Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 11/16

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

गण्डव्यूहसूत्र

Thông tin
GRETIL — P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भूतपूर्वं कुलपुत्र अतीते ऽध्वनि लोकधातुसमुद्रपरमाणुरजःसमानां परेण परतरेण यदासीत् - तेन कालेन तेन समयेन रत्नप्रभा नाम लोकधातुः / तस्यां खलु पुनः कुलपुत्र रत्नप्रभायां लोकधातौ सुप्रभो नाम कल्पो ऽभूत् / तस्मिन् खलु पुनः सुप्रभे कल्पे दश बुद्धसहस्राण्युपपद्यन्ते स्म / तेषां खलु कुलपुत्र दशानां बुद्धसहस्राणां प्राथमकल्पिको धर्मचक्रनिर्घोषगगनप्रदीपराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्, येन सर्वप्रथममनुत्तरा सम्यक्संबोधिरभिसंबुद्धा / स खलु पुनः कुलपुत्र तथागतो मध्ये (gv 273) चातुर्द्वीपकस्य रतिव्यूहाया राजधान्या नातिदूरे उपपन्नः / तस्याः खलु पुना रतिव्यूहाया राजधान्याः पूर्वेण सुप्रभं नाम वनषण्डमभूत् / तस्मिन् खलु पुनः सुप्रभे वनषण्डे रत्नकुसुममेघो नाम बोधिमण्डो ऽभूत् / तस्मिन् खलु रत्नकुसुममेघे बोधिमण्डे वैरोचनमणिपद्मगर्भसिंहासनं प्रादुरभूत्, यत्र स भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीराजस्तथागतो निषद्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः / तेन च समयेन मनुष्याणां दश वर्षसहस्राणि आयुः प्रमाणमभूत् / अथ प्राणातिपातिषु सर्वेषु लोके प्रादुर्भूतेषु अदत्तादायिषु काममिथ्याचारिषु मृषावादिषु पैशुनिकेषु पारुषिकेषु संभिन्नप्रलापिषु अभिध्यालुषु व्यापन्नचित्तेषु मिथ्यादृष्टिषु, एवं दशस्वकुशलेषु कर्मपथेषु विपुलीभूतेषु सुप्रतिष्ठितेषु स भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतः परिपूर्णं वर्षसहस्रं बोधिमण्डगतो बोधिसत्त्वानां धर्मं देशयामास लोकेन्द्राणां च पूर्वजिनकृताधिकाराणां जम्बुद्वीपकानां च मनुष्याणां कुशलमूलपरिपाचनाय //

तेन च समयेन तस्यां रतिव्यूहायां राजधान्यां जयप्रभो नाम राजा अभूत् / तेन अदत्तादायिनां पुरुषाणां चौराणां किल्बिषकारिणां प्राणातिपातिनां काममिथ्याचारिणां मृषावादिनां पैशुनिकानां पारुषिकाणां संभिन्नप्रलापिनां अभिध्यालूनां व्यापन्नचित्तानां मिथ्यादृष्टिकानामधर्मरागरक्तानां विषमलोभाभिभूतानां मिथ्याधर्मपरिगतानां कृतपापानां कृतरौद्राणामकृतपुण्यानामकृतभयभीरुत्राणानाममातृज्ञानामपितृज्ञानामश्रामण्यानामब्राह्मण्यानाममनार्यज्ञानामपराधिनामनेकानि शतसहस्राणि चारके प्रक्षिप्तान्यभूवन् दमनार्थाय / राज्ञः खलु पुनः जयप्रभस्य विजितावी नाम पुत्रो ऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतो ऽष्टविंशतिभिर्महापुरुषलक्षणैरुपेतः / अथ स सरस्वतिसंगीतिप्रासादाभिरूढो महास्त्रीगणपरिवारपरिवृतः तेषां चारकावरुद्धानां सत्त्वानां विविधगाढबन्धनबद्धानां भैरवमुत्क्रोशशब्दमश्रौषीत् / श्रुत्वा च पुनरुद्विग्नः संविग्नचित्तो महाकरुणासंजातः तस्मात्प्रासादादवतीर्य तच्चारके प्रविश्य अद्राक्षीत्तांश्चारकगहनप्रक्षिप्तान् सत्त्वान् नानाहडिनिगडकटककुण्डलशृङ्खलाखलीनबन्धनबद्धान् परस्परशरीरविनिबद्धान् महान्धकारप्रक्षिप्तान् धूमतिमिरावृतान् विषमवातोपहतशरीरान् धमनीसंततगात्रान् क्षुत्पिपासापरिपीडितान् नग्नान् निर्वसनान् पांशुरजःसंम्रक्षितशरीरांश्च केशाभिच्छादितकायान् उरुनिगडबन्धनबद्धान् विविधाः कारणाः कार्यमाणान् दुःखवेदनामनुभवमानाननेकविधान् कारणान् परिदेवविप्रलापान् प्रमुञ्चमानान् /

स तान् दृष्ट्वा महत्कारुण्यमुत्पाद्य उदारकरुणाशयसंजातः परहिताधानो ऽद्भुतचेताश्चारकगहनगतान् सत्त्वान् समाश्वासयामास बन्धनविप्रमोक्षाय / स तेषां सत्त्वानामभयं दत्वा येन राजा जयप्रभस्तेनोपसंक्रम्य एवमाहयत्खलु देवो जानीयात् - मया बन्धनागारबन्धनगतानां सत्त्वानां कारुण्यादभयं दत्तम् / ते मुच्येरन् / अथ जयप्रभेण राज्ञा सर्वाणि पञ्चामात्यशतानि संनिपात्य परिपृष्टानियुष्माकं कथं भवति? त आहुः - एते राजकोशविलोपिनो राज्ञो वधाय पराक्रान्ताः / राज्ञो ऽन्तःपुरे पराक्रमन्तो गृहीताः / वधार्हा ह्येते / वध एवैषां दण्डो बन्धनगतानां वा मरणम् / यो ऽप्येषामनुग्रहाय प्रतिपद्यते, सो ऽपि राज्ञो ऽपराधी //

अथ खलु स विजितावी राजपुत्रो महाकरुणापरिपीडितस्तानमात्यान् प्रोवाचतथास्तु यथा यूयं वदथ / तदथोत्सृजतैनानपराधिनः पुरुषान् / अहमेषामथार्य सर्वदुःखवेदनाः संसोढुमुत्सहे / यद् युष्माभिरेषां करणीयं तन्मम कुरुत / अहमेषां बन्धनविप्रमोक्षाय विविधकारणापरिगतः कायजीवितं परित्यजामि / तत्कस्य हेतोः? यद्यहमेतान् सत्त्वानस्माद्बन्धनान्न शक्नोमि मोचयितुम्, तत्कथं शक्यं त्रैधातुकबन्धनागारगतान् सत्त्वांस्तृष्णापाशविनिबद्धान् अविद्यागहनगतान् मोहान्धकारप्रक्षिप्तान् दारिद्र्यदुःखप्रपीडितान् गम्भीरगहनदुर्गतिप्रतिपन्नान् विसंस्थितविवर्णशरीरान् निरस्तसर्वेन्द्रियप्रयोगान् विभ्रान्तमानसान् अनिःसरणदर्शिनः आलोकविरहितांस्तांस्त्रैधातुकाभिनिविष्टान् पुण्यज्ञानसंभारविकलान् ज्ञानायतनपरिभ्रष्टान् नानाक्लेशमलिनचित्तान् दुःखपञ्जरप्रक्षिप्तान् मारवशगतान् जातिजरारमणशोकपरिदेवदुःखदौर्मनस्योपायासप्रपीडितान् परिमोचयितुम् //

अथ खलु विजितावी राजकुमारस्तान् सर्वान् बन्धनगतान् सत्त्वांस्तस्माद्बन्धनागारात्परिमोचयति स्म आत्मपरित्यागेन सर्वपरिवारेण सर्वधनस्कन्धेन / स तान् परिमोच्य यत्तेषां सत्त्वानां दुःखोपधानं तदुत्सृज्य न विनिवर्तयते स्म / अथ तानि पञ्चामात्यशतान्यूर्ध्वबाहूनि उत्क्रोशमानानि जयप्रभं राजानमुपसंक्रम्य एवमाहुः - यत्खलु देवो जानीयात् - विजिताविनः कुमारस्य च्छन्देनायं राजकोशो विलुप्यते / अस्माकमपि सर्वेषां जीविते संशयः / यदि देवो विजिताविनो राजकुमारस्य निग्रहणं च करिष्यति, देवस्य नचिरेण जीवितं न भविष्यति //

अथ खलु जयप्रभो राजा कुपितो विजिताविनं राजकुमारं सह तैरपराधिभिः पुरुषैर्वधायोत्सृष्टवान् / तस्य माता जनेत्री तच्छ्रुत्वा उद्विग्ना स्त्रीसहस्रपरिवृता प्रमुक्तकेशी निराभरणगात्री स्वमुखं व्यालुप्य उरस्ताडयन्ती पांश्ववकीर्णशिरस्का क्रन्दमाना आर्तस्वरं रुदन्ती राजानमुपसंक्रम्य सपरिवारा चरणयोर्निपत्य एवं विज्ञापयामास - प्रमुञ्च देव विजिताविनं राजकुमारम् / देहि देव कुमारस्य जीवितम् / अथ राजा विजिताविनं कुमारं संमुखं स्थापयित्वा एवमाहं - उत्सृज कुमार एतानपराधिनो मनुष्यान् / यदि नोत्स्रक्ष्यसि, तदेषामर्थाय वधमुपगमिष्यसीति / स वधमभ्युपगतवानसंलीनेन चित्तेन असंकुचितेन सर्वज्ञतारम्बणप्रयुक्तेन परहितपरिणतेन महाकरुणापूर्वंगमेन / तस्य जनेत्र्या राजा जयप्रभो ऽर्धमासं याचितो दर्शनाय-अर्धमासं कुमारो दानं ददातु यस्य येनार्थः / ततो यथाकामं करणीयः / भवतु तत्तथेति राज्ञानुज्ञताम् / अथ तस्या रतिव्यूहाया राजधान्या उत्तरेण पूर्वयज्ञवाटप्रकृतं सूर्यप्रभं नाम महोद्यानम् / तत्र कुमारो ऽभिनिष्क्रम्य यस्य येनार्थः तस्य तत्प्रादात् / तेन निरर्गलं यज्ञं यजता अर्धमासं विविधा दानविधयो दत्ताः / अन्नमन्नार्थिभ्यः पानवस्त्रपुष्पमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकारत्नाभरणविविधविभूषणसर्वोपकरणविषयस्तदर्थिभ्यो निसृष्टः //

ततः पश्चिमे दिवसे सर्वजनकायः संनिपतितः / राजामात्यस्त्रीगणश्रेष्ठिगृहपतिनैगमजनपदाः (gv 275) सर्वपाषण्डाश्च संनिपतिताः / स च भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतः सत्त्वपरिपाकविनयकालमागमय्य तं यज्ञवाटमुपसंक्रान्तो देवेन्द्रगणपरिवृतो नागेन्द्रगणपरिवृतो नागेन्द्रसंपूजितो यक्षेन्द्रकायाभिनतो गन्धर्वेन्द्राभिष्टुतो ऽसुरेन्द्रप्रणतशरीरश्चूडामणिविभूषितप्रसन्नचित्तो गरुडेन्द्रपूजाविधिभिरभिप्रकीर्णः प्रीतिमनोभिः किन्नरेन्दैः परिपूजितः स्तुतिसंगीतिसंचोदितो महोरगेन्द्रसंप्रेक्षितावलोकितवदनः / अद्राक्षीत् स महाजनकायो विजितावी च राजकुमारस्तं भगवन्तं धर्मचक्रनिर्घोषगगनमेघप्रदीपराजं तथागतमर्हन्तं सम्यक्संबुद्धं दूरत एवागच्छन्तं प्रासादिकं दर्शनीयं शान्तेन्द्रियं शान्तमानसं गुप्तं जितेन्द्रियं नागमिव सुदान्तं ह्रदमिवाच्छं विप्रसन्नमनाविलं महता बुद्धविकुर्वितप्रातिहार्येण महत्या बुद्धवृषभितया विरोचयमानं बुद्धाधिपतेयेनाभिभवन्तं बुद्धमाहात्म्यतया प्रभासयमानं महाबुद्धलक्षणानुव्यञ्जनविभूषणोपशोभितकायं सर्वलोकं बुद्धप्रभामण्डलावभासेन स्फरमाणं बुद्धरश्मिभिरवभासयमानं सर्वरोमविवरेभ्यो गन्धरत्नार्चिश्चक्राणि प्रमुञ्चमानं बुद्धक्षेत्रप्रकम्पनेन सर्वलोकं संकम्पयमानं सर्वव्यूहमेघप्रवर्षणेन बुद्धविक्रमेण सर्वसत्त्वक्लेशप्रजहनेन बुद्धेर्यापथेन सर्वसत्त्वप्रीतिवेगविवर्धनेन बुद्धदर्शनप्रभावेनोपसंक्रममाणम् / दृष्ट्वा च भगवतो ऽन्तिके चित्तमभिप्रसादयामासुः //

अथ खलु विजितावी राजकुमारः स च महान् जनकायस्तं भगवन्तं धर्मचक्रनिर्घोषगगनमेघप्रदीपराजं तथागतं दूरादेव प्रत्युद्गम्य प्रसन्नचित्तः सर्वशरीरेण प्रणिपत्य पादौ शिरसाभिवन्द्य अनेकविधया पूजया संपूज्य एवं वाचमभाषत - एहि भगवन्, एहि सुगत / समन्वाहृताः स्मः तथागतेन, अनुपरिगृहीताः स्मः सुगतेन / अथ खलु विजितावी राजकुमारस्तस्य भगवतो ऽग्रासनमुपदर्शयन् एवमाह - निषीदतु भगवान् / इदमासनं प्रज्ञप्तम् / ततो भगवत उपसंक्रामतस्तदासनं शुचिगर्भशरीरकायिकाभिर्देवताभिर्बुद्धानुभावेन गन्धमणिराजपद्मगर्भमधिष्ठितम् / न्यषीदद्भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतस्तत्रासने, आसनपरिवारेषु च बोधिसत्त्वाः / तस्य सहदर्शनेन तस्यां पर्षदि सर्वेषां सत्त्वानां सर्वव्याधयः प्रशान्ताः, सर्वावरणनिवरणविगताश्चार्यधर्माणां भाजनीभूताः संस्थिताः //

अथ खलु भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतस्तान् सत्त्वान् भाजनभूतान् विदित्वा अनुपूर्वेण कथामकार्षीत् / यदुत हेतुमण्डलप्रभासं नाम सूत्रान्तं संप्रकाशयामास / स्वराङ्गसहस्रसंप्रयुक्तं च वदनान्तरात् सर्वधर्माङ्गसंप्रयुक्तं सर्वजगन्मन्त्रसागरनिरुक्तिनिर्नादनिर्घोषं निश्चारयामास / अथ तावदेव ततः पर्षदो ऽशीतीनां प्राणिनियुतानां विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम् / बहुभिश्च प्राणिनियुतैरशैक्षभूमिरनुप्राप्ता / दश च प्राणिसहस्राणि महायाने विनीतानि, यदुत समन्तभद्रबोधिसत्त्वचर्यामहाप्रणिधानपरिपूरिनये ऽवतारितानि / एवं तस्य भगवतो महाबुद्धविकुर्वितेन धर्मचक्रं प्रवर्तयमानस्य दशसु दिक्षु बुद्धक्षेत्रशतसहस्रपरमाणुरजःसमाः सत्त्वा महायाने विनयमगमन् / अनन्तमध्याश्च सत्त्वा दशदिशि लोके नानाबुद्धक्षेत्रप्रसरसमवसरणेष्वपायभूमिं विनिवर्तयामासुः / (gv 276) गणनासमतिक्रान्ताश्च सत्त्वाः स्वर्गोपपत्तिपथे प्रतिष्ठापिता अभूवन् / विजितावी च राजकुमार इमं सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं प्रत्यलभत //

स्यात्खलु पुनस्ते कुलपुत्र - अन्यः स तेन कालेन तेन समयेन विजितावी राजकुमारो ऽभूत्, येन तत्स्वकायजीवितं परित्यज्य सर्वधनस्कन्धपरिवारं परित्यज्य सर्वमानुष्यकं च जीवलोकसुखं परित्यज्य ते बन्धनगताः सत्त्वाः तस्माद्बन्धनात् परिमोक्षिताः? स च निरर्गलो महायज्ञो यष्टः? स च भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतो ऽर्हन् सम्यक्संबुद्धः आरागितः? तस्य च तथागतस्य सहदर्शनेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्? एष च सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः प्रतिलब्धः? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् / अहं स तेन कालेन तेन समयेन विजितावी नाम राजकुमारो ऽभूवम् / मया तद्विजितावीराजकुमारभूतेन महाकरुणाप्रपीडितेन सर्वजगद्धितप्रतिपन्नेन त्रैधातुकानिश्रितेन विपाकाप्रतिकाङ्क्षिणा यशस्कीर्तिनामानभिनन्दिना आत्मानमनुत्कर्षयता परमपंसयता सर्ववस्त्वनभिनिविष्टेन भवसंज्ञोच्चलितेन त्रैधातुकानभिनन्दिना लोकविषयसुखविमुखेन तथागतविषयाविमुखेन बोध्याशयविशुद्धेन अध्याशयवज्रपरिनिष्पन्नेन सर्वजगन्महामैत्रीप्रयोगेन सर्वजगन्महाकरुणादुःखव्युपशमसंप्रयुक्तेन तथागतबलाध्याशयमध्यालम्बता बोधिसत्त्वमार्गं परिशोधयता महायानव्यूहनिर्याणपथमलंकुर्वता सर्वज्ञतामार्गमभिविलोकयता इमान्येवं दुष्कराणि कृतानि / एवं चिरप्रतिलब्धः कुलपुत्र मयैष सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः //

तत्किं मन्यसे कुलपुत्र - अन्यानि तानि तेन समयेन पञ्चामात्यशतान्यभूवन्, यैः स राजा जयप्रभो वितथं विज्ञाप्य मम वधायोद्योजितः? न खल्वेवं द्रष्टव्यम् / इमानि तानि पञ्च पुरुषशतानि यानि देवदत्तेन भगवतो वधायोद्योजितानि / तानि च भगवता विनीय अनुत्तरायां सम्यक्संबोधौ व्याकृतानि - भविष्यत्यनागते ऽध्वनि सुमेरुपरमाणुरजःसमैः कल्पैः एकस्मिन् सुप्रभनामधेये कल्पे पञ्च बुद्धशतानि नानाबुद्धक्षेत्रगुणव्यूहानि नानाजन्मकुलगोत्रसंभवानि नानामातापितृव्यपदेशानि नानाजन्मविकुर्वितसंदर्शनानि नानाभिनिष्क्रमणविकुर्वितानि नानाबोधिवृक्षप्रभासंदर्शनानि नानाबोधिमण्डोपसंक्रमणमुखानि नानामारभङ्गसंदर्शनानि नानाभिसंबोधिविकुर्वितसंदर्शनानि नानाधर्मचक्रप्रवर्तननयनामनिरुक्तीनि नानासूत्रान्तनयनिर्देशानि नानावाक्पथरुतोदाहाराणि नानापर्षन्मण्डलव्यूहानि नानाप्रभामण्डलप्रभाव्यूहप्रमुञ्चनानि नानायुःप्रमाणानि नानाशासनाधिष्ठानानि नानाशासनविज्ञप्तीनि नानानामधेयानि महाकरुणाशरीराणि, येषां प्राथमकल्पिको महाकारुणिको नाम तथागतो रत्नप्रभायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते / तस्यामेव लोकधातौ द्वितीयः सर्वजगद्धितप्रणिधानचन्द्रो नाम तथागत उत्पत्स्यते / तृतीयो महाकरुणासिंहो (gv 277) नाम तथागत उत्पत्स्यते / चतुर्थः सर्वलोकहितैषी नाम तथागत उत्पत्स्यते / यावत्सर्वपश्चिमो वैद्यराजो नाम तथागत उत्पत्स्यते //

तत्किं मन्यसे कुलपुत्र - अन्ये ते तेन कालेन तेन समयेन अपराधिनः पुरुषा राजकिल्बिषकारिणो ऽभूवन् ये ते मया वध्यघातवशगताः स्वकायजीवितं परित्यज्य ततो बन्धनात् परिमोक्षिताः? न खल्वेवं द्रष्टव्यम् / इमे ते क्रकुच्छन्दपूर्वगमा भद्रकल्पिकास्तथागताः / तदन्यानि च दशः बोधिसत्त्वासंख्येयशतसहस्राणि यैर्भगवतो ऽनन्तबलविघुष्टनिर्नादितश्रीसंभवमतेस्तथागतस्य दर्शनेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्, यान्येतर्हि दशसु दिक्षु बोधिचर्यां चरन्ति / इमे च सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं भावयन्ति विपुलीकुर्वन्ति //

तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन जयप्रभो नाम राजा अभूत्? न खल्वेवं द्रष्टव्यम् / सत्यकः स महावादी तेन कालेन तेन समयेन जयप्रभो नाम राजा अभूत् / तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन राजपरिवारो ऽभूदन्तःपुरस्त्र्यागारदौवारिकपार्षद्या वा अनुयात्रिका वा? न खल्वेवं द्रष्टव्यम् / इमानि तानि षष्टिर्निग्रन्थसहस्राणि, यानि सत्यकेन महावादिना भगवतः सकाशमुपनीतानि, वादिध्वजधारणतया भगवतो वादायोपसंक्रान्तानि / तानि च सर्वाणि भगवता व्याकृतान्यनुत्तरायां सम्यक्संबोधौ / नानाबुद्धक्षेत्रव्यूहैर्नानाकल्पैर्नानानामधेयैस्तथागतां लोके उत्पत्स्यन्ते //

स खलु पुनः कुलपुत्र विजितावी राजकुमारो मातापितृभ्यामनुज्ञातस्तान् बन्धनगतान् सत्त्वान् परिमोच्य स्फीतां वसुमतीं धनकनकरत्नसमृद्धामपहाय पुत्रदारं चोत्सृज्य तस्य भगवतो धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्य तथागतस्यान्तिके प्राव्रजत् / प्रव्रजित्वा पञ्च वर्षसहस्राणि ब्रह्मचर्यमचरत् / एतस्मिन्नन्तरे दश समाधिमुखसहस्राणि संनिष्पादयामास / दश च धारणीमुखसहस्राणि प्रत्यलभत / दश च अभिज्ञानयसहस्राण्यवक्रान्तानि / दश बोधिसत्त्वमहानिधानसहस्राणि प्रतिलभते स्म / दश चास्य सर्वज्ञतावेगसहस्राण्याजातानि / दश चानेन क्षान्तिमुखसहस्राणि परिशोधितानि / दश चित्तनिध्यप्तिसहस्राण्यभिनिर्हृतानि / दश च बोधिसत्त्वबलशरीराणि संवर्धितानि / दश च बोधिसत्त्वज्ञानमुखसहस्राण्यवक्रान्तानि / दश चास्य प्रज्ञापारमितानयसहस्राण्याजातानि / दश च बुद्धसहस्रदर्शनदिङ्भुखसहस्राण्यामुखीभूतानि / दश च अनेन बोधिसत्त्वप्रणिधानसहस्राण्यभिनिर्हृतानि / स एवं धर्मसमन्वागतः प्रतिचित्तक्षणे दशसु दिक्षु दशबुद्धक्षेत्रसहस्राण्याक्रामति स्म / एकैकस्यां च लोकधातौ चित्तक्षणे चित्तक्षणे दश बुद्धसहस्राणि पूर्वान्तापरान्ततो ऽनुस्मरति स्म / तेषां च तथागतानां दश बुद्धनिर्माणसमुद्रसहस्राणि दशदिक्प्रसृतान्यवतरन्ति स्म / चित्तक्षणे चित्तक्षणे दश बुद्धक्षेत्रसहस्रपर्यापन्नान् सर्वसत्त्वानद्राक्षीत् / नानागत्युपपन्नांश्च्यवत (gv 278) उपपद्यमानान् हीनान् प्रणीतान् सुगतान् दुर्गतान् सुवर्णान् दुर्वर्णान् यथाकामोपगतान् / तेषां च सत्त्वानां च्युत्युपपत्तीरवतरति स्म / चित्तपरिवर्तान् चित्तचरितानि चिन्तानन्तर्यतामाशयनानात्वमिन्द्रियसागरानपि प्रयोगप्रसरानपि कर्मावसानमपि परिपाकविनयकालमपि अवतरति स्म //

स खलु पुनः कुलपुत्र विजितावी राजकुमारस्ततश्च्युत्वा तत्रैव जम्बुद्वीपे रतिव्यूहायां राजधान्यां तस्मिन्नेव राजकुले उपपद्य चक्रवर्तिराज्यैश्चर्यं प्रत्यलभत / तेन चक्रवर्तिराजभूतेन तस्य भगवतो धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्य तथागतस्य परिनिर्वृतस्यानन्तरं धर्मगगनाभ्युद्गतश्रीराजो नाम तथागत आरागितः / तस्यानन्तरं तत्रैव बोधिमण्डे शक्रभूतेन देवेन्द्रगर्भो नाम तथागत आरागितः / तस्यानन्तरं तत्रैव लोकधातौ सुयामदेवराजभूतेन धरणीश्रीपर्वततेजो नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव लोकधातौ संतुषितदेवराजभूतेन धर्मचक्रप्रभनिर्घोषराजो नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव लोकधातौ सुनिर्मितदेवराजभूतेन गगनकान्तराजो नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव लोकधातौ वशवर्तिदेवराजभूतेनानवमर्दबलकेतुर्नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव लोकधातावसुरेन्द्रभूतेन सर्वधर्मनिगर्जितराजो नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव लोकधातौ ब्रह्मेन्द्रभूतेन धर्मचक्रनिर्माणसमन्तप्रतिभासनिर्घोषो नाम तथागत आरागितः / इति हि कुलपुत्र एतांस्तथागतान् प्रमुखान् कृत्वा तस्यामेव रत्नप्रभायां लोकधातौ तस्मिन्नेव सुप्रभे कल्पे दश बुद्धसहस्राण्युदपद्यन्त / सर्वे च ते तथागता विजिताविना राजकुमारेणारागिताः / तस्य खलु पुनः कुलपुत्र सुप्रभस्य महाकल्पस्यानन्तरं सुरश्मिर्नाम कल्पो ऽभूत् / तस्मिंश्च सुरश्मिकल्पे दश बुद्धसहस्राण्युपपद्यन्त / अहं च तस्मिन् कल्पे महामतिर्नाम राजा अभूवम् /

तेन मे राजभूतेन लक्षणश्रीपर्वतो नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव कल्पे गृहपतिभूतेन संवृतस्कन्धो नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव कल्पे अमात्यभूतेन विमलवत्सो नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव कल्पे ऽसुरेन्द्रभूतेन वेशधारी नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव कल्पे वृक्षदेवताभूतेन लक्षणसुमेरुर्नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव कल्पे सार्थवाहभूतेन विमलबाहुर्नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव कल्पे नगरदेवताभूतेन् सिंहविक्रान्तगामी नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव कल्पे वैश्रवणभूतेन देवेन्द्रचूडो नाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव कल्पे गन्धर्वराजभूतेन धर्मोद्गतकीर्तिनाम तथागत आरागितः / तस्यानन्तरं तस्मिन्नेव कल्पे कुम्भाण्डेन्द्रभूतेन अवभासमकुटी नाम तथागत आरागितः //

इति हि कुलपुत्र मयैतान् दश तथागतान् प्रमुखान् कृत्वा तत्र सुरश्मिकल्पे षष्टिर्बुद्धकोट्य आरागिताः / नानोपपत्तिकायिकया सर्वे च मे तथागताः पूजिताः / एकैकं (gv 279) च तथागतमुपसंक्रामन्त्या अनन्तमध्यः सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचितः / एकैकं च तथागतमुपसंक्रामन्त्या नानासमाधिमुखानि प्रतिलब्धानि / नानाधारणीमुखानि नानाभिनिर्हारनया नानाप्रतिसंविन्नयाभिनिर्हारा नानासर्वज्ञतानयानुगमा नानाधर्मालोकमुखप्रतिलाभनया नानाज्ञाननयानुगमविचारा नानादिक्समुद्रप्रवेशावभासा नानाक्षेत्रसमुद्रावतारप्रवेशावभासा नानातथागतदर्शनसमुद्रविज्ञप्त्यवभासाः प्रतिलब्धाः, अवक्रान्ता विशुद्धाः संवर्धिताः प्रसृताः प्रतिसृताः / यथा च तत्र सुरश्मिकल्पे तथागता आरागिताः, तथा सर्वत्रलोकधातुसमुद्रपरमाणुरजःसमेषु कल्पेषु ये केचित्तथागता उपपद्यन्ते, ये ऽपि तदन्येभ्यो लोकधातुभ्य आगत्य तथागता धर्मं देशयमासुः, तेषां मया सर्वेषां तथागतानामन्तिकाद्धर्मदेशना श्रुता, श्रुत्वा च संधारिता / सर्वे च मया ते तथागता आरागिता अभिराधिताः / तेषां च मे बुद्धानां भगवतां शासनं संधारितम् / सर्वेषां च मे तेषां तथागतानामन्तिकादेष सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः प्रतिलब्धो नानाप्रतिलाभनयनानाविमोक्षनयमुखैः //

अथ खलु सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता तस्यां वेलायामेतं विमोक्षनयं परिदीपयन्ती संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत -

अचिन्त्यमेतं परमं विमोक्षं मां पृच्छसि त्वं खलु यत्प्रपीतः / विनिर्दिशत्याः सुगतानुभवाच्छृणुष्व तन्मे निखिलं यथावत् // 12 //

कल्पाननन्तान् विपुलानचिन्त्यान् क्षेत्रार्णवांश्चाप्रतिमानसंख्यान् / सर्वानतिक्रम्य बभूव रम्या रत्नप्रभा या खलु लोकधातुः // 13 //

तस्यामभूत्सुप्रभनामधेयः कल्पो ऽमितानां प्रभवो जिनानाम् / आरागितास्ते खलु मे मुनीन्द्रा विमोक्षमेतं परिभावयन्त्या // 14 //

यस्यां रतिव्यूहसनामिकाभूद्विस्तीर्णचित्रा वरराजधानी / सुविशुद्धचित्ता विषमप्रयोगाः सत्त्वा हि यस्यामभवंस्तदानीम् // 15 //

जयप्रभो ऽस्यां नृपतिर्बभूव धर्मेण यस्ताननुशास्ति सत्त्वान् / पुत्रो ऽस्य नाम्ना विजिताविरासीत् प्रासादिको लक्षणचित्रिताङ्गः // 16 //

वधाय सृष्टानि नृपेण तेन तदा सहस्राण्यपराधिनां हि / दृष्ट्वा कुमारः कृपया परीतस्तान् विप्रमोक्षाय नृपं ययाचे // 17 //

श्रुत्वा नृपो ऽमात्यगणं तदानीमाहूय तेषां निखिलं तदाह / ते प्रोचुरेनं प्रणिपत्य सर्वे त्वद्धातनायैष नृप प्रयोगः // 18 //

विग्राहितस्तैर्नृपतिस्तदैवं वधाय तं पुत्रमथोत्ससर्ज / अदीनवक्त्रः स्ववधानपेक्षो वध्यानत्यजन्न स राजसूनुः // 19 //

श्रुत्वा वधोत्सृष्टमथास्य माता सान्तःपुरार्ता नृपतिं ययाचे / मुञ्चार्धमासं नृपते कुमारं दातुं प्रदानान्यखिलानि लोके // 20 //

दत्ताभ्यनुज्ञश्च नृपेण तेन प्रादात्स दानानि यथोचितानि / रात्रिंदिवं दानमथार्धमासं दत्वा दिशाभ्यः समुपागतानाम् // 21 //

पाषण्डिनां यस्य यदीप्सितं तत् तस्मै ददाति स्म वधाय सज्जः / मुक्तार्तनादाथ विनिर्जगाम सा राजधान्या जनता समग्रा // 22 //

सद्धर्मघोषाम्बरदीपराजो बोधिद्रुमस्थः सुगतस्तदानीम् / पक्वानि ज्ञात्वा जगदिन्द्रियाणि तं यज्ञवाटं कृपया जगाम // 23 //

उपेत्य तस्यां परिषद्यथासौ तथागतव्यूहविकुर्वितेन धर्मप्रदीपाम्बुदधर्मघोषसूत्रान्तराजं सुगतो बभाषे // 24 //

अनन्तमध्यां जनतां विनीय स व्याकरोति स्म तदाग्रबोधौ / संप्रस्थितो ऽसौ विजिताव्युदग्रो राजात्मजश्चैव वराग्रबोधौ // 25 //

आराग्य बुद्धं विपुलं च तस्मै विधाय पूजां मुदितो बभाषे / द्वीपो भवेयं जगतां विनेता त्राणं शरण्यश्च परायणं च // 26 //

स प्राव्रजत्तस्य मुनेः समीपे संबोधिमार्गं परिमार्गमाणः / धर्मस्वभावं सुपरीक्षमाणो यत्र स्थितः कल्पशतानि चीर्णः // 27 //

दुःखार्णवत्वे पतितामनाथां कृपायमाणो जनतामशेषाम् / संबोधिमार्गं परिभावयित्वा लभते तदानीं स विमोक्षमेतम् // 28 //

ये तत्र कल्पे सुगता बभूवुराराग्य तानप्यखिलान् प्रसन्नः / पूजां च तेषामकरोदुदारां संधारयामास च धर्मचक्रम् // 29 //

तदुत्तरे कल्पमहार्णवेषु क्षेत्रार्णवाणुप्रतिमेष्वशेषाः / ये चोदयात्यन्तजिनास्तदानीमारागयामास स तान् प्रपूज्य // 30 //

अहं स आसं विजिताविनामा दृष्ट्वा नरांश्चारकबन्धनस्थान् / तद्विप्रमोक्षाय विसृज्य देहं लब्धो ममायं हि तदा विमोक्षः // 31 //

यो भावितः कल्पमहासमुद्रान् क्षेत्रोदधीनां परमाणुसंख्यान् / प्रतिक्षणं चैव विवर्धितो ऽभूदनन्तमध्यैरसमैर्नयेभिः // 32 //

दृष्टाश्च मे केचन ये मुनीन्द्राः प्राप्तश्च यं मे निखिलेष्ववाप्तः / मुखैर्नयानामपरापरं च संदर्शितो ऽयं मम तद्विमोक्षः // 33 //

तेषामचिन्त्ये हि विमोक्षतत्त्वे संशिक्षिताहं बहुकल्पकोटीः / प्रतिष्ठिता यत्र जिनैर्विमुक्तान् सद्धर्ममेघान् युगपत्पिबन्ती // 34 //

क्षेत्राणि सर्वाण्यपि सर्वदिक्षु स्फरन्ति कायेन असज्जमानाः / प्रतिक्षणं क्षेत्रपथेष्वचिन्त्यांस्त्र्यध्वाभिधानान् प्रविशन्ति वंशान् // 35 //

अशेषतस्त्रयध्वजिनार्णवानामेकैकशश्चाभिमुखा भवन्ति / विदर्शयन्त्येव च ते जिनेषु स्वकायमेघान् प्रतिबिम्बभूताः // 36 //

सर्वासु दिक्ष्वप्युपसंक्रमन्तो विभान्ति ते सर्वतथागतानाम् / व्यूहानशेषानभिवर्षमाणाः पूजां प्रकुर्वन्ति च ते जिनानाम् // 37 //

पृच्छन्त्यथो बुद्धसमुद्रसंख्यान् प्रश्नोदधींस्ते विपुलाननन्तान् / संधारयन्त्यप्यमितान् जिनानां ते धर्ममेघानभिवर्षमाणान् // 38 //

सर्वास्वशेषासु च दिक्षु यान्ति चक्षुष्पथे ते जिनमण्डलेषु / अनेकरूपासनसंनिषण्णा नानाविकुर्वामुपदर्शयन्तः // 39 //

अनन्तवर्णैरपि चात्मभावैः सहस्रशः सर्वदिशः स्फरन्ति / अनन्तमध्यानि विदर्शयन्ति रूपाणि चाप्येकसमुच्छ्रयं ते // 40 //

एकैकतो रोममुखादसंख्यान् मुञ्चन्ति ते रश्मिमहासमुद्रान् / क्लेशाग्निदाहं शमयन्ति चैव सर्वप्रजानां विविधैरुपायैः // 41 //

यत्र स्थिता निर्मितकायमेघानेकैकरोम्णः प्रविमुञ्चमानाः / तैरद्भुतैः सर्वदिशः स्फरित्वा धर्माम्बुवर्षैर्विनयन्ति सत्त्वान् // 42 //

नयप्रवेशो ऽयमचिन्त्यरूपः समाश्रयः सर्वजिनात्मजानाम् / यत्र प्रतिष्ठाय चरन्ति चर्यां क्षेत्रेषु सर्वेष्वपरान्तकल्पान् // 43 //

यथाशयं धर्ममुदीरयन्तः ते दृष्टिजालाद्विनिवर्तयन्ति / स्वर्गापवर्गैर्विनिवेश्य सत्त्वान् सर्वज्ञभूमिं प्रविदर्शयन्ति // 44 //

लोकोपपत्तिष्वखिलास्वचिन्त्यैरनन्तवर्णैरपि चात्मभावैः / यथाशयं धर्ममुदाहरन्ति ते सर्वसत्त्वप्रतिभासरूपाः // 45 //

एतांस्तथान्यानपि चाप्रमेयान् क्षेत्रार्णवाणुप्रतिमानचिन्त्यान् / अच्छम्भि ते वर्णमहासमुद्रान् विमोक्षमेतं प्रतिलभ्य शान्तम् // 46 //

एतमहं कुलपुत्र सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं सर्वलोकगतिसमतिक्रान्तानां बोधिसत्त्वानां सर्वलोकोपपत्तिप्रतिभासप्राप्तानां (gv 284) सर्वज्ञज्ञानावरणपर्वतविकिरणप्रयुक्तानां सर्वधर्मस्वभावलक्षणप्रतिविद्धानां सर्वक्लेशावरणान्धकारविधमनप्रयुक्तानां सर्वधर्मप्रविचारणाभिनिर्हारकुशलमूलानां निरात्मधर्मज्ञानप्रत्यक्षाणां सर्वसत्त्वपरिपाकविनयाप्रतिप्रस्रब्धानामद्वयधर्मधातुनयसुप्रतिबिद्धानां सर्ववाक्पथनयसागरानुप्रसृतबुद्धीनां चर्यां ज्ञातुं गुणसमुद्रान् वा अवतर्तुं ज्ञानविक्रमो परिज्ञातुं चिन्तावस्थानं वा प्रज्ञातुं समाधिवशिता वाधिगन्तुं विमोक्षविकुर्वितं वा समाज्ञातुम् //

गच्छ कुलपुत्र, इयमिहैव जम्बुद्वीपे लुम्बिनीवने सुतेजोमण्डलरतिश्रीर्नाम लुम्बिनीवनदेवता प्रतिवसति / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वा जाता भवन्ति तथागतकुले? कथमालोककरा भवन्ति लोकानाम्? कथमपरान्तकोटीगतान् कल्पान् बोधिसत्त्वसंचारिकां चरन्तो न परिखिद्यन्ते? अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य सर्वजगद्रक्षाप्रणिधानवीर्यप्रभां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्व्य वन्दित्वा नमस्कृत्य प्राञ्जलीकृतो ऽवलोकयमानः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवताया अन्तिकात्प्रक्रान्तः // 39 // 42 सुतेजोमण्डलरतिश्रीः /

अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायास्तामनुशासनीमनुस्मरन् तं सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवबोधिसत्त्वविमोक्षं परिभावयन् विपुलीकुर्वन् अनुपूर्वेण येन लुम्बिनीवनं तेनोपजगाम / उपेत्य लुम्बिनीवनं प्रदक्षिणीकृत्य सुतेजोमण्डलरतिश्रियं लुम्बिनीवनदेवतां परिगवेषमाणो ऽपश्यत्सुतेजोमण्डलरतिश्रियं लुम्बिनीदेवतां लुम्बिनीवनेषु सर्वरत्नद्रुमशाखामण्डलकूटागारे मणिपद्मगर्भसिंहासने निषण्णां विंशत्या वनदेवतानियुतशतसहस्रैः परिवृतां पुरस्कृतां धर्मं देशयमानां सर्वबोधिसत्त्वजन्मसमुद्रनिर्देशं नाम सूत्रान्तं संप्रकाशयमानां तथागतगोत्राभिजातानां बोधिसत्त्वानां गुणसमुद्रवेगविवर्धनाम् / दृष्ट्वा च येन सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता तेनोपजगाम / उपेत्य सुतेजोमण्डलरतिश्रीलुम्बिनीवनदेवतायाः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया देवते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि कथं बोधिसत्त्वा जाता भवन्ति तथागतकुले, कथं बोधिसत्त्वचारिकां चरन्तः सत्त्वानामालोककरा भवन्तीति //

एवमुक्ते सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता सुधनं श्रेष्ठिदारकमेतदवोचत् - दशेमानि कुलपुत्र बोधिसत्त्वजन्मानि यैः समन्वागता बोधिसत्त्वा जाता भवन्ति तथागतकुलेषु / निर्याता बोधिसत्त्वाः प्रदक्षिणं बोधिसत्त्वकुशलैर्विवर्धन्ते, न वितिष्ठन्ते न विषीदन्ति न विवर्तन्ते न प्रतिप्रस्रभ्यन्ते न परिखिद्यन्ते न संसीदन्ति न मुह्यन्ति नावलीयन्ते न परित्रस्यन्ति न प्रणश्यन्ति / अनुगच्छन्ति सर्वज्ञतादिगनुगमम् / अनुस्मरन्ति धर्मधातुनयम् / परिपाकप्राप्ता भवन्ति बुद्धबोधौ / विपुलीकुर्वन्ति बोधिचित्तोत्पादम् / विवर्धन्ते सर्वपारमिताभिः / विवर्तन्ते सर्वलोकगतिभ्यः / संवर्तन्ते तथागतभूमौ / उत्तापयन्ति ज्ञानाभिज्ञताः / आमुखीभवन्ति बुद्धधर्मेषु / अनुगतार्था भवन्ति सर्वज्ञताविषये / कतमानि दश? यदुत - सर्वबुद्धोपस्थानप्रणिधिप्रयोगगर्भं नाम प्रथमं बोधिसत्त्वजन्म / बोधिचित्ताङ्गपरिनिष्पत्तिसंभवगर्भं नाम द्वितीयं बोधिसत्त्वजन्म / धर्मनयनिध्यप्तिप्रयोगाभिमुखसंभवगर्भं नाम तृतीयं बोधिसत्त्वजन्म / त्र्यध्वलोकाध्याशयविशुद्धिगर्भं नाम चतुर्थं बोधिसत्त्वजन्म / समन्तावभासप्रभागर्भं नाम पञ्चमं बोधिसत्त्वजन्म / सर्वतथागतकुलगोत्रसंभवगर्भं नाम षष्ठं बोधिसत्त्वजन्म / बुद्धबलावभासालोकालंकारगर्भं नाम सप्तमं बोधिसत्त्वजन्म / समन्तज्ञानमुखव्यवचारणपरिनिष्पत्तिसंभवगर्भं नामाष्टमं बोधिसत्त्वजन्म / धर्मधातुनिर्माणव्यूहगर्भं नाम नवमं बोधिसत्त्वजन्म / तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म //

तत्र कुलपुत्र कतमत्सर्वबुद्धोपस्थानप्रणिधिप्रयोगगर्भं नाम प्रथमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः आदित एव बुद्धोपस्थानाय प्रपूज्यते सर्वबुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् उपतिष्ठन् आरागयन् अविरागयन् तथागतदर्शनावितृप्तो बुद्धसत्कारप्रयुक्तबुद्धप्रीतिवेगविवर्धितचेतास्तथागतदर्शनप्रसादवेगसंजातः / अनिवर्तया श्रद्धया (gv 286) पुण्यं समार्जयन् अतृप्तः सर्वतथागतपूजासंभारसमुदानयनप्रयुक्तो ऽप्रतिप्रस्रब्धप्रयोगो भवति / इदं कुलपुत्र बोधिसत्त्वानां सर्वबुद्धपूजोपस्थानप्रणिधिप्रयोगगर्भं नाम प्रथमं बोधिसत्त्वजन्म सर्वज्ञतासंभारकुशलमूलसंभवसमार्जनतायै संवर्तते //

तत्र कुलपुत्र कतमद्बोधिचित्ताङ्गपरिनिष्पत्तिसंभवगर्भं नाम द्वितीयं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो ऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति / यदुत महाकरुणाचित्तं सर्वसत्त्वपरित्राणाय / सर्वबुद्धारागणचित्तमत्यन्ताभिराधनतायै / सर्वबुद्धधर्मपर्येष्टिचित्तं सर्ववस्त्वनपेक्षतायै / महाप्रस्थानचित्तं सर्वज्ञताभिमुखतायै / महामैत्रीचित्तं सर्वजगत्संग्रहप्रयोगस्फरणतायै / सर्वजगदपरित्यागचित्तं सर्वज्ञतासंनाहदृढतायै / अशाठ्यामायाचित्तं यथाभूतज्ञानावभासप्रतिलाभतायै / यथावादीतथाकारिचित्तं बोधिसत्त्वमार्गप्रतिपद्यनतायै / सर्वबुद्धाविसंवादनचित्तं सर्वतथागतप्रणिध्यनुपालनतायै / सर्वज्ञतामहाप्रणिधानचित्तमपरान्तकोटीगतसर्वसत्त्वपरिपाकविनयाप्रतिप्रस्रब्धये / एतत्प्रमुखैर्बुद्धक्षेत्रपरमाणुरजःसमैर्बोधिचित्ताङ्गसंभारैरभिनिष्पन्नः स बोधिसत्त्वो जातो भवति तथागतकुले / इदं कुलपुत्र बोधिचित्ताङ्गपरिनिष्पत्तिसंभवगर्भं नाम द्वितीयं बोधिसत्त्वजन्म //

तत्र कुलपुत्र कतमद्बोधिसत्त्वानां धर्मनयनिध्यप्तिप्रयोगनेत्र्यभिमुखसंभवगर्भं नाम तृतीयं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः सर्वधर्मनयसंभवन्तिघ्यप्तिमुखचेताः सर्वज्ञतामार्गाकारप्रतिपूर्यभिमुखपरिणतचेताः अनवद्यकर्मसमुदाचारसंकल्पचेताः सर्वबोधिसत्त्वसमाधिनयसागरपरिशुद्ध्यभिमुखचेताः सर्वबोधिसत्त्वगुणप्रतिपत्तिपरिनिष्पन्नचेताः सर्वबोधिसत्त्वमार्गाङ्गव्यूहाभिनिर्हारचेता विपुलसर्वज्ञतारम्बणसंभवकल्पोद्दाहज्वलनकल्पाप्रतिप्रस्रब्धवीर्यचेताः सर्वजगत्परिपाकविनयप्रस्थानानन्तमध्यबोधिसत्त्वचर्याभिनिर्हारचेताः सर्वाचारशिक्षासुप्रतिपन्नबोधिसत्त्वगुणपरिनिष्पत्तिषु सर्वभावविभावनयानुभावनयप्रविष्टचेता भवति / इदं कुलपुत्र धर्मनयनिध्यप्तियोगनेत्र्यभिमुखसंभवगर्भं नाम तृतीयं बोधिसत्त्वजन्म //

तत्र कुलपुत्र कतमद्बोधिसत्त्वानां त्र्यध्वलोकाध्याशयविशुद्धिगर्भं नाम चतुर्थं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः परिशुद्धो भवत्यध्याशयधातौ / अवभासप्राप्तो भवति बुद्धबोधौ / अवतीर्णो भवति बोधिसत्त्वनयसमुद्रेषु / सारो भवति दृढाध्याशयवज्रधातुसंगृहीतचेताः / विमुखीभवति सर्वभवगत्युपपत्तिषु / अभिमुखीभवति सर्वतथागतविकुर्वितपरिनिष्पत्तिषु / विशेषगामिनीप्राप्तो भवति बोधिसत्त्वतीक्ष्णेन्द्रियताविवर्धनतायै / कल्याणचित्तो भवत्यध्याशयप्रभास्वरतायै / अचलो भवति दृढमहाप्रणिधानविवर्धनतायै / सर्वतथागतसमन्वाहृतो भवति सर्वावरणपर्वतविकिरणतायै / प्रतिशरणभूतो भवति सर्वजगदुपजीव्यः / इदं कुलपुत्र बोधिसत्त्वानां त्र्यध्वलोकाध्याशयविशुद्धिगर्भं नाम चतुर्थं बोधिसत्त्वजन्म //

तत्र कुलपुत्र कतमद्बोधिसत्त्वानां समन्तावभासप्रभागर्भं नाम पञ्चमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः प्रयोगसंपन्नो भवति सर्वजगत्परिपाकविनयप्रतिपन्नः / सर्ववस्तुसंज्ञो च्चलितो भवति प्रमुक्तत्यागः / अत्यन्तविशुद्धो भवति अनन्तशीलः तथागतविषयसंवसनः / क्षान्तिसंपन्नो भवति सर्वबुद्धधर्मक्षान्त्यवभासप्रतिलब्धः / महावीर्यो भवति सर्वत उदारनिःशरणप्रतिपन्नः / ध्यानप्रमुक्तो भवति समन्तमुखसमाधिज्ञानमण्डलविशुद्धः / प्रज्ञावीर्यप्रभो भवति सर्वधर्मावभासप्रतिलब्धः / असङ्गचक्षुर्भवति बुद्धदर्शनसमुद्रविज्ञप्त्यवतीर्णः / सर्वधर्मतत्त्वविभुत्वप्रभावितो भवति सर्वलोकं परितोषयित्वा / सुप्रयुक्तो भवति यथावद्धर्मनयप्रतिलाभेषु / इदं कुलपुत्र बोधिसत्त्वानां समन्तावभासप्रभागर्भं नाम पञ्चमं बोधिसत्त्वजन्म //

तत्र कुलपुत्र कतमद्बोधिसत्त्वानां सर्वतथागतकुलगोत्रसंभवगर्भं नाम षष्ठं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो जातो भवति तथागतकुले ऽनुजातो भवति, तथागतवंशे निष्पन्नो भवति सर्वबुद्धधर्मनयमुखेषु, विशुद्धो भवत्यतीतानागतप्रत्युत्पन्नतथागतमहाप्रणिधानेषु / एकधनकुशलमूलो भवति सर्वतथागतकुशलमूलेषु / एकशरीरो भवति सर्वबुद्धैः / लोकोत्तरगामी शुक्लधर्मैः / महात्मधर्मविहारी भवति बुद्धाधिष्ठानदर्शनसमाधौ / सत्त्वविशुद्धिधर्मप्रतिपन्नो भवति यथाकाले / अप्रतिप्रस्रब्धप्रतिभानो भवति बुद्धधर्मपरिपृच्छासु / इदं कुलपुत्र बोधिसत्त्वानां सर्वतथागतकुलगोत्रसंभवगर्भं नाम षष्ठं बोधिसत्त्वजन्म //

तत्र कुलपुत्र कतमद्बोधिसत्त्वानां तथागतबलावभासालोकालंकारगर्भं नाम सप्तमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो बुद्धबलप्रवेशावभासे न निवर्तते बुद्धक्षेत्रगमनेषु / न प्रत्युदावर्तते नानाबोधिसत्त्वगुणसमुद्रोपस्थानाय / न परित्रस्यति सर्वधर्ममायागतयथाभूतज्ञानेन / स्वप्नोपमं सर्वलोकं प्रतिविध्यति / प्रतिभासोपमं सर्वरूपविज्ञप्त्यधिष्ठानमभिनिर्हरति / निर्मितोपमाभिज्ञाविकुर्वितवशिताप्राप्तो भवति / छायोपमं सर्वभवगत्युपपत्तिषु मुखं संदर्शयति / प्रतिश्रुत्कोपमानि सर्वतथागतधर्मचक्राणि प्रजानाति / धर्मधातुनयनिर्देशपरमपारमिताप्राप्तो भवति नानार्थोपायनयनिर्देशप्रयुक्तः / इदं कुलपुत्र बोधिसत्त्वानां तथागतबलावभासालोकालंकारगर्भं नाम सप्तमं बोधिसत्त्वजन्म //

तत्र कुलपुत्र कतमद्बोधिसत्त्वानां समन्तज्ञानमुखव्यवचारपरिनिष्पत्तिसंभवगर्भं नामाष्टमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः कुमारभूत एव बोधिसत्त्वव्यवस्थानव्यवस्थितो भवति, यत्र प्रतिष्ठाय सर्वज्ञज्ञाननयं व्यवचारयति / एकैकत्र ज्ञाननयमुखे ऽप्रमेयाः कल्पाः क्षयं व्रजेयुरप्रमेयं बोधिसत्त्वगोचरं निर्दिशतः / सर्वबोधिसत्त्वसमाधिषु च वशी भवति परमपारमिताप्राप्तः / प्रतिचित्तक्षणं सर्वचित्तक्षणेषु दशदिगनभिलाप्यबुद्धक्षेत्रगतानां तथागतानां पादमूलेषूपपद्यते / असंभिन्नैश्चारम्बणैरसंभिन्नान् समाधीन् समापद्यते / असंभिन्नेषु च धर्मेषु असंभिन्नज्ञानवशितां संदर्शयति / अपर्यन्तानि चारम्बणानि अनारम्बणे धाताववक्रामति / परीत्तैश्चारम्बणैरनन्तनिर्देशभूमिमवतरति / अप्रमेयां च धर्मतां परीत्तां महद्गतां वा प्रतिविध्यति / विज्ञप्तिसमं च सर्वलोकमवतरति / सर्वधर्मारम्बणानि (gv 288) सर्वविज्ञप्तिपथांश्च भावनया अनुगच्छति / इदं कुलपुत्र बोधिसत्त्वानां समन्तज्ञानमुखव्यवचारणपरिनिष्पत्तिसंभवगर्भं नामाष्टमं बोधिसत्त्वजन्म //

तत्र कुलपुत्र कतमद्बोधिसत्त्वानां धर्मधातुनिर्माणव्यूहगर्भं नाम बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वः सर्वत्र चित्तक्षणे नानाव्यूहानि बुद्धक्षेत्राणि अधितिष्ठति / सत्त्वनिर्माणे वैशारद्यपरमपारमिताप्राप्तश्च भवति / बुद्धनिर्माणकौशल्यप्राप्तश्च भवति / धर्मनिर्माणवैशारद्यविशुद्धश्च भवति / असङ्गवरधर्मधातुगोचरश्च भवति / यथाशयसर्वकायविज्ञप्त्यधिष्ठानकुशलश्च भवति / अचिन्त्यसत्त्वविनयकौशल्यगतश्च भवति / नानाचर्याभिसंबोधिसंदर्शकश्च भवति / अनावरणसर्वज्ञतामार्गाभिनिर्हारकुशलश्च भवति / तदनन्तरं धर्मचक्रप्रवर्तनकौशल्यं संदर्शयति / अनन्तमध्यसत्त्वविनयोपायाभिनिर्हारकुशलश्च भवति / कालप्राप्ते सत्त्वविनये सदासमाहितश्च भवति वैरोचनज्ञानगर्भकोशः / इदं कुलपुत्र बोधिसत्त्वानां धर्मधातुनिर्माणव्यूहगर्भं नाम नवमं बोधिसत्त्वजन्म //

तत्र कुलपुत्र कतमद्बोधिसत्त्वानां तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म? इह कुलपुत्र बोधिसत्त्वो विविक्तो भवति सर्वत्र्यध्वतथागतैकीभावविषये / सर्वलोकधात्वानन्तर्यविषयं चावतरति / सर्वसत्त्वानां पूर्वान्तापरान्तच्युत्युपपत्तिषु चित्तानन्तर्योत्पादं जानाति / सर्वबोधिसत्त्वानां चर्याज्ञानानन्तर्यविषयं प्रजानाति / अतीतानागतप्रत्युत्पन्नानां च सर्वबुद्धानामभिसंबोधानन्तर्यं प्रजानाति / सर्वधर्माणां चोपकारकौशल्यानन्तर्यं प्रजानाति / सर्वकल्पसंवर्तविवर्तकल्पानां च पूर्वान्तापरान्तप्रत्युअत्पन्नानां सनाम्नां सोपदेशानामानन्तर्यं प्रजानाति / यथापरिपाचितेषु च सत्त्वेषु यथाकालप्राप्तेषु अभिसंबोधिव्यूहविबुद्ध्यनविषयसंदर्शनाधिष्ठानज्ञानमभिनिर्हरति / सर्वबुद्धोत्पादेषु चाभिसंबोध्युपनयनधर्मचक्रप्रवर्तनकौशल्यनयानन्तर्यतां संदर्शयति अनन्तसत्त्वधातुविनयोपायाभिनिर्हारकौशल्येन / इदं कुलपुत्र बोधिसत्त्वानां तथागतभूम्याक्रमणवेगगर्भं नाम दशमं बोधिसत्त्वजन्म //

इमानि कुलपुत्र बोधिसत्त्वानां दश बोधिसत्त्वजन्मानि येषु बोधिसत्त्वा जायन्ते उपपद्यन्ते समर्जयन्ति संवर्धयन्ति प्रतिपूरयन्ति संभवन्ति परिसंभवन्ति परिनिष्पद्यन्ते / सर्वक्षेत्रनिरवशेषानुबोधायैकव्यूहालंकारसमुदाचारानधितिष्ठन्ति / सत्त्वधातुनयाप्रतिप्रस्रम्भणाय अपरान्तकोटीगतकल्पाधिष्ठानानधितिष्ठन्ते / सर्वधर्मसमुद्रनानारम्बणानेकविचित्रनानापरंपरानिर्देशानन्तधर्मपरंपरास्रोतो ऽभिसंबुध्यन्ते / अचिन्त्यां बुद्धवृषभितां धर्मधातुपरमाकाशधातुपर्यवसानां संदर्शयन्ति / अप्रमेयसत्त्वचर्यानानात्वसमुद्रेषु परिपाकविनयसंगृहीतेषु धर्मचक्रप्रवर्तनं संदर्शयन्ति / सर्वलोकधातून् बुद्धोत्पादाविरहितानधितिष्ठन्ति / सर्वधर्ममेघाननभिलाप्यस्वराङ्गसमुद्रविशुद्धिं सर्वारम्बणेषु प्रवर्तमानां विज्ञपयन्ति / अप्रमेयविहारितायामनावरणगतिं गताः सर्वधर्मरुचिरव्यूहानि बोधिसत्त्वमण्डलानि प्रभावयन्ति / यथाशयाधिमुक्तिषु (gv 289) सत्त्वेषु अप्रमेयबुद्धभूम्यनुगतसर्वलोकपरिनिष्पादनार्थमनन्तमध्यं धर्मकोषं संप्रकाशयन्ति //

अथ खलु सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता तस्यां वेलायामेतमेव बोधिसत्त्वजन्मार्थमभिद्योतयन्ती बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत -

अध्याशयेन विमलेन अनाविलेन पश्यन्ति ये जिन न जातु भवन्ति तृप्ताः / सर्वान् जिनान अपरान्तवियूहमेघान् प्रणिध्येन्ति ते प्रथमजन्मस्थिताः सुमेधाः // 1 //

सर्वत्रियध्वगमशेष स्फरित्व लोकं क्षेत्राणि सर्व तथ धर्म तथैव बुद्धान् / सत्त्वप्रमोक्षप्रणिधानवियूहचित्तं जन्मं द्वितीयमिदमुक्तमचिन्तियानाम् // 2 //

ये धर्ममेघ पिबमान न जातु तृप्ताः निध्यप्तिमानस त्रियध्वअसङ्गकायाः / आकाशधातुविमला समचित्तकायाः जन्मं तृतीयमिदमप्रतिमं हि तेषाम् // 3 //

ये ते महाकरुणसागरमोतरन्ति अध्याशयैर्वजिरसारसुमेरुकल्पैः / सर्वज्ञतानयसमुद्र विशाहमानाः तेषां चतुर्थमिह जन्म नरर्षभाणाम् // 4 //

ये मैत्रया दशसु दिक्षु जगत्स्फरित्वा अभिनिर्हरन्त्यमलपारमितासमुद्रान् / परिपाचयन्ति जगु धर्मप्रभाभिरन्त इमु जन्मु पञ्चमु महापुरुषाण तेषाम् // 5 //

धर्मस्वभावप्रतिविद्ध असङ्गचित्ताः त्रैयध्विकाप्रतिमबुद्धकुलाभिजाताः / ये धर्मधातुनयसागरमोतरन्ति षष्ठं इदं विपुल जन्म विदून तेषाम् // 6 //

ये धर्मकाय परिशुद्ध असङ्गचित्ताः क्षेत्राण्यशेषतु स्फरित्व स्वकैः शरीरैः / निःशेषबुद्धबलतानुगमप्रविष्टा जन्माथ सप्तममचिन्त्यमिदं बुधानाम् // 7 //

ये ज्ञानसागरनये वशितानुयाताः सर्वज्ञतानयमुखं व्यवचारयन्ति / सर्वं समाधिनयसागर ओतरन्ति जन्माष्टमं मतमिदं तथताश्रयाणाम् // 8 //

ये धर्मक्षेत्रप्रसरान् परिशोधयन्ति ये सर्वसत्त्वपरिपाकनप्रयुक्ताः / बौद्धा विकुर्वितवियूह विदर्शयन्ति तेषामिदं नवमु जन्म महाशयानाम् // 9 //

ये ते यथाबल जिनान तथा प्रविष्टाः सर्वज्ञताविपुलवेगविवर्धमानाः / ये धर्मधातुतलभेदनयेष्वसङ्गास्तेषामिदं दशमु जन्मु जिनौरसानाम् // 10 //

एभिः कुलपुत्र बोधिसत्त्वो दशभिर्जन्मभिस्तथागतकुले जात एवमालोककरो भवति सर्वसत्त्वानाम् / अपि तु खलु पुनः कुलपुत्र अहमप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनस्य बोधिसत्त्वविमोक्षस्य लाभिनी / आह - क एतस्य देवते अप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनस्य बोधिसत्त्वविमोक्षस्य विषयः? आह - अहं कुलपुत्र सर्वबोधिसत्त्वजन्मसंदर्शनोपसंक्रमणप्रणिधानपरिनिष्पन्ना / सा खल्वहं कुलपुत्र भगवतो वैरोचनस्य विपुलं जन्मसमुद्रमवतरामि / यदुत अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ बोधिसत्त्वजन्म अवतरमाणा भागवत्यां चातुर्द्वीपिकायामिह जम्बुद्वीपे लुम्बिनीवने बोधिसत्त्वजन्मसंदर्शने पूर्वप्रणिधानोपपन्ना / सा अहमिह बोधिसत्त्वजन्मानुस्मृतिं भावयमाना विहरामि / तस्या ममेह विहरन्त्या वर्षशतेन भगवांस्तुषितभवनाच्च्यविष्यतीति //

अथास्मिन् लुम्बिनीवने दश पूर्वनिमित्तानि प्रादुर्बभूवुः / कतमानि दश? यदुत - सर्वमिदं लुम्बिनीवन समं संस्थितमपगतनिम्नोन्नतविषममपगतश्वभ्रप्रपातम् / इदं प्रथमं पूर्वनिमित्तं प्रादुरभूत् / पुनः सर्वमिदं लुम्बिनीवनमुत्पसन्नशर्करकठल्लमपगतस्थाणुकण्टकं वज्रपृथिवीतलसंस्थानमनेकरत्नाभिकीर्णं समवस्थितम् / इदं द्वितीयं पूर्वनिमित्तं प्रादुरभूत् / पुनः सर्वमिदं लुम्बिनीवनं सर्वरत्नद्रुमशालतालपङ्क्तिसुविभक्तालंकारं समवास्थिषत / इदं तृतीयं पूर्वनिमित्तं प्रादुरभूत् / पुनः सर्वमिदं लुम्बिनीवनं दिव्यसमतिक्रान्तगन्धाङ्कुरप्ररूढं सर्वचूर्णकोशसंभूतं सर्वध्वजमेघपटलमण्डलजातं गन्धमणिविग्रहवृक्षमूलपरिसंस्थापितालंकारं समवास्थिषत / इदं चतुर्थं पूर्वनिमित्तं प्रादुरभूत् / पुनः सर्वमिदं लुम्बिनीवनं विविधदिव्यपुष्पमाल्याभरणकोशनिर्वृत्तसर्वालंकारपरिपूर्णं समवास्थिषत / इदं पञ्चमं पूर्वनिमित्तं प्रादुरभूत् / (gv 291) पुनः सर्वस्मिन्निह लुम्बिनीवने सर्ववृक्षेषु महामणिरत्नकोशा अभिनिर्वृत्ताः / इदं षष्ठं पूर्वनिमित्तं प्रादुरभूत् / पुनः सर्वस्मिन्निह लुम्बिनीवने सर्वनलिनीषु सर्वाणि जलजरत्नपुष्पाणि शुङ्गीभूतानि धरणितलादभ्युद्गम्य वारिसमुद्गतानि समवास्थिषन्त / इदं सप्तमं पूर्वनिमित्तं प्रादुरभूत् / पुनर्यावन्त इह लोकधातौ कामावचरा रूपावचराश्च देवपुत्रा नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा लोकेन्द्रजगदिन्द्रा वा, ते ऽप्यस्मिन् लुम्बिनीवने सर्वे कृताञ्जलिपुटाः स्थिता अभूवन् / इदमष्टमं पूर्वनिमित्तं प्रादुरभूत् /

पुनर्यावन्त इह चातुर्द्वीपिकायां लोकधातौ देवकन्या वा नागकन्या वा यक्षगन्धर्वासुरगरुडकिन्नरमहोरगकन्या वा, ताः सर्वाः प्रमुदितमानसाः सर्वपूजाविधिपरिगृहीतहस्ताः प्लक्षशाखाभिमुखाः प्रणतकायाः स्थिता अभूवन् / इदं नवमं पूर्वनिमित्तं प्रादुरभूत् / पुनर्दशभ्यो दिग्भ्यः सर्वतथागतानां नाभिमण्डलेभ्यो निश्चरमाणा बोधिसत्त्वजन्मविकुर्वितप्रदीपा नाम रश्मयो निश्चरित्वा सर्वमिदं लुम्बिनीवनमवभास्य तिष्ठन्ति स्म / तेषु च सर्वरश्मिमुखमण्डलेषु तेषां सर्वतथागतानां जन्मविकुर्वितानि प्रतिभासप्राप्तानि संदृश्यन्ते स्म / संप्रसवविकुर्विताः सर्वबोधिसत्त्वगुणाश्च बुद्धस्वरसंप्रयुक्तास्तेभ्यो रश्मिमुखमण्डलेभ्यो निश्चरमाणाः श्रूयन्ते स्म / इदं दशमं पूर्वनिमित्तं प्रादुरभूत् / इमानि दश पूर्वनिमित्तानि प्रादुर्भूतानि बोधिसत्त्वजन्मकालसमये प्रत्युपस्थिते, येषां प्रादुर्भावाद्वितर्कमभवत् सर्वलोकेन्द्राणां बोधिसत्त्वो जनिष्यत इति / सा खलु पुनरहं कुलपुत्र एषां दशानां पूर्वनिमित्तानां दर्शनादचिन्त्यं प्रीतिवेगं प्रतिलभे //

पुनरपरं कुलपुत्र मायादेव्याः कपिलवस्तुनो महानगरान्निष्क्रमन्त्या इह लुम्बिनीवने दश महावभासपूर्वनिमित्तानि प्रादुरभूवन्, येषां प्रादुर्भावादप्रमेयाणां सत्त्वानां सर्वज्ञताधर्मालोकप्रीतिवेगा विवर्धिताः / कतमे दश? यदुत - धरणीतलगतेषु सर्वरत्नकूटागारगर्भेष्ववभासः प्रादुर्भूतः / सर्वगन्धकुसुममुकुलेष्ववभासः प्रादुर्भूतः / अशेषरत्नपद्ममुकुलेषु विकसमानेषु सर्वपत्रेभ्यो ऽवभासः प्रादुर्भूतः, मधुरश्च सुजातजातशब्द एभ्यो निश्चरति स्म / यश्च दशसु दिक्षु बोधिसत्त्वानां प्रथमचित्तोत्पादावभासः, स इदं लुम्बिनीवनमवभास्य अभ्युदितः / यच्च दशसु दिक्षु बोधिसत्त्वानां सर्वबोधिसत्त्वभूम्याक्रमणावभासविकुर्वितम्, तदिह लुम्बिनीवने प्रादुरभूत् / यश्च दशसु दिक्षु बोधिसत्त्वानां सर्वपारमितापरिनिष्पत्तिज्ञानाधिगमालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव / यश्च दशसु दिक्षु बोधिसत्त्वानां सर्वप्रणिधानवशिताज्ञानालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव / यश्च दशसु दिक्षु सर्वबोधिसत्त्वानां परिपाकविनयज्ञानालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव / यश्च दशसु दिक्षु सर्वबोधिसत्त्वानां धर्मधातुनयज्ञानाधिगमालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव / यश्च दशसु दिक्षु सर्वबोधिसत्त्वानां बुद्धविकुर्वितजन्माभिनिष्क्रमणबोधिविबुध्यनज्ञानाधिगमालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव / इमानि दश महावभासनिमित्तानि प्रादुर्बभूवुः, यैरनन्तमध्यानां बोधिसत्त्वानां चित्ताशयगहनान्धकाराण्यवभासितानि //

तत्र कुलपुत्र मायाया देव्याः प्लक्षद्रुमनिलयगतायाः संनिपतितानां सर्वलोकेन्द्राणां सर्वकामधातुकानां च देवपुत्राणां साप्सरोगणदेवकन्यापरिवाराणां संनिपतितानां सर्वेषां च रूपावचराणां देवपुत्राणां निरामगन्धानां सर्वेषां च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाणां सपरिवाराणां संनिपतितानां बोधिसत्त्वपूजासंप्रयुक्तानां मायादेव्यास्तेजसा श्रिया वर्णेन रूपेण सर्वपूजाव्यूहाः कायाश्चावभासिता बभूवुः, अस्यां च त्रिसाहस्रमहासाहस्रायां लोकधातौ याः प्रभाः, ता अपि सर्वा ग्रस्ताश्चाभिभूताश्चाभूवन् / सर्वरोमविवरविसृताश्च मायादेव्याः प्रभावभासास्तदन्याभिः प्रभाभिरनुपहता अनावृता अप्रव्याहृता असङ्गाः सर्वदिशः स्फरित्वा सर्वाणि नैरयिकाणि दुःखानि सर्वाणि तैर्यग्योनिकानि दुःखानि सर्वाणि च यामलौकिकानि दुःखानि सर्वभवगतिपर्यापन्नानां च सत्त्वानां सर्वदुःखानि संक्लेशांश्च प्रशमयित्वा तिष्ठन्ति भासन्ते तपन्ति विरोचन्ते स्म / इदं कुलपुत्र बोधिसत्त्वस्य लुम्बिनीवने प्रथमं जन्मविकुर्वितम् //

पुनरपरं कुलपुत्र यस्मिन् समये मायाया देव्याः कुक्षौ सर्वावतीयं त्रिसाहस्रमहासाहस्रा लोकधातुरन्तर्गता प्रतिभासप्राप्ता संदृश्यते स्म, तस्यां च त्रिसाहस्रमहासाहस्रायां लोकधातौ कोटीशतचातुर्द्वीपिकानां लोकधातूनां सर्वे जम्बुद्वीपेषु नानानामधेयासु राजधानीषु नानानामधेयेषु वनषण्डेषु नानावृक्षमूलेषु मायादेवी उपगता एवमेव संदृश्यते स्म सर्वलोकेन्द्रपरिवृता बोधिसत्त्वजन्मप्रत्युपस्थाना अचिन्त्येन बोधिसत्त्वजननीज्ञानविकुर्वितेन / इदं कुलपुत्र बोधिसत्त्वस्य लुम्बिनीवने द्वितीयं जन्मविकुर्वितम् //

पुनरपरं कुलपुत्र मायाया देव्याः सर्वरोमविवरेभ्य एकैकस्माद्रोममुखाद्यावन्तो भगवता पूर्वं बोधिसत्त्वचर्यां चरता तथागता आरागिताः सत्कृता गुरुकृता मानिता पूजिताः, ते सर्वे संदृश्यन्ते स्म / यश्च तैस्तथागतैर्धर्मो देशितः, स सर्वस्तेभ्यो रोमविवरेभ्यो बुद्धस्वराङ्गसंप्रयुक्तो निखिलेन श्रूयते स्म / तद्यथापि नाम वारिराशे रजसि कनकपरमाणुरजसि वा आदर्शमण्डले वा स्वच्छे सुप्रसन्ने वा उदके गगनमण्डलमादित्यचन्द्रज्योतिग्रहगणप्रतिमण्डितं गम्भीरमेघपटलनिगर्जितनिर्घोषप्रतिभासप्राप्तं संदृश्यते स्म, एवमेव कुलपुत्र मायाया देव्याः सर्वरोममुखमण्डलेषु पूर्वतथागतविकुर्वितानि संदृश्यन्ते स्म सर्वधर्मदेशनानिर्घोषाणि / इदं कुलपुत्र बोधिसत्त्वस्य लुम्बिनीवने तृतीयं जन्मविकुर्वितम् //

पुनरपरं कुलपुत्र मायाया देव्याः सर्वकायात्सर्वरोममुखमण्डलेभ्य एकैकस्माद्रोमविवराद्यावत्सु सर्वक्षेत्रेषु यावत्सु लोकधातुसमुद्रेषु यावत्सु लोकधातुवंशेषु यावत्सु लोकधातुसंज्ञागतेषु भगवान् बोधिसत्त्वचारिकामकार्षीत् / यत्प्रतिष्ठानेषु क्षेत्रेषु यत्संस्थानेषु यद्व्यूहेषु यच्छरीरेषु यत्पर्वतालंकारेषु यद्ग्रामनगरनिगमजनपदपट्टनालंकारेषु यदुद्याननदीहृदतडागसागरालंकारेषु यद्गगनमेघालंकारेषु यत्सत्त्वनिलयेषु यद्याननिर्देशेषु यत्कल्पनामसंख्यासु यद्बुद्धोत्पादप्रभवेषु यद्विशुद्धिपरमेषु यथायुःप्रमाणसत्त्वेषु यथालोकजन्मोपपत्तिषु यथासत्त्वसमवधानेषु यथाकल्याणमित्रसंनिश्रयेषु यथाकुशलधर्मप्रयोगेषु यथाधर्मप्रतिपत्यभियोगेषु (gv 293) बुद्धक्षेत्रेषु बोधिसत्त्वचारिकामचरन्, ते सर्वे बुद्धक्षेत्रप्रसरा मायाया देव्याः सर्वरोममुखेभ्यः संदृश्यन्ते स्म / यावद्भिश्च कायैर्भगवान् पूर्वं बोधिसत्त्वचारिकामकार्षीदविवर्त्यस्थानप्राप्तः, यैराकारैर्यैर्विहारैर्यैः परिभोगैर्यैः सुखदुःखप्रतिसंवेदीभिर्येषु जातिपरिवर्तेषु, तत्सर्वमेकैकस्मिन् रोमविवरे संदृश्यते स्म / सर्वेषु च तेषु तासु तासूपपत्तिषु मायादेवी बोधिसत्त्वस्य जननी बभूव / सर्वे च ते बोधिसत्त्वकाया मायाया देव्या रोमविवरेषु विकुर्वितप्रतिभासप्राप्ताः संदृश्यन्ते स्म / इदं कुलपुत्र बोधिसत्त्वस्य लुम्बिनीवने चतुर्थं जन्मविकुर्वितम् //

पुनरपरं कुलपुत्र यावद्भिः कायैर्भगवान् पूर्वं बोधिसत्त्वचारिकामचरत् यद्वर्णैर्यत्संस्थानैर्यदाकारैर्यत्परिभोगैर्यत्सुखदुःखप्रतिसंवेदीभिर्यज्जातिपरिवर्तैः, ते सर्वे मायाया देव्याः काये सर्वरोममुखेषु प्रतिभासप्राप्ताः संदृश्यन्ते स्म / इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य पञ्चमं जन्मविकुर्वितम् //

पुनरपरं कुलपुत्र यावन्तो भगवता पूर्वं बोधिसत्त्वचारिकां चरता दुष्करपरित्यागाः परित्यक्ताः, हस्तपादपरित्यागा वा कर्णनासापरित्यागा वा जिह्वादंष्ट्रापरित्यागा वा नयनोत्तमाङ्गपरित्यागा वा मांसशोणितपरित्यागा वा अस्थिमज्जापरित्यागा वा वक्षोहृदयपरित्यागा वा छविचर्मपरित्यागा वा बाह्याध्यात्मिकवस्तुपरित्यागा वा पुत्रदुहितृभार्यापरित्यागा वा आत्मभावपरित्यागा वा भोगरत्नपरित्यागा वा ग्रामनगरनिगमजनपदराष्ट्रराजधानीपरित्यागा वा धनधान्यकोशकोष्ठागारपरित्यागा वा मणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतपरित्यागा वा विविधरत्नाभरणपरित्यागा वा शय्यासनपरित्यागा वा गृहविमानपरित्यागा वा सर्वोपभोगपरित्यागा वा, ते च दायकबोधिसत्त्वविग्रहकायै रूपैः परित्यजन्ति स्म / ते च प्रतिग्राहकायै रूपैः प्रतिगृह्णन्ति स्म / तानि च देशवस्तूनि यानि परित्यक्तानि, ते च देशप्रदेशाः, ते च बोधिसत्त्वपरिवाराः, सर्वे ते मायाया देव्याः सर्वरोमविवरेभ्यः प्रतिभासप्राप्ताः संदृश्यन्ते स्म / इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य षष्ठं जन्मविकुर्वितम् //

पुनरपरं कुलपुत्र ....................... लुम्बिनीवनषण्डे समवसृता अभिजातजगद्विज्ञाना प्रादुरभवत् / इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य सप्तमं जन्मविकुर्वितम् //

पुनरपरं कुलपुत्र यावन्तः सर्वदेवेन्द्रभवनव्यूहपरिभोगसमतिक्रान्ताः सर्वनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्येन्द्रभवनव्यूहपरिभोगसमतिक्रान्ताः सर्वबोधिसत्त्वपरिभोगाः, यदुत सर्वमणिराजकूटागारपरिभोगा वा मणिराजविमानपरिभोगा वा मणिराजजालपरिभोगा वा मणिराजविग्रहपरिभोगा वा मणिराजबिम्बपरिभोगा वा मणिराजव्यूहा वा सर्वाभरणपरिभोगा वा सर्वगन्धराजपरिभोगा वा शुभाप्रतिकूलसर्वारम्बणपरिभोगा वा, ते सर्वे मायाया देव्याः कुक्षेरन्योन्यासंभिन्ना निश्चरित्वा इह लुम्बिनीवने समन्तव्यूहाः समवास्थिषन्त / इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्याष्टमं जन्मविकुर्वितम् //

पुनरपरं कुलपुत्र मायाया देव्याः कुक्षेः प्रथमतरं दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमा बोधिसत्त्वा भगवतो वैरोचनस्य सदृशरूपवर्णसंस्थानाः सदृशलक्षणानुव्यञ्जनालंकाराः सदृशप्रभाः सदृशरश्मिप्रमुञ्चनाः सदृशलिङ्गलीलाः सदृशविक्रमाः सदृशविरोचनविकुर्विताः सदृशपरिवाराः सदृशव्यूहा निश्चरन्ति स्म भगवतो वर्णसमुद्रानुदीरयमाणाः / इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य नवमं जन्मविकुर्वितम् //

पुनरपरं कुलपुत्र बोधिसत्त्वस्य जन्मकालसमये प्रवृत्ते मायाया देव्याः पुरस्तादधो वज्रतलान्महापृथिवीमभिनिर्भिद्य सर्वरत्नव्यूहगर्भं नाम महामणिरत्नपद्ममभ्युद्गतमभूदपराजितमहावज्रमणिराजगर्भसर्वमणिराजकेसररश्मिव्यूहं दशबुद्धक्षेत्रपरमाणुरजःसमपत्रपङ्क्तिसुविभक्तं विविधमणिराजपत्रमण्डलं चिन्तामणिराजविशुद्धकर्णिकं सर्वरत्नवर्णाप्रमेयकेसरपङ्क्तिव्यूहम्, असंख्येयमणिराजरत्नव्यूहजालसंछन्नमभेद्यनारायणवज्रमणिराजेन्द्रकूटसंछादितं सर्वदेवेन्द्रकायपरिवृतं सर्वनागेन्द्रगन्धमेघाभिप्रवर्षितं दिव्यपुष्पपाणिपुटप्रयुक्तसर्वयक्षेन्द्रपरिवृतं सर्वगन्धर्वेन्द्रपूर्वबुद्धोत्पादस्थानमधुररुतसंगीतिनिर्घोषसंप्रयुक्तस्तुतिमेघाविष्कृतं निहतमानमददर्पसर्वासुरेन्द्रप्रणतशरीरनमस्कृतं सर्वगरुडेन्द्राभिप्रलम्बितरत्नपट्टगगनमेघालंकारबोधिसत्त्वगणसंचोदनसंगीतिसंप्रयुक्तैः प्रीतिमनोभिः सर्वकिन्नरेन्द्रैः संप्रेक्षितं सर्वमहोरगेन्द्रप्रीतिसंभवप्रयुक्तनयरुचिरनिर्घोषव्यूहमेघाभिप्रवर्षितम् / इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य दशमं जन्मविकुर्वितम् //

इमानि कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य दश जन्मविकुर्वितानि प्रादुरभूवन् / ततः पश्चाद्बोधिसत्त्वो ऽचिन्त्याप्रमाणप्रभासेचनकदर्शनो मायाया देव्याः कुक्षेरभ्युद्गतः सूर्यमण्डलमिव गगनतलात्, विद्युत्कलाप इव मेघसंघातात्, सांध्य इव महाघनः शैलशिखरान्तरात्, महाप्रदीप इव तमो ऽन्धकारात् / इत्येवं बोधिसत्त्वो मायाया देव्याः कुक्षेरभिनिष्क्रमणं संदर्शयामास मायागतरूपविज्ञप्तिसंदर्शनधर्मतया अनागतधर्मतया अनुत्पादानिरोधलोकविज्ञप्तिसंदर्शनधर्मतया //

इत्येवमहं कुलपुत्र भगवतो वैरोचनस्य जन्मविकुर्वितसमुद्रानवतरामि इह लुम्बिनीवने विहरमाणा / यथा चाहं कुलपुत्र स्यां भागवत्यां चातुर्द्वीपिकायां भगवतो वैरोचनस्य जन्मविकुर्वितसमुद्रानवतरामि, तथा सर्वावत्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वचातुर्द्वीपिकासु कोटीशतजम्बुद्वीपानां सर्वत्र भगवतो वैरोचनस्य जन्मविकुर्वितान्यवतरामि / यथा चाहं कुलपुत्र अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वचातुर्द्वीपिकासु कोटीशतजम्बुद्वीपानां भगवतो वैरोचनस्य कोटीशतं जन्मविकुर्वितानामवतरामि, एवं सर्वत्रिसाहस्रमहासाहस्रलोकधातुपर्यापन्नपरमाणुरजोन्तर्गतेषु सर्वबुद्धक्षेत्रपरमाणुरजःप्रवेशज्ञानानुगतेषु प्रतिचित्तक्षणमेकैकेन चित्तप्रवेशेन बुद्धक्षेत्रपरमाणुरजःसमानि भगवतो वैरोचनस्य जन्मविकुर्वितान्यवतरामि / तदनन्तरेण चित्तेन बुद्धक्षेत्रसहस्रपरमाणुरजोन्तर्गतेषु बुद्धक्षेत्रेषु एकैकत्र बुद्धतत्समान्येव बोधिसत्त्वजन्मविकुर्वितान्यवतरामि / एतेन नयेन बुद्धक्षेत्रपरमाणुरजोन्तर्गतेषु (gv 295) बुद्धक्षेत्रेष्वेकैकस्मिन् बुद्धक्षेत्रे सर्वाणि बोधिसत्त्वजन्मविकुर्वितान्यवतरामि, न च पर्यन्तमुपैमि / सर्वपरमाणुरजःसु एकैकस्मिन् परमाणुरजसि बुद्धक्षेत्रपरंपराणां न च पर्यन्तमुपैमि सर्वक्षेत्रेष्वेकैकस्मिन् बुद्धक्षेत्रे बुद्धसत्त्वजन्मपरंपराणाम् / यथा चेह लोकधातौ सर्वाणि बोधिसत्त्वजन्मविकुर्वितान्यवतरामि, तथा दशसु दिक्षु अनन्तमध्यासु लोकधातुषु सर्वपरमाणुरजःसु प्रतिचित्तक्षणमेकैकेन चित्तप्रवेशेन सर्वाकाराणि सर्वबोधिसत्त्वजन्मविकुर्वितान्यवतराम्यप्रतिप्रस्रब्ध्यधिष्ठानयोगेन //

एवमुक्ते सुधनः श्रेष्ठिदारकः सुतेजोमण्डलरतिश्रियं लुम्बिनीवनदेवतामेवमाह कियच्चिरप्रतिलब्धस्त्वयायं देवते अप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितं संदर्शयमानो बोधिसत्त्वजन्मविमोक्षः? आह - भूतपूर्वं कुलपुत्र अतीते ऽध्वनि बुद्धक्षेत्रकोटीपरमाणुरजःसमानां कल्पानां परेण परतरमीश्वरगुणापराजितध्वजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् समन्तरत्नायां लोकधातौ समापद्यते कल्पे ऽशीतिबुद्धकोटीनियुतशतसहस्रप्रभवे / तस्यां खलु कुलपुत्र समन्तरत्नायां लोकधातौ विचित्रव्यूहप्रभा नाम मध्यमा चातुर्द्वीपिकाभूत् / तस्यां खलु चातुर्द्वीपिकायां मध्ये जम्बुद्वीपस्य मेरुविशुद्धव्यूहध्वजा नाम राजधान्यभूत् / तस्यां खलु राजधान्यां रत्नार्चिनेत्रप्रभो नाम राजा अभूत् / राज्ञः खलु कुलपुत्र रत्नार्चिनेत्रप्रभस्य राज्ञः सुहर्षितप्रभेश्वरा नाम भार्याभूत् / तद्यथापि नाम कुलपुत्र अस्यां भागवत्यां चातुर्द्वीपिकायामिह जम्बुद्वीपे मायादेवी भगवतो वैरोचनस्य जनेत्री, एवमेव कुलपुत्र तेन कालेन तेन समयेन तस्यां विचित्रव्यूहप्रभायां चातुर्द्वीपिकायां जम्बुद्वीपे सुहर्षितप्रभेश्वरा नाम तस्य भगवत ईश्वरगुणापराजितध्वजस्य तथागतस्य माता अभूत् / यथा तेषामशीतिबुद्धकोटीनियुतानां पूर्वंगमस्य प्राथमकल्पिकस्य भगवत ईश्वरगुणापराजितध्वजस्य तथागतस्य माता अभूत् /

सा खलु कुलपुत्र सुहर्षितप्रभेश्वरा देवी बोधिसत्त्वस्य जन्मकालसमये विंशत्या स्त्रीनियुतशतसहस्रैः सार्धं सुवर्णपुष्पाभमण्डलं नाम महोद्यानं निर्ययौ, यत्र तमीश्वरगुणापराजितध्वजं कुमारं जनयामास अचिन्त्येन बोधिसत्त्वविकुर्वितेन / तेन खलु पुनः समयेन सुवर्णपुष्पाभमण्डलस्य नाम महोद्यानस्य मध्ये शुभरत्नविचित्रकूटं नाम कूटागारमभूत् / तस्मिन् कूटागारे सर्वकामंददवृक्षशाखामध्यालम्बतया सुहर्षितप्रभेश्वराया देव्याः स भगवानीश्वरगुणापराजितध्वजस्तथागतो जनितः / तेन खलु समयेन तस्य भगवतो जन्मकाले विमलसंभवप्रभा नाम धात्री प्रत्युपस्थिताभूत् / जातमात्रं च बोधिसत्त्वं लोकेन्द्रा विचित्रसुरभिमनोज्ञदिव्यपुष्पोत्करोद्गारिभिः परमसुरभिगन्धोदककलशैर्विस्नाप्य तदर्हाभिश्च अचिन्त्यासंख्येयाभिरुत्तमाभिः पूजाभिरभिपूज्य तस्या विमलसंभवप्रभाया धात्र्या अङ्के प्रायच्छन् / परिगृहीतमात्रे च तस्मिन् बोधिसत्त्वे तया धात्र्या उभाभ्यां पाणिभ्यामंसे च, तत्क्षणमेव सा धात्री महाप्रीतिप्रामोद्यवेगप्रतिलब्धा समन्तचक्षुर्विषयं नाम बोधिसत्त्वसमाधिं प्रत्यलभत, यस्य समाधेः (gv 296) सहप्रतिलाभात्तस्माद्दशसु दिक्षु नानालोकधातुस्थिता अप्रमेयास्तथागताश्चक्षुष आभासमगमन् / एष च अप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनो बोधिसत्त्वविमोक्षो ऽवक्रान्तः सुसूक्ष्मः तद्यथापि नाम तद्दिवसावक्रान्ते मातुः कुक्षौ गर्भविज्ञानम्, यस्य विमोक्षस्य प्रतिलम्भादनया सर्वतथागतजन्मविकुर्वितसंदर्शनमहाप्रणिधिरभिनिर्हृतः //

तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन विमलसंभवप्रभा नाम बोधिसत्त्वधात्र्यभूत्? न खलु पुनस्त्वया एवं द्रष्टव्यम् / अहं सा तेन कालेन तेन समयेन विमलसंभवप्रभा नाम बोधिसत्त्वधात्र्यभूवम् / तत्किं मन्यसे कुलपुत्र - अन्यानि तेन कालेन तेन समयेन विंशतिस्त्रीनियुतशतसहस्राण्यभूवन्? न खल्वेवं द्रष्टव्यम् / इमानि तानि विंशतिदेवतानियुतशतसहस्राणि, यानीह लुम्बिनीवने प्रतिवसन्ति मम परिवाराः / तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन सुप्रहर्षितप्रभेश्वरा नाम देव्यभूदीश्वरगुणापराजितध्वजस्य कुमारस्य जनेत्री? न खल्वेवं द्रष्टव्यम् / इयं सा मायादेवी तेन कालेन तेन समयेन सुप्रहर्षितप्रभेश्वरा नाम देव्यभूत् / तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन रत्नार्चिनेत्रप्रभो नाम राजा अभूत् / न खल्वेवं द्रष्टव्यम् / अयं स राजा शुद्धोदनः तेन कालेन तेन समयेन् रत्नार्चिनेत्रप्रभो नाम राजा अभूत् / सा खल्वहं कुलपुत्र तत उपादाय सर्वचित्तक्षणेष्वविरहिता अभूवं भगवतो वैरोचनस्य बोधिसत्त्वजन्मविकुर्वितसागरावतरणतया सत्त्वनयवृषभिताविकुर्वितसागरावतरणतया //

यथा चाहं कुलपुत्र अस्यां सहायां लोकधातौ भगवतो वैरोचनस्य महाप्रणिधानसमुद्रसागरसंभवानां तथागतानां सर्वचित्तक्षणेषु सर्वपरमाणुरजःप्रवेशसमवसृतेन ज्ञानचक्षुषा सर्वपरमाणुरजःसु क्षेत्रसमुद्रानवतरामि, तेषु च क्षेत्रेषु तथागतोत्पादसागरानवतरामि / यथा तेषां तथागतानां बोधिसत्त्वजन्मविकुर्वितमहासमुद्रानवतरामि, तथा दशसु दिक्षु अनन्तमध्यानां तथागतानां सर्वचित्तक्षणेषु बोधिसत्त्वजन्मविकुर्वितसागरानवतरामि / यथा च अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वपरमाणुरजःप्रसरपरंपरावतारेण सम्यक्संबुद्धबोधिसत्त्वजन्माभिमुखीभावगतान् बुद्धगुणानवतरामि, एवं दशसु दिक्षु बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःप्रसरान्तर्गतान् क्षेत्रसागरानवतरामि / तेषु च विपुलान् बुद्धसमुद्रानवतरामि / तांश्च बुद्धान् भगवतो बोधिसत्त्वभूतजन्मविकुर्वितसंमुखीभावगतान् पश्यामि / तथागतभूतानपि पूजयामि / तेषां च तथागतानां धर्मदेशनां शृणोमि, धर्मस्य च अनुधर्मं प्रतिपद्ये //

अथ खलु सुतेजोमण्डलरतिश्रीर्लुम्बिनीवनदेवता एवमेवाप्रमेयसर्वकल्पसर्वावरणबोधिसत्त्वजन्मविकुर्वितसंदर्शनबोधिसत्त्वविमोक्षं परिदीपयमाना बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत -

बुद्धपुत्र शृणु मह्य भाषितं यस्मि पृच्छसि जनित्व गौरवम् / शान्त दुर्दृशु जिनान गोचरो हेतुकारणनयैर्निदर्शितः // 1 //

क्षेत्रकोटिपरमाणुसादृशान् पूर्वकल्प स्मरमी अचिन्तियान् / कल्प आदिरिव अनन्त नायको यत्राशीतिनयुता जिनानभूत् // 2 //

ईश्वराजितगुणध्वजस्तदा तेष्वभूत्प्रथमकस्तथागतः / जानमान मय द्रष्टु नायकः स्वर्णपुष्पप्रभवे वनोत्तमे // 3 //

नामतो विमलसंभवप्रभा तस्य आसि अहु धात्रि पण्डिता / लोकपाल मम अंसि तं स्थपी जातमात्र कनकोत्तमप्रभम् // 4 //

अंसि तं ग्रहिय अग्रपुद्गलं मूर्ध्निमस्य न प्रभोमि प्रेक्षितुम् / * * * * तं अचिन्तियं प्रेक्षमाण न च अन्तु पश्यमि // 5 //

लक्षणेभि प्रतिमण्डितं शुभं कायमस्य विमलं सुदर्शनम् / दृष्ट मे रतनबिम्बसादृशं प्रीतिवेग अतुला विवर्धिताः // 6 //

चिन्तयित्व गुण तस्य मे ऽमितान् पुण्यसागर अमेय वर्धिताः / दृष्ट्व तस्य च विकुर्वितोदधीन् बोधिचित्तविपुलं मि संभुतम् // 7 //

प्रार्थयित्व जिनवर्णसागरान् वर्धितः प्रणिधिसागरो मम / सर्वक्षेत्रप्रसरा विशोधिता सर्वदुर्गतिपथा विवर्तिताः // 8 //

पूजनाय सुगतानचिन्तियान् सर्वक्षेत्रप्रसरेष्वनागतान् / सत्त्वदुःखितविमोचनाय च प्रोदितः प्रणिधिसागरो मम // 9 //

श्रुत्व धर्ममथ तस्य तायिनो लब्धिमं वरविमोक्षमण्डलम् / बोधि शोधितु चरित्व चारिकां कल्पक्षेत्ररजकोटिसादृशान् // 10 //

येषु यान्तकुपपन्न नायका ते अशेष मयि सर्वि पूजिताः / शासनं च मय तेषु धारितं शोधना इमु विमोक्षसागरम् // 11 //

क्षेत्रकोटिपरमाणुभिः समा ये ऽभवन् दशबला अतीतकाः / धर्मचक्रु मय तेष धारितं भावितं [वर]विमोक्षमण्डलम् // 12 //

बुद्धक्षेत्रि रज यावतो इहो तान् रजाग्रप्रसराब्धि पश्यती / एकमेकि रजि क्षेत्रसागरान् पूर्व शोधित जिनेन पश्यती // 13 //

तेषु क्षेत्रप्रसरेषु नायकान् जायतो वनवरेषु पश्यमि / एकचित्तप्रसरे अचिन्तिया दर्शयन्त विपुला विकुर्विता // 14 //

पश्यमि क्वचि च क्षेत्रि नायकान् प्रार्थयन्त वरबोधिमुत्तमाम् / तिष्ठतं तुषितलोकं * * * क्षेत्रकोटिनयुतैरचिन्तियैः // 15 //

जायमान विपुलैर्विकुर्वितैः क्षेत्रसागरशतेषु पश्यमि / नारिसंघवर संपुरस्कृता भाषमाणु धर्म नायकान् // 16 //

क्षेत्रकोटिपरमाणुसदृशानेकचित्तक्षणे वीर पश्यमि / दर्शयन्त जगतामनेकधा एकि क्षणि शान्तनिर्वृतिम् // 17 //

जन्म यातुक जिनान पश्यमि प्रेक्षमाण रजि क्षेत्रसागरान् / जन्मि जन्मि बहुकायकोटिभिः पूजि तेष करुणामुपागमि // 18 //

क्षेत्रसागरनयैरचिन्तनैरक्षया गतिप्रचार यातुकाः / तेषु सर्वजगदामुखा अहं धर्ममेघ विपुलान् प्रवर्षमि // 19 //

एतमहं जिनसुता अचिन्तियं जानमी वरविमोक्षमण्डलम् / कल्पकोटिनयुतैरचिन्तियैर्यं न शक्य अयु सर्व दर्शितुम् // 20 //

एतमहं कुलपुत्र अप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं बोधिसत्त्वानां चित्तक्षणे चित्तक्षणे सर्वकल्पप्रस्थानगर्भसंभूतचित्तानां सर्वधर्मनयनिध्यप्तिजातिनिदर्शकानां सर्वतथागतपूजाप्रणिधिसंभूताशयानां सर्वबुद्धधर्माभिसंबोधिप्रणिधिपरमाणां सर्वकुलगोत्रोपपत्तिगतिसंदर्शनप्रतिभासकल्पानां सर्वतथागतपादमूलपद्मगर्भोपपत्तीनां सर्वजगत्परिपाककालाभिज्ञानां सर्वविनयाभिमुखजन्मोपपत्तिविकुर्वितसंदर्शकानां सर्वक्षेत्रप्रसरविकुर्वितमेघसंदर्शकानां सर्वजगद्गतिजातिकुलप्रतिभासप्राप्तानां चर्यां ज्ञातुं गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, इयमिहैव कपिलवस्तुनि महानगरे गोपा नाम शाक्यकन्या प्रतिवसति / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वपरिपाकाय संसारे संसरितव्यम् // अथ खलु सुधनः श्रेष्ठिदारकः सुतेजोमण्डलरतिश्रियो लुम्बिनीवनदेवतायाः पादौ शिरसाभिवन्द्य सुतेजोमण्डलरतिश्रियं लुम्बिनीवनदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुतेजोमण्डलरतिश्रियो लुम्बिनीवनदेवताया अन्तिकात्प्रक्रान्तः // 40 // 43 गोपा /

अथ खलु सुधनः श्रेष्ठिदारकः सुतेजोमण्डलरतिश्रियो लुम्बिनीवनदेवताया अन्तिकादपक्रम्य येन कपिलवस्तु महानगरं तेनोपसंक्रम्य एतमेवाप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनं बोधिसत्त्वविमोक्षं भावयन् अवतरन् विपुलीकुर्वन् अनुतिष्ठन् उत्तापयन् परिजयन् परिचिन्तयन् प्रविचिन्वन् अनुपूर्वेण येन धर्मधातुप्रतिभासप्रभो बोधिसत्त्वसंगीतिप्रासादस्तेनोपसंक्रामत् / तस्योपसंक्रमणस्य अशोकश्रीर्नाम बोधिसत्त्वसंगीतिप्रासाददेवता दशभिर्गृहदेवतासहस्रैः सार्धं प्रत्युद्गम्य सुधनं श्रेष्ठिदारकमेवमाह - स्वागतं ते महापुरुष महाप्रज्ञाज्ञानविक्रामिन् अचिन्त्यबोधिसत्त्वविमोक्षभावनाध्यालम्बनप्रणिधिचित्तविपुलधर्मविमानगोचरचारिन् धर्मनगराभिमुख अनन्तबोधिसत्त्वोपायनयावतारणाप्रतिप्रस्रब्धतथागतगुणसागरावभासप्रतिलब्ध सर्वजगद्विनयप्रतिभासप्रतिभानज्ञानाभिमुखसर्वसत्त्वचर्याज्ञानकायमन्त्रानुवर्तन चर्याभिमुखचित्त सर्वजगद्वेदनाप्रीतिसमुद्रवेगविवर्धनप्रणिधान सर्वतथागतधर्मप्रतिवेधमार्गप्रतिपन्न / यथा त्वां पश्यामि अनिमिषनेत्रगम्भीरचर्येर्यापथविशुद्धगोचरम्, नचिरेण त्वमनुत्तरतथागतकायवाक्चित्तालंकारविशुद्धिं प्रतिलब्धो लक्षणानुव्यञ्जनप्रतिमण्डितेन कायेन दशबलज्ञानालोकालंकृतेन चित्तेन लोकं विचरिष्यसि / यादृशीं च ते दृढवीर्यपराक्रमतां पश्यामि, नचिरेण त्वं सर्वत्र्यध्वतथागतसंमुखीभावदर्शनसमङ्गी सर्वतथागतधर्ममेघान् संप्रतीच्छन् सर्वबोधिसत्त्वध्यानविमोक्षसमाधिसमापत्तिशान्तधर्मविमानरतिमनुभवन् गम्भीरं बुद्धविमोक्षमनुप्रवेक्ष्यसि / तथा हि त्वं कल्याणमित्रोपसंक्रमणदर्शनपर्युपासनानुशासनीः संप्रतीच्छंस्तद्गुणप्रतिनयेषु प्रयुज्यमानो न परिखिद्यसे, न विनिवर्तसे, न परितपसि / न च ते कश्चिदन्तरायो वा आवरणं वा निवरणं वा प्रसहते, मारा वा मारकायिका वा देवताः / तेन अचिरादेव त्वं सर्वसत्त्वानां प्रीतिकरो भविष्यसि //

एवमुक्ते सुधनः श्रेष्ठिदारको ऽशोकश्रियं बोधिसत्त्वसंगीतिप्रासाददेवतामेतदवोचत् - तथास्तु देवते यथा वदसि / अहं खलु देवते सर्वसत्त्वक्लेशसंतापव्युपशमेन परमां प्रीतिं विन्दामि / सर्वसत्त्वविषयकर्मविपाकविनिवर्तनेन सर्वसत्त्वसुखसंभवेन सर्वसत्त्वानवद्यकर्मप्रतिपत्त्या परमां प्रीतिं विन्दामि / यदा च देवते सत्त्वा विविधविषयकर्मक्लेशप्रयोगाक्षिप्तचित्ता दुर्गतिषु प्रपतन्ति सुगतिषु वा, विविधानि कायिकचैतसिकानि दुःखदौर्मनस्यानि प्रत्यनुभवन्ति, दुर्मनसस्तस्मिन् समये बोधिसत्त्वा भवन्ति परमदुर्मनसः / तद्यथापि नाम देवते पुरुषस्यैकान्ततृष्णाचरितस्य एकपुत्रको भवेत् प्रियो मनापः / स तस्याङ्गप्रत्यङ्गेषु च्छिद्यमानेषु एकान्ततृष्णाचरितत्वात् परमदुर्मनाः स्यादनात्तमनस्कः, एवमेव देवते बोधिसत्त्वो बोधिसत्त्वचारिकां चरन् सत्त्वान् कर्मक्लेशवशेन तिसृषु दुर्गतिषु पतितान् दृष्ट्वा दुर्मना भवति परमदुर्मनाः / यस्मिन् वा पुनः समये सत्त्वाः कायवाङ्भनःसुचरितसमादनहेतोः कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते, देवमनुष्यगतिषु च कायिकचैतसिकानि सुखानि प्रत्यनुभवन्ति, परमसुखी तस्मिन् समये बोधिसत्त्वो भवति सुमना आत्तमनस्कः प्रमुदितः (gv 301) प्रीतिसौमनस्यजातः / न खलु पुनर्देवते बोधिसत्त्वा आत्मार्थाय सर्वज्ञतामभिप्रार्थयन्ते / न विचित्रसंसाररतिसुखप्रभवनार्थं न कामधातुपर्यापन्नं विविधरतिव्यूहप्रार्थनया संज्ञाचित्तदृष्टिविपर्यासवशेन न संयोजनबन्धनानुशयपर्यवस्थानवशगताः /

न तृष्णादृष्टिवशगताः, न विविधसत्त्वसंसर्गरतिसंज्ञाविनिबद्धचेतसः, न ध्यानरतिसुखास्वादपरिगृद्धाः, न विविधावरणावृताः संसारगतिषु परिवर्तन्ते / अपि तु खलु पुनर्देवते बोधिसत्त्वा भवसमुद्रगतानामपरिमितदुःखप्रपीडितानां सत्त्वानामन्तिके महाकरुणां संजनयित्वा सर्वजगत्संग्रहमहाप्रणिधिमभिनिर्हरन्ति / ते महाकरुणाप्रणिध्यभिनिर्हारबलवेगेन सत्त्वपरिपाकविनयप्रयुक्ताः संसारे बोधिसत्त्वचर्यां चरन्तः संदृश्यन्ते / ते सर्वसत्त्वनां सर्वावरणसर्वज्ञताज्ञानं पर्येषमाणाः सर्वतथागतपूजोपस्थानप्रणिधिमभिनिर्हरन्ति / ते तथागतपूजोपस्थानप्रणिधिवशैर्न परिखिद्यन्ते बोधिसत्त्वचर्यायाम् / ते बोधिसत्त्वचर्यां चरन्तः संक्लिष्टानि क्षेत्राणि संपश्यन्तः सर्वबुद्धक्षेत्रपरिशोधनप्रणिधिमभिनिर्हरन्ति संक्लिष्टान् क्षेत्रसागरान् परिशोधयमानाः सर्वसत्त्वानामायतननानात्वं संपश्यमानाः / अनानात्वानुत्तरधर्मकायपरिशुद्धये प्रणिधिमभिनिर्हरन्ति संक्लिष्टकायवाक्चित्ततां सत्त्वानां संपश्यमानाः / सर्वसत्त्वकायवाक्चित्तालंकारपरिशुद्धये प्रणिधिमभिनिर्हरन्ति / विकलायतनानपरिशुद्धचेतसः सर्वान् संपश्यमानाः सर्वसत्त्वचित्तचरितानि परिशोधयमाना बोधिसत्त्वचर्यां चरन्तो न परिखिद्यन्ते / एवं हि देवते बोधिसत्त्वा अनन्तमध्यां बोधिसत्त्वचर्यां चरन्तो ऽपरिखिन्नचित्ताः / एवं चरन्तो ऽलंकारभूता भवन्ति सदेवकस्य लोकस्य देवमनुष्यसंपत्तिसंजननतया / मातापितृभूता भवन्ति बोधिसत्त्वोत्पादप्रतिष्ठापनतया / धात्रीभूता भवन्ति बोधिसत्त्वमार्गावतरणतया /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.