पृ) कामधातावशुभादिभावना नात्यन्तं क्लेशान् समुच्छेदयति । (उ) रूपधातुकाशुभादिभावनापि नात्यन्तं क्लेशान् समुच्छिन्द्यात् । (पृ) दौष्ठुल्याद्याकारैः क्लेशान् प्रजहाति । नाशुभादिना । (उ) दौष्ठुल्यादिना क्लेशान् प्रजहाति नाशुभादिना इति नास्ति किञ्चन सूत्रवचनम् । उक्तं हि सूत्रे- अशुभादिना क्लेशान् समूहन्ति इति । दौष्ठुल्यादीनां किमस्ति बलं क्लेशानां समुच्छेदकम् । [यत्] नास्त्यशुभादीनाम् । यदि कामधातौ दौष्ठुल्याद्याकारो ऽस्ति । अनेनाकारेण क्लेशान् समुच्छिन्द्यात् । यदि नास्ति, वक्तव्यं कारणं कस्मादस्ति अशुभादिः, न दौष्ठुल्यादिरिति । यदि सन्नपि न क्लेशान् समुच्छेदयति । रूपधातौ सन्नपि न समुच्छिन्द्यात् । अत्रापि कारणं वक्तव्यं कस्मात् कामधातौ न समुच्छेदयति । रूपधातौ परं समुच्छेदयतीति ।

कामधातौ सन्नपि दौष्ठुल्यादिर्न क्लेशान् समुच्छेदयति । अस्ति विक्षेपधातुत्वात् । विक्षिप्तचित्तो न किञ्चित्समुच्छेदयति । ययोक्तं सूत्रे- चित्तसमाधानं मार्गः चित्तविक्षेपो ऽमार्ग इति । (उ) कारणं वक्तव्यं कस्मात् कामधातुर्विक्षेपधातुरिति । तत्रास्ति अशुभादिभावना यद्ययं विक्षेपधातुः । कथं कङ्कालादि विलक्षणं पश्यति । रूपधातौ च चित्तसमाधाने (sss_514) कस्य वैलक्षण्यमस्ति । कामधातो तु नास्ति । (पृ) रूपधातुकमार्गेण वैराग्यमनुप्राप्य तदन्तरा म्रियमाणो रूपधातावुत्पद्यते । यथा आणिराणिं निस्सारयति । (उ) किं नाम वैराग्यम् । (पृ) क्लेशप्रहाणं वैराग्यम् । रूपधातुकर्मार्गेण क्लेशान् प्रजहाति । न कामधातुकेन । (उ) तीर्थिकाः प्रहीणसंयोजना अपि पुनः कामधातौ समुत्पद्यन्ते । अतः [ते] प्राकृता न प्रहीणसंयोजना इत्युच्यन्ते । यदि [संयोजनानि] प्रहाय पुनरुत्पद्यते । तदा अनास्रवः क्षीणसंयोजनो ऽपि पुनरुत्पद्येत । तत्तु न सम्भवति ।

अपि चोक्तं सूत्रे- क्षीणत्रिसंयोजनस्त्रीणि विषाणि समूहन्तीति । प्राकृतो न त्रीणि संयोजनानि क्षपयतीत्यतो न वीतरागो भवति । प्राकृतस्य नित्यमस्ति आत्मदृष्टिः । यतः स न सत्कायदृष्ट्यादीन् क्षपयति । यदि प्राकतो वैराग्यकुशलः, सर्वे ऽपि क्लेशा न स्युः । कस्मात् । सर्वे हि क्लेशाः प्रतीत्यसिद्धाः । यथोक्तं सूत्रे- प्रत्ययेभ्य आत्मा सिध्यतीति । यदि पृथग्जनस्यास्य कामधातुकपञ्चस्कन्धेषु सत्कायदृष्टिर्नोद्भवति । ऊर्ध्वधातुकस्कन्धेषु पुनर्न भवेत् । तदा तु पृथग्जनस्य न सत्कायदृष्टिर्भवेत् । इत्यस्तीदृशो दोषः । एवं क्लेशैरत्यन्तक्षीणैर्भवितव्यम् । पृथग्जनो ऽयमर्हन् स्यात् । वस्तुतस्तु [तस्य] क्लेशा नैकान्तं क्षीणाः । यथोक्तं सूत्रे- द्वाविमौ भिक्षवः अशन्या फलन्त्या न सन्त्रसतः । [कतमौ द्वौ] भिक्षुश्च क्षीणास्रवो राजा च चक्रवर्ती इति । इदानीमयं पृथग्जनो ऽपि न सन्त्रसेत् । अर्हन् नाभिनन्दति जीवितं, नाभिसन्त्रसति मरणम् । अयं [पृथग्जनो] ऽपि एवं स्यात् । यथा उपसेनो ऽर्हन् आशीविषदष्टो जीवितान्ते ऽविरूपेन्द्रियो ऽविकृतरूपश्च बभूव । तथायमपि स्यात् । अर्हतो ऽष्टौ लोकधर्मा न चित्तमवपातयन्ति । (sss_515) तथा स्यादयमपि । वीतरागत्वात् । वस्तुतस्तु पृथग्जनस्य वीतराग इति कथ्यमानस्यापि नेदं लक्षणं स्यात् । अतो ज्ञायते न क्षीणक्लेशो [ऽय]मिति ।

(पृ) पृथग्जनः संयोजनानि प्रहाय अत्रायुषो ऽन्ते रूपधातावुत्पद्यते । यदि संयोजनानि न प्रजहाति । कथं तत्रोत्पद्येत । सूत्रे ऽप्युक्तम्- अस्ति वीतरागस्तीर्थिक इति । आह च अराडः कलाम उद्रको रामपुत्रो रूपे वीतराग आरूप्य उत्पद्यत इति । किञ्चाह- रूपेण कामं विजहाति । अरूपेण रूपं विजहाति । निरोधेन स्मृत्युपस्थानानि विजहातीति । अतो [यत्]भवतोक्तं पृथग्जनः क्षीणक्लेशो ऽपि पुनरुत्पद्यत इत्यतो न क्षीण[क्लेश] इति । तन्न युज्यते । भवानप्याह- पृथग्जनस्य सर्वाणि विद्यमानानि प्रहीणानीति इदं वस्तुतः प्रतिषिद्धमित्यतः क्षीणो वीत इत्युच्यते । यथोक्तं गाथायाम्-

अहं ममेति या चिन्ता म्रियमाणो जहाति ताम्

अयमेव वीतरागो नाम । तीर्थिकानां प्रहाणन्तु मरणप्रहाणादन्यत् । मरणप्रहीणो न रूपारूप्यधातावुत्पद्यते । यो बालः स्वभूमिं त्यजति तं सत्कृतवतामपि नास्ति महाविपाकः । यदि वीतरागं तीर्थिकं सत्करोति, महाविपाकं विन्दते । वचने समाने ऽपि तदर्थस्तु विभिन्नः । अतो ज्ञायते पृथग्जनो वस्तुतः प्रहीण[क्लेशो] वीत[राग] इति ।

(उ) प्रतिषेधे ऽस्ति प्रविभागः । यदि गभीरक्लेशव्यावर्तकः तदा रूपारूपधातावुत्पद्यते । यदि सत्कायदृष्टिं व्यावृत्तवान् तदा पूर्वोक्तो दोषः । यदि कामधातुकसत्कायदृष्टिं न व्यावृत्तवान् । कथं रूणरूप्यधातावुत्पद्यते । व्यावृत्तरागप्रतिघमात्रस्य रूपधातावुत्पादः । न व्यावृत्तसत्कायदृष्टिकस्य । अतः पृथग्जनो न वस्तुतः प्रहीणसंयोजन इति ज्ञायते । कामधातुकसद्धर्मो ऽपि क्लेशव्यावर्तको ऽस्ति । अतो ज्ञायते कामधातावपि भावनामयी प्रज्ञास्तीति । सूत्रे ऽप्युक्तम्- सप्तनिश्चयानतिक्रम्य सम्बोधिं विन्दत इति । अतो ज्ञायते कामधातुनिश्रितः समाधिस्तत्त्वज्ञानजनक इति । (पृ) पुग्दलो ऽयं प्रथमध्यानस्यासन्नभूमिं निश्चित्यार्हन्मार्गमनुप्राप्नोति । न कामधातुकसमाधिम् । (उ) न युक्तम् । अतिक्रम्य सप्तनिश्रयानिति वचनेन प्रथमध्यानं तदासन्नभूमिश्चातिक्रान्तैव । न तत्रास्ति कारणमासन्नभूमिं निश्रयते न कामधातुकसमाधिमिति । यद्ययं योगी आसन्नभूमिमुपसन्नः । कस्मान्न प्रथमध्यानमुपसम्पद्यते । अस्यापि नास्ति कारणम् । सुसीमसूत्रे चोक्तम्- पूर्वं खलु धर्मस्थितिज्ञानं पञ्चान्निर्वाणज्ञानमिति । अस्यार्थः नावश्यं ध्यानसमाधिप्राप्तिपूर्वक आस्रवक्षयः । किन्तु धर्मस्थितिज्ञानमवश्यं पूर्वं कृत्वा पश्चादास्रवक्षयो भवतीति । अतो ज्ञायते सर्वान् ध्यानसमाधीनतिक्रामतीति । ध्यानसमाधिसमतिक्रमाय सूसीमसूत्रमाह । यद्यासन्नभूमिं वेदयते । स एव ध्यानसमानदोषः । सूत्रे चासन्नभूमिरिति वचनं नास्ति । स्वसंज्ञानुस्मरणविकल्पो ऽयम् ।

(पृ) पूर्वमुक्तो मया आणिदृष्टान्तः । अतो ज्ञायते अन्यभूमिकमार्गेणान्यभूमिकसंयोजनं प्रजहातीति । यथा सूक्ष्मयाण्या स्थूलाणिं निस्सारयति । एवं रूपधातुकमार्गेण कामधातुं प्रजहाति । योगी यदि पूर्वं काममकुशलधर्मांश्च प्रजहाति । तदुत्तरं प्रथमध्याने ऽवतरति । अतो ज्ञायते ऽवश्यमस्त्यासन्नभूमिः यया कामं प्रजहाति । आह च- रूपमुपादाय काममतिक्रामतीति । यदि नास्त्यासन्नभूमिः । कथं रूपमुपादद्यात् । उक्तञ्च सूत्रे- योगी शुभं प्रतिलभमानो ऽशुभं त्यजति तद्यथा नन्दः अप्सरतृष्णामुपादाय पूर्वतनकामं जहौ इति । यश्च प्रथमध्याने नोपशमरसमनुविन्दते, न स पञ्चकामगुणेषु महावद्यमतिं करोति । अतो ज्ञायते पूर्वं प्रथमध्यानस्यासन्नभूमिमनुप्राप्य कामधातुमुत्सृजतीति ।

उच्यते । कामधातौ शुभमनुप्राप्याशुभं प्रजहति । तद्यथाह- पञ्चनिस्सरणस्वभावा इति । यद्यार्यश्रावकः कदाचित् पञ्चकामगुणा न प्रीतिसौमनस्यजनका इत्यनुस्मरति । तदा तच्चित्तं नाभिरमते सिरापक्षदाहवत् । यदि [ते] निस्सरणधर्मा इत्यनुस्मरति । तदा चित्तमभिरमते । आह च- योगिनो यदाकुशलवितर्को भवति । तदा कुशलवितर्केण तं निरोधयति । तस्माद्भवदुक्त आणिदृष्टान्तो ऽपि कामधातौ सम्भवति । यत् भवानाह- (sss_517) रूपमुपादाय काममतिक्रामतीति । इदं चरमभविकम् । योगी यदि कामधातुकमार्गेण क्लेशान् प्रजहाति । तदनुक्रमशो यावद्रूपधातुककुशलधर्मान् प्रतिलभते । तस्मिन् समये कामधातोरत्यन्तप्रहाणं नाम रूपधातुकधर्मप्रतिलाभः । भवानाह- निरोधसमापत्तिं प्रतिलभत इति । अर्हन्नपि समाधीन् प्रतिलभते । किन्तु तच्चरमभविकमित्युच्यते । यद्भवतोक्तं- शुभं प्रणीतं प्रमोदमुपशमरसञ्च प्रतिलभमान इति । तत्सर्वं सामान्यतः प्रत्युक्तम् ।

यदि च कामधातौ नास्ति समाधिः । कथं व्यग्रचित्तेन रूपधातुककुशलं साक्षात्करोति । (पृ) प्रज्ञाविमुक्तस्यार्हतो नास्ति समाधिः । प्रज्ञा परमस्ति । (उ) तत्र ध्यानसमाधिमात्रस्य निषेधः । अवश्यं भवितव्यमल्पकालं समाहितचित्तेन यावदेकं क्षणम् । यथा सूत्रे भगवानाह- भिक्षूणां चीवरं गृह्णतां त्रिषु [क्लेश] विषेषु सत्स्वपि चीवरासङ्गो निरुद्ध एवेति । व्यग्रचित्तस्य तत्त्वज्ञानमुत्पद्यत इति न किञ्चित्सूत्रमाह । सर्वथाह- समाहितो यथाभूतं प्रजानातीति ॥

त्रिविधप्रज्ञावर्गश्चतुर्वनवत्युत्तरशततमः ।

195 चतुः प्रतिसंविद्वर्गः

(पृ) अस्ति धर्मस्थितेः प्रत्यासन्नं लौकिकं ज्ञानम् । कतमदिदम् । (उ) इदं ऊष्मादिधर्मे प्रज्ञप्तिविदारकं ज्ञानम् । ज्ञानमिदं सांवृतसत्यदर्शन[रूप]त्वात् लौकिकम् । आर्यमार्गस्य प्रत्यासन्नत्वात् धर्मस्थितेः प्रत्यासन्नमित्युच्यते । (पृ) इदं सत्यदर्शनमार्गे अनागतभावनादीनां ज्ञानम् । (उ) अनागतभावनादीनां ज्ञानं नास्तीति पश्चाद्वक्ष्यते । कस्मात् । धर्मलक्षणविदारणे हि नास्ति प्रज्ञप्तिचित्तम् । अतः सत्यदर्शनमार्गे न लौकिकं ज्ञानं भावयति ।

(पृ) सूत्र उक्तम्- चतस्रः प्रतिसंविद इति । कतमा इमाः । (उ) अक्षरेषु, (sss_518) या प्रतिसंवित् । इयं धर्मप्रतिसंवित् । रुतेषु प्रतिसंवित् निरुक्तिप्रतिसंवित् । यदुत [नाना]दिगन्तरव्यवहृतरुतविशेष[ज्ञान]म् । यथोक्तं सूत्रे- जनपदनिरुक्तौ नाभिनिवेशेत योगी इति । रुतस्याप्रयोगे ऽर्थो दुरधिगमः । अक्षराभावे ऽर्थो न प्रकाश्यो भवति । इयमेव निरुक्तिरकुण्ठा अक्षया असन्दिग्धं सुभाषितमित्युच्यते । यथोक्तं सूत्रे- सन्ति चत्वारो भाषितधर्माः किञ्चिद्भाषितं सार्थगति नाक्षयकरम् । किञ्चिदक्षयकरं न सार्थगति । किञ्चिदुभयवत् इति । किञ्चिन्नोभयवत् इति । इदं त्रिविधं ज्ञानं निरुक्त्युपायः । नामपदज्ञाने यदर्थप्रतिसंवेदनम्, इयमर्थप्रतिसंवित् । यथाह- सन्ति चत्वारो भाषितधर्माः कश्चिदर्थोपायः न व्यञ्जनोपायः । कश्चिद्वयञ्जनोपायो नार्थोपायः । कश्चिदुभयोपायः । कश्चिन्नोभयोपायः । य एतच्चतुःप्रतिसंवित्प्राप्तः स उपायसम्पन्नो दुष्प्रधृष्यो दुरधिगम्यो धर्मभाषणे । [तस्य] सुभाषितमक्षय[कर]मपि सार्थगति । प्रज्ञानवसन्ना वचननिरुक्तिश्चा प्रतिहता भवति ।

(पृ) प्रतिसंविदियं कथं प्रतिलब्धव्या भवति । (उ) पूर्वाध्वनीनकर्मप्रत्ययात् । यदि प्रत्यध्व प्रज्ञाप्रत्ययं स्कन्धाद्युपायञ्च सम्यग्भावयति । तदा तद्भावनाबलादिहैवाध्वनि अशिक्षिताक्षरसूत्राध्ययनो ऽपि [तत्र] ज्ञानं विन्दते । यथा दिव्यचक्षुरभिज्ञादिषु । (पृ) कतमः पुद्गलः प्रतिलभते । (उ) आर्यपुद्गल एव प्रतिलभते । केचिदाहुः- अर्हन्नेव (sss_519) प्रतिलभते । न शैक्षजना इति । नायं तथा नियमः । शैक्षा अपि अष्टविमोक्षान् विन्दते । कस्मान्न प्रतिलभन्त इदं ज्ञानम् ।

(पृ) चतस्र इमाः प्रतिसंविदः कस्मिन् धातौ वर्तन्ते । (उ) कामधातौ रूपधातौ च सर्वा भवन्ति । आरूप्यधातौ केवलमर्थप्रतिसंविदस्ति । प्रतिसंविद् द्विविधा भवति सास्रवा अनास्रवेति । शैक्षाणां द्विविधा च भवति । अशैक्षाणां केवलमनास्रवा । प्रतिलाभे तु सर्वा युगपद्विन्दते । स्त्रियो ऽपि प्रतिलभन्ते यथा धर्मदिन्नादयो भिक्षुण्यः ॥

चतुःप्रतिसंविद्वर्गः पञ्चनवत्युत्तरशततमः ।

196 पञ्चज्ञानवर्गः

पञ्च ज्ञानानि- धर्मस्थितिज्ञानं, निर्वाणज्ञानं अरणाज्ञानं प्रणिधिज्ञानं प्रान्तकोटिकज्ञानमिति । तत्र धर्माणामुत्पादज्ञानं धर्मस्थितिज्ञानम् । यथा जातिप्रत्ययं जरामरणं यावदविद्याप्रत्ययाः संस्कारा इति । अस्ति वा तथागतो नास्ति वा तथागतः । एषां स्वभावः सदा स्थित इत्यतो धर्मस्थितिज्ञानमित्युच्यते । एषां धर्माणां निरोधो निर्वाणज्ञानम् । यथा जातिनिरोधे जरामरणनिरोधः । यावदविद्यानिरोधे संस्कारनिरोध इति ।

(पृ) तथा चेत् निर्वाणज्ञानमपि धर्मस्थितिज्ञानं भवति । कस्मात् । यतः अस्ति वा तथागतो नास्ति वा तथागतः । अस्य स्वभावो ऽपि सदा स्थितः । (उ) धर्माणां क्षयनिरोधो निर्वाणमित्याख्यायते । अस्मिन् क्षयनिरोधे को धर्मः स्थितः । (पृ) निर्वाणं किमद्रव्यमसत् । (उ) स्कन्धानामशेषनिरोधो निर्वाणमिति कीर्त्यते । तत्र किमस्ति [अवशिष्टम्] । (पृ) द्रव्यसत् निर्वाणम् । तत् केन ज्ञायते । निरोधसत्यं हि निर्वाणम् । दुःखादीनां सत्यानां वस्तुसत्त्वात् निर्वाणमपि वस्तुसत् । किञ्च निर्वाणस्य ज्ञानं निरोधज्ञानं भवति । यद्यसन् धर्मः । कस्य धर्मस्य ज्ञानमुत्पद्यते । सूत्रे च भगवानवोचत्- अस्ति, भिक्षवः कृतको जातो भूतः संस्कृतधर्मः । अस्ति (sss_520) [भिक्षवः] अकृतको ऽजातो ऽभूतो ऽसंस्कृतधर्म इति । अपि चोक्तम्- सन्ति द्विधैव धर्माः संस्कृतो ऽसंस्कृत इति । संस्कृतधर्म इति उत्पादस्थितिव्ययविकृतः । असंस्कृत अनुत्पादस्थितिव्ययविकृतः । किञ्चोक्तं सूत्रे- ये विद्यन्ते संस्कृता वा असंस्कृता वा निरोधो निर्वाणं तेषामग्रमाख्यायते इति । आह च- रूपमनित्यम् । रूपनिरोधे निर्वाणं नित्यम् । एवं यावद्विज्ञानमपि । सूत्रे चोक्तम्- निरोधः साक्षात्कर्तव्य इति । यद्यसन् धर्मः । कतमः साक्षात्कर्तव्यः । भगवान् बहुधातुकसूत्र आह- विद्वान् संस्कृतधातुमसंस्कृताधातुञ्च यथाभूतं प्रजानाति । इति । यो ऽसंस्कृतधातुः तदेव निर्वाणम् । यथाभूतज्ञातं कथमभाव इत्युच्यते । सर्वेषु सूत्रेषु नास्ति किञ्चिन्नियतं वचनं निर्वाणमसद्धर्म इति । अतो ज्ञायते यन्निर्वाणमसदिति तत् भवतः स्वसंज्ञाविकल्प एवेति ।

उच्यते । यदि स्कन्धानां वियोगे ऽपि पुनरस्ति धर्मान्तरं निर्वाणमिति । तदा धर्माणामशेषनिरोधो निर्वाणमिति न स्यात् । यदि निर्वाणं सत् । तदा वक्तव्यः अस्ति स्वभावः को ऽयमिति । निर्वाणालम्बनः समाधिरनिमित्त इत्याख्यायते । यदि धर्मलक्षणमपि सजीवम् । किमसल्लक्षणं भवति । यथोक्तं सूत्रे- योगी रूपलक्षणं प्रहीणं पश्यति यावद्धर्मलक्षणं प्रहीणं पश्यति इति । सूत्रे च तत्र तत्रोक्तम्- सर्वे धर्मा अनित्याः सर्वे धर्मा अनात्मानः । तेषां व्युपशमो निर्वाणमिति । तत्रात्मा सर्वधर्माणां स्वभावः । यत् सर्वधर्माणां स्वभावादर्शनम् । तदा अनात्मदर्शनं भवति । यदि निर्वाणं धर्मः तदा नास्ति स्वभाव इति दर्शनं नोपलब्धुं शक्यते । अस्य धर्मस्य निरोधाभावात् । यथा यत्र घटो ऽस्ति । न तत्र घटस्य विनाशधर्मो ऽस्ति । घटे विनष्टे तु घटो विनष्ट इति वक्तुं शक्यते । वृक्षच्छेदे ऽप्येवम् । एवं संस्कारा अथापि वर्तन्ते । तदा न निर्वाणमित्याख्यायते । संस्काराणां निरोधे तु निर्वाणमित्याख्या भवति ।

दुःखनिरोधश्च न पुनर्धर्मान्तरं भवति । यथोक्तं सूत्रे- यदिदं भिक्षवो दुःखं निरुध्यते अन्यद्दुःखं नोत्पद्यते न पुनस्तत्सन्ततिरस्ति । इदं स्थानं परमं शान्तं शिव यदुत (sss_521) सर्वप्रतिनिस्सर्गः कायिकचैतसिकरागात्यन्तविसंयोगो निरोधो निर्वाणमिति । तत्रेदं दुःखं निरुध्यते । अन्यद्दःखं नोत्पद्यत इति वचने को धर्मो निर्वाणादन्यो भवति । नाप्यस्ति पुनः पृथक् क्षयधर्मः । उत्पन्नमात्रा तृष्णा निरुध्यते, अजाता न जायते । तस्मिन् समये क्षयो नाम । को धर्मः पुनरस्ति क्षय इत्यभिधीयमानः । द्रव्यतो नाभिधातुं शक्यते ।

अथ सत्ता धर्मस्य नामान्तरम् । पञ्चस्कन्धानामभावो निर्वाणमित्युच्यते । तत्राभावो विद्यमानः सन् सत्तेत्युच्येत । इतीदन्तु न सम्भवति । अशेषनिरोधे निर्वाणमित्यभिधीयते । तद्यथा चीवरक्षयः पुनर्न धर्मान्तरमस्ति । तथा नो चेत् चीवरक्षयादिरपि पृथक् धर्मः स्यात् ।

भवानवोचत्- अस्ति निरोधज्ञानमिति । तदप्यबाधितम् । तद्यथा वृक्षच्छेदादौ [वृक्षच्छेद]ज्ञानमुत्पद्यते । न चास्ति पृथक् छेदधर्मः । संस्कारवशात्तत्र ज्ञानमुत्पद्यते । यत् सर्वसंस्काराणामभावः । [तत्] निर्वाणं भवति । यथा यत्र यन्नास्ति तत्र तेन शून्यमिति ज्ञानम् । (पृ) किमिदानीं नास्ति निर्वाणम् । (उ) न नास्ति निर्वाणमिति । किन्तु नास्ति द्रव्यधर्म[रूपम्] । यदि नास्ति निर्वाणम् । तदा सदा सर्वत्र जातिमरणमस्ति । न कदाचिन्मोक्षसमयः । यथा अस्ति घटभङ्गः वृक्षसमुच्छेदः । परं तु नास्ति द्रव्यतो धर्मान्तरमस्तीति । [अनेन] अन्यसत्यादिवचनमपि प्रत्युक्तम् । कस्मात् । अस्ति दुःखनिरोध इत्यतो ऽस्त्यजातो ऽभूतो ऽकृतको ऽसंस्कृत इत्यादिवचनं सर्वमप्रतिहतम् ।

अरणाज्ञानमिति । येन ज्ञानेन न रणायते परेण सह । इदमरणा [ज्ञान]म् । (sss_522) केचिदाहुः- मैत्रीचित्तमिदमिति । मैत्रीचित्तान्न सत्त्वानुपहन्ति । अन्ये केचिदाहुः- शून्यताविहारो ऽयमिति । अनेन शून्यताविहारेण न वस्तुना रणायते । केचिद्वदन्तिनिर्वाणाभिरुचिचित्तमिदमिति । निर्वाणाभिरुच्या हि न रणास्पदमस्ति । केचिद्वदन्ति- चतुर्थध्यानगतं [किञ्चिदिद]मिति । नेदं नियमेन तथा । एतज्ज्ञानभावितचित्तस्यार्हतो नास्ति [रणास्पदं] किञ्चित् ।

प्रणिधिज्ञानमिति । धर्मेषु अप्रतिहतं प्रणिधिज्ञानमित्युच्यते । (पृ) तथा चेत् भगवतो बुद्धस्य केवलमिदं ज्ञानं स्यात् । (उ) एवमेव । बुद्धो भगवानेवैतज्ज्ञानसम्पन्नः । अन्ये [त]द्बलाधिष्ठिता अप्रतिहत[ज्ञानं] विन्दन्ते ।

प्रान्तकोटिकज्ञानमिति । यत् योगी प्रकृष्टमुत्तमं ज्ञानं सर्वध्यानसमाधिभिः परिभावितं परिवर्धितं प्रतिलभ्य [स्व]जीवितस्य बृद्धौ ह्रासे वशितां विन्दते । इदं प्रान्तकोटिकज्ञानमित्युच्यते ॥

पञ्चज्ञानवर्गः षण्णवत्युत्तरशततमः ।

197 षडभिज्ञाज्ञानवर्गः

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.