Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/16

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

गण्डव्यूहसूत्र

Thông tin
GRETIL — P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सर्वतथागतैकशरीरगर्भाधिष्ठानेन बोधिसत्त्वसमाधिना, चित्तक्षणकोटिसर्वधर्मधातुनयानुगमक्षणविहारेण बोधिसत्त्वसमाधिना, सर्वधर्मधातुक्षेत्रप्रसरनिर्वृतिसंदर्शनाधिष्ठानेन बोधिसत्त्वसमाधिना, अधमूर्धतलविहाराधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वबुद्धक्षेत्रसत्त्वकायासंभेदाधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वज्ञानावर्ताभिमुखसमवसरणेन बोधिसत्त्वसमाधिना, सर्वधर्मस्वभावलक्षणापरिज्ञाप्रभेदेन बोधिसत्त्वसमाधिना, त्र्यध्वैकचित्तक्षणसंभेदमण्डलेन बोधिसत्त्वसमाधिना, सर्वचित्तक्षणधर्मधातुनयशरीरगर्भेण बोधिसत्त्वसमाधिना, सर्वतथागतवंशानुगमसिंहेन बोधिसत्त्वसमाधिना, सर्वारम्बणधर्मधातुमतिचक्षुर्मण्डलेन बोधिसत्त्वसमाधिना, दशबलाक्रमविक्रमसमारम्भेन बोधिसत्त्वसमाधिना, सर्वारम्बणसमन्तदर्शनचक्षुर्मण्डलेन बोधिसत्त्वसमाधिना, सर्ववर्णमण्डलजद्रोचनाभिनिर्हारेण बोधिसत्त्वसमाधिना, अचलावर्तगर्भेण बोधिसत्त्वसमाधिना, एकधर्मसर्वधर्मसमवसरणनिर्देशेन बोधिसत्त्वसमाधिना, एकधर्मवाक्पथनिरुक्तिपदप्रभेदेन बोधिसत्त्वसमाधिना ते बोधिसत्त्वास्तान् भगवतो वैरोचनस्य बुद्धविकुर्वितसमुद्रानवतरन्ति /

सर्वबुद्धध्वजाधिष्ठानधर्मनिर्देशेन बोधिसत्त्वसमाधिना, त्र्यध्वकोट्यसङ्गवभासेन बोधिसत्त्वसमाधिना, सर्वकल्पानुगमासंभिन्नज्ञानेन बोधिसत्त्वसमाधिना, सूक्ष्मनयदशबलान्तर्गतेन बोधिसत्त्वसमाधिना, अनाच्छेद्यबोधिसत्त्वचर्यासर्वकल्पाभिनिर्हारेण बोधिसत्त्वसमाधिना, सर्वदिक्समन्तजवाभिमुखमेघेन बोधिसत्त्वसमाधिना, अभिसंबोधिविकुर्वितविठपनेन बोधिसत्त्वसमाधिना, सर्ववेदयितास्पर्शक्षेमध्वजेन बोधिसत्त्वसमाधिना, सर्वव्यूहगगनालंकाराभिनिर्हारेण बोधिसत्त्वसमाधिना, क्षणक्षणजगदुपनिर्मितबिम्बमेघाभिनिर्हारेण बोधिसत्त्वसमाधिना, गगनविरजस्तथागतचन्द्रप्रभेण बोधिसत्त्वसमाधिना, सर्वतथागतगगनाधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वधर्मेन्द्रियव्यूहप्रभासेन बोधिसत्त्वसमाधिना, सर्वधर्मार्थविवरणप्रदीपेन बोधिसत्त्वसमाधिना, दशबलमण्डलावभासेन बोधिसत्त्वसमाधिना, त्र्यध्वबुद्धकेतुध्वजेन बोधिसत्त्वसमाधिना, सर्वबुद्धकगर्भेण बोधिसत्त्वसमाधिना, सर्वक्षणक्षणारम्भनिष्ठेन बोधिसत्त्वसमाधिना, अक्षयपुण्यगर्भेण बोधिसत्त्वसमाधिना, अनन्तबुद्धदर्शनविनयावभासेन बोधिसत्त्वसमाधिना, सर्वधर्मवज्रसिंहप्रतिष्ठानेन बोधिसत्त्वसमाधिन, सर्वतथागतनिर्माणसंदर्शनसमन्तविज्ञप्त्यभिनिर्हारेण बोधिसत्त्वसमाधिना, सर्वतथागतदिवसाक्रमणान्तिना बोधिसत्त्वसमाधिना, एकत्र्यध्वसंतापेन बोधिसत्त्वसमाधिना, प्रकृतिशान्तसर्वधर्मसमन्तप्रभप्रमुक्तघोषस्वरेण बोधिसत्त्वसमाधिना, सर्वबुद्धदर्शनसीमावतिक्रमेण बोधिसत्त्वसमाधिना,

निरवशेषसर्वधर्मधातुपद्मनलिनीप्रतिबुद्धेन (gv 30) बोधिसत्त्वसमाधिना, अनालयधर्मगगनव्यवलोकनेन बोधिसत्त्वसमाधिना, एकदिग्दशदिक्सागरसमवसरणावर्तेन बोधिसत्त्वसमाधिना, सर्वधर्मधातुतलप्रमुखप्रवेशेन बोधिसत्त्वसमाधिना, सर्वधर्मसागरवतिगर्भेण बोधिसत्त्वसमाधिना, सर्वसत्त्वप्रभामुञ्चनप्रशान्तकायेन बोधिसत्त्वसमाधिना, एकचित्तक्षणसर्वाभिज्ञाप्रणिध्यभिनिर्हारेण बोधिसत्त्वसमाधिना, सदासर्वत्रसमन्ताभिसंबोध्यधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वधर्मधात्वेकव्यूहानुगमप्रवेशेन बोधिसत्त्वसमाधिना, सर्वबुद्धस्मृतिशरीरावभासेन बोधिसत्त्वसमाधिना, सर्वजगद्भूरिविशेषज्ञानाभिज्ञेन बोधिसत्त्वसमाधिना, चित्तक्षणानन्तधर्मधातुनयस्वकायस्फरणेन बोधिसत्त्वसमाधिना, एकनयधर्मधातुसर्वधर्मैकनयव्यूहप्रभेण बोधिसत्त्वसमाधिना, सर्वबुद्धधर्ममण्डलचक्रतेजोधिष्ठानेन बोधिसत्त्वसमाधिना, इन्द्रजालसत्त्वधातुसंग्रहप्रणिधिचर्याधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वलोकधातुतलासंभेदेन बोधिसत्त्वसमाधिना, पद्मश्रीविकुर्वितसमन्तविक्रामिणा बोधिसत्त्वसमाधिना, सर्वसत्त्वकायपरिवर्तज्ञानाभिज्ञेन बोधिसत्त्वसमाधिना, सर्वसत्त्वाभिमुखकायाधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वसत्त्वस्वराङ्गसागरजगन्मन्त्रसंभेदनयाभिज्ञेन बोधिसत्त्वसमाधिना, सर्वजगत्तलभेदज्ञानाभिज्ञेन बोधिसत्त्वसमाधिना, महाकरुणाकोशासंभेदगर्भेण बोधिसत्त्वसमाधिना, सर्वबुद्धतथागतकोटिप्रवेशेन बोधिसत्त्वसमाधिना, सर्वतथागतविमोक्षभवनव्यवलोकनसिंहविजृम्भितेन

बोधिसत्त्वसमाधिना, एतत्प्रमुखैरनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वसमाधिवर्गावतारैस्ते बोधिसत्त्वास्तान् भगवतो वैरोचनस्य बुद्धविकुर्वितसमुद्रानवतरन्ति /

पूर्वसभागचरितविकुर्वितं च समनुस्मरन्ति /

चित्तक्षणे चित्तक्षणे सर्वधर्मधातुस्फरणेनावतारेण तेषां पुनर्बोधिसत्त्वानां भगवतः संमुखीभावगतानां जेतवनानुप्राप्तानां दशबुद्धक्षेत्रपरमाणुरजःसमलोकधातुविपुलनानारत्नपद्मगर्भसिंहासनसंनिषण्णानां महाज्ञानाभिज्ञाविकुर्वितनिर्यातानां तीक्ष्णज्ञानाभिज्ञावतिभूम्यनुप्राप्तानां समन्तज्ञानव्यवचाराणां प्रज्ञाकरगोत्रसंभवानां सर्वज्ञज्ञानाभिमुखानां वितिमिरज्ञानचक्षुषां सत्त्वसारथिभावानुप्राप्तानां सर्वबुद्धसमतानुगतानां सदाविकल्पधर्मचरणानां सर्वधर्मारम्बणप्रतिविद्धानां सर्वधर्मप्रकृतिशान्तरम्बणानां सर्वलोकप्रशान्तनिर्वाणालयपरमाणां सर्वलोकनानात्वप्रतिष्ठानाम् अनिकेतसर्वक्षेत्रगमनानाम् अप्रतिष्ठानसर्वधर्मपदानाम् अनार्यूहसवधमविमानप्रतिष्ठानां सर्वजगत्परिपाकविनयप्रतिपन्नानां सर्वसत्त्वक्षेमगतिसंदर्शकानाम् अभ्युद्गतज्ञानविमोक्षभवनगोचराणां विरागकोट्यनुगतज्ञानशरीराणां सर्वभवसमुद्रोच्चलितानां सर्वजगद्भूतकोटीविपश्यकानां धर्मसागरप्रज्ञावभासमण्डलानां सागरवतीधातुसमाधिसुसमाहितमहाकरुणाचित्तानां मायागतधर्मनयसुप्रतिविद्धानां स्वप्नोपमसर्वलोकधात्ववतीर्णानां प्रतिभासोपमसर्वतथागतदर्शनप्रतिविद्धानां प्रतिश्रुत्कोपमसर्वरुतरवितघोषविज्ञप्तीनां निर्मितोपमसर्वधर्माभिनिर्वृत्तिज्ञानप्रतिविद्धानां सुसमार्जितविषयप्रणिधानानां समन्तज्ञानमण्डलविशुद्धिकौशल्यानुगतानाम् अत्यन्तशान्तप्रशान्तचित्तानां सर्वधारणीगोत्रज्ञानविषयाणां अच्छम्भितसमाधिबलसमन्तपराक्रमाणां धर्मधातुस्थितिकोटीगतचक्षुषां (gv 31) सर्वधर्मानिलम्भविहारप्राप्तानां

अनन्तप्रज्ञासागरविचारिणां ज्ञानपारमितापारंगतानां प्रज्ञापारमिताबलाधानप्राप्तानाम् ऋद्धिपारमितासर्वजगत्पारंगतानां समाधिपारमितावशगतानां सर्वतथागतार्थकौशल्याविपरीतज्ञानिनां धर्मकौशल्यप्रकाशनविधिज्ञानां निरुक्तिज्ञानाभिज्ञानामक्षयप्रतिभानबलधर्ममेघानां वैशारद्यर्षभसिंहनादिनाम् अनालयधर्मासमरतिरतानां वितिमिरसर्वधर्मप्रसारितचक्षुषां सर्वलोकसंवित्तिभवज्ञानचन्द्राणां प्रज्ञामण्डलसर्वसत्यनयव्यवहाररश्मीनां ज्ञानवज्रपुण्यचक्रवालानां सर्वौपम्यौपम्यसमतिक्रान्तानां सर्वधर्मेन्द्रियज्ञानाङ्कुरविरूढानां शूरध्वजानां सर्वमारध्वजप्रमर्दनवीर्याणामनन्तज्ञानमण्डलतेजसां सर्वजगदभ्युद्गतकायानां सर्वधर्मानावरणप्रज्ञानां क्षयाक्षयकोटिज्ञानविबुद्धानां समन्तकोट्यनुगतभूतकोटिप्रतिष्ठानां अनिमित्तव्यवहरणप्रत्यवेक्षज्ञानचक्षुषां सर्वबोधिसत्त्वचर्याभिनिर्हारनिमित्तकुशलानाम् अद्वयज्ञानगोचराणां सर्वलोकगतिविपश्यकानाम् अनिकेतसर्वबुद्धक्षेत्रगतिप्रतिभासप्राप्तानां सर्वधर्मान्धकारविगतानाम् अतमोज्ञानमण्डलप्रतिपन्नानां समन्तदिग्धर्मावभासप्रयुक्तानां सर्वजद्वरेण्यपुण्यक्षेत्रानाम् अमोधश्रवणदर्शनप्रणिधिचन्द्राणां सर्वलोकाभ्युद्गतपुण्यसुमेरूणां सर्वपरप्रवादिचक्रविनिग्रहशूउराणां सर्वबुद्धक्षेत्रघोषस्वरशब्दनिर्नादिनां सर्वबुद्धकायातृप्तदर्शनानां सर्वबुद्धशरीरप्रतिभासवशवर्तिनां जगद्विनयानुकूलकायाधिष्ठानानां सर्वक्षेत्रप्रसरैककायस्फरणानाम् अभिसंस्कारविमण्डलपरिशुद्धानामनावरणगगनमहाज्ञानयानपात्राणां ज्ञानमण्डलसर्वधर्मधातुकायप्रभासनानां

सर्वजगदुदितज्ञानादित्यानां सर्वजगदुचितयथाशयबलानां सर्वजगदाशयेन्द्रियप्रतिविद्धज्ञानानाम् अनावरणविषयसर्वधर्मोपपन्नानाम् अनुपपत्तिसर्वधर्मस्वभावविज्ञप्तानां सूक्ष्मोदारान्योन्यसमवसरणज्ञानसंवर्धितवर्तिनां गम्भीरबुद्धभूमिगतिनिश्चितानां गम्भीरार्थपदव्यञ्जनव्यवहारज्ञानानाम् अक्षयपदव्यञ्जनार्थसूचकानां सर्वसूत्रसागरैकपदप्रवेशप्रभाषमाणानां विपुलधारणीज्ञानशरीराधिष्ठानानाम् अनन्तकल्पसंधारणानुगताधिष्ठानानाम् एकचित्तक्षणानभिलाप्यकल्पसंवासप्रतिविद्धज्ञानानाम् एकचित्तक्षणत्र्यध्वज्ञानसर्वलोकाभिज्ञानानां सर्वधर्मधारण्यनन्तबुद्धधर्मसागरप्रतिभासानां सर्वजगज्ज्ञानोपनायिकधर्मचक्रप्रवर्तनानिवर्त्यानां बुद्धविषयज्ञानावभासप्रतिलब्धानां सुदर्शनसमाधिसदासमापन्नानाम् असङ्गकोटीसर्वधर्मप्रभेदज्ञानाभिज्ञानां सर्वधर्मविशेषविमोक्षविषयज्ञानविक्रीडितानां सर्वारम्बणशुभव्यूहाधिष्ठानानां दशदिग्धर्मधातुदिगनुशरणप्रविष्टानां सर्वदिग्विभङ्गधर्मधातुसमवसरणानां सुसूक्ष्मोदारपरमाणुरजोबोधिं विबुध्यतां सुवर्णप्रकृतिसर्ववर्णसंदर्शकानां एकदिक्समवसरणानाम् एकरूपानन्तगुणज्ञानसंवर्धितज्ञानपुण्यगर्भाणां सर्वबुद्धस्तुतस्तवितप्रशस्तानाम् अक्षीणपदव्यञ्जनगुणवर्णनिर्देशानां बोधिसत्त्वानां जेतवने संनिपतितानां संनिषण्णानां तथागतगुणसमुद्रमवतरतां तथागतरश्म्यवभासितानां सर्वशरीरेभ्यः तेभ्यश्च कूटागारेभ्यो बोधिसत्त्वपरिभोगेभ्यः तेभ्यश्च बोधिसत्त्वासनेभ्यः सर्वस्माज्जेतवनान्महाप्रीतिवेगप्रतिलाभधर्मतया अचिन्त्यबोधिसत्त्वधर्मावभासप्रतिलाभेन

प्रीतिवेगसंभवमहाविकुर्वितव्यूहान्निश्चरित्वा (gv 32) सर्वधर्मधातु स्फरन्ति स्म /

यदुत चित्तक्षणे चित्तक्षणे विपुलरश्मिजालमेघाः सर्वजगत्संतोषणा निश्चरित्वा दश दिशः स्फरन्ति स्म / सर्वरत्नमणिघण्टामेघ निश्चरित्वा सर्वत्र्यध्वतथागतगुणवर्णनिर्देशमेघनिर्नादाननुरवन्तो दश दिशः स्फरन्ति स्म / सर्वजगद्वाद्यमेघः सर्वारम्बणेभ्यो निश्चरित्वा सर्वसत्त्वकर्मविपाकमधुरवाद्यघोषसंप्रयुक्ता अनुवरन्तो दश दिशः स्फरन्ति स्म / सर्वबोधिसत्त्वप्रणिधानविचित्रबोधिसत्त्वचर्यासंदर्शनरूपमेघा निश्चरित्वा सर्वबोधिसत्त्वप्रणिधानरुतघोषान् निगर्जन्तो दश दिशः स्फरन्ति स्म / लक्षणानुव्यञ्जनविभूषितबोधिसत्त्वकायमेघा निश्चरित्वा सर्वक्षेत्रेष्वनुगतबुद्धोपादपरंपरामुदीरयन्तो दश दिशः स्फरन्ति स्म / सर्वत्र्यध्वतथागतसदृशबोधिमण्डमेघा निश्चरित्वा सर्वतथागतातिसंबोधिनिर्याणव्यूहान् संदर्शयन्तो दश दिशः स्फरन्ति स्म / सर्वारम्बणेभ्यः सर्वनागेन्द्रकायमेघा निश्चरित्वा सर्वगन्धवर्षाणि प्रवर्षन्तो दश दिशः स्फरन्ति स्म / सर्वजगदिन्द्रसदृशकायमेघा निश्चरित्वा समन्तभद्रबोधिसत्त्वचर्यामुदीरयन्तो दश दिशः स्फरन्ति स्म / सर्वारम्बणेभ्यः सर्वरत्नमयसर्वपरिशुद्धबुद्धक्षेत्रप्रतिभासमेघा निश्चरित्वा सर्वतथागतधर्मचक्रप्रवर्तनानि दर्शयन्तो दश दिशः स्फरन्ति स्म / एवंप्रमुखा अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमा महाव्यूहविकुर्वितमेघा निश्चरन्ति स्म तेषां बोधिसत्त्वानामधिष्ठानेन अचिन्त्यधर्मसमुद्रावभासप्रतिलाभधर्मतया च //

अथ खलु मञ्जुश्रीर्बोधिसत्त्वो बुद्धाधिष्ठानेन एतान्येव सर्वविकुर्वितानि संदर्शयन् दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत -

संप्रेक्षतो जेतवने अनन्तं बुद्धाधिष्ठानं विपुलं प्रवृत्तम् / आरम्बणा सर्वतु कायमेघा निश्चार्य ते सर्वदिशः स्फरन्ति // 11 //

अनन्तवर्णा विपुला विशुद्धा व्यूहा विचित्राः सुगतात्मजानाम् / दृश्यन्ति सर्वेहि त आसनेभ्यः सारम्बणेभ्यः प्रतिभासप्राप्ताः // 12 //

नानावियूहा रत्नार्चिमेघाः स्फरन्ति क्षेत्रान्तर सर्जमानाः / रोम्णां मुखेभ्यः सुगतात्मजानां रुतानि बौद्धानि निगर्जमानाः // 13 //

ब्रह्मेन्द्ररूपैः सदृशात्मभावाः प्रशान्तईर्यापथ शुद्धकायाः / वृक्षाण पुष्पेभि विनिश्चरित्वा व्रजन्ति ध्यानाङ्गमुदीरयन्तः // 14 //

समन्तभद्रोपमबोधिसत्त्वाः सलक्षणव्यञ्जनभूषिताङ्गाः / अचिन्त्या असङ्ख्याः सुगतस्य रोम्णो अधिष्ठिता निर्मित निश्चरन्ति // 15 //

त्र्यध्वोद्भवानां सुगतात्मजानाम् ये वर्णनिश्चारमहासमुद्राः / गर्जेन्ति तान् जेतवनोपविष्टांस्ते व्यूहमेघा गुणसागराणाम् // 16 //

ये सर्वदिक्सत्त्वगणस्य कर्ममहासमुद्रा निखिला विचित्रा / श्रूयन्ति ते जेतवने द्रुमाणां कोशान्तरेभ्यो ऽपि विनिश्चरन्तः // 17 //

त्र्यध्वस्थितानामिह या जिननां क्षेत्रेषु सर्वेष्वखिला विकुर्वा / क्षेत्रादधस्तात्परमाणुसंख्या प्रत्येकमारम्बणमाविभान्ति // 18 //

एकैकरोम्णि प्रविभक्तु चित्रा बुद्धा दिक्क्षेत्रे समुद्रमेघाः / अभासयन्ति जिनाधिवासां प्रतिक्षणं तेषु च बुद्धमेघाः // 19 //

जगत्समाः सर्वदिशः स्फरित्वा सत्त्वानुपायैः परिपाचयन्तः / तेषां प्रभाभ्यश्च विनिश्चरन्तो गन्धार्चिपुष्पौघसमुद्रमेघाः // 20 //

व्योमाप्रमाणानि विमानरत्नान् अशेषसद्व्यूहविराजितानि / स्फरन्ति सर्वाण्यपि सर्वदिक्षु क्षेत्राणि सर्वाण्यथ बोधिमण्डान् // 21 //

ये ऽशेषतस्त्र्यश्वगता हि दिक्षु त्र्यध्वस्थितानां सुगतौरसानाम् / समन्तभद्रैश्चरितप्रकारैर्विशोधिताः क्षेत्र महौषधीनाम् // 22 //

व्यूहा विचित्रा जगदप्रमाणैर्विशोधिताः कल्पमहासमुद्रैः / दृश्यन्ति ते ऽपि प्रतिभासयोगादशेषतो जेतवनान्तरिक्षे // 23 //

अथ खलु तेषां बोधिसत्त्वानां बुद्धसमाध्यवभासितसंतानानामेकैकस्य बोधिसत्त्वस्य अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानि महाकरुणामुखान्यवक्रान्तानि / ते भूयस्या मात्रया सर्वजगद्धितसंग्रहाय प्रतिपन्नाः / तेषां तथा समाहितानामेकैकस्माद्रोममुखादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमा रश्मयो निश्चरन्ति / एकैकस्माच्च रश्मिमुखादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमा बोधिसत्त्वनिर्माणमेघा निश्चरन्ति स्म सर्वलोकेन्द्रसदृशकायाः सर्वजगन्मुखाकायाः सर्वसत्त्वपरिपाकानुकूलकायाः / निश्चरित्वा सर्वदिक्षु धर्मधातुं स्फरित्वा सत्त्वान् संबोधयन्ति परिपाचयन्ति विनयन्ति / अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्देवभवनच्युतिसंदर्शनमुखैः सर्वलोकोपपत्तिसंदर्शनमुखैर्बोधिसत्त्वचर्यामण्डलसंदर्शनमुखैः स्वप्नसंदर्शनमुखैश्चित्तसूचनामकार्षुः / सर्वबोधिसत्त्वप्रणिधाननिर्याणमुखैर्लोकधातुसंपन्नमुखैर्दानपारमिताचर्यासंदर्शनमुखैः सर्वतथागतगुणप्रतिपत्तिनिवृत्तिमण्डलमुखैः अङ्गप्रत्यङ्गच्छेदनाक्षान्तिपारमितासंदर्शनमुखैः महाबोधिसत्त्वविकुर्वितवीर्यपारमितासंदर्शनमुखैः सर्वबोधिसत्त्वध्यानविमोक्षसमाधिसमापत्तिबुद्धज्ञानमार्गमण्डलालोकप्रभासस्वरमुखैः सर्वबुद्धधर्मपर्येषणाय एकैकस्य धर्मपदव्यञ्जनस्यार्थाय असंख्येयात्मभावपरित्यागसंदर्शनमुखैः सर्वतथागतोपसंक्रमणसर्वधर्मपरिपृच्छनमुखैः यथाकालयथाशयजगदुपसंक्रमणोपनायिकसर्वज्ञतापरिपूरकोपायनयसागरालोकविज्ञप्तिमुखैः

सर्वबोधिसत्त्वपुण्यज्ञानसंभारसर्वमारपरप्रवाद्यनवमृद्यबलकेतुसंदर्शनमुखैः सर्वशिल्पज्ञानाभिज्ञावतीज्ञानभूमिसंदर्शनमुखैः सर्वजगद्विशेषज्ञानाभिज्ञावतीज्ञानभूमिसंदर्शनमुखैः सर्वसत्त्वाशयविशेषज्ञानाभिज्ञावतीज्ञानभूमिसंदर्शनमुखैः सर्वसत्त्वेन्द्रियप्रवेशप्रयोगनानाक्लेशवासनासमुद्धातज्ञानाभिज्ञावतीज्ञानभूमिसंदर्शनमुखैः सर्वसत्त्वनानाकर्मप्रतिपत्तिज्ञानाभिज्ञावतीज्ञानभूमिसंदर्शनमुखैः / एतत्प्रमुखाननभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैः सत्त्वपरिपाकविनयोपायसंग्रहमुखैस्तैर्बोधिसत्त्वाः सर्वसत्त्वभवनेषूपसंक्रान्ताः संदृश्यन्ते स्म / केचिद्देवभवनेषु केचिन्नागभवनेषु केचिद् यक्षभवनेषु केचिद्गन्धर्वभवनेषु केचिदसुरभवनेषु केचिद्गरुडभवनेषु केचित्किन्नरभवनेषु केचिन्महोरगभवनेषु केचिद्ब्रह्मेन्द्रभवनेषु केचिन्मनुष्येन्द्रभवनेषु केचिद् यमनगरेषु केचित् सर्वप्रेतालयेषु केचित् सर्वनरकलोकेषु केचित् सर्वतिर्यग्योनिगतिषु (gv 35) असंभिन्नया महाकरुणया असंभिन्नेन प्रणिधानेन असंभिन्नेन ज्ञानेन असंभिन्नेन सत्त्वसंग्रहप्रयोगेन दर्शनवैनयिकानां सत्त्वानां श्रवणवैनयिकानामनुस्मृतिवैनयिकानां स्वरमण्डलवैनयिकानां नामनदीनिर्घोषवैनयिकानां प्रभामण्डलवैनयिकानां रश्मिजालप्रमुञ्चनवैनयिकानां यथाशयानाअं सत्त्वानां परिपाकविनयार्थं जेतवनान्ते बोधिसत्त्वा नानाविकुर्वितव्यूहैः सर्वलोकधातुसमुद्रेषु सर्वसत्त्वधातुप्रसरान् स्फरन्तः संदृश्यन्ते स्म / न च तथगतापादमूलादुच्चलन्ति / केचित् स्वभवनकूटागारासनपरिवारा दश दिशः स्फरन्तः संदृश्यन्ते,

तथागतपादमूलाच्च न चलन्ति / केचिन्निर्मितमेघान् प्रमुञ्चतः संदृश्यन्ते सत्त्वपरिपाकाय, तथागतपर्षन्मण्डलाच्च न चलन्ति / केचिच्छ्रमणरूपेण केचिद्ब्राह्मणरूपेण केचित्सर्वप्रतिलिङ्गाकल्पारोहपरिणाहरूपेण केचिद्वैद्यरूपेण केचिद्वणिग्रूपेण केचिच्छ्रुभाजीवरूपेण केचिन्नर्तकरूपेण केचिद्देवलकरूपेण केचित् सर्वशिल्पाधाररूपेण सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रान्ताः संदृश्यन्ते स्म / कालवशेन कालमनुवर्तमाना अनुरूपकायाभिनिर्हारभेदेन अनुरूपकायवर्णसंस्थानभेदेन स्वरभेदेन मन्त्रभेदेन ईर्यापथभेदेन अवस्थानभेदेन सर्वजगदिन्द्रजालोपमायां बोधिसत्त्वाचर्यायां सर्वशिल्पमण्डलप्रभासनायां सर्वजगज्ज्ञानोद्द्योतनालोकप्रदीपायां सर्वसत्याधिष्ठानव्यूहायां सर्वधर्मावभासनप्रभायां सर्वदिग्यानव्यवस्थानशोधनायां सर्वधर्ममण्डलप्रदीपायां बोधिसत्त्वचर्यायां चरन्तः सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रान्ताः संदृश्यन्ते स्म सत्त्वपरिपाकविनयाय //

कल्याणमित्राणि / 3 मञ्जुश्रीः /

अथ खलु मञ्जुश्रीरपि कुमरभूतः प्रतिष्ठानकूटागारगतः सार्धं सभागचरितैर्बोधिसत्त्वैः, नित्यानुबद्धैश्च वज्रपाणिभिः, सर्वलोकबलकरणप्रयुक्ताभिश्च सर्वबुद्धोपस्थानप्रणिधानचित्ताभिः शरीरकायिकाभिर्देवताभिः, पूर्वप्रणिधानानुबद्धाभिश्च पदकायिकाभिर्देवताभिः, धर्मश्रवणाभिमुखाभिश्च पृथिवीदेवताभिः, महाकरुणाप्रयुक्ताभिश्च उत्ससरोह्रदतडागोदधाननदीदेवताभिः, प्रज्ञालोकबलप्रभावभासाभिश्च ज्वलनदेवताभिः, आबद्धमकुटाभिश्च वायुदेवताभिः, सर्वदिगवभासज्ञानाभिश्च दिग्देवताभिः अविद्यान्धकारविधमनप्रयुक्ताभिश्च रात्रिदेवताभिः, तथागतदिवसाभिनिर्हारप्रयुक्ताभिश्च दिवसदेवताभिः, सर्वधर्मधातुगगनप्रतिमण्डलप्रयुक्ताभिश्च गगनदेवताभिः, सर्वजगद्भवसमुद्रसंतारणप्रयुक्ताभिश्च सागरदेवताभिः, सर्वज्ञतासंभारसमार्जनप्रयुक्ताभिश्च कुशलमूलकूटागारभ्युद्गतचित्ताभिः पर्वतदेवताभिः, सर्वजगच्छरीरालंकारप्रयुक्ताभिश्च सर्वबुद्धवर्णाधिष्ठानप्रणिधानप्रयुक्ताभिर्नदीदेवताभिः, सर्वजगच्चित्तनगरपरिपालनप्रयुक्ताभिश्च नगरदेवताभिः, सर्वधर्मनगरप्रणिधानाधिमुक्तैश्च नागेन्द्रैः सार्धं सर्वसत्त्वारक्षाप्रतिपन्नैश्च यक्षेन्द्रैः, सर्वसत्त्वप्रीतिवेगविवर्धनप्रयुक्तैश्च गन्धर्वेन्द्रैः, सर्वप्रेतगतिविनिवर्तनप्रयुक्तैश्च कुम्भाण्डेन्द्रैः, सर्वसत्त्वभवसागराभ्युद्धरणप्रणिधिप्रतिपन्नैश्च गरुडेन्द्रैः, सर्वलोकाभ्युद्गततथागतकायबलपरिनिष्पत्तिप्रणिधानसंजातैश्च असुरेन्द्रैः, तथागतदर्शनप्रीतिलब्धैश्च प्रणतकायैर्महोरगेन्द्रैः, संसारोद्विग्नमानसैश्च उल्लोकितवदनैर्देवएन्द्रैः, महागौरवप्रतिलब्धैश्च प्रणतशरीरर्ब्रह्मेन्द्रैः, महागौरवाभिष्टुतमहितम् एवंरूपया बोधिसत्त्वविक्रमव्यूहसंपदा मञ्जुश्रीर्बोधिसत्त्वः स्वकाद्विहारान्निष्क्रम्य भगवन्तमनेकशतकृत्वः प्रदक्षिणीकृत्य अनेकाकारया पूजयित्वा भगवतो ऽन्तिकादपक्रम्य येन दक्षिणापथस्तेन जनपदचर्यां प्रक्रान्तः //

अथ खलु आयुष्मान् शरिपुत्रो बुद्धानुभावेन अद्राक्षीन्मञ्जुश्रियं कुमारभूतमनया ईदृश्या बोधिसत्त्वविकुर्वितव्यूहसंपदा जेतवनान्निष्कम्य येन दक्षिणा दिक् तेनोपसंक्रममाणम् / दृष्ट्वा च अस्यैतदभवत् - यन्न्वहं मञ्जुश्रिया कुमारभूतेन सार्धं जनपदचर्यां प्रक्रमेयम् / स षष्टिमात्रैर्भिक्षुभिः परिवृतः पुरस्कृतः स्वकाद्विहारान्निष्क्रम्य येन भगवांस्तेनोपसंक्रामत् / उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तमवलोक्य भगवताभ्यनुज्ञातो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो ऽन्तिकात्प्रक्रम्य येन मञ्जुश्रीः कुमारभूतस्तेनोपजगाम सार्धं तैः षष्टिभिर्भिक्षुभिः परिवृतः पुरस्कृतः, सार्धविहारिभिर्नवकैरचिरप्रव्रजितैः, यदुत सागरबुद्धिना च भिक्षुणा, महासुदतेन च भिक्षुणा, पुण्यप्रभेण च महावत्सेन च विभुदत्तेन च विशुद्धचारिणा च देवश्रिया च इन्द्रमतिना च ब्रह्मोत्तमेन च प्रशान्तमतिना च भिक्षुणा / एवंप्रमुखैः षष्टिभिर्भिक्षुभिः परिवृतः पुरस्कृतः / सर्वे च ते भिक्षवः पूर्वजिनकृताधिकारा अवरोपितकुशलमूला दूरानुगताधिमुक्तयः श्रद्धानयपरिशुद्धा महाचेतनासमुदाचारा (gv 37) बुद्धदिग्विलोकनसमर्था धर्मस्वभावप्रकृतिनिष्पत्तिचेतसः परहितपरिणतबुद्धयस्तथागतगुणाभिलाषिणो मञ्जुश्रीधर्मदेशनावैनयिकाः //

अथ खलु आयुष्मान् शारिपुत्रो गच्छन्नेव मार्गं सर्वास्तान् भिक्षूनवलोक्य सागरबुद्धिं भिक्षुमामन्त्रयामास - पश्य सागरबुद्धे मञ्जुश्रियो बोधिसत्त्वस्य कायपरिशुद्धिमचिन्त्यां सदेवकेन लोकेन, लक्षणानुव्यञ्जनविचित्रितां प्रभामण्डलपरिशुद्धिं च, अप्रमेयसत्त्वसंजननीरश्मिजालव्यूहं च, अपरिमाणसर्वदुःखप्रशमनं परिवारसंपदं च, पूर्वकुशलमूलसुपरिगृहीतान् मार्गव्यूहांश्च गच्छतो ऽष्टापदो मार्गः संतिष्ठते / मार्गविक्रमव्यूहांश्च सर्वदिग्मण्डलाभिमुखान् वर्तमानान् पुण्यसम्यग्व्यूहांश्च वामदक्षिणेन महानिधानान्युद्वेलानि भवन्ति / पूर्वबुद्धोपस्थानकुशलमूलनिष्यन्दैश्च सर्ववृक्षकोशेभ्यो व्यूहा निर्गच्छन्ति / सर्वलोकेन्द्राः पूजामेघानभिप्रवर्षन्तः प्रणमन्ति / दशभ्यो दिग्भ्यः सर्वतथागतोर्णाकोशेभ्यो रश्मिजालमण्डलानि निश्चरित्वा सर्वबुद्धधर्मान्निगर्जमानान् मूर्ध्नि निपतन्ति / एवंप्रमुखानायुष्मान् शारिपुत्रो मञ्जुश्रियः कुमारभूतस्य अपरिमाणान् मार्गक्रमणगुणव्यूहांस्तेषां भिक्षूणां संदर्शयति, भाषते उदीरयति प्रभावयति संवर्णयति विवरति विभजति उत्तानीकरोति /

यथा यथा स्वविरः शारिपुत्रो मञ्जुश्रियः कुमारभूतस्य गुणानुदीरयति, तथा तथा तेषां भिक्षूणां चित्तानि विशुद्ध्यन्ति प्रसीदन्ति, प्रीतिवेगा विवर्धन्ते, हर्ष उत्पद्यते, संतानानि चैषां कर्मण्यानि भवन्ति, इन्द्रियाणि प्रसीदन्ति, सौमनस्यं विवर्धते, दौर्मनस्यं प्रहीयते, चित्तमलो ऽपगच्छति, सर्वावरणानि विनिवर्तन्ते, बुद्धदर्शनमभिमुखीभवति, बुद्धधर्मेषु चित्तानि परिणमन्ति, बोधिसत्त्वेन्द्रियाणि परिशुद्ध्यन्ते, बोधिसत्त्वप्रसादवेगा उत्पद्यन्ते, महाकरुणा संभवति, पारमितामण्डलमवक्रामति, महाप्रणिधानानि संजायन्ते, दशसु दिक्षु बुद्धसमुद्रा आभासीभवन्ति / ते एवमुदारं सर्वज्ञताप्रसादवेगं प्रतिलब्धा एतदवोचन् - उपनयतु उपाध्यायो ऽस्मानेतस्य सत्पुरुषस्य सकाशम् / अथ खलु आयुष्मान् शारिपुत्र त्रैर्भिक्षुभिः सार्धं येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य एतदवोचत् - इमे मञ्जुश्रीः भिक्षवः त्वद्दर्शनकामाः / अथ खलु मञ्जुश्रीः कुमारभूतो महता बोधिसत्त्वविकुर्वितेन सार्ध पर्षन्मण्डलप्रमाणेन भूमिमण्डलेन नागावलोकितेन प्रत्युदावृत्य तान् भिक्षूनवलोकयामास / अथ खलु ते भिक्षवो मञ्जुश्रियः कुमारभूतस्य पादौ शिरोभिरभिवन्द्य अञ्जलीन् प्रगृह्य एतदवोचन् - अनेन वयं सत्पुरुष त्वद्दर्शनकुशलमूलेन यदप्यस्माकमन्यत्कुशलमूलं त्वं जानीषे, उपाध्यायश्च, यच्च भगवतः शाक्यमुनेस्तथागतस्य प्रत्यक्षम्, तेन वयं कुशलमूलेन ईदृशा एव भवेम्, यादृशस्त्वम् / एवंरूपं च कायं प्रतिलभेम, एवंरूपं घोषम्, एवंरूपाणि लक्षणानि, ईदृशानि विकुर्वितानि यादृशानि तव //

एवमुक्ते एभिर्भिक्षुभिः मञ्जुश्रीः कुमारभूतस्तान् भिक्षूनिदमवोचत् - दशभिरपरिखेदचित्तोत्पादैः समन्वागतो भिक्षवो महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा (gv 38) तथागतभूमिमवक्रामति, प्रागेव बोधिसत्त्वभूमिम् / कतमैर्दशभिः? यदुत सर्वतथागतदर्शनपर्युपासनपूजोपस्थानेष्वपरिखेदचित्तोत्पादेन, सर्वकुशलमूलोपचयेष्वनिवर्त्यापरिखेदचित्तोत्पादेन, सर्वधर्मपर्येष्टिष्वपरिखेदचित्तोत्पादेन, सर्वबोधिसत्त्वपारमिताप्रयोगेष्वपरिखेदचित्तोत्पादेन, सर्वबोधिसत्त्वसमाधिपरिनिष्पादनेष्वपरिखेदचित्तोत्पादेन, सर्वाध्वपरंपरावतारेष्वपरिखेदचित्तोत्पादेन, दशदिक्सर्वबुद्धक्षेत्रसमुद्रस्फरणपरिशुद्धिषु अपरिखेदचित्तोत्पादेन, सर्वसत्त्वधातुपरिपाकविनयेष्वपरिखेदचित्तोत्पादेन, सर्वक्षेत्रकल्पबोधिसत्त्वचर्यानिर्हारेषु अपरिखेदचित्तोत्पादेन, सर्वबुद्धक्षेत्रपरमाणुरजःसमपारमिताप्रयोगैकसत्त्वपरिपाचनक्रमेण सर्वसत्त्वधातुपरिपाचनेन, एकतथागतबलपरिनिष्पादनेषु अपरिखेदचित्तोत्पादेन / एभिर्भिक्षवो दशभिरपरिखेदचित्तोत्पादैः समन्वागतः श्राद्धः कुलपुत्रः कुलदुहिता वा संवर्तते सर्वकुशलमूलेषु, विवर्तते सर्वसंसारगतिभ्यः, उच्चलति सर्वलोकवंशेभ्यः, अतिक्रामति सर्वश्रावकप्रत्येकबुद्धभूमिभ्यश्च / संभवति सर्वतथागतकुलवंशेषु, संपद्यते बोधिसत्त्वप्रणिधानेषु, विशुध्यते सर्वतथागतगुणप्रतिपत्तिषु, परिशुध्यते सर्वबोधिसत्त्वचर्यासु, समुदागच्छति सर्वतथागतबलेषु, प्रमर्दति सर्वमारपरप्रवादिनः, आक्रामति सर्वबोधिसत्त्वभूमीः, आसन्नीभवति तथागतभूमेः //

अथ खलु ते भिक्षव इमं धर्मनयं श्रुत्वा सर्वबुद्धविदर्शनासङ्गचक्षुर्विषयं नाम समाधिं प्रत्यलभन्त, यस्यानुभावाद्दशदिगनन्तापर्यन्तलोकधातुस्थितांस्तथागतान् पर्षन्मण्डलानद्राक्षुः / ये च तेषु लोकधातुषु सर्वजगत्युपपन्नाः सत्त्वास्तानशेषानद्राक्षुः / तांश्च लोकधातून् नानाविभक्तितानपश्यन् / यानि च तेषु लोकधातुषु परमाणुरजांसि, तान्यपि गणनायोगेन प्रजानन्ति स्म / ये च तेषां सत्त्वानां नानारत्नमया भवनविमानपरिभोगास्तानपि पश्यन्ति स्म / तेषां च तथागतानां स्वराङ्गसमुद्रानश्रौषुः / तां च धर्मदेशनां नानापदव्यञ्जननिरुक्तिमन्त्रनामसंज्ञाभिराजानन्ति स्म / तेषां च सत्त्वानां चित्तेन्द्रियाशयान् व्यवलोकयन्ति स्म / दश च पूर्वान्तापरान्तजातिपरिवर्ताननुस्मरन्ति स्म / तेषां च तथागतानां दशधर्मचक्रनिरुक्तिनिर्हारानवतरन्ति स्म / दशर्द्धिविकुर्वितविहारान् दशादेशनानयनिर्हारान् दशानुशास्तिपदनिर्हारानवतरन्ति स्म / तेषां च तथागतानां दशप्रतिसंविन्नयाभिनिर्हारानवतरन्ति स्म / सहप्रतिलम्भादस्य समाधेर्दशबोधिचित्ताङ्गसहस्राणि परिनिष्पादयन्ति स्म / दशसमाधिसहस्राण्यवक्रामन्ति स्म / दशपारमिताङ्गसहस्राणि विशोधयन्ति स्म / ते महावभासप्रतिलब्धा महाप्रज्ञामण्डलावभासिता दश बोधिसत्त्वाभिज्ञाः प्रतिलभन्ते स्म / तान् मृदुसूक्ष्माभिज्ञाङ्कुरप्रतिलब्धान् बोधिचित्तोत्पाददृढप्रतिष्ठितान् मञ्जुश्रीः कुमारभूतः समन्तभद्रायां बोधिसत्त्वचर्यायां समादाप्य प्रतिष्ठापयामास / ते समन्तभद्रबोधिसत्त्वचर्याप्रतिष्ठिता महाप्रणिधानसमुद्रानवतीर्य अभिनिर्हरन्ति स्म / ते महाप्रणिधानसागराभिनिर्हृतया चित्तविशुद्ध्या कायविशुद्धिं प्रतिलभन्ते स्म / कायविशुद्ध्या कायलघुतां प्रतिलभन्ते स्म, यया कायविशुद्ध्या (gv 39) कायलघुतया तान्यभिज्ञामुखानि विपुलीकुर्वन्ते, अच्युतागामिनीरभिज्ञाः प्रतिलभन्ते स्म, येनाभिज्ञाप्रतिलाभेन मञ्जुश्रियश्च कुमारभूतस्य पादमूलान्न चलन्ति / दशसु च दिक्षु सर्वतथागतकायमेघानभिनिर्हरन्ति स्म सर्वबुद्धधर्मपरिनिष्पत्तये //

अथ खलु मञ्जुश्रीः कुमारभूतस्तान् भिक्षूननुत्तरायां सम्यक्संबोधौ प्रतिष्ठाप्य अनुपूर्वेण जनपदचर्यां चरन् येन दक्षिणापथे धन्याकरं नाम महानगरं तेनोपजगाम / उपेत्य धन्याकरस्य महानगरस्य पूर्वेण विचित्रसारध्वजव्यूहं नाम महावनषण्डं पूर्वबुद्धाध्युषितचैत्यं तथागताधिष्ठितं सत्त्वपरिपाकाय अनन्तक्षेत्रानुरवितनामनिर्घोषम्, यत्र भगवता पूर्वं बोधिसत्त्वचर्यां चरता अनेके दुष्करपरित्यागाः परित्यक्ताः, यस्मिन् पृथिवीप्रदेशे सततसमितं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः पूजां प्रत्युत्सुकाः, तत्र वासमुपगतः सार्धं सपरिवारेण / तत्र मञ्जुश्रीः कुमारभूतो धर्मधातुनयप्रभासं नाम सूत्रान्तं प्रकाशयामास दशसूत्रान्तकोटीनियुतशतसहस्रप्रस्रवम् / तस्य संप्रकाशयतो महासमुद्रादनेकानि नागकोटीनियुतशतसहस्राण्युपसंक्रान्तानि / ते तं धर्मनयं श्रुत्वा नागगतिं विजुगुप्सन्तस्तथागतगुणान् स्पृहयन्तो नागगतिं विवर्त्य देवमनुष्योपपत्तिं परिगृह्णन्ति स्म / तत्र दश नागसहस्राण्यवैवर्तिकान्यभूवन्ननुत्तरायाः सम्यक्संबोधेः / तस्य तं धर्मं देशयतः कालान्तरेण अनन्तमध्यसत्त्वधातुर्विनयं गतस्त्रिभिर्यानैः //

अश्रौषुर्धन्याकरमनुष्याः - मञ्जुश्रीः कुमारभूतः इदं धन्याकरं नगरमनुप्राप्तः, इहैव विचित्रसारध्वजव्यूहे चैत्ये विहरतीति / श्रुत्वा च पुनरुपासकोपासिका दारकदारिका महाप्रज्ञोपासकश्रेष्ठिपूर्वंगमाः प्रत्येकं पञ्चशतपरिवारा धन्याकरान्नगरान्निष्क्रम्य येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रान्ताः / तत्र महाप्रज्ञोपासकः सुदत्तेन चोपासकेन सार्धं वसुदत्तेन च पुण्यप्रभेण च यशोदेवेन च सोमश्रित्या च सोमनन्दिना च सुमतिना च महामतिना च राहुलभद्रेण च भद्रश्रिया चोपासकेन सार्धमेतत्प्रमुखैः पञ्चभिरुपासकशतैः परिवृतः पुरस्कृतः येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत् //

तत्र महाप्रज्ञा नामोपासिका सुप्रभया चोपासिकया सार्धं सुगात्रया च सुभद्रया च भद्रश्रिया च चन्द्रप्रभासया च केतुप्रभया च श्रीभद्रया च सुलोचनया चोपासिकया सार्धमेतत्प्रमुखैः पञ्चभिरुपासिकाशतैः परिवृता पुरस्कृता येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत् //

तत्र सुधनः श्रेष्ठिदारकः सुव्रतेन च श्रेष्ठिदारकेण सार्धं सुशीलेन च स्वाचारेण च सुविक्रामीणा च सुचिन्तिना च सुमतिना च सुबुद्धिना च सुनेत्रेण च सुबाहुना च (gv 40) सुप्रभेण च श्रेष्ठिदारकेण सार्धमेतत्प्रमुखैः पञ्चभिः श्रेइष्ठिदारकशतैः परिवृतः पुरस्कृतो येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत् //

तत्र सुभद्रा दारिका महाप्रज्ञस्य गृहपतेर्दुहिता भद्रया च दारिकया सार्धमभिरामवर्तया च दृढमत्या च श्रीभद्रया च ब्रह्मदत्तया च श्रीप्रभया च सुप्रभया दारिकया सार्धमेतत्प्रमुखैः पञ्चभिर्दारिकाशतैः परिवृता पुरस्कृता येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत् //

अथ खलु मञ्जुश्रीः कुमारभूतो धन्याकरान्नगरात् ताः स्त्रीपुरुषदारकदारिकाः संनिपतिताः संनिषण्णा विदित्वा यथाशयं संदर्शनाधिपत्येनाभिभूय महामैत्र्याधिपत्येन प्रह्लाद्य महाकरुणाधिपत्येन धर्मदेशनामभिनिर्हृत्य ज्ञानाधिपत्येन चित्ताशयान् प्रविचिन्त्य महाप्रतिसंविदा धर्ममुपदेष्टुकामः सुधनं श्रेइष्ठिदारकम्वलोकयामास / (सुधनः खलु पुनः श्रेष्ठिदारकः केन कारणेनोच्यते सुधन इति? सुधनस्य खलु श्रेष्ठिदारकस्य समनन्तरावक्रान्तस्य मातुः कुक्षौ तस्मिन् गृहे सप्त रत्नाङ्कुराः प्रादुर्भूताः समन्ताद्गृहस्य सुविभक्ताः / तेषां च रत्नाङ्कुराणामधः सप्त महानिधानानि, यतस्ते रत्नाङ्कुराः समुत्पत्य धरणितलमभिनिर्भिद्य अभ्युद्गताः सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसाअरगल्वस्य सप्तमस्य रत्नस्य / स यदा सर्वाङ्गप्रत्यङ्गैः परिपूर्णो दशानां मासानामत्ययाज्जातः, तदा तानि सप्त महानिधानानि सप्तहस्तायामविस्तारोद्वेधप्रमाणानि धरणितलादभ्युद्गम्य विवृत्तानि विरोचन्ति भ्राजन्ते स्म / पञ्च च भाजनशतानि तस्मिन् गृहे प्रादुर्भूतानि नानारत्नमयानि, यदुत सर्पिभाजनानि तैलभाजनानि मधुभाजनानि नवनीतभाजनानि, प्रत्येकं च सर्वोपकरणपरिपूर्णानि /

यदुत वज्रभाजनानि सर्वगन्धपरिपूर्णानि सुगन्धभाजनानि, नानावस्त्रपरिपूर्णानि शिलाभाजनानि, नानाभक्ष्यभोज्यरसरसाग्रपरिपूर्णानि मणिभाजनानि, नानारत्नपरिपूर्णानि सुवर्णभाजनानि रूप्यचूर्णपरिपूर्णानि, रूप्यभाजनानि सुवर्णवर्णचूर्णपरिपूर्णानि, सुवर्णरूप्यभाजनानि वैडूर्यमणिरत्नपरिपूर्णानि, स्फटिकभाजनानि मुसारगल्वपरिपूर्णानि, मुसारगल्वभाजनानि स्फटिकरत्नपरिपूर्णानि, अश्मगर्भभाजनानि लोहितमुक्तापरिपूर्णानि, लोहितमुक्ताभाजनानि अश्मगर्भपरिपूर्णानि, ज्योतिर्ध्वजमणीरत्नभाजनानि उदकप्रसादकमणीरत्नपरिपूर्णानि, उदकप्रसादकमणीरत्नभाजनानि ज्योतिर्ध्वजमणिरत्नपरिपूर्णानि / एतत्प्रमुखानि पञ्च रत्नभाजनशतानि सहजातस्य खलु सुधनस्य श्रेष्ठिदारकस्य गृहे सर्वकोशकोष्ठागारेषु धनधान्यहिरण्यसुवर्णविविधरत्नवर्षाण्यभिप्रवर्षितानि / तस्य नैमित्तिकैर्ब्राह्मणैर्मातापितृभ्यां ज्ञातिवर्गेण च विपुलसमृद्धिरस्य जातमात्रस्य गृहे प्रादुर्भूतेति सुधनः सुधन इति नामधेयं कृतम् /) सुधनः खलु श्रेष्ठिदारकः पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलः (gv 41) उदाराधिमुक्तिकः कल्याणमित्रानुगताशयो ऽनवद्यकायवाङ्मनस्कर्मसमुदाचारो बोधिसत्त्वमार्गपरिशोधनप्रयुक्तः सर्वज्ञताभिमुखो भाजनीभूतो बुद्धधर्माणामाशयगमनपरिशुद्धो ऽसङ्गबोधिचित्तपरिनिष्पन्नः //

अथ खलु मञ्जुश्रीः कुमारभूतः सुधनं श्रेष्ठिदारकमवलोक्य प्रतिसंमोदते स्म, धर्मं चास्य देशयामास - यदुत सर्वबुद्धधर्मानारभ्य सर्वबुद्धधर्मसमुदयावाप्तिमारभ्य सर्वबुद्धानन्ततामारभ्य सर्वबुद्धपरंपरावतारमारभ्य सर्वबुद्धपर्षन्मण्डलविशुद्धिमारभ्य सर्वबुद्धधर्मचक्रनिर्वाणव्यूहमारभ्य सर्वबुद्धरूपकायलक्षणानुव्यञ्जनविशुद्धिमारभ्य सर्वबुद्धधर्मकायपरिनिष्पत्तिमारभ्य सर्वबुद्धसरस्वतिव्यूहमारभ्य सर्वबुद्धप्रभामण्डलव्यूहविशुद्धिमारभ्य सर्वबुद्धसमतामारभ्य धर्मं देशयामास //

अथ खलु मञ्जुश्रीः कुमारभूतः सुधनं श्रेष्ठिदारकं तं च महाजनकायं धर्मकथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्षयित्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पूर्वकुशलमूलं संस्मार्य धन्याकरे महानगरे यथाशयानां सत्त्वानां धर्मदेशनाधिष्ठानं प्रतिप्रस्रभ्य प्रक्रान्तः //

अथ खलु सुधनः श्रेष्ठिदारको मञ्जुश्रियः कुमारभूतस्य सकाशादिदमेवंरूपं बुद्धगुणमाहात्म्यं श्रुत्वा अनुत्तरसम्यक्संबोध्यभिलाषपरमः पृष्ठतः पृष्ठतो ऽनुबद्धो मञ्जुश्रियं कुमारभूतं गाथाभिरभ्यष्टावीत् -

त्वत्प्रभावत अहं महामते बोधि प्रस्थितु हिताय देहिनाम् / तत्र निश्चयु अनन्तगोचरो यो ममा भवति तं शृणोहि मे // 1 //

नन्दितोयपरिखावरोपितं मानदर्पप्राकारौच्छ्रितम् / सर्वसत्त्वगतिद्वारमापितं तत्पुरं त्रिभवनात्मकं महत् // 2 //

मोहविद्यतिमिरावगुण्ठितं रागदोषशिखिना प्रतापितम् / मारईश्वरवशंगताः सदा यत्र बाल अबुधा भिनिश्रिताः // 3 //

तृष्णपाशनिगडैः सुदामिता मायशाठियखिलैः खिलीकृताः / संशयाविमतिअन्धलोचना मिथ्यपृथिवीपथेन प्रस्थिताः // 4 //

ईर्ष्य मात्सर्य सदा सुदामिताः प्रेततिर्यन्नरकाक्षणे गताः / जातिव्याधिजरमृत्युपिडिताः संभ्रमन्ति गतिचक्रमोहिताः // 5 //

तेष त्वं कृपविशुद्धमण्डल ज्ञानरश्मिकिरणप्रभंकर / क्लेशसागरक्षयार्थमुद्गत सूर्यभूत अवभासयाहि मे // 6 //

मैत्रभावनसुपूर्णमण्डला पुण्यज्योत्स्नकिरणा सुखं दद / सर्वसत्त्वभवनैरुदागता पूर्णचन्द्रसदृशा प्रभाससे // 7 //

सर्वशुक्लबलकोशसंभृता धर्मधातुगगनेन सज्जसे / धर्मचक्ररतनं पुरोजवा राजभूत अनुशासयाहि मे // 8 //

बोधियानप्रणिधीपराक्रमा पुण्यज्ञानविपुला समार्जिता / सर्वसत्त्वहितयाभिप्रस्थिता सार्थवाह परिपालयाहि मे // 9 //

क्षान्तिसारदृढवर्मवर्मिता ज्ञानखङ्गकरुणायताभुजा / मारमण्डलरणस्मि आमुखे शूरभूत अभिवाहयाहि मे // 10 //

धर्ममेरुशिखरे समाश्रिता अप्सरोवरसमाधिनिर्वृता / क्लेशराहुअसुरप्रमर्दना शक्रभूत अवलोक्याहि मे // 11 //

त्वं पुरे तृभवबालआलये क्लेशकर्मविनये विनिश्चित / हेतुभूमिगतिचक्रसंभ्रमे दीपभूत गति दर्शयाहि मे // 12 //

दुर्गतीगतपथाद्विवर्तना सूगतीगतपथाविशोधन / सर्वलोकगतिवीतिसंक्रमा मोक्षद्वारमुपनामयाहि मे // 13 //

नित्यआत्मसुखसंज्ञसंहतं वितथग्राहपिथनासुपीथितम् / सत्यज्ञानबलतीक्ष्णचक्षुषा मोक्षद्वारु विवराहि मे लघु // 14 //

सत्यवितथपथेषु कोविदा मार्गज्ञानविधिषू विशारदा / सर्वमारगविनये विनिश्चिता बोधिमार्गमुपदर्शयाहि मे // 15 //

सम्यदृष्टितलभूमिसंस्थिता सर्वबुद्धगुणतोयवर्धिता / बुद्धधर्मगुणपुष्पवर्षणा बोधिमार्गमुपदर्शयाहि मे // 16 //

यामतीतजिन यामनागता प्रत्युत्पन्नजिनभास्करांश्च यान् / सत्त्वसारसुगतान् दिशं गतांस्तान् पि दर्शयहि मार्गदेशक // 17 //

कर्मयन्त्रविधिषू विशारदा धर्मयानरथयन्त्रकोविदा / ज्ञानयानविधिषू विनिश्चिता बोधियानमुपदर्शयाहि मे // 18 //

प्रार्थनाप्रणिधिचक्रमण्डलं क्षान्तिवज्रकृपअक्षसंस्थितम् / श्रद्धईषगुणरत्नचित्रितं बोधियानमभिरोहयाहि मे // 19 //

सर्वधारणविशुद्धमण्डलं मैत्रकूटछदनं स्वलंकृतम् / घण्टमालप्रतिसंविदं शुभं अग्रयानमुपसंहराहि मे // 20 //

ब्रह्मचर्यशयनाभ्यलंकृतं स्त्रीसमाधिनयुतैः समाकुलम् / धर्मदुन्दुभिरुताभिनादितं यानराज्यमुपनामयाहि मे // 21 //

संग्रहैश्चतुर्भिः कोश अक्षयं ज्ञानरत्नगुणहारलंकृतम् / दामह्रीवरवरत्रसंयतं यानश्रेष्ठमुपदर्शयाहि मे // 22 //

त्यागरश्मिशुभमण्डलप्रभे शीलचन्दनकृपानुलेपने / क्षान्तिशल्यदृढसंधिसंहते अग्रयानि लघु स्थापयाहि मे // 23 //

सर्वसत्त्वविनयानिवर्तिये ध्यानपञ्जरसमाधिउच्छ्रिते / प्रज्ञपायसमयोगवाह ते धर्मयानि प्रवरे स्थपेहि मे // 24 //

प्रणिधिचक्रगतिचक्रशोधनं धर्मधारणिदृढं महातलम् / ज्ञानयन्त्रसुकृतं सुनिष्ठितं धर्मयानमभिरोहयाहि मे // 25 //

तत्समन्तचरिभद्रशोधितं सत्त्ववेक्षसविलम्बविक्रमम् / सर्वतः शुभचरीपराक्रमं ज्ञानयानमुपनामयाहि मे // 26 //

तदृढं वजिरसारसंस्थितं ज्ञानमार्यसुकृतं सुनिष्ठितम् / सर्वआवरणसंप्रछेदनं भद्रयानमभिरोहयाहि मे // 27 //

तद्विशालममलं जगत्समं सर्वसत्त्वशरणं सुखावहम् / धर्मधातुविपुलं विरोचनं बोधियानमभिरोहयाहि मे // 28 //

तत्प्रवृत्तिदुखस्कन्धछेदनं कर्मक्लेशरजचक्रशोधनम् / सर्वमारपरवादिमर्दनं धर्मयानमभिरोहयाहि मे // 29 //

तत्समन्तदिशज्ञानगोचरं धर्मधातुगगनं वियूहनम् / सर्वसत्त्वअभिप्रायपूरणं धर्मयानमभिवाहयाहि मे // 30 //

तद्विशुद्धगगनामिताक्षयं दृष्टिविद्यतमदृष्टिनिर्मलम् / सर्वसत्त्वौपकारसंस्थितं धर्मयानमभिरोहयाहि मे // 31 //

तन्महाअनिलवेगवेगितं प्रणिधिवायुबललोकधारणम् / सर्वशान्तिपुरभूमिस्थापनं धर्मयानमभिरोहयाहि मे // 32 //

तन्महामहितलाचलोपमं करुणवेगबलभारवाहितम् / ज्ञानसंपजगतोपजीवितं अग्रयानमभिरोहयाहि मे // 33 //

तद्रविं यथ जगोपजीवितं संग्रहं विपुलरश्मिमण्डलम् / धारणीवरविशुद्धिसुप्रभं ज्ञानसूर्यमुपदर्शयाहि मे // 34 //

तद्ध्यनेकबहुकल्पशिक्षितं सर्वहेतुनयभूमिकोविद / ज्ञानवज्र दृढमार्य देहि मे येन संस्कृतपुरं विदार्यते // 35 //

यत्र ते विपुलज्ञानसागरे शिक्षिता अतुलबुद्धिसागराः / सर्वबुद्धगुणसिक्तसंपदा साधु तन्मम वदार्य कीदृशम् // 36 //

यत्र ते समभिरूढचक्षुषा ज्ञानराजमकुटाभ्यलंकृता / धर्मपट्टवरबद्धशीर्षया धर्मराजनगरं विलोकयि // 37 //

अथ खलु मञ्जुश्रीः कुमारभूतो नागावलोकितेनावलोक्य सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य कल्याणमित्राण्यनुबध्नासि / बोधिसत्त्वचर्यां परिप्रष्टाव्यां मन्यसे बोधिसत्त्वमार्गं परिपूरयितुकामः / एष हि कुलपुत्र आदिः, एष निष्यन्दः सर्वज्ञतापरिनिष्पत्तये, यदुत कल्याणमित्राणां सेवनं भजनं पर्युपासनम् / तस्मात्तर्हि कुलपुत्र अपरिखिन्नेन ते भवितव्यं कल्याणमित्रपर्युपासनतायै / सुधन आह - यदार्य विस्तरेण कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्? कथं प्रतिपत्तव्यम्? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या प्रारभ्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां चरितव्यम्? कथं बोधिसत्त्वेन बोधिसत्त्वचर्यां परिपूरयितव्याः? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या परिशोधयितव्या? कथम् बोधिसत्त्वेन बोधिसत्त्वचर्या अवतर्तव्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या अभिनिर्हर्तव्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या अनुसर्तव्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या अध्यालम्बितव्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या विस्तर्तव्या? कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम्? अथ खलु मञ्जुश्रीः कुमारभूतः सुधनं श्रेइष्ठिदारकं गाथाभिरभ्यभाषत -

साधु शुभपुण्यसागर यो हि त्वमुपागतो मम सकाशम् / विपुलकृपकरणमानस पर्येषसे अनुत्तमां बोधिम् // 38 //

सर्वजगन्मोक्षार्थं विपुलां प्रणिधि सि चारिकामसमाम् / भेष्यसि जगतस्त्राणं एष नयो बोधिचर्यायाः // 39 //

ये बोधिसत्त्व सुदृढा अखिन्नमनसः संसारि ते चरिम् / समन्तभद्रां लभते अपराजितां असङ्गां हि // 40 //

पुण्यप्रभ पुण्यकेतु पुण्याकर पुण्यसागर विशुद्धिम् / यस्त्वं समन्तभद्रां प्रणिधि सि सचारिकां जगदर्थम् // 41 //

अमिताननन्तध्यान् द्रक्ष्यसि बुद्धान् दशद्दिशि लोके / तेषां च धर्ममेघान् धारयितासि स्मृतिबलेन // 42 //

स त्वं जिनन् दशद्दिशि पश्यन्नपि येषु बुद्धक्षेत्रेषु / तेषां प्रणिधानसागर शोधयिष्यसि बोधिचर्यायाम् // 43 //

ये एत नयसमुद्रानवतीर्ण स्थिहित्व बुद्धभूमिये / ते भोन्ति सर्वदर्शी शिक्षन्तो लोकनाथानाम् // 44 //

त्वं सर्वक्षेत्रप्रसरे क्षेत्ररजःसमांश्चरित्व बहुकल्पान् / चर्यां समन्तभद्रां स्पृशिष्यसि शिवां प्रसर बोधिम् // 45 //

चरितव्य कल्पसागर अनन्तमध्य अशेषक्षेत्रेसु / परिपूरितव्य प्रणिधी समन्तवरभद्रचर्यायाम् // 46 //

प्रेक्षस्व सत्त्वनयुतान् श्रुत्वा तव प्रणिधिप्रीति संजाता / ये बोधि प्रार्थयन्ते समन्तभद्रेण ज्ञानेन // 47 //

अथ खलु मञ्जुश्रीः कुमारभूत इमा गाथा भाषित्वा सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायै सम्यक्संबोधये चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिगवेषितव्यां मन्यसे / दुर्लभास्ते कुलपुत्र सत्त्वा ये ऽनुत्तरायै सम्यक्संबोधये चित्तमुत्पादयन्ति / अतस्ते दुर्लभतमाः सत्त्वा ये ऽनुत्तरायै सम्यक्संबोधये चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिगवेषन्ते / तेन हि कुलपुत्र भूतकल्याणमित्रेषु निश्चयप्राप्तेन बोधिसत्त्वेन भवितव्यं सर्वज्ञज्ञानप्रतिलम्भाय / अपरिखिन्नमानसेन भवितव्यं कल्याणमित्रपर्येष्टिषु / अतृप्तेन भवितव्यं कल्याणमित्रदर्शनेषु / प्रदक्षिणग्राहिणा ते भवितव्यं कल्याणमित्रानुशासनीषु / अप्रतिहतेन भवितव्यं कल्याणमित्रोपायकौशल्यचरितेषु / अस्ति कुलपुत्र इहैव दक्षिणापथे रामावरान्तो नाम जनपदः / तत्र सुग्रीवो नाम पर्वतः / तत्र मेघश्रीर्नाम भिक्षुः प्रतिवसति / तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम् / कथं बोधिसत्त्वचर्या प्रारभ्या? कथं बोधिसत्त्वचर्यायां चरितव्यम्? कथं बोधिसत्त्वचर्या परिपूरयितव्या? कथं परिशोधयितव्या? कथमवतर्तव्या? कथमभिनिर्हर्तव्या? कथमनुसर्तव्या? कथमध्यालम्बितव्या? कथं विस्तारयितव्या? कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम्? स ते कुलपुत्र कल्याणमित्रः समन्तभद्रचर्यामण्डलमुपदेक्ष्यति // अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य अनेकशतसहस्रकृत्वो ऽवलोक्य कल्याणमित्रप्रेमानुगतचित्तः कल्याणमित्रादर्शनमसहमानो ऽश्रुमुखो रुदन् मञ्जुश्रियः कुमारभूतस्यान्तिकात्प्रक्रान्तः // 1 // 4 मेघश्रीः /

अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण येन रामावरान्तो जनपदस्तेनोपजगाम / उपेत्य रामावरान्ते जनपदे विचरन् पूवकुशलमूलसंभवो दारकर्माधिष्ठानमनोभिरुचितान् भोगान् परिभुञ्जानो येन सुग्रीवः पर्वतस्तेनोपसंक्रम्य सुग्रीवं पर्वतमधिरुह्य मेघश्रियं भिक्षुमनुगवेषमाणः पूर्वां दिशं निर्ययौ / एवं दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामपि दिशं निर्ययौ / मेघश्रियं भिक्षुमनुगवेषमाणः ऊर्ध्वतो ऽप्यवलोकयति स्म, अधस्तादपि / स सप्ताहस्यात्ययान्मेघश्रियं भिक्षुमपश्यदन्यतमस्मिन् पर्वतशिखरोत्सङ्गे चंक्रम्यमाणम् / स येन मेघश्रीर्भिक्षुस्तेनोपसंक्रम्य मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुं प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एतदवोचत् - यत्खलु आर्यो जानीयात् - मया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जाने कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, कथं बोधिसत्त्वचर्या प्रारब्धव्या, कथं बोधिसत्त्वचर्यायां चरितव्यम्, कथं बोधिसत्त्वचर्या परिपुरयितव्या, कथं परिशोधयितव्या, कथमवतर्तव्या, कथमभिनिर्हर्तव्या, कथमनुसर्तव्या, कथमध्यालम्बितव्या, कथं विस्तारयितव्या, कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम् / श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति / तद्वदतु मे आर्यः कथं बोधिसत्त्वा निर्यान्ति अनुत्तरायां सम्यक्संबोधौ /

एवमुक्ते मेघश्रीर्भिक्षुः सुधनं श्रिष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिपृच्छसि / दुष्करं हि एतत् कुलपुत्र परमदुष्करं यदुत बोधिसत्त्वचर्यापरिमार्गणं बोधिसत्त्वोगोचरपरिमार्गणं बोधिसत्त्वनिर्याणविशुद्धिपरिमार्गणं बोधिसत्त्वमार्गविशुद्धिपरिमार्गणं बोधिसत्त्वचर्यावैपुल्यविशुद्धिपरिमार्गणं बोधिसत्त्वाभिज्ञानिर्हारविशुद्धिपरिमार्गणं बोधिसत्त्वविमोक्षसंदर्शनं बोधिसत्त्वलोककृपाप्रचारसंदर्शनं बोधिसत्त्वयथाशयजगदनुवर्तनं बोधिसत्त्वसंसारनिर्वाणमुखसंदर्शनं बोधिसत्त्वानां संस्कृतासंस्कृतदोषभयानुपलेपविचारपरिमार्गणम् / अहं कुलपुत्र अधिमुक्तिबलाधिपतेयतया चक्षुर्मतिश्रद्धानयनविशुद्धया अपराङ्मुखज्ञानालोकावभासेन समन्ताभिमुखावलोकनया समन्तविषयाप्रतिहतेन दर्शनेन सर्वावरणविगतेन विपश्यिना कौशल्येन समन्तचक्षुर्विषयपरिशुद्धया शरीरविशुद्ध्या सर्वदिक्स्रोतःप्रसराभिमुखप्रणतेन कयप्रणामकौशल्येन सर्वबुद्धधर्ममेघसंधारनेन च धारणीबलेन सर्वदिक्क्षेत्राभिमुखांस्तथागतान् पश्यामि / यदुत पूर्वस्यां दिशि एकं तथागतं पश्यामि / द्वावपि, दशापि, बुद्धशतमपि, बुद्धसहस्रमपि, बुद्धशतसहस्रमपि, बुद्धकोटीमपि, बुद्धकोटीशतमपि, बुद्धकोटीसहस्रमपि, बुद्धकोटिशतसहस्रमपि, बुद्धकोटीनियुतशतसहस्रमपि, यावदपरिमाणानप्रमेयानसंख्येयानचिन्त्यानतुल्यानसमन्तानसीमाप्राप्तानमाप्याननभिलाप्यानपि (gv 49) तथगतान् पश्यामि / जम्बुद्वीपपरमाणुरजःसमानपि तथागतान् पश्यामि /

चातुर्द्वीपकलोकधातुपरमाणुरजःसमानपि, साहस्रद्विसाहस्रत्रिसाहस्रमहासाहस्रबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि / दशबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि / शतबुद्धक्षेत्रपरमाणुरजःसमानपि, बुद्धक्षेत्रसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीशतपरमाणुरजःसमानपि, बुद्धाक्षेत्रकोटीसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीशतसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीनियुतशतसहस्रपरमाणुरजःसमानपि, यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि / यथ पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वं दिशि एकमपि तथागतं पश्यामि / यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि / एकैकस्यां दिशि अनुविलोकयन् नानावर्णांस्तथागतान् पश्यामि नानासंस्थानान् नानाविकुर्वितान् नानावृषभिताविक्रीडितान् विचित्रपर्षन्मण्डलव्यूहान् अनेकवर्णाननेकवर्णरश्मिजालावभासमुक्तान् विविधबुद्धक्षेत्रविशुद्धिभवनव्यूहान् नानविधायुःप्रमाणविशुद्धान् यथाशयजगद्विज्ञापनान् विविधाभिसंबोधिविशुद्धिमुखविकुर्वितान् बुद्धर्षभसिंहनादविनर्दितांस्तथागतान् पश्यामि / अस्या अहं कुलपुत्र समन्तमुखसर्वारम्बणविज्ञप्तिसमवसरणालोकाया बुद्धानुस्मृतेर्लाभी /

किं मया शक्यं बोधिसत्त्वानामनन्तज्ञानमण्डलविशुद्धानां चर्या ज्ञातुम्, गुणान् वा वक्तुम्, ये ते समन्तावभासमण्डलबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वतथागतमण्डलसर्वबुद्धक्षेत्रभवनविशुद्धिव्यूहाभिमुखपश्यनतया / ये ते सर्वजगत्समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा यथाशयजगद्विज्ञप्तितथागतदर्शनविशुद्ध्या / ये ते दशबलसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा दशतथागतबलाप्रमाणानुसरणतया / ये ते धर्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा धर्मश्रवणाकारसर्वतथागतकायमेघावलोकनतया / ये ते दिग्विरोचनगर्भबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वदिक्समुद्रेष्वसंभिन्नबुद्धसमुद्रावतरणतया / ये ते दसदिक्प्रवेशबुद्धानुस्मृतिमुखप्रतिलब्धाः सूक्ष्मावलम्बनसर्वतथागतविकुर्वितवृषभितावतरणतया / ये ते कल्पसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा अवरहितसर्वकल्पतथागतदर्शनविज्ञप्त्या / ये ते कालसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वकालतथागतकालदर्शनसंवासाविजहनतया / ये ते क्षेत्रसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वबुद्धक्षेत्राभ्युद्गतानभिभूतबुद्धकायदर्शनविज्ञप्त्या / ये ते त्र्यध्वसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धास्त्र्यध्वतथागतमण्डलस्वचित्ताशयसमवसरणतया / ये ते आरम्बणसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वारम्बणतथागतपरंपरासमुदागमदर्शनविज्ञप्त्या / ये ते शान्तसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकक्षणसर्वलोकधातुषु सर्वतथागतपरिनिर्वाणविज्ञप्त्या /

ये ते विगमसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकदिवसे सर्वावासेषु सर्वतथागतप्रक्रमणविज्ञप्त्या / (gv 50) ये ते विपुलसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकैकतथागतधर्मधातुपर्यङ्कपरिस्फुटबुद्धशरीरविज्ञप्त्या / ये ते सूक्ष्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकवालपथेन अनभिलाप्यबुद्धोत्पादारागणावतरणतया / ये ते व्यूहसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकक्षणे सर्वलोकधातुषु अभिसंबोधिविकुर्वितसंदर्शनविज्ञप्त्या / ये ते कार्य समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वबुद्धोत्पादधर्मचक्रविकुर्वितज्ञानावभासप्रतिलाभतया / ये ते समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः स्वचित्ताशयदर्शनसर्वतथागतप्रतिभासप्राप्त्या / ये ते कर्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वजगद्यथोपचितकर्मप्रतिबिम्बसंदर्शनतया / ये ते विकुर्वितसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा अशेषसर्वधर्मधातुनलिनीपद्मपरिस्फुटविपुलबुद्धविकुर्वितदर्शनसमन्तदिगभिमुखविज्ञप्त्या / ये ते गगनसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धास्तथागतबिम्बमेघरचितधर्मधातुगगनालोकनतया //

गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे सागरमुखो नाम दिक्प्रत्युद्देशः / तत्र सागरमेघो नाम भिक्षुः प्रतिवसति / तमुपसंक्रम्य परिपृच्छ, कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / स ते कुलपुत्र कल्याणमित्रं परिदीपयिष्यति / कुशलमूलसंभारहेतुं समवतारयिष्यति / विपुलां संभारभूमिं संजनयिष्यति / विपुलं कुशलमूलवेगबलं संवर्णयिष्यति / विपुलं बोधिचित्तसंभारहेतुं जनयिष्यति / विपुलं महायानावभासहेतुमुपस्तम्भयिष्यति / विपुलं पारमितासंभारबलं प्रभावयिष्यति / विपुलं चर्यासागरावतारनयं परिशोधयिष्यति / विपुलं प्रणिधानमण्डलं विशोधयिष्यति / विपुलं समन्तमुखनिर्याणव्यूहं संवर्धयिष्यति / विपुलं महाकरुणाबलं प्रवर्धयिष्यति // अथ खलु सुधनः श्रेष्ठिदारको मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य् अवलोक्य च मेघश्रियो भिक्षोरन्तिकात् प्रक्रान्तः // 2 // 5 सागरमेघः /

अथ खलु सुधनः श्रेष्ठिदारकस्तां कल्याणमित्रानुशासनीमनुविचिन्तयन्, तं लोकमनुस्मरन्, तं बोधिसत्त्वविमोक्षं विचारयन्, तं बोधिसत्त्वसमाधिनयमनुमार्जन्, तं बोधिसत्त्वसागरनयमवलोकयन्, तं बुद्धमण्डलमभिमुखमधिमुच्यमानः, तं बुद्धदर्शनदिशमभिलषन्, तं बुद्धसमुद्रमनुविचिन्तयन्, तां बुद्धपरंपरामनुस्मरन्, तं बुद्धनयानुगममनुगच्छन्, तं बुद्धगगनमनुविलोकयन्, अनुपूर्वेण येन सागरमुखं दिक्प्रत्युद्देशो येन च सागरमेघो भिक्षुस्तेनोपसंक्रम्य सागरमेघस्य भिक्षोः पादौ शिरसाभिवन्द्य सागरमेघं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सागरमेघस्य भिक्षोः पुरतः प्राञ्जलिः स्थित्वा एतदवोचत् - अहमार्य अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितो ऽनुत्तरं ज्ञानसागरमवतर्तुकामः / न च जाने कथं बोधिसत्त्वा विवर्तन्ते लोकवंशात् / आवर्तन्ते तथागतवंशे / उत्तरन्ति संसारसागरात् / अवतरन्ति सर्वज्ञज्ञानसागरम् / उच्चलन्ति बालपृथग्जनभूमीः / संपद्यन्ते तथागतकुले / विवर्तन्ते संसारस्रोतसः / प्रवर्तन्ते बोधिसत्त्वचर्यास्रोतसि, निवर्तन्ते संसारसागरगतिचक्रात् / आवर्तन्ते बोधिसत्त्वचर्याप्रणिधानचक्रम् / प्रमर्दयन्ति सर्वमारमण्डलम् / द्योतयन्ति सर्वबुद्धमण्डलप्रभवम् / शोषयन्ति तृष्णासागरम् / विवर्धयन्ति महाकरुणातोयम् / पिथन्ति सर्वाक्षणापायदुर्गतिविनिपातद्वाराणि / विवृश्चन्ति स्वर्गनिर्वाणद्वारम्, विनिर्भिन्दन्ति त्रैधातुकनगरकपाटम् / विवृण्वन्ति सर्वज्ञतापुरद्वारकपाटम् / विजहन्ति सर्वोपकरणतृष्णाम् / उत्पादयन्ति सर्वजगत्संग्रहप्रणिधिम् //

एवमुक्ते सागरमेघो भिक्षुः सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यत्त्वया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न हि कुलपुत्र अनवरोपितकुशलमूलानां सत्त्वानां बोधाय चित्तमुत्पद्यते / समन्तमुखकुशलावभासप्रतिलब्धानामुपायगर्भमार्गसमाधिज्ञानालोकावभासितानां विपुलपुण्यसागरसंभृतसंभाराणां सर्वशुक्लोपचयाप्रतिप्रस्रब्धानां सर्वकल्याणमित्रोपस्तब्धोपायापरिखिन्नानां कायजीवितनपेक्षाणां सर्ववस्तूद्ग्रहविगतानामनिम्नोन्नतपृथिवीसमचित्तानामा प्रकृतिकृपास्नेहानुगतानां सर्वभवगतिसंवासाभिमुखानां तथागतविषयाभिलाषिणां सत्त्वानां बोधाय चित्तमुत्पद्यते / यदुत महाकरुणाचित्तं सर्वसत्त्वपरित्राणाय, महामैत्रीचित्तम् सर्वजगत्समयोगतायै, सुखचित्तं सर्वजगद्दुःखस्कन्धव्युपशमनाय, हितचित्तं सर्वाकुशलधर्मविनिवर्तनतायै, दयाचित्तं सर्वभयारक्षायै, असङ्गचित्तं सर्वावरणविनिवर्तनतायै, विपुलचित्तं सर्वधर्मधातुस्फरणतायै, अनन्तचित्तमाकाशधातुसमवसरणसमतानुगमाय, विमलचित्तं सर्वतथागतदर्शनविज्ञप्त्यै, विशुद्धचित्तं त्र्यध्वावशेषज्ञानस्फरणतायै, ज्ञानचित्तं सर्वावरणज्ञानविनिवर्तनतायै सर्वज्ञज्ञासागरावतरणतायै //

अहं कुलपुत्र पूर्णानि द्वादश वर्षाणि इह सागरमुखे दिक्प्रत्युद्देशे विहरामि इमं महासागरमारम्बणीकृत्य आमुखीकृत्य, यदुत महासागरस्य विपुलाप्रमाणतामनुविचिन्तयन् विमलप्रसन्नतां च गम्भीरदुरवगाहतां च अनुपूर्वनिम्नसुस्थितां च अनेकरत्नाकरविचित्रतां च वारिस्कन्धाप्रमाणतां च अचिन्त्योदारवर्णविमात्रतां च अनन्तभूतां च विचित्रोदारप्रणाधिवासनतां (gv 52) च महामेघप्रतिच्छन्नतां च अन्तरापुर्णतां च अनुविचिन्तयन् / तस्य मम कुलपुत्र एवं भवति - अस्ति न पुनरन्यः कश्चिदिह लोके यो ऽस्मान्मनासागराद्विपुलतरश्च विस्तीर्णतरश्च अप्रमाणतरश्च गम्भीरतरश्च विचित्रतरश्च / तस्य मम कुलपुत्र एवं योनिशश्चिन्तामनसिकारप्रयुक्तस्य महासागरस्याधस्तान्महापद्मं प्रादुरभूत् /

अपराजितमणिरत्नेन्द्रनीलमणिवज्रदण्डं महावैडूर्यमणिईरत्नावतंसकं जाम्बूनदसुवर्णविमलविपुलपत्रं कालानुसारिचन्दनकलिकाव्यूहम् अश्मगर्भरत्नकेसरोपेतं सागरविपुलविस्तीर्णप्रमाणं दशासुरेन्द्रशतसहस्रसंधारितदण्डगर्भं दशमणिरत्नशतसहस्रविचित्ररत्नजालसंछन्नं दशनागेन्द्रशतसहस्रगन्धोदकमेघाभिप्रवर्षितं दशगरुडेन्द्रशतसहस्रमुखप्रलम्बितपट्टमणिदामहारं दशकिन्नरेन्द्रशतसहस्रहितचित्तसंप्रेक्षितं दशमहोरगेन्द्रशतसहस्रमुखप्रणतोपचारं दशराक्षसेन्द्रशतसहस्रप्रणतकायाभिपूजितं दशगन्धर्वेन्द्रशतसहस्रविचित्रतूर्यसंगीतिस्तुतोपचितं दशदेवेन्द्रशतसहस्रदिव्यपुष्पगन्धमाल्यधूपविलेपनचूर्णचीवरच्छत्रध्वजपताकामेघाभिप्रवर्षितं दशब्रह्मेन्द्रशतसहस्रमूर्धप्रणतोपचारं दशशुद्धावासकायिकादेवताशतसहस्रकृताञ्जलिपुटनमस्कृतं दशचक्रपरिवर्तमनुजेन्द्रशतसहस्रसप्तरत्नप्रत्युद्गताभिपूजितं दशसागरदेवताशतसहस्राभ्युद्गतनमस्कृतं दशज्योतीरसमणिरत्नशतसहस्ररश्मिव्यूहावभासितं दशपुण्यशुद्धमणिरत्नशतसहस्रसुनिश्चितविन्यस्तोपशोभितं दशवैरोचनमणिरत्नशतसहस्रविमलगर्भं दशश्रीमणिरत्नशतसहस्रमहाश्रीप्रतापनं दशविचित्रकोशमणिरत्नशतसहस्रानन्तावभासितं दशजम्बूध्वजमणिरत्नशतसहस्रसुपरिगृहितस्थितप्राप्तोपशोभितं दशवज्रसिंहमणिरत्नशतसहस्रापराजितव्यूहं दशसूर्यगर्भमणिरत्नशतसहस्रोदारोत्तप्तोपचितं दशरुचिरमणिरत्नशतसहस्रविविधवर्णोपचारं दशचिन्ताराजमणिरत्नशतसहस्राक्षयव्यूहप्रभोज्ज्वलितम् /

तच्च महापद्मं तथागतलोकोत्तरकुशलमूलनिर्जातं बोधिसत्त्वाशयंसंप्रस्थितं सर्वदिगभिमुखविज्ञपनं मयागतधर्मनिर्यातं निरामगन्धकर्मसंभुतम् अरणाधर्मतानयव्यूहं स्वप्नसमधर्मतासमुदाचारम् अनभिसंस्कारधर्मनयमुद्रितम् असङ्गधर्मनयानुगतं समन्ताद्दशदिक्कुलधर्मधातुस्फरणं बुद्धविषयप्रभावभासनाकुलम्, यस्य न शक्यमसंख्येयैउरपि कल्पशतसहस्रैराकारगुणसंस्थानवर्णव्यूहपर्यन्तो ऽधिगन्तुम् / तच्च महापद्मं तथागतकायपर्यङ्कपरिष्फुटं परिपूर्णं पश्यामि / तं च तथागतकायमित उपादाय यावद्भवाग्रपरमं पश्यामि / तस्य च तथागतस्य अचिन्त्यमासनव्यूहं पश्यामि / अचिन्त्यपर्षन्मण्डलव्यूहान् / अचिन्तियान् प्रभामण्डलव्यूहान् / अचिन्त्यां लक्षणसंपदमचिन्त्यामनुव्यञ्जनचित्रतामचिन्त्यां बुद्धवृषभिताम् / अचिन्त्यं बुद्धविकुर्वितम् / अचिन्त्यां तथागतवर्णविशुद्धिम् / अचिन्त्यामवलोकितमूर्धिताम् / अचिन्त्यां प्रभूतजिह्वतां पश्यामि / अचिन्त्यान् बुद्धसरस्वतीव्यूहान् शृणोमि / अचिन्त्यां बलाप्रमाणताम्, अचिन्त्यां वैशरद्यव्यूहविशुद्धिम्, अचिन्त्यं प्रतिसंविद्बलाभिनिर्हारमनुगच्छामि / अचिन्त्यं पूर्वबोधिसत्त्वचर्यासमुदागममनुस्मरामि / अचिन्त्यमभिसंबोधिविकुर्वितं पश्यामि / अचिन्त्यं धर्ममेघाभिनिगर्जितम्, अचिन्त्यं समन्तदर्शनविज्ञप्त्याश्रयव्यूहं (gv 53) शृणोमि / अचिन्त्याप्रमाणां वामदक्षिणेन शरीरविभक्तिम्, अचिन्त्यं सत्त्वार्थकायपरिप्राप्तिं पश्यामि //

स च मे तथागतो दक्षिणं पाणिं प्रसार्य शिरसं परिमार्ज्य समन्तनेत्रं नाम धर्मपर्यायं सर्वतथागतविषयं बोधिसत्त्वचर्याप्रभावनं सर्वधर्मधातुतलप्रभेदावभासनं सर्वधर्ममण्डलसमवसरणावभासनं सर्वक्षेत्रमण्डलाकारविशुद्ध्यालोकं सर्वपरप्रवादिमण्डलविकिरणं सर्वमारकलिप्रमर्दनं सर्वसत्त्वधातुसंतोषणं सर्वसत्त्वचित्तगहनावभासनं सर्वसत्त्वयथाशयविज्ञापनं सर्वसत्त्वेन्द्रियचक्रपरिवर्तप्रभासनं प्रकाशयति / तं चाहं समन्तनेत्रं धर्मपर्यायमुद्गृह्णामि संधारयामि प्रवर्तयामि पुअनिध्यायामि एवंरूपेणोद्गहेण, यस्य लिख्यमानस्य महासमुद्राप्स्कन्धप्रमाणा च मषिः, सुमेरुपर्वतराजमात्रकलमसंचयः क्षयं व्रजेत् / न च तस्य धर्मपर्यायस्य एकैकस्मात्परिवर्तादेकैकस्माद्धर्मद्वाराकैकस्माद्धर्मनयादेकैकस्माद्धर्मयोनेः एकैकस्माद्धर्मपदप्रभेदात् क्षय उपलभ्यते, न ऊनत्वं वा पर्यादानं वा पर्यवस्थानं वा पर्यन्तनिष्ठा वा //

इति हि कुलपुत्र पूर्णानि द्वादश वर्षाण्यहमिमं समन्तनेत्रं धर्मपर्यायमुद्गृहीतवान् / एवंरूपेणोद्गहेण यदेकदिवसेन असंख्येयन् परिवर्तान् पर्यवाप्नोमि श्रुतोद्गहणधारण्यालोकावभासेन / असंख्येयान् परिवर्तानवतरामि शान्तमुखधारण्यालोकावभासेन / असंख्येयान् परिवर्तान् अवतरामि शान्तमुखधारण्यालोकावभासेन / असंख्येयान् परिवर्तान् समवसरामि अनन्तावर्तधारण्यालोकावभासेन / असंख्येयान् परिवर्तान् विभावयामि प्रतिचिनोमि भूम्यवचारणानुगमधारण्यालोकावभासेन / असंख्येयान् परिवर्तान् पर्याददामि तेजोवतीधारण्यालोकावभासेन / असंख्येयान् परिवर्तान् अभिनिर्हरामि पद्मव्यूहधारण्यालोकावभासेन / असंख्येयान् परिवर्तान् संप्रकाशयामि स्वरविविक्तधारण्यालोकावभासेन / असंख्येयान् परिवर्तान् प्रतिभजामि गगनगर्भधारण्यालोकावभासेन / असंख्येयान् परिवर्तान् प्रविस्तरामि ज्योतिषकूटधारण्यालोकावभासेन / असंख्येयान् परिवर्तान् परिसंस्थापयामि सागरगर्भधारण्यालोकावभासेन / ये च मे केचित् सत्त्वा उपसंक्रामन्ति पूर्वस्यां दिशि देवा वा देवेन्द्रा वा नागा वा नागेन्द्रा वा यक्षा वा यक्षेन्द्रा वा असुरा वा असुरेन्द्रा वा गरुडा वा गरुडेन्द्रा वा महोरगा वा महोरगेन्द्रा वा मनुष्या वा मनुष्येन्द्रा वा ब्रह्माणो वा ब्रह्मेन्द्रा वा, तान् सर्वानत्रैव समन्तनेत्रे तथागतबोधिसत्त्वचर्यावभासे धर्मपर्याये प्रतिष्ठापयामि निवेशयामि / सर्वेषां च तेषामेव समन्तनेत्रं धर्मपर्यायं रोचयामि निरूपयामि परिदीपयामि संवर्णयामि संदर्शयामि विभजामि विस्तारयामि उत्तानीकरोमि विवरामि प्रमुञ्चामि अवभासयामि / यथा पुर्वस्यां दिशि, एवं दक्षिणायाः पश्चिमाया उत्तराया उत्तरपूर्वायाः पुर्वदक्षिणाया दक्षिणपश्चिमायाः पश्चिमोत्तराया अध उर्ध्वायाश्च दिशः ये केचित् सत्त्वा उपसंक्रामन्ति - पूर्ववत् //

एतमहं कुलपुत्र, एकं धर्मपर्यायं जानामि / किं मया शक्यं बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुं सर्वबोधिसत्त्वचर्यासमुद्रावतीर्णानां परिशुद्धप्रणिध्यनुगमेन, सर्वप्रणिधानसागरावतीर्णानां सर्वकल्पसंवासव्यवच्छेदाय, सर्वसत्त्वसंसारावतीर्णानां यथाशयचर्यानुवर्तनतायैः सर्वजगच्चित्तसागरावतीर्णानामज्ञानविज्ञप्त्या, सर्वगुणसागरावतीर्णानामसङ्गदशबलज्ञानावलोकसंजननतायै, सर्वसत्त्वेन्द्रियसागरावतीर्णानां परिपाचनविनयकालानतिक्रमणतायै, सर्वक्षेत्रसागरावतीर्णानां सर्वक्षेत्रविशुद्धिप्रणिध्यभिनिर्हारेण, सर्वबुद्धसागरावतीर्णानां तथागतपूजोपस्थानप्रणिधिबलेन, सर्वधर्मसागरावतीर्णानां ज्ञानविज्ञप्त्या, सर्वगुणसागरावतीर्णानां प्रतिपत्यनुगमेन, सर्वजगन्मन्त्रसागरावतीर्णानां सर्वमन्त्रेसु धर्मचक्रप्रवर्तनाभिनिर्हरणतायै //

गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे इतः षष्टियोजनैः सागरतीरं नाम लङ्कापथम् / तत्र सुप्रतिस्थितो नाम भिक्षुः प्रतिवसति / तमुपसंक्रम्य परिपृच्छ कथं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचर्या परिशोधयितव्या // अथ खलु सुधनः श्रेष्ठिदारकः सागरमेघस्य भिक्षोः पादौ शिरसाभिवन्द्य सागरमेघं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य अवलोक्य सागरमेघस्य भिक्षोरन्तिकात् प्रक्रान्तः // 3 // 6 सुप्रतिष्ठितः /

अथ खलु सुधनः श्रेष्ठिदारकस्तां कल्याणमित्रानुशासनी तं च समन्तनेत्रं धर्मपर्यायमनुस्मरन्, तच्च तथागतविकुर्वितमनुविचिन्तयन्, तांश्च धर्मपदव्यञ्जनमेघान् धारयन्, तांश्च धर्ममुखसागरानवतरन्, तं च धर्मविधिमनुविलोकयन्, तांश्च धर्मावर्तनयानवगाह्यमानः, तच्च धर्मगगनं समवसरन्, तच्च धर्ममण्डलं परिशोधयन्, तं च धर्मरत्नद्वीपमनुविचारयन्, अनुपूर्वेण येन सागरतीरं लङ्कापथस्तेनोपसंक्रम्य पूर्वां दिशमवलोकयामास सुप्रतिष्ठितस्य भिक्षोर्दर्शनकामतया / एवं दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामध ऊर्ध्वां दिशमवलोकयामास सुप्रतिष्ठितस्य भिक्षोर्दर्शनकामतया / सो ऽपश्यत्सुप्रतिष्ठितं भिक्षुं गगनतले चंक्रम्यमाणमसंख्येयदेवताशतसहस्रपरिवृतम्, तच्च गगनतलं दिव्यपुष्पमेघाभिकीर्णमद्राक्षीदसंख्येयदिव्यतूर्यमेघनिर्घोषम्, असंख्येयपट्टपताकालंकारं देवेन्द्रैः सुप्रतिष्ठितस्य भिक्षोः पूजकर्मणि / अचिन्त्यकालागुरुमेघोन्नतनिगर्जनं च गगनतलमपश्यत् नागेन्द्रैः / असंख्येयदिव्यमनोज्ञवचनोपचारस्तुतिसर्ववाद्यतूर्यसंगीतिनिर्घोषांश्च किन्नरेन्द्रैः संप्रयोजितान् गगनतलादश्रौषीत् / अचिन्त्यांश्च सूक्ष्मस्फुटवस्त्रमेघान् गगनतले प्रीतिमनोभिर्महोरगेन्द्रैः प्रहितान् प्रसृतानपश्यत् सुप्रतिष्ठितस्य भिक्षोः स्पृहमाणरूपैः / अचिन्त्यांश्च मणिरत्नमेघान् असुरेन्द्रगगनतलमधिष्ठितान् अचिन्त्यगुणव्यूहावभासमपश्यत् /

अचिन्त्यांश्च गरुडेन्द्रगणानुदारमानवरूपबलसंस्थानान् गरुडेन्द्रकन्यापरिवारान् अविहिंसापरमान् प्राञ्जलीभूतान् गगनतले ऽपश्यत् / अचिन्त्यानि च यक्षेन्द्रशतसहस्राणि सपरिवाराणि विकृतशरीराणि गगनतलगतानपश्यत् सुप्रतिष्ठितस्य भिक्षोर्मैत्र्याधिपतेयतया / अचिन्त्यानि च राक्षसेन्द्रशतसहस्राणि सपरिवाराणि गगनतले अनुपरिवर्तमानानि सुप्रतिष्ठितस्य भिक्षोरारक्षाप्रतिपन्नान्यपश्यत् / अचिन्त्यानि च ब्रह्मेन्द्रशतसहस्राणि गगनतले कृताञ्जलिपूटानि अभिप्रेतमनोज्ञवचनोपचारस्तुतिप्रत्युदाहारप्रयुक्तान्यपश्यत् / अचिन्त्यानि च शुद्धावासकायिकदेवताशतसहस्राणि गगनतले विमानगतान्यपश्यत् सुप्रतिष्ठितस्य भिक्षोः पूजाकर्मणि //

अथ खलु सुधनः श्रेष्ठिदारकः सुप्रतिष्ठितं भिक्षुं गगनतले चंक्रम्यमाणं दृष्ट्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्राञ्जलिः सुप्रतिष्ठितं भिक्षुं नमस्कृत्य एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि - कथं बोधिसत्त्वेन बुद्धधर्मा अन्वेष्टव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः समुदानयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः संहर्तव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः सेवितव्याः? कथं बोधिसत्त्वेन बुद्धधर्मा भावयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्मा अनुवर्तितव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः परिपिण्डयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः परिभावयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्मा विशोधयितव्याः सर्वबोधिसत्त्वकार्यपरिप्रापणाय? कथं बोधिसत्त्वेन बुद्धधर्मा अनुगन्तव्याः? श्रुतं (gv 56) च म आर्यो बोधिसत्त्वानामवादानुशासनीं ददातीति / तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बुद्धधर्मेषु प्रयोक्तव्यम्, यथा प्रयुज्यमानो ऽविरहितो भवति बुद्धदर्शनेन, यथाभूतविप्रवासाय अविरहितो भवति बोधिसत्त्वदर्शनेन / सर्वबोधिसत्त्वकुशलमूलैकध्यातायै अविरहितो भवति बुद्धधर्मैः / ज्ञानानुगमायाविरहितो भवति सर्वबोधिसत्त्वप्रणिधानैः / सर्वबोधिसत्त्वकार्यपरिप्रापणाय अविरहितो भवति बोधिसत्त्वचर्यया / सर्वकल्पसंवासापरिखेदतायै अविरहितो भवति सर्वबुद्धक्षेत्रस्फरणेन / सर्वलोकधातुपरिशुद्धये अविरहितो भवति बुद्धविकुर्वितदर्शनेन / सर्वतथागतविकुर्वितविज्ञप्त्यै अविरहितो भवति संस्कृतावासेन / निर्मितोपमबोधिसत्त्वचर्यायाः सर्वभवगतिच्युत्युपपत्त्यायतनस्वशरीरानुगमनतायै अविरहितो भवति धर्मश्रवणेन / सर्वतथागतधर्ममेघसंप्रतीच्छनतायै अविरहितो भवति ज्ञानालोकेन त्र्यध्वज्ञानानुगमानुसरणतायै //

एवमुक्ते सुप्रतिष्ठितो भिक्षुः सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बुद्धधर्मान् सर्वज्ञताधर्मान् स्वयंभूधर्मान् परिपृच्छसि / अहं कुलपुत्र असङ्गमुखस्य बोधिसत्त्वविमोक्षस्य लाभी / एतं मे कुलपुत्र असङ्गमुखं बोधिसत्त्वविमोक्षमायूहता निर्यूहता अनुसरता विभजता विचिन्वता प्रविचिन्वता प्रतिभासयता प्रभासयता असङ्गकोटिर्नाम ज्ञानालोकः प्रतिलब्धः, यस्य प्रतिलम्भान्नास्ति मे सर्वसत्त्वचित्तचरितावभासेषु सङ्गः / नास्ति सर्वसत्त्वच्युत्युपपत्तिपरिज्ञासु सङ्गः / नास्ति पूर्वनिवासानुस्मृतिमुखावतारेषु सङ्गः / नास्त्यपरान्तकल्पसर्वजगत्संवासेषु सङ्गः / नास्ति प्रत्युत्पन्नाध्वसर्वजगद्विज्ञप्तिषु सङ्गः / नास्ति सर्वसत्त्वरुतमन्त्रसंवृतिपरिज्ञानेषु सङ्गः / नास्ति सर्वसत्त्वसंशयच्छेदेषु सङ्गः / नास्ति रात्रिंदिवक्षणमुहूर्तकालसंज्ञागतावतारेषु सङ्गः / नास्ति दशदिग्बुद्धक्षेत्रेसु अशरीरस्फरणतासु सङ्गः, यदुत अभावप्रतिष्ठितानभिसंस्कारविप्रतिलम्भेन / अस्याहं कुलपुत्र अनभिसंस्कारिकाया ऋद्धेरनुभावेन इह गगनतले चंक्रमामि, तिष्ठामि, निषीदामि, निषद्यामि, विविधानीर्यापथान् कल्पयामि, अन्तदर्धामि प्रादुर्भवामि, धूमायामि प्रज्वलामि / एको भूत्वा बहुधा भवामि, बहुधा भूत्वैको भवामि / आविर्भावं तिरोभावं प्रत्यनुभवामि / तिरःकुड्यं तिरःप्राकारमसज्जन् गच्छामि तद्यथापि नाम आकाशे / आकाशे ऽपि पर्यङ्केन क्रमामि तद्यथापि नाम पक्षी शकुनिः / पृथिव्यामपि उन्मज्जननिमज्जनं करोमि तद्यथोदके / उदके ऽप्यसज्जमानो गच्छामि तद्यथा पृथिव्याम् /

धूमायामि प्रज्वलामि तद्यथापि नाम महानग्निस्कन्धः / पृथिवीमपि कम्पयामि / इमावपि चन्द्रसूर्यौ एवं महर्द्धिकौ एवं महानुभावौ एवं महौजस्विनौ पाणिना संपरिमार्जयामि / यावद्ब्रह्मलोकं काये च संवर्तयामि / गन्धधूपपटलमेघसंछन्नं लोकं कृत्वा प्रज्वलामि / सर्वरत्नार्चिमेघसंछन्नं लोकं कृत्वा सर्वजगत्सदृशनिर्मितमेघान् प्रमुञ्चामि / अनन्तवर्णप्रभाजालमेघान् प्रमुञ्चन् समन्ताद्दिशो निर्यामि - यदुत पूर्वां दिशं निर्यामि, (gv 57) दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामध उर्ध्वामपि दिशं निर्यामि / एकैकेन चित्तक्षेणेन पूर्वस्यां दिशि एकं लोकधातुमतिक्रमामि / द्वावपि दशापि लोकधातुशतमपि लोकधातुसहस्रमपि लोकधातुशतसहस्रमपि लोकधातुकोटीमपि लोकधातुकोटीशतमपि लोकधातुकोटीसहस्रमपि लोकधतुकोटीशतसहस्रमपि लोकधातुकोटीनियुतशतसहस्रमपि, अपरिमाणानपि लोकधातूनप्रमेयान्, असंख्येयानपि अचिन्त्यानपि अतुल्यानपि अमाप्यानपि असमन्तानपि अपर्यन्तानपि असीमाप्राप्तानपि अनभिलाप्यानभिलाप्यानपि लोकधातूनतिक्रमामि /

ये च तेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषु तेषु लोकधातुसमुद्रेषु, तेषु तेषु लोकधातुप्रसरेषु, तासु तासु लोकधातुदिक्षु, तेषु तेषु लोकधातुपरिवर्तेषु, तेषु तेषु लोकधातुसमवसरणेषु, तेषु तेषु लोकधातुसंभवेषु, तेषु तेषु लोकधातुनिर्देशेषु, तेषु तेषु लोकधातुद्वारेषु, तेषु तेषु लोकधातुकल्पनिर्देशेषु, तेषु तेषु लोकधात्ववतारेषु, तेषु तेषु लोकधातुबोधिमण्डव्यूहेषु, तेषु तेषु लोकधातुपर्षन्मण्डलेषु ये बुद्धाभगवन्तो धर्मंदेशयन्ति, तेषां तथागतानामेकैकं तथागतमनन्तबुद्धक्षेत्रपरमाणुरजःसमैः कायनानात्वैरेकैकेन कायेन अनन्तबुद्धक्षेत्रपरमाणुरजःसमैः पूजामेघैः प्रवर्षन्नुपसंक्रमामि / उपसंक्रम्य पूजां करोम्यप्रतिप्रस्रब्धः सर्वपुष्पैः सर्वगन्धैः सर्वमाल्यैः सर्वविलेपनैः सर्ववस्त्रैः सर्वध्वजैः सर्वपताकाभिः सर्ववितानैः सर्वजालैः सर्वविग्रहैः / यच्च ते बुद्ध भगवन्तो भाषन्ते देशयन्ति उदीरयन्ति संप्रकाशयन्ति संवर्णयन्ति परिदीपयन्ति उपदिशन्ति निर्दिशन्ति प्रभावयन्ति, तत्सर्वमाजानामि, उद्गृह्णामि / या च तेषां बुद्धानां भगवतां बुद्धक्षेत्रपरिशुद्धिस्तां सर्वामनुस्मरामि / यथा पुर्वस्यां दिशि, एवमेव दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वायां दिशि एकमपि लोकधातुमतिक्रमामि / द्वावपि दशापि लोकधातुशतमपि यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि लोकधातूनतिक्रमामि /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.