Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/15

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

सत्यसिद्धिशास्त्रम्

Tác giả
हरिवर्मन्
Thông tin
GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

(6) अपरमस्ति द्विविधं शास्त्रमुखम्- विनिश्चितमविनिश्चितमिति । विनिश्चितम्- यथोच्यते- बुद्धः सर्वज्ञः पुरुष इति । भगवतो भाषितः परमार्थो धर्मः । भगवतः श्रावकाः सम्यगाचारशीला इति । किञ्चाह- सर्वे संस्कृतधर्मा अनित्या दुःखाः शून्या अनात्मानः [तेषां]निरोधो निर्वाणम् इत्यादि मुखं विनिश्चितम् । अविनिश्चितम्- यद्युच्यते म्रियमाणो जायत इति । तदविनिश्चितम् । सत्यां तृष्णायां जायते । तृष्णाक्षये निरुध्यते । किञ्चोक्तं सूत्रे- समाहितस्य तत्त्वज्ञानमुत्पद्यत इति । इदमपि अविनिश्चितम् । आर्याणां समाधिलाभिनां तत्त्वज्ञानमुत्पद्यते । न तु तीर्थिकानां लब्धसमाधिकानामपि । यथाह सूत्रम्- यदभिलषितं तल्लभ्यते इति । इदमपि अविनिश्चितम् । कदाचित्तु न लभ्यते । यदाह- षडायतनं स्पर्शजनकम् इति । इदमपि अविनिश्चितम् । किञ्चिज्जनकं किञ्चिन्न जनकम् । एवमाद्यविनिश्चितमुखम् ।

(7) अथ कृतकाकृतकशास्त्रमुखम् । यथोच्यते- अद्भुत मूलिका सुरभिपुष्पञ्च न वातरोगप्रतिकूलम् इति । आह- कोविदारपुष्पं वातरोगप्रतिकूलम् इति । आद्यस्य मनुष्यपुष्पत्वात् न वातरोगप्रतिकूलमित्युच्यते । द्वितीयस्य दिव्यपुष्पत्वात् वातरोगप्रतिकूलमित्युच्यते । किञ्च वदन्ति तिस्रो वेदना- दुःखा वेदना सुखा वेदना अदुःखासुखा वेदना इति । सूत्रान्तरमाह- विद्यमानाः सर्वा वेदना दुःखमिति । त्रिविधं दुःखं- दुःख- दुःखं, विपरिणामदुःखं संस्कार दुःखमिति । तदर्थमाह- विद्यमानाः सर्वा वेदना दुःखमिति । आह च- दुःखमिदं त्रिविधं नवं पुराणं मध्यमिति । अचिरवेदनायां सुखम् । चिरनिर्वेदे दुःखम् । मध्यमे उपेक्षा ।

किञ्चाह- अभिसम्बुद्धत्वात् परिव्राट् इति । अनभिसम्बुद्धो ऽषि परिव्राट् भवति । एवमादिलक्षणानां हेतुत आख्या भवति ।

(8) प्रत्यासत्तिः शास्त्रमुखम् । यथा भगवानवोचभ्दिक्षून्- प्रजहत प्रपञ्चम्, तदा निर्वाणं लभध्वे इति । अलब्धे ऽपि प्रत्यासत्त्या लभध्वे इत्युच्यते ।

(9) लक्षणसाम्यं शास्त्रमुखम् । यथा एकवस्तुकथने अन्यदपि वस्तु समलक्षणमुक्तं भवति । यथा चाह भगवान्- लघुपरिवृत्तं चित्तम् । तदा अन्ये ऽपि चैत्तधर्मा उक्ता भवन्ति ।

(10) भूयो ऽनुवर्तनं शास्त्रमुखम् । यथा भगवाना ह- य उदयव्ययलक्षणदृष्टिद्वयं न प्रजानाति स सर्वः सरागी भवति । यस्तु प्रजानाति स वीतरागो भवति । इति । स्रोतआपन्न उदयव्ययलक्षणद्वितयदृष्टिं जानन्नपि सरागो भवति । तत्प्रजानानां भूयस्त्वेन परं वीतरागा भवन्ति ।

(11) कारणे कार्योपचारः शास्त्रमुखम् । यथोच्यते- अन्नदानं प्रयच्छति पञ्च गुणान्- आयुः वर्णं बलं सुखं प्रतिभानम् इति । वस्तुतस्तु नायुरादीन् पञ्च गुणान् प्रयच्छति । अपि तु तद्धेतून् प्रयच्छति । किञ्चाहुः कार्षापणमद्यत इति । कार्षापणं नादनीयम् । अपि तु कार्षापणमुपादाय लब्धमद्यते इत्यतः कार्षापणमद्यत इत्युच्यते । यथाह सूत्रम्- स्त्रीपुरुषौ मलम् इति । न वस्तुतो मलम् । आसङ्गादिक्लेशमलहेतुत्वात् । मलमित्युच्यते । किञ्चाह- पञ्च विषयाः कामा इति । न वस्तुतः कामाः । कामजनकत्वात् । कामा इत्युच्यन्ते । सुखकारणं सुखमित्युच्यते । यथा वदन्ति- उपचितधर्माणं पुरुषं अयं पुरुषः सुख इति । दुःखकारणं दुःखमित्युच्यते । यथा वदन्ति- मूढैः सह संवासो दुःखमिति । यथा वदन्ति सुखो ऽग्निः दुःखो ऽग्निरिति । आहुश्च- आयुर्हेतुरायुरिति । यथोक्तं गाथायाम्-

जन्मोपकरणसम्पच्च बाह्यं जीवितमस्ति हि । धनहारी यथा नॄणां जीवितापहृदुच्यते ॥ इति ।

आहुश्चास्रवहेतुरास्रव इति । यथाह सप्तास्रवसूत्रम्- तत्र द्वौ वस्तुत आस्रवौ, अम्यानि पच्च वस्तूनि आस्रवकारणानि ।

कार्ये कारणोपचारश्चास्ति । यथा भगवानाह- मया पूर्वकर्मानुभवितव्यमिति । कर्मफलमनुभवितव्यमित्यर्थः ।

एवमादीनि बहूनि शास्त्रमुखानि परिज्ञातव्यानि ॥

शास्त्रमुखवर्गश्चतुर्दशः ।

15 शास्त्रप्रशंसावर्गः

शास्त्रमिदमभ्यसितव्यम् कस्मात् । शास्त्रमभ्यसन् पुरुषधर्मज्ञानं लभते । यथोक्तं सूस्रे- द्वौ पुरुषौ स्तः ज्ञो ऽज्ञश्च । यः स्कन्धधात्वायतनद्वादशनिदानकारणकार्यादिधर्मविवेकाकुशलः सो ऽज्ञः । यस्तु कुशलः, स ज्ञ इति । शास्त्रे चास्मिन् स्कन्धधात्वायतनादीनि सम्यग्विविच्यन्ते । अत इदं शास्त्रमुपादाय पुरुषधर्मज्ञानं लभ्यते । इतीदमभ्यसितव्यम् ।

एतच्छास्त्राभ्यासादप्राकृतो भवति । प्राकृतो ऽप्राकृत इति द्वौ पुरुषौ स्तः । यथा वदन्ति- कश्चिन्मुण्डितकेशश्मश्रुको धर्मपटं परिदधानः परिगृहीतबुद्धेर्यापथो ऽपि भगवच्छासनाद् दूरीभूतः । श्रद्धेन्द्रियाद्यसमन्वागमात् । यस्तु श्रद्धेन्द्रियादिसमन्वागतः स गृहस्थो ऽपि अप्राकृत इत्युच्यते । यथोक्तं सूत्रे- चतुर्विधाः पुरुषाः कश्चित् सङ्घस्येर्यापथे ऽवतीर्णः न सङ्घगणितः । कश्चित् सङ्घगणितो न सङ्घस्येर्यापथे ऽवतीर्णः । कश्चित् सङ्घेर्यापथे सङ्घगणनायाञ्चावतीर्णः । कश्चिन्न सङ्घेर्यापथे ऽवतीर्णो नापि सङ्घगणनायाम् । आद्यः प्रव्रजितः प्राकृतः । अनन्तरो गृहस्थ आर्यः । तृतीयः प्रव्रजितः आर्यः । चतुर्थो गृहस्थ प्राकृतः । इति । अनेन हेतुना श्रद्धेन्द्रियादिविरहितो न सङ्घगणानायामवतरति । अतः श्रद्वेन्द्रियादीनां कृत उद्योगः कार्यः । श्रद्धेन्द्रियलिप्सुना भगवच्छासनं श्रुत्वा उद्दिष्टं प्रातिमोक्षमादाय यथावच्चरितव्यम् । अतो ऽभ्यसितव्यमिदं बुद्धधर्मशास्त्रम् ।

किञ्चानेन शास्त्रेण द्विविधं हितं भवति आत्महितं परहितमिति । यथोक्तं सूत्रे- चतुर्विधाः पुरुषाः । कश्चिदात्महिताय प्रतिपन्नो न परहिताय । कश्चित् परहिताय प्रतिपन्नो नात्महिताय । कश्चिदात्महिताय च प्रतिपन्नः परहिताय च । कश्चिन्नैवात्महिताय (sss_46) प्रतिपन्नो न परहिताय इति । य आत्मना शीलादीन् सम्पादयति न परान् शीलादिषु स्थापयति । स आत्महिताय प्रतिपन्नः । एवं चतुर्धा । यत् कश्चिदात्महिताय प्रतिपन्नो ऽपि परेषाञ्च दानादिमहाफलं सम्पादयति । तदपि परहितम् । तत्र बुद्धानुस्मृते र्नेदं हितमुच्यते । यदि कश्चित् परस्य धर्मोपदेशाय प्रतिपन्नः । तत् परहितम् । स आत्मना धर्मचर्यामनुवर्तमानो ऽपि परार्थमुपदेशात् आत्मनो ऽपि हितमनुप्राप्नोति । यथोक्तं सूत्रे- परस्यधर्ममुपदिशन् पञ्चविधं हितं लभते इति । तत्र बुद्धानुस्मृतेरपि नेदमुच्यते । तत्र प्रवचनमात्रस्योत्तमं हितं भवति यद्यथोक्तमाचरत आस्रवाः क्षीयन्ते इति । अतो धर्मस्य प्रक्क्ता परहिताय प्रतिपन्नः । स सहितत्वाच्च पुरुषेषूत्तमः । तद्यथा रसेषु मण्डम् ।

अथ स पुरुष इदानीं ज्योतिषि स्थितः पश्चादपि ज्योतिः परायणो भवति । लौकिकाः सर्वे भूयसा तमस्तमः परायणाः ज्योतिषो ज्योतिः परायणा वा । यः कश्चिद् बुद्धशासनमाचरति स तमसो ज्योतिः परायणः ज्योतिषो ज्योतिः परायणो वा भवति । कस्मात् । दानादीनाचरन् न [तादृशं] हितं विन्दते यादृशं बुद्धधर्मं शृण्वन् [विन्दते] । यश्चाल्प[मपि] बुद्धप्रवचनं शृणोति स प्रतिवेधज्ञानलाभी सन् सर्वक्लेशान् भङ्क्त्वा अप्रमाणहितं प्रसवति । यक्तोक्तं सूत्रे- चत्वारः पुद्गलाः- तमस्तमःपरायणः तमोज्योतिःपरायणः ज्योतिर्ज्योतिः परायणः ज्योतिस्तमःपरायणः इति । किञ्च चतुर्विधाः परायणाः अनुस्स्रोतोगामी प्रतिस्रोतोगामी स्थितात्मा, तीर्णः पारङ्गत इति । यश्चित्तैकाग्र्येण भगवद्धर्मं शृणोति स एव पञ्च नीवरणानि प्रहाय सप्तबोध्यङ्गानि भावयति । अतः स प्रतिरुद्धसंसारस्रोताः प्रतीकूल इत्युच्यते । स च स्थितात्मा पारङ्गतश्च भवति ।

पुनश्चतुर्विधाः पुरुषाः- सदाभवनिमग्नः कञ्चित् कालं भवान्निर्गत्य पुनर्निमग्नः, भवनिर्गमपरीक्षकः भवपारङ्गत इति । यो निर्वाणगामिश्रद्धादिगुणान्नोत्पादयति । स सदा भवनिमग्नः । कश्चित् लौकिकश्रद्धादीनुत्पाद्य न दृढयति पनः परिहीयते । स कञ्चित् कालं निर्गत्य पुनर्निमग्नः । यः श्रद्धादीनुत्पाद्य शुभाशुभं विवेचयति स निर्गमपरीक्षकः । यः निर्वाणगामिश्रद्धादीनुपसम्पाद्य भावयति स पारङ्गतः । यो भगवद्धर्मस्य सम्यगर्थं वेत्ति स नैव सदा निमग्नो भवति । स मुहूर्तं परिहीनो ऽपि नात्यन्तं परिहीयते ।

स च गुणाभावयितेत्युच्यते यः कायेन शीलं मनसा प्रज्ञां च भावयति स किञ्चिद् दुष्कर्म कुर्वन्नपि दुर्गतौ पतति । यस्तु भावयति कायेन शीलं मनसा प्रज्ञां स बहु दुष्कर्म कुर्वन्नपि न दुर्गतौ पतति । कायस्य भावयिता श्रुतप्रज्ञाभ्यां कायवेदनाचैत्तान् भावयति । कायं भावयन् क्रमेण शीलसमाधिप्रज्ञास्कन्धानुत्पाद्य कर्माणि प्रजहाति । कर्मणां प्रहाणात् संसारो ऽपि निरुध्यते । - उक्तञ्च सूत्रे चतुर्विधाः पुरुषाः- केचित् अगम्भीरतीक्ष्णानुयाः, केचित् अतीक्ष्णगम्भीरानुशयाः, केचिद्गम्भीरतीक्ष्णानुशया, केचिदगम्भीरातीक्ष्णानुशयाः । आद्यः अधिमात्रानुशयः काले काल आगच्छति । समनन्तरो यो मृदुमध्यानुशयः स सदागत्य चित्तनिविष्टो भवति । तृतीयो यो ऽधिमात्रानुशयः सो ऽपि आगत्य चित्तनिविष्टः । चतुर्थो यो मृदुमध्यानुशयः स कश्मिंञ्चित्काल आगच्छति । स यदि भगवतः शासने सम्यच्छास्रं शृणोति । स तीक्ष्णगभीराख्यद्विविधाननुशयान् प्रजहाति ।

भगवद्धर्मस्य सम्यगर्थं यो वेत्ति । तस्य नात्मव्याबाधा न परव्याबाधा भवति । तीर्थिकाःशीलमात्रधारिणः स्वकायमेव व्याबाधन्ते । नास्ति पुण्यपापं [नास्ति] कर्मफलमिति मिथ्यादृष्टौ यः पतति सपरानेव व्याबाधते । यद्दानमाचरति स आत्मानमपि व्याबाधते परानपि व्याबाधते । यथाध्वरे बहवः पशवो हन्यन्ते । यस्तु भगवद्धर्मस्यार्थं वेत्ति । स हितमेव कुर्वन् नात्मानं ब्याबाधते । नापि परान् । यथा ध्यानसमाधिमैत्रीकरुणानां लाभी । अतो ऽभ्यसितव्यमिदं भगवच्छासनशास्त्रम् ।

एतच्छास्राभ्यासी सम्यगर्थवेदित्वात् कथ्यो भवति । यथोक्तं सूत्रे कथासम्प्रयोगेण [पुद्गलो] वेदितव्यो यदि वा कथ्यो यदि वाकथ्य इति । यो विदुषां धर्मं पृष्ठः स्थानास्थाने न सन्तिष्ठति । परिकल्पे न सन्तिष्ठति । प्रतिपदायां न सन्तिष्ठति । अयमकथ्यो भवति । तद्विपरीतः कथ्य इति । विदुषां धर्मे न तिष्ठतीति । वादी सम्यक् प्रज्ञानेनार्थगतिं ज्ञात्वा पश्चात्प्रयोगमादत्ते । सो ऽस्याज्ञत्वात् न ग्राह्यः । यथा नाथपुत्रादयः स्वयं वदन्ति अस्माकं शास्ता आप्तः तद्वचनमेवानुवर्तामह इति । स्थानास्थाने न सन्तिष्ठतीति । हेतुप्रयोगे न तिष्ठति । तीर्थिकादीनां द्विधा हेतुः साधारणहेतुः विशेषहेतुरिति । परेण साधारणहेतावुक्ते असाधारणहेतुना प्रतिवदन्ति । असाधारणहेतावुक्ते साधारणहेतुना प्रतिवदन्ति । एवं द्विविधहेतावपि न तिष्ठन्ति । परिकल्पे न सन्तिष्ठति इति । दृष्टान्ते न (sss_48) तिष्ठति । प्रतिपदायां न सन्तिष्ठतीति । वादपद्धतौ न तिष्ठति । यथा ह- मा परुषवचनमुच्चारय । मा त्यज प्रतिज्ञार्थम् । यत्नेनोपायं शिक्षय संविल्लाभाय । आत्मनो वा मानसिकी तुष्ठिः आर्यप्रवचनधर्मः इति । तत्र यो भगवद्धर्म सम्यक् ज्ञात्वा प्रवक्ति स कथ्यो भवति । नान्ये ।

अकथ्य इति । य [एकांश]व्याकरणीयं प्रश्नं नै[कांशेन] व्याकरोति । विभज्य व्याकरणीयं प्रश्नं न विभज्य व्याकरोति । प्रतिपृच्छाव्याकरणीयं प्रश्नं न पतिपृच्छ्य व्याकरोति स्थपनीयं प्रश्नं न स्थपयित्वा व्याकरोति । तद्विपरीतः कथ्यः । एकांश व्याकरणीयः प्रश्न इति । [तत्र] एक एव हेतुरस्ति । [तेन] यथा बुद्धो भगवान् [तथा] लोके नास्ति तत्सम इतीदृशमनुमानं भवति । विभज्यव्याकरणीयः प्रश्न इति । पुनरस्ति कारणं [विभज्य व्याकरणस्य] । यथा मृतसन्तानादयः [पुनरुत्पत्स्यन्त्] इति । परिपृच्छाव्याकरणीयः प्रश्न इति । यथा कश्चित्पृच्छति । अन्यः पुनः परिपृच्छय व्याकरोति । स्थपनीयः प्रश्न इति यो धर्मो ऽभूतरूपः किन्तु प्रज्ञप्तिसन् । स धर्मः किमेकः उत नाना, किं शाश्वतः उताशाश्वत इत्यादि यदि कश्चित् पृच्छति । नायमर्थो व्याकरणीयः । भगवच्छासनस्य वेत्ता केवलं तत् वेत्ति । तस्मादभ्यसितव्यमिदं भगवच्छासनशास्रम् ।

किञ्च सन्ति चतुर्विधाः पुरुषाः- सावद्यः बद्यबहुलः अल्पावद्यः अनवद्य इति । सावद्य इति यस्य केवलमकुशलं नैको ऽपि कुशलधर्मो ऽस्ति । वद्यबहुल इति । यस्याकुशलं बहु कुशलमल्पम् । अल्पवद्य इति । यस्य कुशलं बहु अकुशलमल्पम् । (sss_49) अनवद्य इति । यस्य कुशलधर्ममात्रं नाकुशलम् । भगवच्छासनस्य सम्यगर्थवेदी द्वैविध्यं भजते अल्पवद्यो ऽनवद्य इति ।

अथ यो भगवच्छासनस्यार्थं वेत्ति । तस्य दुःखवेदना परिमिता । स हि निर्वाणमवश्यं प्राप्स्यति ॥

शास्त्रप्रशंसावर्गः पञ्चदशः ।

16 चतुर्धर्मवर्गः

अथैतच्छास्राभ्यासी उत्तमं सङ्ग्रहधर्मं विन्दते । यथोक्तं सूत्रे- चत्वारि सङ्ग्रहवस्तूनि- दानं प्रियवचनमर्थचर्या समानार्थता इति । दानम् अन्नवस्त्रादीनाम् । धनदानेन संगृहीताः सत्त्वाः पुनर्विकम्प्या भवन्ति । प्रियवचनम् यथाप्रिप्रायं भाषणम् । इदमपि दुष्टमेव । तस्याभिप्रायस्य [स्वीयतया] ग्रहणात् । अर्थचर्चा परार्थं हिताकांक्षणम् । यत् सहेतुप्रत्ययमन्यस्य कार्यसिद्धिं करोति । इदमपि प्रकम्प्यं भवति । समानार्थता । यथा शोके मोदे च [परेण] सहैकीभवनम् । इयं समानार्थता । इदं कदाचित्प्रकम्प्यम् । यदि कश्चित् धर्मदानप्रियवचनार्थचर्यासमानार्थताभिः सत्त्वान् सङ्गृह्णाति । तदा ते सत्त्वा न प्रकम्प्या भवन्ति । धर्मेण सङ्ग्रहो यदुतैतच्छास्त्राभ्यासः । अतो यत्नेन शिक्षितव्यम् ।

एतच्छास्त्रमभ्यसन् उत्तमं शरणं लभते । यथोक्तं सूत्रे- धर्मप्रतिशरणेन भवितव्यम् न पुद्गलप्रतिशरणेनेति । यद्यपि कश्चिदेवं वदेत् मया भगवतः सम्मुखात् श्रुतं भदन्तश्च सम्मुखाद्वा पूर्वान्ते श्रुतमिति । तस्याश्रद्धेयत्वात् न तद्ववचनमादेयम् । यद्वचनन्तु सूत्रे ऽवतीर्णं धर्मलक्षणाविरुद्धं विनयानुलोइमितञ्च तत्पुनरादेयं स्यात् इति । सूत्रे ऽवतीर्णमिति यत् नीतार्थसूत्रे ऽवतीर्णम् । नीतार्थसूत्रञ्च यस्यार्थगतिर्धर्मलक्षणाविरुद्धा । धर्मलक्षणञ्च यद्विनयानुलोमकम् । विनयश्च संवरः । तद्यथा कश्चित् संस्कृतधर्माः शाश्वताः (sss_50) सुखाः सात्मान इति भावयति । स न कामादीन् प्रजहाति । अनित्या दुःखा अनात्मान इति यो भावयति । स कामादीन् प्रजहाति । अनित्यतादिज्ञानमेव धर्मलक्षणम् धर्मो ऽयं शरणीकर्तव्यो न पुद्गलाः ।

धर्मप्रतिशरणं वदता सर्वे धर्माः सङ्गृहीता भवन्ति । अतः पुनरुच्यते नितार्थसूत्रप्रतिशरणेन भवितव्यं न नेयार्थसूत्रप्रतिशरणेनेति । नीतार्थसूत्रमेव तृतीयं प्रतिशरणम् । यदुच्यते अर्थप्रतिशरणेन भवितव्यं न व्यञ्जनप्रतिशरेण इति । यो ऽयं व्यञ्जनार्थः सूत्रे ऽवतीर्णो धर्मलक्षणाविरोधी विनयानुलोमकश्च तत्प्रतिशरणेन भवितव्यम् । ज्ञानप्रतिशरणेन भवितव्यं न विज्ञानप्रतिशरणेन इति । [विज्ञानं] यत् रूपादिविज्ञानम् । यथोक्तं सूत्रे विजानातीति विज्ञानम् । इति । ज्ञानं नाम यथाभूतधर्माभिसमयः । यथोक्तं- रूपवेदनासंज्ञासंस्कारविज्ञानानि यथाभूतं प्रजानातीति ज्ञानम् । शून्यतैव यथाभूतम् । अतो यद्विज्ञानप्रतिलब्धम्, न तत्प्रतिशरणेन भवितव्यम् । या ज्ञानप्रतिशरणता सैव शून्यताप्रतिशरणता । तामुत्तमप्रतिशरणतां प्रतिवेधितुकामेन इदं शास्त्रमभ्यसितव्यम् ।

उक्तञ्च सूत्रे- चत्वारि देवमनुष्याणां चक्राणि शुभवर्धकानि । प्रतिरूपदेशवासः सत्परुषोपाश्रयः आत्मनः सम्यक्प्रणिधानं पूर्वे च कृतपुण्यता । इति । प्रतिरूपदेशवासो नाम यत् पञ्चदूषणविविक्तो मध्यदेशः । सत्पुरुषोपाश्रयो यत् बुद्धाध्वनि जन्मना सङ्गमः । पूर्वे च कृतपुण्यता नाम यत् बाधिर्यमूकताद्यभावः । आत्मनः सम्यक् प्रणिधानं नाम सम्यक् दर्शनमिदम् । सम्यक् दर्शनञ्चावश्र्यंभगवच्छासनश्रवणादुत्पद्यते इत्यत इदं सम्यच्छासनशास्त्रमभ्यसितव्यम् ।

अस्य शास्त्रस्याध्येता चास्मिन्नेवायुषि सत्यप्रतिवेधाख्यं महासारार्थं लभते । यथोक्तं सूत्रे- चत्वारः सारधर्माः वचनसारः समाधिसारो दर्शनसारो विमुक्तिसार इति । (sss_51) वचनसार इति । सर्वे संस्कृता अनित्या दुःखाः, सर्वे अनात्मानः शान्तं निरोधो निर्वाणमिति यद्वचनम् । अयं वचनसारः श्रुतमयप्रज्ञापरिपूरणमित्याख्यायते । इममुपादाय प्रतिलब्धः समाधिश्चिन्तामयप्रज्ञापरिपूरणमित्युच्यते । इमं समाधिमुपादाय संस्कृतधर्मा अनित्या दुःखाः इत्यादि भावना सम्यग्दर्शनप्रापिणी भावनामयप्रज्ञापरिपूरणमित्युच्यते । प्रज्ञात्रित्तयप्रतिलब्धं फलं विमुक्तिसार इत्याख्यायते ।

अथ यः शृणोति भगवच्छासनस्य सम्यच्छास्रम्, स महान्तमर्थं लभते । यथोक्तं सूत्रे- चत्वारो महार्थधर्माः सत्पुरुषसंसेवा, सद्धर्मश्रवणं, योनिशो मनस्कारः धर्मानुधर्मप्रतिपत्तिरिति । यः सत्पुरुषमुपास्ते स सद्धर्मं शृणोति । अस्य सद्धर्मस्य सत्पुरुषवर्तित्वात् । श्रुतसद्धर्मा सन् योनिशो मनस्कारमुत्पाद्य अनित्यादिना धर्मान् सम्यग्भावयति । अनया भावनया धर्मानुधर्मं प्रतिपद्यते यदुतानास्रवं दर्शनम् ।

एतच्छास्त्रं शृण्वतश्चत्वारि गुणाधिष्ठानानि भवन्ति- प्रज्ञाधिष्ठानं, सत्याधिष्ठानं, त्यागाधिष्ठानं, उपशमाधिष्ठानमिति । धर्मश्रवणात्प्रज्ञा भवतीति प्रज्ञाधिष्ठानम् । अनया प्रज्ञया परमार्थशून्यतां पश्यतीति सत्याधिष्ठानम् । शून्यतादर्शनेन क्लेशानां वियोगं लभत इति त्यागाधिष्ठानम् । क्लेशानां क्षयाचित्तमुपशाम्यतीदमुपशमाधिष्ठानम् ।

किञ्च भगवच्छासनस्य सम्यच्छास्त्रं श्रुतवतश्चत्वारि निर्वाणगामिनि कुशलमूलानि अङ्कुरीभवन्ति यदुत ऊष्मधर्मो मूर्धधर्मः क्षान्तिधर्मो लौकिकाग्रधर्म इति । अनित्याद्याकारेण पञ्चस्कन्धान् भावयतो ऽवरं मृदु निर्वाणगामि कुशलमूलं चित्तस्योष्मकरमुत्पद्यते । अयमूष्मधर्म इत्युच्यते । उष्मधर्मसंवर्धितं मध्यं कुशलमूलं मूर्धधर्म इत्याख्यायते । मूर्धधर्मसंवर्धितमुत्तमं कुशलमूलं क्षान्तिधर्म इत्युच्यते । क्षान्तिसंवर्धितमुत्तमोत्तमं कुशलमूलं लौकिकाग्रधर्म इत्यभिधीयते ।

सन्ति च चत्वारि कुशलमूलानि- हानभागीयं, स्थितिभागीयं, विशेषभागीयं निर्वेधभागीयमिति । ध्यानसमाधिपूजनवन्दनस्तोत्रादिकुशलमूलानां हानं हानभागीयम् । ध्यानसमाध्यादिकुशलमूलानां प्रतिलाभः स्थितिभागीयम् । श्रवणचिन्तनादिभ्य उत्पन्नानि (sss_52) कुशलमूलानि विशेषभागीयम् । अनास्रवं कुशलमूलं निर्वेधभागीयम् । यस्तथागतस्य धर्मं शृणोति स हानभागीयं विसंयुज्य त्रीणि कुशलमूलानि प्रतिलभते ॥

चतुर्धर्मवर्गः षोडशः ।

17 चतुस्सत्यवर्गः

अथ यस्ताथागतधर्मं शृणोति स चतुस्सत्यानि सविभङ्गानि सम्प्रजानाति दुःखसत्यं, समुदयसत्यं, निरोधसत्यं मार्गसत्यमिति । दुःखसत्यमिति यत् त्रैधातुकम्, कामधातुः अवीचिनरकात् यावत्परनिर्मितवशवर्तिनो देवान् । रूपधातुः आब्रह्मलोकात् आचाकनिष्ठात् देवलोकात् । आरूप्यधातुश्चत्वारि अरूपध्यानानि ।

सन्ति च चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंस्कारा इति । तीर्थिकाः केचिद्वदन्ति विज्ञानम् आत्मोपगा स्थितिरिति । अतो भगवानाह चतु [स्कन्धो]पगा विज्ञानस्थितयः इति । सन्ति च चतस्रो जातयः- अण्डजो जरायुजः संस्वेदेज औपपादुक इति । देवा नारकाः सर्व औपपादुकाः । प्रेता उभयथा जरायुजा औपपादुकाश्च । अन्ये चतसृषु जातिषु [अन्तर्भूताः] । चत्वार आहाराः- कवडीकार आहारः औदारिकः सूक्ष्मो वा । ओदनादिरौदारिक इत्युच्यते । घृततैलगन्धबाष्पपानादयः सूक्ष्माः । स्पर्शाहारः शीतोष्णवातादिः । मनःसञ्चेतनाहारो यत् कदाचित् पुरुषाः सञ्चेतनाप्रणिधानेन जीवति । विज्ञानाहारः अन्तराभविकनारकारूप्या निरोधसमापत्तिप्रविष्ठाः सत्वा अदृष्टविज्ञाना अपि विज्ञानप्रतिलम्भे वर्तन्त इत्यतो विज्ञानाहारा इत्युच्यन्ते ।

षङ्गतयः- उत्तमपापं नरकम् । मध्यमपापास्तिर्यञ्चः । अधमपापाः प्रेताः । उत्तमपुण्या देवगतिः । मध्यमपुण्या मनुष्यगतिः । अधमपुण्या असुरगतिः । किञ्च षट् [भूत]प्रकाराः- पृथिव्यप्तेजोवाव्याकाशविज्ञानानीति । चतुर्भिर्महाभूतैः परिवृतं विज्ञानमध्यकमाकाशं (sss_53) पुरुष इति संख्यां गच्छति । षट् स्पर्शायतनानि चक्षुरादीनि षडिन्द्रियाणि विज्ञानसङ्गतानि स्पर्शायतनमित्याख्यायन्ते ।

सप्तविज्ञानस्थितयः । आसु स्थितिषु विपर्ययबलात् विज्ञानं साभिरामं तिष्ठति ।

अष्टौ लोकधर्माः- लाभो ऽलाभो यशो ऽयशो निन्दा प्रशंसा सुखं दुःखमिति । पुरुषा लोके स्थिता अवश्यभिमानुपाददते । इत्यतो लोकधर्मा इत्युच्यन्ते ।

नव सत्त्वावासाः । सत्त्वाः सर्वे विषयबलादेषु वसन्ति ।

सर्वे च धर्माः पञ्चधा विकल्प्यन्ते- पञ्च स्कन्धाः द्वादशायतनानि अष्टादश धातवो द्वादश निदानानि द्वाविंशतिरिन्द्रियाणि इति । चक्षुर्विज्ञप्तिरूपं रूपस्कन्धः । तत्प्रतीत्योप्तन्नं विज्ञानं यत्पुरोवर्तिरूपग्राहकं स विज्ञानस्कन्धः । यत् चित्तं स्त्री पुरुषः शत्रुबन्धुरित्यादिसंज्ञां जनयति । स संज्ञास्कन्धः । शत्रुर्बन्धुर्मध्यस्थ इति यत् पुरुषं विकल्पयति तत् तिस्रो वेदना जनयति । अयं वेदनास्कन्धः । आसु तिसृषु वेदनासु यत् त्रिविधाः क्लेशा उत्पद्यन्ते । स संस्कारस्कन्धः । एषां प्रवृत्त्या कायोपादानान्युपादत्त इति पञ्चोपादानस्कन्धा इत्युच्यन्ते ।

चतुर्भिः प्रत्ययै विज्ञानमुत्पद्यते यदुत हेतुप्रत्ययः समनन्तरप्रत्यय आलम्बनप्रत्ययो (sss_54) ऽधिपतिप्रत्ययश्चेति । कर्म हेतुप्रत्ययः । विज्ञानं समनन्तरप्रत्ययः । विज्ञानसमनन्तरं विज्ञानस्य जायमानत्वात् । रूपमालम्बनप्रत्ययः । चक्षु[रादि]रधिपतिप्रत्ययः । तत्र विज्ञानं द्वाभ्यां कारणाभ्यामुत्पद्यते यत् चक्षुःरूपं यावन्मनो धर्मान् । इमानि द्वादशायतनानि भवन्ति । तत्र विज्ञानयोजनया अष्टादश धातवो भवन्ति । चक्षुर्धातुः रूपधातुश्चक्षुविज्ञानधातुः इत्यादि ।

स्कन्धादयो धर्माः कथमुत्पद्येरन् । द्वादशसु पर्वसु वर्तित्वात् द्वादश निदानानि भवन्ति । तत्राविद्या क्लेशाः । संस्कारः कर्म । इमौ द्वावुपादाय क्रमश उत्पद्यन्ते- विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना च । तृष्णोपादानाख्यौ द्वौ धर्मौ क्लेशौ । भवः कर्म । अनागते ऽध्वनि कायोपादानस्याद्यं विज्ञानं जातिरित्युच्यते । अन्यत् जरामरणम् । इमानि द्वादश निदानानि अतीतानागतवर्तमानसन्दर्शनानि केवलमुपादनप्रत्ययरूपाणि अनात्मकानि ।

उपपत्तिमरणपुनः सन्धिनिवृत्यर्थकानि द्वाविंशतिरिन्द्रियाण्युच्यन्ते । सर्वसत्त्वानामाद्यशरीरानुभवो विज्ञानमूलकः । तद्विज्ञानं चक्षुरादिभ्यः षोढा समुत्पद्यते इति षडिन्द्रियाण्युच्यन्ते यत् चक्षुरिन्द्रियं यावन्मनैन्द्रियमिति । षड्विवज्ञानजनकत्वादिन्द्रियाणि षडेव । येन स्त्रीपुरुषलक्षणं विकल्प्यते तत् स्त्रीपुरुषेन्द्रियम् । केचिद्वदन्ति- अयं कायेन्द्रियैकदेश इति । तानि षडिन्द्रियाणि कदाचित् षडायतनानीत्युच्यन्ते । एभ्यः षड्भ्य उत्पद्यमानं षोढा विज्ञानं जीवितमित्युच्यते । कस्मात् । इमानि षडायतनानीति षड्विज्ञानानीति सन्तानप्रवृत्तिं लभन्तो इत्यतो जीवितमित्युच्यते । अत एषां जीवितमित्याख्या । तत्र किमिन्द्रिम् । यदुच्यते कर्म । कर्महेतुतया षडायतनषड्विज्ञानानि सन्तानेन प्रवर्तन्ते । जीविते चास्मिन् कर्म जीवितेन्द्रियामित्याख्यायते । कर्मेदं वेदनाभ्य उत्पद्यते । वेदना एव सुखादीनि पञ्चेन्द्रियाणि । तेभ्यः पञ्चेन्द्रियेभ्यः कामतृष्णादयः सर्वे क्लेशाः कायिकवाचिककर्माणि च प्रादुर्भवन्ति । तत्कर्मप्रत्ययं पुनर्जातिमरणमुपादीयते । अयं संक्लेशधर्मो जातिमरणप्रत्ययं सन्तानं करोति ।

किंप्रत्ययं व्यवदानं भवति । नियमेन श्रद्धादीनुपादाय । श्रद्धादिचतुर्धर्मप्रत्यया प्रज्ञा भवति । प्रज्ञा च त्रैकालिकी यत् अनाज्ञातमाज्ञास्यामि, आज्ञा, आज्ञातावी ति । भावनायां क्रियमाणायां तानीन्द्रियाणि ज्ञान[रूप]प्रज्ञाविशेषभूतानि । तथागतः संसारस्थितिप्रवृत्तिनिवृत्तित्र्यवदानार्थकत्वेन द्वाविंशतीन्द्रियाण्यवोचत् । एवमादयो धर्मा दुःखसत्यसङ्गृहीताः । तत्परिज्ञाता दुःखसत्यज्ञानकुशल इत्युच्यते ।

समुदयसत्यमिति । कर्म क्लेशाः । कर्म कर्मस्कन्धे वक्ष्यते । क्लेशाः क्लेशस्कन्धे । कर्मक्लेशाः पूनर्भवनिदानत्वात्समुदयसत्यमित्याख्यायते ।

निरोधसत्यमिति । पश्चाद्विस्तरेण निरोधस्कन्धे वक्ष्यते । यत् प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तमित्येषां त्रयाणां चित्तानां निरोधो निरोधसत्यमित्युच्यते ।

मार्गसत्यमिति । यत्सप्तत्रिंशद्वोधिपक्षिका धर्माः चत्वारि स्मृत्युपस्थानानि चत्वारि प्रधानानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्तबोध्यङ्गानि अष्टावार्यमार्गाङ्गानि इति । चत्वारि सम्यक् स्मृत्युपस्थानानि इति । कायवेदनाचित्तधर्मेषु सम्यक् स्मृतिस्थापनम् । स्मृतिश्च प्रज्ञा भवति । कायो ऽनित्य इत्यादि भावनया तदालम्बने विहरणं कायस्मृत्युपस्थानम् । इयं स्मृतिः प्रज्ञया सह क्रमशो भूयो विवृद्धा वेदनां विकल्पयतीति वेदनास्मृत्युपस्थानम् । भूयश्च परिशुद्धा चित्तं विकल्पयतीति चित्तस्मृत्युपस्थानम् । सम्यक् चर्यया धर्मान् विकल्पयतीति धर्मस्मृत्युपस्थानम् ।

चत्वारि सम्यक् प्रधानानीति । उत्पन्नानां पापकानामकुशलानां धर्माणामादीनवं पश्यन् तत्प्रहाणाय छन्दं जनयति वीर्यमारभते । तत्प्रहाणोपायो यत् तत्प्रत्ययज्ञानदर्शनप्रत्ययः । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय छन्दं जनयति वीर्यमारभते । अनुत्पादोपायो यत् ज्ञानदर्शनप्रत्ययः । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं जनयति (sss_56) वीर्यमारभते । उत्पादोपायो यत् ज्ञानदर्शनप्रत्ययः । उत्पन्नानां कुशलानां धर्मणां वैपुल्याय छन्दं जनयति वीर्यमारभते । उत्तममध्यमाधमक्रमेणोपायः । अविनिवर्तनीयत्वात् [तस्य] ।

चत्वार ऋद्धिपादा इति । छन्दसमाधि संस्कारसमन्वागतर्द्धिपादभावना । छन्दमुपादायोत्पन्नः समाधिश्चन्दसमाधिः । छन्दवीर्यश्रद्धाप्रश्रब्धिस्मृतिसम्प्रजन्यचेतनोपेक्षादिधर्मसहगतः संस्कारसमन्वागतो नाम । गुणानां विवृद्धयर्थत्वेन ऋद्धिपादः । छन्द्रविवृद्धये वीर्यकरणम् । अयं द्वितीय [ऋद्धिपादः] । योगी सच्छन्दः सवीर्यश्च चित्तसमाधिं प्रज्ञाञ्च भावयति । चित्तसमाधिप्रतिलम्भ एव समाधिरित्युच्यते । मीमांसासमाधिरेव प्रज्ञा ।

पञ्चेन्द्रियाणीति । धर्मश्रवणजा श्रद्धा श्रद्वेन्द्रियम् । सश्रद्धः सन् संक्लेशधर्माणां प्रहाणाय व्यवदानधर्माणामधिगमाय च वीर्यमारभते । इदं वीर्येन्द्रियम् । चतुर्णां स्मृत्युपस्थानानामभ्यासः स्मृतीन्द्रियम् । स्मृतिमुपादाय समाधिनिर्वर्तनं समाधीन्द्रियम् । समाधिमुपादाय समुत्पन्ना प्रज्ञा प्रज्ञेन्द्रियम् । इमानि पञ्चेन्द्रियाणि विवृद्धानि बलवन्तीति पञ्चबलानीत्युच्यन्ते ।

अष्टावार्यमार्गाङ्गानीति । श्रुतमयप्रज्ञः श्रद्दधते पञ्चस्कन्धा अनित्या दुःखा इत्यादि । इयं सम्यक् दृष्टिः । प्रज्ञेयं यदि चिन्तामयी भवति । तदा सम्यक् सङ्कल्पः । सम्यक् सङ्कल्पेनाकुशलानां प्रहाणाय कुशलानां कर्मणा भावनायै च यत् वीर्यमाचरति स सम्यक् व्यायामः । ततः क्रमेण प्रव्रजितः शीलमुपादाय सम्यग्वाचं सम्यक् कर्मान्तं सम्यगाजीवञ्च त्रीणि मार्गाङ्गान्यनुप्राप्नोति । अस्मात् सम्यक् संवरात्क्रमशः स्मृत्युपस्थानानि ध्यानसमाधयश्च संसिध्यन्ति । तांश्च स्मृतिसमाधीनुपादाय यथाभूतज्ञानमनुप्राप्नोति । इत्येवमार्याष्टमार्गाङ्गानां (sss_57) क्रमः । अथ मार्गाङ्गेषु शीलं प्राथमिकं स्यात् । कस्मात् । शीलसमाधिप्रज्ञास्कन्धानामार्थिकक्रमत्वात् । सम्यक्स्मृतिः सम्यक्समाधिश्च समाधिस्कन्धः । व्यायामः सर्वत्र समुदाचरति । प्रज्ञास्कन्धो मार्गप्रत्यासन्न इत्यत आदावुक्तः । सा च प्रज्ञा द्विविधा औदारिकी सूक्ष्मा चेति । औदारिकीति या श्रुतमयी चिन्तामयी च प्रज्ञा । अयं सम्यक् सङ्कल्प इत्युच्यते । सूक्ष्मेति भावनामयी प्रज्ञा या ऊष्मादिधर्मगता प्रज्ञप्तिसत्पञ्चस्कन्धान् विदारयति । इयं सम्यक् दृष्टिः । अनया सम्यग्दृष्टया यः पञ्चस्कन्धानां निरोधं पश्यति । अयं प्रथमाभिसम्बुद्ध इत्युच्यते । तदुपादाय सप्तबोध्यङ्गान्यनुप्राप्नोति ।

स्मृतिसम्बोध्यङ्गम्- शैक्षः पुरुषः स्मृतिप्रमोषे क्लेशा उत्तिष्ठन्तीत्यतः सम्यक् स्मृत्युपस्थानं बध्नाति । बद्धस्मृतिः सन् पूर्वागमलब्धां सम्यक् दृष्टिं लभते । अयं धर्मप्रविचयः । धर्मप्रविचयापरित्यागो वीर्यम् । वीर्यमाचरतः क्लेशानां तनुत्वे चित्ते प्रीतिर्जायते । इअयं प्रीतिः । प्रीत्या कायः प्रश्रम्यते । इयं प्रश्रब्धिः । प्रश्रब्ध्या सुखी भवति । सुखित्वे चित्तं समाधीयते । अयं समाधिः दुर्लभो वज्रोपम इत्याख्यायते । फले ऽनासज्य प्रीतिदौर्मनस्यादीनां प्रहाणमुपेक्षा । इयमुत्तमा चर्या । उपेक्षा च नोन्मज्जनं ननिमज्जनं, किन्तु तयोश्चित्तसमता । सम्बोधिर्नामाशैक्षज्ञानम् । इमानि सप्त भावयन् सम्बोधिं लभत इति सम्बोध्यङ्गमित्युच्यते ।

एभिः सप्तत्रिंशब्दोधिपक्षिकैश्चत्वारि श्रामण्यफलानि लभते । स्रोतआपत्तिफलमिति यः शून्यताभि समयः । अनेन शून्यताज्ञानेन त्रीणि संयोजनानि प्रजहाति । सकृदागामिफलमिति यत् इममेव मार्गं भावयन् क्लेशान् तनूकृत्य कामधातौ सकृदुत्पद्यते । अनागामिफलमिति कामधातुकसर्वक्लेशानां प्रहाणम् । अर्हत्फलमिति सर्वक्लेशानां प्रहाणम् । य इदं तथागतधर्मशास्त्रमध्येति स चत्वारि सत्यानि अभिसमेत्य चत्वारि श्रामण्यफलानि प्रतिलभते । अत इदं तथागतशासनशास्त्रमभ्यसितव्यम् ॥

चतुस्सत्यवर्गः सप्तदशः ।

18 धर्मस्कन्धवर्गः

अथैतच्छास्राभ्यासी ज्ञेयादिधर्मस्कन्धानभिसमेति । अभिसमयात् तीर्थिकमिथ्याशास्त्रानभिभूतः क्षिप्रं क्लेशानुपशमयति । आत्मनो दुःखपरिहारकुशलः परानपि त्रायति ।

ज्ञेयादिधर्मस्कन्ध इति यदुत ज्ञेयधर्मा विज्ञेयधर्मा रूपधर्मा आरूप्यधर्माः सनिदर्शनधर्मा अनिदर्शनधर्माः सप्रतिघधर्मा अप्रतिघधर्माः सास्रवधर्मा अनास्रवधर्माः संस्कृत धर्मा असंस्कृतधर्माश्चित्तधर्मा अचित्तधर्माश्चैतसिकधर्मा अचैतसिकधर्माश्चित्तसंप्रयुक्त धर्माश्चित्तविप्रयुक्तधर्माश्चित्तसहभूधर्माश्चित्तासहभूधर्माश्चित्तानुचरधर्माश्चित्ताननुचरधर्मा आध्यात्मिकधर्मा बाह्यधर्मा औदारिकधर्माः सूक्ष्मधर्मा उत्तमधर्मा अवरधर्माः सन्निकृष्टधर्मा विप्रकृष्टधर्मा उपादानधर्मा अनुपादानधर्मा नैर्याणिकधर्मा अनैर्याणिकधर्माः प्राकृतधर्मा अप्राकृतधर्माः समनन्तरधर्मा असमनन्तरधर्माः क्रमिकधर्मा अक्रमिकधर्मा इत्येवमादयो द्विधा धर्माः ।

त्रिधा च सन्ति धर्माः- रूपधर्माश्चित्तधर्माश्चित्तविप्रयुक्तधर्मा इति । अतीतधर्मा अनागतधर्माः प्रत्युत्पन्नधर्माः । कुशलधर्मा अकुशलधर्मा अव्याकृतधर्माः । शैक्षधर्मा अशैक्षधर्मा नैवशैक्षनाशैक्षधर्माः । सत्यदर्शनहेयधर्मा भावनाहेयधर्मा अहेयधर्मा इत्येवमादयस्त्रिधा धर्माः ।

चतुविर्धाश्च सन्ति धर्माः कामधातुप्रतिसंयुक्तधर्मा रूपधातुप्रतिसंयुक्तधर्मा आरूप्यधातुप्रतिसंयुक्तधर्मा अप्रतिसंयुक्तधर्मा इति । चतस्रः प्रतिपदः दुश्चरा दुःखप्रतिपत् सुचरा दुःखप्रतिपत् दुश्चरा सुखप्रतिपत् सुचरा सुखप्रतिपत् इति । चत्वार आस्वादाः- प्रव्रज्यास्वादो विसंयोगास्वाद उपशमास्वादः सम्यक्सम्बोधास्वाद् इति । चत्वारः साक्षात्कृतधर्माः- कायसाक्षात्कृतधर्माः स्मृतिसाक्षात्कृतधर्मा इन्द्रियसाक्षात्कृतधर्माः प्रज्ञासाक्षात्कृतधर्मा इति । चत्वार उपादानकायाः चतस्रो गर्भावक्रान्तयः, चत्वारः प्रत्ययाः, चतस्रः श्रद्धाः, चत्वारि आर्यगोत्राणि, चत्वारि दुश्चरितानि इत्येवमादयश्चत्वारो धर्माः ।

पञ्च स्कन्धाः । षड् धातवः षडाध्यात्मिकायतनानि, षड् बाह्यायतनानि, षड् जातिस्वभावाः, षड् सौमनस्योपविचारा षड् दौर्मनस्योपविचारा षडुपेक्षोपविचाराः षड् सुचरितानि । सप्त विशुद्धयः । अष्ट पुण्यजन्मानि । नवानुपूर्वसमापत्तयः । दशार्यावासाः । द्वादश निदानानि । इत्येवमादयो धर्मस्कन्धा अप्रमाणा अनन्ता इति नावसानं वक्तुं शक्यते ।

तेषु प्राधान्यतः संक्षिपामि । ज्ञेयधर्म इति पारमार्थिकं सत्यम् । विज्ञेयधर्म इति यत् लौकिकं सत्यम् । रूपधर्मा इति रूपरसगन्धस्पर्शाः । अरूपधर्मा इति चित्तासंस्कृतधर्माः । सनिदर्शनधर्मा इति यानि रूपायतनानि सप्रतिधधर्मा इति रूपधर्माः । सास्रवधर्मा इति य आस्रवाणामुत्पादका यथा अनर्हतां प्रज्ञप्तिधर्मेषु चित्तम् । तद्विपरीता अनास्रवधर्माः । संस्कृतधर्मा इति प्रतीत्यसमुत्पन्नाः पञ्च स्कन्धाः । असंस्कृतधर्मा इति पञ्चस्कन्धानां निरोधो ऽयम् । चित्तधर्मा इति आलम्बकं चित्तम् । चैतसिकधर्मा इति यद्विज्ञानमालम्बते तत्समनन्तरजाताः संज्ञादयः । चित्तसंप्रयुक्तधर्मा इति यद्विज्ञानमालम्बते तत्समनन्तरजातम् । यथा संज्ञादयः । चित्तसहभूधर्मा इति ये धर्माश्चित्तेन सहभुवः । यथा रूपं चित्तविप्रयुक्तं गोचरीभवति । चित्तानुचरधर्मा इति ये धर्माश्चित्ते सति उत्पद्यन्ते नासति यथा कायवाग्भ्यामकृतं कर्म । आध्यात्मिकधर्मा इति स्वकायस्यान्तःस्थितानि षडायतनानि । औदारिकसूक्ष्मधर्मा इति परस्परमपेक्ष्यभाविनः । यथा पञ्च कामानपेक्ष्य रूपध्यानं सूक्ष्मम् । आरूप्यध्यानमपेक्ष्य रूपध्यानमौदारिकम् । उत्तमावरधर्मा अप्येवम् । सन्निकृष्टविप्रकृष्टधर्मा इति केचिद्देशभेदाद्विप्रकृष्टाः । केचिदसारूप्याद्विप्रकृष्टाः । उपादानधर्मा इति कायिकाधर्माः । नैर्याणिकधर्मा इति ये कुशलधर्मा । प्राकृतधर्मा इति सास्रवधर्माः । समनन्तर धर्मा इति अन्यस्मात् समनन्तरजाताः । क्रमिकधर्मा इति [ये] क्रमजनकाः ।

रूपधर्मा इति रूपादयः पञ्चधर्माः । चित्तधर्मा इति यथोपरिष्टादुक्ताः । चित्तविप्रयुक्तधर्मा इति अविज्ञप्तिकर्म । अतीतधर्मा इति निरुद्धा धर्माः । अनागतधर्मा इति उत्पत्स्यमाना धर्माः । प्रत्युत्पन्नधर्मा इति उप्तद्यमाना अनिरुद्धाश्च धर्माः । कुशलधर्मा इति परसत्त्वानां हितकृद्धर्माः पदार्थाभिसम्बोधश्च । तद्वपरीता अकुशलधर्माः । उभाभ्यां विरुद्धा अव्याकृतधर्माः । शैक्षधर्मा इति शैक्षाणामनास्रवचित्तधर्माः । अशैक्षधर्मा इति अशैक्षाणां परमार्थगतं चित्तम् । अन्ये नैवशैक्षानाशैक्षा धर्माः । सत्यदर्शनहेयधर्मा इति यत् (sss_60) स्रोतआपन्नानां हेया निमित्तसन्दर्शनास्मिमानतज्जा धर्माः । भावनाहेयधर्मा इति यत् स्रोतआपन्नसकृदागाम्यनागामिनां हेया अनिमित्तसन्दर्शनास्मिमानतज्जा धर्माः । अहेयधर्मा इति ये ऽनास्रवाः ।

कामधातुप्रतिसंयुक्तधर्मा इति ये धर्मा विपाकलब्धा अवीचिनरकात् यावत्परनिर्मितवशवर्तिनो देवान् । रूपधातुप्रतिसंयुक्तधर्मा इति आब्रह्मलोकात् आचाकनिष्ठदेवेभ्यः । आरूप्यधातुप्रतिसंयुक्तधर्मा इति चत्वार्यारूप्याणि । अप्रतिसंयुक्तधर्मा इति अनास्रवधर्माः । दुश्चरा दुःखप्रतिपत् इति मृद्विन्द्रियस्य समाधिं लब्ध्वा मार्गचारिणः । सुचरा दुःखप्रतिपत् इति तीक्ष्णेन्द्रियस्य समाधिं लब्ध्वा मार्गचारिणः । दुश्चरा सुखप्रतिपत् इति मृद्विन्द्रियस्य प्रज्ञां लब्ध्वा मार्गचारिणः । सुचरा सुखप्रतिपत् इति तीक्ष्णेन्द्रियस्य प्रज्ञां लब्ध्वा मार्गचारिणः ॥ प्रव्रज्यास्वाद इति गृहात्प्रव्रज्य मार्गपर्येषणम् । विसंयोगास्वाद इति कायचित्तप्रविवेकः । उपशमास्वाद इति ध्यानसमाधिप्रतिलम्भः । सम्यक्सम्बोधास्वाद इति चतुस्सत्याभिसमयः ॥ स्मृतिसाक्षात्कृतधर्मा इति चत्वारि स्मृत्युपस्थानानि । तान्युपादाय चत्वारि ध्यानान्युत्पद्यन्ते । चतुर्णां सत्यानामभिसमयः प्रज्ञासाक्षात्कृत इत्युच्यते । चत्वार उपादानकाया इति कश्चिदात्मानं हिनस्ति न परान् ॥ कश्चित्परान् हिनस्ति नात्मानम् । कश्चिदात्मनं हिनस्ति परांश्च हिनस्ति । कश्चिन्नात्मानं हिनस्ति न परान् । चतस्रो गर्भावक्रान्तय इति कश्चिदसम्प्रजानन्नेव मातुः कुक्षाववतरति । असम्प्रजानंश्च [मातुःकुक्षौ]तिष्ठति । असम्प्रजानंश्च मातुःकुक्षेर्निष्क्रमति । कश्चित्सम्प्रजानन् मातुः कुक्षाववतरति । असंप्रजानन् मातुः कुक्षौ तिष्ठति । असम्प्रजानन् मातुः कुक्षेर्निष्क्रमति । कश्चित्सम्प्रजानन् मातुः कुक्षाववतरति । सम्प्रजानान् मातुः कुक्षौ तिष्ठति । सम्प्रजानन् मातुः कुक्षेर्निष्क्रमति विपर्यस्तमतिविक्षेपान्नात्मानं सम्प्रजानाति ।

चित्तार्जवेनाविक्षेपादात्मानं सम्प्रजानाति ॥ चत्वारः प्रत्यया इति हेतुप्रत्ययो यो जनकहेतुः वासनाहेतुराश्रयहेतुः । जनकहेतु यो धर्मो जायमानस्य हेतुकृत्यं करोति । यथा विपाकात्मकं कर्म । वासनाहेतुः कामरागवासनायां कामरागो ऽभिवर्धते । आश्रयहेतुः यथा चित्तचैत्तानां रूपगन्धादय आश्रयाः । इमे हेतुप्रत्यया इत्युच्यन्ते । समनन्तरप्रत्यय इति यथा पूर्वचित्तनिरोधात्समनन्तरचित्तमुत्पद्यते । आलम्बनप्रत्यय इति यदालम्ब्य धर्म उत्पद्यते । यथा (sss_61) चक्षुर्विज्ञानस्य जनकं रूपम् । अधिपतिप्रत्यय इति यज्जायमानस्य धर्मस्यान्ये प्रत्ययाः ॥ चतस्रः श्रद्धा इति । (1) तथागतश्रद्धा यत् तत्त्वज्ञानं लब्धा तथागते प्रसन्नचित्तो निश्चिनोति तथागतः सत्त्वेषु श्रेष्ठ इति । (2) अस्मिन् तत्त्वज्ञाने श्रद्धैव धर्मश्रद्धा । (3) एतत्तत्त्वज्ञानलाभी सर्वसङ्घेषु परमोत्तम इतीयं सङ्घश्रद्धा । (4) आर्याणां प्रियं संवरं लब्ध्वा अध्याशयेनापि नाहमकुशलानि करोमि अहमिमं संवरमुपादाय त्रिषु रत्नेषु च श्रद्धावानिति च प्रजानाति इति यदियं श्रद्धा संवरबलादिति संवरश्रद्धेत्युच्यते ॥ चतुरार्यगोत्रत्वात् न चीवरार्थतृष्णया क्लिश्यते । नान्नपानशयनासनार्थं कायिकतृष्णया क्लिश्यते । इति चत्वार्यार्यगोत्राणि ॥ चत्वारि दुश्चरितानीति । रागद्वेषमोहसन्त्रासैर्दुर्गतौ पतति ।

रूपस्कन्ध इति रूपादयः पञ्च । वेदनास्कन्ध इति आलम्बकधर्माः । संज्ञास्कन्ध इति प्रज्ञप्तिविकल्पा धर्माः । संस्कारस्कन्ध इति पुनर्भवजनका धर्माः । विज्ञानस्कन्ध इति विषयमात्रविज्ञानधर्माः ॥ पृथिवीधातुरिति रूपसगन्धस्पर्शसमवायः खट्कलक्षणबहुलः पृथिवीधातुरिति व्यपदिश्यते । स्नेहबहुलो ऽब्धातुः । उष्णलक्षणबहुलस्तेजोधातुः । लघिमलक्षणबहुलो वायुधातुः । रूपलक्षणविरहित आकाशधातुः । आलम्बमानो धर्मो विज्ञानधातुः । चक्षुरायतनमिति चातुर्मौतिकं चक्षुर्विज्ञानाश्रयश्चक्षुर्धातुरित्युच्यते । श्रोत्रघ्राणजिह्वाकायायतनान्यप्येवम् । मन आयतनमिति यदुत चित्तम् ॥ रूपायतनमिति चक्षुर्विज्ञानस्यालम्ब्यधर्मः । तथा शब्दगन्धरसस्पृष्टव्या अपि ॥ षड् जातिस्वभावा इति यत् कृष्णस्वभावः पुरुषः कृष्णं धर्मं निषेवते । शुक्लं धर्मं कृष्णशुक्लं धर्मञ्च निषेवते । तथा शुक्लस्वभावः पुरुषो ऽपि ॥ षट् सौमनस्योपविचारा इति रागचित्ताश्रिताः ॥ षड् दौर्मनस्योपविचारा इति द्वेषचित्ताश्रिताः । षडुपेक्षोपविचारा इति मोहचित्ताश्रिताः । षट् सुचरितानीति तत्त्वज्ञानाश्रितानि ।

सप्त विशुद्ध यः । शीलविशुद्धिरिति शीलसंवरणम् । चित्तविशुद्धिरिति ध्यानसमाधीनामुपसम्पत् । दृष्टिविशुद्धिरिति सत्कायदृष्टिसमुच्छेदः । काङ्क्षावितरणविशुद्धिरिति । (sss_62) काङ्क्षासंयोजनसमुच्छेदः । मार्गामार्गज्ञानदर्शनविशुद्धिरिति । शीलव्रतपरामर्शसमुच्छेदः । प्रतिपदाज्ञानदर्शनविशुद्धिरिति भावनामार्गः । ज्ञानदर्शनविशुद्धिरिति अशैक्षमार्गः ।

अष्टौ पुण्य सर्गा इति मनुष्येष्वाढ्य आब्रह्मलोकात् । पुण्यविपाकसुखनामेषु अतिबहुलत्वात् इमे ऽष्टावुच्यन्ते ॥

नवानुपूर्वसमापत्तय इति प्रथमध्यानमुपसम्पद्यमानो वाचं नियच्छति । द्वितीयध्यानमुपसम्पद्यमानो वितर्कविचारान् । तृतीयध्यानमुपसंपद्यमानः प्रीतिम् । चतुर्थध्याने आनापानम् । आकाशानन्त्यायतने रूपलक्षणम् । विज्ञानानन्त्यायतन आकाशलक्षणम् । आकिञ्चन्यायतने विज्ञानलक्षणम् । नैवसंज्ञानासंज्ञायतन आकिञ्चन्यायतनलक्षणम् । निरोधसमापत्तिमुपसम्पद्यमानः संज्ञावेदितं नियच्छतिः ॥

दशार्यावासा इति । आर्यः पुद्गलः (1) पञ्चाङ्गविप्रहीनो भवति । (2) षडङ्गसमन्वागतः । (3) एकारक्षः । (4) चतुरपाश्रयः । (5) प्रणुन्नप्रत्येकसत्यः । (6) समवसृष्टेषणः । (7) अनाविलसङ्कल्पः । (8) प्रश्रब्धकायसंस्कारः । (9) सुविविक्तचित्तः । (10) सुविमुक्तप्रज्ञः कृतकृत्यः सन् केवलो ऽसहायी भवति । (1) पञ्चाङ्गविप्रहीनो भवतीति । ऊर्ध्वभागीयानि पञ्चसंयोजनानि प्रहाय सर्वसंयोजनक्षयरूपार्हत्वलाभी भवति । (2) षडङ्गसमन्वागत इति । यतश्चक्षुरादिभिः रूपादि दृष्ट्वा नैवा सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतः संप्रजानन् । (3) एकारक्ष इति । स्मृत्यारक्षेण चेतसा समन्वागतो भवति । (4) चतुरपाश्रय इति । भिक्षादींश्चतुरो धर्मानाश्रयते । केचित्पुनराहुः- चतुरपाश्रय इति आर्य [एकं] धर्मं परिवर्जयति । [एकं] (sss_63) धर्म प्रतिसेवते । एकं धर्मं विनोदयति । एकं धर्ममधिवासयति ॥ (5) विशुद्धशीलधारणात् तत्त्वलक्षणं प्रतिबुध्यन् प्रणुन्नप्रत्येकसत्य इत्युच्यते । समुच्छिन्नसर्वदृष्टिक आद्यफलस्य लाभी भवति । (6) समवसृष्टेषण इति कामेषणा [प्रहीणा] भवति । भवेषणा प्रहीणा भवति । ब्रह्मचर्येषणा प्रतिप्रश्रब्धा । आद्यफललाभित्वात् प्रजानाति संस्कृतधर्मा मृषेति । ईषणात्रयप्रहाणं वज्रोपमसमाधिं लप्स्य इतीच्छया शैक्षमार्गं प्रजहाति । तदा क्षयकुशलः समसृष्टेषणा इत्युच्यते । (7) अनाविलसङ्कल्प इति । प्रहीणषड्वितर्कः विशुद्धचित्तस्त्रीणि विषाणि तनूकृत्य द्वितीयफलं लभते । प्रशमितकामशोकः सन् तृतीयफलमनुप्राप्नुवन् अनाविलसङ्कल्प इत्युच्यते । (8) प्रश्रब्धकायसंस्कार इति । कामधातुकसंयोजनानि विहाय चत्वारि ध्यानान्युपसम्पद्य विहरतीत्यतः प्रश्रब्धकायसंस्कारो भवति । क्षयज्ञानलाभा (9) त्सुविविक्तचित्तो भवति इत्युच्यते । अनुत्पादज्ञानलाभात् (10) सुविमुक्तप्रज्ञोभवति । आर्याणां चित्तमेषु दशसु स्थानेषु आवसतीति आर्यावासः । कृततथागतधर्मो ऽवश्यं दुःखस्यान्तं कुर्यादित्यतः कृतकृत्य इति कथ्यते । पृथग्जनैः शैक्षजनैश्च विविक्त इत्यतो ऽसहायीति । तच्चितं सर्वधर्मान् विधूय अत्यन्तशून्यताप्रतिष्ठितमित्यतः केवल इत्याख्यायते ॥

द्वादशनिदानानि । तत्राविद्येति यत् प्रज्ञप्त्यनुयायिचित्तम् । तद्विपर्ययचित्तमुपादाय कर्माणि सञ्चिनोतीति अविद्याप्रत्ययाः संस्कारा इत्युच्यन्ते । विज्ञानं कर्मानुयायि इति सत्कायमुपादत्ते । अतः संस्कारप्रत्ययं विज्ञानम् इति । सत्कायमुपादाय नामरूपषडायतनस्पर्शवेदना भवन्ति । इमानि अङ्गानि कालक्रमेण वर्धन्ते । सर्वा अपि वेदना अनुभवन् प्रज्ञप्तिमाश्रयते इत्यतस्तत्र तृष्णां जनयति । तृष्णामुपादायान्ये क्लेशा भवन्तीति त उपादानमित्युच्यन्ते । तृष्णोपादानप्रत्ययो भवः । स च त्रिकाण्डः । एभ्यः कर्मक्लेशप्रत्ययेभ्य और्ध्वकालिकी जातिः । जातिप्रत्ययाज्जरामरणादयो भवन्ति ।

तत्र यदुच्यते अविद्या प्रत्ययाः संस्कारा इति तदतीताध्वप्रकाशनं शाश्वतदृष्टिसमुच्छेदकम् । ज्ञायते हि अनादिसंसारे आजवञ्जविभावे कर्मक्लेशप्रत्ययेभ्यः कायो वेद्यत इति । यदुच्यते जातिमरणमिति । तदनागताध्वप्रकाशनमुच्छेददृष्टि समुच्छेकदम् । यस्य तत्त्वज्ञानं न भवति । तस्य जातिमरणयोर्नास्त्यन्तो दुःखफलमात्रमस्ति । यदुच्यन्ते मध्ये ऽष्टावङ्गानि । तत्प्रत्युत्पन्नधर्मप्रकाशनम्, प्रत्ययकलापमात्रात् सन्तत्या प्रवर्तते, नास्ति तत्त्वज्ञानमिति । तत्राविद्या संस्काराश्च पूर्वाध्वप्रत्ययाः । तत्प्रत्ययं फलं यदुत विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना च । एभ्यः पञ्चभ्य उत्पद्यते तृष्णोपादानं भवश्च । इमे ऽनागताध्वहेतवः । तत्प्रत्ययं फलं यत् जातिजरामरणम् । वेदना वेदयतः पुनस्तृष्णोपादानञ्च भवति । अत इदं द्वादशाङ्गं[भव]चक्रमनवस्थं प्रवर्तते । तत्त्वज्ञानं लभमानः कर्माणि न सञ्चिनोति । कर्मणामसञ्चये न भवति जातिः । जातिर्हि प्रवृत्तिसाधनी ॥

य इदं सम्यच्छास्त्रं निषेवते स धर्माः स्वलक्षणशून्या इति प्रज्ञाय न कर्माणि सञ्चिनोति । कर्मणामसञ्चये न भवति जातिः । जात्यभावाज्जरामरणशोकपरिदेवदुःखोपायासाः सर्वे निरुध्यन्ते । अत आत्महितं सत्वहितञ्च कामयमानः क्रमशस्तथागतमार्गं प्रसाध्य स्वधर्ममादीपयन् परधर्मं यो निराकरोति तेनेदं शास्त्रं निषेवितव्यम् ॥

धर्मस्कन्धवर्गो ऽष्टादशः ।

19 दशसु वादेषु आद्यं सत्तालक्षणम्

(पृ) शास्त्रारम्भ उक्तं भवता- निषेव्य भिन्नवादांश्चेति तथागतधर्मविचारयिषया । के ते विभिन्ना वादाः । (उ) त्रिपिटके सन्ति बहवो विभिन्ना वादाः । पुरुषाणां भूयसा प्रमोदाय परं विवादशास्त्रप्रवर्तकैरभिहितम्- यदुत (1) अस्त्यध्वद्वयं नास्त्यध्वद्वयम्, (2) सर्वमस्ति सर्वं नास्ति, (3) अस्त्यन्तरा भवो नास्त्यन्तरा भवः, (4) चतुस्सत्यानामानुपूर्वेण लाभः एकक्षणेन लाभः (5) अस्ति परिहाणिः नास्ति परिहाणिः (6) अनुशयाश्चित्तसम्प्रयुक्ताः चित्तविप्रयुक्ताः, (7) चित्तं प्रकृतिपरिशुद्धम्, न प्रकृतिपरिशुद्धम्, (8) उपात्तविपाकं कर्म किञ्चिदस्ति किञ्चिन्नास्ति, (9) तथागतः सङ्घगणितः, न सङ्घगणितः, (10) अस्ति पुद्गलो नास्ति पुद्गल इति ।

केचिदाहुः- अस्ति अध्वयधर्म इति । केचिदाहुः नास्तीति । केन प्रत्ययेन अस्तीति वदन्ति केन प्रत्ययेन नास्तीति । (उ) अस्तीति यः सन् धर्मः तत्र चित्तमुत्पद्यते । त्र्यध्वधर्मे चित्तमुत्पद्यत इत्यतो ज्ञातव्यं तदस्तीति ॥

(पृ) प्रथममुच्यतां सत्तालक्षणम् । (उ) ज्ञानं यत्र प्रचरति[तत्]सत्तालक्षणम् ।

दूषणम्- ज्ञानमविद्यमाने ऽपि प्रचरति । कस्मात् । यथाधिमुक्ति अविनीलकं दृष्ट्वा विनीलकं पश्यति । कृतकं मायावस्तु असदपि सत् पश्यति । अकिञ्चनस्य ज्ञानादाकिञ्चन्यायतनसमाधिमुपसम्पन्नो भवति । अङ्गुल्या च निर्दिश्य [वदति] चन्द्रद्वयमहं पश्यामीति । सूत्रे चोक्तम्- अहं प्रजानामि नाध्यात्ममस्ति छन्दराग इति । उक्तञ्च सूत्रे- यथा यो रूपे छन्दरागः तं प्रजहीत् । एवंवस्तद्रूपं प्रहीणं भवति इति । यथा च स्वप्ने असदपि मिथ्या [सत्] पश्यति । इत्यादिभिः कारणैर्ज्ञानमविद्यमाने ऽपि प्रचरति । ज्ञानप्रचरास्पदत्वादस्तीति न सम्भवति ।

उच्यते । अविद्यमाने ऽपि ज्ञानं प्रचरतीति न भवति । कस्मात् । आश्रयालम्बनात्मक धर्मद्वयं प्रतीत्य हि विज्ञानमुत्पद्यते । यद्यनालम्बनं विज्ञानमुदेश्यति । अनाश्रयमपि विज्ञानमुत्पन्नं स्यात् । तथा च धर्मद्वयं निष्प्रयोजनं स्यात् । एवं विनापि विमुक्तिं तद्विज्ञानं सदोत्पद्यते । अतो ज्ञायते विज्ञानं नाविद्यमाने प्रचरतीति । अथ यत् किञ्चन विजानातीति विज्ञानम् । यत् न किञ्चन विजानाति न तत् विज्ञानम् । विज्ञानं विषयं विजानाति वचनं चक्षुर्विज्ञानं रूपं विजानाति यावन्मनोविज्ञानं धर्मान् विजानाति इत्येतस्याभिधानम् । यदि मतम् अनालम्बनं विज्ञानमस्तीति । तद्विज्ञानं कस्य विज्ञानं भवेत् । किञ्च अनालम्बनं विज्ञानमस्तीति वादिनस्तत् भ्रान्तं स्यात् । यथा केचिद्वदन्ति भ्रान्तविक्षिप्तचित्तो ऽहं लोके ऽविद्यमानमप्यात्मानं पश्यामीति । यदि किञ्चिदविद्यमानं जानीयात् । संशयो न स्यात् । किञ्चित्तु ज्ञातुः संशय उत्पद्यते । उक्तञ्च सूत्रे- यो ऽयं लोकतो ऽविद्यमान आत्मा, तस्य ज्ञानं दर्शनं वेति नेदं स्थानं विद्यते इति ।

भवद्ववचनं स्वतो विरूद्धम् । यद्यसत्, कस्य ज्ञानं स्यात् । उक्तञ्च सूत्रे- चित्तचैत्ता आलम्बमानधर्माः इति । किञ्चाह- सर्वे धर्मा आलम्ब्या इति । नतु तत्रोक्तम् अविद्यमानो धर्म आलम्ब्व्यं भवतीति । अथ सर्वे विषयधर्मा विज्ञानोत्पादहेतवः । यद्यविद्यमानः को हेतुर्भवति । उक्तञ्च सूत्रे- त्रयाणां सन्निपातः स्पर्श इति । अविद्यमानानां धर्माणां कः सन्निपातः । अथासदालम्बनं ज्ञानं कथमुपलभ्येत । यस्य ज्ञानं न तदसत् । यन्नास्ति न तस्य ज्ञानम् । अतो नास्त्यसदालम्बनं ज्ञानम् ।

यदुक्तं भवता ज्ञानमविद्यमाने ऽपि प्रचरति । यथाधिमुक्ति अविनीलकं दृष्ट्वा विनीलकमिति पश्यतीति नेदं स्थानं विद्यते । कस्मात् । अविनीलके ऽपि तत्त्वतो ऽस्ति विनीलकस्वभावः । यथोक्तं सूत्रे- अस्त्यस्मिन् वृक्षे विशुद्धता इति ।

नीललक्षणग्राहीचित्तबलात् सर्वं नीलं परिणमते नत्वनीललक्षणमिति । मायाजालसूत्रञ्चाह- अस्ति माया मायावस्तु । असति सत्त्वे सत्त्वाभासं पश्यन्तीति माया इति । भवतोक्तम् अकिञ्चनस्य ज्ञानादाकिञ्चन्यायतनमुपसम्पन्न इति । समाधिबलात् तदसल्लक्षणं (sss_67) भवति न तु असत्तद्भवति । यथा वस्तुतः सदपिरूपमपोह्यते शून्यरूपमिति । समाधिमुपसम्पन्नेनाल्पं दृश्यत इत्यतो ऽसदिच्यते । यथाल्पलवणमलवणमित्युच्यते । अल्पज्ञो ऽज्ञ इति । यथा च नैवसंज्ञानासंज्ञायतनमुच्यते । तत्र वस्तुतः संज्ञायां सत्यामपि नैवास्ति न नास्तीति व्यपदिश्यते । उक्तञ्च भवता- अङ्गुल्या निदिश्यात्मानं चन्द्रद्वयं पश्यामीति । अनिभृतत्वात् एकं द्विधा पश्यति । य एकाग्रचक्षुष्कः स न पश्यति । अहं प्रजानामि नाध्यात्ममस्ति छन्दराग इति यद्भवतोक्तम् । स पञ्चनीवरणविरुद्धानि सप्तबोध्यङ्गानि दृष्ट्वा मनस्कारं जनयति- अहं प्रजानामि अन्तश्छन्दाभावमिति । न तु [एकान्ततो] नास्तीति प्रजानाति । किञ्चोक्तं भवता- यत् रूपे छन्दरागं प्रहीणं प्रजानाति । तद्रूपप्रहाणमिति । परमार्थप्रज्ञादर्शनस्य मिथ्याधिमुक्तिं प्रति विरोधित्वात् छन्दरागप्रहाणमित्युच्यते । स्वप्ने ऽसदपि पश्यतीति यत् भवानाह । तत्र पूर्वं दृष्टश्रुतस्मृतविकल्पित भावितान्युपादाय हि स्वप्नदर्शनम् । वातपित्तश्लेष्मणां वशाच्च स्वप्नदर्शनमनुयाति । कदाचित् कर्मप्रत्ययाच्च स्वप्नो भवति । यथा पुरा बोधिसत्त्वस्य महास्वप्ना अभूवन् । कदाचित् देवा आगम्य स्वप्नमुपदर्शयन्ति । अतः स्वप्नदर्शने नासतो ज्ञानं भवति ।

दूषणम्- यत् भवानवोचत्- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । इदमयुक्तम् । तथागतः पुद्गलदूषणयाह- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । न तु तन्निष्ठया । भवतोक्तम्- विज्ञेयसत्त्वाद्विज्ञानमस्तीति । विज्ञेयधर्मे सति अस्तीति ज्ञानम् । असति नास्तीति ज्ञानम् । यदीदं वस्तु नास्ति । तद्वस्तु नास्तीति शून्यं पश्यति । किञ्च त्रिविधनिरोधो निरोधसत्यमित्युच्यते । यदि नास्ति शून्यचित्तम् किं निरूध्यते । [यत्]भवानवोचत् चक्षुर्विज्ञानं रूपं विजानाति यावन्मनोविज्ञानं धर्मान् विजानाति इति । तत् विज्ञानं विषयमात्रं विजानाति न विचिनोति सन् वा असन् वा इति । यदपि भवानाह- यद्यनालम्बनं विज्ञानमस्ति । तद्भ्रान्तमिति । तदा अस्ति असज्ज्ञानस्य (sss_68) ज्ञानम् । यथा मदमत्तः पुरुषः पश्यति अविद्यमानमपि । भवानवोचत्- यदि असज्जानीयात्, संशयो न भवेदिति । किमस्ति किं वा नास्तीति यदि संशयः, तदा अनालम्बनं ज्ञानमस्ति । आह च भवान्- यथोक्तं सूत्रे यल्लोकतो ऽविद्यमान आत्मा तस्य ज्ञानं दर्शनं वेति नेदं स्थानं विद्यत इति । इदं सूत्रं न धर्मलक्षणानुगतम् अबुद्धवचनं तदाभासं वा । समाधिर्वा एवम् । तत्समाधिमुपसम्पन्नेन यत्किञ्चित् दृश्यते सर्वं सदेव । तत्समाधित्वादेवमुच्यते । [मम वचनं प्रति]स्वतो विरुद्धमिति भवानवोचत् । अस्ति असदालम्बनं ज्ञानमिति मम वचनं न स्वतो विरुद्धम् । अवोचच्च भवान्- चित्तचैत्ता आलम्बमानाः । सर्वे धर्मा आलम्ब्या इति । सन्ति च चित्तचैत्ता अनालम्बमानाः । चित्तचैत्ता न परमायार्थालम्बनाः । अतो ऽनालम्बमाना भवन्ति । धर्माणां यत्परमार्थलक्षणं तल्लक्षणैर्वियुक्तत्वात्

चित्तचैत्ता नालम्बमाना भवन्ति । यत् भवान् ब्रवीति विषया विज्ञानजनकहेतवः । तेषामसत्त्वे को हेतुः स्यादिति । तद्विज्ञानं सद्धेतुकमेव । त्रयाणां सन्निपातः स्पर्श इति । यत्र त्रीण्युपलभ्यन्ते तत्र तेषां सन्निपातः । न तु सर्वत्र त्रीणि सन्ति । अब्रवीच्च भवान्- यस्य ज्ञानं, न तदसद्भवति । यन्नास्ति, न तस्य ज्ञानमिति । यदि सदालम्बनं ज्ञानमिति । तत्रापि समो दोषः । यत् भवानाह- यथा वृक्षे ऽस्ति विशुद्धतेति । नेदं युज्यते । सत्कार्यदोषात् । यद्भवतोक्तं [नील]लक्षणग्राहिचित्तं विपुलं परिणमत इति । तदपि न युक्तम् । नीललक्षणाल्पमूलं सर्वां महापृथिवीं यत् नीलं पश्यति । तदभूतदर्शनम् । तथा अल्पनीलभावनया तु सर्वं जम्बूद्वीपं यत् नीलं पश्यति न तदभूतदर्शनम् । भवान् ब्रवीति- मायाजालसूत्रमाह- अस्ति माया मायावस्तु इति । असति सत्त्वे सत्त्वाभासं सत्त्व इति पश्यति । तद्वस्तु परमार्थतो ऽसत्पश्यति । तदा अनालम्बनं ज्ञानं भवति । आह च भवान्- समाधिबलात्तल्लक्षणं भवति यथा वस्तुतः सदपि रूपं शून्यतयापोह्यत इति । यदि रूपं वस्तुसदपोह्यते शून्यरूपमिति । तदा विपर्ययः । अल्पस्य सतो ऽसत्तावचनमपि विपर्यय एव । अनिभृतत्वादेकं द्विधा पश्यतीति यद्वचनम् । तदपि न युज्यते । यथा तिमिरोपहतचक्षुष्क आकाशे केशान् पश्यति । ते ऽवस्तुसन्तः । आह च भवान् पञ्चनीवरणविरुद्धानि सप्तबोध्यङ्गानि दृष्ट्वा मनस्कारं जनयति अहमसत् प्रजानामीति । सप्तबोध्याङ्गानि भिन्नानि । (sss_69) छन्दरागाभावश्च भिन्नः । कथमेकः स्यात् । भवान् ब्रवीति- परमार्थप्रज्ञादर्शनस्य मिथ्याधिमुक्तिं प्रति

विरोधितैव छन्दरागप्रहाणमिति । मिथ्याधिमुक्तिर्हि अभूतभावना । अत उच्यते छन्दरागप्रहाणं प्रज्ञाय रूपप्रहाणं भवतीति । परमार्थप्रज्ञा तु अनित्यभावना । यत् भवान् कथयति- स्वप्ने वस्तुसन् दृश्यत इति । तदयुक्तम् । यथा स्वप्ने [पश्यति] कुट्यां पततीव । न वस्तुतः पतति । अतो ऽस्ति असज्ज्ञानस्य ज्ञानम् । न तु यत्न ज्ञानं प्रचरतीति सत्तालक्षणम् ॥

दशसु वादेषु आद्यसत्तालक्षणवर्ग एकोनविंशः

20 असत्तालक्षणम्

(पृ) यदि नास्तीदं सल्लक्षणम् । स्कन्धधात्वायतनसङ्गृहीतैर्धर्मैः भवितव्यमस्तीति । (उ) तदपि न युक्तम् । कस्मात् । अयं वादी वदति- स्कन्धधात्वायतनसङ्गृहीतं वस्तु पृथग्जनधर्मो न धर्मलक्षणानुगतम् । तथा चेत् तथतादयो ऽसंस्कृतधर्मा अपि सन्तः स्युः । इति केचिद्वदेयुः । वस्तुतस्तु असन्तस्ते । अतो ज्ञायते स्कन्धधात्वायतनसङ्गृहीता धर्मा न सल्लक्षणा इति ।

(पृ) यत् पुरुषस्य प्रत्यक्षज्ञानादिना अस्त्युपलभ्यमिति श्रद्धा भवति तत्सल्लक्षणम् । (उ) तदपि न सल्लक्षणम् । अयं श्रद्धेयधर्मो नियतविकल्परूपो नोअलपभ्यवचनः । आह च सूत्रम्- ज्ञानप्रतिशरणेन भवितव्यं न विज्ञानप्रतिशरणेन इति । स्वभावलब्धत्वात् रूपादयो विषया नोपलम्भनीया इति पश्चाद्वक्ष्यते । इमे ऽसल्लक्षणाः सन्तो [वस्तुतो] नापोह्यन्ते । अस्तितयोपलम्भलक्षणं कथं स्थाप्येत । (पृ) भावधर्मयोगादस्तीत्युच्यते । (उ) भावश्च पश्चाद्दूषयिष्यते । नह्यस्ति भावे भावः । कथं भावधर्मयोगादस्तीति । (sss_70) प्रतीत्यसमुत्पन्नत्वाद्धावलक्षणं नियतविकल्परूपं नोपलभ्यवचनम् । लोकसत्यमात्रतो ऽस्ति न परमार्थतः ।

(पृ) यदि लोकसत्यतो ऽस्ति । तदा पुनर्वक्तव्यं लोकसत्यतो ऽतीतो ऽनागतश्च किमस्ति उत नास्ति इति । (उ) नास्ति । कस्मात् । ये रूपादयः स्कन्धा वर्तमानाध्वगताः, ते सकारित्रा उपलभ्यज्ञानदर्शनाः । यथोक्तं सूत्रे- रूप्यत इति रूपलक्षणम् इति । यद्वर्तमानाध्वगतं तत् रूप्यते नातीतमनागतं वा । तथा वेदनादयो ऽपि । अतो ज्ञायते वर्तमानमात्रे सन्ति पञ्च स्कन्धाः । नाध्वद्वये सन्ति । अथ यो धर्मः कारित्रविहीनः स स्वलक्षणविहीनः । यद्यतीतो वह्निर्न दहति । न स वह्निरित्याख्यायते । तथा विज्ञानमपि, यद्यतीतं न विजानाति न तद्विज्ञानमित्युच्यते । यन्निर्हेतुकं तदस्तीति न युज्यते । अतीतो धर्मो निर्हेतुकः, सो ऽस्तीति न युज्यते । अथ प्राकृताः सन्तो धर्माः प्रतीत्यसमुत्पन्नाः । यथा अस्ति पृथिवी, सन्ति बीजसलिलादयः प्रत्ययाः, तदा अङ्कुरादिकमुत्पद्यते । पत्रलेखिनीपुरुषकारेषु सत्सु सिध्यत्यक्षरम् । द्वयोर्धर्मयोः समवाये विज्ञानमुत्पद्यते । अनागते ऽध्वनि अङ्कुराक्षरविज्ञानादीनां कारणानि असमवेतानि । कथं सन्तीति लभ्यन्ते । अतो ऽध्वद्वयमसत्स्यात् ।

अथ यद्यनागतधर्मो ऽस्ति । तदा नित्यः स्यात् । अनागताद्वर्तमानं प्रत्यनुप्राप्तेः । यथा कुटीतः कुटीमनुप्राप्नोति । तदा नानित्यः स्यात् । न चैतत्सम्भवति । यथोक्तं सूत्रे- चक्षुर्विज्ञानमुत्पद्यमानं न कुतश्चिदागच्छति । निरुध्यमानं न क्वचिद्गच्छति । इति । अतो ऽतीतानागतधर्मौ न कल्पयितव्यौ । अथ यद्यनागतं सत् चक्षू रूपं पश्यति तदा सकारित्रं स्यात् । तथातीतमपि । न तु वस्तुतो युज्यते । अतो ज्ञायते अतीतानागतधर्मो ऽसन्निति । [यदि]अतीतानागतरूपमस्ति, तदा सप्रतिघं सावरणञ्च स्यात् । न वस्तुतो युज्यते । अतो नास्ति । अथ यदि घटादयः पदार्थाः अनागताः सन्ति । तदा कुलालादयः सव्यापारा न भवेयुः । दृश्यन्ते तु सव्यापाराः । अतो नास्त्यनागतः । किञ्च भगवानाहसंस्कृतधर्मा उत्पादव्ययस्थित्यन्यथात्वै स्त्रिलक्षणा उपलभ्यन्ते इति । उत्पाद इति यो धर्मः (sss_71) पूर्वमभूत्वा इदानीं सव्यापारो दृश्यते । व्यय इति कृतः पुनरसन् भवति । स्थित्यन्यथात्वम् इति सन्तत्या स्थिते विकरो ऽन्यथात्वम् । इमानि त्रीणि संस्कृतलक्षणानि वर्तमानगतानि नातीतानागतानि ॥

असत्तालक्षणवर्गो विंशः ।

21 अध्व द्वयसत्तावर्गः

(पृ) वस्तुसदतीमनागतम् । कस्मात् । यो धर्मो ऽस्ति तत्र चित्तं भवति । यथा वर्तमानधर्मो ऽसंस्कृतधर्माश्च । भगवान् रूपलक्षणमुक्त्वा पुनराह- अतीतमनागतञ्च रूपमिति । अपिचाह- यत्किञ्चन रूपमाध्यात्मिकं बाह्यं वा औदारिकं सूक्ष्मं वा अतीतमनागतं प्रत्युत्पन्नं वा [सर्व]मभिसंक्षिप्य रूपस्कन्ध इति । किञ्चाह- [रूप]मनित्यमतीतमनागतम्, कः पुनर्वादः प्रत्युत्पन्नं इति । अनित्यं हि संस्कृतलक्षणम् । अतो ऽस्तीति वक्तव्यम् । दृष्टे ज्ञानात् ज्ञानमुत्पद्यते इति परिभावितत्वात् । यथा शालेः शालिर्भवति । अतो ऽतीतमस्तीति स्यात् । यदि नास्त्यतीतं, फलं निर्हेतुकं स्यात् । उक्तञ्च सूत्रे- यदतीतं वस्तुसत् हितकरं तद्भगवानुपदिशति । इति । किञ्चाह- अतीतमनागतं सर्वमनात्मानं भावयेत् । इति । अनागतालम्बनं मनोविज्ञानं अतीतं मन आश्रयते । यदातीतं विज्ञानमसत्, किमाश्रयेत् । अतीतकर्मत अनागतं फलमिति ज्ञानं सम्यग्दृष्टिः । तथागतस्य दशबलान्यतीतानागतकर्माणि जनयन्ति । तथागतः स्वयमेव वदति- यस्य नास्त्यतीतं कृतं पापकर्म स पुरुषो नैव दुर्गतौ पतिष्यति इति । सास्रवचित्तवर्तिनां शैक्षाणां श्रद्धादिन्यनास्रवेन्द्रियाणि न स्युः । आर्याश्चानागतं वस्तु न व्यवस्थया (sss_72) व्याकुर्यः । स्मृतिर्यदि नास्ति अतीतानागतयोः तदा पुरुषो नानुस्मरेत्पञ्चविषयान् । कस्मात् । नहि मनोविज्ञानं दृष्टे पञ्च विषयान् प्रजानाति । किञ्चाष्टादश मनौपविचारा अतीतालम्बना इत्युच्यन्ते । यद्यतीतमनागतं नास्ति, तदा अर्हन् न कीर्तयेत्- अहं ध्यानसमाधिमुपसम्पन्न इति । नहि समाधिस्थितो वचनं वक्ति । चतुर्षु स्मृत्युपस्थानेषु अधिचित्तमधिवेदनञ्च भावना न भवेत् । कुतः । नहि प्रत्युत्पन्ने ऽतीतं भावयतीति लभ्यते । चत्वारि सम्यक् प्रधानानि च नाभ्यस्येत् । कुतः । नह्यनागताध्वगता अकुशला धर्माः सन्ति । तथान्यानि त्रीण्यपि । यद्यतीतमनागतं नास्ति, तदा तथागतो ऽसन् स्यात् । दीर्घमल्पकालं वा शीलाभ्यासश्च न स्यादित्यतो न युज्यते ॥

अध्वद्वयसत्तावर्ग एकविंशः ।

22 अध्वद्वयनास्तितावर्गः

अत्रोच्यते । अतीतमनागतञ्च नास्ति । भवता यद्यप्युक्तं सति धर्मे चित्तमुत्पद्यत इति । तत्पूर्वमेव प्रत्युक्तम् । असन् धर्मो ऽपि चित्तमुत्पादयतीति । यदुच्यते भवता- रूपलक्षणेन रूपसंज्ञया [अतीतं] रूपं लक्ष्यत इति । तदपि न युक्तम् । यदतीतमनागतम्, तद्रूपं न स्यात् । रूपणाभावात् । अनित्यलक्षणमित्यपि न वक्तव्यम् । भगवान् सत्त्वानां केवलमिथ्यासंज्ञाविकल्पानुवर्तनात्तन्नाम व्यवहरति । भवानाह- ज्ञानात् ज्ञानं भवतीति । हेतुः फलस्य हेतुक्रियां कृत्वा निरुध्यते ।यथा बीजमङ्कुरस्य हेतुं कृत्वा निरुध्यते । भगवानप्याह- अस्योत्पादादिदमुत्पद्यत इति । भवतोक्तं- यत् वस्तु सत् हितकरं तद्भगवानुपदिशतीति । भगवदुक्तं वस्त्विदं प्रकृतितः प्रत्युत्पन्नकाले ऽनुक्तमप्यस्ति । यदि मतम्- अतीतं निरुद्धमिति । तदा नास्तीति ज्ञायते । भवानाह- सर्वमनात्म (sss_73) भावयेत् इति । यस्मात्सत्त्वा अतीताननागतान् धर्मान् सात्मनो मन्यन्ते तस्मात् भगवानेवमवोचत् । भवतोक्तम् [इति ज्ञानं] सम्यक् दृष्टिरिति । यस्मात् कायो ऽयं कर्मसमुत्पादकः । तच्च कर्म फलस्य हेतुं कृत्वा निरुद्धम् । पश्चाच्च तत्फलं पुनरात्मनानुभूयते । तस्मादुक्तम्- अस्ति फलमिति । तथागतशासने अस्ति वा नास्ति वा इति सर्वमुपाय इत्युच्यते । पुण्यपापकर्मप्रत्ययत्वप्रदर्शनार्थम्, नतु परमार्थतः । यथा प्रतीत्यास्ति सत्त्व इत्युच्यते । तथातीतमनागतमपि । अतीतं मन आश्रयत इतीदमपि उपायाश्रयणम् । न तु यथा पुरुषेण भित्त्याद्याश्रीयते । चित्तस्योत्पादो नात्मनि निश्रयत इति च विशदम् । पूर्वचित्तमुपादायानन्तरचित्तमुत्पद्यते । तथा कर्मबलमपि । तथागतः प्रजानाति- कर्मनिरुद्धमपि फलस्य हेतुं करोतीति । न वदति एकान्ततः प्रजानामीति । यथर्णपत्नस्थमक्षरम् । तथा पापकर्मापि । अनेन कायेन कर्म क्रियते । तस्य च कर्मणो निरोधे ऽपि विपाको न प्रणश्यति ।

भवानाह- श्रद्धादीन्यनास्रवेन्द्रियाणि न स्युरिति । यदि शैक्षो ऽनास्रवेन्द्रियं लब्धवान् । प्रत्युत्पन्नस्थमेव लब्धवान् । अतीतं निरुद्धमनागतञ्चाप्राप्तम् । [प्रत्युत्पन्नन्तु] समन्वागतमित्यतो नास्तीति न वक्तुं शक्यते । भवानाह- आर्या अनागतं न व्याकुर्युरिति । आर्यज्ञानबलेन हि तथा । असन्तं धर्ममपि व्याकुर्वन्ति । यथा अतीतं धर्मं निरुद्धमपि स्मृतिबलात्प्रजानाति । भवानाह- नानुस्मरेत्पञ्च विषयानिति । प्राकृतो जनो मोहादभूतस्मृत्या पूर्वगृहीतं नियतलक्षणं पश्चान्निरुद्धमपि उत्पद्यमान[मिवा]नुस्मरति । स्मृतिधर्मश्च तथैव स्यात् । न तु शशशृङ्गादिसमाना स्यात् । अष्टादशमौपविचाराः पुनरेवम् । प्रत्युत्पन्नगृहीतं रूपं निरुद्धातीतमपि तत्स्मृतिरनुवर्तते । भवानाह- न कीर्तयेत्- अहं ध्यानसमाधिं लब्धवानिति । तं समाधिं [पूर्वं] प्रत्युत्पन्ने ऽलभत । अनुस्मरणबलाद्वदति- अहं लब्धवानिति । भवान् ब्रवीति- अधिचित्तमधिवेदनञ्च भावना न भवेत् इति । चित्तं द्विधाक्षणिकमानुबन्धिकमिति । प्रत्युत्पन्नं चित्तं प्रयुज्यानुबन्धिकं चित्तं भावयति । न त्वनुस्मृतो वर्तते । भवानवोचत्- चत्वारि सम्यक्प्रधानानि नाभ्यस्येदिति । अनागताकुशलधर्माणां निदानमपसारयति । अनागतकुशलधर्माणां निदानमुत्पादयति । भवानाह- तदा तथागतो ऽसन् स्यादिति । तथागतः परिनिर्वृतलक्षणः । [अतीते] ऽध्वनि दृष्टो ऽपि [प्रत्युत्पन्ने] (sss_74) अस्ति नास्तीति न परिगृह्यते । स परिनिर्वाय पारगतः खलु । सत्त्वाश्च शरणीकुर्वन्ति यथा लौकिकाः पितरावाराधयन्ति । उक्तञ्च भवता- सूदीर्घमल्पकालं वा शीलाभ्यासश्च न स्यादिति । न हि कालतः शीलं विशिष्यते । कस्मात् । न हि कालो द्रव्यम् । धर्माणामुत्पत्तिव्ययसमवायमात्रं कालो ऽस्तीत्युच्यते । तस्माद्भवतोक्ता हेतवः सर्वे ऽयुक्ताः ॥

अध्वद्वयनास्तितावर्गो द्वाविंशः ।

23 सर्वधर्मसदसत्तावर्गः

शास्त्रमाह- केचिद्वदन्ति सर्वे धर्माः सन्तीति । केचिद्वदन्ति- सर्वे धर्मा न सन्तीति ।

(पृ) केन कारणेन अस्तीति वदन्ति । केन कारणेन नास्तीति । (उ) अस्तीति । भगवानाह- सर्वं सर्वमिति ब्राह्मण यावदेव द्वादशायतनानि । सर्वमस्ति [ब्राह्मण] इति । पृथिव्यादीनि द्रव्याणि संख्यादयो गुणाः उत्क्षेपणावक्षेपणादिकं कर्म । सामान्यविशेषसमवायादयो धर्माः । मूलप्रकृत्यादयः । लोके च शशविषाणकूर्मरोमाहिपादलवणगन्धवायुरूपादयो न सन्ति । उक्तं हि भगवता सूत्रे-

आकाशे [च] पदं नास्ति श्रमणो नास्ति बाह्यतः । प्रपञ्चाभिरता लोका निष्प्रपञ्चास्तथागताः ॥ इति

अनुभववशाद्धर्माः सन्तीत्युच्यन्ते । यथा द्रव्यादयः षट्पदार्थास्सन्ति औलूक्यानाम् । पञ्चविंशतितत्त्वानि सन्ति सांख्यानाम् । षोडश पदार्थाः सन्ति नयसोमानाम् ।

यदि वस्तुसाधनी युक्तिरस्ति । तदा अस्तीत्युच्यते । यथा द्वादशायतनानि । भगवतः शासन उपायतया सर्वमस्तीति वा सर्वं नास्तीति वोच्यते । न तु परमार्थतः । कस्मात् । अस्तीति व्यवस्थायां शाश्वतान्तपातः । नास्तीति व्यवस्थायामुच्छेदान्तपातः । अनयोरन्तयोर्वर्जनमेवार्या मध्यमा पतिपत् ॥

सर्वधर्मसदसत्तावर्गस्त्रयोविंशः ।

24 अन्तराभवास्तितावर्गः

शास्त्रमाह- केचिद्वदन्ति- अस्त्यन्तराभव इति । केचिद्वदन्ति नास्तीति । (पृ) केन कारणेनास्तीति वदन्ति । केन कारणेन नास्तीति । (उ) अस्त्यन्तराभवः । आश्वलायनसूत्रे हि भगवानाह- यदा पितरौ सन्निपतितौ भवतः । गन्धर्वश्च प्रत्युपस्थितो भवति इति । अतो ज्ञायते अस्त्यन्तराभव इति । वत्ससूत्रञ्चाह- यस्मिन् समये सत्त्व इमं कायं निक्षिपति पुनश्चित्तोत्पादनकायमनुपादानो भवति । अस्मिन्नन्तराले [भवं] उपादानप्रत्ययं वदामि । अयमन्तरा भव इति । सप्तसत्पुरुषेषु अस्त्यन्तरापरिनिर्वायी । उक्तञ्चसूत्रे- व्यवकीर्णं कर्माभिसंस्कृत्य व्यवकीर्णं कायमुपादाय व्यवकीर्णे लोक उत्पद्यते । ज्ञातव्यमस्त्यन्तराभव इति । किञ्चोक्तं सूत्रे- चत्वारो भवाः पूर्वकालभवो मरणभवो ऽन्तराभव उपपत्तिभव इति । आह च- सप्तभवाः- पञ्चगतयः (sss_76) कर्मभवो ऽन्तराभव इति । आह च- यमराजो ऽन्तराभवे पापिनः सन्तर्ज्य व्यत्यस्तं पातयन्ति । इति । तथागतो ऽन्तराभवमुपादाय सत्त्वानां पूर्वनिवासं प्रजानाति अयं सत्त्वो ऽस्मिन् उपपत्तिस्थान उत्पद्यते स सत्त्वस्तस्मिन्नुपपत्तिस्थान इति । उक्तञ्च सूत्रे- दिव्येन चक्षुषा पश्यति सत्त्वान् च्यवमानानुपपद्यमानांश्चेति । किञ्चाह- सत्त्वो [अन्तरा]भवसन्तत्या अस्माल्लोकात्परलोकं सङ्क्रामति । इति । लौकिका अपि अस्त्यन्तराभव इति श्रद्धधाना वदन्तिम्रियमाणस्य सूक्ष्माणि चत्वारि महाभूतानि अस्माद्भवात् [भवान्तरं] क्रामन्ति इति । सत्यन्तराभवे परलोकः । असत्यन्तराभवे नास्ति परलोकः । यदि नास्त्यन्तराभवः, इमं कायं विसृज्य परकायमनुपादानस्यान्तरा व्युच्छेदः स्यात् । अतो ज्ञायते ऽस्त्यन्तराभव इति ॥

अन्तराभवास्तितावर्गश्चतुर्विंशः ।

25 अन्तराभवनास्तितावर्ग

केचिद्वदन्ति- नास्त्यन्तराभव इति । यद्यप्युक्तं भवता- आश्वलायनसूत्र उक्तम् अस्त्यन्तराभव इति । तन्न युक्तम् । कस्मात् । यद्यार्या न जानन्ति- अयं कः कुत आगत इति । तदा नास्त्यन्तराभवः । यद्यस्ति कस्मान्न जानन्ति । भवानाह- वत्ससूत्र उक्तमिति । इदमयुक्तम् । कुतः । सूत्रे ऽस्मिन् प्रश्नो ऽन्यः प्रतिवचनञ्चान्यत् । अनेन ब्राह्मणेन कल्पितम्- अन्यः कायो ऽन्यो जीव इति । अत एवं प्रतिवक्ति- सन्त्यन्तराभवे पञ्चस्कन्धा इति । भवानाह- अस्त्यन्तरापरिनिर्वायीति । स कामरूपधात्वोरन्तरा कायमुपादाय तत्र परिनिर्वृत इति अन्तरापरिनिर्वायी । कस्मात् । यथोक्तं सूत्रे- कश्चिन्म्रियमाणः कुत्र गच्छति कुत्रोत्पद्यते कुत्र तिष्ठति इतीदमेकार्थकम् । भवानाह- व्यवकीर्णं कायमुपादाय व्यवकीर्णे लोक उत्पद्यत इति । कायमुपादायेति वचनं लोक उत्पद्यत इति चेदमेकार्थकम् । चत्वारो भवाः सप्त भवा इति च भवदुक्तं सूत्रमयुक्तम् । धर्मलक्षणाननुगमात् । भवदुक्तं यमराजसन्तर्जनमुपपत्तिभवे भवति नान्तराभवे । भवानाह- तथागतो ऽन्तराभवमुपादाय (sss_77) पूर्वनिवासं प्रजानातीति । तदयुक्तम् । आर्यज्ञानबलं हि तत् । असन्तमनागतमपि स्मृत्या प्रजानाति । भवानाह- दिव्येन चक्षुषा पश्यति म्रियमाणानुपपद्यमानानिति । उत्पित्सुः स उपपद्यमान इत्युच्यते । मरणोन्मुखश्च च्यवमानः । नत्वन्तराभवगतः । भवानाह- सत्त्वो भवसन्तत्या अस्माल्लोकात्परलोकं सङ्क्रामतीति । परलोकास्तित्वप्रदर्शनाय तादृशं वचनं न त्वन्तराभवास्तित्वप्रकाशनाय । भवानाह- म्रियमाणस्य सूक्ष्माणि चत्वारि महाभूतानि भवान्तरं क्रामन्तीति । कौकिकानामुपलभ्यमश्रद्धेयम् । न तद्धेतुरुपयुज्यते । भवानाह- यदि नास्त्यन्तराभवः अन्तराव्युच्छेदः स्यादिति । कर्मबलादयमत्रोत्पद्यते यथा अतीतमनागतमननुवृत्तमपि संस्मरति । अतो नास्त्यन्तराभवः ।

पूर्वनिवासज्ञान उक्तं जानाति अयं पुरुषो ऽस्मिंल्लोके मृतस्तस्मिंल्लोक उत्पद्यत इति न तूक्तम् अन्तराभवे तिष्ठतीति । तथागत आह- त्रिविधं कर्म दृष्टविपाकमुपपत्तिविपाकमूर्ध्वविपाकमिति । न त्वाह- अन्तराभवविपाकं कर्मेति । यद्यन्तराभवे स्पर्शो ऽस्ति । स एवोपपत्तिभव इत्युच्यते । यदि न स्पृशति, स्पर्शविहीनः । स्पर्शविहीनत्वाद्वेदनादयो ऽपि न सन्ति । तादृशं पुनः कुत्रास्ति । यः सत्त्वो ऽन्तराभवरूपमुपादत्ते स एवोपपत्तिं वेदयते । यथोक्तं सूत्रे- यदिमं कायं निक्षिपन् कायान्तरमुपादत्ते तदहं वदामि उपपत्तिरिति । यदि न कायमुपादत्ते । तदा नास्त्यन्तराभवः । यद्यन्तराभवे च्युतिः । उपपत्तिरेव सा । कुतः । पूर्वमुत्पद्यन्नस्य पश्चादवश्यं च्युतेः । यदि नास्ति च्युतिः । नित्यो भवेत् । कर्मबलाच्चोपपत्तिरिति किमन्तराभवेन । यद्यन्तराभव कर्मतः सिद्धः । स एवोपपत्तिभवः । यथोच्यते- कर्मप्रत्यया जातिरिति । यन्न कर्मतः सिद्धम् । केन भवो ऽस्ति । तत्प्रतिवक्तव्यम् ।

उच्यते । उपपत्तिविशेषमेवान्तराभवं वदामः । अतो नास्ति यथोक्तदोषः । अन्तराभव उत्पन्नस्याप्यस्य उपपत्तिभवान्तरयोगो भवति । यतः कलले विज्ञानमुपसङ्क्रामति । अयमन्तराभव इत्युच्यते ।

अत्र दूषणमाह । कर्मबलादुपसङ्क्रामति । किमन्तराभवविकल्पेन । चित्तं न कुत्रचिदुपसङ्क्रामति । कर्मप्रत्ययात्तु अस्मिंल्लोके निरुद्धं तत्रोत्पद्यते । नहि प्रत्यक्षं दृश्यते चित्तं सन्तत्योत्पद्यत इति । यथा पादे विद्धस्य शिरसि वेदनानुभूयते । न तत्र पादे स्थितं (sss_78) विज्ञानं भवप्रत्ययं शिरसि सङ्क्रामति । अतो सन्निकृष्टविप्रकृष्टप्रत्ययगणसामग्र्य तु चिततुत्पद्यते । अतो ऽस्त्यन्तराभव इति न कल्पना कार्या ॥

अन्तराभवनास्तित्ववर्गः पञ्चविंशः ।

26 अनुपूर्ववर्गः

शास्त्रमाह । केचिद्वदन्ति चतुर्णां सत्यानामनुपूर्वेणाभिसमय इति । केचिद्वदन्ति एकक्षणेनेति । (पृ) केन कारणेनोच्यते अनुपूर्वेणाभिसमयः, केन कारणेन एकक्षणेनाभिसमय इति । (उ) अनुपूर्वेणाभिसमयः । यथोक्तं सूत्रे लोकस्य समुदयं पश्यतो नास्तितादृष्टिर्न भवति । लोकस्य निरोधं पश्यतो ऽस्तितादृष्टिर्न भवति इति । अतो ज्ञातव्यं निरोधसमुदययोर्लक्षणं प्रत्येकं पृथगिति । यः प्रजानाति- यत्समुदयलक्षणं तत्सर्वं निरोधलक्षणमिति । तस्य विरजं वीतमलं धर्मचक्षुर्भवति । आह च-

अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । कर्मारो रेजतस्येव निर्धमेन्मलमात्मनः ॥ इति ॥

आस्रवक्षयसूत्रमाह जानतः पश्यतः आस्रवाणां क्षयो भवति इति । प्रतिपत्तुप्रतिदिनं क्षीयमाणं स्वयमजानतो ऽपि सदा भावितत्वात् आस्रवाणां क्षयो भवति । (sss_79) भगवानाह सत्येषु उदपद्यत चक्षुः ज्ञानं विद्या प्रज्ञा इति । कामधातुकदुःखे द्वौ [क्षणौ] रूपारूप्यधातक [दुःखे] च द्वौ । तथा समुदायदावपि । सूत्रे च भगवान् कण्ठत आह अनुपूर्वेण सत्याभिसमय इति । यथा पुरुषः श्रेणिमारुह्य उपर्यारोहति । इत्यादिसूत्रात् ज्ञायते चतुस्सत्यानि नैककालिकानि इति । क्लेशानाञ्च चतुस्सत्येषु चतुर्धा मिथ्याचारा भवन्ति यदुत नास्ति दुखं, नास्ति समुदयः, नास्ति निरोधः, नास्ति मार्गः इति । अनास्रवज्ञानस्यापि अनुपूर्वेण चतुर्धा सम्यगाचाराः स्युः । योगी च चित्तं समाधाय इदं दुःखं अयं दुःखनिरोध इयं दुःखनिगामिनी पतिपत् इति विकल्पयेत् । यद्येकस्मिन् चित्ते स्यात् कथमेवमनुपूर्वेण समाधिविकल्पो भवेत् । अतो ज्ञायते अनुपूर्वेणाभिसमयो नैकक्षणेनेति ।

अनुपूर्ववर्गः षड्विंशः ।

27 एकक्षणवर्गः

केचिदाहुः चतुर्णां सत्यानामभिसमयो नानुपूर्वेणेति । भवानाह लोकस्य समुदयं पश्यतो नस्तितादृष्टिर्न भवति । लोकस्य निरोधं पश्यतो अस्तितादृष्टिर्न भवतीति । तदा स्वमतं विनश्येत् । तथा चेत् षोडशभिः चित्तक्षणैः द्वादशभिराकारैश्च मार्गो लभ्यत इति न स्यात् । भवतोक्तं यत्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति प्रजानतो धर्मचक्षुर्भवतीति । तथा चेत् चित्तद्वयेन मार्गलाभः स्यात्- अद्यं समुदयचित्तं द्वितीयं निरोधचित्तं इति । न त्वैतद्युक्तम् । भवानाह अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । ....निर्धमेन्मलमात्मन इति [अनेनापि] न स्यात् षोडशमात्रैश्चित्तक्षणैरिति । भवतोक्तं आस्रवक्षयसूत्रमाह रूपादीन् जानतः पश्यतः आस्रवानां क्षयो भवतीति । एवञ्चाप्रमाणचित्तानि स्युः न तु षोडशचित्तमात्राणि । भवतोक्तं- चक्षुर्ज्ञानं विद्या प्रज्ञेति । भगवान् स्वयं ब्रवीति चतुर्षु सत्येषु ज्ञानं चक्षुर्विद्या प्रज्ञोदपद्यतेति न ब्रवीति अनुपूर्वेण षोडशचित्तक्षणानि भवन्तीति । (sss_80) भवतोक्तं भगवान् कण्ठेनाह- अनुपूर्वेण सत्यभिसमयः श्रेण्यारोहणवत् इति । नाधीतमिदं सूत्रमस्माभिः । सत्त्वे ऽपि निराकर्तव्यमेव । धर्मलक्षणाननुगमात् । भवतोक्तं चतुर्धा मिथ्याचारा भवन्तीति । पञ्चस्कन्धादावपि मिथ्याचाराः स्युः । यान् मिथ्याचाराननुसृत्य सर्वं ज्ञानमुत्पद्येत । एवं च षोडशभिरेव चित्तक्षणैर्मार्गलाभ इति न स्यात् । भवानाह समाध्या विकल्पयेदिति । रूपादावपि तथा विकल्पयेत् । अतो न षोडशैव चित्तक्षणाः स्युः ।

[योगिनो] न [नाना]सत्यानि भवन्ति किन्तु एकमेव सत्यं भवति यदुत दुःखनिरोधदर्शनमाद्याभिसम्बोधि नामकम् । दृश्यधर्मादीनां प्रतीत्यसमुत्पन्नत्वात् योगी ऊष्मगतादिधर्मानुपूर्वेण चरमनिरोधसत्यरूपं सत्यं पश्यति । निरोधसत्यदर्शनान्मार्गलाभैत्याख्यायते ।

एकक्षण सप्तविंशः ।

28 परिहाणवर्गः

शास्त्रमाह- केचिद्वदन्ति अर्हन् परिहीयते । केचिद्वदन्ति न परिहीयत इति । (पृ) केन कारणेन परिहीयते केन कारणेन न परिहीयते । (उ) परिहीयत इति । यथोक्तं सूत्रे- पञ्च हेतवः पञ्च प्रत्ययाः समयविमुक्तस्यार्हतः परिहाणाय संवर्तन्ते । कतमे पञ्च । कर्मप्रसृतो भवति । भाष्यप्रसृतो भवति । अधिकरणप्रसृतो भवति । दीर्घचारिकायोगमनुयुक्तो भवति । दीर्घेण रोगजातेन स्पृष्टो भवति । इति । आह च सूत्रम् द्विविधो ऽर्हन् परिहाणलक्षणो ऽपरिहाणलक्षण इति । अपि चोक्तं सूत्रे यद्यमुको भिक्षुः विमुक्तिमुखात् परिहीयते तदिदं स्थानं विद्यते इति । अपि चोक्तं सूत्रे-

कुम्भोपमं कायमिदं विदित्वा नगरोपमं चित्तमिदं स्थापयेत् । युध्येत मारं प्रज्ञायुधेन जितञ्च रक्षेदनिवेशनः स्यात् ॥ इति ।

अपरिहीनस्य जितरक्षणं न स्यात् । ज्ञानञ्च द्विविधं- क्षयज्ञानमनुत्पादज्ञानमिति । क्षयज्ञानवान् न पुनरुत्पद्यते । किमनुत्पादज्ञानेन । उदायिनो या निरोधसमापत्ति दुर्लभा । स एव परिहाणहेतुः । स परिहीनो ऽपि रूपधाताव(वु)दपद्यत इत्यादिभिः कारणैः ज्ञातव्यं परिहीयत इति ।

परिहाणवर्ग अष्टाविंशः ।

29 अपरिहाणवर्गः

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.