Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/16

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

गण्डव्यूहसूत्र

Thông tin
GRETIL — P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तस्य परेण मेरुश्रीर्नाम तथागतो ऽभूत् / तस्य परेण पद्मगर्भो नाम तथागतो ऽभूत् / तस्य परेण वैरोचनो नाम तथागतः / तस्य परेण समन्तचक्षुर्नाम् तथागतः / तस्य परेण ब्रह्मशुद्धो नाम तथागतः / तस्य परेण वज्रनाभिर्नाम तथागतः / तस्य परेण वरुणदेवो नाम तथागतो ऽभुत् / अनेन कुलपुत्र पर्यायेण जातिपरंपरया कल्पपरंपरया बुद्धपरंपरामवतरन्ती अनुस्मरमाणा तथागतानर्हतो ऽनन्तर्यतया षट्त्रिंशद्गङ्गानदीवालुकासमांस्तथागताननुस्मरामि, ये मया आरागिता उपस्थिताः पूजिता अर्चिताः येषां मया अन्तिकाद्धर्मदेशना श्रुता, येषां च मे शासने ब्रह्मचर्यं चीर्णम् / अत उत्तरि कुलपुत्र तथागताः प्रजानन्ति, यावन्तो मया तथागता आरागिताः /

अप्रमाणाः कुलपुत्र बोधिसत्त्वाः प्रथमचित्तोत्पादेनैव सर्वधर्मधातुस्फरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः महाकरूणानयेन सर्वजगदन्तर्गततया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा महाप्रणिधानदशदिग्धर्मधातुतलनिष्ठानुगमनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा महामैत्र्या सर्वजगत्स्फरणतया, अप्रमाणाः कुलपुत्र, बोधिसत्त्वा बोधिसत्त्वचर्यया सर्वक्षेत्रेषु सर्वकल्पसमवसरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः समाधिबलेन बोधिसत्त्वमार्गाप्रत्युदावर्तनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा धरणीबलेन सर्वजगत्संधारणधारणीनयानुगमनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा ज्ञानालोकबलेन त्र्यध्वज्ञानयानुगमनसंधारणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा अभिज्ञाबलेन सर्वक्षेत्रेषु यथाशयसत्त्वाभिरुचितप्रभाजालचक्राभिनिर्हरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः प्रतिसंविद्बलेन एकघोषोदाहारसर्वजगत्संतोषणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः कायविशुद्धया सर्वबुद्धक्षेत्रस्वशरीरस्फरणतया //

सुधन आह - कियच्चिरेण आर्ये त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे? आह - न खलु कुलपुत्र एकसत्त्वारम्बणतया बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत परिपाकविनयाय / न सत्त्वशतस्यार्थाय, न सत्त्वसहस्रस्य, न सत्त्वशतसहस्रस्य, न सत्त्वकोटेः, न सत्त्वकोटीशतस्य, न सत्त्वकोटीसहस्रस्य, न सत्त्वकोटीनियुतशतसहस्रस्य अर्थाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते /

न सत्त्वकङ्करस्यार्थाय, न सत्त्वबिम्बरस्य, न सत्त्वप्रवरस्य, न सत्त्वपरमस्य, न सत्त्वावरस्य, न सत्त्वासीनस्य, न सत्त्वानौपम्यस्य, न सत्त्वनेमस्य, न सत्त्वविपासस्य, न सत्त्वमृगवस्य, न सत्त्वविनाहस्य, न सत्त्वविरागस्य, न सत्त्वावगमस्य, न सत्त्वविवगस्य, न सत्त्वसंक्रमस्य, न सत्त्वविसरस्य, न सत्त्वविजङ्गस्य, न सत्त्वविस्रोतसः, न सत्त्वविवाहस्य, न सत्त्वविभक्तेः, न सत्त्वविग्धन्तस्य, न सत्त्वतुलनस्य, न सत्त्वातुलस्य, न सत्त्ववरणस्य, न सत्त्वविवरणस्य, न सत्त्ववनस्य, न सत्त्वविवर्णस्य, न सत्त्वसाम्यस्य, न सत्त्ववरणस्य, न सत्त्वविचारस्य, न सत्त्वविसारस्य, न सत्त्वव्यत्यस्तस्य, न सत्त्वाभ्युद्गतस्य, न सत्त्वविसृष्टस्य, न सत्त्वदेवलस्य, न सत्त्वपरिभेदस्य, न सत्त्वविक्षोभस्य, न सत्त्वपलिगुञ्जस्य, न सत्त्वहरितस्य, (gv 83) न सत्त्वालोकस्य, न सत्त्वेन्द्रियस्य, न सत्त्वहेलुकस्य, न सत्त्वदुर्बुदस्य, न सत्त्वहरुणस्य, न सत्त्वमालुतस्य, न सत्त्वमैलुतस्य, न सत्त्वक्षयस्य, न सत्त्वाक्षयमुक्तस्य, न सत्त्वैलतायाः, न सत्त्वमालुतायाः, न सत्त्वमण्डुमायाः, न सत्त्वविषमतायाः, न सत्त्वसमतायाः, न सत्त्वप्रमन्तायाः, न सत्त्वप्रमर्तायाः, न सत्त्वामन्त्रायाः, न सत्त्वान्नमन्त्रायाः, न सत्त्वसङ्गमन्त्रायाः, न सत्त्वविमन्त्रायाः न सत्त्वहिमन्त्रायाः न सत्त्वपरमन्त्रायाः, न सत्त्वशिवमन्त्रायाः, न सत्त्वैलायाः, न सत्त्ववेलायाः, न सत्त्वतेलायाः, न सत्त्वशैलायाः, न सत्त्वकेलायाः, न सत्त्वशिलायाः, न सत्त्वश्वेलायाः, न सत्त्वनेलायाः, न सत्त्वभेलायाः, न सत्त्वसेलायाः, न सत्त्वपेलायाः,

न सत्त्वहेलायाः, न सत्त्वमेलायाः, न सत्त्वसरडस्य, न सत्त्वमारुतस्य, न सत्त्वमेरुतस्य, न सत्त्वखेलुतस्य, न सत्त्वमालुतस्य, न सत्त्वमुलुतस्य, न सत्त्वाजवस्य, न सत्त्वकमलस्य, न सत्त्वकमरस्य, न सत्त्वातरस्य, न सत्त्वहेलुवस्य, न सत्त्ववेलुवस्य, न सत्त्वजावकस्य, न सत्त्वहवस्य, न सत्त्वहवलस्य, न सत्त्वबिम्बरस्य, न सत्त्वबिम्बहुरस्य, न सत्त्वचरणस्य, न सत्त्वचरमस्य, न सत्त्वपरवस्य, न सत्त्वधवरस्य, न सत्त्वप्रमदस्य, न सत्त्वविगमस्य, न सत्त्वोद्वर्तनस्य, न सत्त्वनिर्देशस्य, न सत्त्वक्षयस्य, न सत्त्वसंभूतस्य, न सत्त्वममस्य, न सत्त्ववदस्य अर्थाय, न सत्त्वोत्पलस्य, न सत्त्वपद्मस्य, न सत्त्वसंख्यायाः, न सत्त्वोपागमस्य, न सत्त्वगत्याः न सत्त्वासंख्येयस्य, न सत्त्वासंख्येयपरिवर्तस्य, न सत्त्वापरिमाणस्य, न सत्त्वापरिमाणपरिवर्तस्य, न सत्त्वापर्यन्तस्य,न सत्त्वापर्यन्तओपरिवर्तस्य, न सत्त्वासमन्तस्य, न सत्त्वासमन्तपरिवर्तस्य, न सत्त्वागणेयस्य,न सत्त्वागणेयपरिवर्तस्य, न सत्त्वातुल्यस्य, न सत्त्वातुल्यपरिवर्तस्य, न सत्त्वाचिन्त्यस्य, न सत्त्वाचिन्त्यपरिवर्तस्य, न सत्त्वापर्यन्तस्य, न सत्त्वापर्यन्तपरिवर्तस्य, न सत्त्वामाप्यस्य, न सत्त्वामाप्यपरिवर्तस्य, न सत्त्वानभिलाप्यस्य, न सत्त्वानभिलाप्यपरिवर्तस्य, न सत्त्वानभिलाप्यानभिलाप्यस्य अर्थाय, न सत्त्वानभिलाप्यानभिलाप्यपरिवर्तस्यार्थाय /

नैकलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न यावदनभिलाप्यानभिलाप्यलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न चातुर्द्वीपकलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न सहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न द्विसाहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न यावदनभिलाप्यानभिलाप्यत्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत परिपाकविनयाय, अपि तु अशेषनिःशेषानवशेषसर्वलोकधातुपर्यापन्नानां सर्वसत्त्वानामर्थाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत परिपाकविनयाय / नैकबुद्धारागणतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत आरागणाभिराधनपूजोपस्थानतायै / न दशबुद्धारागणाभिराधनपूजोपस्थानतायै, न यावदनभिलाप्यानभिलाप्यलोकधातुपरमाणुरजःसमबुद्धारागणाभिराधनपूजोपस्थानतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकलोकधातुपर्यापन्नबुद्धवंशारागणाभिराधनपूजोपस्थानतायै, (gv 84) न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नतथागतवंशारागणाभिराधनपूजोपस्थानतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकबुद्धक्षेत्रपरिशोधनाय, न यावदनभिलाप्यानभिलाप्यलोकधातुपरमाणुरजःसमबुद्धक्षेत्रपरिशोधनाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते /

नैकतथागतशासनसंधारणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजः समतथागतशासनसंधारणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकबुद्धप्रस्थानप्रणिधानविमात्रतावतरणाय न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमबुद्धप्रस्थानप्रणिधानविमात्रावरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकतथागतबुद्धक्षेत्रव्यूहावतरणतायै, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमतथागतबुद्धक्षेत्रव्यूहावतरणाय, बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकबुद्धपर्षन्मण्डलविभक्त्यवतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमबुद्धपर्षन्मण्डलविभक्त्यवतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकतथागतधर्मचक्रसंधारणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमतथागतधर्मचक्रसंधारणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकसत्त्वचित्तसमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमसत्त्वचित्तसमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकसत्त्वेन्द्रियचक्रपरिज्ञायै, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमसत्त्वेन्द्रियपरिज्ञायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकसत्त्वेन्द्रियसागरावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमसत्त्वेन्द्रियसागरावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते /

नैकलोकधातुकल्पपरंपरावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुकल्पपरंपरावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकलोकधातुपर्यापन्नसर्वसत्त्वचर्यावासनानुसंध्यवतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नसर्वसत्त्वचर्यावासनानुसंध्यवतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकलोकधातुपर्यापन्नसर्वसत्त्वक्लेशसमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नसर्वसत्त्वसर्वक्लेशसमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकलोकधातुपर्यापन्नसर्वसत्त्वसर्वकर्मसमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणूरजसमलोकधातुपर्यापन्नसर्वसत्त्वसर्वकर्मसमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / नैकलोकधातुपर्यापन्नसर्वसत्त्वसर्वचर्यासमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नसर्वसत्त्वसर्वचर्यासमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / अपि तु अशेषनिःशेषानवशेषसर्वसत्त्वधातुपरिपाकविनयाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / अनवशेषसर्वबुद्धारागणाभिराधनपूजोपस्थानतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते / अनवशेषसर्वलोकधातुपर्यापन्नसर्वबुद्धवंशारागणाभिराधनपूजोपस्थानतायै (gv 85) बोधिसत्त्वानां प्रणिध्यभिलाषो भवति / अनवशेषसर्वबुद्धक्षेत्रपरिशोधनाय बोधिसत्त्वानामाशयो दृढीभवति /

अनवशेषसर्वबुद्धशासनसंधारणाय बोधिसत्त्वानां प्रयोगः संभवति / अनवशेषसर्वतथागतप्रस्थानप्रणिधिविमात्रतानुगमाय बोधिसत्त्वानां चित्तवेगाः प्रादुर्भवन्ति / अनवशेषसर्वतथागतसर्वबुद्धक्षेत्रगुणव्यूहावतरणाय बोधिसत्त्वानां व्यवसाय उत्पद्यते / अनवशेषसर्वतथागतपर्षन्मण्डलसमुद्रावतरणाय बोधिसत्त्वानामभिलाषः प्रभवति / अनवशेषसर्वजगच्चित्तसागरावगाहनतायै बोधिसत्त्वानां प्रार्थना संजायते / अनवशेषसर्वसत्त्वेन्द्रियचक्रपरिज्ञायै बोधिसत्त्वानामभिकाङ्क्षोत्पद्यते / अनवशेषसर्वसत्त्वेन्द्रियसागरावतरणतायै बोधिसत्त्वानामुत्सोढिराजायते / अनवशेषसर्वलोकधातुकल्पपरंपरावतरणाय बोधिसत्त्वानां छन्दः संभवति / अनवशेषसर्वसत्त्वक्लेशवासनानुसंधिसमुच्छेदाय बोधिसत्त्वानां पराक्रम आजायते / अनवशेषसर्वसत्त्वकर्मक्लेशसमुद्रोच्छोषणाय बोधिसत्त्वानां महाज्ञानसूर्य उदागच्छति / अनवशेषसर्वसत्त्वचर्यापरिज्ञायै बोधिसत्त्वानां प्रज्ञालोकः प्रादुर्भवति / अनवशेषसर्वसत्त्वदुःखाग्निस्कन्धप्रशमनाय बोधिसत्त्वानां महाकरूणामेघः समुदागच्छति / संक्षेपएण कुलपुत्र एतत्प्रमुखानि दश बोधिसत्त्वचर्यानयमुखासंख्येयशतसहस्राणि, यानि बोधिसत्त्वेन समुदानयितव्यानि / अपि तु खलु पुनः कुलपुत्र सर्वधर्मसमवसरणा बोधिसत्त्वानां चर्या यदुत ज्ञानानुगमाय / सर्वक्षेत्रसमवसरणा बोधिसत्त्वानां चर्या यदुत परिशोधनतायै / तस्या मम कुलपुत्र एवंप्रणिधेर्यन्निष्ठा काम धातुविशुद्धिः, तन्निष्ठानि मम प्रणिधानानि भवन्तु /

यन्निष्ठा लोकधातुविशुद्धिः, तन्निष्ठानि मम प्रणिधानानि भवन्तु / या निष्ठा सर्वसत्त्वक्लेशवासनानुसंध्यनुशयानाम्, तन्निष्ठानि मम प्रणिधानानि भवन्तु //

आह - को नाम आर्ये एष विमोक्षः? आह - अशोकक्षेमध्वजो नाम कुलपुत्र एष विमोक्षः / एतमहं कुलपुत्र, एकं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं सागरसमचित्तानां बोधिसत्त्वानां सर्वबुद्धधर्मसंप्रतीच्छनतया, मेरुकल्पानां दृढाध्याशयतया, सुदर्शनभैषज्यराजोपमानां सर्वसत्त्वक्लेशव्याधिप्रमोक्षणतया, आदित्यकल्पानां सर्वसत्त्वाविद्यान्धकारविधमनतया, धरणीसमचित्तानां सर्वसत्त्वाश्रयप्रतिष्ठानभूततया, मारूतसदृशानां सर्वजगदर्थकरणतया, प्रदीपभूतानां सर्वसत्त्वज्ञानालोककरणतया, मेघोपमानां शान्तनिर्घोषयथावद्धर्मप्रवर्षणतया, चन्द्रोपमानां पुण्यरश्मिजालप्रमोचनतया, शक्रोपमानां सर्वजगदारक्षाप्रतिपन्नतया चर्या ज्ञातुं गुणान् वा वक्तुम्, अचिन्त्या वा बोधिसत्त्वशिक्षाः प्रभावयितुम्, अनन्तमध्या वा बोधिसत्त्वप्रणिधिविकल्पाः संदर्शयितुम् //

गच्छ कुलपुत्र अयमिहैव दक्षिणापथे समुद्रवेताल्यां नालयुर्नाम जनपदः / तत्र भीष्मोत्तरनिर्घोषो नाम ऋषिः प्रतिवसति / तमुपसंक्रम्य परिपृच्छ / स ते कुलपुत्र बोधिसत्त्वचर्यामुपदेक्ष्यति // अथ खलु सुधनः श्रेष्ठिदारक आशाया उपासिकायाः पादौ शिरसाभिवन्द्य आशामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रणिपत्य अश्रुमुखो रुदन् बोधिपरमदुर्लभतामनुविचिन्तयन्, कल्याणमित्रदुरारागणतामनुविचिन्तयन्, सत्पुरुषसमवधानसुदुर्लभतामनुविचिन्तयन्, बोधिसत्त्वेन्द्रियप्रतिलाभदुरभिसंभवतामनुविचिन्तयन्, बोधिसत्त्वाशयविशुद्धिदुर्लभतामनुविचिन्तयन्, सभागमित्रसमवधानदुर्लभतामनुविचिन्तयन्, यथावद्बोध्यभिमुखचित्तनिध्यप्तिदुर्लभतामनुविचिन्तयन्, अविषमधर्मनयानुशासनीप्रयोगदुर्लभतामनुविचिन्तयन्, असंहार्यचित्तकल्याणतायोगसंजननदुर्लभतामनुविचिन्तयन्, सर्वज्ञतावेगविवर्धनधर्मालोकसुदुर्लभतामनुविचिन्तयन्, आशाया उपासिकाया अन्तिकात्प्रक्रान्तः // 8 // 11 भीष्मोत्तरनिर्घोषः /

अथ खलु सुधनः श्रेष्ठिदारको बोधिसत्त्वानुशासन्यनुगतचित्तो बोधिसत्त्वचर्यापरिशोधनानुगतचित्तो बोधिसत्त्वपुण्यबलविवर्धनचित्तो बुद्धदर्शनवेगावभासितचित्तो धर्मनिधानप्रतिलाभसंजातचित्तवेगो महाप्रणिधानाभिनिर्हारप्रवर्धितचित्तवेगः सर्वधर्मदिगभिमुखचित्तो धर्मस्वभावावभासितचित्तः सर्वावरणविकिरणचित्तो निरन्धकारधर्मधातुव्यवलोकनचित्तो नारायणवज्ररत्नाभेद्यविमलाशयचित्तः सर्वमारबलदुर्योधनदुर्धर्षणचित्तो ऽनुपूर्वेण येन नालयुर्जनपदः तेनोपसंक्रम्य भीष्मोत्तरनिर्घोषमृषिमन्वेषते स्म / तेन च समयेन भीष्मोत्तरनिर्घोषर्षिरन्यतमस्मिन्नाश्रमपदे विहरति स्म असंख्येयविचित्रद्रुमलतावनरमणीये विविधवृक्षपत्रसंछन्ने सदाप्रफुल्लितविचित्रपुष्पवृक्षे सदाफलोपचितफलवृक्षे नानारत्नवृक्षोदारमणिफलकसंस्कृततले सुविभक्तमहाचन्दनद्रुमे मनोज्ञागरुवृक्षसदाप्रमुक्तगन्धोपशोभिते चतुर्दिक्षुविभक्तगन्धोपशोभिते चतुर्दिक्षु विभक्तपाटलीवृक्षसमलंकृते न्यग्रोधवृक्षपादपरुचिरसंस्थाने सदापक्वफलजम्बूवृक्षप्रवर्षणे नवनलिनीपद्मोत्पलकुमुदोपशोभिते / अद्राक्षीत्सुधनः श्रेष्ठिदारको भीष्मोत्तरनिर्घोषमृषिं दशऋषिसहस्रपरिवृतं चन्दनतलावबद्धायां कुट्यां जटामकुटधारिणमजिनदर्भचीवरवल्कलवसनं तृणसंस्तरोपविष्टम् / दृष्ट्वा च पुनर्येन भीष्मोत्तरनिर्घोष ऋषिस्तेनोपजगाम /

उपेत्य भूतकल्याणमित्रप्रतिलम्बनाशयकल्याणमित्रायद्वारां सर्वज्ञतां संपश्यन्, भूतमार्गोपनयाय कल्याणमित्रानुशासन्यधीनां सर्वज्ञतां संपश्यन्, सर्वज्ञताभूम्युपनयेन कल्याणमित्रदासाधीनां सर्वज्ञतां संपश्यन्, दशबलज्ञानरत्नद्वीपोपनयेन कल्याणमित्रोल्कावभासितां सर्वज्ञतां संपश्यन्, दशबलज्ञानालोकसंजननतया कल्याणमित्रमार्गां सर्वज्ञतां संपश्यन्, अक्षुण्णसर्वज्ञतापुरप्रापणतया कल्याणमित्रप्रदीपां सर्वज्ञतां संपश्यन्, समविषमसंदर्शनतया कल्याणमित्रं सेतुं सर्वज्ञतायाः संपश्यन्, सर्वप्रपातभयविगमनतया कल्याणमित्रच्छत्रां सर्वज्ञतां संपश्यन्, महामैत्रीबलाह्लादसंजननतया कल्याणमित्रवेगां सर्वज्ञतां संपश्यन्, महाकरुणासंजननतया कल्याणमित्राधीनां सर्वज्ञतादर्शनपरिपुष्टिं संपश्यन्, धर्मस्वभावनयावभासनतया सर्वशरीरेण प्रणिपत्य उत्थाय भीष्मोत्तरनिर्घोषमृषिं अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्राञ्जलिभूतः पुरतः स्थित्वा मनोज्ञोपचारेण मनोज्ञां वाचमुदीरयन् एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति / तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् //

अथ खलु भीष्मोत्तरनिर्घोषऋषिस्तानि दश माणवकसहस्राण्यनुविलोक्य एवमाहअनेन माणवकाः कुलपुत्रेण अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / सर्वसत्त्वाश्चाभयेनोपनिमन्त्रिताः / अयं स कुलपुत्राः सर्वसत्त्वहितसुखाय प्रत्युपस्थितो ज्ञानसागराभिमुखः (gv 88) सर्वतथागतानां धर्ममेघान् धातुकामः सर्वधर्मनयसागरानवगाहयितुकामः महाज्ञानालोके ऽवस्थातुकामो महाकरुणामेघमुपस्थापयितुकामो महाधर्मवर्षमभिप्रवर्षयितुकामो महाज्ञानालोके चन्द्रे उदागत्य सर्वक्लेशप्रतापं प्रशमयितुकामो सर्वसत्त्वकुशलमूलानि वर्धयितुकामः //

अथ खलु तानि दश माणवकसहस्राणि नानावर्णैः सुरुचिरैः सुगन्धैः पुष्पैः सुधनं श्रेष्ठिदारकमवकीर्य अभ्यवकीर्य अभिवन्द्य नमस्कृत्वा प्रणिपत्य प्रदक्षिणीकृत्य एवं वाचमुदीरयामासुः - एष त्राता भविष्यति, सर्वसत्त्वानां सर्वनिरयदुःखानि प्रशमयिष्यति / सर्वतिर्यग्योनिगतिं व्यवच्छेत्स्यति / सर्वयमलोकगतिं विनिवर्तयिष्यति / सर्वाक्षणद्वारकपाटानि पिथपयिष्यति / तृष्णासमुद्रमुच्छोषयिष्यति / तृष्णाबन्धनं छेत्स्यति / दुःखस्कन्धं विनिवर्तयिष्यति / अविद्यान्धकारं विधमयिष्यति / पुण्यचक्रवालं लोके परिसंस्थापयिष्यति / ज्ञानरत्नाकरमुपदर्शयिष्यति / ज्ञानसूर्यमुदागमिष्यति / धर्मचक्षुर्विशोधयिष्यति / समविषमं लोके संप्रकाशयिष्यति / अथ खलु भीष्मोत्तरनिर्घोष ऋषिः तान् माणवकानेवमाह - येन माणवका अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं भवति, स बोधिसत्त्वचर्यां चरन् सर्वसत्त्वानां सुखमुत्पादयति, अनुपूर्वेण च सर्वज्ञतां प्रतिलभते / अनेन माणवकाः कुलपुत्रेण अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / स एष सर्वबुद्धगुणभूमिं परिपूरयिष्यति / अथ खलु भीष्मोत्तरनिर्घोष ऋषिः सुधनं श्रेष्ठिदारकमेतदवोचत् - अहं कुलपुत्र अपराजितध्वजस्य बोधिसत्त्वस्य विमोक्षस्य लाभी / सुधन आह - क एतस्य आर्य अपराजितध्वजस्य बोधिसत्त्वविमोक्षस्य विषयः? ततो भीष्मात्तरनिर्घोषऋषिः दक्षिणं पाणिं प्रसार्य सुधनं श्रेष्ठिदारकं शिरसि परिमार्ज्य दक्षिणेन पाणिना पर्यगृह्णात् /

समनन्तरपरिगृहीतश्च सुधनः श्रेष्ठिदारको भीष्मोत्तरनिर्घोषेण ऋषिणा दक्षिणेन पाणिना, अथ तावदेव सुधनः श्रेष्ठिदारको ऽपश्यद्दशसु दिक्षु दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानि बुद्धक्षेत्राणि / तेषु च दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानां तथागतानां पादमूलगतमात्मानं संजानाति स्म / तानि च बुद्धक्षेत्राण्यपश्यदसंख्येयाकारविशुद्धव्यूहानि / तेषु च तथागतपर्षन्मण्डलसमुद्रान्नानावर्णविचित्रव्यूहानपश्यत् / तेषु च पर्षन्मण्डलसमुद्रेषु तथागतशरीराणि लक्षणानुव्यञ्जनोज्ज्वलितोपचितान्यपश्यत् / तेभ्यश्च धर्मदेशनां शृणोत्येकपदव्यञ्जनापराङ्भुखाम् / तानि च तथागतधर्मचक्राण्यन्योन्यासंभिन्नानि संधारयति / तांश्च धर्ममेघान्नानासत्त्वाशयेषु प्रवर्षणां संप्रतीच्छति / तेषां च तथागतानां नानाधिमुक्तिबलविशोधितं पूर्वप्रणिधानसमुद्रानवतरति / तांश्च नानाप्रणिधानसागरविशुद्धान् बुद्धसमुदागमसमुद्रानवतरति / तांश्च यथाशयसर्वसत्त्वसहस्रसंतोषणविज्ञापनान् बुद्धवर्णानद्राक्षीत् / तानि च बुद्धरश्मिजालानि नानाविरागविशुद्धव्यूहमण्डलान्यपश्यत् / तानि च बुद्धबलान्यनावरणज्ञानालोकानुगमेनावतरति / स क्वचित्तथागतपादमूले रात्रिंदिवं संजानाति / क्वचित्सप्त रात्रिंदिवानि, क्वचिदर्धमासम्, क्वचिन्मासम्,क्वचित्संवत्सरं क्वचिद्वर्षशतं क्वचिद्वर्षसहस्रं क्वचिद्वर्षशतसहस्रं क्वचिद्वर्षकोटिं (gv 89) क्वचिद्वर्षकोटीशतं क्वचिद्वर्षकोटिसहस्रं क्वचिद्वर्षकोटीशतसहस्रं क्वचिद्वर्षकोट्ययुतं क्वचिद्वर्षकोटीनियुतं क्वचिदर्धकल्पं संजानाति /

क्वचित्कल्पं क्वचित्कल्पशतं क्वचित्कल्पसहस्रं क्वचित्कल्पशतसहस्रं क्वचित्कल्पकोटीं क्वचित्कल्पकोटीशतं क्वचित्कल्पकोटीसहस्रं क्वचित्कल्पकोटीशतसहस्रं क्वचित्कल्पकोटीनियुतशतसहस्रं क्वचित्तथागतपादमूले यावदनभिलाप्यानभिलाप्यान् कल्पान् संजानाति / क्वचित्तथागतपादमूले जम्बूद्वीपपरमाणुरजःसमान् कल्पान् संजानाति / क्वचिद्यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् संजानाति अपराजितध्वजबोधिसत्त्वविमोक्षज्ञानावभासितो वैरोचनगर्भसमाध्यवभासप्रतिलब्धः अक्षयज्ञानविमोक्षसमाध्यनुगतः समन्तदिक्पञ्जरधारणीमुखावलोकप्रतिलब्धो वज्रमण्डलधारणीमुखावभासितचित्तः सुविभक्तज्ञानकूटविषयसमाधिविहारप्रतिलब्धः समन्ततलव्यूहमार्गप्रज्ञापारमिताविहारविषयो बुद्धगगनगर्भमण्डलसमाध्यालोकप्रसृतः सर्वबुद्धधर्मचक्रनेमिसमाध्यवभासितचित्तः त्र्यध्वज्ञानरत्नाक्षयमण्डलसमाध्यालोकप्राप्तः //

अथ खलु भीष्मोत्तरनिर्घोष ऋषिः सुधनं श्रेष्ठिदारकं व्यमुञ्चत् / स पुनरपि भीष्मोत्तरनिर्घोषस्य ऋषेः पुरतः स्थितमात्मानं संजानाति / तं भीष्मोत्तरनिर्घोष ऋषिराह - स्मरसि कुलपुत्र? आह - स्मरामि आर्य कल्याणमित्राधिष्ठानेन / आह - एतमहं कुलपुत्र अपराजितध्वजं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं सर्वजगद्विशेषज्ञानाभिज्ञावतारसमाधिप्रतिलब्धानां बोधिसत्त्वानां सर्वकालचक्रवशवर्तिनां बुद्धलक्षणज्ञानाभिनिर्हारकुशलानां तथागतदिवसावक्रान्तिविज्ञप्तिव्यूहानां त्र्यध्वविषयैकलक्षणज्ञानसमवसरणानां सर्वलोकधातुसुविभक्तकायानां सर्वधर्मधात्ववभासितज्ञानशरीराणां सर्वसत्त्वयथाशयाभिमुखाभ्युत्थितानां यथाशयसत्त्वचर्याविचारानुकूलोपचाराणां समन्ताभिरुचितरोचनानाम् अमलविपुलरुचिरज्ञानमण्डलविशुद्धानां चर्या ज्ञातुं गुणा वा वक्तुं प्रणिधिविशेषो वा सूचयितुं क्षेत्राभिसंस्कारो वा ज्ञातुं ज्ञानविषयो अवगाहितुं समाधिगोचरो वा अनुसर्तुं ऋद्विविकुर्वितं वा अवतरितुं विमोक्षवृषभिताविक्रीडितं वा अनुगन्तुं शरीरविभक्तिनिमित्तं वा उद्ग्रहीतुं स्वरमण्डलविशुद्धिर्वा प्रभावयितुं ज्ञानावभासो वा निदर्शयितुम् //

गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे ईषाणो नाम जनपदः / तत्र जयोष्मायतनो नाम ब्राह्मणः प्रतिवसति / तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् // अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भीष्मोत्तरनिर्घोषस्य ऋषेः पादौ शिरसाभिवन्द्य भीष्मोत्तरनिर्घोषं ऋषिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य भीष्मोत्तरनिर्घोषस्य ऋषेरन्तिकात्प्रक्रान्तः // 9 // 12 जयोष्मायतनः /

अथ खलु सुधनः श्रेष्ठिदारको ऽपराजितध्वजबोधिसत्त्वविमोक्षज्ञानावभासितः अचिन्त्यबुद्धविषयविकुर्वितप्रत्यक्षविहारी अचिन्त्यबोधिसत्त्वविमोक्षप्रत्यक्षज्ञानाभिज्ञः अचिन्त्यबोधिसत्त्वसमाधिज्ञानावभासितचित्तः सर्वकालसमवसरणसमाधिज्ञानावभासप्रतिलब्धः सर्वसंज्ञासंगतसमवसरणसमाधिविषयावभासितः सर्वजगद्विशेषवतिज्ञानालोकप्रतिलब्धः सर्वत्र्यध्वानुगतगोचरविहाराभिमुखः अद्वयविकल्पसमतानिर्देशज्ञानपरमः सर्वारम्बणप्रसरितज्ञानालोकः सत्त्वश्रद्धाभिमुखक्षान्तिविशुद्धयधिमुक्तिकोशकुशलः स्वभावधर्मक्षान्तिनिश्चयज्ञानालोकप्रतिलब्धः सर्वत्रानुगताभिज्ञबोधिसत्त्वचर्यास्वभावभावनाविरहितचित्तः सर्वज्ञतावेगाविवर्त्यचित्तो दशबलज्ञानविद्युदवभासप्रतिलब्धः धर्मधातुनिर्घोषाभिलाषावितृप्तचित्तः सर्वज्ञताविहारगोचरावतरणप्रतिपत्तिचित्तः अनन्तबोधिसत्त्वचर्याव्यूहाभिनिर्हारचित्तो ऽनन्तबोधिसत्त्वमहाप्रणिधानमण्डलपरिशोधनचित्तः अनन्तमध्यलोकधातुजालाक्षयानुगमज्ञानाभिमुखचित्तः अनन्तसत्त्वसागरपरिपाकविनयासंकुचितचित्तः अनन्तबोधिसत्त्वचर्याविषयं संपश्यन् अनन्तलोकधातुगतिविमात्रतां संपश्यन् अनन्तलोकधातुविभक्तिविचित्रतां संपश्यन् अनन्त लोकधातुसूक्ष्मोदारारम्बणान्तर्गतां संपश्यन् अनन्तलोकधातुप्रतिष्ठानसंज्ञाजालविचित्रितां संपश्यन् अनन्तलोकधातुव्यवहारप्रज्ञप्तिसंवृतिविमात्रतां संपश्यन् अनन्तसत्त्वाधिमुक्तिविमात्रतां संपश्यन् अनन्तसत्त्वविभक्तिविमात्रतां संपश्यन् अनन्तसत्त्वपरिपाकविनयानुगमं संपश्यन् अनन्तसत्त्वदिक्कालसंज्ञागतविचित्रतां संपश्यन् कल्याणमित्राण्यभिमुखीकुर्वाणो ऽनुपूर्वेण येन ईषाणे जनपदे जयोष्मायतनो ब्राह्मणः, तेनोपसंक्रान्तः / तेन च समयेन जयोष्मायतनो ब्राह्मण उग्रं तपः तप्यति सर्वज्ञतामारम्बणीकृत्य / तस्य चतुर्दिशं महानग्निस्कन्धः पर्वतमात्रोज्ज्वलितः / अभ्युद्गतमहापर्वतप्रपातः क्षुरधारामार्गः संदृश्यते //

अथ खलु सुधनः श्रेष्ठिदारको जयोष्मायतनस्य ब्राह्मणस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति / तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / स आह - गच्छ कुलपुत्र, एतं क्षुरधारमार्गं पर्वतमभिरुह्य अत्र अग्निखदायां प्रपत / एवं ते बोधिसत्त्वचर्या परिशुद्धिं गमिष्यति //

अथ खलु सुधनस्य श्रेष्ठिदारकस्य एतदभवत् - दुर्लभा अष्टाक्षणविनिवृत्तिः / दुर्लभो मानुष्यप्रतिलाभः / दुर्लभा क्षणसंपद्विशुद्धिः / दुर्लभो बुद्धोत्पादः / दुर्लभा अविकलेन्द्रियता / दुर्लभो बुद्धधर्मश्रवः / दुर्लभं सत्पुरुषसमवधानम् / दुर्लभानि भूतकल्याणमित्राणि / दुर्लभो भूतनयानुशासनोपसंहारः / दुर्लभं सम्यग्जीवितं मनुष्यलोके / दुर्लभा धर्मानुधर्मप्रतिपत्तिः / मा हैवायं मारो भविष्यति माराधिष्ठितो वा मारकायिको वा कल्याणमित्रप्रतिरूपको वा बोधिसत्त्वखण्डको वा, यो मम कुशलमूलान्तरायाय प्रतिपन्नः, यो मम जीवितनिरोधाय (gv 91) अभ्युत्थितः / मा हैव ममान्तरायं कर्तुकामः सर्वज्ञतायाम् / मा खलु मां विषमेण पथा प्रणेतुकामः / मा खलु मे धर्ममुखान्तरायं कर्तुकामो बुद्धधर्माधिगमाय / तस्यैवं चिन्तामनसिकारप्रयुक्तस्य दश ब्रह्मसहस्राण्युपर्यन्तरिक्षे स्थित्वा एवमाहुः - मा कुलपुत्र एवं चेतनां दृढीकार्षीः / एष कुलपुत्र आर्यो वज्रार्चिःसमाध्यवभासलब्धः अविवर्त्यवीर्यो महारम्भोत्तारणप्रतिपन्नः, सर्वजगत्स्नेहपर्यादानायाभ्युत्थितः, सर्वदृष्टिगतजालदालनाय प्रयुक्तः, सर्वक्लेशकर्मकक्षनिर्दहनाय प्रत्युपस्थितः, सर्वाक्षणज्ञानकान्तारावभासनायोद्युक्तः, सर्वसत्त्वजरामरणप्रपातभयविनिवर्तनाय व्यवस्थितः, त्र्यध्वान्धकारविधमनतायै अभियुक्तः, सर्वधर्मरश्मिप्रमुञ्चनतायै प्रतिपन्नः / एतस्य हि कुलपुत्र, पञ्चतपस्तप्यमानस्य यावन्तः केचिद्ब्राह्मणाः कर्तृत्वमीश्वरत्वं सर्वलोकज्येष्ठत्वमात्मनि मन्यन्ते विविधदृष्टिगताभिनिविष्टाः तस्य असमोग्रतपोव्रतसमादानप्रभावेण सर्वे स्वभवनेषु न रमन्ते / ते ध्यानरतिमनास्वादयन्तो ऽस्य सकाशमुपसंक्रामन्ति / तानेष आगतानृद्धयनुभावेनाभिभूय उग्रव्रततपसा च तेभ्यः सर्वदृष्टिगतविनिवर्तनाय सर्वमानमदप्रहाणाय च धर्मं देशयति / सर्वजगन्महामैत्रीमहाकरूणास्फरणतायै बोध्याशयदृढीकरणतायै बोधिचित्तोत्पादविपुलकरणतायै सर्वबुद्धसंदर्शनाभिमुखतायै बुद्धस्वरमण्डलप्रतिलम्भपरिपूरणाय सर्वत्रानुरवणबुद्धघोषाप्रतिघातानावरणतायै च धर्मं देशयति //

दश च मारसहस्राण्युपर्यन्तरीक्षे स्थित्वा दिव्यैर्मणिरत्नैरभ्यवकीर्य एवमाहुः - अस्य कुलपुत्र, पञ्चतपस्तप्यतो ऽस्मादर्चिःस्कन्धादाभा निश्चरित्वा अस्मद्भवनान्यात्मभावनाभवनाभरणपरिभोगांश्च जिह्मीकुर्वन्ति / ते वयं संवेगजाताः सपरिवाराः एतस्य सकाशमुपसंक्रमाम / उपसंक्रान्तानां चैषा ऽस्माकं तथा धर्मं देशयति, यथा स्वचित्तप्रतिलब्धा बोधाय चित्तमुत्पाद्य अविनिवर्तनीया भवामो ऽनुत्तरयां सम्यक्संबोधौ //

दश च वशवर्तिदेवराजसहस्राणि दिव्यैः पुष्पैरभ्यवकीर्य एवमाहुः - वयं कुलपुत्र, अस्य पञ्चतपस्तप्यतः स्वभवनेषु रतिं न विन्दामः / ते वयं स्वस्वजनपरिवारा एतस्य सकाशमुपसंक्रमामः / स एषो ऽस्माकमुपसंक्रान्तानां स्वचित्तवशवर्तिताप्रतिलाभाय धर्मं देशयति / सर्वक्लेशवशिताप्रतिलाभाय यथाभिप्रायोपपत्तिवशिताप्रतिलाभाय सर्वकर्मावरणविशुद्धिवशिताप्रतिलाभाय सर्वसमापत्तिवशवर्तिताप्रतिलाभाय परिष्कारवशिताव्यूहपरिशुद्धये यथाभिप्रायवशवर्तितायै च धर्मं देशयति //

दश च सुनिर्मितदेवराजसहस्राण्युपर्यन्तरिक्षे स्थित्वा दिव्यसंगीतप्रयोगनिर्नादमधुरनिर्घोषेण पूजां कृत्वा एवमाहुः - एतस्य कुलपुत्र पञ्चतपस्तप्यत एभ्यो ऽग्निकूटेभ्यस्तद्रूपा प्रभा निश्चरति, यया अस्माकमिमानि विमानान्युत्तप्यन्ते, विशुध्यन्ति, प्रभास्वरतराणि भवन्ति / इमानि चाभरणानि, इमाश्चाप्सरसः, वयमपीदानीं सदेवपुत्राप्सरोगणपरिवारा न कामेषु रतिं विन्दामः / न कामसुखमभिनन्दामः / ते वयं प्रह्लादितकायचित्ताः एतस्य सकाशमुपसंक्रमामः / स एषो ऽस्माकमुपसंक्रान्तानां चित्तविशुद्धये धर्मं देशयति / चित्तप्रभास्वरतायै चित्तकल्याणतायै चित्तकर्मण्यतायै चित्तप्रीतिसंजननतायै दशबलज्ञानप्रतिलाभविशुद्धये (gv 92) महाधर्मवेगविवर्धनतयै कायविशुद्धये अप्रमाणबुद्धकायाभिनिर्हरणतायै वाग्विशुद्धये तथागतघोषप्रतिलाभाय चित्तविशुद्धये सर्वज्ञताप्रतिलाभाय धर्मं देशयति //

दश च संतुषितदेवराजसहस्राणि सदेवपुत्राप्सरगणोपरिवाराणि उपर्यन्तरिक्षे स्थित्वा सर्वगन्धचूर्णमेघवर्षमभिप्रवृष्य पूजयित्वा नमस्कृत्य एवमाहुः - अस्य कुलपुत्र, पञ्चतपस्तप्यमानस्य अस्माकं स्वभवनेषु रतिर्न भवति / ते वयमनभिरताः सन्तः एतस्य सकाशमुपसंक्रमामः / तत एषो ऽस्माकमुपसंक्रान्तानां सर्वविषयानवेक्षतायै धर्मं देशयति / संतुष्टिचित्ततायै चित्तपरितुष्टितायै कुशलमूलसंजननतायै बोधिचित्तोत्पादप्रतिलाभाय यावत्सर्वबुद्धधर्मपरिपूरणाय धर्मं देशयति //

दश च सुयामदेवराजसहस्राणि सदेवपुत्राप्सरोगणपरिवाराणि दिव्यानि मान्दारवकुसुमवर्षाण्यभिप्रवृष्य एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्माकं दिव्यसंगीतिषु रतिर्न भवति / ते वयमनभिरता एतस्य सकाशमुपसंक्रमामः / तत एषो ऽस्माकमुपसंक्रान्तानां सर्वकामरतिविनिवर्तनतायै यावत्सर्वबुद्धधर्मप्रतिलाभाय धर्मं देशयति //

दश च शक्रदेवेन्द्रशतसहस्राणि प्रत्येकं द्वात्रिंशद्भिरुपेन्द्रैः सदेवपुत्राप्सरोगणपरिवारैः सार्धं दिव्यवस्त्ररत्नाभरणकुसुममेघवर्षमभिप्रवृत्य एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्माकं सर्वशक्रभवनोद्यानक्रीडावनदिव्यतूर्यतालोपचारसंगीतिपरिभोगेषु रतिर्न भवति / ते वयमनभिरता एतस्य सकाशमुपसंक्रमामः / तत एषो ऽस्माकमुपसंक्रान्तानां सर्वकामरतिप्रहाणाय धर्मं देशयति / सर्वमिदमनित्यं चलं व्ययधर्ममिति वाचमुदीरयति / सर्वमदप्रमादसमुच्छेदनाय धर्मं देशयति अनुत्तरबोधिच्छन्दविवर्धनतायै / अपि तु खलु पुनः कुलपुत्र अस्य संप्रेक्षितेन इमानि मेरुशिखराणि संप्रकम्पितानि / ते वयं व्यथितसंविग्नचित्ताः सर्वज्ञताचित्तोत्पादनदृढतया सर्वज्ञताज्ञाने प्रणिधिमभिनिर्हरामः //

दश च नागसहस्राणि ऐरावतनन्दोपनन्दनागराजप्रमुखानि उपर्यन्तरिक्षे गतानि दिव्यकालानुसारिचन्दनमेघैर्नागकन्यासंगीतिनिर्नादमधुरनिर्घोषैर्दिव्यगन्धोदकधाराप्रसृतप्रमुक्तैरभिप्रवृष्य एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यत एभ्यो महाग्निस्कन्धराशिभ्य आभाः प्रमुक्ताः सर्वनागभवनान्यवभास्य वालिकावर्षसुपर्णिभयान्यपनयन्ति / क्रोधप्रवृत्तिं चैषां प्रशमयित्वा आशयं प्रह्लाद्य मनः प्रसादयन्ति / तत एषो ऽस्माकं प्रसन्नचित्तानां धर्मं देशयति, यदुत हीननागगतिविजुगुप्सनतायै सर्वावरणीयकर्मप्रहाणाय / अत्ययं देशयित्वा अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य सर्वज्ञतायां प्रतिष्ठापयति //

दश च यक्षेन्द्रसहस्राणि गगनतले स्थित्वा नानाविधया पूजया पूजयित्वा जयोष्मायतनं ब्राह्मणं सुधनं च श्रेष्ठिदारकमेवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्मत्पार्षदानां मनुष्येषु मैत्रं चित्तं संजायते / सर्वयक्षराक्षसकुम्भाण्डाश्च मैत्रचित्ता भवन्ति / ते मैत्रचित्ता (gv 93) अविहेठनप्रतिपन्ना अस्मत्सकाशमुपसंक्रामन्ति - वयमपीदानीं मैत्र्याधिपत्येनाभिभूताः स्वेषु स्वेषु भवनेषु रतिं न विन्दामः / ते वयं सस्वजनपरिवारा एतस्य सकाशमुपसंक्रमामः / तदस्माकमुपसंक्रान्तानामस्य शरीरनिर्याता प्रभा अवभास्य सर्वशरीरं सुखेन स्फरति / स एषो ऽस्माकं प्रीणितकायचित्तानां तथा धर्मं देशयति, यदनेकेषां यक्षराक्षसकुम्भाण्डकटपूतनानां बोधाय चित्तान्युत्पद्यन्ते //

दश च गन्धर्वेन्द्रसहस्राण्युपर्यन्तरिक्षे स्थित्वा एवमाहुः - अस्माकमपि कुलपुत्र स्वभवनेषु वसतामस्य पञ्चतपस्तप्यत एभ्यो ऽग्निकूटेभ्य आभा निश्चरित्वा अस्मद्भवनान्यवभासयति / ते वयं तया प्रभया स्पृष्टा अचिन्त्यसुखसमर्पिता एतस्यान्तिकमुपसंक्रमामः / उपसंक्रान्तानामेषो ऽस्माकं तथा धर्मं देशयति, यदविवर्त्या भवामो ऽनुत्तरायाः सम्यक्संबोधेः //

दश च असुरेन्द्रसहस्राणि महासमुद्रादभ्युद्गम्य आकाशे दक्षिणं जानुमण्डलमवनाम्यकृताञ्जलिपुटानि नमस्यमानानि एवमाहुः - अस्य कुलपुत्र, पञ्चतपस्तप्यतो ऽस्माकं सर्वे ऽसुरलोकाः ससागराणि सशैलानि च महापृथिवीमण्डलानि प्रकम्पन्ते / ततो वयं सवे निहतमानमददर्पा व्रततपोभिभूता एतस्य सकाशमुपसंक्रमामः / उपसंक्रान्तानामेषो ऽस्माकं सर्वमायाशाठ्यप्रहाणाय गम्भीरधर्मक्षान्त्यवताराय अचलधर्मताप्रतिष्ठानाय दशबलज्ञानपरिनिष्पत्तये च धर्मं देशयति //

दश च गरुडेन्द्रसहस्राणि महावेगधारिगरुडेन्द्रप्रमुखानि उदारं माणवकरूपमभिनिर्माय एवमाहुः - अस्य कुलपुत्र, पञ्चतपस्तप्यत एभ्यो ऽग्निराशिभ्यः प्रभा निश्चरित्वा अस्मद्भवनान्यवभास्य संकम्पयति / ते वयं भीतास्त्रस्ताः संविग्नमनस एतस्यान्तिकमुपसंक्रमामः / स एष कुलपुत्र, अस्मान् धर्मदेशनया महामैत्र्यां संनियोजयति / महाकरुणायां समादापयति / संसारसागरावगाहनतायां संनियोजयति / कामपङ्कनिमग्नसत्त्वाभ्युद्धरणाय संनियोजयति / बोध्याशयमुखविशुद्धौ प्रयोजयति / प्रज्ञोपायतीक्ष्णतायां संनियोजयति / यथापरिपक्वसत्त्वविनयायोद्योजयति //

दश च किन्नरेन्द्रसहस्राणि उपर्यन्तरिक्षे स्थित्वा एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यतो वायुसमीरिताभ्यो ऽस्मद्भवनगततालपङ्क्तिभ्यः किङ्किणीजालरत्नसूत्रदामवाद्यवृक्षेभ्यो सर्ववाद्यभाण्डरत्नाभरणगृहपरिभोगेभ्यो बुद्धशब्दो निश्चरति / धर्मशब्दो ऽविवर्त्यबोधिसत्त्वसंघशब्दो बोधिसत्त्वप्रस्थानप्रणिधानशब्दो निश्चरति / अमुष्यां लोकधातुसंख्यायाममुको नाम बोधिसत्त्वो बोधाय प्रणिदधाति / अमुष्यां लोकधातुसंख्यायाममुको नाम बोधिसत्त्वो दुष्करपरित्यागं करोति / अमुष्यां लोकधातुसंख्यायामेवंनामा बोधिसत्त्वो सर्वज्ञताज्ञानमण्डलं परिशोधयति / अमुष्यां लोकधातुसंख्यायामेवंनामा बोधिसत्त्वो बोधिमण्डमुपसंक्रामति / अमुष्यां लोकधातुसंख्यायामेवंनामा बोधिसत्त्वो सवाहनं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / अमुष्यां लोकधातुसंख्यायामेवंनामा तथागतो धर्मचक्रं प्रवर्तयति / अमुष्यां लोकधातुसंख्यायाममुको नाम तथागतो ऽनवशेषबुद्धकार्यं कृत्वा अनुपधिशेषनिर्वाणधातौ (gv 94) परिनिर्वातीति / अपर्यन्तः कुलपुत्र भवेज्जम्बुद्वीपे सर्वतृणकाष्ठशाखापत्रपलाशानां परमाणुभागशः परिच्छिन्नानाम्, न त्वेव तेषां तथागतनाम्नां बोधिसत्त्वप्रणिधीनां बोधिसत्त्वचर्याप्रस्थानविशेषाणाम्, ये ऽस्मद्भवनगततालपङ्किभ्यो यावत्सर्ववाद्यभाण्डरत्नाभरणगृहपरिभोगेभ्यो वायुसमीरितेभ्यो बुद्धधर्मबोधिशब्दा निश्चरन्ति अनुरवन्ति, श्रोत्रविज्ञप्तिमागच्छन्ति / ते वयं कुलपुत्र, बुद्धसंघबोधिसत्त्वप्रस्थानप्रणिधिचर्यानामनिर्घोषेण महाप्रीतिवेगहर्षसंजाता एतस्य सकाशमुपसंक्रमामः / स एषो ऽस्माकमुपसंक्रान्तानां तथा धर्मं देशयति, यदस्मत्परिषदि अनेके सत्त्वा अविवर्त्या भवन्त्यनुत्तरायाः सम्यक्संबोधेः //

अपरिमाणानि च कामावचरदेवपुत्रसहस्राण्युदारोदारवर्णान्याकाशे स्थित्वा मनोमय्या पूजया पूजयित्वा एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यत एभ्यो ऽग्निकूटेभ्यस्तथारूपा प्रभा निश्चरन्ति, यया प्रभया अवीचिपर्यन्तान् सर्वनिरयानवभास्य सर्वनैरयिकसत्त्वदुःखानि प्रतिप्रस्रब्धानि / तयैव प्रभया अयमस्माकं चक्षुषु आभासमागच्छति / ते वयमस्योपरि चित्तानि प्रसादयित्वा प्रणीतेषु कामावचरदेवनिकायेषूपपन्नाः / ये वयमस्य कृतज्ञतया दर्शनेनावितृप्ताः सर्वकामरतिमुत्सृज्य अस्य सकाशमुपसंक्रमामः / तत एषो ऽस्माकमुपसंक्रान्तानां तथा धर्मं देशयति, यदपरिमाणाः, सत्त्वा बोधाय प्रणिदधति //

अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः इममेवं रूपं धर्मनयं श्रुत्वा जयोष्मायनते ब्राह्मणे भूतकल्याणमित्रासंज्ञामुत्पाद्य जयोष्मायतनस्य ब्राह्मणस्य पादयोः प्रणिपत्य एवमाह - अत्ययमत्ययतो देशयाम्यार्य यो ऽहं कल्याणमित्राज्ञां प्रतिवाहयामि / अथ खलु जयोष्मायतनो ब्राह्मणः सुधनं श्रेष्ठिदारकं गाथयाध्यभाषत -

प्रदक्षिणं य बोधिसत्त्व आनुशास्ति कुर्वती न काङ्क्षये गुरुभ्य एकधा स्थपित्व मानसम् / ततो ऽस्य सर्व अर्थ भोन्ति ते ऽपि च प्रदक्षिणाः प्रदक्षिणं च बुद्धज्ञानु बोधिमूलि बुध्यते // 1 //

अथ खलु सुधनः श्रेष्ठिदारकस्तं क्षुरधाराचितं पर्वतप्रपातमार्गमभिरुह्य तत्र महाग्निस्कन्धे प्रापतत् / तेन प्रपतता सुप्रतिष्ठितो नाम बोधिसत्त्वसमाधिः प्रतिलब्धः / तेन चाग्निस्पर्शनेन प्रशमसुखाभिज्ञो नाम बोधिसत्त्वसमाधिः प्रतिलब्धः / स एवमाह - आश्चर्यमार्य यावत्सुखसंस्पर्शो ऽयं अग्निस्कन्धः, एष च क्षुरधाराचितः पर्वतप्रपातमार्गः / स आह - अहं कुलपुत्र, अपर्यादत्तमण्डलस्य बोधिसत्त्वविमोक्षस्य लाभी / एतमहं कुलपुत्र अपर्यादत्तमण्डलं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं तेजोरश्मिकल्पानां बोधिसत्त्वानां सर्वजगत्क्लेशदृष्टिपर्यादत्तप्रणिधानानामप्रत्युदावर्त्यकेतूनामपर्यादत्तहृदयानामदीनचित्तानामसंकुचितमानसानां वज्रगर्भनारायणकल्पानां महारम्भोत्तरणाविषण्णानामशिथिलप्रयोगानां (gv 95) वातमण्डलीकल्पानां सर्वजगदर्थप्रयुक्तानामविवर्त्यवीर्याणामप्रत्युदावर्त्यसंनाहानां चर्यां ज्ञातुं गुणान् वा वक्तुम्? गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे सिंहविजृम्भितं नाम नगरम् / तत्र मैत्रायणी नाम कन्या, राज्ञः सिंहकेतोर्दुहिता, पञ्चकन्याशतपरिवारा / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् // अथ खलु सुधनः श्रेष्ठिदारको जयोष्मायतनस्य ब्राह्मणस्य पादौ शिरसाभिवन्द्य जयोष्मायतनं ब्राह्मणमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य जयोष्मायतनस्य ब्राह्मणस्यान्तिकात्प्रकान्तः // 10 // 13 मैत्रायणी /

अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्राचिन्त्यगोचरनिर्यातः उदाराधिमुक्तिविशुद्धो महायानाभिमुखो बुद्धज्ञानाभिलाषी बुद्धधर्मसमवसरणः कल्याणमित्रानुबन्धनाभिकाङ्क्षी धर्मगोचरविचारी असङ्गज्ञानाभिमुखो भूतकोटीसुविनिश्चितः ज्ञानकोटीस्थितविषयः त्रध्वक्षणकोट्यनुगतः आकाशकोट्यद्वयाभिमुखः अद्वयकोटीविनिश्चयप्राप्तो धर्मधातुकोट्यविकल्पविहारी अनावरणकोटीविनयप्रतिषेधप्रविष्टः कर्मकोट्यविरोधपरमः तथागतकोट्यविकल्पविहारी सर्वसत्त्वसंज्ञाजालविकिरणज्ञानपरमः सर्वक्षेत्राभिनिवेशविगतः सर्वबुद्धपर्षन्मण्डलेष्वनुनीतचित्तः सर्वबुद्धपरिशुद्धिष्वनिकेतविहारी सर्वसत्त्वेषु निरात्मनिःसत्त्वसंज्ञी सर्वशब्देषु वाक्पथोपमावतीर्णः सर्वरूपेषु रूपप्रतिभाषविज्ञप्तिपरमो ऽनुपूर्वेण येन सिंहविजृम्भितं नगरं तेनोपसंक्रम्य मैत्रायणीं कन्यामन्वेषमाणः परिमार्गमाणो ऽश्रौषीत् - एषा मैत्रायणी कन्या राज्ञः सिंहकेतोर्दुहिता पञ्चकन्याशतपरिवारा वैरोचनगर्भप्रासादतलाभिरूढा उरगसारचन्दनपादे सुवर्णसूत्रजालश्च्योते दिव्यचीवरप्रज्ञप्ते भद्रासने उपविष्टा धर्मं देशयति / श्रुत्वा च पुनः सिंहविजृम्भितं नगरं प्रविश्य येन राज्ञः सिंहकेतोर्गृहं तेनोपसंक्रम्य राज्ञो बहिर्द्वारशालायां प्रत्यस्थात् मैत्रायण्याः कन्याया दर्शनकामः / स तत्राद्राक्षीदनेकानि प्राणिशतानि, अनेकानि प्राणिसहस्राणि, अनेकानि प्राणिशतसहस्राणि प्रविशमानानि / दृष्ट्वा च परिपृच्छति - क्व यूयं गच्छथ कुलपुत्राः, क्व वा आगच्छथ? ते ऽवोचन् - मैत्रायण्याः सकाशं धर्मश्रवणाय / तस्यैतदभवत् - नात्र कश्चित्प्रतिनिवार्यते ऽनुप्रविशन् /

इति स प्राविशत् / प्रविष्टो ऽद्राक्षीत्तं वैरोचनगर्भं प्रासादं स्फटिकसंस्थिततलायां पृथिव्यां वैडूर्यमयैःस्तम्भैर्वज्रमयैर्भित्तिभिर्जाम्बूनदकनककूटनिर्यूहशतसहस्रालंकारमसंख्येयमणिरत्नविचित्रसहस्रगर्भरत्नादर्शमण्डलरचितं जगद्रोचनमणिरत्नव्यूहमसंख्येयरत्नजालपरिक्षिप्तं सुवर्णघण्टानां शतसहस्रसमीरितं मधुरनिर्घोषाचिन्त्यव्यूहालंकारम्, तां च मैत्रायणीकन्यामद्राक्षीत् अभिनीलनेत्रामभिनीलकेशीं सुवर्णवर्णच्छविम् / स तस्याः पादौ शिरसाभिवन्द्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्राञ्जलिः स्थित्वा एवमाह - मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति / तद्वदतु मे आर्या कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / आह - प्रेक्षस्व कुलपुत्र मम भवनव्यूहानिति / स समन्तादनुविलोकयन्नद्राक्षीदेकैकस्या भित्तेरेकैकस्मात्स्तम्भादेकैकस्मादादर्शमण्डलादेकैकस्मादाकारादेकैकस्मात्संस्थानादेकैकस्मान्मणिरत्नात् एकैकस्याः सुवर्णघण्टायाः एकैकस्माद्रत्नवृक्षादेकैकस्माद्रोमविवरादेकैकस्माद्रत्नहारात् धर्मधातुगर्भांस्तथागतान् सप्रथमचित्तोत्पादान् सचर्याप्रणिधानविषयान् सनिर्याणव्यूहान् साभिसंबोधिविकुर्वितान् सधर्मचक्रप्रवर्तनान् सपरिनिर्वाणदर्शनान् प्रतिभासयोगेन / यथा च (gv 97) एकस्मादारम्बणात्, तथा सर्वारम्बणेभ्यः /

तद्यथापि नाम उदकसरसि स्वच्छे ऽनाविले विप्रसन्ने गगनं चन्द्रादित्यं ज्योतिर्गणप्रतिमण्डितं संदृश्यते प्रतिभासयोगेन, एवमेव वैरोचनगर्भप्रासादस्य एकैकस्मादारम्बणाद्धर्मधातुगतास्तथागताः संदृश्यन्ते प्रतिभासयोगेन, यदुत मैत्रायण्याः कन्यायाः पूर्वकुशलमूलनिष्यन्देन / सो ऽनुविलोक्य तद्बुद्धदर्शनव्यूहनिमित्तं संधारयन् प्राञ्जलीभूतो मैत्र्यायण्याः कन्याया वचनं संप्रेक्षते स्म / सा प्रोवाच - अहं कुलपुत्र समन्तव्यूहस्य प्रज्ञापारमितामुखपरिवर्तस्य लाभिनी / एष च मे समन्तव्यूहः प्रज्ञापारमितामुखपरिवर्तः षट्त्रिंशद्गङ्गानदीवालिकासमानां तथागतनामन्तिकात्पर्यन्विष्टः / ते च मे तथागता नानामुखप्रवेशैरेतं समन्तव्यूहं प्रज्ञापारमितामुखपरिवर्तमवतारयामासुः / यच्चैकेन देशितम्, न तद् द्वितीयेन /

आह - क एतस्य आर्ये समन्तव्यूहस्य प्रज्ञापारमितामुखपरिवर्तस्य विषयः? आह - एतन्मम कुलपुत्र समन्तव्यूहं प्रज्ञापारमितामुखपरिवर्तमभिमुखीकुर्वन्त्या उपनिध्यायन्त्या अनुसरन्त्या व्यवचारयन्त्या अनुविचिन्तयन्त्या आकारयन्त्या आधारयन्त्या व्यूहयन्त्या अभिनिर्हरन्त्याः समलंकुर्वन्त्याः प्रविचिन्वन्त्याः समन्तमुखा नाम धारणी आजायते, यत्र धारणीमण्डले दश धर्ममुखासंख्येयशतसहस्राण्यावर्तन्ते समवसरन्ति आमुखीभवन्ति अभिपतन्ति परिवर्तन्ते - यदुत बुद्धक्षेत्रमुखं बुद्धमुखं धर्ममुखं सर्वसत्त्वमुखमतीतमुखमनागतमुखं प्रत्युत्पन्नमुखं स्थितकोटीमुखं पुण्यमुखं पुण्यसंभारमुखं ज्ञानमुखं ज्ञानसंभारमुखं प्रणिधानमुखं प्रणिधानविकल्पमुखं चर्यामुखं चर्याविशुद्धिमुखं चर्यासमुदयमुखं चर्यापरिपूरिमुखं कर्ममुखं कर्मविरोचनमुखं कर्मस्रोतमुखं कर्माभिसंस्कारमुखं कर्मविषयमुखं विषमकर्मपरिवर्जनमुखं सम्यक्कर्मप्रतिपत्तिमुखं कर्मवशितामुखं सुचरितमुखं सुचरितसमादापनमुखं समाधिमुखं समाध्यनुचारमुखं समाधिविचारमुखं समाधिगोचरमुखं समाधिव्युत्थानमुखमभिज्ञामुखं चित्तसागरमुखं चित्तपर्यायमुखं चित्तलतापरिशुद्धिमुखं चित्तगहनावभासमुखं चित्तसरःप्रसादनमुखं चित्तसंभवमुखं चित्तविचारमुखं सत्त्वसंक्लेशप्रचारमुखं क्लेशवासनामुखं क्लेशप्रयोगमुखमधिमुक्तिमुखं सत्त्वचर्यामुखं सत्त्वचर्याविमात्रतामुखं लोकसंभवमुखं सत्त्वाशयमुखं सत्त्वसंज्ञागतमुखं दिङ्मुखं धर्मदिङ्मुखं महाकरुणामुखं महामैत्रीमुखं

शान्तिमुखं वाक्पथमुखं नयमुखमनुगममुखं विभक्तिमुखं समवसरणमुखमसङ्गकोटीमुखं समन्तमुखं बुद्धधर्ममुखं बोधिसत्त्वधर्ममुखं श्रावकधर्ममुखं प्रत्येकबुद्धधर्ममुखं लोकधर्ममुखं लोकसंभवधर्ममुखं लोकविभवधर्ममुखं लोकसंस्थानधर्ममुखं लोकधातुविशुद्धिमुखं लोकधातुसंक्लिष्टमुखं संक्लिष्टविशुद्धिलोकधातुमुखं विशुद्धिसंक्लिष्टलोकधातुमुखमेकान्तसंक्लिष्टलोकधातुमुखमेकान्तविशुद्धलोकधातुमुखं लोकधातुसमतलानुगममुखं व्यत्यस्तलोकधातुमुखमवमूर्धहारमुखमिन्द्रजालप्रवेशमुखं लोकधातुपरिवर्तमुखं प्रतिष्ठानसंज्ञागतमुखं सूक्ष्मोदारानुगममुखमुदारसूक्ष्मप्रवेशमुखं बुद्धदर्शनमुखं बुद्धकायवैमात्र्यमुखं बुद्धरश्मिजालवैचित्र्यमुखं बुद्धस्वरमण्डलविभक्तिमुखं बुद्धधर्मचक्राभिनिर्हारमुखं बुद्धधर्मचक्रासंभेदमुखं बुद्धधर्मचक्रनिरुक्तिमुखं बुद्धधर्मचक्रावर्तपरिवर्तमुखं बुद्धकायमुखं बुद्धपर्षन्मण्डलमुखं (gv 98) बुद्धपर्षन्मण्डलविभक्तिमुखं बुद्धपर्षन्मण्डलसागरावतरणमुखं बुद्धबलावभासमुखं बुद्धसमाधिमुखं बुद्धसमाधिविकुर्वणमुखं बुद्धविहारमुखं बुद्धाधिष्ठानमुखं बुद्धनिर्माणमुखं बुद्धपरसत्त्वचित्तविज्ञप्तिमुखं बुद्धविकुर्वितमुखं तुषितभवनसंवासमुखं यावत्परिनिर्वाणसंदर्शनमुखम् अप्रमाणसत्त्वार्थक्रियामुखं गम्भीरधर्मनयमुखं विचित्रधर्मनयमुखं बोधिसत्त्वधर्मरूपमुखं बोधिचित्तसंभवरूपधर्ममुखं बोधिचित्तसंभाररूपमुखं प्रणिधिरूपमुखं

चर्यारूपमुखमभिज्ञारूपमुखं निर्याणरूपमुखं धारणीविशुद्धिरूपमुखं ज्ञानमण्डलविशुद्धिरूपमुखं प्रज्ञापरिशुद्धिरूपमुखं बोध्यप्रमाणरूपमुखं स्मृतिविशुद्धिरूपमुखम् /

एतमहं कुलपुत्र समन्तस्मृतिव्यूहं प्रज्ञापारमितामुखपरिवर्तं जानामि / किं मया शक्यमाकाशधातुसमचित्तानां बोधिसत्त्वानां धर्मधातुविपुलमतीनां पुण्यसंभारोपस्तब्धसंतानानां लोकोत्तरप्रतिपत्प्रतिपन्नानामसमुदाचारलोकधर्माणां वितिमिरज्ञानालोकचक्षुःप्रतिलब्धानामतमःसर्वधर्मधातुप्रतिविद्धानां गगनकल्पाप्रमाणबुद्धीनां सर्वारम्बणानुस्मृतचक्षुषां असङ्गभूम्यालोकगर्भाणां सर्वधर्मार्थपदप्रभेदकुशलानां सर्वलोकानाभिभूतानां लोकचारित्रविधिविचाराणां सर्वलोकगत्यनवद्यानां सर्वलोकार्थक्रियापरमाणां सर्वजगत्प्रतिशरणानां सर्वजगद्वागुपचारविधिज्ञानां सर्वजगन्निवासाशयानां यथाशयविज्ञप्तिनिदर्शनानां सर्वकालचक्रवशवर्तिनां चर्यां ज्ञातुं गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे त्रिनयनो नाम जनपदः / तत्र सुदर्शनो नाम भिक्षुः प्रतिवसति / तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् // अथ खलु सुधनः श्रेष्ठिदारको मैत्रायण्याः कन्यायाः पादौ शिरसाभिवन्द्य मैत्रायणीं कन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मैत्रायण्याः कन्यायाः सकाशात् प्रक्रान्तः // 11 // 14 सुदर्शनः /

अथ खलु सुधनः श्रेष्ठिदारको गम्भीरं बोधिसत्त्वज्ञानविचारमनुविचिन्तयन्, गम्भीरं धर्मधातुतलानुगमनमनुविचिन्तयन्, गम्भीरं सर्वसूक्ष्मज्ञानमनुविचिन्तयन्, लोकसंज्ञागतगम्भीरतामनुविचिन्तयन्, अनभिसंस्कारतलगम्भीरतामनुविचिन्तयन्, चित्तस्रोतस्तलगम्भीरतामनुविचिन्तयन्, प्रतीत्यसमुत्पादतलगम्भीरतामनुविचिन्तयन्, स्वभावसत्यतलगम्भीरतामनुविचिन्तयन्, सर्वजगद्वयवहारसत्यतलगम्भीरतामनुविचिन्तयन्, धर्मधातुप्रतिमण्डितव्यूहतलगम्भीरतामनुविचिन्तयन्, काययन्त्रापेक्षतलगम्भीरतामनुविचिन्तयन्, कर्मचित्तलोकतलगम्भीरतामनुविचिन्तयन्, अनुपूर्वेण येन त्रिनयनो जनपदस्तेनोपसंक्रम्य सुदर्शनं भिक्षुं मार्गयमाणो जनपदव्यवचारेषु नगरव्यवचारेषु पट्टनव्यवचारेषु निगमव्यवचारेषु ग्रामव्यवचारेषु घोषव्यवचारेषु ऋष्याश्रमव्यवचारेषु देशप्रदेशव्यवचारेषु जलपथव्यवचारेषु गिरिदरिव्यवचारेषु महावनषण्डव्यवचारेषु सो ऽद्राक्षीत् सुदर्शनं भिक्षुमन्यतमस्मिन् वनषण्डे चंक्रम्यमाणं दहरं तरुणमभिरूपं प्रासादिकं दर्शनीयमभिनीलप्रदक्षिणावर्तकेशं छत्राकारमूर्धानमुष्णीषशिरसं पृथुललाटमभिनीलविशालगोपक्ष्मनयनं मधुरोन्नतचारुतुङ्गनासिकावंशं हिङ्गुलुकसुवर्णसुश्लिष्टोष्ठं समसहितसुशुक्लपूर्णचत्वारिंशद्दन्तं सिंहहनुं परिपूर्णोपचितकपोलं सुरुचिरचापायतभ्रुवं शशाङ्कवर्णोर्णया कृततिलकमायतमुक्तप्रलम्बकर्णं पूर्वचन्द्रसौम्यवदनं कम्बुरुचिरवृत्तग्रीवं श्रीवत्सालंकृतहृदयं सिंहपूर्वार्धकायं चितान्तरांसं सुसंवृतस्कन्धं प्रलम्बबाहुं जालावनद्धाङ्गुलिं

चक्राङ्कितहस्तपादं मृदुतरुणोपचितपाणिईपादं सप्तोत्सदं वज्रसदृशमध्यं बृहदृजुगात्रं सुवर्तितोरुं कोशगतबस्तिगुह्यं ऐणेयजङ्घं दीर्घाङ्गुलिमायतपादपार्ष्णिं व्यामप्रभं सुवर्णवर्णच्छविमेकैकप्रदक्षिणावर्तरोमं न्यग्रोधराजपरिमण्डलं लक्षणानुव्यञ्जनोपचितशरीरं अनिमिषाविभ्रान्तदृष्टिमुपस्थितस्मृतिं हिमवत्पर्वराजमिव नानातृणवनौषधिलतोपशोभितं विपुलबुद्धिमसंहार्यज्ञानगोचरविषयं जलधराकारस्वरमण्डलव्यूहं सर्वेञ्जनमन्यनस्पन्दनप्रपञ्चनापगतचित्तम् असंभिन्नज्ञानगोचरं विपुलबुद्धज्ञानविषयावभासप्रतिलब्धं सर्वसत्त्वपरिपाकविनयाव्युच्छिन्नाशयं संजातविपुलमहाकरुणामण्डलं सर्वतथागतधर्मनेत्रीसंधारणार्थं सर्वसत्त्वज्ञानालोकसंजननार्थं तथागतगतिमनुस्मरन्तं सर्वजगदर्थचंक्रमाभिरूढमद्रुतमविलम्बितं निभृतं सुव्यवस्थितं चंक्रम्यमाणं शुद्धावासदेवकल्पवसनं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालमनुष्यामनुष्यैः परिवृतम् //

तस्य खलु पुनः सुदर्शनस्य भिक्षोश्चंक्रम्यमाणस्याभिमुखदिगावृता दिग्देवता दिङ्भण्डलमावर्तयन्ति / पदगामिन्यो देवता रत्नपद्मैः क्रमविक्षेपं संप्रतीच्छन्ति / अपर्यादत्तालोकमण्डलोपज्वलनदेवतास्तमोन्धकारं विधमन्ति / जम्बुध्वजवनदेवताः कुसुमौघवर्षमभिप्रवर्षन्ति / अचलगर्भभूमिदेवता रत्नाकराण्युपदर्शयन्ति / समन्तावभासश्रीगगनदेवता गगनतलमलंकुर्वन्ति / श्रीसंभवाः सागरदेवता महामणिरत्नैरभ्यवकिरन्ति / विमलगर्भाः सुमेरुदेवताः (gv 100) कृताञ्जलिपुटा नमस्यन्ति / असङ्गबला वायुदेवता गन्धधूपपुष्पाकुलं मारुतं प्रमुञ्चन्ति / वासन्तीरात्रिदेवताः स्वलंकृतशरीराः प्रणताङ्गा नमस्यन्ति / सदाविबोधनमण्डला दिवसदेवता दिग्रोचनमणिरत्नध्वजगृहीता गगनतले तिष्ठन्ति आलोकसंजननार्थाय //

अथ खलु सुधनः श्रेष्ठिदारको येन सुदर्शनो भिक्षुस्तेनोपसंक्रम्य सुदर्शनस्य भिक्षोः क्रमतलाभ्यां निपत्य सुदर्शनस्य भिक्षोः क्रमतलं परिचुम्ब्य परिलिख्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - अहमार्य अनुत्तरायां सम्यक्संबोधौ संप्रस्थितो बोधिसत्त्वचर्यां परिमार्गामि / श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददाति, अनुशासनीमनुप्रयच्छति / तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / स आह - अहं कुलपुत्र दहरो जात्या, नवकस्तु प्रवज्यया / तेन मे कुलपुत्र एकजन्मना अष्टत्रिंशद्गङ्गानदीवालुकासमानां तथागतानामन्तिके ब्रह्मचर्यं चीर्णम् / क्वचिन्मे तथा रात्रिंदिवं ब्रह्मचर्यं चीर्णम्, क्वचित्सप्त रात्रिंदिवानि, क्वचिदर्धमासम्, क्वचिन्मासम्, क्वचिद्वर्षम्, क्वचिद्वर्षशतम्, क्वचिद्वर्षसहस्रम्, क्वचिद्वर्षशतसहस्रम्, क्वचिद्वर्षकोटीम्, क्वचिद्वर्षकोटीनियुतम्, क्वचिद् यावदनभिलाप्यानभिलाप्यानि वर्षाणि, क्वचिदन्तरकल्पम्, क्वचिदर्धकल्पम्, क्वचित्कल्पम्, क्वचिन्मे तथागते यावदनभिलाप्यानभिलाप्यान् कल्पान् ब्रह्मचर्यं चीर्णमनयैव कल्पसंख्यया / सर्वेषामेव तथागतानामन्तिकाद्धर्मदेशना श्रुता / अववादानुशासनी संप्रतीच्छिता / प्रणिधानव्यूहाः परिशोधिताः / समुदागमविषयावतीर्णचर्यामण्डलं परिशोधितम् / पारमितासागराः परिपूरिताः / अभिसंबोधिविकुर्वितानि आज्ञातानि / धर्मचक्रप्रवर्तनानि चैषामन्योन्यासंभिन्नानि संधारितानि / बलसमता चैषामवतीर्णा / शासनं चैषां संधारितं यावत्सद्धर्मनिष्ठापर्यन्तम् /

सर्वेषां च मे तेषां तथागतानां पूर्वप्रणिधानानि स्वबुद्धक्षेत्रपरिशुद्धये ऽभिनिर्हृतानि प्रणिधिमण्डलसमाध्यभिनिर्हारबलेन / सर्वेषां च मे तेषां पूर्वबोधिसत्त्वचर्या स्वचर्यापरिशुद्धये ऽभिनिर्हृता सर्वचर्यावतारसमाधिप्रतिलम्भबलेन / सर्वेषां च मे तेषां तथागतानां पारमिताविशुद्धिरभिनिर्हृता समन्तभद्रचर्यानिर्याणबलेन / अपि तु खलु पुनर्मे कुलपुत्र एवं चंक्रम्यमाणस्य सर्वदिक्स्रोतोमुखान्यावर्तन्ते सुविलोकितज्ञानमुखतया / सर्वलोकधातुस्रोतोमुखानि व्यावर्तन्ते एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यलोकधात्वतिक्रमणपरिशोधनतायै यदुत महाप्रणिधानाभिनिर्हारबलेन / एकचित्तक्षणेन अनभिलाप्यानभिलाप्यसत्त्वचर्यानयमुखान्यभिमुखमावर्तन्ते दशबलज्ञानपरिपूरये / समन्तभद्रबोधिसत्त्वचर्याप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यबुद्धक्षेत्रदर्शनविशुद्धयो ऽभिमुखीभवन्ति अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमतथागतपूजोपस्थानपरिचारणतायै / पूर्वोत्तरतथागतपूजाप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यतथागतधर्ममेघा आशये ऽभिपतन्ति / असंख्येयधर्मगतिविध्यनुगमधर्मचक्रसंधारणधारणीप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यबोधिसत्त्वचर्यासमुद्रा (gv 101) अभिमुखा आवर्तन्ते सर्वचर्यामण्डलपरिशोधनतायै / इन्द्रबलोपमबोधिसत्त्वचर्यापरिपूरिप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यसमाधिसागरा अभिमुखा आअवर्तन्ते सर्वसमाधिमण्डलपरिशोधनतायै /

एकसमाधिमुखैः सर्वसमाधिमुखसमवसरणप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्येन्द्रियसमुद्रा अभिमुखमावर्तन्ते सर्वेन्द्रियचक्रकालचक्रानुवर्तनतायै / स्मृतिकोटीन्द्रियप्रतिलाभप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यकालचक्राण्यभिमुखमावर्तन्ते सर्वकालधर्मचक्रप्रवर्तनतायै / अनिष्ठसत्त्वनिष्ठाप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यसर्वत्र्यध्वसागरा अभिमुखमावर्तन्ते सर्वलोकधातुषु त्र्यध्वव्यवस्थानतया अनुगमज्ञानालोकप्रणिध्यभिनिर्हारबलेन / एतमहं कुलपुत्र अनिशान्तज्ञानप्रदीपं बोधिसत्त्वविमोक्षं जानामि /

किं मया शक्यं वज्रकल्पाशयानां बोधिसत्त्वानां सर्वतथागतकुलकुलीनताभिजातानामनुपरुद्धजीवितेन्द्रियाणामनिशान्तज्ञानप्रदीपानामनाच्छेद्याभेद्यकायानां मायागतरूपानिर्वृत्तानां प्रत्ययधर्मसमाङ्गप्रत्यङ्गशरीराणां यथाशयजगद्विज्ञप्तिकायानां सर्वजगदुपमरूपकायवर्णसंस्थानारोहपरिणाहसंदर्शकायानामग्निज्वालाविषशस्त्रानुपघातशरीराणां वज्रदृढचक्रवालानवमृद्यात्मभावानां सर्वमारपरप्रवादिबलाबलकरणानां जाम्बूनदकनकपर्वतसंनिभानां सर्वजगदभ्युद्गतशरीराणां सर्वजगद्विज्ञप्त्याश्रयाणां समन्तमुखविज्ञप्तिश्रवणानां सर्वजगदुल्लोकितमुखानां सर्वधर्मजलधराकारभूतानां समन्तदिग्विरोचनानां सर्वावरणपर्वतविकिरणत्वादप्रतिकूलदर्शनानां सर्वाकुशलमूलात्यन्तसमुद्धाटितत्वात्परमशूरदर्शनानां विपुलकुशलमूलनिष्यन्दसंभूतत्वादभिलषितदर्शनानां परमदुर्लभप्रादुर्भावत्वादुदुम्बरपुष्पसदृशानां चर्यां ज्ञातुं गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे श्रमणमण्डले जनपदे सुमुखं नाम नगरम् / तत्र इन्द्रियेश्वरो नाम दारकः प्रतिवसति / तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् // अथ खलु सुधनः श्रेष्ठिदारको बोधिसत्त्वविक्रमप्रतिपद्विशुद्धिपरमः बोधिसत्त्वबलालोकावभासितचित्तो ऽपराजितबोधिसत्त्ववैर्यपर्यादत्तहृदयः बोधिसत्त्वदृढप्रणिधिसंनाहासंकुचितचित्तो बोधिसत्त्वाशयदृढसंस्थानपरिणाहपरमो बोधिसत्त्वचर्यामेघसंधारणसंप्रस्थानाशयो बोधिसत्त्वधर्ममेघापरितृप्तसंतानः सर्वबोधिसत्त्वगुणावताराभिमुखप्रणिधानः सर्वजगत्सारथिसंग्राहकभूतमात्मानमुपनामयितुकामः सर्वजगन्महासंसाराटवीकान्तारादतिक्रामयितुकामः कल्याणमित्रदर्शनश्रवणपर्युपासनापरितृप्त एव अप्रमाणधर्मगौरवसंजातः सुदर्शनस्य भिक्षोः पादौ शिरसाभिवन्द्य सुदर्शनं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुदर्शनस्य भिक्षोरन्तिकात्प्रक्रान्तः // 12 // 15 इन्द्रियेश्वरः /

अथ खलु सुधनः श्रेष्ठिदारकस्तां सुदर्शनस्य भिक्षोरनुशासनीमनुमन्त्रयन्, प्रवर्तयन्, अनुप्रयच्छन् प्रविचिन्वन्, प्रभाषमाणः प्रतिभावयन् उदीरयन् दर्शयन् अनुविचिन्तयन् अभ्यवचरन्, नयं विगमयन्, तद्धर्मनयमनुविचारयन् अवभारयन् समवसरन् आवर्तयन् संभिन्दन् प्रदर्शयन् अवभासयन् अनुविलोकयन् देवनागयक्षगन्धर्वपरिवारो ऽनुपूर्वेण येन श्रमणमण्डले जनपदे सुमुखं नगरं तेनोपसंक्रान्तः इन्द्रियेश्वरं दारकं परिमार्गमाणः / तस्योपर्यन्तरिक्षे गता देवनागयक्षगन्धर्वा आरोचयन्ति - एष कुलपुत्र इन्द्रियेश्वरो दारको नदीसंभेदाभ्याशे दशदारकसहस्रपरिवृतः पांशुक्रीडया क्रीडतीति //

अथ खलु सुधनः श्रेष्ठिदारको येन सुमुखं नगरं नदीसंभेदाभ्याशस्तेनोपसंक्रान्तः / सो ऽद्राक्षीत् इन्द्रियेश्वरं दारकं दशदारकसहस्रपरिवृतं पांशुक्रीडया क्रीडन्तम् / दृष्ट्वा च पुनर्येनेन्द्रियेश्वरो दारकस्तेनोपसंक्रम्य इन्द्रियेश्वरस्य दारकस्य पादौ शिरसाभिवन्द्य इन्द्रियेश्वरं दारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य इन्द्रियेश्वरस्य दारकस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य, अनुत्तरयां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायम् शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति / तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / आह - अहं कुलपुत्र मञ्जुश्रिया कुमारभूतेन लिपिसंख्यामुद्रागणनानयं शिक्षयता सर्वशिल्पाभिज्ञावभासज्ञानमुखमवतारितः /

सो ऽहं कुलपुत्र, यानि इमानि लोके लिपिसंज्ञागतानि संख्यागणनामुद्रानिक्षेपज्ञानविविधशिल्पज्ञानानिधातुतन्त्राणि विषयप्रयोगप्रतिभानकानि शोषापस्मारभूतप्रेतग्रहप्रतिषेधकानि ग्रामनगरनिगमपट्टनोद्यानतपोवनावसथनिवेशनज्ञानानि अभिप्रायप्रकारप्रासादगवाक्षकूटागारपरिणाहज्ञानानि विविधयन्त्ररथक्रियोपचारज्ञानानि क्षेमाक्षेमभयाभयनिमित्तज्ञानानि कृषिवाणिज्यव्यवहारक्रियाप्रयोगज्ञानानि सर्वाङ्गप्रत्यङ्गलक्षणचारोपचारविचारज्ञानानि सुगतिदुर्गतिकर्मपथविशुद्धयनुगमज्ञानानि कुशलाकुशलधर्मगणपूजाज्ञानानि सुगतिदुर्गतिसंभारज्ञानानि श्रावकप्रत्येकबुद्धयानसंभारज्ञानानि तथागतभूमिसंभारज्ञानानि हेतुक्रियाप्रयोगोपचारज्ञानानि, तानि सर्वाणि प्रजानामि / तेषु च सत्त्वानवतारयामि, निवेशयामि प्रतिष्ठापयामि शिक्षयामि शीलयामि दृढीकरोमि सारिकरोमि संतरामि संभावयामि संवर्तयामि उन्नामयामि विवर्धयामि निमित्तीकरोमि कोटीकरोमि विशोधयामि विमलीकरोमि उत्तापयामि प्रभास्वरीकरोमि विपुलीकरोमि / सो ऽहं कुलपुत्र बोधिसत्त्वानां गणनानयं जानामि /

स पुनः कतमः? शतं शतसहस्राणां कोटिः, कोटिः कोटीनामयुतम्, अयुतमयुतानां नियुतम्, नियुतं नियुतानां बिम्बरम्, बिम्बरं बिम्बराणां किंकरम्, किंकरं किंकराणामगरम्, अगरमगराणां प्रवरम्, प्रवरं प्रवराणां मपरम्, मपरं मपराणां तपरम्, तपरं तपराणां सीमम्, सीमं सीमानां यामम्, यामं यामानां नेमम्, नेमं नेमानामवगम्, अवगमवगानां मृगवम्, मृग वंमृगवानां विरागम्, (gv 103) विरागं विरागानां विगवम्, विगवं विगवानां संक्रमम्, संक्रमं संक्रमाणां विसरम्, विसरं विसराणां विभजम्, विभजं विभजानां विजङ्घम्, विजङ्घं विजङ्घानां विशोधम्, विशोधं विशोधानां विवाहम्, विवाहं विवाहानां विभक्तम्, विभक्तं विभक्तानां विखतम्, विखतं विखतानां डलनम्, डलनं डलनानां अवनम्, अवनं अवनानां थवनम्, थवनं थवनानां विपर्यम्, विपर्यं विपर्याणां समयम्, समयं समयानां वितूर्णम्, वितूर्णं वितूर्णानां हेतुरम्, हेतुरं हेतुराणां विचारम्, विचारं विचाराणां व्यत्यस्तम्, व्यत्यस्तं व्यत्यस्तानामभ्युद्गतम्, अभ्युद्गतमभ्युद्गतानां विशिष्टम्, विशिष्टं विशिष्टानां निलम्बम्, निलम्बं निलम्बानां हरितम्, हरितं हरितानां विक्षोभम्, विक्षोभं विक्षोभाणां हलितम्, हलितं हलितानां हरिः, हरिः हरीणामालोकः, आलोकः आलोकानां दृष्ट्वान्तः, दृष्ट्वान्तः दृष्ट्वान्तानां हेतुनम्, हेतुनं हेतुनानां एलम्, एलमेलानां दुमेलम्, दुमेलं दुमेलानां क्षेमुः, क्षेमुः क्षेमूनां एलुदम्, एलुदमेलुदनां भालुदम्, भालुदं भालुदानां समता, समता समतानां विसदम्, विसदं विसदानां प्रमात्रम्, प्रमात्रं प्रमात्राणां अमन्त्रम्, अमन्त्रममन्त्राणां भ्रमन्त्रम्,

भ्रमन्त्रं भ्रममन्त्राणां गमन्त्रम्, गमन्त्रं गमन्त्राणां नमन्त्रम्, नमन्त्रं नमन्त्राणां नहिमन्त्रम्, नहिमन्त्रं नहिमन्त्राणां विमन्त्रम्, विमन्त्रं विमन्त्राणां परमन्त्रम्, परमन्त्रं परमन्त्राणां शिवमन्त्रम्, शिवमन्त्रं शिवमन्त्राणां देलु, देलु देलूनां वेलु, वेलु वेलूनां गेलुः, गेलुः गेलूनां खेलुः, खेलुः खेलूनां नेलुः, नेलुः, नेलूनां भेलुः, भेलुः भेलूनां केलुः, केलुः केलूनां सेलुः, सेलुः सेलूनां पेलुः, पेलुः, पेलूनां मेलुः, मेलुः मेलूनां सरडः, सरडः सरडानां भेरुदुः, भेरुदुः भेरुदूनां खेलुदुः, खेलुदुः खेलुदूनां मालुदुः, मालुदुः मालूदूनां समुलः, समुलः समुलानामथवम्, अथवमथवानां कमलम्, कमलं कमलानामगवम्, अगवमगवानामतरुम्, अतरुमतरूणां हेलुवः, हेलुवः हेतुवानां मिरहुः, मिरहुः मिरहूणां चरणम्, चरणं चरणानां धमनम्, धमनं धमनानां प्रमदम्, प्रमदं प्रमदानां निगमम्, निगमं निगमानामुपवर्तम्, उपर्वतम्, पवर्तानां निर्देशम्, निर्देशं निर्देशानामक्षयम्, अक्षयमक्षयाणां संभूतम्, संभूतं संभूतानां मममम्, मममं मममानांमवदम्, अवदमवदानामुत्पलम्, उत्पलमुत्पलानां पद्म, पद्मं पद्मानां संख्या, संख्या संख्यानां गति, गतिः गतीनामुपगम्, उपगमुपगानामौपम्यम्, औपम्यमौपम्यानामसंख्येयम्, असंख्येयमसंख्येयानामसंख्येयपरिवर्तम्, असंख्येयपरिवर्तमसंख्येयपरिवर्तानामप्रमाणम्, अप्रमाणमप्रमाणानामपरिमाणम्, अपरिमाणमपरिमाणानामपरिमाणपरिवर्तम्, अपरिमाणपरिवर्तमपरिमाणपरिवर्तानामपर्यन्तम्, अपर्यन्तमपर्यन्तानामपर्यन्तपरिवर्तम्,

अपर्यन्तपरिवर्तमपर्यन्तपरिवर्तानामसमन्तम्, असमन्तमसमन्तानामसमन्तपरिवर्तम्, असमन्तपरिवर्तमसमन्तपरिवर्तानामगणनीयम्, अगणनीयमगणनीयानामगणनीयपरिवर्तम्, अगणनीयपरिवर्तमगणनीयपरिवर्तानामतुल्यम्, अतुल्यमतुल्यानामतुल्यपरिवर्तम्, अतुल्यपरिवर्तमतुल्यपरिवर्तानामचिन्त्यम्, अचिन्त्यमचिन्त्यानामचिअन्त्यपरिवर्तम्, अचिन्त्यपरिवर्तमचिन्त्यपरिवर्तानाममाप्यम्, अमाप्यममाप्यानाममाप्यपरिवर्तम्, अमाप्यपरिवर्तममाप्यपरिवर्तानामनभिलाप्यम्, (gv 104) अनभिलाप्यमनभिलाप्यानामनभिलाप्यपरिवर्तम्, अनभिलाप्यपरिवर्तमनभिलाप्यपरिवर्तानामनभिलाप्यानभिलाप्यम्, अनभिलाप्यानभिलाप्यमनभिलाप्यानभिलाप्यानामनभिलाप्यानभिलाप्यपरिवर्तम्, तस्य पुरतो महान् वालिकाराशिरभूदनेकयोजनप्रमाणः /

स तं बालिकाराशिं गणयंस्तुलयन् प्रसिञ्चन् संख्यामकार्षीत् - इयन्तीमानि वालिकाफलकानि, यावदियन्त्येतानि वालिकाफलकान्यनभिलाप्यपरिवर्तानीति / स तं वालिकाराशिं गणनासंकेतनिर्देशेन निर्दिश्य एवमाह - एष कुलपुत्र गणनायोगो लोकधातुपरंपरया सुप्रवर्तते बोधिसत्त्वानाम् / अनेन गणनानयेन बोधिसत्त्वाः पूर्वस्यां दिशि लोकधातुप्रसरान् गणयन्ति / एवं दक्षिणायां पश्चिमायामुत्तरयामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वायां दिशि / अनेन गणनानयेन बोधिसत्त्वा लोकधातुप्रसरान् गणयन्ति / एष कुलपुत्र गणनानयो दशसु दिक्षु लोकधातुनामपरंपरानिर्देशेषु प्रवर्तते बोधिसत्त्वानाम् / अनेन गणनानयेन बोधिसत्त्वा दशसु दिक्षु लोकधातुनामपरंपरां गणयन्ति / यथा लोकधातुनामपरंपरानिर्देशेषु, एवं दशसु दिक्षु कल्पनामपरंपरानिर्देशेषु बुद्धनामपरंपरानिर्देशेषु धर्मनामपरंपरानिर्देशेषु सत्त्वनामपरंपरानिर्देशेषु कर्मनामपरंपरानिर्देशेषु / एष एव गणनानयो यावद्दशसु दिक्षु सर्वनामपरंपरानिर्देशेषु प्रवर्तते बोधिसत्त्वानाम् / अनेन गणनानयेन बोधिसत्त्वा दशसु दिक्षु सर्वनामपरंपरानिर्देशेषु प्रवर्तते बोधिसत्त्वानाम् / अनेन गणनानयेन बोधिसत्त्वा दशसु दिक्षु सर्वनामपरंपरां गणयन्ति / एतमहं कुलपुत्र, सर्वधर्मज्ञानशिल्पाभिज्ञावन्तं बोधिसत्त्वज्ञानालोकं जानामि /

किं मया शक्यं सर्वजगत्संख्यानुप्रविष्टानां बोधिसत्त्वानां सर्वधर्मविधिसंख्यानुप्रविष्टानां त्र्यध्वसंख्यानुप्रविष्टानां सर्वसत्त्वसंख्यानुप्रविष्टानां सर्वधर्मस्कन्धसंख्यानुप्रविष्टानां सर्वबुद्धबोधिसंख्यानुप्रविष्टानां सर्वधर्मनामचक्रवशवर्तिनां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, गोचरो वा सूचयितुम्, विषयो वा प्रभावयितुम्, बलं वा संवर्णयितुम्, आशयो वा निदर्शयितुम्, संभारो वा परिदीपयितुम्, प्रणिधानं वा निर्देष्टुम्, चर्यां वा संदर्शयितुम्, पारमितापरिशुद्धिर्वा अभिद्योतयितुम्, समुदागमपरिशुद्धिर्वा संप्रकाशयितुम्, समाधिविषयो वा वक्तुम्, ज्ञानालोको वा अनुगन्तुम् //

गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे समुद्रप्रतिष्ठानं नाम नगरम् / तत्र प्रभूता नामोपासिका प्रतिवसति / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् // अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रवचनं श्रुत्वा संहर्षिततनुरुहो महाप्रीतिवेगसंजातः प्रमुदितमानसः सुदुर्लभाश्चर्याशयरत्नप्रतिलब्धो विपुलजगद्धितचित्तचेष्टानिर्यातो बुद्धोत्पादपरंपरावतारवशवर्ती धर्ममण्डलविशुद्धिमतिपरमः सर्वत्रानुगतविभक्तिनिर्याणनिदर्शनपरमः त्र्यध्वतलासंभिन्नबुद्धविषयः अक्षयपुण्यसागरसंभूतचेताः महाज्ञानावभासवशवर्ती त्रिभुवनपुरबन्धनकपाटनिर्भेदः इन्द्रियेश्वरस्य दारकस्य पादौ शिरसाभिवन्द्य इन्द्रियेश्वरं दारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य इन्द्रियेश्वरस्य दारकस्यान्तिकात्प्रक्रान्तः // 13 // 16 प्रभूता /

अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रानुशासनीमेघं संप्रतीच्छन्, अतृप्तो जलनिधिरिव महामेघवर्षैः, कल्याणमित्रभास्करज्ञानांशुपरिपाचनशुभधरणीतलेन्द्रियाङ्कुरप्ररोहसंजातः कल्याणमित्रपूर्णचन्द्रानुशासन्यंशुजालप्रह्लादितकायचित्तः, कल्याणमित्रानुशासनीसलिलपिपासुः ग्रीष्मदिनकरकिरणप्रतप्त इव मृगगणः हिमवत्प्रस्रवसलिलकल्याणमित्रानुशासनीप्रबोधितचित्तपौण्डरीको भ्रमरगणोद्विघाटनोन्मिषितकमल इव कमलाकरः, कल्याणमित्रानुशासनीरत्नचरितावभासितसंतानः, रत्नद्वीप इव विविधरत्नाकीर्णः, कल्याणमित्रानुशासनीपुण्यज्ञानोपचयसंपन्नः महाजम्बुवृक्ष इव पुष्पफलविनद्धः, कल्याणमित्रानुशासनीश्रुतसंभारप्रवृद्धः, महाभुजगेन्द्रप्रवरक्रीडासंभव इव गगनमहाघनः, कल्याणमित्रानुशासनीसमुद्गतामलविचित्रधर्मकूटः त्रिदशलोकोपशोभित इव चित्रकूटः कल्याणमित्रानुशासन्युद्भूतविमलगुणगणपरिवृतः, अभिभूः, अनभिभूतः, त्रिदशगणपरिवृतः शक्र इव असुरेन्द्रगणप्रमर्दनः अनुपूर्वेण येन समुद्रप्रतिष्ठानं नगरं तेनोपसंक्रान्तः प्रभूतामुपासिकां परिमार्गमाणः / तस्य महाजनकाय उपदर्शयति - एषा कुलपुत्र प्रभूतोपासिका मध्ये नगरस्य स्वगृहे तिष्ठतीति //

अथ खलु सुधनः श्रेष्ठिदारको येन प्रभूताया उपासिकाया निवेशनं तेनोपसंक्रम्य प्राञ्जलीभूतो द्वारशालायां प्रत्यस्थात् / स पश्यति प्रभूताया उपसिकायाः तद्गृहं विपुलविस्तीर्णं रत्नप्राकारपरिक्षिप्तं चतुर्दिक्षु विभक्तद्वारमसंख्येयापरिमाणरत्नव्यूहमचिन्त्यपुण्यविपाकाभिनिर्वृत्तम् / स तद्गृहं प्रविश्य समन्तादनुविलोकयन्नद्राक्षीत्प्रभूतामुपासिकां रत्नासनोपविष्टं नवां दहरां तरुणीं प्रथमयौवनसमुद्गतामभिरूपां प्रासादिकां दर्शनियां परमशुभवर्णपुष्कलतया समन्वागतां मुक्तकेशीं निराभरणगात्रामवदातवस्त्रनिवसनाम् / स्थापयित्वा बुद्धबोधिसत्त्वान्न स कश्चित्सत्त्वस्तद्गृहमुपसंक्रामति, यमसौ नाभिभूय तिष्ठति कायेन व, चित्ताधिपत्येन वा, तेजसा वा, वर्णेन वा, श्रिया वा / ये च सत्त्वाः प्रभूतामुपासिकां पश्यन्ति देवा वा मनुष्या वा, तेषां सर्वेषां प्रभूतायामुपासिकायां शास्तृसंज्ञाभवति / तस्मिंश्च गृहे दशासनकोटीसहस्राणि प्रज्ञप्तानि दिव्यमानुष्यसमतिक्रान्तानि बोधिसत्त्वकर्मविपाकपरिनिष्पन्नानि / न च तस्मिन् गृहे पश्यत्यन्नपाननिचयं वा वस्त्राभरणपरिभोगनिचयं वा अन्यत्रैकपिठरिकायाः पुरस्तान्निक्षिप्तायाः / दश चास्याः स्त्रीसहस्राणि पुरतः स्थितान्यपश्यदप्सरोवर्णानि अप्सरोरूपाणि अप्सरःकल्पानि अप्सरश्चेष्टानि अप्सरःपरिभोगानि अप्सरौपचाराणि दिव्यकल्पदूष्यधारीणि दिव्यभूषणचरिताङ्गानि अप्सरोरुतमनोज्ञघोषाणि अप्सरःसमारोहपरिणाहनि / ताः तस्याः स्त्रियः किंकरा वचनप्रतिकारिण्यः पुरत उपतिष्ठन्ति उपविचरन्ति संप्रेक्षन्ते उपनिध्यायन्ति अभिवन्दन्ते आलोकयन्ति अवनमन्ति प्रणमन्ति नमस्यन्ति / तासां च गात्रेभ्यो यो गन्धः प्रवाति, स तं सर्वं (gv 106) नगरमभिधूपयन्ति / ये च सत्त्वास्तं गन्धं जिघ्रन्ति, ते सर्वे ऽव्यापन्नचित्ता भवन्ति अवैरचित्ता अविहिंसाचित्ता ईर्ष्यामात्सर्यविगतचित्ता अमायाशाठ्यचित्ता अनुनीता अप्रतिहतचित्ता अनवलीनानुन्नतचित्ताः समचित्ता मैत्रचित्ता हितचित्ताः संवरस्थचित्ताः परपरिग्रहानभिलाषचित्ता भवन्ति / ये च तासां स्वरं शृण्वन्ति, ते सर्वे प्रहर्षितप्रमुदितप्रणतचित्ता भवन्ति / ये च ताः पश्यन्ति, ते विगतरागमात्मानं संजानन्ति //

अथ खलु सुधनः श्रेष्ठिदारकः प्रभूताया उपासिकायाः पादौ शिरसाभिवन्द्य प्रभूतामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलीस्थित्वा एवमाह - मया आर्ये, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति / तद्वदतु मे आर्या - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / आह - अहं कुलपुत्र अक्षयव्यूहपुण्यकोषस्य बोधिसत्त्वविमोक्षस्य लाभिनी / इतो ऽहं कुलपुत्र, एकपिठरिकाया नानाधिमुक्तान् सत्त्वान् यथाभिप्रेतभोजनैः संतर्पयामि नानासूपैर्नानारसैर्नानावर्णैर्नानागन्धैः / अतो ऽहं कुलपुत्र एकपिठरिकायाः सत्त्वशतमपि संतर्पयामि यथाभिप्रायैर्भोजनैः, सत्त्वसहस्रमपि, सत्त्वशतसहस्रमपि, सत्त्वकोटीमपि, सत्त्वकोटीशतमपि, सत्त्वकोटीशतसहस्रमपि, सत्त्वकोटीनियुतशतसहस्रमपि, यावदनभिलाप्यानभिलाप्यानपि सत्त्वान्नानानाधिमुक्तान् यथाभिप्रेतैर्भोजनैः संतर्पयामि, संप्रवारयामि, संतोषयामि, संप्रहर्षयामि, संप्रमोदयामि, परिप्रीणयामि, आत्तमनस्कान् करोमि / न चैषा पिठरिका हीयते, न परिहीयते, नोनीभवति, न क्षीयते, न पर्यादानं गच्छति, न सीमामुपैति, न निष्ठां गच्छति /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.