Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
सत्यसिद्धिशास्त्रम्
- Tác giả
- हरिवर्मन्
- Thông tin
- GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अस्ति षडभिज्ञाज्ञानम् । षडभिज्ञाः- कायर्द्धिः द्वियचक्षुः दिव्यश्रोत्रं परचित्तज्ञानं पूर्वनिवासानुस्मृतिरास्रवक्षय[ज्ञान]मिति । कायर्द्धिरिति । योगी स्वकायादपो ऽग्निञ्चाविष्करोति । विहायसा गच्छति । आविर्भवति । तिरोभवति । सूर्याचन्द्रमसौ परामृशति । ब्रह्माणमीश्वरं नानानिर्मितांश्चाधिगच्छति । ईदृशं कर्म कायर्द्धिः । (पृ) कथमिदं सेत्स्यति । (उ) योगी ध्यानसमाधीनां सम्यक् भावनया विन्दते । यथोक्तं सूत्रे- ध्यानसमाधानस्य बलमचिन्त्यमिति । केचिदाहुः- निर्माणचित्तमव्याकृतमिति । इदमयुक्तम् । यद्ययं योगी परहिताय नानानिर्मितं प्रदर्शयति । कस्मात्तदव्याकृतं भवेत् । केचिदाहुः- कामधातुकचित्तेन कामधातुकनिर्मितं करोति । रूपधातुकचित्तेन रूपधातुकनिर्मितं करोतीति । तदप्ययुक्तम् । चक्षुराद्यपि एवं स्यात् । कामधातुकविज्ञानेन कामधातुकरूपमेव पश्येदित्यादि । यदि रूपधातुकचित्तं कामधातुकचित्तं करोति । को दोषो ऽस्ति । केचिदाहुः- प्रथमध्यानाभिज्ञया ब्रह्मलोकं गच्छति यावच्चतुर्थध्यानाभिज्ञया रूपपर्यन्तं गच्छतीति । इदमप्ययुक्तम् । इन्द्रियबलवशात् यत्र कुत्रचित् गच्छति । यदि तीक्ष्णेन्द्रियः, प्रथमध्यानाभिज्ञया चतुर्थध्यानमनुप्राप्नोति । मृद्विन्द्रियो द्वितियध्यानाभिज्ञयापि न प्रथमध्यानमुपयोजयति । यथा महाब्रह्मा [सहां] पतिः ध्यानस्यान्तरमनुप्राप्तः । न तत्रास्ति [तस्या]भिज्ञा । प्रथमध्यानबलेन अन्यान् ब्रह्मदेवाननुप्राप्नोति । नैव तु प्रथमध्यानेन ब्रह्मावासं प्रजानाति । भगवान् पूर्वनिवासेन आरूप्यमनुस्मरति । यथोक्तं सूत्रे रूपे वा आरूप्ये वा पूर्वतनीनमुपपत्त्यायतनं भगवान् सर्वं प्रजानाति । अतो नास्ति नियमः ।
केचिदाहुः- दिव्यचक्षुः प्रज्ञास्वभावमिति । तदप्ययुक्तम् । दिव्यचक्षुरालोकवशेन सिद्धम् । प्रज्ञा तु नैवम् । (पृ) सूत्र उक्तम्- आलोकलक्षणं भावयन् ज्ञानदर्शनं साधयति इति । ज्ञानदर्शनमेव दिव्यचक्षुः । (उ) मैवम् । अपि चाह- दिव्यश्रोत्रं न प्रज्ञास्वभावमिति । तत् श्रोत्रमित्याख्यायते इति । अतो न प्रज्ञास्वभावम् । दिव्यचक्षुः प्रत्युत्पन्नं रूपमालम्बते । न तथा मनोविज्ञानम् । दिव्यचक्षुर्विभङ्गे चोक्तम्- ज्ञानं सत्त्वकर्मविपाक[भूत]म् । चक्षुर्विज्ञानस्य नास्ति बलमिदम् । किन्तु मनोविज्ञानस्य ज्ञानं चक्षुर्विज्ञानप्रयोगकाले समुत्पद्यते । अतो ध्यानसमाधिभ्य उत्पन्नं रूपं दिव्यचक्षुरित्युच्यते । (पृ) दिव्यचक्षुषः संस्थानं किं महत् किं वाल्पम् । (उ) तारकाप्रमाणसदृशम् । (पृ) अन्धस्य कथम् । (उ) चक्षुरायतनेन सहैव भवति । (पृ) किं दिव्यचक्षुरेकं उत द्वे । (उ) द्वे भवतः । (पृ) यां काञ्चिद्दिशमनुपश्यति । (उ) सर्वा दिशो व्याप्य पश्यति । (पृ) किं निर्मिते ऽप्यस्ति । (उ) नास्ति । निर्मातुरस्ति । दिव्यश्रोत्रवादो ऽप्येवम् ।
योगी तत् परचित्तं वेत्ति । यत् परचित्तज्ञानम् ।(पृ) कस्मान्नोच्यते परचैतसिकज्ञानम् । (उ) अस्मादेव कारणान्नास्ति पृथक् चैतसिकम् । परकीयसंज्ञावेदनादीनां ज्ञानमपि परचित्तज्ञानमेव । केचिदाहुः- ज्ञानमिदं सजातीयालम्बनम् । यथा सास्रवेण सास्रवं जानाति अनास्रवेण अनास्रवं जानाति इति । तदयुक्तम् । नेमे वदन्ति कारणनियमम्- अनेन कारणेन सजातीयमेवालम्बनं जानातीति । केचिद्वदन्ति- प्रत्युत्पन्नमात्रालम्बनमिति । तदप्ययुक्तम् । किञ्चिदनागतालम्बनम् । यथा कश्चिदवितर्कसमाधिमुपसम्पन्नः प्रजानाति अस्मात् समाधेर्व्युत्थिते एवमेवं वितर्को भविष्यतीति । केचिद्वदन्ति- ज्ञानमिदं न मार्गसत्यं प्रजानातीति । तदयुक्तम् । यदि प्रजानाति । को दोषः । आह च- प्रत्येकबुद्धो मार्गसत्यदर्शनगततृतीयचित्तं ज्ञास्यामीति सप्तमं चित्तमेव पश्यति । श्रावकस्तृतीयचित्तं ज्ञास्यामीति षोडशं चित्तमेव पश्यति । किमयं न मार्गसत्यदर्शनं प्रजानाति । केचिदाहुः- ज्ञानमिदं न प्रजानाति ऊर्ध्वभूमिमूर्ध्व[भूमि]पुद्गलमूर्ध्वमिन्द्रियमिति । इदमप्यनियतम् । देवा अपि प्रजानान्ति भगवतश्चित्तम् । तद्यथा भगवानेकदा परिषदं विहाय पुनर्ग्रहणेच्छामन्वस्मरत् । तत् सर्वं ब्रह्मा प्राजानत् । किञ्चैकस्मिन् समये मनस्यचिन्तयत्- राजा भूत्वा (sss_525) यथाधर्मं लोकं विनेष्यामीति । मारस्तदेव ज्ञात्वा समागत्यायाचत । देवा अपि जानन्ति- अयमर्हन् यावदयं स्रोतआपत्तिप्रतिपन्नक इति । भिक्षवो ऽपि प्रजानन्ति भगवतश्चित्तम् । तद्यथा भगवति परिनिर्वाणाभिमुखे सति अनिरूद्धो भगवतोपसम्पन्नान् ध्यानसमाधीन् यथाक्रममजानीत् । केचिदाहुः- ज्ञानमिदं नारूप्यं प्रजानातीति । इद मयुक्तम् । भगवान् हि पूर्वनिवासा[नुस्मृत्या] आरूप्यं प्रजानाति । परचित्तज्ञानेनापि तथा ज्ञाने को दोषः ।
(पृ) कथं परिचित्तं जानाति । (उ) आलम्बने सति जानाति । यदि चित्तं रूपावचरं, रूपालम्बनं चित्तं भवति । इत्यादि । (पृ) तथा चेत् परचित्तं सर्वधर्मालम्बनं स्यात् । (उ) एवमेव [स्यात्] । यदि न जानात्यालम्बनं, कतमत् चित्तं जानीयात् । यथोक्तं सूत्रे- भवतश्चित्तमेवमेवमिति प्रजानामि इति । इदमेव रूपाद्यालम्बनम् ।
परचित्तज्ञानं त्रिविधम्- निमित्तज्ञानं, विपाकप्रतिलब्धं, भावनाप्रतिलब्धमिति । निमित्तज्ञानमिति यथा अङ्गमन्त्रादिना जानाति । विपाकप्राप्तमिति यथा असुरादीनाम् । भावनाप्रतिलब्धमिति ध्यानसमाधिभावनाबलप्रतिलब्धं परचित्तज्ञानम् । इदमेव षडभिज्ञासु भावनाप्रतिलब्धमित्युच्यते ।
यदतीताध्वनीस्कन्धानामनुस्मरणं [तत्] पूर्वनिवासानुस्मरणम् । (पृ) केषां स्कन्धानामनुस्मरणं करोति । (उ) स्वस्कन्धान् परस्कन्धानसत्त्वस्कन्धांश्चानुस्मरति । जिनानां स्कन्धाननुरमरन्नपि तेषां शीलादीन् धर्माननुस्मरति । केन तत् ज्ञायते । यथा शारिपुत्रः भगवन्तं प्रत्याह- अहमतीतानागतानां तथागतानां चित्तमजानन्नपि तेषां धर्मं जानामीति । शुद्धावासा देवास्तथागतचित्तं जानन्तीत्यतो भगवन्तमुपसम्पद्याहुः- अतीततथागतानां भगवन् इर्यापथो ऽप्येवमिति ।
(पृ) पूर्वनिवासा[नुस्मृति]विभङ्गे कस्मादुक्तं सह निमित्तेन सह जात्येति । (उ) अनुस्मृतिर्विशदेत्यत एवं निमित्तसंज्ञामवोचत् अमुकः पुद्गलः इत्यादि । वस्तुविज्ञानेन निमित्तमित्युच्यते । जातिर्नाम गोत्रम् । यथाहुः- इदं तव कुलं इयं तव जातिरिति । जातिं निमित्तञ्च मिलित्वा वदतीत्यतो ज्ञानदर्शनं विशुद्धम् । (पृ) कस्माद्विशदानुस्मरणं भवति । (उ) अतीतधर्मा निरुद्धा न निमित्तानि । अथापि तान् ज्ञातुं प्रभवतीदमद्भुतम् । (sss_526) कश्चिन्निमित्ताभ्युहेन जानन् न विशदं जानाति । यज्जिनौरसाः [ते] ऽपि पुनरेवम् । अतो जातिं निमित्तं मिलित्वोक्तम् ।
कश्चित् पूर्वनिवासज्ञानं प्रयोजयति । कदाचित् समार्गया चिन्तामयप्रज्ञया प्रजानात्यतीतमध्वानम् । यथा संस्कारप्रत्ययं विज्ञानम् । अनयोर्द्वयोश्चिन्तामयी प्रज्ञा विशिष्यते । कस्मात् । अस्ति हि पुद्गलस्य अष्टमहासहस्रकल्पान् जानतो ऽपि नास्तीयं चिन्तामयी प्रज्ञा । अतो मिथ्यादृष्टिरुत्पद्यते । यदि त आगतं जरामरणं भवति । तदतीत्य न पुनरस्ति [इति] । समार्गचिन्तामयप्रज्ञस्य नैवास्ति तच्चित्तम् ।
(पृ) केचिदाहुः- ज्ञानमिदमतीतं क्रमशो ऽनुस्मरतीति । तदयुक्तम् । यदि क्षणक्रमेणानुस्मरति । एकस्मिन्नेव कल्पे वस्तु दुर्विज्ञेयं सर्वतः । किं पुनरप्रमाणकल्पे (पृ) सूत्रे कस्मादुक्तम्- अहमेकनवतिकल्पानागत्य नापश्यं [किमपि] दानमपचीयमानं विना विपाकेन इति । (उ) भगवानत्र सप्तबुद्धान् साक्षीचकार । दीर्घायुष्काः शुद्धावासा अपि बुद्धैर्न समदर्शिनः । भगवान् यथाभूतज्ञानं प्रतिलब्धवानित्यतः परिशुद्धगुणः । यदि सत्करोति [तथागतं] स उभयोर्लोकयोः पुण्यमनुप्राप्नोति । अत एतदुभयमुक्तम् ।
केचिदाहुः- ज्ञानमिदं नोर्ध्वभूमिं प्रजानातीति । तदयुक्तम् । ऊर्ध्व[भूमिक] कायर्द्ध्यादौ प्रत्युक्तमेव । (पृ) यदि स्मृतिस्वभावमिदम् । कुतो ज्ञानमित्युच्यते । (उ) स्मृतिर्निमित्तमनुसम्भवति । अतीतं न निमित्तम् । अथाप्यनुस्मरति । प्रज्ञाविशेषमेव स्मृतिरिति ब्रूमः ।
पूर्वनिवासानुस्मृतिस्त्रिविधा- पूर्वनिवासज्ञानप्रयोगिणी, विपाकप्रतिलब्धा, पुनरात्मस्मृतिसञ्जननीति । पूर्वनिवासज्ञानं भावनाप्रतिलब्धम् । विपाकप्रतिलब्धमिति यथासुरादीनाम् । पुनरात्मस्मृतिसञ्जननी यन्मनुष्यगतौ भवति । (पृ) केन कर्मणा पुनरात्मसञ्जननी भवति । (उ) सत्त्वानामविहिंसनेन कर्मणा प्रतिलभते । कस्मात् । मरणकाल उपपत्तिकाले च दुःखाभिहतत्वान्मुषितस्मृतिर्भवति । तत्रामोषणं दुर्लभम् । अतः कुशलं कर्मापेक्ष्यते । केचिद्वदन्ति- इदमतीतं सप्ताध्वपरममनुस्मरतीति । नायं नियमः । कश्चित् प्रत्यध्वमविहिंसनधर्मसुभावितत्वात् सुचिरं विप्रकृष्टञ्चानुस्मरति ।
आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेति । वज्रोपमसमाधिरयम् । (sss_527) वज्रोपमसमाधिरयमास्रवक्षयरूपः अनावरणमार्गः । आस्रवक्षयः अशैक्षज्ञानमित्युच्यते । वज्रोपमसमाधिना आस्रवाणां निरोधः क्षयः । [स] आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेत्युच्यते । (पृ) अन्ये ऋद्धि[पादा] अपि वक्तव्याः; केन धर्मेण साक्षात्करोति । (उ) उक्तमेव पूर्वं ध्यानसमाधीन् गभीरं भावयन् ऋद्धिपादान् साक्षात्करोतीति । यत्प्रयोजनमनुसृत्य साक्षात्कारः साक्षात्कृतं वस्तु, [स] सर्व ऋद्धिपादः ।
केचिदाहुः- सर्व आर्यमार्गा अस्रवक्षयस्योपायाः । यथोक्तं सूत्रे- तथागते लोक उत्पन्ने सुपुरुषा धर्मं श्रुत्वा प्रव्रजिताः शीलं समाददाना अपनीतपञ्च नीवरणाः समाधिं भावयन्तः सत्यं पश्यन्ति इत्यादि सर्वमास्रवक्षयस्योपायाः । केचिदाहुः- दानादयः कुशलधर्मा अपि आस्रवक्षयस्य निदानानि । यथोक्तं सूत्रे- योगिनो दानं क्षीणास्रवशून्यानात्मज्ञानं साधयतीति । इदमुच्यते तत्त्वत आस्रवक्षयसाक्षात्काराभिज्ञा इति । अस्यैव धर्मस्य नामान्तरं वज्रोपमसमाधिरिति । निमित्तानि समूहन्तीति वज्रत्वम् । तीर्थिकाः पञ्चाभिज्ञा भवन्ति । तैरस्य तत्त्वज्ञानस्याप्रतिलब्धत्वात् ।
(पृ) अनात्मज्ञानेन आत्मदृष्टिं भिन्द्यात् । कथमनेन कामप्रतिघादि प्रजहाति । (उ) अनात्मज्ञानेन सर्वाणि निमित्तानि निरुन्धे । निमित्ताभावात्सर्वे क्लेशा निरुध्यन्ते । (पृ) अद्येन अनात्मज्ञानेन निमित्तानि निरुन्धे । द्वितीयज्ञानादिना क उपयोगः (उ) निमित्तानि निरुद्धान्यपि पुनरुत्पद्यन्ते । अतो द्वितीयाद्यपेक्षते । (पृ) यदि निरुद्धं पुनरुत्पद्यते । तदा अनवस्थं निमित्तं भवति । तथा सति नार्हन्मार्गः । (उ) अस्त्यवस्था । यथा पश्यामः स्तन्यं शुष्यत् पुनः प्रस्रवति । अस्ति कश्चित् कालः [यदा] स्तन्यं प्रतिरुद्धपयःप्रसूति भवति । तदा अवधिर्भवति । निमित्तमप्येयम् । यथा च तप्ते ऽयसि कृष्णलक्षणं निरुद्धं पुनरुत्पद्यते । यावल्लोहितलक्षणमुत्पद्यते । स समयो ऽवधिरित्युच्यते । कललादयो दृष्टान्ता अप्येवम् । यस्मिन् समये निमित्तानि निरुद्धानि न पुनरुत्पद्यन्ते । स समयो ऽर्हन्मार्गप्रतिलम्भः । (पृ) किमर्हतो ऽत्यन्ताभावरूपाणि निमित्तानि । (उ) यदा असमाहितचित्तस्थः, तस्मिन् समये सन्त्यपि रूपादिनिमित्तानि । किन्तु न दोषजनकानि । यदि किश्चित् चक्षुषा रूपाणि दृष्ट्वा मिथ्यामनस्कारेण मिथ्या विकल्पयति । तदा दोषाजनकानि भवन्ति ।
(पृ) किमनात्मशून्यज्ञानम् । (उ) यद्योगी पञ्चसु स्कन्धेषु प्रज्ञप्तं सत्त्वं न पश्यति । धर्मशून्यत्वात् रूपकायनिरोधं यावद्विज्ञाननिरोधं पश्यति । इदमुच्यते अनात्मशून्यज्ञानम् । (sss_528) (पृ) प्रज्ञप्तिकृता धर्मा नित्यवर्तिनः । [तेषु] तृष्णादयः क्लेशा अपि प्रहेयाः । यथोक्तम्- पदार्था नित्यस्थायिनः । व्यवसायी तु [तत्र] कामतृष्णां प्रजहाति इति । किं निरोधलक्षणमपेक्षते । (उ) सूत्र उक्तम्- यत्किञ्चित्समुदयधर्म, तत्सर्वं निरोधधर्म । तेषु धर्मेषु विरजो धर्मचक्षुः प्रतिलभत इति । यो निरोधेन प्रहाणं तदत्यन्तप्रहाणम् । कश्चिद्योगी रूपेषु वीतरागः कामप्रतिघं क्षपयति । तदर्थं भागवानीदृशीं गाथामवोचत् । किञ्चाह- संस्काराः स्वभावशून्या मायावत् । प्राकृता अज्ञा वदन्ति- ते वस्तुसन्त इति । शैक्षाः पुनः प्रजानन्ति- ते तुच्छा रिक्ता मायावदिति । अर्हन्नपि मायां [किं] न पश्यति । अतो ज्ञायते यया प्रज्ञया धर्माणां निरोधं साक्षात्करोति इयमास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञेति ॥
षडभिज्ञावर्गः सप्तनवत्युत्तरशततमः ।
198 ज्ञानक्षान्तिवर्गः
(पृ) सूत्र उक्तम्- यो योगी सप्तभिरुपायैस्त्रिभिरर्थावलोकनैः समन्वितः सो ऽस्मिन् धर्मे क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । किमिदं ज्ञानम् । (उ) सप्तोपाया नाम श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा च । कस्मात् । असमाहितचित्त एवं विचारयति- यदिदं रूपम्, अयं रूपसमुदयः अयं रूपनिरोधः इयं रूपनिरोधगामिनी प्रतिपत्, [अयं] रूपास्वादः, [अयं] रूपादीनवः इदं रूपनिस्सरणं इति । (पृ) यदीयं श्रुतमयी चिन्तामयी प्रज्ञा । कस्मादाह- क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । (उ) यद्यपीयं श्रुतमयी चिन्तामयी प्रज्ञा तथाप्येवं पञ्चस्कन्धान् विकल्पयन् आत्ममतिं विभेदयति । अत आह- क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । त्रिविधावलोकनज्ञानं यदुत संस्कारा अनित्या दुःखा अनात्मान इति । स्कन्धधात्वायतनमुखेन संस्कारान् पश्यतो नास्त्यर्थो हितं वा । (पृ) तथा चेत् पूर्वमादीनव उक्तमेव- अनित्या दुःखा इति । निस्सरणे चोक्तम्- अनात्मान इति । कस्मात्पुनरुच्यते त्रिविधमिदमवलोकनमिति । (उ) त्रिविधाः शिक्षते- पूर्वं श्रुतमयीं चिन्तामयीं प्रज्ञाम् । पश्चात् भावनामयीं प्रज्ञाम् । पूर्वं श्रुतमय्यां चिन्तामय्यां प्रज्ञायामुक्ताः सप्त प्रकाराः । पश्चाद्भावनामय्यां प्रज्ञायां त्रयः प्रकाराः । कस्मात् । यदनित्यं तत् दुःखमिति लक्षणस्य भङ्गो (sss_529) नाम अनित्यस्य भङ्गः नानित्यसंस्काराणां भङ्गः । पूर्वं कामकषायोत्सर्ग उक्ते ऽपि नोक्तं कथमुत्सृजतीति । पश्चात्ताबदुक्तं त्रिविधमर्थावलोकनम् ।
(पृ) कतमा अष्ट क्षान्तयः । (उ) यत्किञ्चित् ज्ञानं प्रज्ञप्तिविदारणम्, इयं क्षान्तिरित्युच्यते । क्षान्तिरियमूष्ममुर्धक्षान्तिलौकिकाग्रधर्मेष्व[स्ति] । (पृ) योगिनो ऽपि बुद्धे धर्मे सङ्घे शीलदिषु क्षान्तिरस्ति । कस्मादुक्तमष्टाविति । (उ) प्राधान्यादुक्तम् । प्राधान्यं मार्गप्रत्यासन्नता । यथा दुःखे धर्मज्ञानाय दुःखे धर्मक्षान्तिरित्येवमादि । कस्मात् । पूर्वं हि मार्गानुकूलां चिन्तामयीं प्रज्ञां प्रयुज्य पश्चात्प्रत्यक्षज्ञानमनुप्राप्नोति । यथा हस्तिपकः पूर्वं हस्तिपदं दृष्ट्वा तेन ज्ञानेन प्रजानाति- अत्र वर्तत इति । पश्चादभिमुखीकरोति । तथा योग्यपि पूर्वं क्षान्त्यान्वयज्ञाने न निर्वाणमभ्यूह्य पश्चात् तेन ज्ञानेनाभिमुखीकरोति । अतः सूत्र उक्तम्- [एवं] जानन्[एवं] पश्यन् आस्रवक्षयमनुप्राप्नोतीति ॥
ज्ञानक्षान्तिवर्गो ऽष्टनवत्युत्तरशततमः
199 नवज्ञानवर्गः
(पृ) केचिदाभिधर्मिका वदन्ति अर्हन् क्षयज्ञानं साक्षात्कुर्वन् सांवृतानि नव ज्ञानानि प्राप्नोति यदुत कामधातुप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञानं] यावन्नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञान]म् । कथमिदम् । (उ) न सर्वो ऽर्हन् सर्वान् ध्यानसमाधीन् प्राप्नोति । कथं नव ज्ञानानि प्राप्नुयात् । (पृ) सर्वो ऽर्हन् ध्यानसमाधीन् प्राप्नोति । न तु सर्वः समापत्तिमभिमुखीकरोति । (उ) यदि समापत्तिं नाभिमुखीकरोति । कतमा प्राप्तिर्नाम । यथा कश्चिदाह- ग्रन्थं जानामि, तदक्षरमेकन्तु न विजानामीति । तथेदमप्यस्ति । (पृ) यो वीतरागः सन् न प्रथमध्यानसमापत्तिं नाद्यापि प्रत्यक्षीकृतवान् । स आयुषो ऽन्ते [ऽपि] न तामुत्पादयति । (उ) सूत्रे तूक्तम्- अस्मिन्नन्तराले समापद्य पश्चात्तां समुत्पादयेदिति । इदानीं कथमस्मिन्नन्तराले ऽसमापन्नस्तां समुत्पादयति । (पृ) यदि (sss_530) रागाद्विरज्यमानस्यातीतानागतानि सर्वाणि ध्यानानि मूलतः प्राप्नानि । तद्विपाकेन [त]दुत्पत्तिं प्राप्नोति । (उ) अनागतं कर्म अकृतमभूतं न विपाकं प्रापयति । अतीतानि ध्यानानि चित्त उत्पन्नचराणि यदि विपाकं प्रयच्छन्ति । तदा अविद्यमानताहानिः । किञ्च नानागतकर्माणि प्राप्नुयात् । यदि प्राप्यमिति, अनागतं सर्वं प्राप्यं स्यात् । कस्य प्रतिबन्धात् प्राप्त्यप्राप्ती स्तः ।
(पृ) यद्यनागतो धर्मो न प्राप्य इति । शैक्षो नाष्टभिरङ्गैः समन्वितः स्यात् । अशैक्षो ऽपि दशभिरङ्गैः समन्वितः । कस्मात् । यस्य द्वितीयध्यानादि निश्रित्य सम्यक् धर्मनियामावक्रान्तिर्भवति । सो ऽनागते सम्यक्सङ्कल्पं प्राप्नोति । यदि योगी क्षयज्ञानमभिमुरवीकरोति । तदानागते ऽध्वनि सम्य् दृष्टिं प्राप्नोति कश्चिदारूप्यसमाधिं निश्रित्यार्हत्फलं प्राप्नोति । अयमनागते सम्यक्सङ्कल्पं सम्यग्वाचं सम्यक्कर्मान्तं सम्यगाजीवं प्राप्नोति । यदि तृतीयध्यानादि निश्रित्यार्यमार्गं प्राप्नोति । सो ऽनागते प्रीतिं प्राप्नोति । एवमादयो धर्मास्तदा न स्युः । अतो ज्ञायते अस्त्यनागतो धर्म इति । यदि च नास्ति अनागत[धर्मः] कथं भावको फलानि ध्यानसमाध्यादीननुप्राप्स्यति । योगी यदा मार्गान्वयज्ञाने वर्तते । प्रथमफलसङ्गृहीतानि सर्वाणि ज्ञानानि समाधींश्च सर्वथानुप्राप्नोति । तथा नो चेत् फलानि गणयित्वा गणयित्वानुप्राप्नुयात् । कस्मात् । फलानि सर्वाण्यभिमुखीकाले प्राप्नुयादितीदं न सम्भवति । अतो ज्ञायते भवेदनागते भावनेति ।
उच्यते । यत् भवतोक्तम्- अङ्गैः समन्वित इति । इदमबाधितम् । कस्मात् । शीलाद्यङ्गानि क्रमशः प्राप्यन्ते नैककालमिति ब्रूमः । अतो नास्ति दूषणम् । यदुक्तं भवता केषाञ्चित्प्राप्तिस्तज्जातीयाता[मपि] । योगिनः [कुत्रचित्] दुःखज्ञानप्राप्तावन्यदुःखज्ञानजातिः प्राप्ता भवति । यथा मनुष्यजातिः प्राप्तेत्यतो मनुष्यलक्षणं प्राप्तं भवति । नापि प्रतिक्षणं क्रमशो मनुष्यलक्षणं प्राप्तमिति । तथेदमपि । (पृ) योगिनो विद्यमानदुःखादीनां ज्ञानानि क्रमिकाणीति सर्वं परिहृतमेव । स्रोतआपत्तिफलसङ्गृहीतानां ज्ञानानां प्राप्तिः पुनरैककालिकी । (उ) अनास्रवज्ञानानि प्राप्तानि तु न परिहीयन्ते । (पृ) यदि पूर्वं (sss_531) प्राप्तानि न परिहीयन्ते । तदा प्राप्तिः प्रयोग इति नास्ति भेदः । कस्मात् । प्राप्तफल एव योगी इत्यादिदोषः । (उ) यदि नास्ति विशेषः । किमवद्यं भवति । यथा सम्पन्नफलो ऽपि योगीत्युच्यते । तथेदमपि । पुद्गलो ऽयं पुनर्विशिष्टं धर्मं प्राप्नोतीत्यतो ऽस्ति प्रविभागः । अतो नास्ति दोषः । यथा समापत्तपञ्चशीलः पुनः प्रव्रज्यासंवरमनुप्राप्नुवन्नपि न मौलिकशीलेभ्यः परिहीयते । प्राप्तफलस्य च मार्गादर्शनादस्ति प्रविभागः । यथा कश्चिदादौ वस्तु जानन्नपि विशिष्टवस्तु[दर्शनाय यतत] इति प्रविभागो ऽस्ति । तथे दमपि । अतो ज्ञायते नास्त्यनागतस्य प्राप्तिरिति । किञ्च योगी शून्यानात्मज्ञाने विहरति । तस्मिन् समये कथमनुप्राप्नोति लौकिकं धर्मम् । अतो ज्ञायते क्षयज्ञानप्राप्तौ न लौकिकज्ञानमनुप्राप्नोतीति ।
(पृ) इमानि लौकिकज्ञानानि क्षयज्ञानेन सहार्हतः समाधिसमापत्तिव्युत्थानचित्तक्रियां प्रापयन्ति । (उ) अर्हतश्चित्तं सन्तानेन प्रवर्तमानं प्रतिक्षणं विशुद्धम् । यदि पुनर्नवज्ञानानि प्राप्नोति । चक्षुरादि सर्वं पुनः प्राप्येत । तथा नो चेत् न नवज्ञानानि प्राप्नुयात् । उक्तञ्च- अनागतभावनाया नास्ति हेतुः प्रत्ययो वा इति । कस्मात् । एते हि वदन्ति- सत्यदर्शनमार्गे केवलं निमित्ताभासं ज्ञानं भावयति । चिन्तनामार्गे ऽपि निमित्ताभासमनिमित्ताभासञ्च भावयति । सत्यदर्शनमार्गे नोर्ध्वभूमिं भावयति । चिन्तनामार्गे तु भावयति । मार्गान्वयज्ञाने न सांवृतं कुशलं भावयति । अन्यस्मिन् ज्ञाने तु भावयति । आनन्तर्यमार्गे न परचित्तज्ञानं भावयति । श्रद्धाविभुक्तो दर्शनप्राप्तत्वेन परिवर्तमानः सर्वस्मिन्नानन्तर्यविमुक्तिमार्गे न सांवृतं मार्गं भावयति । समयविमुक्तः अकोप्यविमुक्ततया परिवर्तमानो नवानन्तर्य[मार्गेषु] अष्टविमोक्षमार्गेषु संवृतं मार्गं न भावयति । नवमे विमुक्तिमार्गे [तु] भावयति । सूक्ष्मचित्ते न भावयति सर्वमनास्रवम् । एत्येवमादीनां सर्वेषां नास्ति कारणम् । अतो भवान् यदि वा सम्यग्द्येतुं ब्रूयात् यदि वा श्रद्धापयेत् । किञ्च शैक्षभावनया भावना भवति । ऊष्म[गता]दिषु स्थितिकाले उत्तमानि सर्वाणि कुशलमूलानि भावयति । सर्वथा प्रकर्षकरणार्थत्वात् । यथा सूत्रमधीयानस्य सर्वथा वैशद्योपकारो भवति । अत ऊष्मगतादिधर्मकालात् यावत् क्षयज्ञानं सर्वेषां भावना भवति । तथा नो चेत् सद्धेतुर्वक्तव्यः ॥
नवज्ञानवर्ग एकोनद्विशततमः ।
200 दशज्ञानवर्गः
दश ज्ञानानि- धर्मज्ञानं अन्वयज्ञानं, परचित्तज्ञानं संवृतिज्ञानं, चत्वारि सत्यज्ञानानि, क्षयज्ञानमनुत्पादज्ञानमिति । प्रत्युत्पन्नधर्मज्ञानमेव धर्मज्ञानमित्युच्यते । यथोक्तं सूत्रे- भगवानानन्दमामन्त्र्याह- अस्मिन् धर्मे एवं ज्ञानेन दृष्ट्वा एवं प्रतिबुध्यस्व । अतीते ऽनागते ऽप्येवं जानीहीति । वक्तव्यं प्रत्युत्पन्नधर्मज्ञानमिति । इदानीं प्रत्युत्पन्नमनुक्त्वा केवलमुच्यते धर्मज्ञानमिति । यथोक्तं सूत्रे- बालः प्रत्युत्पन्नं धर्मं बहुमन्यते । ज्ञानी अनागतं बहुमन्यत इति । किञ्चाह- प्रत्युत्पन्नाः कामा अनागताः कामाश्च मारसेना मारधेया मारबन्धना इत्यादौ सर्वत्रोच्यते प्रत्युत्पन्नवादः । इदं संक्षिप्यवचनात् केवलं धर्मज्ञानमित्युच्यते ।
अवशिष्टधर्मज्ञानमन्वयज्ञानमिति वदन्ति । अवशिष्टा इति यदुतातीता अनागता धर्माः । प्रत्युत्पन्नधर्माननु पश्चात् जानातीति अन्वयज्ञानम् । कस्मात् । दृष्टधर्मज्ञानपूर्वकं हि अन्वयज्ञानम् । धर्मज्ञानं नाम दृष्टज्ञानमित्युच्यते । एतद्धर्मज्ञानमनुसृत्य वितर्कितं ज्ञानमन्वयज्ञानमित्युच्यते । (पृ) अन्वयज्ञानमिदमनास्रवं ज्ञानम् । अनास्रवं ज्ञानं कथमन्वयज्ञानं भवति । (उ) लोके ऽप्यस्त्यन्वयज्ञानम् । कस्मात् । धर्मज्ञानमन्वयज्ञानं परचित्तज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानञ्च सर्वं सास्रवमनास्रवमस्ति । इमानि ज्ञानानि ऊष्मगतादिधर्मेषु सास्रवाणि नियामावक्रान्तिप्राप्याणि अनास्रवाणि ।
(पृ) केचिदाहुः- काम[सम्प्रतियुक्तेषु] संस्कारेषु [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] हेतौ [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] निरोधे [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] प्रहाणाय मार्गे [यदनास्रवं] ज्ञानम्, इदमुच्यते धर्मज्ञानम् । रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां (sss_533) संस्काराणां हेतौ यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां निरोधे यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम्, इदमुच्यते ऽन्वयज्ञानम् इति । कथमिदम् । (उ) उक्तं हि सूत्रे- भगवानानन्दमामन्त्र्याह- अतीतए ऽनागते चैवं प्रजानीहीति । न किञ्चित्सूत्रमाह- रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु ज्ञानमन्वयज्ञानमिति । किञ्चोक्तं सूत्रे- योगी अनुस्मरेत्- अहमिदानीं दृष्टरूपेणोपद्रुतो भवामि । अतीते ऽपि रूपेणोपद्रुतो ऽभवम्, अनागते ऽपि रूपेणोपद्रुतो भविष्यामीति । अपि चोक्तं सूत्रे- जातिप्रत्ययं जरामरणम् । अतीते ऽनागते ऽप्येवं स्यादिति । तथावोचदश्वघोषबोधिसत्त्वो गाथाम्-
प्रत्यक्षमालोक्य च जन्म दुःखं दुःखं तथातीतमपीति विद्धि । यथा च तत् दुःखमिदञ्च दुःखं तथानागतमप्यवेहि । [बीजस्वभावो हि यथेह दृष्टो भूतो ऽपि भव्यो ऽपि तथानुमेयः ।] पत्यक्षतश्च ज्वलनो यथोष्णो भूतो ऽपि भव्यो ऽपि तथोष्ण एव ॥ इति ।
एवमादि दुःखं महावैभाषिका अपि वदन्ति ।
अतीतानागताध्वनीनधर्मज्ञानमेवान्वयज्ञानम् । अस्य च युक्तिरस्ति । कस्मात् । योगी हि अतीते ऽनागामिनि प्रत्युत्पन्ने च दुःखे निर्विद्यते । निर्वेद एव एषु धर्मेषु तत्त्वज्ञानप्रादुर्भावः । यथा प्रत्युत्पन्नाः संस्कारा दुःखम् । तथातीता अनागताः संस्कारा अपि दुःखम् । केन ज्ञानेन अतीतानागतान् धर्मान् जानाति । यदीदं धर्मज्ञानम् । रूपारूप्यसम्प्रतियुक्ताः संस्कारा अपि सन्त्यतीता अनागताः । तेषां ज्ञानमपि धर्मज्ञानं स्यात् । तथा च धर्मज्ञानमेव नान्वयज्ञानमस्ति । यदि रूपारूप्यसम्प्रतियुक्तेषु अतीतानागतेषु संस्कारेषु ज्ञानान्तरमस्तीति । कामसम्प्रतियुक्तेष्वतीतानागतेषु संस्कारेषु च ज्ञानान्तरं भवेत् । तदर्थमेव आभिधर्मिका आहुः- अस्ति प्राप्तिरप्राप्तिरित्यतो ऽनुपूर्वेण सत्यं पश्यतीति । कामधातुसम्प्रतिसंयुक्तं दुःखं प्राप्तिः । रूपारूप्यसम्प्रतियुक्तं दुःखमप्राप्तिः । अत एकस्मिन् समय उभयज्ञानं न सम्भवति । यद्यप्राप्तिर्दुःखमन्वयज्ञानेन ज्ञायते । इदानीं कामधातावप्राप्तिर्दुःखमपि अन्वयज्ञानेन ज्ञायेत ।
(पृ) केन ज्ञानेन संयोजनप्रहाणमार्गो भवति । (उ) [तत्र] धर्मज्ञानमात्रमुपयुज्यते । अन्वयज्ञानमुपायमार्गे वर्तते । (पृ) किं धर्मज्ञानमुपयुज्यते । (उ) दुःखे धर्मज्ञानं निरोधे धर्मज्ञानञ्चोपयुज्यते । कस्मात् । योगी अनित्यं दुःखमिति पश्यन् शून्यमनात्मेति पश्यति । तस्मिन् समये संस्काराणां निरोधं साक्षात्करोति । अन्यत् ज्ञानं सर्वमुपायः । (पृ) किं दुःखं दृष्ट्वा निरोधो भवति । (उ) वेदनाः दुखं पश्यति । तत्रात्ममतिरुत्पद्यते । अतस्तासामपि निरोधं पश्यति । यथोक्तम्- अध्यात्मविमुक्तत्वात् तृष्णायाः क्षये निरोधे स्वत एवार्हन् प्राप्त इत्युच्यते । इति । (पृ) ननु सूत्रे किं नोक्तं सर्वसंस्काराणां प्रहाणं प्रहाणलक्षणमिति । (उ) अयं योगी अध्यात्मनिरोधं साक्षात्कृर्वन् सर्वत्र निर्विण्णः । किञ्च योगी अध्यात्मनिरोधमवश्यं साक्षात्कुर्यात् । नान्यदवश्यनियतम् ।
(पृ) सत्येषु कथं ज्ञानं भवति । (उ) जातिर्दुःखमित्यादि ज्ञानं भवति । (पृ) इदमसमाहितं चित्तम्, कथं ज्ञानं जनयति । (उ) एवं दर्शने सति स्कन्धानामनित्यतादिदोषमपि दृष्ट्वा दुःखनात्मसंज्ञां जनयति । यथोक्तं सूत्रे- [यत्] दुःखं तदनित्यम्, यदनित्यं तदानात्म इति । कस्मात् । चक्षुरादीनामिन्द्रियाणामुत्पादो ऽस्ति व्ययो ऽस्ति । यद्ययमात्मा, आत्मन उत्पादो व्ययः स्यादित्यतो ज्ञायते अनात्मेति । इदञ्च चक्षुराद्युत्पद्यमानं न कुतश्चिदागच्छति । कृतकमस्तीत्यतो ऽनात्मेत्युच्यते । सूत्रे चोक्तं- नास्ति कारक इति । अतो ज्ञायते यदनित्यं तदनात्मेति । एवं योगिनः सम्यक् अनित्यमनात्म च भावयतः कायचित्तमुपशाम्यति । सर्वसंस्कारेषु समुत्पन्नेषु तेषां विहिंसामनुभवतो दुःखसंज्ञा समुत्पद्यते । निश्चर्मण्या यथा गाव अल्पस्पर्शे [ऽपि] व्यथानुभूयते । तथा योगी अनात्मसंज्ञावशादुत्तमां दुःखसंज्ञां साधयति । मूढस्तु आत्मसंज्ञावशात्सत्यपि महति दुःखे न तदुपायासमनुभवति । इदमुच्यते दुःखज्ञानम् । संस्काराणामुत्पाददर्शनं हेतुज्ञानम् । संस्काराणां व्ययदर्शनं निरोधज्ञानम् । मार्गस्यावराग्रानुसरणं मार्गज्ञानम् ।
(पृ) किमुच्यते क्षयज्ञानम् । (उ) सर्वाणि निमित्तानि क्षपयतीति क्षयज्ञानम् । कस्मात् । शैक्षस्य निमित्तं प्रहीणं पुनरुत्पद्यते । इदन्तु अत्यन्तं क्षपयतीति (sss_535) क्षयज्ञानम् । यथोक्तं सूत्रे- अभूतनिमित्तमिदमभूतं संज्ञामात्रमिति प्रजानतो दुःखानि क्षीयन्त इति । शैक्षाः प्रजानन्ति । अभूतं संज्ञामात्रमात्मेति । तच्चित्तमत्यन्तं प्रहीणमिति क्षयज्ञानमित्युच्यते । यथोक्तं सूत्रे- कश्चिदर्हन् तथागतस्य पुरतो व्याकरोति- भगवता देशितानि न सन्ति मम । नाहमेषु संयोजनेषु पुनर्विचिकित्से । सदा मम समाहितैकाग्रस्य सम्यक् चर्यामनुस्मरतः कामादीन्यकुशलानि न चित्तस्यास्रवा भवन्ति इति । तत्र निमित्तं गृह्णातीत्यतः संयोजनानि भवन्ति । प्रहीणनिमित्तस्य तु संयोजनानि निरुध्यन्ते । शैक्षा निमित्ते ऽनिमित्तमिति विहरन्ति । अत आत्ममतिः कदाचिदाविर्भवति । यथा स्थाणुं दृष्ट्वा अयं पुरुष इति संशेरते । अतो ऽर्हतः केवलं निर्विचिकित्सस्य प्राप्तिः । सदा अनिमित्तविहारिचित्तत्वात् पूर्वं सत्त्वशून्यतां दृष्ट्वा पञ्चसु स्कन्धेषु न पश्यत्यात्मानम् । पश्चात् धर्मशून्यत्वान्न पश्यति रूपस्वभावं यावद्विज्ञानस्वभावञ्च । अतो ज्ञायते सर्वनिमित्तक्षयः क्षयज्ञानमिति ।
सर्वनिमित्तानामनुत्पादं जानातीत्यनुत्पादज्ञानम् । शैक्षस्य प्रहीणनिमित्तस्य पुनरुत्पादः क्षीणः । अशैक्षस्य निमित्तं क्षीणं न पुनरुत्पद्यते । सर्वनिमित्तानां क्षये निरोधे यत्पुनरनुत्पादः तदनुत्पादज्ञानम् । (पृ) शैक्षो ऽपि जानाति अस्ति [मम] क्षयज्ञानमनुत्पादज्ञानमिति । यथानुस्मरति- परिक्षीणत्रिसंयोजनो न पुनरुत्पत्स्य इति । कस्मान्नाह दशाङ्गसमन्वित इति । (उ) शैक्षो न सर्वसंज्ञाः प्रजहाति । अतो नाह- अस्ति [मम] क्षयज्ञानमनुत्पादज्ञानमिति । यथा कश्चित् तत्र तत्र प्रतिबद्ध एकस्मान्मुक्तो ऽपि न विमुक्त इत्युच्यते । अस्ति चायमर्थः शारिपुत्रो ऽनाथपिण्डदस्य दशाङ्गसमन्वागममवोचत् इति । अर्हन् वशिताबलप्राप्तत्वात् प्रजानाति- क्षीणानि [मे] संयोजनानि, न पुनरुत्पत्स्य इति । तथा शैक्षो ऽपि । अर्हन् अशैक्षमार्गं प्राप्तो [यत्] प्रजानाति क्षीणा[मे]जातिरिति । तत् क्षयज्ञानमित्युच्यते । उषितं ब्रह्मचर्यमिति शैक्षचर्यापरित्याग उच्यते । कृतं करणीयमिति करणीयानि सर्वाणि कृत्वा प्रजानाति- अस्माद्भवात् नास्ति भवान्तरमिति । अतो ज्ञायते अर्हन्नेव सर्वेषु करणीयेषु वशितां प्राप्तः क्षयज्ञानेनानुत्पादज्ञानेन च समन्वितः स्यात्, (sss_536) न तु शैक्षा इति । यथा कश्चित् ज्वरार्तो[ज्वरा]नुद्गमकाले ऽपि ज्वरीत्युच्यते । यथोक्तं सूत्रे-
सर्वत्र विहता नन्दिः तमस्कन्धः प्रदालितः । जित्वा मृत्योर्हि सेनाञ्च विहरामि अनास्रवः ॥ इति ।
परचित्तज्ञानं यथा षडभिज्ञासूक्तम् । पञ्चस्कन्धकलापः सत्त्वः । तत्र ज्ञानं संवृतिज्ञानम् । अनास्रवं ज्ञानं तत्त्वज्ञानम् । इदमनास्रवाभासं ज्ञानाख्यां प्राप्नोतीत्यतः संवृतिज्ञानमिति वदन्ति । (पृ) केचिदाहुः- सर्वे सत्त्वाः समं ज्ञानसमन्विता इति । कथमिदम् । (उ) यो जिनौरसो जानाति धर्माः प्रतीत्यसमुत्पन्ना इति । स प्राप्नोति नान्यः सत्त्वः । ज्ञानाख्यायाः प्रापित्वात् । सर्वे सत्त्वाः संज्ञाप्रयोगमात्रं विजानन्ति । यदि प्राप्नुवन्तीदं ज्ञानम् । [तदा] आभ्यन्तरपृथग्जन इत्युच्यन्ते ।
दशज्ञानवर्गो द्विशततमः ।
201 चतुश्चत्वारिंशज्ज्ञानवर्गः
(पृ) सूत्र उक्तम्- चतुश्चत्त्वारिंशत् ज्ञानानि यदुत जरामरणे ज्ञानं, जरामरणसमुदये ज्ञानं, जरामरणनिरोधे ज्ञानं, जरामरणनिरोधमार्गे ज्ञानं, जातिभवोपादानतृष्णावेदनास्पर्शषडायतननामरूपविज्ञानसंस्कारेष्वप्येवम् । कस्मादिदमुच्यते । (उ) निर्वाणे (sss_537) तत्त्वरत्ने विविधैर्द्वारैरवतरति । कश्चित्पञ्चस्कन्धमुखेनावतरति । कश्चित् धात्वायतननिदानद्वारैः, [कश्चित्] सत्यैः एवमादिभिर्द्वारैर्निर्वाणमनुप्राप्नोति । केनेदं ज्ञायते । यथोक्तं सूत्रे- [तद्यथा] नगरस्वामी नगरे निषण्णः स्यात् । [तत्र] किञ्चित् दूतयुगमेकस्मात् द्वारादागत्योपसृत्य नगरस्वामिनो यथाभूतं वचनं निर्यात्य [यथागतमार्गं] प्रतिपद्येत । तथा [अन्यदूतयुगमन्येभ्यो] द्वारेभ्यो ऽपि । तत्र नगरस्वाम्युपमो योगी । द्वाराणीति स्कन्धधात्वायतनादीनां भावनाया अधिवचनम् । दूतयुगं शमथविपश्यनोपमम् । यथाभूतं वचनं निर्वाणस्याधिवचनम् । इति । दूता नानाद्वारेभ्य आगता अपि एकमेव स्थानमुपसर्पन्ति । एवं स्कन्धधात्वायतनादीनां भावना नानाद्वाराण्युपाया निर्वाणे ऽवतरणस्य । यथा राहुल एकान्ते निषण्णो धर्मं चिन्तयन् एवं प्रजानाति- ईदृशो धर्म परिकीर्तितं निर्वाणं प्रति अनुप्रयातीति ।
किञ्च भगवान् धर्मस्यानिशंसायामाह- धर्मो ऽयं सर्वान् क्लेशाग्नीन निरोधयतीति निरोध इत्युच्यते । योगिनश्चित्तं प्रशमयतीति प्रशमः । योगिनः सम्यक् परिज्ञानं पराययतीति परायणम् । इत्यादयो ऽर्था निर्वाणस्यानिशंसाः । ब्रह्मचर्यमष्टाङ्गमार्ग उच्यते । अष्टाङ्गमार्गे च सम्यग्ज्ञानमेवोक्तम् । अस्य सम्यग्ज्ञानस्यैव फलं यदुच्यते निर्वाणमिति । भगवतोप्रदिष्टं शासनं सर्वं निर्वाणाय भवति । अतो ज्ञायते पञ्चस्कन्धादयो द्वाराणि निर्वाणपरायणानि भवन्ति ।
(पृ) केचिदाभिधर्मिका आहुः- जरामरणज्ञानं दुःखज्ञानमिति । कथमिदम् । (उ) न [युक्तम्] । कस्मात् । न तत्रोच्यते दुःखाकारः । अतो न [तत्] दुःखज्ञानम् । (पृ) इदं कस्य ज्ञानं भवति । (उ) तत् जरामरणस्वभावज्ञानम् । (पृ) उच्यते च जरामरणसमुदयः जरामरणनिरोधो जरामरणनिरोधमार्ग इत्यादि । अतो ज्ञायते इदं दुःखज्ञानमेव स्यादिति । (उ) तत् निदानद्वारं भवति, न सत्यद्वारम् । अतो न तस्य दुःखाकारो वक्तव्यः । [एवं] समुदयादौ वक्तव्यः । लक्षणसाम्यात् । (पृ) अत्र कुतो नोच्यते आस्वादादीनवनिस्सरणादीनां ज्ञानानि । (उ) सर्वाणीमानि अत्र परिगृहीतानि । किन्तु सङ्गीतिकारः संक्षिपन् न [विस्तरश] उवाच ॥
चतुश्चत्वारिंशज्ज्ञानवर्ग एकोत्तरद्विशततमः ।
202 सप्तसप्ततिज्ञानवर्गः
(पृ) सूत्र उक्तम्- सप्तसप्ततिज्ञानानि यदुत जातिप्रत्ययं जरामरणमिति [ज्ञानम्] । असत्यां जातौ नास्ति जरामरणमिति [ज्ञानम्] । एवमतीते ऽनागते ऽध्वन्यपि । (sss_539) यदस्य धर्मस्थितिज्ञानम् । [तदपि] अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नं क्षयधर्म, विपरिणामधर्म, वियोगधर्म, व्ययधर्म इति ज्ञानम् । यावदविद्याप्रत्ययाः संस्कारा इत्यप्येवम् इति । तत्र कस्मान्नोक्तं- जरामरणस्य स्वभावो निरोधो मार्ग इत्यादि । (उ) हितज्ञस्य कृत एवमुक्तं तस्य द्वारत्वमात्रमविष्करोति । अन्यदप्येवं ज्ञेयम् ।
तीर्थिका बहवो निदाने भ्रान्ता वदन्ति- लौकिकानां पदार्थानां हेतुर्लोकात्मक इत्यादि । अतो भगवान् तेषां निदानमात्रमाह । (पृ) जातिप्रत्ययं जरामरणमित्युक्त्वा कस्मात्पुनराह- असत्यां [जाता]विति । (उ) नियमार्थम् । यथा दानं पुण्यस्य हेतुः । शीलेनापि पुण्यं विन्दते । यथोक्तम्- धृतशीलो देवेषूत्पद्यत इति । केचिन्मन्यन्ते- जरा- मरणप्रत्यया जातिरिति । केचिदहेतुका जातिरिति । अतो नियम उच्यते । (पृ) कस्मादतीते ऽनागते ऽध्वनि पुनर्नियम उच्यते । (उ) प्रत्युत्पन्नमतीताध्वनः कदाचिद्भिन्नधर्म भवति यदुतातीतानां सत्त्वानामायुरप्रमाणं प्रभावश्च देवतुल्य इत्येवमादि । आयुरादि भिन्नं जरामरणप्रत्ययो ऽपि भिन्नो भवेदिति जना वदेयुरिति भीत्या नियम उच्यते । अनागते ऽप्येवं [वक्तव्यम्] ।
इदं षड्विधं धर्मस्थितिज्ञानम् । अन्यन्नाम निर्वाणज्ञानम् । जरामरणसन्तानकरत्वादुच्यते- अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नम् । क्षयधर्म विपरिणामधर्म इत्यनित्याकारः । वियोगधर्म इति दुःखाकारः । व्ययधर्म इति अनात्मशून्याकारः ।
कस्मात् तत्र रूपस्य स्वरूपं निरोधः वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य च स्वरूपं निरोधः । अयं त्रिविधविपश्यनानामर्थ इत्याख्यायते । यथोक्तं सूत्रे- यो भिक्षवः सप्तभिः स्थानोपायैः त्रिभिर्विपश्यनार्थैश्च समन्वितः स क्षिप्रमास्रवाणां क्षयमनुप्राप्नोति । इदमेव निर्वाणज्ञानं भवतीति । इत्यादि निदानज्ञानानि अप्रमाणशतसहस्राणि सन्ति यदुत (sss_540) चक्षुर्विज्ञानमित्यादि । यथोक्तं सूत्रे- चक्षुष कर्म प्रत्ययः । कर्मणः तृष्णा प्रत्ययः । तृष्णाया अविद्या प्रत्ययः । अविद्याया अयोनिशोमनस्कारः प्रत्ययः । अयोनिशोमनस्कारस्य चक्षूरूपं प्रत्ययः । आस्रवाणामयोनिशो मननं प्रत्ययः । आहाराणां तृष्णा प्रत्ययः । पञ्चकामगुणानां कबलीकाराहारादयः प्रत्ययाः । नरकस्याल्पायुषश्च प्राणातिपातादयः प्रत्ययाः । यदिदानीन्तनं दुःखं पूर्वतनीनञ्च दुःखं, सर्वस्याभूतसंज्ञा प्रत्ययः । अभूतसंज्ञायाः कायचित्तयोः प्रियाप्रिये प्रत्ययः । प्रियाप्रिययोः कामरागः प्रत्ययः । कामरागस्य मिथ्यावितर्कः प्रत्ययः इत्येवमादिप्रत्ययानां ज्ञानमप्रमाणमनवधि स्वयमेवोन्नेतव्यम् ॥
सप्तसप्ततिज्ञानवर्गो द्व्युत्तरशततमः ।
[मार्गसत्यस्कन्धः समाप्तः] शास्त्रं समाप्तम्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
