Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
सत्यसिद्धिशास्त्रम्
- Tác giả
- हरिवर्मन्
- Thông tin
- GRETIL — N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
केचिद्वदन्ति आर्यमार्गान्न परिहीयते ध्यानसमाधेः परं परिहीयत इति । (पृ) तथा चेत् अर्हन् द्विविधो न स्यात् । अस्ति खलु परिहाणलक्षणः । सर्वेषामर्हतां ध्यानसमाधिभ्यः परिहाणमस्त्येव । (उ) ध्यानसमाधिपरिहीणस्य वशिताबलमस्ति न तु सर्वेषामर्हताम् । (पृ) न युज्यते । यथा गौधिको भिक्षुः षड्वारं [चेतोविमुक्तेः] परिहीणः असिना आत्मानं जघान । यदि ध्यानसमाधेः प्रहीणः, नात्मानं हन्यात् । तथागताशासने हि विमुक्तिः प्रधाना न समाधिः । (उ) स इमं ध्यानसमाधिमवलम्ब्यार्हन्मार्गं स्पृशेत् । तस्मात् समाधेः च्युतस्यानास्रवं च्यवते न तु अनास्रवात्परिहीयते । कस्मात् । यथाह गाथा-
क्षीणं पुराणं न नवो ऽस्ति सम्भवो विरक्तचित्ता आयतिके भवे च । ते क्षीणबीजा अविरुढच्छन्दा निर्वान्ति धीरा यथायं प्रदीपः ॥ इति ।
किञ्चाह-
शैलो यथा चैकघनो वातेन न समीर्यते । एवं निन्दाप्रशंसासु न समिञ्जन्ति पण्डिताः । इति ।
अपि चोक्तं सूत्रे- तृष्णा तृष्णाजननीत्यादि । तृष्णामूलमर्हतो ऽत्यन्तमुन्मूलितम् । कुतः प्रवर्तेत संयोजनम् । आह च- आर्यो ऽत्यन्तपरिक्षीणान्तः कृतकरणीय इति । किञ्चाह- आर्यस्य क्षीयमाणः समुदयो न पुनर्भवति । प्रदलितं विज्ञानं न [पुनः] भवति (sss_82) इत्यादि । उक्तञ्च सूत्रे- अविद्याप्रत्ययाः कामद्वेषमोहाः प्रवर्तन्ते । अर्हतो ऽत्यन्तपरिक्षीणाविद्या । [तस्य] कथं संयोजनानि प्रवर्तन्ते । इति । किञ्चोक्तं सूत्रे- ये शैक्षा निर्वाणमार्गं पर्येषन्ते । अहं वदामि तैरप्रमत्तैर्भवितव्यमिति । येषामास्रवाः क्षीणाः न तेषां पुनरास्रवा भवन्ति । अतो नास्ति परिहाणिः । किञ्चाह- विद्वान कुशलभावनः कुशलवाक् कुशलकायकर्मान्तः करणीयान्न च्यवत इति । अपि चाह-
अप्रमादरतो भिक्षुः प्रमादे भयकोविदः । अभव्यः परिहाणाय निर्वाणस्यैव सन्तिके ॥ इति ।
उक्तञ्च सूत्रे-
मृगा वनाश्रया एव विहगा गगनाश्रयाः । प्रविवेकपरो धर्मः सज्जनाः शमनिश्रिताः ॥ इति
त्रीणि निदानानि संयोजनानां समुत्पादाय अप्रहीणच्छन्दरागः, छन्दरागस्थानीयस्योपस्थानं, तत्र मिथ्यामनस्कारसमुत्पादः । अर्हतः छन्दरागः प्रहीणः । छन्दरागस्थानीयस्यो [पस्थिता]वपि न मिथ्यामनस्कारः समुद्यते । अतः संयोजनानि नोत्पादयति । आह च- धर्मान् मिथ्याभावयतो भिक्षोस्त्रय आस्रवाः प्रादुर्भवन्ति इति । अर्हन् पुनर्न मिथ्याभावयतीति न त आस्रवाः प्रादुर्भवन्ति इति । किञ्चोक्तं सूत्रे- य आर्यप्रज्ञया प्रजानाति न स परिहीयते । यथा स्रोतआपत्तिफलमपरिहीणम् इति । कीञ्चार्हन् तिस्रो वेदनाः सम्यक् प्रजानाति [तासा]मुत्पादलक्षणं निरोधलक्षणमास्वादलक्षणं मार्गलक्षणं निस्सरणलक्षणञ्चेत्यतो नोत्पादयति संयोजनम् । किञ्चाह- यो भिक्षुः शीलसमाधिप्रज्ञाख्यै स्त्रिभिर्धर्मैः समन्वागतः स न परिहीयते । इति । अर्हत उत्पन्नं संयोजनं प्रहीणम् । अनागतञ्च नोत्पादयति । यथोक्तं सूत्रे- सत्यविहारी आर्यो नैव परिहीयत इति । अर्हन् (sss_83) साक्षात्कृतचतुस्सत्यः क्षीणास्रव इत्यतः सत्यविहारीत्युच्यते । किञ्चाह- सप्तबोध्यङ्गानि अपरिहाणीया धर्मा इति । अर्हतः सप्तबोध्यङ्गसम्पन्नत्वात् न परिहाणिर्भवति । किञ्चार्हन् अकोप्यां [चेतो]विमुक्तिं साक्षात्कृतत्वान् इत्यतो न परिहीयते । अर्हन् तथागतशासने सारमर्थं प्रतिलब्धवान् यदुताकोप्या चेतोविमुक्तिः । कस्यचित् करच्छेदवत् तत्स्मरणे ऽस्मरणे च सदा करच्छेदो ऽस्त्येव । तथा अर्हतः प्रहीणं संयोजनम् । तत्समरणे ऽस्मरणे च सदा प्रहाणमस्त्येव । किञ्चोक्तं सूत्रे- श्रद्धादिनामिन्द्रियाणां तीक्ष्णत्वात् अर्हन् भवति इति । तीक्ष्णेन्द्रियः कदापि न परिहीयते । अनुत्तमतृष्णाप्रहाणधर्मकुशलस्यार्हतश्चित्तं सम्यग्विमुच्यते ऽत्यन्तं क्षीयते । तद्यथा दहनो ऽदग्धं दहति दग्ध्वा च नपुनस्तत्र प्रत्यावर्तते । एवं भिक्षुः एका दशभिर्धर्मैः समन्वागत इत्यतो न कदापि परिहीयते ।
(पृ) द्विविधो ऽर्हन् इति भवतोदाहृतसूत्रमाह- अस्ति अपरिहाण[लक्षण] इति । (उ) इदं सामान्यत उक्तम् । शैक्षेरप्रमत्तैर्भवितव्यमिति अर्हन्तमनपेक्ष्य, न तु विशेषत उक्तम् अपरिहाणलक्षणो ऽस्तीति । भगवनाह गाथाम्-
जिनश्चेत् पुनरुत्पन्नः स्यात् उच्यते न तु सो जिनः जिनो भूत्वा न जायेत् तात्विकः स जिनो मतः ॥ इति ।
यो ऽर्हन् पुनः क्लेशानुत्पादयति न स जिनो भवेत् । अर्हतः क्षीणजातित्वात् न पुनः कायो वेद्यते । भवतः सूत्रं यद्यप्याह- अर्हन् परिहाणधर्मा पुनः परिहीयेत इति । तथा चेत् अपरिहाणधर्मापि स्यात् । यो भिक्षुस्तथेन्द्रियाणि करोति यथा नोत्पद्यते, सो ऽर्हन् भवति । अतो न परिहीयते ।
अपरिहाणवर्ग एकोनत्रिंशः ।
30 चित्तस्वभाववर्गः
शास्त्रमाह- केचिद्वदन्ति चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैरपरिशुद्धमिति । केचिद्वदन्ति न तथेति ।
(पृ) केन कारणेन वदन्ति प्रकृतिपरिशुद्धमिति । केन कारणेन वदन्ति न तथेति । (उ) न तथेति । न चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैपरिशुद्धम् । कुतः । क्लेशा हि सदा चित्तेन सह संप्रयोगजाः । नागन्तुकलक्षणाः । चित्तञ्च त्रिविधम्- कुशलमकुशलमव्याकृतमिति । कुशलमव्याकृतञ्च चित्तममलम् । अकुशलचित्तं प्रकृतितो ऽपरिशुद्धम् । नागन्तुकतया । इदञ्च चित्तं प्रतिक्षणमुत्पन्नविनाशि क्लेशानपेक्षम् । यः क्लेशः सहजो भवति न स आगन्तुक इत्युच्यते ।
(पृ) चित्तं रूपादिमात्रमनुभूय ततो निमित्तं गृह्णाति । निमित्तजाः क्लेशाः चित्तस्य मलं कुर्वन्ति । अतः प्रकृतिपरिशुद्धमित्युच्यते । (उ) न युक्तमिदम् । चित्तमिदं तत्काल एव निरुद्धं न मलनिमित्तवत् भवति । चित्तं तत्काल एव विनष्टं केन मलेन लिप्यते । (पृ) न प्रतिक्षणविनाशि चित्तमित्यत एवं वदामि । [किन्तु] सन्तन्यमानं चित्तमित्यतो मलिनमिति वदामि । (उ) चित्तसन्तानो ऽयं लोकसत्यतो ऽस्ति न परमार्थतः । [परमार्थतस्तु] अयमनिर्वाच्यः ।
लोकसत्यतो ऽपि सन्ति बहवो दोषाः । चित्तमुत्पन्नविनाशि । अनुत्पन्नस्यानभिनिर्वृत्तस्य कथं सन्ततिः । अतो न चित्तं प्रकृतितः परिशुद्धमागन्तुकमलैपरिशुद्धकम् । किन्तु तथागतः चित्तं नित्यं स्थायीति वदतां सत्त्वानां कृत आह आगन्तुकमलक्लिष्टं सत् चित्तमपरिशुद्धमिति । किञ्च कुसीदसत्त्वा ये शृण्वन्ति चित्तं प्रकृतितो ऽपरिशुद्धमिति । ते वदेयुः प्रकृतिः न प्रतिकार्येति । न ते चित्तव्यवदानमारभेरन् इत्यतः तथागत आह प्रकृतिपरिशुद्धमिति ॥
चित्तस्वभाववर्गस्त्रिंशः ।
31 सम्प्रयोगासम्प्रयोगवर्गः
शास्त्रमाह- केचिद्वदन्ति अनुशयाश्चित्तसम्प्रयुक्ता इति । केचिद्वदन्ति चित्तविप्रयुक्ता इति ।
(पृ) केन कारणेन वदन्ति चित्तसंप्रयुक्ता इति । केन कारणेन वदन्ति चित्तविप्रयुक्ता इति । (उ) चित्तसम्प्रयुक्ता इति । [इदं] पश्चादनुशयवर्गे वक्ष्यते । छन्दरागादिः क्लेशानां कर्म । तच्च कर्म अनुशयैः सम्प्रयुक्तम् । भवतां शासने यद्यप्युच्यते चित्तविप्रयुक्तो ऽनुशयः चित्तसम्प्रयुक्तसंयोजनपर्यवस्थानस्य हेतुं करोतीति । न युक्तमिदम् । कस्मात् । उक्तं हि सूत्रे- अविद्यायोनिशोमनस्कारमिथ्यासङ्कल्पादिभ्यो रागादीनि संयोजननि प्रादुर्भवन्ति इति । न तु सूत्रमाह- अनुयादुत्पद्यत इति । यद्यपि भवतां शासन उक्तं- चिराभ्यस्तसंयोजनपर्यवस्थापको ऽनुशयो नाम इति । न युक्तमिदम् । कस्मात् । कायिकवचिकादि कर्मापि चिराभ्यस्तलक्षणम् । तदपि अनुशयाभासः चित्तविप्रयुक्तसंस्कारः स्यात् । न वस्तुतो युज्यते । युज्यत इति चेत् सर्वे ऽपि धर्माः प्रत्युत्पन्न हेतोरुपद्येरन् नातीतहेतोः । तथा च न कर्मजो विपाकः स्यात् । मनोविज्ञानञ्च मनसो जातं न स्यात् । अनुशयानामेषां क्षणिकत्वात् कथं पुनस्ते जनकहेतवः स्युः ।
(पृ) सहलक्षणो जनकहेतुः । (उ) तदपि न युक्तम् । हेतुफलयोरयौगपद्यात् । तच्च पश्चात् प्रदीपदृष्टान्ते वक्ष्यते । अतो न वक्तव्यमनुशयाश्चित्तविप्रयुक्ता इति ॥
सम्प्रयोगसम्प्रयोगवर्ग एकत्रिंशः ।
32 अतीतकर्मवर्गः
शास्त्रमाह- काश्यपीया वदन्ति अननुभूतविपाकं कर्म अतीते ऽध्वनि अस्ति । अन्यदतीते नास्ति इति । उच्यते । तत्कर्म यदि विनष्टं तदा [तत्] अतीतमतीतमेव । यदि अविनष्टम् । तदा नित्यं भवेत् । विनष्टमिति अतीतस्य नामान्तरम् । तदा विनष्टं सत् पुनर्विनश्येत् । तत्कर्म विपाकस्य हेतुकृत्यं कृत्वा निरुद्धम् । विपाकः पुनरूर्ध्वजन्मवर्ती । यथोक्तं सूत्रे- अस्मिन् सतीदमुत्पद्यत इति । यथा पयो निरोधे दघ्नो हेतुकृत्यं करोति । किमतीतकर्मविकल्पेन । युक्तमिति यदि मतम् । अन्यो हेतावस्ति दोषः । कथं विना कारणं विज्ञानमुत्पद्यते । यथा पयसो ऽभावे किं दधि भवति । चातुर्भौतिककायवा गादीनामभावे कर्म किमाश्रित्य भवेत् । इत्येवमादयः । यन्मया पूर्वमुक्तो ऽतीतस्य दोषः । स इदं प्रतिब्रूयात् ॥
अतीतकर्मवर्गो द्वाविंशः ।
33 रत्नद्वयविवादवर्गः
शास्त्रमाह- महीशासका वदन्ति तथागत सङ्घवर्ती इति । उच्यते । यदि मतं तथागतः चतसृषु परिषत्सु अन्तर्गतः यदुत सत्त्वपरिषत् प्राणिपरिषत् मनुष्यपरिषत् आर्यपरिषत् इति । तदा न दोषः । यदि मतं तथागतः श्रावकपरिषदि अन्तर्गत इति । तदास्ति दोषः । धर्मं श्रुत्वा संविल्लाभिनः श्रावका इत्युच्यन्ते । तथागतस्तु विभिन्नलक्षण इत्यतस्तत्र नान्तर्गतः ।
(पृ) सङ्घारामाग्रगस्य तथागतस्य दायकः पुरुषः सङ्घदायक इत्युच्यते । (उ) दानमिदं केषां सङ्घसम्बन्धि । सूत्रमिदं किञ्चिद्भ्रष्टम् । इदं वक्तव्यं स्यात् बुद्धसङ्घसम्बन्धीति ।
(पृ) भगवान् गौतमीमवोचत्- इमं चीवरं सङ्घे देहि । तदा अहमपि पूजितो भविष्यामि सङ्घो ऽपि च । इति । (उ) अहं पूजितो भविष्यामीति सङ्घपूजाभिप्रायेण भगवानवोचत् । यथोक्तं सूत्रे यो रोगप्रेक्षी स मां पश्यति । इति । (पृ) केचिदार्यगुणसमन्विताः शारिपुत्रादयः सङ्घान्तर्गताः, लक्षणसाम्यात् भगवानप्येवम् । (उ) यदि लक्षणसाम्यादिति । सर्वे पृथग्जनाः असत्वाख्याश्च सङ्घप्रविष्टाः स्युः । न युज्यतो वस्तुतः । अतो ज्ञायते न भगवान् सङ्गान्तर्गत इति । किञ्च भगवान् न सङ्घकर्मप्रविष्टः नापि अन्यसङ्घवस्तुसमः । रत्नत्रयविशेषात् न भगवान् सङ्घान्तर्गतः ॥
रत्नद्वयविवादवर्गस्त्रयस्त्रिंशः ।
34 नास्तिपुद्गलवर्गः
शास्त्रमाह- वात्सीपुत्रीया वदन्ति अस्ति पुद्गल इति । अन्ये वदन्ति नास्तीति । (पृ) किं तत्त्वम् । (उ) नास्ति पुद्गलधर्म इति तत्त्वम् । कस्मात् । यथा बहुषु सूत्रेषु तथागतो भिक्षूनाह- नाममात्रतः प्रज्ञप्तिमात्रत उपयोगमात्रतः पुद्गल इत्युच्यते । इति । नाममात्रत इत्यादिना ज्ञायते न परमार्थ इति । किञ्चोक्तं सूत्रे-
यो न पश्यति दुःखञ्च स आत्मानन्तु पश्यति । दुःखदर्शी यथाभूतं स आत्मानं न पश्यति ॥ इति ।
यदि वस्तु सन् आत्मा, दुःखदर्श्यपि आत्मानं पश्येत् । आर्याः पुनः संवृतिमात्रतो वदन्ति अस्त्यात्मेति । अपि च सूत्रे भगवानवोचत्- यत्रास्मीति तत्रेञ्जितम् इति । यद्वस्तु सत् न तत्रेञ्जितं भवति यथा चक्षुः, तस्य वस्तुसत्त्वात् न [तत्र] इञ्जितमस्ति । तत्र तत्र सूत्रे च आत्मवादः प्रतिषिद्धः । यथा आर्या भिक्षुणी मारमवोचत्-
किं नु सत्वेति प्रत्येषि मारदृष्टिगतं नु ते । शुद्धसंस्कारपुञ्जो ऽयं नेह सत्त्व उपलभ्यते ॥ इति ।
किञ्चाह-
संस्काराणां कलापो हि सन्तानेन प्रवर्तते । मायानिर्मितमेवेदं प्रकृतानाञ्च वञ्चनम् । हृद्गतेन सदृशं शल्येनेदं सपत्नकम् । नैवास्ति सारवद्वस्तु................ । इति
किञ्चाह-
नास्त्यात्मा न चात्मीयं न सत्त्वो नापि मानवः । पञ्चस्कन्धाः शून्यमात्रा उत्पादव्ययलक्षणाः । अस्ति कर्म विपाकश्च कारको नोपलभ्यते ॥
इत्येवमादिना भगवान् नानासूत्रेषु आत्मवादं प्रतिषिद्धवान् । अतो नास्त्यात्मा । सूत्रे च विज्ञानार्था विभक्ताः । कस्मात् विज्ञानमिति । यदुत रूपं विजानाति यावद्धर्मान् विजानातीति । न चोक्तं आत्मानं विजानातीति । अतो नास्त्यात्मा ।
चुन्दभिक्षुर्भगवन्तमपृच्छत्- को नु खलु विज्ञानाहारमाहारयति । भगवान् प्रत्यवदत् । न कल्यः प्रश्नः । विज्ञानाहारमाहारयतीति नाहं वदामि । इति । यद्यस्ति आत्मा । आत्मा विज्ञानाहारमाहारयतीति वदेत् । अतो ज्ञातव्यं नास्त्यात्मेति । बिम्बिसारप्रत्युद्गमनसूत्रे भगवान् भिक्षूनामन्त्र्याह- विभावयत यूयं भिक्षवः प्राकृतानां प्रज्ञप्तिमनुरुध्य वदामि अस्त्यात्मेति । परमार्थस्तु नास्ति पञ्चस्कन्धेषु आत्मात्मीयं वा । इति । किञ्चाह- पञ्चस्कन्धानुपादायास्ति नानाविधं नाम यदुत आत्मा सत्त्वो मानवो देव इति । एवंप्रमाणानि नामानि पञ्चस्कन्धानुपादाय सन्ति । यद्यात्मास्ति । आत्मानमुपादायेति वदेत् । स्थविरपूर्णकः कश्चित् तीर्थिकः आह- यदि पुरुषो मिथ्यादृष्टया असन्तमस्तीति वदति । भगवान् प्रहीणैतन्मिथ्याभिमानः अप्रहीणसत्त्व (sss_89) इत्यतो नास्त्यात्मा । यमकसूत्रे शारिपुत्रो यमकमवोचत्- किं यमक समनुपश्यसि रूपस्कन्धो ऽर्हन् इति । उत्तरमाह- नो हीदमायुष्मन् इति । किं समनुपश्यसि वेदना संज्ञा संस्कारा विज्ञानमर्हन् इति । नोहीद[मायुष्मन्] । किं समनुपश्यसि पञ्चस्कन्धकलापो ऽर्हन् इति । नोहीदमायुष्मन् । किं समनुपश्यसि पञ्चस्कन्धादन्यत्र अर्हन् इति । नोहीदमायुष्मन् शारिपुत्रो ऽवोचत् । यदेवं परिमृग्य [दृष्ट एव धर्मे सत्यतः स्थिरतः] नोपलभ्यते । तत्कल्यं नु ते व्याकरणं अर्हन् [कायस्य भेदादुच्छिद्यते विनश्यति] न भवति परं मरणादिति । अभूत्खलु मे [आयुष्मन्] शारिपुत्र पूर्वं पापकं दृष्टिगतम्, इदं पुनरायुष्मतः शारिपुत्रस्य धर्मदेशनां श्रुत्वा तच्च पापकं दृष्टिगतं प्रहीणम् । इति । यद्यस्ति आत्मा, पापकं दृष्टिगतं इति न वदेत् ।
चतुर्षूपादानेषु उक्तमात्मवादोपादानमिति । यद्यस्त्यात्मा आत्मोपादानमिति ब्रूयात् यथा कामोपादानमित्यादि । न ब्रूयादात्मवादोपादानमिति । उक्तञ्चश्रेणिकसूत्रे- त्रयाणां शास्तॄणां यो नोपलभते प्रत्युत्पन्नमात्मानमूर्ध्वभाविनं वात्मानं तमहं शास्तारं बुद्धं वदामि इति । भगवतानुपलब्धत्वात् नास्त्यात्मेति ज्ञायते । अनात्मनि आत्मेति संज्ञा विपर्ययः । यदि मतं सत्यात्मनि आत्मेति संज्ञा न विपर्यास इति । न युक्तमिदम् । कस्मात् । भगवानाह- यत्सत्त्वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति । इमानेव पञ्चस्कन्धान् [आत्मत आत्मीतयतश्च] समनुपश्यन्ति । इति । अतो नास्त्यात्मा । किञ्चाह- सत्त्वाः विविधान् पूर्वनिवासाननुस्मरन्तः पञ्चस्कन्धाननुस्मरन्ति । इति । यद्यस्त्यात्मा, तमप्यनुस्मरेयुः । अननुस्मरणान्नास्तीति ज्ञातव्यम् । यदि मन्यसे- किञ्चित्सूत्रमाह सत्त्वानुस्मरणमपि । यथा अमुकः सत्त्वः तत्राहममुकनामक इति । (sss_90) तदयुक्तम् । तद्धि लोकसत्यविकल्पादुक्तम् । परमार्थतस्तु पञ्चस्कन्धानेवानुस्मरति न सत्त्वम् । कुतः । मनोविज्ञानेन हि स्मरति । मनोविज्ञानञ्च धर्ममात्रालम्बनम् । तस्मान्नास्ति किञ्चित्स्मरणं सत्त्वानुस्मरणं नाम । अस्त्येकान्तत आत्मेति यो वदति स षण्णां मिथ्यादृष्टीनीमन्यतमस्यामनुपतति । यदि मन्यसे नास्त्यात्मेति वचनमपि मिथ्यादृष्टिरिति । तदयुक्तम् । कस्मात् । सत्यद्वयस्य सत्त्वात् । लोकसत्यतो नास्त्यात्मा । परमार्थतस्तु अस्त्यात्मेति ब्रूवतो हि दोषो भवति । अहन्तु वदामि परमार्थतो नास्त्यात्मा । लोकसत्यतस्तु अस्तीति । अतो ऽनवद्यम् ।
अपि चात्मदृष्टिमूलोद्धरणायाह भगवान् यथा मोघराज [माणव]पृच्छायां भगवान् मोघराजं प्रत्याह-
शून्यतो लोकमवेक्षस्व मोघराज सदा स्मृतः । आत्मानुदृष्टिमुद्धत्य [एवं मृत्युतरः स्याः । एवं लोकमवेक्षन्तं] मृत्युराजो न पश्यति ॥ इति
आत्मास्तिवादानां कारणानि प्रीतिदौर्मनस्यादीनि सर्वाणि पञ्चस्कन्धवर्तीनि । तीर्थिकानामात्मदृष्टिकारणखण्डनान्नास्त्यात्मा ॥
नास्ति पुद्गलवर्गश्चतुस्त्रिंशः ।
35 पुद्गलास्तिनास्तितावर्गः
(पृ) नास्त्यात्मेति भवतो वचनमयुक्तम् । कस्मात् चतुर्षु व्याकरणेषु चतुर्थ स्थपनीयं व्याकरणं यदुत भवति पुरुषः परं मरणात् न भवति [पुरुषः परं मरणात्] भवति च न भवति च [पुरुषः परं मरणात्], नैव भवति न न भवति [पुरुषः परं मरणात्] । यदि परमार्थतो नास्त्यात्मा, न स्यादिदं स्थपनीयं व्याकरणम् । ऊर्ध्वकायवेदकः (sss_91) सत्त्वो नास्तीति यत् केषाञ्चित् वचनम् । मिथ्यादृष्टिरियम् । द्वादशाङ्गप्रवचने चास्ति जातकम् । तत्र भगवानेवमाह- तस्मिन् समये अहमेव महासुदर्शनो राजा एवंकाय इत्यादि । पूर्वकेभ्य उत्पन्ना इदानीन्तनाः पञ्चस्कन्धाः न तु पुराणा एव । तस्मादस्त्यात्मा [यः] पूर्वकेभ्यो ऽद्य यावत् भवति । किञ्चाह भगवान्-
इह नन्दति प्रेत्य नन्दति कृतपुण्यो उभयन्न नन्दति । इति ।
यदि पञ्चस्कन्धमात्रमस्ति, उभयत्र नन्दिर्न स्यात् । उक्तञ्चसूत्रे- चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्ते । चित्तव्यवदानात् सत्त्वा विशुध्यन्ति । इति । एकत्यः पुद्गल उत्पद्यते लोके बहूनां विपत्त्यनुतापाय । एकत्यः पुद्गल उत्पद्यते लोके बहूनां लाभाय । यत् कुशलाकुशलकर्मणां समुदाचरणं सर्वं तत् सत्त्वोपगम् । तत्र तत्र च सूत्रे भगवान् स्वयमाह- अहं वदामि सत्त्वा ऊर्ध्वकायं वेदयन्ते इति । आत्महिते कुशलः न परहित इत्यादि । एवमादिकारणैर्ज्ञायते अस्त्यात्मेति ।
भवता यद्यपि पूर्वमुक्तं नाममात्रत इत्यादि । न युक्तमिदम् । कस्मात् । पञ्चस्कन्धव्यतिरिक्तो नित्यो ऽविनाशिलक्षणो ऽस्त्यात्मेति तीर्थिकाः परिकल्पयन्ति । तेषां मिथ्यादृष्टिव्यवच्छेदाय भगवानाह नास्त्यात्मेति । वयन्तु वदामः पञ्चस्कन्धसमवाय आत्मेति । अतो ऽनवद्यम् । यद्यप्याह आत्मा नाममात्रमिति । तद्वचनं प्रगाढं चिन्तनीयम् । यदि सत्त्वो नाममात्रमिति । यथा मृण्मयगोहनने नास्ति पापम् । तथा वास्तविकगोहनने ऽपि पापं न भवेत् । यथा बालकानां नाममात्रेण वस्तुदानं सविपाकं स्यात् । तथा महतां दानव्रतमपि विपाकं प्राप्नुयात् । वस्तुतस्तु न युज्यते । नाममात्रतो ऽसदपि अस्तीति वादिन आर्या मृषावादिनः स्युः । सत्यवादिनः खल्वार्याः । अतो ज्ञायते अस्त्यात्मेति । (sss_92) यद्यार्याः परमार्थतो नैरात्म्यदर्शिनः व्यवहारतो ऽस्त्यत्मेति वदन्ति । तदा विपर्ययदर्शिनः स्युः । [अन्यथा दृष्टस्य] अन्यथा वचनात् । यदि व्यवहारतो ऽसदपि अस्तीति वदतां पुनः सूत्रगतानि पारमार्थिकानि द्वादशनिदानानि त्रीणि विमोक्षमुखानि अनात्मानः सर्वधर्मा इत्यादि वचनं न स्यात् । अस्ति परलोक इति वादिनमनुसृत्य वदन्ति अस्तीति । नास्तीति वादिनमनुसृत्य वदन्ति नास्तीति । वदन्ति च लोके अयुतानि वस्तूनि ईश्वरादुत्पन्ननि । इति । ततादृशा विविधमिथ्यादृष्टिसूत्रमन्यास्तद्ववतानुसारिणः स्युः । ततु न सम्भवति । अतो भवतोदाहृतं सूत्रं सर्वं सामान्यतो दूषितमेव । अतो नास्ति नैरात्म्यम् ।
अत्रोच्यते । यद्भवता पूर्वमुक्तं स्थपनीयव्याकरणात् अस्त्यात्मेति ज्ञायत इति । तदयुक्तम् । कस्मात् । सो ऽवक्तव्यधर्म इति पश्चात् निरोधसत्यस्कन्धे विवेक्ष्यते । अतो नास्ति परमार्थत आत्मा अवक्तव्य इति । प्रज्ञप्तिमात्रमित्युच्यते न परमार्थसन् इति । भवतां शासने आत्मा षद्भिर्विज्ञानैर्विज्ञायते । यथाह भवतामागमः चक्षुषा दृश्यमानं रूपमुपादायेत्यतो विनाश्यात्मा । तदा त्वयं चक्षुर्विज्ञानविज्ञेयः । तदा न वक्तव्यं न रूपं नारूपमिति । एवं शब्दादयो ऽपीति ।
अथ यद्यात्मा षड्विज्ञानविज्ञेयः । तदा सूत्रैर्विरुच्यते । सूत्रे ह्युक्तम्- पञ्चेन्द्रियाणि नान्योप्यस्य विषयान् प्रत्यनुभवन्ति । इति । प्रत्यध्ववसायस्य वैषम्यात् । यद्यात्मा षड्विज्ञानविज्ञेयः स्यात् । तदा षडिन्द्रियाणि अन्योन्यवृत्तीनी स्युः । किञ्च भवदुक्तं पूर्वापरविरुद्धम् । यत् चक्षुर्विज्ञानविज्ञेयं न तत् रूपमिति ब्रवीषि । भवानाह- नास्त्यात्मा इतीयं मिथ्यादृष्टिरिति । सूत्रे भगवान् स्वयं भिक्षूनामन्त्र्याह- असत्यप्यात्मनि संस्काराणां (sss_93) सन्तानमुपादाय जननमरणमस्तीति वदामि । पश्यामि च दिव्येन चक्षुषा सत्त्वानुत्पद्यमानान् म्रियमाणांश्च । अथापि न वदामि अस्त्यात्मेति ।
किञ्च भवतां शासने ऽस्ति दोषः । भवतां शासने ह्युच्यते आत्मा न जायत इति । यो ऽजातः स मातापितृभ्यां विहीनः । मातापितृभ्यां विहीनस्य नास्त्यानन्तर्यम् । अन्यान्यपि पापकर्माणि न सन्ति इत्यतो भवतां शासनमेव मिथ्यादर्शनम् ।
भवानाह भवस्य पूर्वस्मादुत्पाद इति । पञ्चस्कन्धानुपादाय सुदर्शनो नाम राजा । त एव पञ्चस्कन्धाः सन्तत्या बुद्धो भवति । तस्मादाह- अहमेव स राजा इति । भवतां शासने आत्मन एकत्वात् विशेषो न स्यात् ।
भवानाह- कृतपुण्य उभयत्र नन्दतीति । सूत्रे भगवान् इदं वस्तु प्रतिषिध्याह- नाहं वदामि कश्चिदिमान् पञ्चस्कन्धान् परित्यज्य तान् स्कन्धानुपादत्त इति । किन्तु तत्पञ्चस्कन्धानां सन्तत्या भेदाभावादाह- उभयत्न नन्दतीति । यद्भवानाह- चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्त इति । ततो नास्त्यात्मा परमार्थत इति । यद्यस्त्यात्मा, चित्ताभिन्नः स्यात् । नोच्यते सत्त्वसंक्लेशात् सत्त्वाः संक्लिश्यन्त इति । कस्मात् । न हि सम्भवति तस्य संक्लेशसमयं [सत्त्व] उपादत्त इति । किन्तु प्रज्ञप्त्या हेतुप्रत्ययानां संक्लिष्टत्वात् आह- सत्त्वाः संक्लिश्यन्त इति । अतः प्रज्ञप्त्यास्त्यात्मा । न परमार्थतः । भवतां शासने चोच्यते न पञ्चस्कन्धा एवात्मेति । तदा सो ऽजातो ऽनिरुद्धो ऽपुण्यपाप इत्येवमादयो दोषा भवन्ति । वयन्तु वदामः पञ्चस्कन्धानां कलापः प्रज्ञप्त्या आत्मेति । इममात्मानमुपादाय अस्ति जन्म अस्ति निरोधः पुण्यपापमित्यादि । न च प्रज्ञप्तिसन्नास्तीति । वस्तुमात्रं न भवति । भवता पूर्वमुक्तं- तीर्थिकानामाशयखण्डनाय भगवानाह- नास्त्यात्मेति । अभूतसंज्ञया भवानेवं कल्पयति न तथा भगवदाशयः । विविधा आत्मवादाः सर्वे दुष्टाः यथा भवान् ब्रवीति- पञ्चस्कन्धान् विहाय अन्यो ऽस्त्यात्मेति तीर्थिका मन्यन्त इति । तथा भवानपि [मन्यते] । (sss_94) कस्मात् । अनित्या हि पञ्चस्कन्धाः । आत्मात्ववक्तव्यो यदि नित्यो ऽनित्यो वेति । [सो] ऽयं स्कन्धविनिर्मुक्त एव ।
अथ स्कन्धस्य सन्ति त्रयो भेदाः- शीलसमाधिप्रज्ञाः, कुशलाकुशलाव्याकृताः, कामधातुप्रतिसंयुक्तरूपधातुप्रतिसंयुक्तारूप्यधातुप्रतिसंयुक्ताः इत्येवं विभागाः । आत्मानस्तु तथा विभक्ता न भवन्ति । अतः पञ्चस्कन्धेभ्यो ऽन्यः । आत्मा च पुद्गलः । पञ्चस्कन्धा न पुद्गलः । तदा त्वयमन्यो भवति । स्कन्धाः पञ्च । आत्मात्वेकः । इत्यतो नात्मा स्कन्धाः । अस्ति चेदात्मा । स एभिः कारणैः पञ्चस्कन्धेभ्यो ऽन्यः स्यात् । लोके च नास्ति को ऽपि धर्म एक इत्यवक्तव्यः । अतो नास्ति कश्चिदवक्तव्यो धर्मः ।
(पृ) यथा अग्निरिन्धनञ्च न वक्तुं शक्यत एवं वा नाना वेति । तथात्मापि स्यात् । (उ) इदं सन्दिग्धसमम् । किमग्निः किमिन्धनमिति । यदि तेजोधातुरग्निः अन्ये धातव इन्धनम् । तदा अग्निरिन्धनात्पृथक् स्यात् । यदि तेजोधातुरेवेन्धनम् । कथमुच्यते नैकमिति । यदिन्धनं स एव तेजोधातुः । तेजोधातुं विनापि [दहेत्] इत्युभयमयुक्तम् । अतः सन्दिग्धसमम् । यस्याग्निरिन्धनवान् यथा आत्मा रूपवान् इति । तस्य सत्कायदृष्टिपातः । आत्मबहुत्वञ्च स्यात् । यथा काष्ठाग्निरन्यः गोमयाग्निश्चान्यः । एवात्मापि । मनुष्यस्कन्धेष्वन्य आत्मा । देवस्कन्धेष्वन्य आत्मा इतीदमात्मबहुत्वम् । यथाग्निरिन्धनञ्च त्रिषु अध्वसु वर्तते । एवमात्मापि पञ्चस्कन्धैः सह त्रिषु अध्वसु वर्तमानं स्यात् । यथा चाग्निरिन्धनंञ्च संस्कृतम्, आत्मापि पञ्चस्कन्धैः सह संस्कृतं स्यात् । यद्यपि भवानाह- अग्निरिन्धनेन नैको न नाना इति । तथापि चक्षुषा पश्यामः खलु नानालक्षणे । आत्मापि पञ्चस्कन्धाश्चान्ये स्युः । किञ्च पञ्चस्कन्धा नश्यन्ति । आत्मा तु न नश्यति । अस्मात् लोकात् च्युतः परलोक उत्पद्यते । उभयत्र नन्दियुक्तत्वात् । यः पञ्चस्कन्धाननुसृत्य सविनाशः सोत्पादश्च । स पञ्चस्कन्धसमो नोभयत्र नन्दिको भवति । भवांस्तु अभूतसंज्ञया इममात्मानं विकल्प्य केषां हितं प्रापयति ।
विषयेषु न को ऽप्यस्ति षड्विज्ञानविज्ञेयः । षड्विज्ञानविज्ञेय इति भवतोक्त आत्मा न षड्विषयरूपो भवति । यो द्वादशायतनेष्वसङ्गृहीतः । न स आयतनेषु भवति । चतुर्षु सत्येषु असङ्ग्रप्रहीतश्च न सत्येषु भवति । तस्मादस्त्यात्मेति यद्वचनं स मृषावादः ।
भवतां शासन उच्यते ज्ञेयधर्मा यदुत पञ्चधर्मकोशाः- अतीता अनागताः प्रत्युत्पन्ना असंस्कृता अवक्तव्या इति । आत्मा पञ्चमधर्मान्तर्गतः । तदा चतुर्भ्यो धर्मेभ्यो ऽन्यः । स चतुर्भ्यो धर्मेभ्यो ऽन्य इतीच्छन्ति खलु भवन्तः । अयं पञ्चमस्तु न सम्भवति । आत्मास्तित्ववादस्येदृशा दोषा भवन्ति । किमात्मेति मिथ्यासंज्ञाविकल्पेन । अतो भवता पूर्वमुक्तम्- तीर्थिकाः पञ्चस्कन्धान् विहाय पृथगात्मास्तीति मन्यन्ते । वयन्तु न तथा इति । तदयुक्तम् । यद्भवानाह- आत्मा प्रज्ञप्तिमात्रमितीदं गाढतरं चिन्तनीयम् इति । तदप्ययुक्तम् । कस्मात् । जिनशासने ह्युच्यते लोकसत्यवस्तु न प्रगाढं चिन्तनीयम् इति । यत् भवतोक्तं मृषावादिनो विपर्ययदर्शिनः स्युरिति । इदमपि तथैव । यदवादीः "सूत्रगतानि पारमार्थिकानि" [इत्यादि] वचनं न स्यादिति । तत्तथा प्रतिवक्तव्यं यथा परमार्थो ज्ञायेत । यदवोचद्भवान् लोकोक्तानि सर्वाणि अनुसर्तव्यानि यद्वदन्ति ईश्वरादुत्पन्नानि न युतानि वस्तूनि इत्यादि । न तदुपादेयम् । यद्धितकरं परमार्थाविलोमकं तदुपादेयमित्यतो ऽनवद्यम् । यल्लोकसत्यतो गुणोत्पादकं हितकरञ्च । ईदृशं सर्वमुपादेयम् इति पश्चाद्वक्ष्यते । यदवादीः- मृण्मयगवादिहनने नास्ति पापमिति । तदिदानीं प्रतिवक्तव्यम् । सविज्ञानानां स्कन्धानां सन्तत्या समुदाचारे सति अस्ति कर्म अस्ति विपाकः । मृण्मयगवादिषु तु नेदमस्ति । तस्मात् पञ्चस्कन्धानां कलापः प्रज्ञप्त्या आत्मा इत्याख्यायते । न वस्तुसत्तया इति ज्ञातव्यम् ॥
आत्मास्तित्वनास्तित्ववर्गः पञ्चत्रिंशः ।
सत्यसिद्धिशास्त्रे प्रथमः प्रस्थानस्कन्धः समाप्तः ।
अथ दुःखसत्यस्कन्धः ।
36 दुःखसत्यस्कन्धे रूपाधिकारे रूपलक्षणवर्गः
(पृ) पूर्वमवादीः सत्यसिद्धिशास्त्रं प्रवक्ष्यामीति । इदानीं वक्तव्यं किं तत् सत्यमिति । (उ) सत्यं नाम चत्वारि [आर्य]सत्यानि यदुत दुःखं दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी पतिपत् । पञ्चोपादानस्कन्धा दुःखम् । कर्मक्लेशाश्च दुःखसमुदयः । दुःखक्षयो दुःखनिरोधः । अष्टाङ्गिकमार्गो दुःखनिरोधगामिनी प्रतिपत् । इतीमं धर्मं साधयितुमिदं शास्त्रं निबध्यते । तथागतः स्वयमिमं धर्मं साधयन्नपि सत्त्वानां तारणाय तत्र तत्र विप्रकीर्णं देशितवान् । चतुरशीतिसहस्रात्मकं धर्मपिटकं स संक्षिप्योवाच । तत्र चत्वारि प्रतिशरणानि अष्टौ हेतव [इत्यादि] । तेषामर्थं केचिदुपेक्ष्य नावोचन् । केचित् संक्षिप्यावोचन् । अथेदानीं तेषामर्थविनिश्चयाय अनुसंकलय्य विवक्षामि ।
(पृ) यद्भवानाह- पञ्चोपादानस्कन्धा दुःखसत्यमिति । के ते पञ्च । (उ) रूपस्कन्धः, विज्ञानस्कन्धः, संज्ञावेदनासंस्कारस्कन्धाः । रूपस्कन्धो यदुत चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय धर्माश्च । चत्वारि महाभूतानि तान्युपादाय धर्माश्चाभिसंक्षिप्य रूपमित्युच्यते । चत्वारि महाभूतानि पृथिव्यप्तेजोवायवः । रूपरसगन्धस्पर्शानुपादाय सिध्यन्ति चत्वारि महाभूतानि । तान्युपादाय सिध्यन्ति चक्षुरादीनि पञ्चेन्द्रियाणि । तेषां मिथः संस्पर्शाच्छब्दः ।
पृथिवीति । रूपादिसमवायः काठिन्यबहुलः पृथिवीत्युच्यते । तथा स्नेहबहुलः अब्धातुः । ऊष्मबहुलस्तेजोधातुः । लध्वीरणबहुलो वायुधातुः । चक्षुरिन्द्रियमिति रूपाणि प्रतीत्य [उत्पन्नस्य] चक्षुर्विज्ञानस्याश्रय एव । [यस्तु] तत्सभागः अनाश्रयः [तदपि] चक्षुरिन्द्रियं [तत्साजात्यात्] । तथान्यानीन्द्रियाण्यपि । रूपमिति । चक्षुर्विज्ञानस्यालम्बनमेव । तत्सभागो ऽनालम्बनं तु [तत्साजात्यात्] रूपम् । रसगन्धस्पर्शा अप्येवम् । एषां मिथः संस्पर्शाच्छब्दो भवति ॥
रूपलक्षणवर्गः षट्त्रिंशः ।
37 रूपनामवर्गः
(पृ) उक्तं खलु सूत्रे- यत्किञ्चन रूपं सर्वं तत् चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय [रूपम्] इति । कस्मादुक्तं यत्किञ्चन रूपं तत्सर्वमिति । (उ) यत्किञ्चित् तत्सर्वमिति वदन् रूपलक्षणं निर्धारयति नान्यदस्तीति । तीर्थिका हि वदन्ति पञ्च महाभूतानीति । तत्प्रत्याख्यानायाह चत्वारि [एव] महाभूतानि चत्वारि महाभूतान्युपादाय [रूपम्] इति । चत्वारि महाभूतानि प्रज्ञप्तितः सन्ति । व्यापित्वात् महदित्युच्यते । अरूपधर्मो ऽमूर्तः । अमूर्तत्वात् अप्रदेशः । अप्रदेशत्वात् न महान् । औदारिकत्वाच्च महदित्युच्यते । चित्तचैत्तानाञ्चादृष्टत्वात् न महत्त्वम् ।
(पृ) कस्मात् पृथिव्यादय एव रूपं न शब्दः । (उ) सप्रतिघा धर्मा रूपमित्युच्यन्ते । शब्दादयो ऽपि सप्रतिघत्वात् रूपम् । न चित्तधर्मादिवत् साकारत्वात् रूपम् । शब्दादयो ऽपि साकारत्वात् रूपमित्युच्येरन् । यत्किञ्चन् प्रदेशावरणं हि आकारः । (पृ) रूपादय अपरिक्षीयमाणाकाराः । शब्दादिनान्तु नास्ति [तादृश] आकारः । (उ) शब्दादयः सर्वे साकाराः । साकारत्वेन सप्रतिघाः सावरणाः । अतो भित्त्यावरणे न श्रूयते ।
(पृ) शब्दादयो यदि सप्रतिघाः । तदा नान्यवस्तून्यादद्युः । यथा भित्त्यावरणे न कस्यचिदवकाशो लभ्यते । (उ) शब्दस्यातिसूक्ष्मत्वात् उपादेयास्तिता शक्यते । यथा गन्धरसादयः सौक्ष्म्यात् एकमाकारं युगपदाश्रयन्ते न मिथः प्रतिघ्नन्ति । अतः शब्दादयः सावरणाः सप्रतिघा इत्यतो रूपमित्युच्यन्ते । रूप्यत इति रूपलक्षणम् । यत् छिद्यते भिद्यते विहिंस्यत इत्यादि तत् सर्वं रूपाश्रितम् । एतद्विपरीतमरूपमिति निर्धारितम् ।
पूर्वनिवासस्थकुशलाकुशलकर्माणि निरूपयतीति रूपम् । चित्तचैत्तान् निरूपयतीति च रूपम् । वर्णात्मकञ्च रूपम् ।
रूपनामवर्गः सप्तत्रिंशः ।
38 चतुर्महाभूतप्रज्ञप्तिवर्गः
(पृ) चत्वारि महाभूतानि प्रज्ञप्तिसन्तीत्ययमर्थो ऽसिद्धः । केचिद्धि वदन्ति तानि द्रव्यसन्तीति । (उ) चत्वारि महाभूतानि प्रज्ञप्तितः सन्ति । कस्मात् । भगवान् तीर्थिकेभ्यो ऽवोचत्- चत्वारि महाभूतानि इति । तीर्थिकाः केचिद्वदन्ति रूपादिरेव महाभूतं भवतीति यथा सांख्यादीनाम् । केचिद्वदन्ति रूपादि विहायास्ति महाभूतम् इति यथा वैशेषिकादीनाम् । अत इदं सूत्रमवधारयति रूपाद्युपादाय पृथिव्यादि महाभूतं सिध्यतीति । अतो ज्ञायते महाभूतानि प्रज्ञप्तिसन्तीति ।
किञ्चाह सूत्रम्- खक्खटः खरगतः पृथिवीधातुः इति । अतो न खरमात्रं पृथिवी । लौकिकाश्च सर्वे श्रद्दधन्ते महाभूतानि प्रज्ञप्तिसन्तीति । कस्मात् । ते हि वदन्ति पृथिवीं पश्यामि पृथिवीं जिघ्रेमि (धर्मि) पृथिवीं रसयामि पृथिवीं स्पृशामि इति । सूत्रे चोक्तं यथा स्पर्शवती पृथिवी द्रष्टव्या । पृथिव्यादिसर्वायत नगतो ऽयं पुरुषः पश्यति रूपं न कठिन्यादि । किञ्च पुरुषो निरूपयति [इदं] पृथिवीरूपम्, पृथिवीगन्धः, पृथिवीरसः पृथिवीस्पर्श इति । न द्रव्यसतः पृथङ् निरूपणमुपलभ्यते । व्यापित्वात् महदित्यर्थः । इदं (sss_100) लक्षणं प्रज्ञप्तिसत उच्यते । न कठिन्यमात्रलक्षणस्य । किञ्चाह- पृथिवी अब्मण्डले प्रतिष्ठिता इति । प्रज्ञप्तिसती पृथिवी प्रतितिष्ठति । न काठिन्यमात्रम । किञ्चाह- अहमिमां महापृथिवीं दग्ध्वा विधूमं भस्मसात्करिष्यामीति । अत्र प्रज्ञप्तिसतीं पृथिवीं दहति न काठिन्यमात्रं दहति । रूपादिभ्यः श्रद्दधन्ते अस्ति पृथिवी इत्यादि । न काठिन्यमात्रात् ।
कूपोपमे चोक्तम्- आपो दृश्यन्ते च स्पृश्यन्ते चेति । यदि स्नेह एवापः । तदा न द्विधा वर्तेरन् । कस्मात् । भगवानाह- पञ्चेमानीन्द्रियाणि [नानाविषयाणि] नान्योन्यस्य विषयं प्रत्यनुभवन्ति । इति । किञ्चाह भगवान्- अष्टगुणा आपःसुसंस्थितं शीतलं मृदु मधुरं शुचि अदुर्गन्धं पातुः प्रह्लादनं परिदाहनिवारणमिति । तत्र यत् सुसंस्थितं शीतलं सुकुमारं तत् सर्वं स्पर्शान्तर्गतम् । मधुरं रसान्तर्गतम् । शुचि रूपान्तर्गतम् । अदुर्गन्धं गन्धान्तर्गतम् । प्रह्लादनं परिदाहनिवारणञ्च तत्प्रभावः । एषामष्टानां कलापः सामान्यमाप इत्युच्यते । अतो ज्ञायते महाभूतानि प्रज्ञप्तिसन्तीति । उपादाय धर्माः सर्वे प्रज्ञप्तिसन्तः न द्रव्यसन्तः । यथोक्तं गाथायाम्-
यथा ह्यङ्गसम्भाराद्भवति शब्दो रथेति च । एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः ॥ इति ।
आह चानन्दः- प्रत्ययमया धर्माः । आत्मा चाविनिश्चयस्थानं भवति इति । ये वदन्ति कर्कशादीनि महाभूतानीति । ते कर्कशादीनि रूपादीनामाश्रया इति मन्यन्ते । (sss_101) तत्तु साश्रययं साधिष्ठानकमिति न तथागतशासनं भवेत् । अतो ज्ञायते चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति । धर्माणां सौक्ष्म्यसोकुमार्यश्लक्ष्णत्वादीनि सर्वाणि स्पर्शायतनसंगृहीतानि । खक्खटादयश्चत्वारो धर्माः किमर्था भवन्तिइति केवलं महाभूतार्था भवति इति प्राप्यते । एकादिचतुर्ग्रहाः सावद्याः । अतो ज्ञायते चत्वारि महाभूतानि प्रज्ञप्तिमात्राणि इति । वस्तुधर्मः सलक्षणः प्रज्ञप्तिधर्मश्च सलक्षणः । प्रज्ञप्तेश्च को ऽतिशय इति पश्चाद्वक्ष्यते । अतश्चत्वारि महाभूतानि न द्रव्यसन्ति ॥
चतुर्महाभूतप्रज्ञप्तिवर्गो ऽष्टत्रिंशः
39 चतुर्महाभूतद्रव्यसत्तावर्गः
(पृ) चत्वारि महाभूतानि द्रव्यसन्ति । कस्मात् । अभिधर्म उक्तम् । खक्खटलक्षणः पृथिवीधातुः स्नेहलक्षणो ऽब्धातुः ऊष्मलक्षणस्तेजोधातुः ईरणलक्षणो वायुधातुरिति । अतश्चत्वारि महाभूतानि द्रव्यसन्ति । रूपादि भौतिकं रूपं चतुर्भ्यो महाभूतेभ्यः समुत्पद्यते । न प्रज्ञप्तिसन् धर्मं जनयति । खक्खटादिना च चत्वारि महाभूतानि निरुच्यन्ते यत् खक्खटं खरगतं सा पृथिवीति । तस्मात् खक्खटादीनि द्रव्यमहाभूतानि । किञ्च सूत्रे द्वाभ्यामाकाराभ्यामुच्यते खक्खटं खरगतं, स्नेहः स्नेहगतम् इत्यादि । अतो ज्ञायते खक्खटं वस्तुधर्मः खरगतं प्रज्ञप्तिधर्म इति । एवमन्यान्यपि महाभूतानि । तस्मात् खक्खटादीनि द्रव्यमहाभूतानि । खरगतधर्मस्तु व्यवहारतो महाभूतम् । अतो ऽस्ति द्विधा (sss_102) महाभूतं द्रव्यरूपं प्रज्ञप्तिरूपमिति । किञ्चोक्तमभिधर्मे- संस्थानायतनं पृथिवी, खक्खटलक्षणः पृथिवीधातुरिति । तथान्यान्यपि महाभूतानि ।
सूत्रे चाह भगवान्- यच्चक्षुषि [मांस]पिण्डे खक्खटं खरगतं इयं पृथिवी । यत् स्नेहः स्नेहगतं इमा आपः । यत् ऊष्म ऊष्मगतं इदं तेजः । मांसपिण्डं पृथिवी इति । अस्मिन् मांसपिण्डे भगवानाह सन्ति चत्वारि महाभूतानि इति । खक्खटादीनि द्रव्यमहाभूतानि । तत्संस्थानानि प्रज्ञप्तिमहाभूतानीति ज्ञातव्यम् । किञ्च भगवान्नावोचत् वायोराश्रयो ऽस्तीति । अतो ज्ञायते वायुर्द्रव्यमहाभूतमिति ।
यदि कश्चित् ब्रूयात् चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति । तदा महाभूतलक्षणानि विनिर्भक्तानि स्युः । यदि खरगतं पृथिवीति आपः खरगता इति ता अपि पृथिवी स्युः । मृत्पिण्डः स्नेहगत इति सो ऽपि आपः स्यात् । यथा ज्वरपीडितस्य काय उत्कम्प्यते । तप्तः काय एव तेजः स्यात् । तन्न युज्यते । अतो न वक्तुं शक्यते खरगतं पृथिवी, खक्खटमात्रं पृथिवीधातुरिति । तथान्यानि महाभूतान्यपि ।
सहजातत्वात् चत्वारि महाभूतानि अविनिर्भक्तानि । यथोक्तं सूत्रे यत्किञ्चिद्रूपं सर्वं तत् चतुर्महाभूतकृतमिति । चत्वारि महाभूतानि द्रव्यसन्तीति वक्तुस्तान्यविनिर्भक्तानि भवन्ति । चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति वक्तुस्तानि विनिर्भक्तानि स्युः । कस्मात् । खररूपाद्याश्रयाः स्नेहाद्याश्रयेभ्यो विनिर्भक्ताः । तथा च सति चक्षुर्मासपिण्डे चत्वारि महाभूतानि न स्युः । तथा च सूत्रविरोधः । सूत्रस्याविरोधं कामयानस्य भवतः चत्वारि महाभूतानि द्रव्याणि भवन्ति ।
यद्भवता पूर्वमुक्तम्- तीर्थिकेभ्यश्चत्वारि महाभूतान्यवोचदिति । तदयुक्तम् । कस्मात् । सर्वे हि तीर्थिका वदन्ति चत्वारि महाभूतानि रूपादिभिरेकानि यदि वानकानीति । (sss_103) वयन्तु वदामः स्प्रष्टव्यायतनैकदेश श्चत्वारि महाभूतानीति । अतो ऽनवद्यम् । किञ्च वयं वदामः प्रत्यक्षदृष्टानि खक्खटादीनि चतुर्महाभूतानि न तु वैशेषिकाणामिव तान्यप्रत्यक्षदृष्टान्यपि ।
यदुक्तं भवता खक्खटं खरगतमिति । तत्र अस्ति द्विधाश्रयार्थः । यथोक्तं सूत्रे- रूपं रूपाधिकरणम् इति । आह च चित्तं महतां धर्माणामाश्रय इति । अस्मिन्नर्थ उक्तम् खक्खटमेव स्वरगतं न पुनर्धमान्तरमिति । तथा च को दोषः ।
लौकिकाः सर्वे श्रद्दधन्ते यावदष्टगुणा आप इति यद्भवतो वचनं तत् व्यवहारानुवर्तनमात्रतो वदन्ति न द्रव्यमहाभूता [नुवर्तन]तः । किञ्चोक्तं भवता- उपादायधर्माः सर्वे प्रज्ञप्त्यात्मका इति । नेदं युज्यते । कस्मात् । उक्तं हि सूत्रे- यदि वा षट् स्पर्शायतनानि यदि वा षट् स्पर्शायतनान्युपादाय धर्मा इति । कश्चिद्भिक्षुर्भगवन्तं पृच्छति- क तत् चक्षुरिति । भगवान् प्रत्याह- चक्षु[र्भिक्षो] चत्वारि महामूतान्युपादाय रूपप्रसाद इति । एवं दशायतनान्यपि । यत्तु साश्रयं साधिष्ठानकं इति । न तथा वदामः । धर्मे धर्मो वर्तत इति मात्रं वदामः ।
यद्भवानाह- खक्खटादयः किमर्था भवन्तीति केवलं महाभूतार्था इति भवन्ति इति प्राप्यते इति । खक्खटादयः सार्थका यदुत खक्खट लक्षणं सन्धत्त इति । अब्लक्षणं स्नेहयतीति । तेजोलक्षणं परिपाचयतीति । वायुलक्षणम् अभिनिर्वर्तयतीति । अतश्चत्वारि महाभूतानि द्रव्याणि सन्ति ॥
चतुर्महाभूतद्रव्यसत्तावर्ग एकोनचत्वारिंशः
40 तदप्रामाणवर्गः
अत्र प्रतिब्रूमः । तदयुक्तम् । चत्वारि महाभूतानि प्रज्ञप्तिमात्राणि । यद्यप्युक्तं भवता अभिधर्म उक्तं- खक्खटलक्षणः पृथिवीधातुः । इत्यादि । न तद्युज्यते । कस्मात् । (sss_104) भगवान् हि स्वयमाह- खक्खटः खरगतश्च पृथिवी इति । न खक्खटमात्र[माह] । अतो नायं सम्यग् हेतुः ।
रूपादिकं चतुर्भ्यो महाभूतेभ्यः समुत्पद्यत इति भवदुक्तं न युज्यते । कस्मात् । रूपादिः कर्मक्लेशान्नपानमैथुनरागादिभ्यः समुत्पद्यते । यथोक्तं सूत्रे- चक्षुः किमुपादाय भवति । कर्मोपादाय भवति । इति । किञ्चाह- सुखासङ्गसमुदयाद्रूपसमुदय इति । यथा चानन्दो भिक्षुणीशिक्षणाय भगिनीमाह- अयं कायः आहारसम्भूतः तृष्णासम्भूतो मानसम्भूतो मैथुनसम्भूत इति । अतो ज्ञायते रूपादि र्न चतुर्महाभूतसम्भूत् इति । (पृ) यद्यपि रूपादि कर्मसम्भूतम् । तथापि चत्वारि महाभूतानि च अंशेन हेतवः स्युः । यथा कर्मवशात् व्रीहिर्भवति । स ब्रीहिर्बीजाद्यपेक्ष्य च प्रादुर्भवति । तथा चक्षुरादीनां कर्मसम्भूतत्वे ऽपि चत्वारि महाभूतानि अंशतो हेतवो भवन्ति । (उ) कदाचित् किञ्चिद्वस्तु विनापि हेतुप्रत्ययान् उत्पद्यते । यथा कल्पावसाने कल्पादौ च महती वृष्टिः । ता आपः कस्मात्सम्भवन्ति । देवानामभीप्सितमनुस्मरणमात्राल्लभ्येत । यथा ध्याननिषण्णस्य भदन्तस्य चाभीप्सितं छन्दमनुवर्तते । अस्य के प्रत्ययाः । न[नु] कर्ममात्रम् । यथा च रूपसन्तानः व्युच्छिद्य पुनः प्रतिसन्धीयते । यो ऽरूपधातावुपपद्य पुना रूपधातावुपपद्यते । रूपस्यास्य किं मूलम् ।
(पृ) कस्मात् किञ्चित् कर्ममात्रादुत्पद्यते किञ्चित्तु बाह्यप्रत्ययमपेक्ष्योत्पद्यते । (उ) यः सत्त्वो ऽवरकर्मबलो भवति । स बीजसामग्रीसाहाय्यतः साधयति । उत्कटकर्मबलस्तु न बाह्यप्रत्ययमपेक्षते तथा धर्मा अपि स्युः । केचित् सकर्मकाः । केचित् सधर्मकाः । केषाञ्चिदुपपत्त्यायतनं कर्मबलमात्राल्लभ्यते । न बाह्यप्रत्ययमपेक्ष्य । हेतुप्रत्ययापेक्षी वदेत् बीजमङ्कुरादीनां हेतुरिति ।
कस्मादुच्यते खक्खटादिमुपादाय [रूपादि]रुत्पद्यते । केनार्थेन खक्खटादितो रूपादिरुत्पद्यते न रूपादितः खक्खटादिः । तयोश्च सहजातत्वात् कथमुच्यते खक्खटादिमुपादाय (sss_105) रूपादिर्भवति । न रूपादिमुपादाय खक्खटादिरिति । नह्येककालीनर्योर्धर्मयोरन्योन्यहेतुत्वं भवति । यथा शृङ्गद्वयं युगपज्जायमानम् । न वक्तुं शक्यं वामदक्षिणे हेतू इति ।
(पृ) यथा प्रदीपप्रकाशयोरेककालिकयोरपि प्रदीपमुपादाय प्रकाश इत्युच्यते । न प्रकाशमुपादाय प्रदीप इति । तथेदमपि । (उ) प्रदीपो न प्रकाशादन्यः । प्रदीपो हि रूपं प्रकाश इति धर्मद्वयसमवायात्मकः । रूपमेव प्रकाश इति न प्रदीपः पृथग्भवति । एवमस्य दृष्टान्तस्य तथ्यं न चिन्तितवानसि । (पृ) प्रकाशः प्रदिपादन्यत्र गच्छतीति अन्यः स्यात् । (उ) नान्यत्र गच्छति । इदं प्रकाशरूपं प्रदीप एव प्रत्यक्षमुपलभ्यते । यद्यन्यत्र गच्छति । प्रदीपं विहायाप्युपलभ्येत । न तूपलभ्यते वस्तुतः । तद्रूपं न प्रदीपादन्यदिति ज्ञातव्यम् ।
(पृ) युगपज्जायमानयोरपि धर्मयोर्हेतुफलभावो ऽस्ति । यथा सप्रतिधे विज्ञानस्य चक्षूरूपं हेतुप्रत्ययो भवति । न तु चक्षूरूपस्य विज्ञानम् । (उ) न युज्यते । चक्षुर्विज्ञानस्य पूर्वचित्तं हेतुः चक्षूरूपं प्रत्ययः । पूर्वनिरुद्धं चित्तं हेतुः इति कथं युगपज्जायमानं भवति । यो धर्मो यं हेतुमनुवर्त्योत्पद्यते स तस्य हेतुः । यच्चित्तं यदिन्द्रियाण्युपादाय भवति स तदुपादाय धर्मः ।
अथ चत्वारि महाभूतान्येव [न] रूपकराणि । [सरूप]हेतुसम्भूतत्वात् । प्रत्यक्षमुपलभामः खलु लोके वस्तूनि सरूपहेतोर्जायमानानि । यथा सालेश्शालिर्भवति, यवाद्यवः । एवं पृथिवीतः पृथिवी भवति नाबादयः । एवं रूपाद्रूपं भवति इत्येवमादि ।
(पृ) दृश्यते स किञ्चिद्वस्तु असरूपहेतोर्जायत इति । यथा व्याकीर्णगोपुरीषकूटे कृमिर्जायते । शृङ्गकूटे तृणं प्ररोहति । (उ) न वयं वदामः असरूपहेतोर्न जायत इति । किन्तु सरूपहेतौ च सति जायत इति वदामः । तस्मादुच्यते रूपादिभ्यो (sss_106) रूपादयो जायन्ते न चतुर्महाभूतेभ्य एव जायन्त इति । अतो नाबधारणं भवति रूपादयश्चतुर्महाभूतेभ्य एव जायन्त इति ।
खक्खटादिना चत्वारि महाभूतानि निरूप्यन्त इति यदवोचद्भवान् । तदयुक्तम् । कस्मात् । नियतैः खक्खाटादिलक्षणैः चत्वारः सङ्घाता विभक्तव्याः । सौकुमार्यादेस्तु अनियतः कदाचित् खक्खटबहुले सङ्घाते वर्तते । कदाचित्स्नेहबहुले सङ्घाते वर्तते । अतो नानेन [सौकुमार्यादिना] सङ्घाता विभक्तव्याः । तथान्यैरपि । खक्खटादीनां स्पर्शविशेषाः सौकुमार्यादय उच्यन्ते । किमिति । यदि स्नेहेन उत्पत्तिस्वभावेनापि सुकुमारसूक्ष्मश्लक्ष्णानि भवन्ति । खक्खटलक्षणबहुलत्वात् खक्खटं खरमौदारिकं कर्कशमित्येवमादि भवति । अतः खक्खटादिमात्रेण चत्वारः सङ्घाता विभज्यन्ते । यथोक्तं सूत्रे- खक्खटा[दि]गतानीति चतुर्णां महाभूतानां विभागा निर्दिश्यन्त इति । अतो ज्ञायते खक्खटगतधर्मः पृथिवीधातुः न तु खक्खटमात्रलक्षण इति । तस्मात् खक्खटलक्षणं पृथिवीप्रसाधनहेतुरित्युच्यते । पृथिवीप्रसाधने च खक्खटत्वं प्रधानहेतुः । अतः पृथक्कृत्योच्यते । तथान्यानि लक्षणान्यपि [वक्तव्यानि] । संज्ञाक्रियायै यत् किञ्चन् खक्खटं खरगतं सर्वं तत् पृथिविधातुः । केचिद्वदन्ति केवलं खक्खटलक्षणं पृथिवीधातुरिति । तत्प्रत्याख्यानाय भगवानाह- खक्खटं खरगतं पृथिवीधातुरिति । अन्यदप्येवम् । खक्खटलक्षणसङ्घाते खक्खटस्य बाहुल्यात् द्विधास्ति व्यवहारः । सर्वेषु सङ्घातेषु खक्खटादिस्पर्शाः सन्ति । यत् खक्खटं खरगतं स पृथिवीधातुः । यत् स्निग्धं स्निग्धगतं स आपोधातुः । यत् उष्णं उष्णगतं स तेजोधातुः । (sss_107) खक्खटं पृथिवीप्रसाधनस्य प्रधानहेतुरित्यतस्तत्र पृथिवीति नाम । प्रज्ञप्तितः प्रसिद्धे हेतौ प्रज्ञप्तितः संज्ञा भवति यथा वदन्ति- पश्याम्यहं वृक्षस्य छेत्तारं पुरुषमिति ।
द्वाभ्यामाकाराभ्यामिति यदवोचः । तदयुक्तम् । यदि व्यवहारभङ्गीमनुसृत्य तत्त्वं भवति । तदा द्वादशायतनादीनि तत्त्वानि न स्युः । अतश्चक्षुः प्रतीत्य रूपञ्चोत्पद्यते चक्षुर्विज्ञानमितीदमतत्त्वं स्यात् । व्यवहारभङ्गया अभावात् । इदञ्च मिथ्याशास्त्रं स्यात् । किञ्च तथागते तेजोवती समाधिमुपसम्पन्ने तत्काया द्विविधानि ज्वालारूपाणि निश्चरन्ति । तत्र किमित्ति तेजो धातुर्न भवति । रूपादीना तेजः सिध्यति नतूष्ममात्रलक्षणतः । किञ्चाह भगवान्- कायो ऽयं करण्डक इति । तत्र नखलोमकेशादयः समृद्धाः सन्ति । यथोक्तं सूत्रे- सन्ति काये ऽस्मिन् नखलोमकेशादय इति । अतो नखलोमकेशादयः पृथिवीधातुः । न हि धतुवादो ऽस्तीति द्रव्यधर्मो भवति । उक्तञ्चबीज सूत्रे यतः पृथिवीधातुः स्यात् नाब्धातुः न बीजानि वृद्धिं [विरूढिं विपुलता] मापद्यन्त इति । तत्र किं पृथिवीधातुः यदुत प्रज्ञप्तितः क्षेत्रम्, न तु खक्खटमात्रलक्षणम् । आपो ऽपि प्रज्ञप्तितः न स्नेहमात्रलक्षणम् । एकस्य धर्मस्य द्रव्यत्वं प्रज्ञप्तित्वमिति द्विप्रकारो ऽपि नोपलभ्यते । कस्मात्, रूपादीनि द्रव्याणि । चक्षुरादीनि प्रज्ञप्तितः सन्ति । महाभूतानि तु द्रव्यतश्च प्रज्ञप्तितश्च सन्तीदं मिथ्याशास्त्रम् । षड्धातु सूत्रे च भगवानाह- केशलोमनखादीनि पृथिवीधातुरिति । हस्तिपदोपमसूत्रे चोक्तम्- केशा लोमा नखा इत्यादीनि अयमुच्यते पृथिवीधातुरिति । केनार्थेन धातुर्द्रव्यं न प्रज्ञप्तिरित्युच्यते । न च सो ऽर्थः सूत्रारूढः ।
यदवादीः भगवानाह- यच्चक्षुर्मासपिण्डे खक्खटं खरगतं इयं पृथिवी इत्यादि । वचनेनानेन भगवान् प्रदर्शयति पञ्चेन्द्रियाणि चत्वारि महाभूतान्युपादाय भवन्ति इति । केचिद्वदन्ति अहङ्कारसम्भूतमिन्द्रियमिति । केचिद्वदन्ति महाभूतव्यतिरिक्तमिन्द्रियमस्तीति । केचिद्वदन्ति इन्द्रियाणि नानास्वभावजानि यदुत पृथिवीमहाभूतात् सम्भूतं घ्राणमित्यादि । तत्प्रत्याख्यानाय भगवानाह- चक्षुरादीन्द्रियाणि चतुर्महाभूतसमवायात्मकानि शून्यान्यवस्तूनि इति । विकल्पः प्रज्ञप्तेर्हेतुं प्रत्ययं साधयति । [सा] प्रज्ञप्तिरपि नास्ति । अस्मिन् मांसपिण्डे सन्ति चत्वारो भागाः खक्खटं खरगतमित्यादि वचनेन भगवान् प्रदर्शयति सर्वपदार्थाः चतुर्महाभूतसम्भूता इति ।
भगवान्नावोचत्- द्वयोराश्रयो ऽस्तीत्यतो द्रव्यमहाभूतं [वायु]रिति यदवोचः । तदयुक्तम् । कस्मात् । वायोर्लघुत्वं विशिष्टं लक्षणं न लघुगतधर्मः । पृथिव्यादीनां खक्खटगतधर्मादयो विशिष्टाः वायोस्तु न तथा । लघुगतधर्मश्चाल्प इति नावोचत् । यदवादीः चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति वक्तुः तन्महाभूतलक्षणानि विनिर्भक्तानि स्युरिति । तदयुक्तम् । यत् खक्खटं खरगतं चतुर्महाभूतसम्भूतं [स]पृथिवीधातुः । न तूच्यते ऽन्यद्वस्तु लक्षणस्याश्रय इति । यो धर्मो लक्षणादन्य न स आश्रयः । अयमेव लक्षणस्य [अ]विनिर्भागः । (पृ) यदुत्पद्यमानं न स आश्रयो भवति । आश्रयो हि [यत्]अन्यद्वस्तु [तत्] आश्रयतामुपयाति । (उ) आश्रय इति संज्ञायते नान्यद्वस्तु लक्षणस्याश्रय इति । उत्पद्यमानस्य प्रविभागात् । यथा वदन्ति आकाशं सर्वगामीति । वस्तुतस्तु नास्ति तत् यद्गच्छति ।
यदुक्तं भवता चत्वारि महाभूतानि सहजातानीति । तदयुक्तम् । यथा आतपे केवलं रूपयुक्तः स्पर्श उपलभ्यते नान्ये धर्मः । चन्द्रिकायां केवलं रूपयुक्तः शीतस्पर्श उपलभ्यते नान्ये धर्माः । तस्मान्न सर्वेषु पदार्थेषु चतुर्महाभूतानि सन्ति । तद्यथा किञ्चिद्वस्तु नीरसं यथा सुवर्णवज्रादि । किञ्चिद्वस्तु निर्गन्धं यथा सुवर्णरजतादि । किञ्चिद्वस्तु नीरूपं यथा गृह[प्रासाद]धर्म । किञ्चिद्वस्तु (sss_109) निरूष्म यथा चन्द्र[कान्त]आदि । किञ्चिद्वस्तु निश्शीतम् यथा तेज आदि । किञ्चिद्वस्तु ईरणलक्षणं यथा वाय्वादि । किञ्चिद्वस्तु निरीरणं यथा पाषाणघण्डः । एवं किञ्चिद्वस्तु निष्कर्कशम् । किञ्चिन्निस्नेहम् । किञ्चिन्निरूष्म । किञ्चिन्निरीरणम् । अतश्चत्वारि महाभूतानि नाविनिर्भागवर्तीनि ।
(पृ) बाह्यैः कारणैर्महाभूतानां स्वभाव आविर्भवति । यथा सुवर्णपाषाणादौ द्रवलक्षणं तेज अपेक्ष्याविर्भवति । अप्सु काठिन्यलक्षण अतिशैत्यमुपादायोद्भवति । वायौ शीतोष्मलक्षण अप्तेजसी उपादायोद्भवति । तृणवृक्षेषु ईरणलक्षणं वायुं प्राप्योद्भवति । तस्मात् पूर्ववर्तिनः स्वभावाः प्रत्ययमपेक्षोद्भवन्ति । अतश्चत्वारि महाभूतानि न विनिर्भागलाभिन इति ज्ञायते । यदि पुर्वमसन् [स]स्वभावः । कथमुद्भवेत् । (उ) तथा चेत् वायौ कदाचिद्गन्धो ऽस्तीति गन्धो वायुगतः स्यात् । यथा वासिततैलगन्धस्तैलगतः । नत्विदं युज्यते । न हि महाभूतेभ्यो भौतिकं रूपमुत्पद्यते । यथा स्नेहात् स्नेहो भवति । तथा रूपाद्रूपं भवति । यदि [तानि] अविनिर्भागवर्तीनि । तदा सत्कार्यं स्यात् । यथा कन्यायां पुत्रः अन्ने ऽमेध्यादिः । न वयं ब्रूमः सत्कार्यम् । यद्यपि नास्ति पयसि दधि । तथापि दधि पयस उत्पद्यते । एवं किं संज्ञानुस्मरणविकल्पेन यदुत चत्वारि महाभूतानि सहजातानि अपृथग्भागवर्तीनीति ॥
तदप्रमाणवर्गश्चत्वारिंशः
41 पूर्वतनसिद्धान्तप्रकाशनवर्गः
पूर्वं यदवादीः- न वयं ब्रूमः चत्वारि महाभूतानि रूपादिभिरेकानि यदि वानेकानि इत्यतो ऽनवद्यम् इति । तदयुक्तम् । कस्मात् । तीर्थिकाः सर्वे सिषाधयिषन्तीत्यत श्चतुर्णां महाभूतानामेकत्वनानात्वे उदाहरन्ति । अतो भगवान् प्रज्ञप्तौ चतर्णां महाभूतानामुदाहृतत्वात् तेषामर्थमुपदिशति । तथा नो चेत् न ब्रूयात् । लौकिकाः स्वभावतः पृथिव्यादिमहाभूतानि जानन्तो ऽपि न विदन्ति [तेषां] वस्तुभावम् । अत उपदेशं करोति । नोपदिशति हस्तादि । यदि खक्खटादिभिश्चत्वारि महाभूतानि भवन्ति इति । क उपकारो भवेत् ।
अस्ति द्विधा आश्रयार्थ इत्युक्त्वा महाभूतानि द्रव्याणीति यदवोचः । तत्र न प्रतीमो- अयमाश्रयार्थः, [त]दन्यो यः स प्रज्ञप्तिसन् इति । [अष्टगुणा आप इति] व्यवहारानुवर्तनतो वदन्ति न तु द्रव्यमहाभूता[नुवर्तन]त इति यद्वचनं तदयुक्तम् । कस्मात् । यदि वा प्रवचने यदि वा लोके न हेतुप्रत्ययैर्विना रूपादिषु चतुर्महाभूत संज्ञां कुर्वन्ति । यथा लोके वदन्ति पश्याम्यहं पुरुषमिति । रूपादिषु हि पुरुष इति संज्ञा न हेतुप्रत्ययैर्विना भवति । यो विनापि सुदृढहेतुप्रत्ययैः संज्ञां करोति सो ऽश्वं दृष्ट्वा पुरुष इत्याह्वयेत् । वस्तुतस्तु न तथा । कस्माच्छब्दे पृथिवीति न वदन्ति । लौकिकाः सदा [पृथग्] वदन्ति पृथिवीति शब्द इति । न कदाचिदपि वदन्ति शब्दः पृथिवीति । यो विना सुदृढहेतुप्रत्ययैः संज्ञां करोति । स शब्दं पृथिवीति आह्वयेत् । वस्तुतस्तु न तथा । तस्माद्रूपादयश्चत्वारो धर्मा [एव] पृथिवी । पृथिवीभागे [ऽपि] पृथिवीति संज्ञा भवति । यथारूपमिदं प्रज्ञप्तेर्हेतुं साधयति तत्र पुरुष इति संज्ञा । वृक्षेषु वनमिति संज्ञा । भिक्षुषु सङ्घ इति संज्ञा । एवं रूपादिषु धर्मेषु चत्वारि महाभूतानीति संज्ञां वदन्ति ।
यदवोचः- यदि वा षट् स्पर्शायतनानि यदि वा षट् स्पर्शायतनान्युपादाय सिद्धा [धर्मा] इति । नेदं सूत्रं युक्तम् । यथा भवतां शासने भौतिकं रूपं न कस्यचिज्जनकम् । तथा मम शासने ऽपि प्रज्ञप्तौ न [तत्]कस्यचित् जन्यम् । अत इदं सूत्रं न भवेत् । अस्ति चेत्तस्यार्थो ऽन्यथयितव्यः । यदवादीः- चत्वारि महाभूतान्युपादाय भौतिको रूपप्रसादः चक्षुरिति । तदयुक्तम् । चतुर्णां महाभूतानां समवायः प्रज्ञप्तौ चक्षुरित्युच्यते । प्रज्ञप्तिसन्ति चत्वारि महाभूतानि रूपम् । तद्रूपप्रसादश्चक्षुः । यद्युप्युक्तं भवता धर्मे धर्मो वर्तते निराश्रयो निरधिष्ठाता चेति । [तत्र यो धर्मः] स एवाश्रयः अधिष्ठाता च । येन वर्तते स आश्रयः । यस्मिन् धर्मे तिष्ठति सो ऽधिष्ठाता । यदवोचः- खक्खटलक्षणं "संघत्त" इत्यादि । नेदं युज्यते । न खक्खटलक्षणं केवलं धत्ते । अपि तु हेतुप्रत्ययसामग्रीञ्चापेक्षते । तथान्यान्यपि । तस्माच्चत्वारि महाभूतानि प्रज्ञप्तिसन्ति ॥
पूर्वतनसिद्धान्तप्रकाशनवर्गं एकचत्वारिंशः ।
42 खक्खटलक्षणासत्तावर्गः
(पृ) यदाह भवान्- खक्खटबहुलो रूपादि [समवायः] पृथिवीमहाभूतमित्यतः पृथिव्यादयः प्रज्ञप्तिसन्त इति । नेदं युज्यते । कस्मात् । खक्खटधर्म एव नास्ति । किं पुनः प्रज्ञप्तिसती पृथिवी । (1) यो मृत्पिण्डः खक्खटः स एव [कदाचित्] मृदुः । अतो ज्ञायते खक्खटलक्षणमनियतमिति । (2) अल्पतरकारणेन च खक्खटबुद्धिर्भवति । अणूनां विश्लिष्टसमवाये मृदुरिति बुद्धिर्भवति । संश्लिष्टसमवाये खक्खटमिति । अतो ऽनियतम् । (3) नह्येकस्मिन् धर्मे स्पर्शद्वयं भवति । येन खक्खटः कायः मृदुः काय इति बुद्धिर्भवेत् । अतो ऽनियतं खक्खटलक्षणम् । (4) अनियता खक्खटता मृदुता चान्योन्यमपेक्ष्यास्ति । यथा कम्बलमपेक्ष्य पटं मृदु भवति । पटमपेक्ष्य कम्बलं कर्कशं भवति । न हि [तात्त्विकः] स्पर्शधर्मः अन्योन्यमपेक्ष्यास्ति । (5) सुवर्णपाषाणे चक्षुषा द्रष्टुर्ज्ञायते (sss_112) इदं खक्खटमिति । न हि स्पर्शश्चक्षुषोपलभ्यते । अतो नास्ति खक्खटता । अनेनैव कारणेन मृद्वादयः स्पर्शा अपि न सन्ति ॥
खक्खटलक्षणासत्तावर्गो द्विपंञ्चाशः ।
43 खक्खटलक्षणसत्तावर्गः
अत्रोच्यते । द्रव्यसत् खक्खटलक्षणम् । यद्यप्याह भवान्- यो मृत्पिण्डः खक्खटः स एव [कदाचित्] मृदुरिति (1) । तदयुक्तम् । कस्मात् । नह्यस्त्यस्माकं द्रव्यतो मृत्पिण्डः । बहूनां धर्माणां कलापः प्रज्ञप्त्या मृत्पिण्ड इत्युच्यते । अल्पतरकारणेन च खक्खटबुद्धिर्भवतीति यदवोचः (2) । न तद्युज्यते । मम संश्लिष्टसंङ्घाताणुषु इदं खक्खटलक्षणं लभ्यत इति अस्ति खक्खटता । असंश्लिष्टेषु तन्मृदुलक्षणं लभ्यते, इत्यतो नास्ति दोषः । यो धर्म उपलभ्यते । स एवास्तीत्युच्यते । यदप्युक्तं- नह्येकस्मिन् धर्मे स्पर्शद्वयमस्तीति (3) । तदयुक्तम् । उपलभ्यन्ते किलास्माभिः एकस्मिन्नेव धर्मे बहवः स्पर्शाः खक्खटो ऽपि मृदुरपीति । यदप्युक्तम्- खक्खटता मृदुता चान्योन्यमपेक्षत इति नास्ति नियतेति (4) तन्नयुज्यते । यथा ह्रस्वदीर्घत्वादि अन्योन्यमपेक्ष्याप्यस्ति । यथा सितोपलारसमास्वादयितुरसितोपलारसः कटुर्भवति । हरीतकीरसमास्वादयितुरसितोपलारसो मधुरो भवति । यद्यन्योन्यापेक्षणान्नास्ति । तदा रस एव न स्यात् । (पृ) असितोपलायां द्विविधो ऽस्ति रसः मधुरः कटुरिति । (उ) [तर्हि]पटे ऽपि द्वौ स्पर्शौ स्तः खक्खटो मृदुश्चेति ।
पाषाणदर्शने खक्खटता ज्ञायत इति यदुक्तम् । तदयुक्तम् । न हि चक्षुषा ज्ञेया खक्खटता । स्पर्शपूर्वकमनुमीयते । यथाग्निं दृष्ट्वा ऊष्म ज्ञायते इति नोष्म दृश्यं भवति । यथा पुरुषः कम्बलं दृष्ट्वा संशेते किमिदं कठिनं किं वा मृदु इति । अतः स्पर्शो न चक्षुषा दृश्यः । अतः सन्ति खक्खटादयः स्पर्शाः ।
अथ खक्खटादयो द्रव्यसन्तः । कस्मात् । विकल्पचित्तस्योत्पादकत्वात् । यदि नास्ति खक्खटता । तदा किं विकल्प्येत । खक्खटः [स्व]चित्तस्य प्रत्ययं करोति । यत्र तक्ष्णादि कर्मान्तरं क्रियते । मृदुस्निद्घलक्षणविरुद्धं यत् तत् खक्खटमित्युच्यते । सन्धारणस्य प्रत्ययत्वात् खक्खटम् । करादीन् प्रतिहन्तीति खक्खटम् । प्रत्यक्षतः खलु जानीम इदं खक्खटमिति । प्रत्यक्षपरिज्ञाते च वस्तुनि न हेतुप्रत्ययापेक्षास्ति । लोके तद्वस्तु खक्खटमित्याख्यायते । तथान्यान्यपि । अतो ज्ञायते ऽस्ति खक्खटमिति ॥
खक्खटलक्षणसत्तावर्गस्त्रिचत्वारिंशः ।
44 चतुर्महाभूतलक्षणवर्गः
(पृ) अस्ति खक्खटधर्म इति ज्ञातमेवास्माभिः । परन्तु पश्यामस्तप्ते सुवर्णे द्रवत्वम् । आपो घनीभूताः करकाः । किमिदं सुवर्णं खक्खटत्वात् पार्थिवम् । किं वा द्रवत्वादाप्यम् । (उ) अस्ति प्रत्येकं स्वलक्षणम् । यो धर्मः खक्खटः खरगतः स पृथिवीधातुः । यः स्निग्धः स्निग्धगतः सो ऽब्धातुः । (पृ) सुवर्णं खक्खटं सत् [तेजसो योगात्] द्रवीभवति । आपः स्निग्धा अतिशैत्यात् करका भावन्ति इति कथं महाभूतानि न स्वलक्षणं जहति । यथाह सूत्रम्- चतुर्णां महाभूतानां लक्षणं कदाचित् विकार्यं चत्वारः श्राद्धा नान्यथोपलभ्यन्ते । इति । (उ) नास्माकं खक्खटतो द्रवो भवति । स्निग्धं वा खक्खटं भवति । किन्तु खक्खटो द्रवस्य हेतुं करोति । स्निग्धञ्च खक्खटस्य हेतुं करोति । अतो न जहाति स्वलक्षणम् ।
(पृ) अभिधर्म उक्तम्- अपां लक्षणं स्नेह इति । केचिद्वदन्ति द्रव अपां लक्षणमिति । उक्तं सूत्रे- स्यन्दनमपां लक्षणमिति । किं पारमार्थिकं तत्त्वम् । (उ) द्रवस्नेहस्यन्दनानि (sss_114) अपां नामान्तराणि । (पृ) अपां कर्म द्रवश्चक्षुषा दृश्यमानो धर्मः । अतो द्रव एव [लक्षणम्] न तु स्नेहः स्यन्दनं वा । (उ) स्नेहस्यन्दनाभ्यां द्रवो भवति । स्निग्धं हि अधोमुखं याति । अतो द्रवः स्यन्दः । स्नेहस्यन्दौ चापां लक्षणम् । द्रवस्तु अपां कर्म ।
(पृ) लघुसमुदीरणत्वं वायोर्लक्षणमुक्तम् । [तत्र] लघुत्वमन्यत् समुदीरणत्वमन्यत् । लघुत्वं स्पर्शायतनसङ्गृहीतम् । समुदीरणत्वं रूपायतनसङ्गृहीतम् । किमिदानीं वायुर्धर्मद्वयात्मकः सम्भवति । (उ) लघुत्वं वायोर्लक्षणम् । समुदीरणत्वं वायोः कर्म । कर्मणा संयुज्य [लक्षण]मुक्तम् । (पृ) नास्ति समुदीरणलक्षणम् । सर्वधर्माणां क्षणिकत्वात् । नान्यत्र प्राप्तिरस्ति । अन्यत्र प्राप्तिर्हि समुदीरणमुच्यते । प्राप्तिगमनसमुदीरणानामेकार्थत्वात् । (उ) कर्मेति केवलं लोकसत्यतो वदामः न तु परमार्थतः लघुधर्ममुपादाय देशान्तरे जननधर्मः कर्मेति संज्ञां लभते । तस्मिन्नेव समये गच्छतीत्युच्यते । (पृ) लघुत्वमनियतलक्षणम् । कस्मात् । अन्योन्यमपेक्ष्य सत्वात् । यथा दशपलं वस्तु विंशतिपलवस्त्वपेक्ष्य लघु पञ्चपलवस्त्वपेक्ष तु गुरु । (उ) गुरुत्वपरिमाणधर्मश्चित्तादि धर्ममुपादाय अन्योन्यमपेक्ष्य चास्ति । यथा कश्चिद्धर्मः अन्यमपेक्ष्य दीर्घः । कश्चित्तु धर्मो ऽन्यमपेक्ष्य ह्रस्वः । सामान्यलक्षणन्तु [यत्] चित्तमुपादायास्ति तदेव लक्षणम् । यदि लघुत्वधर्मो ऽन्योन्यापेक्षितत्वान्नास्ति । एतदाद्यपि न स्यात् । न तु तद्युज्यते । अतो ऽन्योन्यापेक्षिकत्वं न सम्यग्धेतुः ।
किञ्च लघुत्वं नान्योन्यापेक्षणादस्ति । किन्तु अतुल्यमस्ति । अतुल्यं वस्तु यथा दृतिमध्यगतो वायुः । अतो नापेक्ष्यास्ति । केवलं गुरुत्वधर्म आपेक्षिकः । विगतगुरुकं वस्तु अतुल्यम् । (पृ) यद्यतुल्यं वस्तु लघु इत्युच्यते । गुरुत्ववर्जिता अन्ये रूपादयो धर्मा अतुल्यत्वात् लघवः स्युः । तत्तु न युज्यते । अतो भवदुक्तं न लघुलक्षणम । (उ) न वयमङ्गीकुर्मो रूपादीन् विहाय धर्मान्तरं गुरु भवतीति । रूपादय एव धर्माः (sss_115) केचित् तुल्यस्वभावा उत्पद्यन्ते । यथा खक्खटमखक्खटं बलमबलं नवं पुराणमुपचितमनुचितं क्षीणमक्षीणं स्थूलं सूक्ष्मम् इत्यादयः । ते ऽपि न रूपादीन् विहाय सन्ति । एवं गुरुलक्षणमपि । अयं रूपादिसङ्घातो यदि पार्थिव आप्यो वा । तदा तुल्यो भवेत् । यदि वायवीयस्तैजसो वा । तदा न तुल्यः स्यात् ।
(पृ) यदि गुरुत्वधर्मो न रूपादीन् विहायास्ति । लघत्वमपि रूपादीन् विहायन स्यात् । (उ) सत्यमेवम् । रूपादीन् विहाय नास्ति पृथग् लघुत्वम् । किन्तु रूपादिगणकलापो लघुर्भवति । (पृ) मैवम् । गुरुलघुत्वविकल्पो ऽवश्यं कायेन्द्रियेणेष्यत इत्यतो न गुरुर्लघुः रूपादिसङ्घातः । (उ) ते च खक्खटादयः कदाचित् चक्षुषा कदाचित् श्रोत्रादीना विकल्प्यन्ते । ते च खक्खटादयः पदार्था न रूपादीन् विहाय सन्ति । तथा गुरुर्लघुरपि । [तत्र] यद्यपि कायेन्द्रियं व्याप्रियते । न [तावता] पुनस्तत् लक्षणान्तरं भवति । न च कायेन्द्रियमस्पृश्य कायविज्ञप्तिमुत्पादयति । इदं गुरुत्वलक्षणं कायेनास्पृष्टमपि [तस्य] विज्ञप्तिमुत्पादयति । यथा गुरुद्रव्ये द्रव्यान्तर्गतापेक्षयापि तद्गुरुत्वं ज्ञायते । (पृ) न तस्मिन् समये ज्ञायत इदं गुरुलक्षणमिति । (उ) यथा परिहितवस्त्रः पुरुषो ऽस्पृष्टो ऽपि ज्ञायते [अयं] बलवान् अबलवान् इति । तथा गुरुर्लघुरपि । कस्मात् । विविधेभ्यः स्पर्शेभ्यो विविधाः कायविज्ञप्तयो भवन्ति । यथा कदाचिदावेधपीडनाभ्यां कठिनसुकुमार [स्पर्श]विज्ञप्तिर्जायते । कदाचिदुत्क्षेपणकम्पनाभ्यां गुरुलघुविज्ञप्तिर्जायते । कदाचिदादानसंस्पर्शाभ्यां दृढबल्बजविज्ञप्तिर्भवति । कदाचित् संस्पर्शप्रतिघाताभ्यां शीतोष्णविज्ञप्तिर्भवति । कदाचिन्मार्जनपरामर्शाभ्यां कर्कशश्लक्ष्णविज्ञप्तिर्भवति । कदाचिदभिषवसंमर्दाभ्यां बलीयस्तुन्दिलविज्ञप्तिर्भवति । छेदनवेधनाभ्यां दण्डाघातेन वा धात्वन्तरविज्ञप्तिर्भवति । केचित्स्पर्शाः सदाकायगताः न शीतोष्णादिवत् बाह्यमपेक्ष्यागामिनः यदुत प्रश्रब्धिसुखं स्त्यानप्रकर्षः अस्त्यानप्रकर्षः रोगो विशेषोवा कायतैक्ष्ण्यं कायमान्द्यम् आलस्यगुरुता मूर्छा उन्मादः पक्षवायुजृम्भणबुभुक्षापरितर्षणपरितर्पणसुखासुखलोलुपताजडतादयः स्पर्शाः । [ते] प्रत्येकं पृथक् पृथग्विज्ञप्तिजनकाः ।
(पृ) यत् गुरुलघुलक्षणं स रूपादिसङ्घात एव । कथं तद्रूपादीनां कायविज्ञप्तिं प्रति प्रत्ययत्वम् । (उ) न रूपादिसङ्घातस्य कायविज्ञप्तिं प्रति प्रत्ययनव्यापारः । केवलं तदवयवस्पर्शः कायविज्ञप्तिं प्रति प्रत्ययः । यथा खक्खटाखक्खटत्वादयो रूपादिसङ्घातवर्तिनो ऽपि (sss_116) चक्षुषा दृष्ट्वा ज्ञातुं शक्यन्ते । यथा च प्रश्रब्धिसुखादयो रूपादिसङ्घातात्मककायेनापि विज्ञाय विकल्प्यन्ते । तथेदमपि ।
यदि गुरुर्लघुः स्पर्शमात्रम् [इत्यभ्युपगम्यते] को दोषः किमनया रूपादिसङ्घातविकल्पक्रियया । (उ) यथा लौकिका वदन्ति प्रत्नधान्यं पूतिधान्यमिति । इदं प्रत्नपूतिल क्षणं रूपादिभ्यो ऽन्यत् स्यात् । वस्तुतस्तु न तथा । रूपादीनां प्राथमिक उत्पादः प्रत्नमित्युच्यते । यदीदं प्रत्नलक्षणं रूपादिसङ्घात एव । कथं गुरुलक्षणं न तथा । (पृ) यदि लघुगुर्वादयो रूपादिसङ्घाता एव । लघुलक्षणञ्च वायौ तेजसि च वर्तते । तदा लघुत्वबहुलो रूपादिसङ्घातो वायुः स्यात् । तथा चेत्तेज एव वायुः स्यात् । (उ) यत्न [य]ल्लक्षणबाहुल्यं [तस्य] तन्महाभूतमिति नाम । तेजसि लघूष्मलक्षणञ्चास्ति । ऊष्मबहुलमित्यतस्तेज इत्युच्यते । न तु लघुत्वबाहुल्याद्वायुर्भवति । वायौ लघुत्वमात्रमस्ति । न तूष्म । अतो लघुमात्रेणाख्या भवति । नास्माकं लघुमात्रेण वायुर्भवति । किंन्तु यो लघुः सन् समुदीरणस्य हेतुं करोति । स वायुरित्युच्यते । यथोक्तं सूत्रे- लघुसमुदीरणलक्षणो वायुरिति । तत्र लघुत्वं वायोर्लक्षणं समुदीरणत्वं वायोः कर्म ।
(पृ) वायुः पर्वतमपि अवमूर्धयति । यदि । लघुद्रव्यम् । कथं तथा कुर्यात् । (उ) वायुः स्थूलः सन् बलिष्ठो भवति । तथा प्रभावक्षमो भवति । यथा कदाचिद्वायुरल्पकं तृणं कम्पयति । कदाचित्पर्वतमुन्मूलयति । ईदृशं वायोः कर्मेति ज्ञातव्यम् ।
(पृ) पृथिव्यादिमहाभूतानि किमविशेषेण रूपरसगन्धस्पर्शसङ्घाताः । (उ) नास्ति नियमः । यथा पृथिव्यां सन्ति रूपरसगन्धस्पर्शाः । कदाचित् केवलं रूपस्पर्शौ स्तः यथा सुवर्णजतादिषु । अप्सु कदाचित् रूपरसगन्धस्पर्शाः सन्ति । कदाचित् त्रयो रूपरसस्पर्शाः सन्ति तेजसि कदाचित् रूपरसगन्धस्पर्शाः सन्ति । कदाचित् त्रयो रूपगन्धस्पर्शाः सन्ति । कदाचित्केवलं रूपस्पर्शौ स्तः । अतो नास्ति नियमः ।
(पृ) वायोः स्पर्शः कीदृशः । (उ) शीतोष्णकठिनसुकुमारादयः स्पर्शाः यन्महाभूतसन्ततावविनिर्भागवर्तिनः तस्य महाभूतस्य स्पर्शा इति ज्ञातव्यम् । (पृ) भिषजो वदन्ति वायुरूपं कृष्णमिति । किं पारमार्थिकम् । (उ) वायुः कृष्णरूपस्य हेतुः । यथा वातरोगिणो मुखे तिक्तरसो ऽस्तीति न स भिषग्ववति वायौ रसो ऽस्तीति । तदा वायू रसस्य हेतुरिति भवति । (पृ) केचिद्वदन्ति वायुः शीतो न तु लघुरिति । किं परमार्थिकम् । (sss_117) (उ) नास्ति यः शीतः स वायुरिति । यथा हिमं शीतं सत् न वायुर्भवति । वायुशैत्यञ्चान्यत् । कस्मात् । यथोष्णवायुरनुष्णाशीतवायुश्च वायुरित्याख्यायते । अतो लघुत्वाश्रयः सङ्घातो वायुर्भवति । किञ्च रूपरहितस्पर्शादिधर्मजननो वायुः । न तु [यत्] शीतं [स] वायुः ।
(पृ) वायु रूपरसवत्त्वे को दोषः । (उ) वायौ रूपरसौ नोपलभ्येते । सत्त्वे ऽपि सौक्ष्म्यान्नोपलभ्यत इति वक्तुश्चित्त एव संज्ञानुस्मरणविकल्पः स्यात् यदुत वायौ रूपरसौ स्त इति । नत्विदं युज्यते । न हि वयं वदामः सत्कार्यम् । तस्मात् यत्फल उपलभ्यते नावश्यं तद्धेतौ पूर्वमस्ति । अयं चतुर्णां महाभूतानां परमार्थः सिद्धः ॥
चतुर्महाभूतलक्षणवर्गश्चतुश्चत्वारिंशः ।
45 इन्द्रियप्रज्ञप्तिवर्गः
(पृ) चक्षुरादीनीन्द्रियाणि किं चतुर्महाभूतैः सहैकानि उतान्यानि । (उ) कर्मतश्चत्वारि महाभूतानि प्रतीत्य चक्षुरादीनीन्द्रियाणि भवन्ति । अतश्चतुर्महाभूतेभ्यो नान्यानि । चक्षुर्विकल्पयन् भगवानेवं वचनमाह यच्चक्षुषि मांसपिण्डे खक्खटं खरगतं स पृथिवीधातुरिति । कस्मात् । खक्खटादिविकल्पमात्रं, न पुनरन्यदस्ति चक्षुः । भगवान् चक्षुः शून्यमिति जनानां जिज्ञापयिषयैवेदृशं वचनमाह । तथा नो चेत् चक्षुषि खक्खटादिकमन्यदस्ति खक्खटादौ वा अन्यदास्ति चक्षुः [इति]खक्खटादीनां विकल्पे ऽपि नास्ति कश्चनोपकारः । अतः सर्वाणीन्द्रियाणि न चतुर्महाभूतेभ्यो ऽन्यानि । षड्धातुसूत्रे चोक्तं- षड्धातुरयं पुरुष इति । यदीन्द्रियाणि [न] चतुर्महाभूतेभ्यो ऽन्यानि । तदा चक्षुरादीनि न पुरुषप्रत्यया इति सिध्यति । रूपादीनुपादाय चत्वारि महाभूतानि भवन्ति । (sss_118) तथा शब्दो ऽपि पुरुषप्रत्यय इति सिध्येत् । षड्धातुमात्रे पुरुष इति प्रज्ञप्यते । अतो ज्ञायत इन्द्रियाणि न चतुर्महाभूतेभ्यो ऽन्यानीति ।
कश्चिद्भिक्षुर्भगवन्तं पृच्छति कतमच्चक्षुरिति । भगवान् प्रत्याह- चत्वारि महाभूतान्युपादाय रूपि अनिदर्शनं सप्रतिघं चक्षुः इति । अतो न चतुर्महाभूतेभ्यो ऽन्यदिति ज्ञायते । अयं भिक्षुस्तीक्ष्णेन्द्रियः प्राज्ञः । तस्य चक्षुरादिषु कांक्षा समपद्यत । लौकिकाः सर्वे प्रजानन्ति रूपदर्शनं चक्षुर्यावत् स्पर्शनं काय इति । तस्य भिक्षोश्चक्षुरादीन्द्रियेषु नास्तीति शङ्कोदपादि । कस्मात् केचिदाचार्या वदन्ति पञ्चस्वभावाः पञ्चेन्द्रियाणीति । अन्ये केचिद्वदन्ति एकस्वभावा इति । [अतो] ऽयं भिक्षुर्भगवतः शासनमिमांसया भगवन्तं पप्रच्छ । पञ्चेन्द्रियाणि चतुर्महाभूतमयानीति परिदिदृक्षया भगवान् प्रत्याह- चक्षुर्भिक्षो [आध्यात्मिकमायतन] चत्वारि महाभूतान्युपादाय रूपमनिदर्शनं सप्रतिघमिति । यो धर्मो द्रव्यसन् न स उपादायास्ति । प्रज्ञप्तिमुपादाय धर्मः प्रज्ञप्तिरेव । यथा वृक्षानुपादाय वनम् ।
(पृ) केचिद्वदन्ति रूपप्रसाधनं चक्षुरिति । कतमत्पारमार्थिकम् । (उ) यत्प्रसाधनं तदप्रसाधमेव । कर्महेतुजानि चत्वारि महाभूतानि चक्षुरादीन्द्रियाणीत्याख्यायन्ते । तथा नोचेत् अस्य भिक्षोश्चक्षुरादिषु इन्द्रियेषु शङ्का नैवोच्छिद्येत । कस्मात् । भगवान् प्राह- चक्षुरादीनिन्द्रियाणि चत्वारि महाभूतान्युपादाय भवन्तीत्यतो ऽयं भिक्षुर्जानाति अद्रव्यसन् चक्षुर्धर्म इति । अतो ज्ञायते चक्षुरादीनि न चतुर्महाभूतेभ्यो ऽन्यानीति । भगवान् चक्षुषः शून्यत्वप्रदर्शनाय तत्र चत्वारि महाभूतानि विकल्पयति । यथा प्रज्ञया अप्रपञ्चयिता वदति- अयं कायः षट्सु धातुषु विभक्तः यत् खक्खटं खरगतं स पृथिवीधातुरित्यादि प्रत्यवेक्षेतेति । एवं पञ्चधातुभ्यो विरक्तस्य एकं विज्ञानमात्रमस्ति । तद्यथापि (sss_119) गोधातकस्य । हस्तिपदोपमसूत्रे चत्वारि महाभूतानि विकल्पितानि न पुनश्चक्षुः । यद्यस्ति पृथक् चक्षुः, विकल्प्येत । वात्सपुत्रीयादय अभिधर्मिका अपि ईदृशं वचनं कुर्वन्ति । अदुष्टत्वात् श्रद्धातव्यं स्यात् ।
(पृ) पञ्चेन्द्रियाणि चतुर्महाभूतेभ्यो ऽन्यानि । कस्मात् । चक्षुरादीनि चक्षुराद्यायतनसंगृहीतानि । चत्वारि महाभूतानि स्प्रष्टव्यायतनसंगृहीतानि । चक्षुरादीन्याध्यात्मिकायतनानि । चत्वारि महाभूतानि बाह्यायतनानि । चक्षुरादीनीन्द्रियाणि, चत्वारि महाभूतानि अनिन्द्रियाणि । चक्षुरादीनि भौतिकरूपप्रसाधनानि । न तथा चत्वारि महाभूतानि । अतो ज्ञायत इन्द्रियाणि न चतुर्महाभूतानि ।
(उ) एकमेव वस्तु प्रत्ययवशान्नानोच्यते । यथा श्रद्धादीनि पञ्चेन्द्रियाण्यपि संस्कारस्कन्ध इत्याख्यायन्ते । यानि चत्वारि महाभूतानि कर्मजानि चक्षुरादिसङ्गृहीतानि [तानि] आध्यात्मिकमायातनम् इन्द्रियम् इति च कथ्यन्ते । तान्येव [इन्द्रिय]प्रसाधनानि । यथा चक्रादयश्शकटसाधनानि । चक्रमेव हि शकटम् । तथेदमपि ।
(पृ) मैवम् । यथा श्रद्धा नाम चित्तप्रसादः । अन्या च श्रद्धा अन्यत् चित्तम् । तथेदमपि । (उ) न युज्यत [इदम्] यथा प्रसादमुपादाय आपः स्फटिकम् । आप एव प्रसन्ना आप इति प्रसाद आप एव । एवं प्रतिलब्धश्रद्धास्फटिकं चित्तस्रोतः प्रसादः । अयं चित्तप्रसादश्च चित्तमेव । न वयमस्मिन् शास्त्रे वदामश्चित्तादन्यदस्ति श्रद्धेति । अतो नायं दृष्टान्तः सम्भवति । इन्द्रियाणि च प्रज्ञप्तयः । न च प्रज्ञप्तिः तत्साधनहेतोरन्येति वक्तुं शक्यते ।
(पृ) एकमित्यपि न वक्तुं शक्यते । (उ) चतुर्महाभूतप्रसाधित इन्द्रियमिति (sss_120) प्रज्ञप्यते । न चतुर्महाभूतमात्रमिद्रियम् । अतो ज्ञायते इन्द्रियाणि न चतुर्महाभूतेभ्यो ऽन्यानीति ॥
इन्द्रियप्रज्ञप्तिवर्गः पञ्चचत्वारिंशः ।
46 इन्द्रियविकल्पवर्गः
(पृ) इन्द्रियेषु किं महाभूतं न्यूनं किमधिकम् । (उ) न किञ्चित् न्यूनमधिकं वा । (पृ) यदि सर्वाणि भूत[मया]नि । कस्मात्किञ्चिद्रूपं पश्यति । किञ्चिन्न पश्यति । (उ) सर्वं कर्मजम् । कर्मजचाक्षुषचतुर्महाभूतबलं रूपं पश्यति तथान्यान्यपीन्द्रियाणि । (पृ) यदि कर्मजम् । कस्मान्नैकेन्द्रियेण सर्वान् विषयान् जानाति । (उ) इदं कर्म पञ्चधा विभक्तम् । किञ्चित्कर्म दर्शनस्य हेतुं करोति । यथा प्रदीपदानं चक्षुरिन्द्रियविपाकम् । तथा शब्दादीनामपि । कर्मविशेषात् इन्द्रियबलं भिद्यते । (पृ) यदीदं कर्मबलम् । इन्द्रियाणां कापेक्षा । कर्मजं विज्ञानमात्रं सर्वविषयान् गृह्णीयात् । (उ) मैवम् । प्रत्यक्षं पश्यामः खलु अनिन्द्रियाणां विज्ञानं नोत्पद्यत इति । तथा हि यथान्धो न पश्यति । न बधिरः शृणोति । प्रत्यक्षदृष्टे वस्तुनि निरर्थिका प्रत्ययता स्यात् । नैतद्दूषणं भवति । धर्मता च तथा- य इन्द्रियविरहिताः तेषां विज्ञानं नोत्पद्यत इति । न बाह्यानि चत्वारि महाभूतानि अनिन्द्रियाणि जनयन्ति इति धर्मता तदपेक्षेत । इन्द्रियालङ्कृताः सत्त्वानां काया इत्यतः कर्मजम् । यथा धान्यकारणकर्मप्रतिलम्भात् धान्यं बीजाङ्कुरकाण्डनालपत्राण्यपेक्ष्यापि क्रमशो जायते । एवमिदमपि ।
(पृ) कस्मान्न तथा चित्तम् । यथा चक्षुर्विज्ञानं चक्षुरिन्द्रियकं समनन्तरनिरुद्धचित्तमुपादाय च भवति । चित्तन्तु समनन्तरनिरुद्धचित्तमात्रेन्द्रियकम् । न पुनरस्ति चक्षुरादीनामिव इन्द्रियायतनम् । वक्तव्यश्च प्रत्ययः । (उ) नियतानां पञ्चविषयाणां नियतानि पञ्चविज्ञानानि सन्ति । नैवं चित्तस्य । चित्तधर्मश्च तथा स्यात्- यत् समनन्तरनिरुद्धचित्तेन्द्रियकं भवति नान्यत्किञ्चिदपेक्षत इति । यथातीतानागतधर्मा असन्तो ऽपि मनस आलम्बनानि भवन्ति । चित्तचैत्ता अप्येवमितीदमपि युज्यते । इदञ्च भवतां (sss_121) सिद्धान्तेन समम् । भवतां सिद्धान्तश्च- रूपादिविषयेषु विज्ञानमिन्द्रियमपेक्ष्योत्पद्यते । समनन्तरनिरुद्धचित्तमपेक्ष्य मनोविज्ञानमुत्पद्यत इति ।
(पृ) यदि मनोविज्ञानस्य न पुनरिन्द्रियमस्ति । कुत्राश्रित्य भवति । (उ) चतुर्महाभूतकायमाश्रित्य भवति । (पृ) आरूप्यधातौ क आश्रयः । (उ) आरूप्यधातुविज्ञानस्य न कश्चनाश्रयो ऽस्ति । धर्मतेयं यन्निराश्रयं तिष्ठतीति । कस्मात् । लक्षणविशेषात् । मनोविज्ञानमेव जानाति अस्ति नास्तीति । रूपिण आश्रयो भवति । अरूपमपि तिष्ठतीति आरूप्यधातावपि निराश्रयं तिष्ठति । प्रत्ययसामग्र्या विज्ञानमुत्पद्यते । यथोक्तं सूत्रे- मनः प्रतीत्य धर्मांश्च मनोविज्ञानमुत्पद्यत इति । अस्य क आश्रयः । नास्ति तु पुरुषाणामिव भित्त्यादिः । सर्वे धर्माः प्रकृतिप्रतिष्ठाः ॥
इन्द्रियविकल्पवर्गः षट्चत्वारिंशः ।
47 इन्द्रियाणां समभूततावर्गः
(पृ) तीर्थिका वदन्ति- पञ्चेन्द्रियाणि पञ्चभूतेभ्यो जातानीति । किं परमार्थिकम् । (उ) न [तेभ्यो जातानि] । कस्मात् । आकाशस्याभावात् । इदञ्च दीपितमेव । तस्मान्न पञ्चभूतेभ्यो जातानि ।
(पृ) तीर्थिका वदन्ति- चक्षुषि तेजोमहाभूतं बहुलम् । कस्मात् । कर्मसारूप्यहेतोः । प्रदीपदानमुपादाय चक्षुर्लभते । यथोक्त सूत्रे- पटं दत्वा रूपं लभते । अन्नं दत्वा रूपं लभते । अन्नं दत्वा बलं लभते । यानं दत्वा सुखं लभते । प्रदीपं दत्वा चक्षुर्लभते । इति । अतश्चक्षुषि तेजोमहाभूतं बहुलम् । चक्षुश्चालोकमपेक्ष्य पश्यति । (sss_122) आलोकविगतं न पश्यति । अतो ज्ञायते तेजोमहाभूतं बहुलमिति । तेजश्च सुदूरं प्रकाशयति । सप्रभत्वात् चक्षुः सुदूरं रूपं प्रतिहन्ति । वदन्ति च म्रियमाणस्य चक्षुः सूर्यं प्रतिगच्छतीति । अतो ज्ञायते सूर्यो मूलप्रकृतिरिति । चक्षुर्नियमेन रूपमेव पश्यति । रूपञ्च तैजसमित्यतः पुनरात्मभावमेव पश्यति । एवमाकाशपृथिव्यब्वायव इन्द्रियतो न्यूनाधिकाः । म्रियमाणस्य श्रोत्रमाकाशं प्रतिगच्छति । श्रोत्रं नियमेन शब्दं शृणोति । शब्दश्चाकाश[गतः] । एवन्यान्यान्यपि । अत इन्द्रियेषु महाभूतानि न्यूनाधिकानि भवन्ति । [न समानि] । इति ।
अत्रोच्यते । यद्भवानवोचत्- कर्मसारूप्यहेतोरिति । तदयुक्तम् । कस्मात् । किञ्चिद्दर्शनं सफलं विना कर्मसारूप्यहेतोः । यथा वदन्ति- अन्नं दत्वा पञ्चवस्तु- विपाकान् लभत इति । यदि चक्षुषि तेजो बहुलम् । प्रदीपादिबाह्यालोकमनपेक्ष्य [पश्येत्] । यदि बाह्यालोकापेक्षिणो ऽपि चक्षुषस्तेजो बहुलम् । तदा श्रोत्रादीन्द्रियेष्वपि आकाशादयो बहुलाः स्युः । न बाह्याकाशादीनपेक्षेरन् । वस्तुतस्तु बाह्यानपेक्षन्ते । अतो ऽहेतुः । आपश्चक्षुष उपकुर्वन्ति । यथा क्षालितचक्षुष्कस्य पुरुषस्य चक्षुः स्फुटमेव प्रत्येति । तदा अब्बहुलं स्यात् । तेजश्च चक्षुर्विनाशयति यथा सूर्यप्रभादयः । यदीमे स्वप्रकृतयः, नात्मानं विघटयेयुः । अतो ज्ञायते न तेजो[बहुलम्] इति । दिव्यं चक्षुरालोकमन्तरापि रूपं पश्यति । अतो न तैजसं चक्षुः । चन्द्रिकायाञ्च रूपं द्रष्टुं शक्नोति । चन्द्रश्च न तेजःप्रकृतिकः । तथा चक्षुषो धर्मशक्तिरपि । किञ्चिच्चक्षुरालोकमपेक्ष्य पश्यति । किञ्चिदनपेक्ष्यापि पश्यति । यथा चक्षुराकाशादिप्रत्ययं लब्ध्वा रूपमप्राप्यापि सुदूरं पश्यति । ईदृशी चक्षुषो धर्मता । अतो न कार्यः संज्ञानुस्मरणविकल्पोइ यदुत तेजोबहुलं [चक्षु]रिति ।
यद्भवानवोचत्- आलोकमन्तरा न पश्यतीति । यद्याकाशं मनस्कारं रूपञ्चान्तरा न पश्यति । तदा आकाशादयो ऽपि बहुलाः स्युः । न हि सर्वं चक्षुर्बाह्यालोकमपेक्षते । यथा उलूकादयः पक्षिणो विडालसृगालादयस्तीर्यञ्च बाह्यामालोकमनपेक्ष्यापि द्रष्टुं शक्नुवन्ति । अतो न तेजोबहुलम् । तेजः प्रज्वलत् सदोष्मलक्षणम् । चक्षुस्तु न तथा ।
यद्भवानवादीः- चक्षुः सप्रभत्वात् सुदूरं रूपं पतिहन्तीति । तद् दूषितमेव । निष्प्रभत्वाच्चक्षुषः । यदुक्तं सूर्यं प्रतिगच्छतीति । चक्षुस्तदा नित्यं स्यात् । सूर्यादयश्च (sss_123) नेन्द्रियाणि । चक्षुः कस्मात् प्रतिगच्छति । यदि सूर्यो म्रियते । सूर्येन्द्रियं सूर्यश्च कुत्र पुनः प्रतिगच्छति । अतो ऽयुक्तम् । उपरि देवानां म्रियमाणानां चक्षुः कुत्र प्रतिगच्छति । तत उपरि सूर्याभावात् । आकाशमक्रियं सत् अप्रतिशरणं भवति । इन्द्रियाणि न प्रतिगच्छन्ति । संस्कृतधर्माणां क्षणिकत्वात् ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
