Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/15

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

सत्यसिद्धिशास्त्रम्

Tác giả
हरिवर्मन्
Thông tin
GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

हरिवर्मन्: सत्यसिद्धिशास्त्रम्

श्रीरस्तु सत्यसिद्धिशास्त्रम्

श्रीमदाचार्यहरिवर्मणः कृतिः

1 प्रस्थानस्कन्धे बुद्धरत्नाधिकारे आद्यसम्पद्वर्ग

1. अभिवन्द्याभिवन्द्यं प्राक् सम्यक् सम्बुद्धमात्मना । सर्वज्ञमर्हच्छास्तारं महान्तं लोकसंहितम् ॥

2. सुविशुद्धञ्च सद्धर्मं आर्यश्रावकमण्डलम् । व्याचिकीर्षामि लोकानां हिताय जिनभाषणम् ॥

3. शास्त्रं सूत्रान्वितं सम्यक् धर्मताप्रविलोमकम् । शमोपगामि वै सम्यक् ज्ञानशास्त्रमितीर्यते ॥

4. न दृष्टौ चन्द्रसूर्यौ च प्रकृत्यातिप्रभास्वरौ । धूमाभ्रधूलीमिहिकामुखैः व्योम्नि यथावृत्तौ ॥

5. मिथ्याशास्त्रपरीतः सत्सूत्रार्थो न प्रकाशते । सदर्थस्यास्फुटीभावात् कुज्ञानस्योद्धाटितं मुखम् ॥

6. आपत्तिदुर्यशश्चित्तकौकृत्यक्कमथादयः । चित्तंविक्षेपकायासाः कुज्ञानोद्धाटिता इमे ॥

7. आपत्तिमुख्यानायासान् यो ऽपोहितुमिच्छति । सम्यक् शास्त्रेच्छया गच्छेत् गभीरज्ञानिनं स च ॥

8. निषेवणञ्च तस्यैव सम्यक् छास्त्रस्य मूलकम् । सच्छास्त्रहेतोरुत्कृष्टपुण्याद्याः प्रभवन्ति हि ॥

9. शतसाहस्रदुःशास्त्रेष्वधीती तीक्ष्णधीरपि । प्रतिभानञ्च कीर्तिञ्च लाभान्नाप्नोति संसदि ॥

10. बुद्धधर्मवरं ज्ञात्वा भाषणं सुखवाहि च । चिरकालञ्च धर्मस्य स्थितये न तु कीर्तये ॥

11. निषेव्य भिन्नवादांश्च प्रज्ञया विबुधाशयान् । तत्त्वशास्त्रं चिकीर्षामि सर्वज्ञज्ञानमात्रकम् ॥

12. अश्रौषीत्सर्वशो बुद्धो भिन्नवादांश्च भिक्षुकान् । अतस्त्रिपिटकस्यार्थं समीकर्तुं समारभे ॥

अत्र विचार्यते । (पृ) ननु भवता सत्यसिद्धिशास्त्रं वक्ष्यत इति ज्ञात्मस्माभिः । आदौ भवतोक्तं अभिवद्याभिवन्द्यं प्रागिति । स च बुदो [भगवान्] । कस्मात् तस्य बुद्ध इत्याख्या । केन गुणेनाभिवन्द्यः । (उ) भगवान् प्रकृत्या मनुष्यभूतः सर्वाकारज्ञानेन सर्वधर्माणां स्वलक्षणविभागान् प्रजानाति । सर्वाकुशलविनिर्मुक्तः सञ्चितसर्वकुशलः सर्वसत्त्वानां (sss_3) हितैषी चेत्यतो बुद्ध इत्युच्यते । [सत्त्वान्] शिक्षयितुमुपदिष्टं धर्म इत्युच्यते । तं धर्मं ये प्रतिपद्यन्ते ते सङ्घ इत्युच्यन्ते । इत्येतेषां त्रिरत्नानामभिवन्दननिदानं वक्ष्ये । भगवान् पञ्च[धर्म]स्कन्धसंपन्नः इत्यतो देवमनुष्याणां पूज्यः ।

(पृ) अन्ये ऽपि आर्यपुग्दलाः पञ्चधर्मस्कन्धसमन्विताः । तथागतस्य को विशेषः । (उ) तथागतस्य पञ्चगुणस्कन्धसंपदः परिशुद्धाः । तत्कस्य हेतोः । कायिकादिषु कर्मसु अप्रमत्तत्वात् शीलस्कन्धसंपत् [परिशुद्धा] । भगवान् शीलसंवर एवाविपन्नः । किमुत वक्तव्यं मूलापत्तौ । किञ्च चिरसञ्चितमैत्रीकस्य नाकुशलचित्तमुदेति । यथोक्तं सूत्रे- भगवानवोचदानन्दम् । आजन्म यो मैत्रीमभ्यस्यति तस्याकुशलचित्तमुदेति न वा । नो भगवन् इति । तथागतश्चिरसञ्चितकुशलस्वभावः, नात्मत्राणार्थं किन्तु अपकीर्तिभीरुतया संवरशीलं धत्ते । अप्रमाणबुद्धेषु दीर्घाभ्यस्तशीलचर्यः उन्मूलितत्रिविषमूलात्यन्तनिश्शेषवासनः । इत्यादिभिः प्रत्ययैः शीलस्कन्धसम्पन्नः । समाधिस्कन्धसम्पन्नः । तथागत इमं समाधिं निश्रित्य सर्वज्ञज्ञानं लब्धवान् । अतः समाधिस्कन्धसम्पन्न इति ज्ञायते । यथा घृततैलबहुलः प्रदीपः वर्तिकामहिम्ना महान् प्रकाशते । तथागतः सुनिरूढस्तम्भवत् दृढसमाधिकः । अन्ये तु जलरूढस्तम्भवत् अप्रतिलब्धचिरसमाधिकाः । तथागतस्य ध्यानसमाधिरप्रमाणकल्पेषु क्रमशः संसिद्धः । अत स्तं परिपूरयति । तथागतस्य समाधिः पुरुषं स्थानं धर्मोपदेशं वा इत्यादिप्रत्ययगणान् नोपक्षते । न तथान्येषाम् । तथागतः सदा गभीरभावितसमाधिर्भवति । यथा कश्चित् आत्मानं संरक्षन् सदा स्मरति न विस्मरति । तथागतः ध्यानसमाधिमुपसम्पद्य न चित्तबलमधितिष्ठति । तद्यथा कश्चित् स्वावसंथं प्राप्य वदति क्षेमप्राप्तः अखिन्न इति । न समाधिस्थस्तथागतः पुनरेवम् । अत उच्यते तथागतः नित्यसमाधिस्थित इति । ध्यानसमाधिप्रकम्पिनो (sss_4) महाप्रामोद्यादयो धर्माः तथागतस्य सर्वे प्रहीणाः । चिरसमाधिविपाकप्रतिलब्धैश्वर्यदिव्याभिज्ञानां परमो ऽग्रणीः । ऋद्धिविधिना एकस्मिन्नेव क्षणे दशदिक्षु अप्रमाणधातुषु परिक्रामति । सर्वाणि कृत्यानि यथेष्टं करोति । सर्वनिर्मितेषु अप्रतिहतं प्रभवति । अन्ये सत्त्वा मागच्छन्त्विति सर्वधर्मानुगचित्तो भवति ।

तथागतस्य आर्यवशितासमन्वितस्य सुखे असुखसंज्ञोत्पद्यते । असुखे च सुखसंज्ञोत्पद्यते सुखासुखे च उपेक्षासंज्ञोत्पद्यते । (पृ)असुखे उपेक्षा जायेत । कथं सुखसंज्ञा जायेत । (उ) सुभावितचित्तत्वात् वाक्पारुष्याद्यसुखधर्मेषु न प्रतिबन्धं मन्यते । अन्यासु दिव्याभिज्ञासु दिव्यचक्षुर्दिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृतिषु अप्रतिहतो भवति । समाधिबलेन अप्रतिहतदिव्याभिज्ञो भवति । ध्यानसमाधिषु सुव्यक्ताभिसमयः । तानन्ये सत्त्वा न शृण्वन्ति । तथागत एवाप्रतिहतं प्रविशति व्युत्तिष्ठते च । तथागतस्य ध्यानसमाधि र्बलमित्याख्यायते । यथा दशबलवर्गे वक्ष्यते । अन्येषां पुग्दलानां नास्ति [तादृशं] किञ्चित् । अतः तथागत समाधिस्कन्धसम्पन्नः ।

प्रज्ञास्कन्धसम्पन्न इति । ध्यानावरणं क्लेशोत्पाद इति द्विविधाविद्या तथागतस्य सर्वथा प्रहीणा । विरुद्धस्य प्रहाणात् प्रज्ञास्कन्धसम्पन्नः । स्वतो धर्मलाभी [तथागतः] न परतः श्रुत्वा । निरुक्तिकुशलः अर्थगतिज्ञानसुज्ञानकुशलः अनवसन्नप्रतिभानः अक्षीणप्रज्ञश्च । अन्ये सत्त्वा स्तेषु कौशलं न संपादयांबभूवुः । भगवानेन अनपकृष्टक्षयज्ञानः । अतस्तथागतः प्रज्ञास्कन्धसम्पन्नः ।

भगवद्भाषितो धर्मः अर्थगतौ कुशलः । नान्यैरल्पज्ञै र्भाषितः समर्थः निरवद्यः । तथागत भाषित एवानवद्यः । अतस्तथागत प्रज्ञास्कन्धसम्पन्नः । अप्रमाणगुणसाधनीया प्रज्ञेति [तां] सम्पादयति । धर्मं प्रणीतमविपरीतञ्च भाषितवान् । यथा अशुभभावना (sss_5) कामरागभेदिनीत्यादयः । प्रज्ञाप्रकर्षात् प्रकृष्टेर्यापथश्च भवति इत्यादिभिः प्रत्ययैः प्रज्ञास्कन्धसम्पन्नः ।

विमुक्तिस्कन्धसम्पन्न इति । अविद्याद्वयाच्चित्तं विमुक्तम् । नान्यास्ति वासना, सर्वथानिवृता इत्यादिना विमुक्तिसम्पन्नः ।

विमुक्तिज्ञानदर्शनसम्पन्न इति । सर्वस्मिन् संयोजनप्रहाणमार्गे प्रतिक्षणं स्मृतिज्ञानकुशलः । यथा कश्चित् वृक्षं छेत्तुं हस्ते धृतकुठारः पार्यन्तिकं जानानः प्रजानाति शाखाः प्रशाखाः । तथा भगवानपि संयोजनप्रहाणज्ञानस्य प्रतिक्षणं क्षीयमाणं सर्वमवयवशः प्रजानाति । सत्त्वानामाशयं ज्ञात्वा यथायोगं धर्ममुपदिशति । येन [ते] विमुच्यन्ते । अतः सत्त्वानां सर्वविमुक्तिमार्गे ज्ञानदर्शनसम्पन्नः ।

किञ्च भगवान् कालं ज्ञात्वा धर्ममुपदिशति यथा तिम्बुरुकब्राह्मणादिनाम् । तथागतः धर्माणां विभागज्ञानकुशलः । अयं पुद्गलः अस्य धर्मस्यार्ह इति । यथा भगवानानन्दमामन्त्र्य छन्दकस्य योग्यं भावाभावव्यावर्तकं सूत्रमुपदिशति । अतस्तथागतो विमुक्तिज्ञानकुशलः । किञ्चोपायकुशलः सत्त्वमलं हापयति यथा नन्दस्य कामप्रजिहीर्षायै [धर्म]मुपदिशति । सत्त्वानाञ्च श्रद्धेन्द्रियादिपरिपाकं ज्ञात्वा पश्चात् धर्ममुपदिशति यथा राहुलस्य । केचित् सत्त्वाः कर्मविपाकावृताः न विमुक्तिं लभन्ते । भगवान् [तं]नाशयित्वा धर्ममुपदिशति । केचित् सत्त्वाः कालपक्ष्ये क्षीणास्रवा भवन्ति यथा जायापतिसूत्र उपदिष्टम् । केचित् सत्त्वाः पुरुषविशेषमपेक्ष्य क्षीणास्रवाः भवन्ति यथा शारिपुत्र अश्वजितमपेक्ष्य । केचित् सत्त्वा देशमपेक्ष्य क्षीणास्रवाः यथा राजा पुक्कसातिः । केचित् सत्त्वा सतीर्थ्यमपेक्ष्य (sss_6) क्षीणास्रवाः यथा गोपाल नन्दः अजितग्रामीणादीनपेक्ष्य । केचित् सत्त्वा भगवतः तात्त्विककायमपेक्ष्य निर्मितकाय ञ्चापेक्ष्य क्षीणास्रवा भवन्ति । भगवान् प्रतिपतिं ज्ञात्वा धर्ममुपदिशति [अथ]विमोचयति । किञ्च भगवान् विविधान् सद्धर्मानुपदिय सर्वान् विमुक्त्यावरणधर्मान् परिभेदयति अतो विमुक्तिज्ञानदर्शनसम्पन्न इत्युच्यते ।

भगवान् धर्मार्थगतिकुशलो धर्ममुपदिशति नानर्थमविपाकम् । भगवान् संख्यागणनवत् क्रमशो विमुक्तिमार्गमुपदिशति । अतः सुविमोको भवति । भगवान् सत्वानां पूर्वनिवासं कुशलमूल ञ्च ज्ञात्वा क्रमशो धर्ममुपदिशति । भगवान् विमुक्तिं प्रत्यक्षीकृत्य परस्योपशति न परतःश्रत्वा । जिनशासनं वह्वीभिः कलाभिः सम्पन्नम् । यथा भैषज्यकलासम्पन्नो व्याधीन् शमयति । तथा जिनशासनमपि प्रतिपक्षकलापमुखेन सर्वान् क्लेशान् व्यावर्तयति । यथा नवसंज्ञादीन् महत्यो ऽल्पा वा संयोजना न पुनः क्षपयन्ति । अतः कौशलसम्पन्न एव क्लेशान् परिभेदयति । अनुत्तमोपायैः सत्त्वान् सन्तारयति, कदाचित् सुकुमारवचनैः कदाचित् कटुवचनैः कदाचित् पुनः सुकुमारकटुवचनैश्च । तदर्थमेव तथागतो विमुक्तिज्ञानदर्शनसम्पन्नः इति ।

प्रस्थानस्कन्धे बुद्धरत्नाधिकारे आद्यसम्पद्वर्गः प्रथमः ।

2 दशबलवर्गः

अथ भगवान् दश बलसमन्वागमात् प्रज्ञासम्पन्नः । हेतुप्रत्ययप्रतिलोमकतयोक्तानि दशबलानि । तलाद्यं स्थानास्थानज्ञानबलम् । इदं कार्यकारणनैयत्यज्ञानम् । अस्मात् ईदृशं फलं भवति न तादृशम् । अयमाचारः अकुशलो ऽवयं दुःखविपाकः न सुखविपाक इति ज्ञानम् । स्थानं नाम भाववस्तु । अस्थानमभाववस्तु । आद्यं बलमिदं सर्वबलानां मूलम् ।

(पृ) [ननु]लौकिका अपि जानन्ति हेतुफलयोः स्थानास्थानम् । यथा यवाद्यव एव जायते न ब्रीह्यादय इति । (उ) स्थानास्थानबलेन कर्मादीनां ज्ञानात् इदं बलमतिगहनं परमं देवमनुष्याणां न प्राप्तुं शक्यम् । जातधर्मस्य हेतुसमनन्तराधिपतिप्रत्ययान् प्रत्याययतीत्यत इदं बलं प्रणीतम् ।

(2) यत् अतितानागतप्रत्युत्पन्नानि कर्माणि सर्वधर्मसमादानानि च प्रजानाति । तेषां स्थानं प्रजानाति वस्तु प्रजानाति हेतुं प्रजानाति विपाकञ्च प्रजानाति । अत इदं ज्ञानं बलमाख्यायते । त्रिषु अध्वसु स्थानवस्तुहेतुविपाकप्रज्ञापकत्वात् गहनम् । कस्मात् । केचिद्वदन्ति अतीतानागता अभावधर्मा इति । अतो भगवतः तेषां कथनं बलं भवति । अतीतानागताध्वगतान् धर्मान् अदृष्टाकारानपि भगवान् साक्षात्प्रजानाति ।

अथ कर्म द्विविधं कुशलमकुशलमिति । केचित् कुशलकर्मवन्तो दृष्टे दुःखवेदनाः यथा शीलं धृत्वा क्लेशाननुभवन्ति । केचित्पापकर्माणः दृष्टे सुखवेदनाः यथा शीलं भित्वा स्वैरं चरन्ति । अतः केचित् संशेरते अनागताध्वापि प्रत्युत्पन्नसम इति । अतस्तथागतः कर्मक्रमेण वेदनामुपदिशति ।

चत्वारि धर्मसमादानानि प्रत्युत्पन्नं दुःखं आयत्यां सुखविपाकम्, प्रत्युत्पन्नं सुखमायत्यां दुःखविपाकम्, प्रत्युत्पन्नं सुखम् आयत्यां सुखविपाकम्, प्रत्युत्पन्नं दुःखमायत्यां दुःखविपाकम् इति । भगवान् संप्रति आयत्याञ्च [तेषां] स्थानं, वस्तु, हेतुं विपाकञ्च प्रजानाति । स्थानं नाम वेदकः । वस्तु देयपदार्थः । हेतुर्दानचित्तम् । यथोक्तं सूत्रे पूर्वञ्च प्रमुदितचित्तः दानकाले च विशुद्धचित्तो दत्त्वा च यन्न विप्रतिसरति । तत् फलप्रापकं कर्म विपाक माख्यायते । भगवानेव प्रजानाति तरतमं कर्म यदि नियतमनियतं वा दृष्टविपाकम् उपपद्यविपाकं तदूर्ध्वविपाकं वा इत्यादि । नान्यः । अतो बलमित्युच्यते ।

(3) भगवान् सर्वध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशं प्रजानाति स्थितिं प्रजानाति उपचयं प्रजानाति व्यवदानञ्च प्रजानाति । तत्र ध्यानं नाम चत्वारि ध्यानानि चत्वार आरूप्यसमाधयश्च । तदेव रूपारूप्यधातुकं कर्म । विमोक्षो नाम यदुताष्टौ विमोक्षाः तक्तर्मक्षेपकाः । ध्यानानि आरूप्यसमाधयो ऽष्टविमोक्षाश्च समाधयो भवन्ति । एषां समाधीनां वृत्तेराभिमुख्यलाभः समापत्तिः । समापत्तयश्चतुर्धा विभक्ताः संक्लेशतः स्थितित उपचयतो व्यवदानतश्चेति । संक्लेशज्ञानिनः संक्लेशतः समाधिः । स्थितिज्ञानिनः स्थित्या समाधिः । उपचयज्ञानिन उपचयतः समाधिः । व्यवदानज्ञानिनः प्रतिवेधतः समाधिः । प्रतिवेधतः समाधिकस्य ऊष्ममूर्धक्षान्त्यादयश्चतुर्धर्मा भवन्ति । तथागतस्यैव तेषु सर्वेषु ज्ञानं भवति । नान्येषाम् इति बलं भवति ।

(4) तथागतः सत्त्वानामिन्द्रियाणि तीक्ष्णानि मन्दानि [यथाभूतं] प्रजानानि । श्रेद्धेन्द्रियादीनां प्राधान्यात् तीक्ष्णता यथा तथागतादीनाम् । मन्दता तदप्राप्तिः यथा नागदासकादीनाम् । मध्येन्द्रियस्य तु नास्ति अनियतत्वात् । तीक्ष्णेन्द्रियस्यास्ति काष्ठा (sss_9) यथा तथागताः । मृद्विन्द्रियस्यास्ति काष्ठ यथा नागदासकः । मध्यमस्य नास्ति काष्ठेति मध्येन्द्रियस्य नोच्यते । अथ श्रद्धाप्रतिपत् धर्मप्रतिपत् इति द्विविधो मार्गः । पुनरपि द्विविधः दुर्मार्गः सुमार्ग इति । अस्मात् मार्गद्वयादन्यो मध्यमः । तीक्ष्णमन्दपुद्गलौ प्रतीक्ष्य मध्यमो भवति । अधिमुक्तितश्चेन्द्रियाणि भिद्यन्ते । श्रद्धेन्द्रियाधिमुक्तिकाः श्रद्धाबहुलाः । प्राज्ञजना विशिष्टेन्द्रिया अधिमुक्तित उपकृता श्रेद्धेन्द्रियप्रधानाश्च भवन्ति । इमानीन्द्रियाणि सर्वाणि [तथागतः] प्रजानाति । नान्ये । इत्यतस्तद्वलम् ।

(5) तथागतो नानाधिमुक्तिकं लोकं [यथाभूतं] प्रजानाति । अधिमुक्तिर्नाम इच्छा । तद्यथा सुरायामधिमुक्तः सुरामिच्छति । तथागतो यथाधिमुक्ति प्रतिपत्तिं प्रजानाति यदुतायं सत्त्वः पञ्चकामनास्वधिमुक्तः भावनामार्गे बाधिमुक्त इत्येवं विदित्वा यथार्हं धर्ममुपदिशति । अतः सर्वसत्त्वाश्च सन्तारयति ।

(6) तथागतो नानाधातुकानप्रमाणलोकांश्च [यथाभूतं] प्रजानाति । सत्त्वानां यत् दीर्घकालमभ्यस्य अभिरोचते स धातुः सिध्यति । यथा देवदत्तादयस्तथागतमध्वन्यध्वनि दुषयन्तो ऽकुशलचित्तप्रवृत्तगहनानुशयधातुका भवन्ति । तथा कुशलस्वभावा अपि । केचित् सत्त्वाः स्वभावतः प्रवृत्तरागाः केचित् दृष्टं प्रतीत्य प्रवृत्तरागाः । तथागतो ऽधिमुक्तिं धातुञ्च सर्वं [तेषां] प्रजानातीत्यत[स्तत्]बलमुच्यते ।

(7) तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति । इमां प्रतिपदं प्रतिपन्नो नरक उत्पद्यते यावत्स्वर्गे इति च प्रजानाति । इमां प्रतिपदं प्रतिपन्नो यावन्निर्वाणमनुप्राप्नोति । इदं कर्म इन्द्रियरागस्वभावप्रवृत्तम्, सास्रवकर्मकः पञ्चगतिषूत्पद्यते । अनास्रवकर्मको निर्वाणमनुप्राप्नोति इति प्रजानाति ।

पूर्वमुक्तं मार्गः । इदानीमुक्तन्तु मार्गफलम् । पूर्वं सामान्यत उक्तम् । इदानीं विविच्योच्यते ईदृशकर्मणा नरकं याति, ईदृशकर्मणा निर्वाणं प्राप्नोति इति । नरकप्रतितस्यापि प्रविभागो ऽस्ति अनेन कर्मणा सञ्जीवनरके पतिष्यति, अनेन कर्मणा कालसूत्रनरके पतिष्यति इति । अतस्तथागतः सप्तमबले स्थितः सुक्ष्मं कर्म प्रजानाति । अन्ये सत्त्वा जानन्तो ऽपि न विवेचयन्ति । अतस्तत् बलमुच्यते ।

(8) एवं तथागतस्य अतीतकर्मणां फलज्ञानं पूर्वनिवासानुस्मृतिज्ञानबलमित्युच्यते । तथागतः सत्त्वानां पूर्वमाचरितां प्रतिपदं ज्ञात्वा धर्ममुपदिशति । अतः पूर्वनिवासव्याकरणे ऽस्ति ज्ञानबलम । तथागतो ऽतीतं सर्वमुपपत्तिस्थानं रूपधातौ वा आरुप्यधातौ वा इत्यनुस्मरति । आत्मनो ऽपि प्रजानाति । अन्येषामपि सत्वानां प्रजानाति । अत[स्तत्] बलमुच्यते ।

(9) तथागतो दिव्येन चक्षुषा पश्यति अनागताध्वनि त्रिभवसन्तानान् त्रिविधानि कर्माणि चतुर्धर्मसमादानानि च ज्ञात्वा व्याकरोति । तत्राप्रतिघप्रत्यायनं बलमुच्यते ।

(10) आस्रवक्षय[ज्ञान]बलेन सन्ताननिवृत्तिं प्रजानाति । सत्त्वा आयुषोन्ते केचित् ससन्ताना भवन्ति, केचित् निवृत्तसन्ताना भवन्ति । इदं बलं सर्वसत्त्वगामिस्थानमार्गबलं भवति । सामान्यतो निर्वाणमार्ग इत्युच्यते । अस्य बलस्य सविस्तरविभागो वक्ष्यते । तथागतः संक्लेशव्यवदानहेतोर्दशबलसमन्वागतः । नवबललाभित्वात् ज्ञानसमन्वितः । दशमबललाभित्वात् प्रहाणसमन्वितः । ज्ञानप्रहाणसम्पन्नत्वात् भगवान् देवमनुष्यैरभिवन्द्यः ।

दशबलवर्गो द्वितीयः ।

3 चतुर्वैशारद्यवर्गः

तथागतश्चतुर्वैशारद्यसमन्वितत्वाच्चाभिवन्द्यः । तथागतप्रतिलब्धानि चत्वारि वैशारद्यानि- सर्व[धर्मा]भिसम्बोधि[वैशारद्यम्], सर्वास्रवक्षय [ज्ञानवैशारद्यं], मार्गान्तरायिकव्याकरण [वैशारद्यं], दुःखनैर्याणिकप्रतिप[द्वैशारद्यम्] । एषु चतुर्षु यदि कश्चिदागत्य यथा धर्मं चोदयेत् । तत्राहं वैशाद्य[प्राप्त] इति ।

आद्यं वैशारद्यं सर्व[धर्मा]भिसम्बोधिः नवबलात्मकम् । द्वितीयमास्रवक्षयो दशमबलमेव । क्षयज्ञानसम्पन्नत्वात् तथागत आत्मगुणसम्पन्नः । अन्त्ये द्वे वैशारद्ये परसम्पदं कुरुतः । तथागतो व्याकरोति आन्तरायिकमान्तरायिकमार्गधर्मान् यदुताकुशलं सास्रवं कुशलञ्च । विमुक्त्यन्तरायत्वात् आन्तरायिकधर्म इत्युच्यते । अन्तरायविसंयोगितया नैर्याणिकप्रतिपदित्युच्यते ।

(पृ) ननु भवदुक्तरीत्या बलान्येव वैशाद्यानि । अतः को भेदो बलवैशारद्ययोः । (उ) अभिसम्बोधिर्बलं भवति । तेन बलेनोपादेयं वैशारद्यमित्याख्यायते । केचिन्मूढा निरपत्रपा बहूपाददते । तथागतस्योपादानन्तु प्रज्ञासम्भूतम् । अभिसम्बुध्य परेभ्यो ऽभयप्राप्त इति वैशारद्यम् । कस्मात् । सत्यप्यभिसम्बोधे [परेभ्यः] परित्राससम्भवात् । अभिसम्बोधो बलात्मकः । तदभिसम्बोधव्याकरणं वैशारद्यमित्याख्यायते । कस्मात् । केषाञ्चित्पुरुषाणां ज्ञाने सत्यपि व्याकरणकौशलाभावात् परपुरुषाणां विजयो वैशारद्यम् । कस्मात् । सत्यपि ज्ञाने केषाञ्चित् परविजयासम्भवात् । अक्षीणो ऽभिसम्बोधो बलम् । अक्षीणं प्रतिभानं वैशारद्यम् । अथ पुनर्भवगतिव्याकरणं बलम् । व्याकरणे वशिता वैशारद्यम् । हेतुर्बलम् । फलं वैशारद्यम् । अभिसम्बोधाद्वैशारद्यसम्भवात् । य आजन्म परित्रस्तः स पश्चात् किञ्चित् ज्ञानं लब्ध्वा विशारदो भवति । किं पुनर्भगवान् सुदूरकालात् महोदारचित्तः सर्वाकाराभिसम्बोधिञ्च लब्ध्वा बिभेष्यति । कश्चित् परविजयाशक्तत्वात् सभीतिको भवति । तत्र न कश्चिदस्ति यं तथागतो न विजितवान् । अतो विशारदः ।

यो वादी वचनकुशलः अर्थकुशलश्च स विशारदः । तथागत एवायम् । सर्वज्ञतालाभात् अर्थकुशलः । अप्रतिघप्रतिभानलाभात् वचनकुशलः । केचित्पुनर्वस्तुषु [ज्ञान]बलविहीनाः सन्तः सञ्जातभीतिका भवन्ति । तथागतस्तु सर्वज्ञानलाभित्वात् सर्ववस्तुषु न बलविहीनः, सर्वसूत्राणि सर्वशास्त्राणि च प्रतिविध्य प्रश्नविसर्जनं परिदीपयतीति विशारदः । केचित्पुनः कुले गोत्रे रूपे शीलबाहुश्रुत्यज्ञानादिषु वा विकला इत्यतः सावद्यं शास्त्रमधिगच्छन्ति । तथागतस्तु तत्र सर्वत्राविकलः । अतो विशारदः ।

यो यथाभूतधर्मवादी स न कम्प्यः । स च तथागत एव । यथावोचत् असुरब्राह्मणो भगवन्तम्- यथाभूतधर्मवादी दुर्जयो दुष्प्रकम्पः । तथैवानुलोममार्गवादी तर्कवादी सहेतुवादी च । इति । यः पुनश्चतुर्भिर्वाद धर्मैः समन्वितः सो ऽपि दुर्जयः दुष्प्रकम्पः । [चत्वारो वादधर्मा यदुत] सम्यक् प्रतिज्ञाप्रतिष्ठापनम्, हेत्वहेतूपादानम्, दृष्टान्तोपादानम् वादधर्मप्रतिष्ठापनमिति । तथागत एभिश्चतुर्भिः सम्पन्नः । देवमनुष्या अपि तं न जेतुं शक्नुवन्ति इत्यतो विशारदः । यश्च कल्याणमित्रमनुपसेव्य वादं करोति स सुकम्पः । तथागतस्तु दीपङ्करादिषु अप्रमाणबुद्धेषु पूर्वमेवाभ्यस्तवादधर्मा इत्यतो न प्रकम्प्यः । भगवानुपदिशति सत्यद्वयं यदुत लोकसत्यं परमार्थसत्यमिति । अतः प्राज्ञो न कम्पयितुं शक्यः । प्राकृतैरज्ञैश्च सह न विवदते । तथागतश्च लोकेन सह न विवदते । लोके ऽस्ति तथागतः [परं मरणात्] इति वदति । भगवानपि वदति अस्तीति । नास्तीति वदति लोके नास्तीति वदति । अतो नास्ति विवादः । तेन सह विवादाभावात् अप्रकम्प्यः ।

शास्त्रं पुन द्विविधं तत्त्वशास्त्रं शठशास्त्रम् इति । तीर्थिकानां भूयसा शठशास्त्रम् । तथागतस्य तु तत्त्वशास्त्रम् । अतो ऽपि न प्रकम्प्यः । जिनशासने सुचरितपरिशुद्धत्वात् उपदेशो ऽपि परिशुद्धः । सुचरितपरिशुद्धिर्नाम दुःखहेतुक्षयः । तीर्थिकानां शास्त्राणि सहेत्वाभासानि न सहेतुकानि इति न विजयसमर्थानि भवन्ति । भगवतः सूत्राणि परिशुद्धप्रवचनार्थगतिकानि तत्त्वलक्षणाविलोमकानि न तीर्थिकीयसमानानि । भगवदुपदिष्टो (sss_13) मार्गो न यथारुतग्रहणर्थः । अपि तु आध्यात्मिकज्ञानचित्तकः । यथोक्तं सूत्रे- भगवान् भिक्षूनामन्त्याह मा भिक्षवो मम वचनाधिमुक्तिका भवत । किन्तु भवद्भिराध्यात्मिकज्ञानस्य कायेन साक्षात्कारिभिर्भवितव्यम् । इति । किञ्चाह- अशठा यूयमागच्छत । प्रातर्वो धर्मं भाषमाणे मयि सायं मार्ग लभेध्वम् । सायं धर्मं भाषमाणे प्रातर्मार्गं लभेध्वम् । इति । यः कश्मिंश्चिद्धर्मे ऽप्रबुद्धः स [तूष्णी]तिष्ठेत् । न प्रवचनं कुर्यात् । यत्किञ्चित्प्रवदन्नपि अवश्यं प्रकम्प्यः । तथागतस्तु नाप्रबुद्ध इति वैशारद्यसमर्थः । किञ्च तथागतः प्रतिलब्धाप्रतिघाभिसम्बोधः । न सर्वधर्मेष्वप्रतिबुद्ध इति विशारदः । अल्पज्ञा न जानन्ति महापुरुषाणां यदधिगतम् । महापुरुषास्तु जानन्ति अल्पज्ञानामधिगतम् । भगवान् सत्त्वानामुत्तमो महान् इति अल्पज्ञानां शास्त्रं जानाति । अतो विशारदः । तीर्थिकानां शास्त्रं यां काञ्चित् दृष्टिमुपादाय प्रवृत्तम् । भगवांस्तु प्रजानाति दृष्टिरियं प्रतीत्य समुत्पन्नेति । तत्समुदयं प्रजानाति, निरोधं प्रजानाति, आस्वादं प्रजानाति, आदीनवं प्रजानाति, नैर्याणिकञ्च प्रजानाति । तीर्थिकादयो न क्षयज्ञानसमर्था इति [मिथो] विवदन्ते । तथागतस्तु सर्वाकारज्ञः सर्वधर्मज्ञः सर्वपरशास्त्राणां दारको न परशास्त्रैर्दार्यो भवति । अतो विशारदः । इत्यादयः प्रत्यया बलवैशारद्यप्रविभागार्था भवन्ति ।

(पृ) तथागतः सर्वधर्मेषु विशारदः । कस्मादुच्यन्ते । चत्वार्येव वैशारद्यानि । (उ)यान्युक्तानि तानि सर्ववैशारद्यानां सामान्यवचनानि । कस्मात् । आद्यं वैशारद्यद्वयमात्मनः क्षयज्ञानाभिधायकम् । अन्तिमद्वयं परस्य मार्गान्तरायिकधर्माभिधायकम् । दुःखक्षयमार्गाभिधायकं [सत्]क्षयज्ञानमित्युच्यते । स श्रावकः शास्ता क्षयज्ञानसम्पन्न इत्यतः सर्वाणि वैशारद्यानि सामान्यत उक्तानि ।

(पृ) सत्त्वाः कस्मात् संशेरते तथागतो ऽसर्वज्ञः पुरुष इति । (उ) भगवतोक्तं वचनं कदाचिदसर्वज्ञ[वचन]कल्पमस्ति । तद्यथा भगवान् प्रत्याह- कुतो यूयमागच्छथ इत्यादि । यथोक्तं सूत्रे- यः कश्चित् नगरं प्रविश्य तन्नाम नागरिकान् पृच्छति । नाहं वदामि तं सर्वज्ञम् इति । श्रोतास्य सूत्रस्य संशेते तथागतो ऽसर्वज्ञः पुरुष इति । भगवद्वचनं सरागवचनकल्पमस्ति । यथोक्तं सूत्रे- भगवानाह स्वागतं वो भिक्षवः अनेन (sss_14) कायेन महार्थलाभाय मम शासनमनुवर्तध्वम् । तदा प्रमुदितः स्याम् इति । द्वेषिकल्पमप्यस्ति वचनम् । यथोक्तम्- त्वं खलु देवदत्त शवभूतः खेटाशनो ऽसि । इति । आभिमानिककल्पो ऽप्यस्ति व्यवहारः । यथात्मानमधिकृत्याह अहं परिषदि सिंहकल्पो दशबलैश्चतुर्भिर्वैशारद्यैश्च समन्वितः महापरिषदि सिंहनादं नदामि इति । मिथ्यादृष्टिककल्पो ऽप्यस्ति व्यवहारः । सन्धारयाम्यात्मधर्म यथा तैलपात्नम् । आह च देवदत्तम्- नाहं ददामि सङ्घं शारिपुत्रमौग्दल्यायनादिभ्यो ऽपि किं पुनर्दास्यामि तुभ्यम् । इति । अल्पज्ञा इमानि वचनानि श्रुत्वा वदन्ति तथागतस्यस्रवा अक्षीणा इति ।

किञ्चाह भगवान्- कामा मार्गान्तरायिका धर्मः । केचित्तु [कामान्] वेदयन्तो ऽपि मार्गं लभन्ते । इति । विनये ऽप्युक्तम्- विरमणधर्माभ्द्रष्टो ऽपि मार्गं स्पृशति । इति । अतो ऽल्पज्ञाः संशेरते तथागत आवरणधर्मानभिज्ञ इति । केचिन्मार्गं भावयन्तो ऽपि संयोजनैरनुशयवन्तः । अतो ऽल्पज्ञाः संशेरते आर्यमार्गः संयोजनानां न क्षयकृत इति । संयोजनानि अप्रहाय को दुःखं वियोजयेत् । अतस्तथागतस्तेषु चतुर्षु धर्मेषु विशारदः ।

(पृ) कथं यथोद्दिष्टाः संशया परिहीष्यन्ते । (उ) भगवान् संवृतिमनुवर्तते । यथा लौकिका जानन्तो ऽपि प्रष्टारो न दुष्यन्ति । तथा भगवानपि लोकवर्तित्वात् संवृतिमनुवर्त्य पृच्छति । लौकिका अनासङ्गचित्ता अपि आसङ्गिकल्पं वदन्ति ईदृशमिति । तथा भगवानपि सत्त्वानां हितायदृष्टे व्यवहरति । कामा नान्तरायिकधर्मा इति सति वचने तत्र तथागत उपदिशति कामा वस्तुत आन्तरायिकधर्मा इति । यस्य कामाश्चित्तगताः स न मार्गं भावयति । अतो ऽवश्यं कामान् पूर्वं परित्यज्य पश्चान्मार्गं स्पृशति । आपत्तिधर्मे सत्यपि (sss_15) मार्गःप्राप्यत इति ब्रूवतो ऽवश्यं परिभिन्ने ऽप्यापत्तिधर्मे मार्गो न प्राप्यते । यस्य वस्तुतो नास्त्यापत्तिः । तस्य गुरुप्रत्ययत्वात् भगवान् पुनःखयमाश्रावयेत् नास्त्यापत्तिधर्मो विनाशयितुम् इति । यन्मार्गं भावयतामपि संयोजनमस्तीति । अयं मार्गः सर्वसंयोजनानुशयानां विनाशकः, असम्पन्नत्वात्तु न विनाशयितुं प्रभवति । तद्यथा प्रकृतितो दधि तापशमनम् । किन्तु [पुरुषस्य] अल्पवसनत्वे न तत्परिपाचनं भवति । तथा मार्गभावनापीति अनवद्यम् । तथागत श्चतुर्वैशारद्यसमन्वित इत्यतो ऽभिवन्द्यः ।

चतुर्वैशारद्यवर्गस्तृतीयः

4 दशनावर्गः

अथ सूत्र उक्तं- तथागतादीनां दश गुणाः यदुत तथागतः अर्हन् सम्यक् सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकवित् अनुत्तरपुरुषदौम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् इति ।

तथागत इति यथाभूतमार्गयानेन संसाधितसम्यक्सम्बोधित्वात् तथागत इत्युच्यते । यद्यदुपदिशति सर्वं तत्त्वमेव भवति न मृषा । यथा भगवानानन्दमामन्त्र्याह- तथागतप्रोक्तमुभयकोटिकं न वा । नो भगवन इति । अतस्तथावादीत्युच्यते ।

अथ पुनस्तथागतो यां रात्रिमभिसम्बुद्धः । याञ्च रात्रिं परिनिर्वृतः । अत्रान्तराले यत् भाषते तत् सत्यमेव भवति नान्यथा । तस्माद्यथार्थवादीत्युच्यते । सर्वाकारसर्वज्ञज्ञानेन पूर्वापरं परीक्ष्य पश्चादुपदिशतीत्यत उपदिष्टं सत्यमेव भवति । किञ्च बुद्धानां भगवतां स्मृतिर्दृढा भवति न मुषिता । केचिदनुमाय यदुपदिशंति तत् कदाचित् सूत्रानुयायि भवति । केचित्तु प्रत्यक्षतो दृष्ट्वैवोपदिशन्ति । तैरुपदिष्ठं लाभाय वा भवति हानाय वा । यथोक्तं सूत्रे- अनुमातुर्वचनं लाभाय कदाचित् भवति हानाय वा कदाचित् । तथागतस्तु (sss_16) धर्मानभिसम्बुध्योपदिशति । इति । तस्मादकम्प्यवचनस्तत्त्वोपदेष्टेत्युच्यते । भगवतोपदिष्टं तत्त्ववचनं भवति नान्येषामिव सतत्त्वमतत्त्वञ्चेत्यतो ऽकम्प्यम् ।

कालानुरूपञ्चोपदिष्टम् । यथोक्तं सूत्रे- भगवान् सत्त्वानां चित्तप्रामोद्यमधिमुक्ति ञ्च प्रज्ञाय मार्गमुपदिशति इति । यथार्थवक्ता भवति । यदुपदेशार्हं तदेवोपदिश्यते । यथोक्तं किंशुकशिर्षक सूत्रे यो धर्म उपदेशार्हः तमुपदिशति संक्षेपतो विस्तरतो वा स्कन्धायतनादिमुखेन इति । अत उपदिष्टं नैव मृषा भवति ।

अथ पुनर्धर्माववादो द्विविधः संवृतितः परमार्थत इति । तथागत इदं सत्यद्वयं निश्रित्योपदिशतीत्यत उपदिष्टं सर्वं तत्त्वं भवति । भगवान् नोपदिशति यत् संवृतिसत्यं तत् परमार्थसत्यमिति । न च यत् परमार्थसत्यं तत् संवृतिसत्यमिति । अतो वचनद्वयं न विरुध्यते । अथ तथागतेन यदि वा संव्रियते यदि वा विव्रियते तदुभयमप्यविरुद्धम् । यत् संवरणाय भवति न तत् विब्रियते । यत् विवरणाय भवति न तत् संव्रियते । अतो यत्किमपि वचनमविरुद्धम् ।

किञ्च त्रिविधा अववादधर्मा दृष्टिजो ऽभिमानजः प्रज्ञप्तिजश्चेति । भगवतो नास्ति आद्याववादद्वयम् । तृतीयो ऽववादस्तु परिशुद्धो ऽमलः । सन्ति च चतुर्विधा अववादाः दर्शनश्रवणमननिध्यप्तिधर्मा इति । भगवानेषु चतुर्षु धर्मेषु यद्यदुपदिशति तत् सर्वं चित्तव्यवदानाय भवति नासङ्गाय । पञ्चविधा अपि अववादधर्माः अतीतानागतप्रत्युत्पन्नासंस्कृतावक्तव्या इति । एषु पञ्चसु भगवान् सम्बुद्धः सन् व्यक्तरमभिज्ञायोपदिशति । अतो यथार्थवादीत्युच्यते । यथाभूतवचने नैपुण्यात् तथागत इत्युच्यते ।

क्षीणक्लेशत्वात् इमं धर्म लब्धवान् । रागद्वेषमोहादयो मृषावादस्य मूलम् । तानि संयोजनानि निरुद्धवान् इति अर्हन् । अथ तथागतस्योपदेशो ऽर्हन् । संयोजननिरोधः सम्यक्सम्बोधात् भवति । अनित्यतादिना धर्मान् सम्यक् भावयतः क्लेशाः क्षीयन्ते । अतः सम्यक्सम्बोधिमुपादाय अर्हद्धर्मः प्रवर्तते । सम्यक्सम्बोधिरियं विद्याचरणजनिता । पूर्वान्तापरान्तयोश्च नास्ति सन्ततिरिति सम्यक् प्रतिसम्बुध्यत इति सम्यक् सम्बुद्ध इति नाम । (sss_17) दानादिपारमिताः समाचरतीति विद्याचरणसम्पन्नः । अन्ये ऽपि पुरुषा अनादिसंसारे दानादीन् धर्मानाचरन्ति न सम्यगाचरन्तीति न सुगत इत्युच्यन्ते । भगवान् पुनर्दानादिचर्याः सम्यङ्मार्गेण चरितवानिति सुगत इत्युच्यते । दानादिपञ्चधर्माणां लाभी तथागतः स्वार्थगुणसम्पन्नः । सम्यक्सम्बोधिमनुप्राप्य लोकानां मनसि चिन्तितं प्रजानाति । [अतो लोकवित्] । चिन्तितञ्च प्रज्ञाय धर्ममुपदिशतीति अनुत्तरः पुरुषदौम्यसारथिः । विनेतव्या नाविनीता भवन्ति । विनीताश्च न भ्रश्यन्ति । विनेतव्याश्च देवमनुष्याः । अतो देवमनुष्याणां शास्ता । केचित् विचिकित्सन्ते कथं मनुष्येण देवा अववदितुं शक्यन्त इति । अत आह- अहं देवमनुष्याणां शास्ता इति । बुद्ध इति अतीतानागतप्रत्युत्पन्नानां संस्कृतासंस्कृतसक्षयाक्षयाणां स्थूलसूक्ष्मादीनां वा सर्वेषां धर्माणाम् । बोधिमूले निषद्य अविद्यामिद्धमविध्य सर्वज्ञानोज्वलितां महाबोधिं लब्धवानिति बुद्धः । एवं नवभिर्गुणैः सम्पन्न त्रिषु अध्वसु दशसु दिक्षु सर्वलोकधातुषु च पूज्य इति भगवान् । भगवान् दशनामसम्पन्नः स्वात्मसम्पदा परसम्पदा च आत्मानमुपकरोति परांश्चोपकरोतीत्यतो ऽभिवन्द्यः ॥

दशनामवर्गश्चतुर्थः ।

5 त्रिविधारक्षावर्गः

तथागतस्य कायिकवाचिकमानसिककर्माणि अरक्ष्याणि । कुतः । न हि सन्ति तथागतस्य कायिकवाचिकमानसिकदुश्चरितानि यानि[तथागतो रक्षितु]मिच्छेत् मा परो द्रक्ष्यात् मा च ज्ञासीत् इति । अन्येषां पुरुषाणां सन्ति कदाचिदव्याकृताभासानि कायिकवाचिकमानसिकदुश्चरितानि विद्वद्गर्हणीयानि । तथागतस्य तु न सन्ति । कस्मात् । तथागतस्य सर्वाणि कर्माणि प्रज्ञासम्यक्स्मृतिभ्यामुत्पद्यन्ते । ये मुषितस्मृतिका दुष्प्रज्ञाः । न त ईदृशकर्माणो भवन्ति । लौकिकाः कदाचित् व्यतिवृत्तभ्रान्तवादिनो भवन्ति । (sss_18) तथागतस्तु न तत्समः । तथागतः कायेन सुभावितवान् शीलसमाधिप्रज्ञा स्तत्तुल्यान् धर्माश्च । अतः सर्वाण्यकुशलानि अकुशलाभासानि च कर्माणि सर्वथा परिक्षीणानि । भगवान् दिर्घकालादारभ्य सद्धर्मचर्यां भावितवान् नेदानीमेव । अतस्तत्कर्माणि विशुद्धस्वभावानि नारक्ष्याणि । तथागतः सदा शीलमाचरति अधिमुक्तितो न दुर्गतिपतनभयादिना । तथागतस्य च सर्वाणि कायिकवाचिकमानसिककर्माणि परोपकाराय भवन्ति इति नाकुशलानि । अकुशलाभावान्नारक्ष्याणि । विशुद्धत्वादरक्ष्यं कर्म इत्यतो ऽभिवन्द्यः । तथागतस्त्रिविधस्मृत्युपस्थानसमन्वितः येनाभिवन्दनीये भवति ।

धर्म उपदिश्यमाने यदि श्रोता एकाग्रचित्तो भवति । नानेन [तथागतस्य] सौमनस्यं भवति । यदि नैकाग्रचित्तो भवति । नानेन दौर्मनस्यं भवति । सर्वदा तु उपेक्षाचित्तमाचरति । कस्मात् । तथागते रागद्वेषवासनाया अवशेषितत्वात् । सर्वधर्माणामत्यन्तशून्यतां ज्ञातवानिति न दौर्मनस्यं न वा सौमनस्यम् । सुसञ्चितमहाकरुणाचित्तत्वात् तथागतः कुशले अकुशले च विना सौमनस्यदौर्मनस्यादि महाकरुणामेवोत्पादयति । तथागतः सत्त्वानां पृथक् पृथक् स्वभावमतिगहनं परिज्ञातवानित्यतो यदि कश्चित् कुशलचित्तः शृणोति नानेन सुमनस्को भवति । यदि अकुशचित्तः शृणोति नानेन दुर्मनस्को भवति । प्रकृतितः सर्वदा उपेक्षाचित्तमाचरति । किञ्च तथागतो महापृथिवीवत् ध्रुवचित्तो भवति । गुरुवस्तुन्यपगते नोन्नतो भवति । तस्मिन् प्रक्षिप्ते ऽपि न पुनरवनतो भवति । अन्ये प्राकृता जनास्तु यथोदितचित्ता भवन्ति । किञ्चिदारोपे ऽवनता भवन्ति । किञ्चिदवरोपे उन्नता भवन्ति । बुद्धो भगवान् महाकारुणिक इत्यतो देवमनुष्याणामभिवन्दनीयः ।

परमं ध्यानसमाधिसुखमुपेक्ष्य जनानां धर्ममुपदिशति । अन्येषां करुणाचित्तं न कृत्यकृत् । भगवतस्तु महाकरुणा सत्त्वानामुपकारिणीति फलवती भवति । महाकरुणया संसाधितो ऽनुत्तरो मार्गो न पुनरन्यैः कारणैः । अथ पुनस्तथागतस्य नास्ति कापीच्छा- मम परमा सन्तुष्टिरिति । महाकारुणिकत्वात् स्वात्मानं क्लेशयति । तथागतः प्रकृत्या सूरतः । महाकारुणिकत्वात् भवदुःखहृद्वचनेन महोपाये न सत्त्वानामुद्धरणाय व्यवसायदुःखान्युपादत्ते । तथागतो महाकरुणया सत्त्वानामुद्धरणाय लोके ऽस्मिन् तप्तायःपिण्डवत् क्षणमप्यसह्यं पञ्चस्कन्धात्मकं कायमुपादाय विहरति । भगवान् बुद्धः सुभावितोपाक्षाचित्तः तदुपेक्षाचित्तमुपेक्ष्य सदा महाकरुणाचित्तमाचरति । अतः पूजनीयः ।

तथागतः सुजनानां सुजनतमः । कस्मात् । आत्मनो महाहितं प्रापयति परांश्च महाहितं प्रापयति । स्वपरहितकृद्धि सुजनः । तथागतः सत्त्वानां चित्तपरिज्ञाने परमकुशलः यथोक्तं सूत्रे- अहं सत्त्वपरमार्थस्य सुविज्ञः कृपावान् हितकारी इत्यादि । किञ्च बुद्धस्य भगवतो वीर्यादिगुणस्कन्धाः सन्ति । यथा उपालिः शतगाथाभिस्तथागतं स्तुतवान् । तादृशगुणसमन्वितत्वात् अभिवन्द्यः । तथागतस्य गुणाः स्वयमुक्ताः । यथोक्तमेकोत्तरागमे तथागतवर्गे- स्वयमाह- अहं पुरुषसारथिः पुरुषावतंसः पुरुषहस्ती श्रमणानां परमो ब्राह्मणानामप्युत्तमः आर्याणामधिपो ऽप्रमत्तचारी, न सुखदुःखनुयायी मम काय इति ।

(पृ) तथागतः कस्मात् आत्मानं आत्मभावञ्च प्रशंसति । आत्मप्रशंसनं हि सम्मूढलक्षणम् । (उ) भगवान् न ख्यातिलाभमाकांक्षते । परार्थमेवात्मभावं स्तौति । तथागतस्य नास्त्यात्ममतिः । परहितार्थमेवात्मानं स्तौतीत्यनवद्यम् । बहुभिरल्पैर्वा प्रत्ययैरात्मनः प्रशंसा भवति । तथागतस्य गुणानामन्तो न वक्तुं शक्यते । अतो न सम्मूढलक्षणे पतति । आत्मन औद्धल्याभावात् । यथा व्यवदान सूत्रे शारिपुत्रस्तथागतस्याभिमुखं तथागतगुणान् स्तौति । अतो ऽभिवन्द्यः । अल्पेच्छतातुष्ट्यादयो ऽप्रमाणगुणा स्तथागतकाये वर्तन्ते । कस्मात् । तथागतेन सर्वगुणानां सञ्चितत्वात् । इत्यादिभिः प्रत्ययैरभिवन्द्यस्तथागतः ।

त्रिविधारक्षावर्गः पञ्चमः

6 धर्मरत्नाधिकारे त्रिधाकल्याणवर्गः

(पृ) भवता पूर्वमुक्तं- धर्मो ऽभिवन्द्यः इति । केन गुणेनाभिवन्द्यः । (उ) तथागतः स्वयं प्रवचनं प्रशंसति- मया भाषितो धर्म आदौ मध्ये ऽवसाने च कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातमनुलोमकं ब्रह्मचर्यमिति । आदौ मध्ये ऽवसाने च कल्याणमिति । जिनशासनमकालिकं कल्याणञ्च बाल्ये यौवने वार्धक्ये च कल्याणम् । प्रवेशे प्रयोगे निर्याणे च कल्याणम् । आदावकुशलं शमयति । मध्ये पुण्यविपाकं हापयति । अवसाने सर्वं हापयति । इदं त्रिधा कल्याणमित्युच्यते । तथागतो नित्यं कालत्रये सद्धर्ममुपदिशति । न तीर्थिका इवासद्धर्मं व्यामिश्रयति । आदौ मध्ये ऽवसाने च सर्वदा विदुषां कमनीयम्, कालत्रये सर्वदा गभीरम् । नान्यसूत्रवत् रादौ महत् मध्ये सूक्ष्ममवसाने सूक्ष्मतरम् । इत्यादिप्रत्ययैः त्रिधा कल्याणम् ।

स्वर्थमिति । जिनशासनस्यार्थः परमहितकरः । ऐहिकलाभस्य आमुष्मिकलाभस्य लोकोत्तरमार्गलाभस्य च प्रापकम् । नाधिदेवताप्रार्थनारूपबाह्यग्रन्थसमानम् ।

सुव्यञ्जनमिति । प्रादेशिकप्राकृतभाषया सम्यगर्थं प्रकाशयतीति सुव्यञ्जनम् । कस्मात् । भाषणफलं ह्यर्थप्रकाशनम् । अतो भाषितानि अर्थनयं विवेचयन्तीति सुव्यञ्जनम् । जिनशासनं यथावदाचरणयोपदिष्टम् । न तु पठनाय । अतः प्रादेशिकभाषया मार्गं प्रापयतीति सुव्यञ्जनम् । न बाह्यतीर्थकग्रन्थवत् केवलं जपार्हं भवति । [तद्यथा] यो दुष्टः शब्दः यो वा दुष्टस्वरः शब्दः स यजमानं हिनस्ति इति । परमार्थवचनकुशलत्वाद्वा स्वर्थम् । लोकसत्यवचनकुशलत्वात् सुव्यञ्जनम् ।

केवलमिति । तथागतः सद्धर्मं केवलमुपदिशति । न तु प्राग्वृत्तवस्तुप्रपञ्चं करोति । नापि धर्ममधर्मञ्च संकीर्योपदिशति । निरुपधिशेषनिर्वाणार्थत्वात् केवलम् । केवलं तथागत उपदिशतीति वा केवलम् । (पृ) श्रावकनिकायसूत्रं श्रावकभाषितम् । सन्ति कानिचन अन्यानि सूत्राणि च देव[पुत्र]भाषितानि । कस्मादुच्यते केवलं तथागत उपदिशतीति । (उ) धर्मस्यास्य मूलं तथागतसम्भूतम् । श्रावकदेवपुत्रादिभिः सर्वैस्तथागतादववादः (sss_21) प्राप्तः । यथोक्तं विनये- धर्मो नाम यत् बुद्धभाषितं, श्रावकभाषितं निर्मितभाषितं देवभाषितं वा संक्षिप्य यानि लोके सुभाषितानि तानि सर्वाणि बुद्धभाषितानि । तस्मात्केवलधर्म इत्याख्यायते ।

परिपूर्णमिति । तथागतभाषितो धर्मो न किञ्चिद्वीयते । यथा रूद्रकसूत्र उक्तं परिपूर्णलक्षणम् । जिनशासने नान्यसूत्राण्यपेक्ष्य सिद्धिर्भवति । यथा व्याकरणसूत्रे पञ्चसूत्राण्यपेक्ष्यैव सिद्धिर्भवति । न तथा जिनशासने । एकस्यामेव गाथायामर्थः परिपूर्णः । यथाभाषत-

सर्वपापस्याकरणं कशलस्योपसम्पदा । स्वचित्तपर्यवदपनमेतब्दुद्धानुशासनम् ॥ इति ।

तस्मात्परिपूर्णम् ।

परिशुद्धं पर्यवदातमिति । द्विधा परिशुद्धत्वात् परिशुद्धं पर्यवदातम् । वचनपरिशुद्धत्वात् परिशुद्धम् । अर्थपरिशुद्धत्वात् पर्यवदातम् । तथागतात् श्रुतस्तु सम्यगर्थे निक्षिप्तं यथार्थं वचनं भवति । सम्यग्वचने च निक्षिप्तो यथावचनमर्थो भवति । न तीर्थिकानामिव यथासूत्रं गृह्यते । जिनशासने धर्म आश्रीयते न पुरुषः । धर्मो ऽपि नीतार्थसूत्रं निश्रित्य निर्दिश्यते । न नेयार्थसूत्रं निश्रित्य । अयं पर्यवदातधर्म उच्यते [यो] न सूत्रमात्रानुयायी भवति । सन्ति च जिनशासनस्य तिस्रो धर्ममुद्राः- सर्वमनात्मा, सर्वे संस्कृतधर्माः क्षणिका अनित्याः- शान्तं निरोधो निर्वाणम् इति । इमा स्तिस्रो धर्ममुद्राः सर्वैरपि वादिभिर्न शक्याः खण्डयितुम् । परमार्थिकत्वाच्च परिशुद्धं पर्यवदातम् ।

ब्रह्मचर्यमिति । आर्याष्टाङ्गिकमार्गो ब्रह्मचर्यम् । निर्वाणाख्यमिदमयं मार्गः प्रापयतीति ब्रह्मचर्यम् ।

ईदृशगुणसम्पन्नत्वाद्धर्मरत्नमभिबन्द्यम् ॥

धर्मरत्नाधिकारे त्रिधाकल्याणवर्गः षष्ठः ।

7 धर्मगुणस्कन्धवर्गः

अथ तथागतः स्वयं स्वधर्मं स्तौति- मम धर्मो निरोधो निर्वाणगामी सम्यक् सम्बोधिजनक औपनायिक इति ।

रागद्वेषादीन् क्लेशाग्नीन निरोधयतीति निरोधः । यथा अशुभभावना कामाग्निं निरोधयति । यथा वा मैत्रीभावना व्यापादं निरोधयति । न तीर्थिकानामिव आहारादिप्रहाणान्निरोधः ।

निर्वाण[गामी]ति । तथागतधर्मो ऽत्यन्तनिर्वाणगामी । न तीर्थिकानामिव भवाङ्गे स्थित्वा ध्यानसमाधिष्वासञ्जयति । बुद्धागम उच्यते सर्वे संस्कृताः सादीनवा नानिशंसास्थानम् इति । न तु यथा ब्राह्मणाः ब्रह्मलोकादीन् प्रशंसन्ति । अतस्तथागतधर्मो निर्वाणगामी ।

सम्यक्सम्बोधिजनक इति । तथागतस्य सन् धर्मो निर्वाणाय भवति इत्यतः सम्यक्सम्बोधिजनकः । तथागतधर्मे ऽस्ति तत्त्वज्ञानं फलम् । यथा श्रुतमयप्रज्ञातश्चिन्तामयी प्रज्ञा भवति । ततो भावनामयी प्रज्ञा भवति । अतो बुद्धधर्मः सम्यक्सम्बोधिजनक इत्युच्यते ।

औपनायिक इति । बुद्धधर्मः पूर्वमात्मनः कल्याणं साधयति । पश्चात् परान् सद्धर्मे स्थापयतीति औपनायिकः ।

बुद्ध धर्मः षड्विधः- स्वाख्यातो [भगवता] सान्दृष्टिकः अकालिकः औपनायिक एहिपश्यकः प्रत्यात्मं वेदयितव्यो विज्ञैः । स्वाख्यात इति । तथागतो धर्मान् यथाधर्मलक्षणमुपदिशति । अकुशलधर्मान् अकुशललक्षणानिति उपदिशति । कुशलान् कुशललक्षणानिति । अतः स्वाख्यातः ।

सान्दृष्टिक इति । बुद्धधर्मो दृष्ट एव लोके विपाकं प्रापयति । यथोक्तं सूत्रे- प्रातर्विनीतः सायं मार्गमनुप्राप्नोति । सायमुपदिष्टः प्रातर्मार्गमनुप्राप्नोति इति । सान्दृष्टिकं यथा सान्दृष्टिकश्रामण्यफलसूत्र उक्तम् । सान्दृष्टिकाः खलु ख्यातिपूजासत्कारध्यानसमाध्यभिज्ञादीनां लाभाः इति । बुद्धधर्मो ऽर्थनययुक्तः । अतः सान्दृष्टिकं पूजासत्कारं प्रापयन् और्ध्वविपाकं निर्वाणश्च प्रापयति । तीर्थिकधर्माणामर्थनयाभावात् सान्दृष्टिकविपाकएव नास्ति । किंपुनरौर्ध्वलौकिकं निर्वाणमिति सान्दृष्टिक इत्युच्यते ।

अकालिक इति । बुद्धधर्मो न कञ्चन दिवसं मासं वत्सरं नक्षत्रं वापेक्ष्य मार्गो भाव्यते । अस्मिन् दिवसे मासे वत्सरे व मार्गो न भाव्यत इति । न ब्राह्मणधर्मवत् वसन्ते ब्राह्मणो ऽग्नीनादधीत ग्रीष्मे राजन्य इत्यादि । पुनरुदिते जुहोति अनुदिते जुहोति । यथा पश्यामः पञ्च धान्यानि कालमपेक्ष्योप्यन्ते । तथा बुद्धधर्मो ऽपि भविष्यतीति कश्चित् वदेत् । अत आह अकालिक इति । यथोक्तं सूत्रे बुद्धधर्मः स्वाचारश्चर्यास्थितिनिषादनशयनेष्वकालिक इति ।

औपनाउयिक इति । सम्यक् चर्यया सत्त्वान् विमुक्तिमुपनयतीति औपनायिकः ।

एहिपश्यक इति । बद्धधर्मः स्वकायेन साक्षात्कर्तव्यो भविष्यति न परानुवर्तनेन । यथावोचद्भगवान्- मा भिक्षवः केवलं मम प्रवचनाधिमुक्तिका भवत । स्वयमेव परीक्षध्वम् अयं धर्म आचारितव्यः अयमनाचरितव्य इति । न यथा तीर्थिका वदन्ति स्वशिष्यान्- प्रश्नप्रतिवचनं मा कुरुध्वम् । यथावत् शुचिस्नाता भवत, मा मलिनाभिरुचिकाः । बधिरमूकवत् मम वचनमात्रमनुसरत इति । अत आह एहिपश्यक इति ।

प्रत्यात्मं वेदयितव्यो विज्ञैरिति । बुद्धधर्मो विज्ञानामधिमुक्तिकानाञ्च हितकरः । उपवासादौ परममुग्धाः श्रद्दधन्ते विज्ञैः सुखं न वेद्यत इति । क्लेशसमूहननसम्यक् ज्ञानादिभिर्धर्मै र्विज्ञो मुच्यते । आहारभरिते ऽपि स्वदेहे चित्तैकाग्रतावीर्यरागद्वेषसपीडनादीनि (sss_24) विज्ञो दृष्ट एव वेदयते । यथा कश्चित् रोगान्मुक्तः अध्यात्मं प्रविवेकं वेदयते । यथा वा शीतलक्षणं वेदयते जलपायी । केचित् सदोषं धर्मं वदन्ति यथा खक्कटलक्षणा पृथिवी इति । किं खक्कटलक्षणम् इत्यस्य स्पृष्ट्वा वेदयितव्यम् इति प्रतिवचनं न विन्दते । यथा जात्यन्धो नीलपीतलोहितावदातान् न व्यवहर्तुं शक्नोति । [तथा] यो बुद्धधर्मरसस्याप्रतिलाभी, न स बुद्धधर्मस्य परमार्थं व्यवहर्तुं शन्कोति । उपशमात्मकत्वात् ।

अथ बुद्धधर्म अध्यात्ममधिगन्तव्यः न धनादिवत् स्वयमधिगम्य परस्मै प्रदातव्यः । यथा पारायण सूत्रे भगवानाह- नाहं [भिक्षव] उच्छेत्स्यामि वः कांक्षाम् । मम धर्ममधिगच्छन्तः स्वयमुच्छेत्स्यथ कांक्षाम् । इति । नायं धर्मः परगामी सन् उपलभ्यते, तेजः संक्रमादिवत् । पृथग्जना अविद्यापर्वतप्रतिच्छन्ना न श्रद्धधन्त इमं धर्मम् । यथा अचिरवत श्रामणेरमुपादाय महापर्वतदृष्टान्तमवोचत् । अत आह प्रत्यात्मं वेदयितव्यो विज्ञैरिति ।

बुद्धधर्मो गहनः । विव्रियमाणः सन् सुलभो भवति । सन्त्रस्यतां देवमनुष्याणां मायामपनयति । गहन इति बुद्धधर्मस्य गहनत्वम् । कारणज्ञानात् । लौकिका हि बहवो दृष्टफलं पश्र्यन्तो न जानन्ति तत्कारणम् । अतो वदन्ति ईश्वरादीनि मिथ्याकारणानि । द्वादशाङ्गः प्रतीत्यसमुत्पादो दुर्बोधः, गभीरत्वात् । उत्तानचेतना लौकिका बुद्धधर्मे न गभीरसंज्ञां कुर्वन्ति । न प्रतिबुध्यन्ते प्रतीत्यसमुत्पादधर्मम् । तृणमपि हेतुप्रत्ययैः सञ्चितं परीक्षयितुः तल्लक्षणं गभीरं विवर्तते । यथा भगवता भाषितः प्रतीत्यसमुत्पादधर्मो गहनं वस्तु । [तथा] तृष्णायाः क्षयो वियोगो निरोधो निर्वाणम्, इदं पदं दुर्दर्शम् ।

(पृ) यदि प्रतीत्यसमुत्पादो गभीरः । कुत आनन्द उत्तानक संज्ञामुत्पादितवान् । (उ) केचिद्वा दिनो वदन्ति- नेदं वचनं युक्तम् । आनन्दो महान् श्रावको धर्मलक्षणप्रतिसंवेदी कथं वदिष्यति प्रतीत्यसमुत्पादधर्म उत्तानक इति । सामान्यलक्षणेन प्रतीत्यसमुत्पादं पश्यत उत्तानकसंज्ञोत्पद्यते । कस्मात् । न हि स कर्मक्लेशान् सुविविच्य पश्यति । आदितः शिक्षितस्य वस्तुनः पर्यन्तं लब्धवतो [वा] उत्तानकसंज्ञोत्पद्यते । यथा प्रतिलब्धाभिसम्बोधः (sss_25) पुनः प्राथमिकवाक्यमीक्षते । केचित् पुनः गभीरधर्मे ऽनिष्पन्नचेतनाः सन्त उत्तानकसंज्ञामुत्पादयन्ति । केचित्तु सत्त्वा उत्तानकसंज्ञामुत्पादयन्ति । तथागतेन धर्मस्य स्वाख्यातत्वात् ।

अथ बुद्धधर्मः शून्यता [देशनः] । शून्यतेयं गभीरा । तथागते नानाहेतुप्रत्ययदृष्टान्तैरर्थं प्रकाशयति सति सुबोधा भवति । बाला अपि जानन्ति यथा सुदा य श्रामणेरादयः । बुद्धधर्मः सारवान् सर्वप्रवचनेषु तत्त्वार्थः प्रधानो भवति । न यथा भारतरामायणादीनि तत्त्वार्थं विना केवलाख्यानरूपाणि । यथा वा राघब्राह्मण आह- भगवान् भिक्षून् अर्थधर्मे परमार्थधर्मे योगं शिक्षापयति यदुतास्रवक्षये । इति ।

बुद्धधर्मः सर्वलोकानामर्थायोपदिष्टः, न ब्राह्मणा इव ब्राह्मणधर्मं वदन्त आत्मन एव बोधिमनुप्राप्नुवन्ति; नान्येषाम् बुद्धधर्मः सत्कार्यः । पञ्चकामेषु आत्मारामा देवमनुष्या अपि श्रद्धधन्ते; इत्यादिभिः प्रत्ययैर्धर्मो ऽभिवन्द्यः ।

धर्मगुणस्कन्धवर्गः सप्तमः ।

8 द्वादशाङ्गप्रवचनवर्गः

अथ तथागतशासनं द्वादशधा विभक्तम्- सूत्रं, गेयं, व्याकरणं, गाथा, उदानं, निदानं, अपदानं, इतिवृत्तकं, जातकं, वैपुल्यं, अद्भुतधर्म उपदेशश्चेति ।

सूत्रं स्वकण्ठोक्तं प्रवचनम् ।

गेयं गाथयोद्दिष्टं सूत्रं गाथाभाषितं [तथागत]श्रावकभाषितं वा । (पृ) कस्य हेतोर्गाथया सूत्रोद्देशः । (उ) अर्थस्य दार्ढ्यचिकीर्षया । यथा रज्जुनिबद्धानि कुसुमानि दृढानि भवन्ति । पुरुषाणां संप्रहर्षणाय शब्दालङ्कारेच्छया च । यथा अलङ्करणाय पुष्पाणि विकीर्यन्ते माला वा ध्रियते । गाथानिबद्धो ऽर्थः संक्षिप्तः सुगमो भवति । केचित् सत्त्वा गद्यवचनाधिमुक्तिकाः । केचित्तु गाथाधिमुक्तिकाः । पूर्वं कण्ठोक्तस्य धर्मस्य पश्चाद्गाथयोपदिष्टस्यार्थः स्पष्टप्रतीतः श्रद्धादार्ढ्यकृद्भवति । गाथानिबद्धो ऽर्थः सासक्ति क्रमशः सुपाठ्यो भवति । अतो गाथामाह ।

केचिदाहु- शास्तुः शासनं न काव्यप्रतिरूपया गाथया रचयितव्यमिति । तदयुक्तम् । गाथया रचयितव्यमेव । कस्मात् । भगवता अर्थानां गाथया भाषितत्वात् । यथाह सूत्रम्- सर्वे लोकाः सुप्रणीतवचननिरूक्तिका मम प्रव्रजिताः । इति । तस्माद्गाथा सुप्रणीतवचना भवति ।

व्याकरणम् । अर्थविभङ्गसूत्राणि व्याकरणमित्युच्यन्ते । यत् सूत्रमप्रतिवचनमविभङ्गं यथा चतुःप्रतिसं विदादिसूत्रम् तत् सूत्रमित्युच्यते सप्रश्नप्रतिवचनं सूत्रन्तुयथोच्यते- चत्वारः पुद्गलाः । [कतमे चत्वारः] । तमस्तमःपरायणः, तमोज्योतिःपरायणः, ज्योतिर्ज्योतिःपरायणः, ज्योतिस्तमःपरायणः । तमस्तमःपरायणः कतमः । यथा कश्चित् दरिद्रो विविधान्यकुशलकर्माणि कृत्वा दुर्गतौ पतति । इत्यादि सूत्रं व्याकरणम् । (पृ) कस्य हेतोर्भगवानुपदिशति अप्रश्नप्रतिवचनमविभङ्गञ्च सूत्रम् । (उ) कानिचन सूत्राणि गभीरगुर्वर्थनयानि । तेषां सूत्राणामर्थो ऽभिधर्मे विविच्य वक्तव्य इत्यतो ऽविभङ्गमुपदिशति ।

केचिदाहुः- तथागतभाषितानि सर्वाणि सूत्राणि सार्थविभङ्गानि । किन्तु सङ्गीति कारा गभीरसूत्रार्थान् सङ्गृह्याभिधर्मे प्राक्षिपन् । यथा बाह्याभ्यन्तरसंयोजनिकः पुरुषः सदा रात्रावर्थं विभजते । इत्यनेन हेतुना अयमर्थः संयोजनस्कन्धे निवेशितव्य इति ।

गाथा- द्वितीयमङ्गं गेयमित्युच्यते । गेयमेव गाथा । द्विविधा गाथा । गाथा च श्लोकः । श्लोकश्च द्विविधः क्लेशभागीयो ऽक्लेशभागीय इति । अक्लेशभागीय गेय उच्यमानो गाथेत्युच्यते ।

द्विविधां गाथां विहायान्यत् गाथारहितं सूत्रम् उदानमित्युच्यते ।

निदानं सूत्रनिदानम् । कस्मात् । तथागतैरार्यैश्चोपदिश्यमानानि सूत्राणि अवश्यं सनिदानानि भवन्ति । तानि सूत्रनिदानानि कदाचित् सूत्र एव वर्तन्ते अन्यत्र वा वर्तन्ते । तस्मान्निदानमित्याख्या ।

अपदानम्- पौर्वापर्यक्रमकथनमिदम् । यथोक्तं सूत्रे- विदुषां भाषणं सक्रमं सार्थं सविभङ्गमविक्षेपकम् । इति । इदमपदानम् ।

इतिवृत्तकम्- इदं सूत्रस्य निदानं भवति, सूत्रस्यानन्तरञ्च भवति । यदि द्वितयमिदं सूत्रस्यातीताध्ववृत्तिकं भवति । तत् इतिवृत्तकमित्युच्यते ।

जातकम्- प्रत्युत्पन्नं वस्तूणदाय तदतीतवस्तुवर्णनम् । तथागतो ऽनागतं वस्तु कथयन्नपि अतीतं प्रत्युत्पन्नमुपादायैव कथयतीत्यतः पृथङ् नोच्यते ।

वैपुल्यम्- भगवतो विपुल उपदेशो वैपुल्यम् । केचिन्न श्रद्दधन्ते यन्महामुनय उपशमाभिरता न विक्षेपविघाते सुप्रीतिका लौकिकसंभिन्नप्रलापान्निर्विण्णाः समुल्लुञ्छितेन्द्रियग्रामारामाश्च सन्तो न विपुलोपदेशायाभिरोचन्त इति । यथोक्तं सूत्रे- मार्गस्य प्रतिलाभी पुरुषो द्वौ मासावतीत्य एकमक्षरमुच्चारयति । इति । तद्व्यावर्तानयोच्यते अस्ति वैपुल्यसूत्रं परार्थाय । यथोक्तं- तथागतो वैपुल्यतः संक्षेपतश्च द्विधा धर्ममुपदिशति । तत्र वैपुल्यं संक्षेपात् प्रकृष्टम् इति ।

अद्भुतधर्मः- अद्भुतसूत्रम् । यथाह कल्पान्ते भूतानि विकृतवृत्तानि, देवकाया महाप्रमाणाः पृथिवी च सम्प्रकम्पन्ते । इति । केचिन्न श्रद्दधन्त ईदृशानि वस्तूनि । अत उच्यत इदमद्भुतसूत्रम् । कर्मविपाकधर्माणामचिन्त्यशक्तेर्दर्शनात् ।

उपदेशः- महाकात्यायनादयो महाज्ञानिनो भगवद्भाषितं सुविस्तृतं व्यभजन्त । केचिन्न श्रद्दधन्ते नेदं बुद्धभाषितमिति । तदर्थं भगवानाह- अस्ति शास्त्रात्मकसूत्रम् इति । सूत्रस्य शास्त्रप्रतिरूपत्वादर्थः सुगमो भवति ।

इमानि द्वादशाङ्गानि सूत्राणि शास्तुःप्रवचनम् । धर्मरत्नमीदृशगुणसम्पन्नमित्यतो ऽभिवन्द्यम् ॥

द्वादशाङ्गप्रवचनवर्गो ऽष्टमः ।

9 सङ्घरत्नाधिकारे आद्यविशुद्धिवर्गः

(पृ) भवता पूर्वमुक्तम्- सङ्घो ऽभिवन्द्य इति । कस्मादभिवन्द्यः । (उ) तथागतः सर्वत्न सङ्घं प्रशंसति- सङ्घरत्नमिदं शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धविशुद्धम्, (sss_28) आह्वनीयं, प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयमनुत्तरं पुण्यक्षेत्रं दायकानां हितकरम् इति ।

शीलस्कन्धविशुद्धमिति । तथागत श्रावकसङ्घः अनेडकं शीलं धारयन् यावदल्पापराधे ऽपि परमत्रासशङ्की भवति । जिनौरसाः पुण्यविपाकाय न देवमनुष्यादिषूत्पद्यन्ते । नरकादिभ्यो ऽप्यभीताः शीलं सप्रयत्नं धारयन्तः केवलं सद्धर्माभिरता भवन्ति । कस्माद्विशुद्धं शीलम् । विशुद्धशीलधारणञ्च न कालपरिच्छिन्नम् । न ब्राह्मणानामिव षाण्मासिकं शीलधारणम् । [अपितु] दीर्घरात्रं यावदन्तमुपादीयते । अतो विशुद्धम् । विशुद्धं शीलमन्तद्वयविमुक्तं पञ्चकामगुणविमुक्तं दुःखकायविसुक्तञ्च दधते । अत आर्याणां कान्तशीला भवन्ति । तच्छीलं विज्ञानाञ्च प्रियं भवति । चित्तं विशुद्धमित्यतः शीलमपि विशुद्धम् । प्रशमिताध्याशयदोषा न केवलं शीलं रक्षन्ति । परलोकादपि बिभ्यन्ति । अतः सङ्घरत्नं शीलस्कन्धविशुद्धम् ।

समाधिस्कन्धविशुद्धमिति । यः समाधिस्तत्त्वज्ञानमुत्पादयति स विशुद्ध इत्युच्यते ।

प्रज्ञास्कन्धविशुद्धमिति । प्रज्ञा क्लेशान् क्षपयतीत्यतो विशुद्धा ।

विमुक्तिविशुद्धमिति । या सर्वक्लेशानां क्षयं प्रापयति न केवलं विघ्नयति । अतो विमुक्तिर्विशुद्धा ।

विमुक्तिज्ञानदर्शनविशुद्धमिति । क्षीणक्लेशानां ज्ञानं भवति यदुत क्षीणा मे जातिरिति । नाक्षीणक्लेशानाम् । इदं विमुक्तिज्ञानदर्शनं विशुद्धम् ।

आह्वनीयं प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयमिति । ईदृशगुणसम्पन्नत्वात् आह्वनीयं प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयम् ।

[अनुत्तरं] पुण्यक्षेत्रमिति । तत्र रोपितेन पुण्येन अप्रमाणविपाकं प्रतिलभते । तत् यावन्निर्वाणञ्च न क्षीयते ।

दायकानां हितकरमिति । दायकानां गुणान् वर्धयति । यथा अष्टाङ्गसमन्वितं (sss_29) क्षेत्रं पञ्चविधधान्यान्यतिशयेन संवर्धयति न विनाशं गमयति । तथा सङ्घक्षेत्रमपि अष्टाङ्गसमन्वितमित्यतो दायकानां गुणान् वर्धयति । अतो ऽभिवन्द्यम् ॥

सङ्घरत्नाधिकारे आद्यविशुद्धिवर्गो नवमः ।

10 आर्यविभागवर्गः

[पृ] केन धर्मेण सङ्घ इत्याख्यायते । (उ) चतुर्विधाः प्रतिपत्तयञ्चतुर्विधाः प्रतिपन्नकाः शीलसमाधिप्रज्ञादिगुणाश्च परिशुद्धा इत्यतः सङ्घ इत्याख्यायते ।

चतुर्विधाः प्रतिपत्तयःस्रोतआपत्ति सकृदागिप्रतिपत्तिअनागामिप्रतिपत्ति अर्हत्प्रतिपत्तयः । चतुर्विधाः फलस्थिताः स्रोतआपन्नसकृदागाम्यनागाम्यर्हन्तः । स्रोतआपत्तिप्रतिपत्तौ त्रयः पुद्गलाः श्रद्धानुसारिप्रतिपन्नको धर्मानुसारिप्रतिपन्नको ऽनिमित्तानुसारिप्रतिपन्नक इति । श्रद्धानुसारिप्रतिपन्नक इति । यो ऽलब्धानात्मशून्यताज्ञानो भगवच्छासने श्रद्दधानो भगवद्वचनमनुसृत्य प्रतिपन्नो भवति । स श्रद्दानुसारिप्रतिपन्नक इत्युच्यते । यथोक्तं सूत्रे अहमस्मिन् वस्तुनि श्रद्धया प्रतिपन्नः । इति । लब्धे तु तत्त्वज्ञाने न श्रद्धामात्रमनुसृत्य प्रतिपद्यते । यथोक्तं सूत्रे- नास्ति कारको नास्ति श्रद्धालुरित्यादि प्रजानन् उत्तमपुद्गलो भवति । इति । अतो ज्ञायते अलब्धतत्त्वज्ञानः श्रद्धानुसारिप्रतिपन्नक इति । यथोक्तं सूत्रे- यो धर्मे क्षान्तिसुखं प्रज्ञया भावयति स श्रद्धाप्रतिपन्नकः [यः] पृथग्जनभूमिमतिक्रान्तः स्रोतआपत्तिफलञ्च नालभत । अत्रान्तरे जीवितान्तं नालभत । स श्रद्धाप्रतिपन्नकः । इति । अयं श्रुतचिन्तामयप्रज्ञायां स्थितो धर्मणां क्षान्तिकामसुखचित्तं सम्यक् भावयन् अनात्मशून्यताज्ञानमलभमानो ऽपि लौकिकं धर्मक्षान्त्याभासचित्तमुत्पादयति । अयं स्वयमागत इति अतिक्रान्तपृथग्जनभूमिरितित्युच्यते । कस्मादिति पश्चाद्वक्ष्यते । यः श्रद्धादि पञ्चेन्द्रियविरहितः स (sss_30) बाह्यपृथग्जनेषुवर्तते । स क्रमेण उष्मादिधर्मेषु स्थितौ भावनामयीं प्रज्ञां लभमानो ऽपि मौलनाम्नैव श्रद्धानुसारीत्युच्यते । धर्मप्रतिपन्नकभावानुगामित्वात् । अस्मात् सूत्रात् वक्तव्यमवश्यं स्रोतआपत्तिफलं लप्स्यत इति । न वक्तव्यं जीवितान्ते न लप्स्यत इति । कस्मात् । श्रद्धाप्रतिपन्नकस्यास्य विप्रकृष्टत्वात् । यथोग्रेण सङ्घे निमन्त्रिते देवता उपसंगम्यारोचयन्ति- अमुको ऽर्हन् अमुको ऽर्हत्प्रतिपन्नको यावदमुकः श्रोतआपन्नः अमुकः स्रोतआपत्तिप्रतिपन्नक इति । यद्ययं पञ्चदशचित्तक्षणवर्ती नारोचनं लब्धुं शक्यते । इति ज्ञातव्यं स्रोतआपत्तिप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च । अयं श्रद्धाप्रतिपन्नक इत्युच्यते ।

धर्मानुसारिप्रतिपन्नक इति । अयं लब्धानात्मज्ञान ऊष्ममूर्धक्षान्त्यग्रधर्मेषुस्थितो धर्ममनुसृत्य प्रतिपद्यते यदनात्मशून्यादि । अयं धर्मप्रतिपन्नक इत्युच्यते । इमौ द्वौ प्रतिपन्नकौ सत्यदर्शनमार्गमवतार्य निरोधसत्यं पश्यत इत्यतो ऽनिमित्तप्रतिपन्नक इत्युच्यते । इमे त्रयः पुद्गलाः स्रोतआपत्तिप्रतिपन्नका भवन्ति । लौकिकमार्गे संयोजनप्रहाणात् फलत्रयप्रतिपन्न इति न प्रथां लभन्ते । इदं पश्चाद्वक्ष्यते ।

स्रोतआपन्न इति । यथोक्तं भगवता सूत्रम्- सत्कायदृष्टिदृष्टिविचिकित्साशीलव्रतपरामर्शानां त्रयाणां सयोजाननां परिक्षयात् स्रोतआपन्नो भवति अविनिपातधर्मा नियतः सम्बोधिपरायणः सप्तकृत्भवपरम इति । (पृ) यः स्रोतआपन्नः स सत्यदर्शनप्रहीणक्लेशो ऽत्यन्तपरिक्षीणाप्रमाणदुःखः पृथिवीसम इति औपम्यसूत्रमाह । कस्मादुच्यते केवलं त्रयाणां संयोजनानां परिक्षयादिति । (उ) इदमुत्तरत्र वक्ष्यते यदुत सत्यदृष्टिक्षयादन्ये क्षीणा इति । अविनिपातधर्मेति । इदमपि पश्चाद्वक्ष्यते कर्मस्कन्धे । नियतः सम्बोधिपरायण इति । धर्मस्रोतस्यवतरन् नियतं निर्वाणमनुप्राप्नोति । यथा गङ्घौघवर्ती दारुस्कन्धो विनाष्टप्रत्ययान् (sss_31) नियतं महासमुद्रमनुप्राप्नोति । सप्तकृद्भवपरम इति । स सप्तसु अध्वस्वनास्रवज्ञानं परिपाचयति । यथा [गर्भः] कललादिना सप्तसु दिनेषु परिणमति । यथा च नवनीतादि सप्तदिनपरमं सेवमानस्य ध्रुवा ग्लानिरपि जर्जरिता भवति । यथा च ज्ञातिसम्बन्धः सप्तसन्तानान् याति । यथा च सप्तफणसर्पदष्टः पुद्गलकायश्चतुर्भूतबलात् सप्तपदानि गच्छति नाष्टमं विषबलाद्गच्छति । यथा च शाठ्यधर्मः सप्ताध्वपरमो याति । यथा वा सप्तदिनेप्वतीतेषु कल्पाग्निः शाम्यति । एवं सप्तजन्मसु सञ्चितानास्रवप्रज्ञाग्निना क्लेशाः क्षीयन्ते । धर्मस्य सप्तभवाः स्युः । स्रोतआपन्नो ऽस्मिन्नध्वनि निर्वाणे ऽवतरति । द्वितीयं तृतीयं सप्तपरमं वा याति । अयं स्रोतआपन्न इत्युच्यते ।

सकृदागामिप्रतिपन्नक इति । भावनाहेयसंयोजनस्य नवस्कन्धा भवन्ति । य एकं द्वौ वा प्रहाय त्रीन् चतुरः पञ्च वा याति । स सकृदागा मिप्रतिपन्नकः ।

केचिदाहुः- एकेनानावरणमार्गेण प्रजहाति इति । तदयुक्तम् । भगवतोक्तम् अप्रमाणचित्तैः प्रजहाति । यथा वाशीजटा इति औपम्यसूत्र उक्तम् । सकृदागामिप्रतिपन्नकः कुलंकुल इत्यपि आख्यायते । स द्वे वा त्रीणि वा कुलानि सन्धावति संसरति । दृष्ट एव वा काये निर्वाणे ऽवतरति । अयं सकृदागामिप्रतिपन्नकः ।

सकृदागामी इमं लोकं सकृदागत्य दुःखस्यान्तं करोति । स भावनापरिक्षीणतनुसंयोजनः । (sss_32) संयोजनानां तनुत्वे स्थितः सकृदागामीत्युच्यते । अयं सकृदागामी इहैव वा जन्मनि दुःखस्यान्तं करोति ।

अनागामिप्रतिपन्नक इति । यः परिक्षीणसप्तमाष्टमसंयोजनस्कन्धः सो ऽनागामिप्रतिपन्नकः । परिक्षीणाष्टमसंयोजनो ऽयमेकबीजी अनागामिप्रतिपन्नकः । स इहैव वा जन्मनि दुःखस्यान्तं करोति । अत्यन्तपरिक्षीणकामावचरनव संयोजनस्कन्धो ऽनागामी । अनागामिनो ऽष्टप्रभेदाः- यदुत अन्तरा परिनिर्वायी, उपपद्यपरिनिर्वायी, अनभिसंस्कारपरिनिर्वायी, साभीसंस्कारपरिनिर्वायी, ऊर्ध्वस्रोतः अकनिष्ठगामी, आरूप्यायतनगामी, परावृत्तजन्मा, दृष्टधर्मनिर्वायी इति । उत्तममध्याधमेन्द्रियत्वात् प्रभेदाः ।

अन्तरापरिनिर्वाय्यपि उत्तममध्याधमेन्द्रियत्वेन त्रिधाभिद्यते । कश्चिदनागामी भवान्निर्विद्यते, अल्पनीवरणो न दृष्टे निर्वाणमनुप्राप्नोति । सो ऽन्तरापरिनिर्वाति ।

उपपद्यपरिनिर्वायी त्रिधा भिद्यते उपपद्यनिर्वायी, साभिसंस्कारपरिनिर्वायी, अनभिसंस्करपरिनिर्वायीति । उपपद्यपरिनिर्वायीति । य उत्पद्यमान एव भवान्निर्विद्य परिनिर्वाति । स उपपद्यपरिनिर्वायी । इन्द्रियतैक्ष्ण्यात् । कश्चिदुत्पन्नः सन् अनास्रवमार्गेषु प्रकृत्या स्थितो ऽभिसंस्कारमप्रयुज्य परिनिर्वाति । सो ऽनभिसंस्कारपरिनिर्वायी । मध्यमेन्द्रियत्वात् । कश्चिदुत्पन्नः सन् कायोपादाने ऽतिभीरुरभिसंस्कारमार्गं प्रयुज्य परिनिर्वाति । स साभिसंस्कार परिनिर्वायी । इन्द्रियमान्द्यात् ।

ऊर्ध्वस्त्रोता [अकनिष्ठगा]म्यपि त्रिविधः । य एकस्मादायतनात् च्युतो ऽपरस्मिन्नायतन उत्पद्य परिनिर्वाति । स तीक्ष्णेन्द्रियः । यो द्वयोस्त्रिषु वायतनेषु उत्पद्य [परिनिर्वाति] स मध्यमेन्द्रियः । यः सर्वस्मादायतनाच्च्युतः सर्वायतनेषूत्पद्य परिनिर्वाति । स मृद्विन्द्रियः । प्रथमध्यानात् [यो] बृहत्फलदेवगामी स निस्तीर्णो नाम । प्राप्तबृहत्फलो यदि शुद्धावास उत्पद्यते । स न पुनरारूप्यायतनं गच्छति । प्रज्ञाधिमुक्तत्वात् [आरूप्यगो] य आरूप्यायतनं गच्छति । स नैव शुद्धावास उत्पद्यते । समाध्यधिमुक्तत्वात् ।

परावृत्तजन्मेति । यः पूर्वभवे स्रोतआपत्तिफलसकृदागामिफलप्राप्तः पश्चात्प्रवृत्तकायेन अनागामिफलं प्राप्नोति । स न रूपारूप्यधाताववतरति ।

दृष्टधर्मपरिनिर्वायी ति परमतीक्ष्णेन्द्रियो दृष्ट एव काये निर्वाणं प्राप्नोति ।

अथ पुद्गलो द्विविधः श्रद्धाविमुक्तो दृष्टिप्राप्त इति । इन्द्रियभेदात् पुद्गलद्वैविध्यम् । मृद्विन्द्रियः शैक्षो भावनामार्गे स्थितः श्रद्धाविमुक्तः । तीक्ष्णस्तु दृष्टिप्राप्तः ।

यो ऽनागामि अविकलाष्टविमोक्षः स कायसाक्षी । इमे सर्वे अर्हत्फलप्रतिपन्नकाः संयोजनप्रहाणसाम्यात् ।

यः परिक्षीणसर्वक्लेशः सो ऽर्हन । नवविधो ऽर्हन- परिहाणलक्षणः, अनुरक्षणलक्षणः मृतलक्षणः, स्थितलक्षणः, प्रतिवेधनलक्षणः, अकोप्यलक्षणः, प्रज्ञाविमुक्तलक्षणः, उभयतोभागविमुक्तलक्षणः, अपरिहाणलक्षण इति । श्रद्धेन्द्रियादिप्राप्त्या अर्हन्तः प्रभिन्नाः ।

परममृद्विन्द्रियः परिहाणलक्षणः, समाधेः परिहाणदुष्टः । समाधिपरिहाण्या अनास्रवं ज्ञानं नाभिमुखीभवति । अनुरक्षणलक्षण इति किञ्चिद्विशिष्टेन्द्रियत्वात् यः समाधिमनुरक्षति स न परिहीयते । अरक्षंस्तु परिहीयते । पूर्वपरिहाणलक्षणस्तु [समाधिं] रक्षन्नपि ततः परिहीयते ॥ मृतलक्षणः ततो ऽपि किञ्चिद्विशिष्टेन्द्रियो भवेषु परमं निर्विण्णः । स न समाधिं लब्धवानित्यतो ऽनास्रवज्ञानस्याभिमुखीभावो दुर्लभः । लब्ध्वापि प्रीतिर्विनश्यति । अतो मरणार्थी भवति ॥ स्थितलक्षण इति यः समाधिं लब्ध्वा न पराक्रमते न च परिहीयते स स्थितलक्षणः । पुर्वे त्रयः समाधिपरिहाणभागे वर्तन्ते । स्थितलक्षणस्तु समाधिस्थितिभागे वर्तते ॥ प्रतिवेधलक्षण इति । यः समाधिं लब्ध्वा भूयो ऽधिकमभिवर्धयति । स समाध्यभिवर्धनभागे वर्तते ॥ अकोप्यलक्षण इति । यः समाधिं लब्ध्वा नानाप्रत्ययैर्न विक्षेपयति । स समाधिप्रतिवेधभागे वर्तते । परमतीक्ष्णप्रज्ञत्वात् । समाधिसमापत्तिस्थितिव्युत्थानलक्षणानां सुगृहीतत्वादकोप्यो भवति । निरोधसमापत्तिमुपादाय द्विविधः पुद्गलः- तत्समाध्यलाभी प्रज्ञाविमुक्तः, तत्समाधिलाभी तु उभयतोभागविमुक्त इति ॥ अपरिहाणलक्षण इति । यः कृतात् क्षयगुणादपरिहीणः । यथोक्तं सूत्रे- भगवानाह- यो भिक्षवो मच्छ्रावकः शयने पर्यङ्के वा अहमहमिकया प्रतिलब्धात् [आस्रव]क्षयान्न परिहीयते । इति । एवं नवविधा अशैक्षाः । पूर्वोक्ता अष्टादश शैक्षा नवाशैक्षाश्च [मिलित्वा] सप्तविंशति [पुद्गलाः] लौकिकं सर्वपुण्यक्षेत्रम् । ते सङ्घे समन्विताः । अतो ऽभिवन्द्यं [सङ्घरत्नम्] ॥

आर्यविभागवर्गो नाम दशमः ।

11 पुण्यक्षेत्रवर्गः

(पृ) कस्मादार्यास्ते पुण्यक्षेत्रमित्युच्यन्ते । (उ) लोभक्रोधादीनां क्लेशानां परिक्षीणत्वात् पुण्यक्षेत्रमित्युच्यते । यथा तृणानाहतः सुबिजाङ्कुर इत्युच्यते । अतो वीतरागाणां दानं महाहितविपाकप्रापकम् । शून्यताचित्ता इत्यतश्च पुण्यक्षेत्रमित्युच्यन्ते । कस्मात् । शून्यलक्षणत्वात् सर्वे रागद्वेषादयः क्लेशा अनुत्पन्ना नाकुशलं कर्मोत्पादयन्ति । आर्या अकृतकधर्मलाभिन इति पुण्यक्षेत्रं भवन्ति । तैर्लब्ध्वा ध्यानसमाधयः सर्वे परिशुद्धाः महाल्पैः क्लेशैर्विशंयुक्तत्वात् । सौमनस्यदौर्मनस्ययोर्निराकृतत्त्वाच्च पुण्यक्षेत्रम् । पञ्च (sss_36) चेतोखिलानि प्रहाय प्रतिलब्धविशुद्धचित्तत्वाच्च पुण्यक्षेत्रम् । अष्टक्षेत्रगुणसमन्वित्वात् सप्तविध समाधिपरिष्कारैः सुरक्षितत्वात् सप्तास्रव सन्निरोधित्वात् आस्रवैरदुष्टम् । शीलादिसप्तपरिशुद्धधर्मसम्पन्नत्वात् अल्पेच्छासन्तुष्ट्याद्यष्टगुणसमन्वितत्वात् । तत् पारं सन्तीर्य आकांक्षावितरणव्यवसायित्वाच्च पुण्यक्षेत्रम् । उक्तं च सूत्रे प्रस्थानचितमात्र एव कुशलधर्ममाचरितुमभिलषति । किं पुनर्बह्वर्थं प्रयोगम् । इति । ते आर्याः सदा कुशलधर्मानाचरन्तीत्यतः पुण्यक्षेत्रम् । किञ्चोक्तं सूत्रे यस्माद्दायकाद् गृहपतेः शीलवतो भिक्षुः सत्कारमादाय अप्रमाणसमाधिमुपसम्पद्य विहरति । स दायक्तो गृहपतिरप्रमाणं पुण्यं लभत इति । सङ्घे सन्ति केचिदप्रमाणसमाधिसमापन्नाः, केचिदनिमित्तसमाधिसमापन्नाः, केचिदचलसमाधिसमापन्नाः । तेन दानपतिरप्रमाणविपाकं लभते अतो ऽपि पुण्यक्षेत्रम् । किञ्चोक्तं सूत्रे- त्रयाणां सन्निपातान्महतः पुण्यस्य प्रतिलाभः । श्रद्धा देयं पुण्यक्षेत्रमिति । सन्ति च सङ्घे बहवो भदन्ताः । भदन्तेषु श्रद्धाचित्तं बाढमुत्पद्यते । सङ्घस्य दानं नवप्रत्ययसंयुक्तमित्यतो महाफलप्रापकम् । सङ्घदानस्य प्रतिग्रहीता परिशुद्ध इत्यतस्तद्दानमपि अवश्यं परिशुद्धम् ।

दानञ्चाष्टविधम् । (1) परिशुद्धचित्तो ऽल्पं देयवस्तु भिन्नशीलस्याल्पशो ददाति । (2) परिशुद्धचित्तो ऽल्पं देयं भिन्नशीलस्य बहुशो ददाति । (3) परिशुद्धचित्तो देयमल्पं धृतशीलस्याल्पशो ददाति । (4) परिशुद्धचित्तो ऽल्पं देयं धृतशीलस्य बहुशो ददाति । (5) परिशुद्धचित्तो बहुशो [ऽल्पशो वा] ददाति तथा देयं चतुर्विधम् । सङ्घस्य दानमवश्यं द्वे त्रीणि वा प्रसाधयेत् । सर्वे सुजनाः सङ्घमुपादाय (sss_37) गुणान् वर्धन्ते । यथेष्टं बोधये परिणमन्ति । सङ्घस्य दीयमानं सर्वं विमुक्तिं प्रापयिष्यति । नैव च संसारे पातयति । सङ्घस्य दीयमानं सर्वं चित्तप्रसाधनाय भवति । यद्येकस्मिन् पुरुषे उत्पन्ना श्रद्धा चित्तं कदाचित् परिशोधयेत् कदाचिद्वा प्रकम्पेत । सङ्घे तु [समुत्पन्ना] श्रद्धा चित्तं परिशोधयेदेव । न पुनः प्रकम्पेत । कस्मिंश्चिदुत्पन्नः स्नेहः चित्तं न गुरुकुर्यात् न प्रचीयेत । सङ्घे तूत्पन्ना भक्तिः चित्तं गुरुकुर्यात् अप्रमाणालम्बनत्वात् चित्तं प्रचीयेत । सङ्घगणितानां सर्वेषां पुद्गलानां दद्यात् । चित्तमहिम्ना विपाको ऽपि महान् भवति । इत्यादिभिः प्रत्ययैः आर्यपुद्गलाः पुण्यक्षेत्रमित्याख्यायन्ते । अतो ऽभिवन्द्यम् ॥

पुण्यक्षेत्रवर्गः एकादशः ।

12 मङ्गलवर्गः

रत्नत्रयमिदं गुणसम्पन्नमित्यतः सूत्रस्यादावुक्तम्, इदं रत्नत्रयं सर्वस्य लोकस्य प्रथमं मङ्गलम् । यथोक्तं मङ्गलगाथायाम्- बुद्धो धर्मश्च सङ्गश्च एतन्मङ्गलमुत्तमम् इति । अथ कानिचित्सूत्राणि मङ्गलादीनि शैक्षाणामायुर्यशःप्रसरवर्धनानि इति सूत्रकर्तारो ऽभिप्रयन्ति । यथा अथेत्यादिपदं सूत्रारम्भगतमिति । न तन्मङ्गललक्षणमिति पश्चाद्वक्ष्यते । उत्तममङ्गलप्रार्थिना इदं रत्नत्रयमेव शरणीकर्तव्यम् । यथोक्तं मङ्गलगाथायाम्-

देवेषु च मनुष्येषु शास्तानुत्तमनायकः । महामतिश्च सम्बुद्ध एतन्मङ्गलमुत्तमम् ॥

यश्च बुद्धे सुविहितश्रद्धाचित्तो न कम्पते । विशुद्धशीलसम्पन्न एतन्मङ्गलमुत्तमम् ॥

असेवना च बालानां पण्डितानाञ्च सेवना । पूजा च पूजनीयानामेतन्मङ्गलमुत्तमम् ॥इति ।

अतो ऽभिवन्द्यं रत्नत्रयम् । उत्तममङ्गलत्वान्मया सूत्रादावुक्तम् ॥

मङ्गलवर्गो द्वादशः ।

13 शास्त्रस्थापनवर्गः

अधुना लोकानां हितकरो जिनधर्मो जिज्ञास्यते । भगवतो महाकरुणाचित्तेन सर्वलोकानां हितकरत्वात् तद्धर्मो ऽपार्यन्तिकबाध इत्युच्यते । तद्यथा केचित् ब्राह्मणानामेव मोक्षशास्त्रमुपदिशन्ति । भगवदुपदिष्टं शास्त्रन्तु चातुर्वर्गीयाणां सत्त्वानामातिर्यग्जन्तूनाञ्च सन्तारकं भवति इति नास्ति पार्यन्तिकबाधा ।

(पृ) न कर्तव्यो बुद्धप्रवचनविचारः । कस्मात् । यदि भगवता स्वयमेव विचारितम् । किमस्ति विचाराय । यदि भगवता न विचारितम् । अन्ये ऽपि न विचारयितुं शक्नुयुः । कस्मात् । सर्वज्ञाभिप्रायो हि दुरवगाहः । किमर्थमिदमुक्तमिति न ज्ञायते । भगवदभिसन्धिमजानतामुपदिष्टं वृथेति तत् आत्मनः क्लेशायैव भवति । यथोक्तं सूत्रे- द्वौ पुरुषौ भगवन्तं निन्दतः एको ऽश्रद्धाद्वेषाभ्यां निन्दति, अपरस्तदुपदिष्टे सश्रद्धो ऽपि सत्यसमादानासमर्थः । सैव बुद्धनिन्दा । विद्वानपि बुद्धाभिसन्धिमनवबुध्य बुद्धभाषितं न विचारयितुं शक्नोति । किं पुनस्तदलाभी बुद्धाभिसन्धेः कथासम्प्रयोगं चिकीर्षति । कस्मात् । यथा परप्रवादसूत्रे भगवता प्रतिपत्त्यर्थमिदमुक्तम् । सर्वे भिक्षवो नानाविधाः परप्रवादिनो नालभन्त तथागताशयम् । यथा च स्थविरमहाकात्यायनो भिक्षूनवोचत् । यथा च कश्चित् महान्तं वृक्षं छित्वा अतिक्रम्यैव मूलमतिक्रम्यैव स्कन्धं शाखापलाशानि पर्येषयन्ति । तथा यूयमपि तथागतमतिक्रम्यस्मानर्थ पृच्छथ, इति । यदि महाकात्यायन एवार्थविवेचने शाखापलाशान्युदाहरति । किं पुनरन्ये बुद्धप्रवचनं प्रतिपद्येरन् । किञ्च भगवान् शरिपुत्रमपृच्छत् के शैक्षाः के च साङ्ख्या इति । एवं त्रिः पृष्टो नोत्तरमवादीत् । तथागतमूलाः सर्वधर्माः । तथागत एव प्रतिपद्यते नान्ये । इति आनन्द स्तथागतमामन्त्याह- अभिसम्बोधिसमधिगमात् प्रतिलब्धे मार्गे हितं भवतीत्यतदपि युज्यते । कस्मात् । द्वाभ्यां प्रत्ययाभ्यां सम्यक् दृष्टिर्भवति परतो घोषात् योनिशश्च (sss_39) मनस्कारात् । भगवानानन्दमवोचत्- अभिसम्बोधिमात्रान्मार्गलाभहितं सम्पन्नं भवति । इति । यथा चाह भगवान्- यदि मया कस्यचित् धर्म उपदिष्टः सो ऽप्रतिलब्धमदभिसन्धित्वात् कलहायते । इति ।

अधुना वादिनः पृथक् पृथगभिनिविष्टाः । केचिद्वदन्ति सन्ति अतीतानागतधर्मा इति । केचिद्वदन्ति न सन्ति इति । अतो ज्ञातव्यमेव वादिनः तथागतमप्रतिपद्यमाना यथारुतमनुवर्तमानाः कलहायन्त इति । यथा आनन्दः समाध्यर्थं सर्वाण्युपादानानि दुःखमित्यवोचत् । तदा भगवान् भिक्षूनब्रवीत्- भावयथेममर्थ नानन्दोपमिताकारम् इति ।

सर्वे वादिन आहुः- अर्हन् अग्रदक्षिणीय इति । भिक्षवो ऽज्ञात्वा तथागतमुपेत्याप्राक्षुः । भगवानवोचत्- मम शासने अग्रप्रव्रजितो ऽग्रदक्षिणीय इति । [एवम्] अन्नपाने स्थूलवस्तुन्येव न जानन्ति [यथावत्] कः पुनर्वादस्तथागतेनभिसन्धाय भाषिते सूक्ष्मधर्मे । इत्यादिना हेतुना न कर्तव्यो विचारः ।

अत्रोच्यते । न युक्तमिदम् । कस्मात् । कारणसत्त्वात् परामिसन्धिर्ज्ञातुं शक्यते । यथोक्तं गाथायाम्-

जानन्ति वक्तुः सन्धानं [परमं] यत्परायणम् । जानन्त्यपि च वक्तुश्च विवक्षा यस्य वस्तुनः ॥ इति ।

तत्रास्ति द्विधा मार्ग आर्यमार्गो लौकिकमार्ग इति । इदं पश्चाद्वक्ष्यते । अनेन मार्गेण वक्तुराशयो ज्ञायते । अथ परप्रवाद सूत्रे ऽपि भगवान् संश्रावयति स्म । [आर्य]कात्यायनादिभिर्महावादिभिर्भगवदाशयः प्रतिलब्ध इत्यतो भगवान् साधुप्रशशंस । (sss_40) उदायिभिक्षुधर्मदिन्नादिभिभिक्षुणीभिः कृतं भगवच्छासनं भगवान् श्रुत्वा [तदेव पुनः] श्रावयति स्म ।

गभीरं तथागतशासनं विवृण्वता शास्त्रं विरच्यते । अविवरणे सन्तिष्ठेत् । एवमन्यः "तथागतमूलाः सर्वधर्मा" इत्यादि प्रश्नः सर्वः प्रत्युक्तः । किञ्च शास्त्रं विरचयितव्यम् । कस्मात् । शास्त्रे विरचित्ते हि अर्थः सुगमः स्यात् । धर्मश्च चिरस्थितिकः स्यात् । भगवांश्च शास्त्रप्रणयनं संश्रावयति स्म । यथोक्तं सूत्रे- भगवानवोचद्भिक्षून्- यथाप्रणीतं शास्त्रं सम्यग्धारयत । इति । अतः सूत्रादर्थमादाय शास्त्रं निकायान्त रात्मना पृथक् स्थाप्यते । अतः शास्त्रं रचयितव्यम् ।

किञ्च भगवान् नानासत्त्वानां सन्तरणीयानां कृते लोकादीनि शास्त्रमुखान्युक्तवान् । यथा स्वात्यादयो ऽप्रतिपद्यमाना भ्रान्तमतयो ऽभूवन् । स्वात्यादयो भिक्षव आहुः- तदेवेदं विज्ञानं सन्धावति संसरति । अनन्यदिति ।

भगवानेवमादिना नानाधर्ममुपदिष्टवान् । विना शास्त्रं कथमर्थः प्रतिपद्येत । इत्यादिभिः कारणैः शास्त्रं विरचयितव्यम् ॥

शास्त्रस्थापनवर्गस्त्रयोदशः ।

14 शास्त्रमुखवर्गः

लोकमुखं परमार्थमुखमिति द्विमुखं । लोकमुखतः अस्त्यात्मा इत्युच्यते । यथोक्तं सूत्रे-

आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत् । आत्मनैव कृतं पुण्यं आत्मनैव विशुध्यते । आत्मनैव कृतं पापमात्मना संक्लिश्यते ॥ इति ।

किञ्चोक्तं सूत्रे- शाश्वतं मनोविज्ञानम् । इति । आह च- दीर्घरात्रं भावितचित्तो मृत ऊर्ध्वजन्मभाक् भवति । इति । किञ्चाह कारकः कर्म करोति, कारकः स्वयमनुभवति । इति । अमुकः सत्त्वो ऽत्रोत्पद्यते इत्यादि सर्वं लोकमुखेनोक्तम्, परमार्थमुखतस्तूच्यते सर्वं शून्यमसत् इति । यथोक्तं सूत्रे एषु पञ्चसु स्कन्धेषु नास्त्यात्मा वा आत्मीयं वा । चित्तञ्च समीरणज्वलनवत् प्रतिक्षणविनाशि । अस्ति कर्म अस्ति कर्मफलम्, कारकस्तु नोपलभ्यते । इति । यथा भगवान् आह- स्कन्धानां सन्तत्यास्ति संसार इति ।

(2) अन्यदस्ति द्विविधं शास्त्रमुखम् व्यवहारमुखमार्यमुखम् इति । व्यवहारमुखमिति । व्यवहारत उच्यमानम्, [यथा] चन्द्रः क्षीयत इति । वस्तुतस्तु चन्द्रो न क्षीयते । [यथा वा] मृगा रमातेति स्नुषां मातेति वदन्ति । न वस्तुतः सा माता । यथोक्तं सूत्रे- जिह्वा रसं विजानाति इति । जिह्वाविज्ञानं रसं विजानाति न तु जिह्वा । यथा शक्तिप्रतिहतं पुरुषं प्रति वदन्ति पुरुषो ऽयं दुःखं विजानातीति । विज्ञानन्तु दुःखं विजानाति, न तु पुरुषः । यथा वा दरिद्रः पुरुषः प्रभुरिति व्यपदिश्यते । बुद्धो ऽपि पुरुषवशात् प्रभुरिति ख्यापयति । किञ्च भगवान् तीर्थिकानाकारयति ब्राह्मणानिति श्रमणानिति च । क्षत्रियब्राह्मणादय इव बुद्धो ऽपि व्यवहारतः पूज्यो भवति । एकमेव यथा भाजनं देशवशात् विभिन्ननामकम्, बुद्धो ऽपि नामानुयाति । यथा भगवानाह- अहं वैशालीं पश्चिमा [वलोक]मवलोकयामीति । एवमादिवचनं व्यवहारमनुवर्तत इति व्यवहारमुखमित्युच्यते ।

आर्यमुखमिति । यथोक्तं सूत्रे- प्रतीत्यसमुत्पन्नं विज्ञानं चक्षुरादीनामिन्द्रियाणां मूलं महासमुद्रवत् । यथाह सूत्रम्- स्कन्धायतनधातूनां प्रत्ययाः सामग्रीमात्रम् न कारकः नापि वेदकः इति । सर्वं दुःखमिति चाह । यथोक्तं सूत्रे- यत् लौकिका वदन्ति सुखमिति [तत्] आर्या दुःखं वदन्ति । यत् आर्या दुःखं वदन्ति [तत्]लौकिकाः सुखं वदन्ति । इति । अभिधेयाः शून्या अनिमित्ता इत्यादि च । तत् आर्यमुखमित्युच्यते ।

(3) त्रैकालिक शास्त्रमुखम् । यत्र रूपमित्याख्यायते तत्र यदतीतं यदनागतं वर्तमानम् सर्वं तत् रूपमित्युच्यते । इदं लौकिकं शास्त्रमुखम् ।

(4) अस्ति चेदिति शास्त्रमुखम् । [यथा] स्पर्शो ऽस्ति चेत्, सो ऽवश्यं षडायतनमुपादाय भवति । न तु सर्वं षडायतनं स्पर्शस्य हेतूक्रियते । तृष्णस्ति चेत् अवश्यं सा वेदनामुपादायं भवति । न तु सर्वा वेदना तृष्णाया हेतूक्रियते । कदाचित् समग्रहेतुरुच्यते यथा स्पर्शप्रत्यया वेदना इति । कदाचिदसमग्र हेतुरुच्यते यथा वेदनाप्रत्यया तृष्णा इति । न तूच्यते अविद्येति । कदाचिदन्यथोच्यते । यथोक्तं सूत्रे- प्रीतमनसः कायः प्रश्रभ्यते । अप्रीतस्यापि त्रिभिर्ध्यानैःकायः प्रश्रभ्यते । प्रश्रब्ध[कायः] सुखं वेदयते । इति च चतुर्भिर्ध्यानैः प्रस्रब्धिमानपि न सुखं वेदयते । इतीदमन्यथा वचनम् ।

(5) उत्सर्गो ऽपवाद इति द्विविधं शास्त्रमुखम् । यथोक्तं सूत्रे- यश्चै- त्यवन्दनाय पादावुत्क्षिपति स आयुषो ऽन्ते देवेषूत्पद्यते इति । अयमुत्सर्गः । सूत्रान्तरमाह- अनन्तर्यस्य कर्ता न देवेषूत्पद्यत इति । अयमपवादः । उक्तञ्च सूत्रे- कामानामनुभविता नापापकं करोति इति । अयमुत्सर्गः । स्रोतआपन्नः पुरुषः कामानुपभुञ्जानो ऽपि न दुर्गतिपतनीयं कर्म करोति इति । अयमपवादः । अपि चोक्तं सूत्रे- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते इति । अयमुत्सर्गः । यदि तदैव सर्वाणि रूपाणि प्रतीत्य चक्षुर्विज्ञानमुत्पद्यत (sss_43) इति वदेत् । तदयुक्तम् । अथ चोक्तं सूत्रे- श्रोत्रं प्रतीत्य शब्दञ्च श्रोत्रविज्ञानमुत्पद्यते न चक्षुर्विज्ञानम् । इति । अयमपवादः । उत्सर्गो ऽपवादश्च सर्वः सयुक्तिको न धर्मलक्षणविलोमकः ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.