Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
दिव्यावदान
- Thông tin
- GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
481.008. अथ भववान् स्मितमकार्षीत्/ 481.008. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतकोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति/ 481.010. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मन् महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्पीभूत्वा निपतन्ति/ 481.013. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते/ 481.013. तेषामेवं भवति--किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति/ 481.014. तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति/ 481.015. तेषां निर्मितं दृष्ट्वैवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्नाः/ 481.016. अपि त्वयमपूर्वदर्शनः सत्त्वः/ 481.016. अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति/ 481.016. ते निर्मिते चित्तमभिप्रसाद्य तं नरकनिवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति/ 481.018. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजिकांस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परिनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् ब्रह्मपार्षद्यान् महब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति/ 481.022. गाथाद्वयं च भाषन्ते-- 481.023. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने/ 481.024. धुनीत मृत्युनः सौन्यं नडागारमिव कुञ्जरः//59//
481.025. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति/ 481.026. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति//60//
481.027. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकघातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति/ 481.028. तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते/ 481.029. अनागतं चेत् पुरस्तात्/ 481.029. नरकोपपत्तिं चेत् पादतले/ 481.029. तिर्यगुपपत्तिं चेत् पार्ष्ण्याम्/ 481.030. प्रेतोपपत्तिं चेत् पादाङ्गुष्ठे/ 481.030. मनुष्योपपत्तिं चेज्जानुनोः/ 481.030. बलचक्रवर्तिराज्यं चेद्वामे करतले/ 481.031. चक्रवर्तिराज्यं चेद्दक्षिणे करतले/ 481.031. देवोपपत्तिं चेन्नाभ्याम्/ 481.031. श्रावकबोधिं चेदास्ये/ 481.032. प्रत्येकां बोधिं चेदूर्णायाम्/ 481.032. यद्यनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति <482>उष्णीषे ऽन्तर्धीयन्ते/
482.001. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पादतले ऽन्तर्हिताः/ 482.002. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-- 482.003. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः/ 482.005. अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव//61//
482.007. गाथां च भाषते-- 482.008. विगतोद्भवा दैन्यमदप्रहीणा बुद्धाजगत्युत्तमहेतुभूताः/ 482.010. नाकरणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिवा जितारयः//62//
482.013. तत्कालं स्वयमधिगम्य धीर बुद्द्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्/ 482.014. धीरभिर्मुनिवृष वाग्मिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः//63//
482.016. नाकस्माल्लवणजलाद्रिताजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः/ 482.018. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः//64// इति/ 482.020. भगवानाह--एवमेतदानन्द, एवमेतद्/ 482.020. नाहेत्वप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति/ 482.021. अपि त्वानन्द, 482.022. मुक्तो ग्रन्थैश्च योगैश्च शल्यैर् नीवरणैस्तथा/ 482.023. अथापि रुद्रायणो भिक्षुर्जीविताद् व्यपरोपितः//65//
482.024. रुद्रायण आनन्द अर्हत्त्वं प्राप्तो जीविताद् व्यपरोपितः/ 482.024. श्रुत्वा आयुष्मानान्दः साश्रुकण्ठो व्यवस्थितः/ 482.025. अथ ते वधकपुरुषा आयुष्मतो रुद्रायणस्य पात्रचीवरं खिक्खितं चादाय रौरुकमनुप्राप्ताः/ 482.026. तैस्तयोर्दुष्टमात्ययोर् निवेदितम्--वृद्धराजः प्रघातित इति/ 482.026. तौ श्रुत्वा प्रीतिप्रामोद्यजातौ येन शिखण्डी राजा तेनोपसंक्रान्तौ/ 482.027. कथयतह्--देव, दिष्ट्या वर्धसे/ 482.028. इदानीं देवस्याकण्टकं राज्यम्/ 482.028. कथं कृत्वा? यो देवस्य शत्रुः, स प्रघातितः/ 482.029. को नाम शत्रुह्? देव, वृद्धराजः/ 482.029. कथं ज्ञायते ऽसौ? प्रघातित इति? ताभ्यां ते वधकपुरुषा दर्शिताह्--देव, इमे ते बधकपुरुषा यौरसौ प्रघातितः/ 482.030. शोखण्डना राज्ञा ते पृष्टाह्--भवन्तः, कियद्वृद्धराजस्य बलम्/ 482.031. देव, कुतस्तस्य बलम्? इदं पात्रचीवरं खिक्खिरं चेति/ 482.031. शिखण्डी <483>राजा मूर्च्छितः पृथिव्यां निपतितो जलपरिषेकप्रत्यागतप्राणः कथयति--भवन्तः, किं वृद्धराजेन मरणकाले व्याकृतम्? देव, वृद्धराजः प्राणवियोगः कथयति--
483.003. बह्वपुण्यं प्रसवसे राज्यहेतोः पितुर्वधात्/ 483.004. अहं च परिनिर्वास्ये त्वं चावीचिं गमिष्यसे//66// इति/ 483.005. इदं चापरं वक्तव्यह्--द्वे त्वया आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद् व्यपरोपितः, यच्चार्हन् भिक्षुः क्षीणाश्रवश्च/ 483.006. चिरं ते ऽवीचौ महानरके वस्तव्यम्/ 483.006. अत्ययमत्ययतो देशय/ 483.007. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति/ 483.007. मनःशोकशल्येनाभ्याहतो हरितलून उव न:ओ म्लायितुमारब्धः/ 483.008. तेन हिरुभिरुकावग्रामात्यावाहूतोक्तौभवन्तौ, न युवाभ्यामहमीदृशकर्म कुर्वाणो निवारित इति? तौ कथयतह्--वयं देवेनादर्शनपथे व्यवस्थापिताः/ 483.010. कथं निवारयाम इति? तेन तौ दुष्टामात्यौ अदर्शनपथे व्यवस्थापितौ/ 483.011. भूयो हिरुभिरुकावग्रामात्यौ स्थापितौ/ 483.011. ताभ्यामपि दुष्टामात्याभ्यां प्रच्छन्नं तिष्यपुष्यस्तूपयोर्द्वे बले कृत्वा द्वौ बिडालपोतकौ स्थापितौ/ 483.012. तयोर्दिने दिने मांसपेशीर्दत्त्वा शिक्षयतह्--तिष्यपुष्यौ,येन सत्येन सत्यवचनेन युवाभ्यां मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ, तेन सत्येन सत्यवचनेन मांसपेशीं कृत्वा स्वकस्वकं स्तूपं प्रदक्षिणीकृत्य स्वकस्वकं बलं प्रविशतामिति/ 483.015. तौ यदा सुशिक्षितौ संवृत्तौ, तदा ताभ्यां दुष्टामात्याभ्यां रुद्रायणस्य राज्ञो देवी उक्ता--देवि, पुत्रस्ते कृशालुको दुर्बलको म्लानो ऽप्राप्तकायः/ 483.017. किमध्युपेक्षस इति? सा कथयति--किमहं करोमीति? युवाभ्यामेवासावीदृशकर्म कारित इति/ 483.018. तौ कथयति--देवि, यत्र घ{अः पतितः, किं तत्र रज्जुरपि
पातयितव्या? सा कथयति--सत्यमेतत्पितुर्वधम्/ 483.019. तदहं तस्य प्रतिविनोदयामि इति/ 483.020. सा कथयति--यद्येवम्, शोभनम्/ 483.021. सा तस्य सकाशं गत्वा कथयति--पुत्र, कस्मात्वमुत्पाण्डूत्पाडुः कृशालुको दुर्बलको म्लानो ऽप्राप्तकाय इति? स कथयति--अम्ब, त्वमप्येवं कथयसि--कस्मात्त्वमुत्पाडूत्पाण्डुः कृशालुको दुर्बको म्लानो ऽप्राप्तकाय इति, कथमहं नोत्पाण्डूत्पाण्डुको भवामि कृशालुको दुबलको म्लानो ऽप्राप्तकाय इति, येन मया दुष्टामात्यविग्राहितेन द्वे आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन् भिक्षुः क्षीणाश्रवह्? चिरमवीचौ महानरके वस्तव्यमिति/ 483.026. सा कथयति--पुत्र, अभयं तावत्प्रयच्छ, यत्सत्यं तत्कथयामीति/ 483.026. स कथयति--दत्तं भवतु/ 483.027. सा कथयति--यथाभूतं पुत्र, नासौ तव पिता, किं तु मया ऋतुस्नातया अन्येन पुरुषेण सार्थं परिचरितम्, ततस्त्वं जात इति/ 483.028. स संलक्षयति--पितृवधस्तावन्न जातः/ 483.029. इति विदित्वा कथयति--अम्ब, यद्येवं पितृवधो नास्ति, अथद्वधो ऽस्ति/ 483.029. स कथं निस्तार्य इति? सा कथयति--पुत्र, ज्ञानकोचिदाः प्रष्टव्याः/ 483.030. ते एतदेकान्तीकरिष्यन्तीति उक्त्वा प्रक्रान्ता/ 483.031. तया तौ दुष्टामात्यौ आहूयोक्तौ--मया अस्य पितृवधो विनोदितः/ 483.031. युवामिदानीमर्हद्वधं प्रतिविनोदयतामिति/ 483.032. शिखण्डिना राज्ञा अमात्यानामाज्ञा दत्ता, सर्वामात्यान् <484>संनिपातयत ये च केचिज्ज्ञानकोविदा इति/
484.001. तैः सर्वामात्याः संनिपातिताः, ये च केचिज्ज्ञानकोविदाः/ 484.002. तावपि सुष्टामात्यौ तत्रैव संनिपतितौ/ 484.002. सर्व एव जाजोपजीवी लोको ऽनुकूलं वक्तुमारब्धः/ 484.003. तत्र केचित्कथयन्ति--देव, केनासौ दृष्टो ऽर्हत्त्वम् इति? अपरे कथयन्ति--देव, अर्हन्तः सर्वज्ञानकल्पा आकाशगामिन इति/ 484.004. तौ दुष्टामात्यौ कथयतह्--देव, किमत्र शोकः क्रियते? स कथयति--युवामप्येवं कथयथ--किमर्थं शोकः क्रियते इति, ननु युवाभ्यामेवाहमर्हद्वधं कातितः/ 484.006. देव, न सन्त्यर्हन्तः/ 484.006. कुतो ऽर्हद्वधह्? स कथयति--मया प्रत्यक्षदृष्टौ तिष्यपुष्यौ अर्हन्तौ ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ निर्वातौ/ 484.008. युवामेवं कथयथ--न सन्त्यर्हनतः, कुतो ऽर्हद्वध इति? तौ कथयतह्--वयं देवस्य प्रत्यक्षीकुर्मो यथा मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ अद्यत्वे ऽपि स्तूपे तिष्ठत इति/ 484.010. राजा अमात्यानामन्त्रयते--भवन्तः, यद्येवमागच्छत गच्छामः, पश्यामः किं भूतमभूतं वेति/ 484.011. एष च शब्दो रौरुके नगरे समन्ततो विसृतः/ 484.012. ततस्ते सर्वे जनपदनिवासिनो लोकास्तद्द्रष्टुं निष्क्रान्ताः/ 484.012. ततस्तौ दुष्टामात्यौ कथयतह्--यथा तिष्यपुष्यौ येन सत्येन सत्यवचनेन युवां मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ स्वकस्वके स्तूपे तिष्ठतः/ 484.014. अनेन सत्येन सत्यवचनेन इमां मांसपेशीमादाय स्वकस्वकं स्तूपं प्रदक्षिणीकृत्य स्वकस्वकं बिलं प्रविशतामिति/ 484.015.
तावेवमुक्तौ स्वकस्वकात् स्तूपान्निर्गतौ/ 484.016. तावेवानेकैः प्राणिशतसहस्रैर्दृष्टौ/ 484.016. तौ मांसपेशीमादाय स्वकस्वकस्तूपं प्रदक्षिणीकृत्य स्वकस्वकबिलं प्रविष्टौ/ 484.017. तौ दुष्टामात्यौ कथयत--दृष्टं देवेनेति? स कथयति--दृष्टम्/ 484.018. देव, न सन्ति लोके ऽर्हन्तः/ 484.018. केवलं त्वयं जनप्रवाद इति/ 484.018. तस्य यासौ दृष्टिह्--सन्ति लोके ऽर्हन्त इति, सा प्रतिविगता/ 484.019. तत्र ये ऽश्रद्धास्तेषामसद्दर्शनमुत्पन्नम्, ये मध्यस्थास्तेषां काङ्क्षा, ये श्रद्धास्तेषामद्भुतं संवृत्तम्/ 484.020. अनुभावोदग्रा अविशारदाः/ 484.020. शिखण्डी राजा संलक्षयति--यदि न सन्त्येव लोके ऽर्हन्तः, किमर्ह्तमार्यकाश्यपस्य कात्यायनस्य पञ्चशतपरिवारस्य शौलाया भिक्षुण्याः प्लञ्चशतपरिवारायाः पिण्डकमनुप्रयच्छामीति? तेन भिक्षूणां भिक्षुणीनां च पिण्डपातः समुच्छिन्नः/ 484.023. भिक्षवो भिक्षुण्यश्च रौरुकात्प्रक्रान्ताः/ 484.023. अथायुष्मान् महाकात्यायनः शौला च भिक्षुणी विनयापेक्षया तत्रैवावस्थतौ/ 484.024. यावदपरेण समयेन राजा शिखण्डी रौरुकान्नगरान्निर्गच्छति/ 484.025. आयुष्मांश्च महाकात्यायनो रौरुकं नगरं पिण्डाय प्रविशति/ 484.026. स राजानं दृष्ट्वैकान्ते ऽपक्रम्यावस्थितह्--मा अयमप्रसादं प्रवेदयिष्यतीति/ 484.027. स राज्ञा शिखण्डिना एकान्ते ऽवस्थितो दृष्टः/ 484.027. दृष्ट्वा च पुनरामन्त्रयते--भवन्तः, किमर्थमयमार्यो महाकात्यायनो मां दृष्ट्वा एकान्ते ऽपक्रम्यावस्थित इति/ 484.028. तस्य पृष्ठतो हिरुभिरुकावग्रामात्यौ गच्छतः/ 484.029. तौ कथयतह्--देव, आर्यो महाकात्यायनः संलक्षयति--देवः कृतकौतुकमङ्गलो
गच्छति, मा अप्रसादं वेदयिष्यति, दुःखं चरद्गच्छति, कर्म क्रियते, पात्रचीवराणि पांशुना अवतरिष्यतीति/ 484.031. राजा तूष्णीमवस्थित इति/ 484.031. आयुष्मान् महाकात्यायनो रौरुकं नगरं पिण्डाय चरित्वा निर्गच्छति, राजा च शिखण्डी प्रविशति/
485.001. <485>आयुष्मान् महाकात्यायनस्तथैव एकान्ते ऽपक्रम्यावस्थितः/ 485.001. शिखण्डी राजा कथयति--भवन्तः, पूर्वमप्ययमार्यो महाकात्यायनो मां दृष्ट्वा एकान्ते ऽपक्रम्यावस्थितः, साम्प्रतिमपि/ 485.003. को ऽत्र हेतुरिति? तस्य पृष्ठतस्तौ दुष्टामात्यौ गच्छतः/ 485.003. तौ कथयतह्--देव, एष कथयति--मा अहमस्य पितृमारकस्य रजसा प्रव्रज्यामीति/ 485.004. अपरीक्षको ऽसौ/ 485.004. श्रुत्वा पर्यवस्थितः/ 485.005. स कथयति--भवन्तः, यस्याहं प्रियः, सो ऽस्य मुण्डकस्य श्रमणकस्योपर्येकैकं पांशुमुस्टिं क्षिपत्विति/ 485.006. सर्वेण जनकायेनैकैका पांशुमुष्टिः क्षिप्ता/ 485.006. महासाधनो ऽसौ राजा/ 485.006. एकैकया पांशुमुष्ट्या आयुष्मतो महाकात्यायनस्योपरि महान् पांशुराशिर्व्यवस्थितः/ 485.007. सो ऽपि ऋद्ध्या पर्णिकां कुटिमभिनिर्मायावस्हितः/ 485.008. स गोपालकैः पशुपालकैश्चावष्टभ्यमानो दृष्टः/ 458.008. ते बुद्ध्यायमानाह्(?) परिवार्यावस्थिताः/ 485.009. हिरुभिरुकावग्रामात्यौ पृष्ठतो ऽनुहिण्ड्य तं प्रदेशमनुप्राप्तौ/ 485.010. तौ पृच्छतह्--भवन्तः, किमिदमिति? ते कथयन्ति--तेन कलिराजेन पितृमारकेण आर्यो महाकात्यायनो ऽदुष्यनयकारी पांशुना अवष्टब्ध इति/ 485.011. तौ साश्रुकण्ठौ रुदन्मुखौ गोपालकपशुपालकैः सार्धं पांशूनपनेतुमारब्धौ/ 485.011. आयुष्मान् महाकात्यायनो निर्गतः/ 485.012. तौ पादयोर् निपत्य पृच्छतह्--आर्य, किमिदमिति? स कथयति--किमन्यद्भविष्यतीति? तौ कथयतह्--आर्य, यदिदं शिखण्डिना महाकात्यायने जनकायसहायेन कर्म कृतम्/ 485.014. अस्य को भविष्यतीति/ 485.015. इतः सप्तमे दिवसे रौरुकं नगरं
पांशुना अवष्टप्स्यते/ 485.015. आर्य, का आवुपूर्वी भविष्यतीति? आयुष्मन्तौ, प्रथमे दिवसे महावायुरागत्य रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापयिष्यति/ 485.017. द्वितीये दिवसे पुष्पवर्षं पतिष्यति/ 485.017. तृतीये वस्त्रवर्षम्, चतुर्थे हिरण्यवर्षम्, पञ्चमे सुवर्णवर्षम्, पश्चाद्यै रौरुकसामान्तनिवासिभिः सामवायिकं कर्म कृतम्, ते रौरुकं नगरं प्रेवक्ष्यन्ति/ 485.019. तेषु प्रविष्टेषु षष्ठे दिवसे रत्ववर्षं पतिष्यति, सप्तमे दिवसे पांशुवर्षमिति/ 485.019. तौ कथयतह्--आर्य, किमावामस्य कर्मणो भाविनौ? भद्रमुखौ, न युवामस्य कर्मणो भागिनौ/ 485.021. आर्य, यदेवं कथमस्माभिरस्मान्नगरान्निष्क्रमितव्यमिति? स कथयति--युवाम् यावच्च गृहम् यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे नावं स्थापयित्वा तिष्ठत/ 485.023. यदा रत्नवर्षं पतेत्, तदा रत्नानां नावं पूरयित्वा निष्पलायितव्यमिति/ 485.023. तौ तस्य पादयोर् निपत्य रौरुकं प्रविष्टौ/ 485.024. राज्ञः सकाशं प्रविष्टौ कथयतह्--किं देवेनार्यो महाकात्यायनः किंचिदुक्तः पांशुनावष्टब्धह्? स कथयति--भवन्तः, जीवत्यसौ? देव, जीवति/ 485.025. किं कथयति--देव, एवं कथयति--इतः सप्तमे दिवसे रौरुकं नगरं पांशुना अवष्टप्स्यत इति/ 485.026. कानुपूर्वी? कथयति--देव, स एवं कथयति, प्रथमे तावद्दिवसे महवायुरागत्य रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापयिष्यति, द्वितीये दिवसे पुष्पवर्षं पतिष्यति, तृतीये दिवसे वस्त्रवर्षम्, चतुर्थे हिरण्यवर्षम्, पञ्चमे सुवर्णवर्षम्, पश्चाद्यै रौरुकसामन्तकनिवासिभिः सामवायिकं
कर्म कृतं ते रौरुकं नगरं प्रवेक्ष्यन्ति, तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतिष्यति, सप्तमे दिवसे पांशुवर्षमिति/ 485.031. तौ कथयतह्--आर्य, किमावामप्यस्य कर्मणो भागिनौ? भद्रमुखौ, न युवामस्य कर्मणो भागिनौ/ 485.032. आर्य, यद्येवं कथमस्मान्नाग्रान्निष्क्रमितव्यमिति? स कथयति--<486>युवाम् यावच्च गृहम् यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे नावं स्थापयित्वा तिष्ठत/
486.002. यदा रत्नवर्षं पतेत्, तदा रत्नानां नावं पूरयित्वा निष्पलयितव्यमिति/ 486.002. तौ दुष्टामात्यौ कथयतह्--समुच्छिन्नपिण्डपातः पांशुवर्षेणावष्टबधः स किमन्यद्वदतु? ईदृशं वा वदते, देवतो वा पापनरमिति(?)/ 486.004. राजा शिखण्डी संलक्षयति--स्यादेवमिति/ 486.004. हिरुभिरुकावग्रामात्यौ मुखं विभण्ड्य हस्तान् संपरिवर्त्य प्रक्रान्तौ/ 486.005. तत्र हितुकस्य श्यामाको दारकः पुत्रः/ 486.006. भिरुकस्य श्यामावती नाम दारिका दुहिता/ 486.006. हितुकेन श्यामाको दारक आयुष्मते महाकात्यायनाय दत्तह्--आर्य, यद्यस्य कानिचित्कुशलमूलानि स्युः, प्रव्राजयेथाः/ 486.007. नो चेत् तवैवायमुपस्थायक इति/ 486.008. भिरुकेनापि श्यामावती दारिका शैलाया भिक्षुण्या दत्ता--आर्ये, यद्यस्याः कानिचित् कुशलमूलानि स्युः, प्रव्राजयेथाः/ 486.009. नो चेत् कौशाम्ब्यां घोषिलो नाम गृहपतिर्मम वयस्यस्तस्य समर्पयिष्यसीति/ 486.010. तयाधिवासितम्/ 486.010. अथ शैला भिक्षुणी श्यामावतीमादाय ऋद्ध्या रौरुकान्नगरात् प्रक्रान्ता/ 486.011. तदा कौशाम्ब्यां घोषिलस्य गृहपतेर्दत्ता/ 486.012. यथा च संदिष्टं समाख्यातम्/ 486.012. आयुष्मान् महाकात्यायनस्तत्रैवावस्थितः/ 486.012. हिरुभिरुकाभ्यामग्रामात्याभ्याम् यावच्च गृहम् यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे च नौः स्थापिता/ 486.014. यावदन्यतमस्मिन् दिवसे महावायुरागतः, येन तं रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापितम्/ 486.015. द्वितीये दिवसे पुष्पवर्षं पतितम्/ 486.015. तौ दुष्टामात्यौ कथयतह्--देव, श्रूयते राज्ञो मान्धातुः सप्ताहं हिरण्यवर्षं पतितमिति/ 486.016. देवस्येदं
पुष्पवर्षं पतितम्, नचिराद्वस्त्रवर्षं पतिष्यति/ 486.017. तृतीये दिवसे वस्त्रवर्षं पतिअम्/ 486.017. तौ दुष्टामात्यौ कथयतह्--देवस्येदं वस्त्रवर्षं पतितम्, नचिराद्विराद्धिरण्यवर्षं पतिष्यतीति/ 486.018. चतुर्थे दिवसे हिरण्यवर्षं पतितम्/ 486.019. तौ दुष्टामात्यौ कथयतह्--देवस्येदं हिरण्यवर्षं पतितम्, नचिरादेव सुवर्णवर्षं पतिष्यतीति/ 486.020. पञ्चमे दिवसे सुवर्णवर्षं पतितम्/ 486.020. तौ दुष्टामात्यौ कथयतह्--देवस्येदं सुवर्षं प्ततितम्, नचिरादेव रत्नवर्षं पतिष्यतीति/ 486.021. यौ रौरुकसामन्तकनिवासिभिः सामवायिकं कर्म कृतम्, ते रौरुकं नगरं प्रविष्टाः/ 486.022. तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतितम्/ 486.022. हिरुभिरुकावग्रामात्यौ रत्नानां नावं पूरयित्वा निष्पलायितौ/ 486.023. तत्र हिरुकेणान्यतमस्मिन् प्रदेशे हिरुकं नाम नगरं मापितम्/ 486.024. तस्य हिरुकं हिरुकमिति संज्ञा संवृत्ता/ 486.024. भिरुकेणान्यतमस्मिन् प्रदेशे भिरुकं नाम नगरं मापितम्/ 486.025. तस्यापि भिरुकच्छं भिरुकच्छमिति संज्ञा संवृत्ता/ 486.025. सप्तमे दिवसे पांशुवर्षं पतितुमारब्धम्/ 486.026. अमनुष्यकैर्द्वाराण्यवष्टब्धानि/ 486.026. श्यामाकः कथयति--आर्य, किमेष उच्चशब्दो महाशब्द इति/ 486.027. आयुष्मान् महाकात्यायनः कथयति--पुत्र, वातायनेन काशिकां निष्कासयेति/ 486.028. तेन वातायनेन काशिका निष्कासिता/ 486.028. पांशुभिरनवीकृता/ 486.028. आयुष्मान् महाकात्यायनः संलक्षयति--सावशेषागोचर इति/ 486.029. यावद्भूयो निष्कासिता, पूर्णा चूडिकाबद्धा संवृत्ता/ 486.030. आयुष्मान् महाकात्यायनः संलक्षयति--अगोचरीभूतम्/
486.030. इदानीं गच्छमीति/ 486.030. अथ या रौरुकनिवासिनी देवता सा येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्ता/ 486.031. उपसंक्रम्य पादाभिवन्दनं कृत्वा कथयति--आर्य, अहमप्यागछामि/ 486.032. आर्यस्योपस्थानं करिष्यामीति/
487.001. <487>तेनाधिवासितम्/ 487.001. आय्ष्मता महाकात्यायनेन श्यामाक उक्तह्--पुत्र, गृहाण चीवरकर्णिकम्/ 487.002. गच्छाम इति/ 487.002. तेन चीवरकर्णिको गृहीतः/ 487.002. स ऋद्ध्या उपरिविहायसा श्यामाकं दारकमादाय संप्रस्थितः/ 487.003. रौरुकनिवासिन्यपि देवता स्वर्द्ध्या तस्य पृष्ठतो ऽनुबद्धा/ 487.004. रौरुकमपि नगरं पांशुनावष्टबद्धम्/ 487.004. ते ऽनुपूर्वेण खरं मम कर्वटकमनुप्राप्ताः/ 487.004. तेन तत्र खलाभिधाने ऽवस्थिताः/ 487.005. आयुष्मान् महाकात्यायनः श्यामाकं दारकं खलभिधाने स्थापयित्वा पिन्ण्डपात्रं प्रविष्टः/ 487.006. देवतानुभावात्तस्मिन् खलाभिधाने धान्यं वर्धितुमारब्धम्/ 487.007. यस्तत्र पुरुषो ऽवस्थितः, स तं दारकं दृष्ट्वा तस्य सकाशमुपसंक्रम्य कथयति--भो दारक, तव प्रभावात्खलाभिधाने धान्यं वर्धत इति/ 487.008. स कथयति--न मम प्रभावात् खलभिधाने धान्यं वर्धत इति, अपि तु रौरुकनिवासिनी देवता इहागता अमुष्मिन् प्रदेशे तिष्ठति, तस्याः प्रभावात् खलाभिधाने धान्यं वर्धत इति/ 487.010. स तस्याः सकाशं गत्वा पादयोर् निपत्य कथयति--देवते, ताडकं कुञ्चिकां च तावद्धारय, यावद्ग्रामम् {गत्वा} आगच्छामि/ 487.011. न च त्वया मां मुक्त्वा अन्यस्य कस्यचिद्दातव्यमिति/ 487.012. तेनापि कर्वटकं गत्वा कर्वटकनिवासी जनकायः संनिपातितः/ 487.013. उक्तश्च--भवन्तः, रौरुकनिवासिनी देवता इहागता खलाभिधाने तिष्ठति/ 487.014. तत्प्रभावात् खलभिधाने धान्यं वर्धते/ 487.014. तस्या हस्ते मया ताडकं कुञ्चिका च दत्ता/ 487.015. {उक्तम्} च--देवते, ताडकं कुञ्चिकां च
तावद्धारय यावद् ग्रामं गत्वा आगच्छामि/ 487.016. न च त्वया मां मुक्त्वा अन्यस्य कस्यचिद्दातव्यमिति/ 487.016. तदधिष्ठानं विज्ञापयामि--यदि मम पुत्रं श्रेष्ठिनमभिषिञ्चथ, अहमात्मानं जीविताद्व्यपरोपयामीति/ 487.017. देवता अस्मादधिष्ठानान्न क्वचिद्गमिष्यति, युष्माकं भोगाभिवृद्धिर्भविष्यति, सर्वाश्च ईतयो व्युपशमं गमिष्यन्तीति/ 487.019. तौस्तस्य पुत्रः श्रेष्ठी तेनात्मा जीविताद्व्यपरोपितः/ 487.019. ततः सर्वं तदधिष्ठानं गन्धपुष्पोशोभितं छत्रध्वजपताकाशोभितं च बलिमादाय येन देवता तेनोपसंक्रान्ताः/ 487.021. उपसंक्रम्य पादयोर् निपत्य कथयति--देवते, अधिष्ठा भव, इहैव तिष्ठेति/ 487.022. नास्ति ममेहावस्थानम्/ 487.022. आर्यस्याहं महाकात्यायनस्योपस्थायिकेति/ 487.022. आयुष्मान् महाकात्यायन इति कथयति--देवते, समन्वाहर अस्य यस्य सकाशात् ताडकः कुञ्चिका च गृहीतेति/ 487.024. सा समन्वाहर्तुं प्रवृत्ता पश्यति, यावत्कालगतः/ 487.024. तयासावधिष्ठाननिवासी जनकायो ऽभिहितह्--भवन्तः, समयतो ऽहं तिष्ठामि/ 487.025. तौर्यादृशमेव तस्या देवतायाः स्थण्डिलं कारितं तादृशमेवायुष्मतो महाकात्यायनस्य/ 487.027. तस्या देवताया यो ऽधिष्ठाने प्रदीपः प्रज्ञप्तः, तमसौ गृहीत्वा आयुष्मतो महाकात्यायनस्य स्थण्डिले स्थापयति/ 487.028. सा अन्यतमेन पुरुषेण प्राकारकण्टके स्थितेन प्रदीपं गृहीत्वा गच्छन्ती दृष्टा/ 487.029. स संलक्षयति--एषा देवता आर्यस्य महाकात्यायनस्याभिसातिका गच्छतीति/ 487.030. तया तस्य चित्तमुपलक्षितम्/ 487.030. सा रुषिता--पापचित्तसमुदाचारो ऽयं कर्वटकनिवासी जनकायः/ 487.031. आर्यस्य
महाकात्यायनस्य निरामगन्धस्यातृप्तपुण्यस्यापवादमनुप्रयच्छतीति/ 487.032. तस्मात्तस्मिन् कर्वटके मारिरुत्सृष्टा/ 487.032. महाजनमरको जातः/ 487.032. मृतजने <488>निष्कास्यमाने मञ्चकामञ्चके सड्त्कुमारब्धाः/
488.001. अधिष्ठाननिवासिना जनकायेन नैमित्तिका आहूय पृष्टाह्--किमेतदिति? ते कथयन्ति देवताप्रकोप इति/ 488.002. ते तां क्षमयितुमारब्धाः/ 488.002. साकथयति--यूयमार्यस्य महाकात्यायनस्य निरामगन्धस्यासत्कारमनुप्रयच्छथेति? ते भूयः कथयन्ति--क्षमख देवते, न कश्चिदसत्कारं करिष्यतीति/ 488.004. सा कथयति--यदि यूयम् यादृशमेवार्यस्य महाकात्यायनस्येति/ 488.005. ते कथयन्ति--देवते क्षमख, प्रतिविशिष्टतरं कुर्म इति/ 488.006. तया तेषां क्षान्तम्/ 488.006. तैरप्यायुष्मतो महाकात्यायनस्य प्रतिविशिष्टतरः सत्कारः कृतः/ 488.006. आयुष्मान् महाकात्यायनस्तत्र वर्षोषितः श्यामाकं दारकमादाय देवतामुपामन्त्र्य संप्रस्थितः/ 488.007. सा कथयति--आर्य, मम किचिच्चिह्नमनुप्रयच्छ, यत्राहं कारां कृत्वा तिष्ठामीति/ 488.008. तेन तस्यां काशिका दत्ता/ 488.009. तयात्र प्रक्षिप्य स्तूपः प्रतिष्ठापितो महश्च प्रस्थापितह्--काशीमह काशीमह इति संज्ञा संवृत्ता/ 488.010. अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते/ 488.010. श्यामाको दारकश्चीवरकर्णिके लग्नः प्रलम्बमानो गोपालकपशुपालकैर्दृष्टः/ 488.011. तैर्लम्बते लम्बत इति उच्चैर् नादो मुक्तः/ 488.011. तस्मिञ् जनपदे मनुष्याणां लम्बकपाल इति संज्ञा संवृत्ता/ 488.012. आयुष्मान् महाकात्यायनो ऽन्यतमं कर्वटकमनुप्राप्तः/ 488.013. तत्र श्यामाकं दारकं वृक्षमूले स्थापयित्वा पिण्डाय प्रविष्टः/ 488.013. तस्मिंश्च कर्वटके ऽपुत्रो राजा कालगतः/ 488.014. पौरजानपदाः संनिपत्य कथयन्ति--भवन्तः, कं राजानमभिषिञ्चाम इति? तत्रैके कथयन्ति--यः पुण्यमहेशाख्य इति/ 488.015. अपरे
कथयन्ति--कथमसौ प्रज्ञायत इति? अन्ये कथयन्ति--परीक्षकाः प्रयुज्यन्तामिति/ 488.016. तैः परीक्षकाः प्रयुक्ताः/ 488.016. ते इतश्चामुतश्च पर्याटितुमारब्धाः/ 488.017. तैरसौ वृक्षस्याधस्तान्मिद्धमवक्रान्तो दृष्टः/ 488.017. ते तस्य निमित्तमुद्गृहीतुमारब्धा यावत्पश्यन्ति/ 488.018. अन्येषां वृक्षाणां छाया प्राचीनप्रवणा प्राचीनप्राग्भारा/ 488.018. तस्य वृक्षस्य च्छाया अस्य श्यामाकस्य दारक्स्य कायं न विजहातीति/ 488.019. दृष्ट्वा च पुनः संजल्पितुमारब्धाह्--भवन्तः, अयं पुण्यमहेशाख्यः सत्त्वः, एतमभिषिञ्चाम इति/ 488.020. स तैः प्रबोध्योक्तह्--दारक, राज्यं प्रतीच्छेति/ 488.021. स कथयति--नाहं राज्येनार्थी/ 488.021. अहमार्यस्य महाकात्यायनस्योपस्थापक इति/ 488.022. आयुष्मता महाकात्यायनेन श्रुतम्/ 488.022. समन्वाहर्तुं प्रवृत्तः/ 488.022. किमस्य दारकस्य राज्ञः संवर्तनीयानि कर्माणि न वेति/ 488.023. पश्यति, सन्ति/ 488.023. स कथयति--पुत्र, प्रतीच्छ राज्यम्, किं तु धर्मेण ते कारयितव्यमिति/ 488.024. तेन तं प्रतीष्टम्/ 488.024. स तै राज्ये ऽभिषिक्रः/ 488.024. श्यामाकेन दारकेण तस्मिन् राज्यं कारितमिति/ 488.025. श्यामाकराज्यं श्यामाकराज्यमिति संज्ञा संवृत्ता//
488.026. आयुष्मान् महाकात्यायनो वोक्काणमनुप्राप्तः/ 488.026. वोक्काणे आयुष्मतो महाकात्यायनस्य माता उपपन्ना/ 488.027. सा आयुष्मन्तं महाकात्यायनं दृष्ट्वा कथयति--दृष्ट्वा चिरस्य बर पुत्रकं पश्यामि, चिरस्य बत पुत्रकं पश्यामीति/ 488.028. स्तनाभ्यां चास्याः क्षीरधाराः प्रसृताः/ 488.028. आयुष्मता महाकात्यायनेन अम्ब अम्बेति समाश्वासिता/ 488.029. तया आयुष्मान् महाकात्यायनो भोजितः/ 488.029. तस्या आयुष्मता महाकात्यायनेनाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्/ 488.032. सा दृष्टसत्या त्रिरुदानमुदानयति स्म--इदमस्माकं भदनत न मात्रा <489>कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर्यद्भवता अस्माकं कृतम्/
489.002. स्मुच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमौष्येषु/ 489.003. आह च-- 489.004. यत्कर्तव्यं सुपुत्रेण मानुर्दुष्करकारिणा/ 489.005. तत्कृतं भवता मह्यं चित्तं मोक्षपरायणम्//67//
489.006. दुर्गतिभ्यः समुद्धृत्य स्वर्गे च ते अहम्/ 489.007. स्थापिता पुत्र यत्नेन साधु ते दुष्कृतं कृतम्//68//
489.008. अथायुष्मान् महाकात्यायनस्तां भद्रकन्यां सत्येषु प्रतिष्ठाप्य कथयति--अम्ब, अवलोकिता भव, गच्छामीति/ 489.009. सा कथयति--पुत्र, यद्येवं मम किंचिदनुप्रयच्छ, यत्राहं पूजां कृत्वा तिष्ठामीति/ 489.010. तेन तस्या यष्टिर्दत्ता/ 489.010. तया स्तूपं प्रतिष्ठाप्य सा तस्मिन् प्रतिमारोपिता/ 489.011. यष्टिस्तूप इति संज्ञा संवृत्ता/ 489.011. अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते//
489.012. अथायुष्मान् महाकात्यायनो मध्यदेशमागन्तुकामः सिन्धुमनुप्राप्तः/ 489.012. अथ या उत्तरापथनिवासिनी देवता, सा आयुष्मन्तं महाकात्यायनमिदमवोचत्--आर्य, ममापि किंचिच्चिह्नमनुप्रयच्छ, यत्राहं पूजां कृत्वा तिष्ठामीति/ 489.014. स संलक्षयति--उक्तं भगवता मध्यदेशे पुले न धारयितव्ये इति/ 489.015. तदेते अनुप्रयच्छामीति/ 489.015. तेन तस्यैते दत्ते/ 489.015. तया स्थण्डिले कारयित्वा ते प्रतिष्ठापिते इतश्चरसन्तिसंज्ञा संवृत्ता/ 489.016. आयुष्मान् महाकात्यायनो ऽनुपूर्वेण श्रावस्तीमनुप्राप्तः/ 489.017. भिक्षुभिर्दृष्ट उक्तश्च--स्वागतं स्वागतमायुष्मन्/ 489.017. किच्चित्कुशलचर्येति? स कथयति--आयुष्मन्तः, किंचित् सुखचर्या किंचिद्दुःखचर्येति/ 489.018. भिक्षवः कथयन्ति--किं सुखचर्या किं दुःखचर्येति? स कथयति--यत्सत्त्वकार्यं कृतम्, इयं सुखचर्या/ 489.019. यद् राजा शिखण्डी रौरुकनिवासी च जनकाय अहं च पांशुनावच्टब्धः, हिरुभिरुकौ चाग्रामात्यौ कृच्छ्रेण पलायितौ, इयं दुःखचर्येति/ 489.021. अथ पाथाभिक्षवो ऽवध्यायन्तः कथयन्ति--पितृमारको ऽसौ/ 489.022. तेनायुष्मान् रुद्रायणो ऽर्हत्त्वं प्राप्तः/ 489.022. अदुष्यनयकारी प्रघतित इति/ 489.022. इदं तस्य पुष्पमात्रम्/ 489.023. अन्यत्फलं भविष्यतीति//
489.024. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता रुद्रायणेन कर्म कृतम् येनाढ्ये महाधने महाभोगे कुले प्रत्याजातह्? भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? अर्हत्त्वप्राप्तश्च शस्त्रेण प्रघातित इति? भगवानाह--रुद्रायणेन भिक्षुणा कर्माणि कृतान्युपचित्तानि लब्धसम्भाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि/ 489.028. रुद्रायणेन कर्माणि कृतान्युपचितानि/ 489.028. को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च/
490.001. <490>न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि/ 490.002. सामगरीं प्राप्य कालं च फलन्ति खलु देहिनाम्//69// इति/ 490.003. भूतपूर्वं भिक्षवो ऽतीति^ध्वनि अस्ति बुद्धानां भगवतामुत्पादे प्रत्येकबुद्धा लोल उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः खङ्गविषाणकल्पा एकदक्षिणीया लोकस्य/ 490.005. यावदन्यतमस्मिन् कर्वटके लब्धुः प्रतिवसति/ 490.005. तस्य कर्वटकस्य च नातिदूरे उदपानं प्रभूतानां मृगाणामावासः/ 490.006. तत्रासौ लुब्धकः प्रतिदिनं प्रभूतान् कूटान् पाशालेपांश्च प्रतिक्षिपति प्रभूतानां मृगानामुत्सादाय विनाशाय अनयेन व्यसनाय/ 490.007. तस्य चामोघास्ते कूटाः पाशालेपाश्च/ 490.008. यावदन्यतरः प्रत्येकबुद्धो जनपदचारिकाअं चरंस्तं कर्वटकमनुप्राप्तो देवतायतने रातिंदिवा समुपागतः/ 490.009. स पूर्वाह्णे निवास्य पात्रचीवरमादाय तं कर्वटकमनुप्राप्तः/ 490.009. तन् कर्वटकं पिण्डाय प्राविक्षत्/ 490.010. ततः पिण्डपातमटित्वा संलक्षयति--इदं देवायतनं दिवा आकीर्णम्/ 490.011. बहिः कर्वटकस्य शान्ते स्थाने पिण्डपातं वेलां करोमीति/ 490.011. स कर्वटकान्निष्क्रम्येदं शान्तमिदं शान्तमिति येन तदुदपानं तेनोपसंक्रान्तः/ 490.012. उपसंक्रम्य पात्रस्नावणमेकान्त उपनिक्षिप्य पादौ प्रक्षाल्य हस्तौ निर्माद्य पानीयं परिस्राव्य शीर्णपर्णकानि समुदानीय निषद्य भक्तकेत्यं कृत्वा हस्तौ निर्माद्य मुखं पात्रं च पात्रपरिस्रावणम् यथास्थाने स्थाप्य पादौ प्रक्षाल्य अन्यतमवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा शान्तेनेर्यापथेन निषण्णः/ 490.016. तस्मिन् दिवसे
मानुषगन्धेनैकमृगो ऽपि न ग्रहणानुगतः/ 490.016. अथ स लुब्धकः काल्यमेवोत्थाय येन तदुदपानं तेनोपसंक्रान्तः/ 490.017. स तान् कूटान् पाशांश्च प्रत्येवेक्षितुमारब्धः/ 490.018. एकमृगमपि नाद्रक्षीत्/ 490.018. तस्यैतदभवत्--ममामी कूटाः पाशालेपाश्चावन्ध्याः/ 490.018. किमत्र कारणम् येनाद्य एकमृगो ऽपि न बद्ध इति?/ 490.019. तदुदपानं सामन्तकेन पर्यटितुमारब्धः/ 490.019. पश्यति मनुष्यपदम्/ 490.020. स तेन पदानुसारेण गतः/ 490.020. पश्यति तं प्रत्येकबुद्धं शान्तेनेर्यापथेन निषण्णम्/ 490.021. स संलक्षयति--एते प्रव्रजिताः शान्तात्मान ईदृशेषु स्थानेष्वभिरमन्ते/ 490.021. यद्यद्याहमस्य जीवितापच्छेदं न करोमि, नियतमेष मम वृत्तिसमुच्छेदं करोति/ 490.022. सर्वथा प्रघात्यो ऽयमिति/ 490.023. तेनासौ निर्घृणहृदयेन त्यक्तपरलोकेन कराकारसदृशं धनुराकर्णं पूरयित्वा सविषेण शरेण मर्मणि ताडितः/ 490.024. स महात्मा प्रत्येकबुद्धः संलक्षयति--मा अयं तपस्वी लुब्धो ऽत्यन्तक्षतश्च भविष्यति, उपहतश्च/ 490.025. हस्तोद्धारमस्य ददामीति/ 490.025. स विततपक्ष इव हंसराज उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः/ 490.026. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी/ 490.027. स मूलनिकृत्त इव द्रुमः पादयोर् निपत्य कथयति--अवतरावतर सद्भूतदक्षिणीय, मम क्लेशपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति/ 490.028. स तस्यानुकम्पार्थमवतीर्णः/ 490.028. ततस्तेन विशल्यी कृतः/ 490.029. उपनाहो दत्तः/ 490.029. उक्तश्च--आर्य, निवेशनं गच्छमः/ 490.029. यद्यत्र सुवर्णपणो ऽपि
दातव्यः, अहं परिप्रापयामीति/ 490.030. स संलक्षयति--यन्मया अनेन पूतिकायेन प्राप्तव्यं तदिदानीं शान्तं निरुपधिशेषं निर्वाणधातुं प्रविशामीति/ 490.031. स तस्यैव पुरस्तात्पुनर्गगनतलमभ्युद्गम्य विचित्राणि प्रतिहार्याणि विदर्श्य निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः/ 490.032. धनवानसौ <491>लब्धः/
491.001. तेन सर्वगन्धकाष्ठैश्चितां चित्वा ध्मापितः/ 491.001. सा चिता क्षीरेण निर्वापिता/ 491.001. तान्यस्थीनि नवे कुम्भे प्रक्षिप्य शारीरस्तूपः प्रतिष्ठापितः/ 491.002. छत्रध्वजपताकाश्चारोपिताः/ 491.002. गन्धैर्माल्यैर्धूपश्च कुम्भे कृत्वा पादयोर् निपत्य प्रणिधानं कृतम्--यन्मयैवंविधे सद्भूतदक्षिणीये ऽपकारो कृतः, मा अहमस्य कर्मनो भागी स्याम्/ 491.004. यत्तु कारा कृता, अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च गुणानां लाभी स्याम्, प्रतिविशिष्टतरं चातुः शास्तारमारागयेयं न विरागयोयमिति//
491.007. किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन लुब्धकः, एष एवासौ रुद्रायणो भिक्षुः/ 491.008. यदनेन प्रत्येकबुद्धः सविषेण शरेण मर्मणि ताडितः, तस्य कर्मणो विपाकेन बहूनि वर्षशतानि बहूनि वर्षसहस्राणि नरकेषु पक्तः, तस्मिन्नपि चोदपाने सविषेण शरेण मर्मणि ताडितः, तेनैव च कर्मावशेषेणैतर्ह्यप्यर्हत्त्वप्राप्तः शस्त्रेण प्रघातितः//
491.011. पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त शिखण्डिना रौरुकनिवासिना जनकायेनायुच्मता महाकात्यायनेन च कर्म कृतम् येन पांशुनावष्टब्धाः, हिरुभिरुकौ त्वग्रामात्यौ निष्पलयिताविति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि प्ररिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि/ 491.014. एभिः कर्माणि कृतान्युपचितानि/ 491.015. के ऽन्यः प्रत्यनुभविष्यति? न ब्ःक्षवः कर्मणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वाअयतनेषु कर्मणि कृतानि विपच्यन्ते शुभान्यशुभानि च/ 491.018. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि/ 491.019. समग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्//70//
491.020. भूतपूर्वं भिक्षवो ऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति/ 491.020. तेन सदृशात् कुलात् कलत्रमानीतम्/ 491.021. स तया सह क्रीडते रमते परिचारयति/ 491.021. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः/ 491.022. पुनरस्य क्रीडतो रममाणस्य परिचारयतो दारिका जाता/ 491.022. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः/ 491.023. या जन्मिका दारिकाः, तासाम् याचनका आगच्छन्ति/ 491.024. तस्या न कश्चिदागच्छति/ 491.024. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनसनभक्ता एकदक्षिणीया लोकस्य/ 491.025. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः/ 491.026. यावत्तया दारिकया गृहं संमृज्य वाटस्योपरिष्टात् संकारश्छोरितः/ 491.027. तस्य प्रत्येकबुद्धस्य पिण्डपातमटतः शिरसि पतितः/ 491.028. तयासौ दारिकया पतन् दृष्टः/ 491.028. न चास्य विप्रतिसारचित्तमुत्पन्नम्/ 491.028. नेइवम्/ 491.029. तस्यास्तमेव दिवसम् याचनक आगतः/ 491.029. सा भ्रात्रा पृष्टा--किं त्वयाद्य कृतम् येन ते याचनका नागता इति/ 491.030. तया समाख्यातम्--मया तस्योपरि संस्कारशछोरितः/ 491.030. तेन विपुष्पितम्/ 491.031. तदा दारिकया अन्यस्या दारिकाया निवेदितम्/ 491.031. तयाप्यस्या लोकस्येदं पापकं दृष्टिगतमुत्पन्नम्/ 491.032. यस्या यस्या याचनका आगच्छन्ति, सा सा तस्य प्रत्येकबुद्धस्योपरि संकारम् <492>छोरयत्विति/
492.001. असत्कारभीतवस्ते महात्मानः सर्वे प्रत्येकबुद्धाः/ 492.001. स तस्मात् कर्वटकात्प्रक्रान्तः/ 492.002. पञ्चाभिज्ञामृषीणामुपरि क्षेप्तुमारब्धाः/ 492.002. ते ऽपि प्रक्रान्ताः/ 492.002. ततो मातापित्रोरुपरि क्षेप्तुमारब्धाः/ 492.003. तस्मिन् कर्वटके द्वौ गृहपती समकौ प्रतिवसतः/ 492.003. सा आभ्यामुक्ता--भवन्तः, असद्धर्मो ऽयं वर्धते, विरमतेति/ 492.004. ताभ्यां निवारिताः प्रतिविरताः//
492.005. किं मन्यध्वे भिक्षवो यासौ दारिका यया प्रत्येकबुद्धस्योपरि संकारश्छोरितः, एष एवासु शिखण्डी/ 492.006. यो ऽसौ कर्वटकनिवासी जनकायः, एष एवासौ रौरुकनिवासी जनकायः/ 492.007. यदेभिः प्रत्येकबुद्धानामुपरि पापकं दृष्टिगरमुत्पन्नं कृतम्, अस्य कर्मणो विपाकेन पांशुनावष्टब्धाः/ 492.008. यो ऽसौ गृहपती याभ्यां निवारितम्, एतावेतौ हिरुभिरुकावग्रामात्यौ/ 492.009. तस्य कर्मणो विपाकेन निष्पलायितौ/ 492.009. यो ऽसौ दारिकाया भ्राता येन विपुष्पितम्, एष एवासौ कात्यायनो भिक्षुः/ 492.010. यदनेन बिपुष्पितं तस्य कर्मणो विपाकेन पांशुनावष्टब्धः/ 492.011. यदि तेन न विपुष्पितम् (चित्तम्) न पांशुनावष्टब्धो ऽभविष्यदिति/ 492.011. यदि तस्य पापकं दृष्टिगतमुत्पन्नमभविष्यत्, कात्यायनो ऽपि भिक्षुः पांशुनावष्टब्धो ऽनयेन व्यसनमापन्नो ऽभविष्यदिति/ 492.013. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः/ 492.014. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुलेष्वेव कर्मस्वाभोगः करणीयः/ 492.015. इत्येवं वो भिक्षवः शिक्षितव्यमिति/ 492.016. भिक्षवो भगवतो भाषितमभ्यनन्दन्निति//
492.017. इति श्रीदिव्यावदाने रुद्रायणावदानं समाप्तम्//
********** अवदान 38 **********
493.001. दिव्38 मैत्रकन्यकावदानम्/
493.002. मातर्यपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर्मातरः शुश्रूषणीयाः/ 493.003. तद्यथानुश्रूयते--विकसितसितकुमुदेन्दुकुन्दकुसुमावलीगुणगणविभूषितः पूर्वजन्मान्तरोपात्ताप्रमेयानवद्यविपुलसकलसम्भारो धनदसमानरत्नाश्रयः स्वजनकृपणवनीपकभुज्यमानोदारविभवसारनिचयो मित्रो नाम सार्थवाहो बभूव/ 493.007. परोपकारैकरसाभिरामा विभूतयः स्फीततरा बभूवुः/ 493.009. तस्यार्यसत्त्वस्य नभस्यरात्रे करा नवेन्दोः कुमुदावदाताः//1//
493.011. तृष्णानिलैः शोकशिखाप्रचण्डैश्चित्तानि दग्धानि बहुप्रकारम्/ 493.013. आशावतां सप्रणयाभिरामैर्दानाम्बुषेकैः शमयाम्बभूव//2//
493.015. दृष्ट्वा लोकमिमं धनक्षयभयात् संत्यक्तदानोत्सवं लोकक्लेशपिशाचिकावशतया संदूषिताध्याशयम्/ 493.017. कारुण्यात् स ददावनाथकृपणक्लीबातुरेभ्यो धनं मत्वा च प्रहतार्णवोर्मिचपलं स्वं जीवितं भूयसा//3//
493.019. येषु व्यासज्जचेता भुजगवरवधूभोगभीमेषु लब्धा गाहन्ते पापगर्तं स्फुटदहनशिखाभीमपर्यन्तरन्ध्रम्/ 493.021. वाताघातप्रनृत्तप्रवरनरवधूनेत्रपक्ष्माग्रलोलांस् तानर्थानर्थिदुःखव्युपशमपटुभिः प्रोत्ससर्ज प्रदानैः//4//
493.023. तस्मात् पुत्रधनत्वात् पुत्राभिलाषिणो यदा मनोरथशतैरसकृदुन्मिषितोन्मिषिताः पुत्रश्रियः प्रसह्य स्फीततरवैरभारेन्धनवह्निनैव विगतनिखिलप्रतीकारदारुणप्रभावमहता सुकृतान्तलयईकपरायणाः क्रियन्ते स्म, यदासौ लोकप्रवादमात्रयापि पन्थानं समवतीर्य धनदवरुणकुबेरशंकरजनार्दनपितामहादीन् देवताविशेषान् पुत्रार्थम् याचितुमारेभे/ 493.027. यस्मिन् यस्मिंस्तनयसरसि स्वच्छपूर्णाम्बुपूर्णे वने(जाते)वृद्धिः समुदितमहावंशलक्ष्म्यम्बुजस्य/ 493.029. तत्तत्तस्य प्रबलविरसम् याति तीक्ष्णांशुमालैः शोषं मन्ये रविरिव जलं भागधेयार्कबिम्बम्//5//
494.001. <494>रुद्रं नैककपालशेखरधरं चक्रायुधं वज्रिणं स्रष्टारं मकरध्वजं गिरिसुतापुत्रं मयूरासनम्/ 494.003. गङ्गाशङ्खदलावदातसलिलांस्तांस्तांश्च देवानसौ पुत्रार्थी शरणम् ययौ बहु पुनर्दानं द्विजेभ्यो ददौ//6//
494.005. यद्यज्जनो मङ्गलदेशनाभिर्व्रतोपवासाधिगतैश्च दुःखैः/ 494.007. पुत्रार्थसंसिद्धिनिमग्नबुद्धिर्विक्षिप्य खेदं स चकार तांस्तान्//7//
494.009. एवमनेकप्रकारकायचेतसोरायासकारिभिरपि व्रतोपवासमङ्गलैर्यदा नैव कदाचित् काले ऽस्य पुत्रा जीविनो बभूवुः, तदैनमतिविपुले प्रगाढशोकापगाम्भसि निमज्जन्तं कश्चित् साधुपुरुषो ऽब्रवीत्-- 494.012. कर्माण्येवावलम्बन्ति देहिनां सर्वसम्पदः/ 494.013. भूतानां तुङ्गशृङ्गाद्वा विनिपातो न भूतये//8//
494.014. संक्लेशं बहवः प्राप्ताः पुत्रतृष्णार्तबुद्धिना/ 494.015. न च ते ऽद्यापि जीवन्ति तत्र किं परिखिद्यसे//9//
494.016. कर्माणि निर्मुच्य कथं भवेभ्यः स्वर्गौकसस्तुष्टिवशादिहेयुः/ 494.018. ये यैर्विना नात्मभवं लभन्ते ते तैर्विना जन्म कथं भजेरन्//10//
494.020. ये सांसारिकनैकदुःखदहनज्वालालतालिङ्गितास्ते वाञ्छन्ति नरामरोरगसुखं प्रायेण दानादिभिः/ 494.022. त्वं केनापि विडम्बसे जडमतिः पुत्राशयोन्मत्तको यस्त्वं द्यामधिगन्तुमिच्छसि बृहत्सोपानमालाश्रयात्//12//
494.024. विधिमपरमहं ते बोधयामि प्रसिद्ध्यै त्वमपि च कुरु तावत् संप्रसिद्ध्यै कदाचित्/ 494.026. यदि भवति सुतस्ते कन्यकानाम तस्य सकलजनपदे ऽस्मिन् ख्यापयस्व प्रसिद्ध्या//13//
494.028. अथ तस्य कालान्तरे गगनतलमंशुमालीव स्वकिरणनिकरैर्विराजमानं स्ववंशलक्ष्मीः पुत्रं जनयाम्बभूव/ 494.029. स च-- 494.030. निर्वान्तामलहेमशैलशिरसः प्रच्छेदगौरद्युतिः संपूर्णामलचन्द्रमण्डलसमच्छत्रोरुभास्वच्छिराः/
495.001. <495>मत्तैरावणचारुपुष्करकरव्यालम्बबाहुद्वयो भिन्नेन्दीवरफुल्लपत्रनिचयश्यामारुणान्तेक्षणः//14//
495.003. भूयः कल्पसहस्रसंचितमहापुण्यप्रभावोद्भवैः प्रव्यक्तस्फुरितेन्द्रचापरुचिरैः प्रह्लादिभिर्लक्षणैः/ 495.005. मूर्तिस्तस्य रराज चारुशिखराद्धेमम् यथा भूच्युतं प्रोद्गीर्णस्वमयूखजालजटिलै रत्नाङ्कुरैर्वेष्टितम्//15//
495.007. भ्रमरचमरपङ्क्तिश्यामकेशाभिरामं समविपुलललाटं श्रीमदुत्तुङ्गनासम्/ 495.009. तनयमुदितचेता मैत्रकन्याभिधानं दशदिवसपरेण ख्यापयामास लोके//16//
495.011. शरीरिणां वृद्धिकरैः समृद्धैर्विशेषयुक्तैर्विविधान्नपानैः/ 495.013. सुधावदातैः स्फुटचन्द्रपादैः पयोधिवेलेव ययौ समृद्धिम्//17//
495.015. धात्रीभिः स समुन्नीतः क्षीरैश्च सर्पिमण्डकैः/ 495.016. पुपोष सुन्दरं देहं ह्रदस्थमिव पङ्कजम्//18//
495.017. अथ तस्य पिता मित्रः सार्थवाहो वणिग्जनैः/ 495.018. द्रव्यैर्वहनमारोप्य जगाहे चोदधिं मुदा//19//
495.019. तिमिंगिलक्षोभविवर्धितोर्मिपयोदधौ मीनविपन्नपात्रे/ 495.021. पितर्यतीते जननीं जगाद चकार किं कर्म पिता ममेति//20//
495.023. ततो ऽस्य जननी पतिवियोगशोकग्लपितहृदया चिन्तामापेदे/ 495.024. आशापाशशताकृष्टो वारणस्येव मृत्यं न पश्यति/ 495.025. विषयास्वादकृपणो वारणस्येव बन्धनम्//21//
495.026. यद्यपि कथयिष्यामि पितरम् यानपात्रिकम्/ 495.027. एषो ऽपि मम मन्दाया नाशमेष्यति तोयधौ//22//
495.028. यावच्चायं जनपदमिमं तस्य वृत्तिं न भूतां पृच्छत्यस्मै कथयति न वा सर्व एवैष लोकः/ 495.030. तावद्युक्तं मम सुतमिमं मृत्युवक्त्रान्तरालं नानादुःखव्यसनगहनं व्याधिषक्तं निषेद्धुम्//23//
496.001. <496>परो ऽपि यः साधुजनानुजुष्टं विहाय मार्गं श्रयते विमार्गम्/ 496.003. निवारणीयः स स्वमताज्जनेन प्रयत्नतः किं पुनरेव पुत्रः//24//
496.005. ततो जननी कथयांचक्रे-- 496.006. पुत्र औकरिकत्वेन पिता ते मामपूपुषत्/ 496.007. यद्यहं सुखिता कार्या कार्षीरौकारिभूषणम्//25//
496.008. अथ मैत्रकन्यको बोधिसत्त्वो मातुर्वचनं कुसुममालामिव शिरसा समभिवन्द्य अन्यस्मिन्नहनि औकरिकापणं प्रससार/ 496.010. पुण्यसम्भारमहतस्तस्य सत्त्वदयावतः/ 496.011. प्रथमे ऽहनि संपन्नं चतुःकार्षापणं धनम्//26//
496.012. स्वगर्भसंधारणदुःखितायै ददौ स तस्यै मुदितो जनन्यै/ 496.014. दारिद्र्यदुःखव्यसनच्छिदायै धनं महाभोगफलप्रसूत्यै//27//
496.016. अथ ये तस्मिन् पुरवरे चिरंतना औकरिकाः, ते तस्य तामभिवर्धमानां क्रियविक्रयलोकमविषमव्यवहारनीत्या प्रकृतिप्रेमपेशलतया चावर्जितमनसस्तस्मिन् महासत्त्वे व्यवहारार्थमापतन्तमवलोक्य तं तस्मात्कर्मणो विनिवर्तनार्थमाहुह्-- 496.019. गान्धिकापणिकः श्रेष्ठी पितैतस्मिन् पुरे पुरा/ 496.020. स त्वं तां वृत्तिमुज्झत्वा श्रयसे ऽन्यां कया धिया//28//
496.021. अथ बोधिसत्त्वस्तामापि जीविकामपहाय गान्धिकापणं चकार-- 496.022. यस्मिन्नेव दिने चक्रे स साधुर्गान्धिकापणम्/ 496.023. कार्षापणाष्टकं तस्य तस्मिन्नेवोपपद्यते//29//
496.024. तमपि मात्रे प्रतिपादितवान्/ 496.024. अथ गान्धिकापणिकाः पुरुषाः समेत्यागत्य च तं महासत्त्वं विच्छन्दयामासुह्-- 496.026. गान्धापणं क्लीबजनाभिपन्नं पिता न वै माद्य पुरे(?) चकार/ 496.028. तत्रैव हैरण्यिकतां स कृत्वा धनानि भूयांसि समाप साधो//30//
496.030. अथ मैत्रकन्यको बोधिसत्त्वस्तामपि जीविकामपहाय हैरण्यिकापणं चक्रार/ 496.031. तयापि तस्मिन् व्यवहारनीत्या हैरण्यिकांस्तानभिभूय सर्वान्/
497.001. <497>लेभे दिने स प्रथमे महार्हः कार्षापणान् षोडश तान् ददौ च//31//
497.003. दिने द्वितीये द्वात्रिंशत् कार्षापणमुपार्ज्य सः/ 497.004. दक्षिणीयविशेषायै मात्रे तानपि दत्तवान्//32//
497.005. अथ हैरण्यिकापणिकाः पुरुषा समेत्यागत्य च तं तस्मात्कर्मणो विनिवर्तनार्थमाहुह्-- 497.006. शरच्चन्द्रांशुधवले लब्ध्वा जन्म कुले कथम्/ 497.007. कृपणां जीविकाहेतोर्वृत्तिमाश्रयते भवान्//33//
497.008. प्रभञ्जनोद्धूतशिखाकराले हुताशने विस्फुरितस्फुलिङ्गे/ 497.010. विवर्तितं श्लाघ्यमतीव पुंसां न तु स्ववृत्तेश्च्यवनं प्रवृत्तम्//34//
497.012. महोरगाश्वासविघूर्णितोग्रैस्तरंगभङ्गैर्विषमं पयोधिम्/ 497.014. अगाधपातालविलग्नमूलं पिता विगाह्यार्जितवान् धनं ते//35//
497.016. यदाश्रितं कर्म जनानुवर्जिना त्वया विदग्धेन धनेप्सुनाधुना/ 497.018. कथं न संप्राप्स्यसि भाग्यसम्पदं पितुर्व्यतीते ऽपि विशालिनीं श्रियम्//36//
497.020. वित्तेश्वरो ऽप्यर्थविभूतिविस्तरैर् नाशां सदर्थां विबभार यस्य/ 497.022. तस्या महेन्द्रामलतुल्यकीर्तेः सूनुः कथं त्वं न बिभर्षि लज्जाम्//37//
497.024. ये मृत्युं गणयन्ति नैव विपदि ग्रासं भजन्ते ऽनघ गेहे बन्धुषु सूनुषु व्यपगतस्नेहात्मनोद्योगिनः/ 497.026. ये नीत्वा जलधीनगाधसलिलानावर्तभीमान् बुधाः प्राप्यार्थान् गजदन्तभङ्गसितयासिन्वन्त कीर्त्या जगत्//38//
497.028. अथ मैत्रकन्यको बोधिसत्त्वस्तेभ्यो ऽपि तथानुगुणिनीं कथामवधार्य समुद्रावतरणकृतव्यवसायो मातरमुपसृत्योवाच--अम्ब, सार्थवाहः किलास्माकं पिता पुरा/ 497.029. तदनुज्ञां प्रयच्छ, यदहमपि महासमुद्रमवतरिष्यामीति/ 497.030. सा पूर्वमेव भर्तृमरणदुःखेन विगतजीविताशा स्वस्य तनयस्य तेनासम्लक्षितदारुणेन वियोगशोकशस्त्रेण भृशतरं प्रविदार्यमाणहृदयेव स्वतनयमाह-- 497.032. वत्स केन तवाख्यातं विनाकारणशत्रुना/ 497.033. जीवितं कस्य ते ऽनिष्टं त्वया क्रीडां करोति कः//39//
498.001. <498>दैवात् कथंचित्सम्प्राप्तं चक्षुरेकं त्वमद्य मे/ 498.002. पुत्रक्लेशाभागिन्या मृत्युना ह्रियसे ऽधुना//40//
498.003. न यावदेवं मम दुःखशल्यं प्रयाति नाशं प्रविदार्य शोकम्/ 498.005. कथं नु तस्योपरि मे द्वितीयं निपात्यते पापमयैरमित्रैः//41//
498.007. येषां चेतो विविधविरसायासदुःखाप्रकम्प्यम् यैः संत्यक्तं कृपणहृदयैर्जीवितं भोगलुब्धैः/ 498.009. ते संत्यक्त्वा नयनगलिताश्रुप्रवाहार्द्रवक्त्रान् बन्धूनज्ञा मकरनिलये मृत्यवे यान्ति नाशम्//42//
498.011. तन्मामनाथां प्रतिपालनीयां त्वज्जीविताशैकनिबन्धजीवाम्/ 498.013. संत्यज्य यातुं कथमुद्यमस्ते मा सा कथा मा नु वचो मदीयम्(?)//43//
498.015. स्वप्राणसंदेहकरीमवस्थां प्रविश्य नैकान्तसुखं प्रसाध्यम्/ 498.017. संपत्तयो येन वणिग्जनस्य ततो ऽहमेवं सुत वारयामि//44//
498.019. स तस्या हितार्थं मधुराण्यपि वचनकुसुमानि तृणमिवावधूय सप्रगल्भतया समवलम्बितविकत्थाशोभं किंचिदीदृशं प्रत्याह-- 498.021. वरं नैव तु जायेरन् ये जाता निर्धना जनाः/ 498.022. जातस्य यदि दुःखानि वरं मृत्युर् न जीवितम्//45//
498.023. आशया गृहमागत्य दीनदीनास्तपस्विनः/ 498.024. अर्थिनो मम पापस्य यान्ति निःश्वस्य दुर्मनाः//46//
498.025. ये शक्तिहीना विभवार्जनादौ ते देहिनो दुःखशतं सहन्ते/ 498.027. लोकं पुनर्दुःखशतोपतप्तं द्रष्टं न शक्नोमि चिरायमाणः//47//
498.029. तस्माद्विलङ्घामि वचस्त्वदीयम् यास्यामि तं त्वं प्रजहीहि शोकम्/ 498.031. तत्रैव यायां निधनं समुद्रे छिन्नं मया वा व्यसनं जनस्य//48//
499.001. <499>अथ मैत्रकन्यको बोधिसत्त्वो मातरमप्रमाणीकृत्य निर्गत्य गृहाद्वाराणस्यां पुर्यामात्मानं सार्थवाहमित्युद्धोषयामास/ 499.003. अस्यामेव पुरा पुरंदरपुरीप्रतिस्पर्धिपुर्यां वणिक् मित्रो नाम बभूव यत्सुरनरप्रख्यातकीर्तिध्वजः/ 499.005. पुत्रस्तस्य महासमुद्रमचिराद्यास्यत्यमुष्मिन्दिने यातुम् ये वणिजः कृतोपकरणास्ते सन्तु सज्जा इति//49//
499.007. अथ मैत्रकन्यको बोधिसत्त्वो विविधोपकरणसम्भारसाधनानां समागृहीतपुण्याहप्रस्थानभद्राणामुपहृतमङ्गलविविधानां वणिजां पञ्चभिः शतैः कृतपरिवारः प्रससार/ 499.008. माता चैनं गच्छतीति श्रुत्वाह--ममैकपुत्रक, क्व यास्यसीति करुणकरुणाक्रन्दितमात्रपरायाणा कोमलविमलकमलदलविलासालसाभ्यां पाणिकमलाभ्यां रुचिरकनकघटितघटविकटपयोधरवरोरुभासुरमुरः प्रगाढमभिताडयति/ 499.011. बाष्पसलिलधारापरम्परोद्भवोपरुध्यमानकण्ठी अनिलबलाकुलितगलितसजलजलदपटलावलीमलिनकेशपाशा सत्वरत्वरमभिगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोः परिष्वज्यैवमाह--मा मां पुत्रक परित्यजय यासीति/ 499.014. अनर्थरागग्रहमूढबुद्धयो नरा हि पश्यन्ति न केवलं हितम्/ 499.016. सतां हिताधानविधानचेतसां गिरो ऽपि शृण्वन्ति न भूतवादिनाम्//50//
499.018. मैत्रकन्यको ऽपि धरणि{तल}निंनां मातरं शोकवश्यां शिरसि कुपितचित्तः पादवज्रेण हत्वा/ 499.021. मुहुरुपचितशोकः कर्मणा प्रेर्यमाणस् त्वरितमतिरभूत् संप्रयातुं वणिग्भिः//51//
499.023. ततः सा माता समुत्थायाह--पुत्रक, 499.024. मयि गमननिवृत्तिं कर्तुमत्युद्यतायाम् यदुपचितमपुण्यं मच्छिरस्ताडनात्ते/ 499.026. व्यसनफलमनन्तं मा तु भूत् कर्मणो ऽस्य पुनरपि गुरुवाक्यं मातिगाः स्वप्नतो ऽपि//52//
499.028. अथ मैत्रकन्यको बोधिसत्त्वो विविधविहारायतनपर्वतोपवनगह्वरसरित्तडागारामरमणीयतराननेकनगरनिगमर्कटग्रामादीननुविचरन् क्रमेण समुद्रतीरं संप्राप्य सज्जीकृतयानपात्रो भुजगपतिवदनविसृतश्वसनचपलबलविलुलितविपुलविमलसलिलमरुणतरुणकिरणनिकररुचिरपद्मरागपुञ्जप्रभारागरञ्जितोर्मिमालाजलमसुरस्वरसमसुरपरसुरेश्वरकरोदरस्फुरितहुतवहशिखावलीकरालवज्रपतनभयनिलीनधरणीधरशिखरपराहतजलोद्धतोत्तुङ्गतरंगभङ्गरौद्रं समुद्रमवततार/
500.001. <500>महाअनिलोत्क्षिप्ततरंगभङ्गैः समुल्लसद्भिः खमिवोत्पतन्तम्/ 500.003. सरित्सहस्राम्बुरयप्रवाहैर्भुजैर्विलासैरिव गृह्यमाणम्//53//
500.005. प्रक्षुब्धशीर्षोरगभीमभोगव्यावर्तितोद्वर्तिततोयराशिम्/ 500.007. तन्मूर्ध्नि रत्नोद्गतरश्मिपुञ्जं ज्वालाकलापोच्छ्रुरितोर्मिचक्रम्//54//
500.009. अहिपतिवदनाद्विमुक्ततीव्रज्वलितविषानलदाहभीमशङ्खम्/ 500.011. तिमिनखकुलिशाग्रदारिताद्रिं तदचलपादहताम्बुमीनवृन्दम्//55//
500.013. तुङ्गतरंगसमुद्गततीरं तीरनिलीनकलस्वनहंसम्/ 500.015. हंसनखक्षतदारुणमीनं मीनविवर्तितकम्पितवेलम्//56//
500.017. रत्नलतावृतभासुरशङ्खं शङ्खसितेन्दुगभस्तिविवृद्धम्/ 500.019. वृद्धभुजंगमहाभवरौद्रं रौद्रमहामकराहतचक्रम्//57//
500.021. खगपतिसविलासपाणिवज्रं प्रहतविपाटितदृष्टिमूलरन्ध्रम्/ 500.023. प्रमुदितजलदन्तिदन्तकोटिप्रमथितनैकविलासकल्पवृक्षम्//58//
500.025. तदेव स संलक्ष्य तीरपर्यन्तरेखं प्रकटविकटार्तगर्तोदरभ्रमद्भ्रमितझषभुजगकुलमण्डलं नैकविचित्राद्भुताश्चर्यमतिशयमम्भसामालयमतिक्रामतस्तस्य धरणीधरशिखरविपुलात्मभावस्य मकरकरिपतेर्विवर्तमानस्य समुत्थितैरुर्वीधराकारदारुणैः प्रमुक्तकलकलारावरौद्रैर्महद्भिः सलिलनिवहैरुत्पीड्यमानं तद्यानपात्रं मरणभयविषादभ्रश्यमानगात्रैर्दीनरुदिताक्रन्दितमात्रपरायणैः सम्यानपात्रकैः सह सहैव सलिलनिधेरधः प्रवेष्टुमारब्धम्/ 500.030. उर्वीधराकारतरंगतुङ्गैरुग्रैर्युगान्तानिलचण्डवेगैः/ 500.032. तद्यानपात्रं जलधेर्जलौघैरास्फाल्यमानं विददार मध्ये//59//
501.001. <501>दंष्ट्राकराले झषववक्त्ररन्ध्रे कश्चिन्ममारार्तरवस्तपस्वी/ 501.003. केचिज्जलोद्गारनिरुद्धकण्ठा जग्मुर् निरुच्छ्वासगिरा व्यसुत्वम्//60//
501.005. गत्वापि केचित्फलकैर्महद्भिरम्भोनिधेस्तीरमवेक्षमाणाः/ 501.007. दूराम्बुसंतानपरिश्रमार्तास्त्रासाकुला नेदुरुदीर्णनादाः//61//
501.009. अथ मैत्रकन्यको बोधिसत्त्वस्तेन महता व्यसनोपनिपातेनाप्यनापतितभयविषाददैन्यायासमनाः समवलम्ब्य महद्धैर्यपराक्रमं ससम्भ्रमं फलकमादाय प्रससार/ 501.010. ततो ऽसौ समपवनगमनजवजनितसविलासगतिभिः सलिलप्लवैरितस्ततः समाक्षिप्यमाणो निराहारतया च परिम्लायमाननयनवदनकमलश्चान्यैर्बहुभिरहोरात्रैर्यथाकथंचित्तस्य दुर्वगाहसलिलस्य महार्णवस्य दक्षिणं तीरदेशमाससाद/ 501.014. तीर्त्वा तमम्भोनिधिमप्रगाधमासाद्य तीरं फलकं मुमोच/ 501.016. संस्मृत्य मातुर्वचनं स पाणा व्यासज्य मूर्धानमिदं जगाद//62//
501.018. शृण्वन्ति ये नात्महितं गुरूणां वाक्यं हितार्थोदयकार्यभद्रम्/ 501.020. तेषामिमानि व्यसनानि पुंसामावाहयन्ति प्रभवन्ति मूर्ध्नि//63//
501.022. तैरेव नैकव्यसनप्रदस्य तोयेन्दुबिम्बस्थितभङ्गुरस्य/ 501.024. प्राप्तं फलं जन्मतरोः सुधीभिर्ये मानयन्तीह गिरो गुरूणाम्//64//
501.026. मातुर्हितायैव सदोद्यतायाः प्रोल्लङ्घ्य वाक्यं मम दुष्कृतस्य/ 501.028. पुष्पम् यदीदृग्भरपापदारुणं प्रान्तं गमिष्यामि कदा फलस्य//65//
501.030. हुतवहहतलेखात्यन्तपर्यन्तरौद्रं गमनपतितमुग्रं विस्मयात्यन्तवज्रम्/ 501.032. गुरुशिरसि दधानः पादवज्रं खलो ऽहं कथमवनिविदार्यश्वभ्ररन्ध्रे न लग्नः//66//
502.001. <502>ये सन्तो हितवादिनां स्फुटधियां संपादयन्ते गिरिः श्रेयस्ते समवाप्नुवन्ति नियतं क्रव्यादपुर्याम् यथा/ 502.003. ये तूत्सृज्य महार्थसारदयितां वाचं श्रयन्ते ऽन्यथा दुस्तारे व्यसनोदधौ निपतिन्ताः शोचन्ति ते ऽहम् यथा//67//
502.005. ततो ऽसौ क्रमेण खदिरवरसरलनिचुलबकुलतमालतालनालिकेरद्रुमवनगहनं प्रवरवारणवराहचमरशरभशम्बरमहिषविषाणकर्षणपतितमथितविविधमालुलताजालदुःसंचरं क्वचित्क्षुभितकेसरिनिनादभयचकितवनचरकुलाकीर्णचरणं कथंचिदपि शबरमनुजजनचरणाक्षुण्णपर्यन्तमनुचरन् क्वचित् स्थित्वैवमाह-- 502.009. एते दाडिमपुष्पलोहितमुखाः प्रोन्मुक्तकोलाहला हासादर्शितदन्तपङ्क्तिविरसाः शाखामृगा निर्भयाः/ 502.011. सर्पान् भीमविषानलस्फुरदुरुज्वालाकरालस्फुटान् हत्वा पाणितलैः प्रयान्ति विवशाः फूत्कारभीता नुनः//68//
502.013. रम्ये कुङ्कुमशाखिनामविरलच्छायाकुथाशीतले मूले कोमलनीलशाद्वलवति प्रव्यक्तपुष्पोत्करे/ 502.015. वंशैस्तालरवैः सगीतमधुरैः प्रच्छेदसम्पादिभिः संगीताहितचतसः प्रमुदिता गायन्त्यमी किन्नराः//69//
502.017. ततो नातिदूरमतिसृत्य महीधरवराकारं पर्वतं ददर्श/ 502.018. क्वचिदुग्रतरचारुमणिप्रभया सुरभीकृतभीमगुहाविचरम्/ 502.020. क्वचिदुद्धतकिन्नरगीतरवं प्रतिबुद्धससम्भ्रमनागकुलम्//70//
502.022. चपलानिलवेल्लितपुष्पतरुं ततुमन्दिरमूर्ध्नि चलद्भ्रमरम्/ 502.024. भ्रमरध्वनिपूर्णगुहाकुहरं कुहरस्थितरौद्रभुजंगकुलम्//71//
502.026. पक्षिविराजितपर्वतशृङ्गं शृङ्गशिलातलसंस्थितसिद्धम्/ 502.028. सिद्धवधूजनरम्यनिकुञ्जं कुञ्जनिसेवितमत्तशकुन्तम्//72//
502.030. मत्तशिखण्डिकलस्वररम्यं रम्यगुहामुखनिर्गतसिंह/ 502.032. सिंहनिनादभयाकुलनागं नागमदाम्बुसुगन्धिसमीरम्//73//
503.001. <503>क्वचिदुपचितवारणदन्तशिखाशनिदारितशिखरततं प्रविरूढविलासशिखागरुवृक्षवनम्/ 503.002. क्वचिदुपरिपयोधरभारतरलध्वनिरञ्जितशिखिकुलाविष्कृतपिच्छकलापविचित्रितचारुतटम्/ 503.003. क्वचिदनिलविकम्पितपुष्पतरुं स्खलितोज्ज्वलसुरभिबलं कुसुमप्रबलप्रतिवासितसानुशिखम्//74//
503.004. तथापरं ददर्श-- 503.005. लिखन्तं करालैर् नभः शृङ्गजालैः क्षिपन्तं मयूखैस्तमः सागराणाम्/ 503.007. वहन्तं समभ्राम्बरामद्रिगुर्वीं क्षरन्तं क्वचित् काञ्चनाम्भःप्रवाहम्//75//
503.009. फलितामलकासनकल्पतरुं तरुखण्डविराजितसानुशिखम्/ 503.011. शिखरस्थितदेववधूमिथुनं मिथुनैर्दहतां वयसा मधुरम्//76//
503.013. क्वचिदर्कमहारथचक्रनिपातविखण्डितमयूखकलापकरालितनैकमहामणिपल्लवसंचयं मौलिभरावनतोन्नतभासुरवज्रधरम्/ 503.015. क्वचिदिन्द्रकरीन्द्रविमर्दतरंगनयभ्रमितप्रचलत्कलहंसकुलावलिहारनभस्सरिदम्बुविधौतशिलम्/ 503.017. क्वचिदण्डजराजविलाससमुच्छ्रितयक्षमहाभुजवज्रविपाटितसागरवारितलोद्धृतपन्नगभोगधरम्/ 503.019. क्वचिदेव सुरासुरसम्युगशस्त्रविपन्नमहासुरविद्रुतशोणितरङ्गमहावलयम्//77//
503.021. दृष्ट्वैवमाह-- 503.022. एते पर्वतशृङ्गवन्दनतरुच्छायास्थलं संसृताः कर्णप्रावरणं नवारुणकरच्छायासमानश्रियः/ 503.024. प्रेक्षन्ते मदवारिलोलमधुलिट्प्रोल्लीढगण्डस्थलं दर्पात् केसरिणो बलेन महता प्रोन्मथ्यमाना गजम्//78//
503.026. इत्येवमसावतिकान्तारदुर्गं सलिलफलाहारमात्रपरायणः परिभ्रन्नज्ञानतमःपटलावगुण्ठितमिव जगत् संसारपङ्के त्रिभुवनस्वामीवोदयद् रमणकं नाम नगरं ददर्श/ 503.028. समुच्छ्रितोत्तुङ्गचलत्पताकैः पतत्पतत्रिस्वनवावदूकैः/ 503.030. सुवर्णसालैर्मणिहेमशृङ्गैर्महीधराकारगृहैः सुगुप्तैः//79//
503.031. निलीनपद्मालिकुलालिपद्मैः समुन्मिषत्पद्मरजःपिशङ्गैः/
504.001. <504>कलप्रलापाण्डजरावरम्यैर्मन्दानिलैरावस्थीकृतं सदा//80//
504.003. सुरकरिकरजध्नकल्पवृक्षैर्मरकतरत्नतृणैः शुकांशुनीलैः/ 504.005. मणिकनकलतानिबद्धशाखैः क्वचिदुरुभिस्तरुभिः प्रकामहारि//81//
504.007. विकसितनवकर्णिकारगौरैः कनकगृहैर्बहुरत्नशृङ्गचित्रैः/ 504.009. स्वकिरणरुचिरोरुरत्नसानोरचलपतेः सकलश्रियं दधानम्//82//
504.011. क्वचिदमरविलासिनीकराग्रप्रहतमहामुरजस्वनाभिरामम्/ 504.013. क्वचिदुपरिपयोदतूर्यनादप्रमुदितमत्तशिखण्डिवृन्दकीर्णम्//83//
504.015. ततस्तद्दर्शनात् समुत्पन्नजीविताशो ऽसौ रमणं नगरमुपससर्प/ 504.015. तस्मान्नगराद्विनिःसृत्य चतस्रो ऽप्सरसो द्रवितनवकनकरसरागावदातमूर्तयः प्रविकसिताम्बुजकुसुमरुचकरुचिनयनयुगलोत्पलविलासाः क्वणद्रुचिरविविधमणिमेखलापभा(प्राग्भा)रमन्दविलासगतयः कनककलशाकारपृथुतरपओधरभरावनमिततनुमध्या दिवसकरकरस्पर्शविबोधिताम्लानकमलपलाशभासुराधरकिसलया विविधविभूषणशता निरामयदर्शनाः शिरसि विरचितोभयकमलाञ्जलयो मैत्रकन्यस्य बोधिसत्त्वस्य पादयोर्विन्यसितशिरसः प्राहुह्-- 504.021. सुस्वागतं चन्द्रसमाननाय नारीजनप्रीतिविवर्धनाय/ 504.023. कृपामृताह्लादितमानसाय बोधौ चिराबद्धविनिश्च्ययाय//84//
504.025. अद्यैव दुःखानि शमं गतानि अद्यैव नो जीवितमात्तसारम्/ 504.027. निरत्ययप्रेमविशेषभद्राण्यद्यैव सौख्यानि पुरः स्थितानि//85//
504.029. इमानि दुःखाङ्कुशखण्डितानि मनांसि नः शोकपरिक्षतानि/ 504.031. भवन्तमासाद्य वसन्तकाले वनान्तराणीव विजृम्भितानि//86//
505.001. <505>यान्यर्जितान्यन्यभवान्तरेषु कर्माणि शुक्लानि शुभोदयानि/ 505.003. तेषां फलं वीक्षणमेव ते ऽलं सङ्गस्त्वया किं पुनरेव दीघ्यम् (र्घ?) //87//
505.005. अद्यैव मा बन्धुसुहृद्वियोगशोकंकथाः कस्य न सन्त्यपायाः/ 505.007. दास्यो वयं ते ऽप्सरसश्चतस्रह् छाया न ते लङ्घयितुं समर्थाः//88//
505.009. रत्नानि वासांसि समुज्ज्वलानि शय्याश्रयाश्चारुतरा वयं च/ 505.011. संत्यभर्ताः सुरराजयोग्या शक्तिर्विधेनेह(?) सुखं भजस्व//89//
505.013. अपि च/ 505.014. दुःखे महत्यप्रतिकारघोरे ये वर्तमानाश्चिरमुद्वहन्ति/ 505.016. ते दुःखभारोपनिपातमूढास्तत्रैव शीघ्रं निधनं प्रयान्ति//90//
505.018. नित्ये वियोगे मरणात् पुरःस्थिते शोचन्ति ते देशकृते वियोगे/ 505.020. संस्मृत्य रोगोपनिपातमूढाः कामप्रहाराद्विषमं प्रपन्नाः//91//
505.022. शब्दायमानवरनूपुरमेखलाभिरादिश्यमानभवनं प्रवराप्सरोभिः/ 505.024. हैमाद्रिशृङ्गमिव तत्पुरमाविशन्तं नेमुः कृताञ्जलिपुटा बहवो ऽपि तत्र//92//
505.026. अन्यैश्च पुनह्-- 505.027. किं दीप्तरश्मिर्विनिगूढरश्मिः किं पुष्पकेतुः सहसावतीर्णः/ 505.029. हा किं विनिक्षिप्य खराग्रवज्रो नाथः सुराणामिति तर्कितो ऽभूत्//93//
505.031. तिमिरनिकरलेख्याः श्यामलोपक्ष्मलेख्याह्(?) स्फुटितकनकहारा न्यस्तरत्नोज्वलाङ्गाः/
506.001. <506>विपुलभवनमालाजालवातायनस्थाः प्रमुदितमनसो ऽन्याश्चिक्षिपुः स्रस्तकाञ्चयः//94//
506.003. रत्नप्रदीपप्रहतान्धकारं मुक्ताफलप्ररुचिरोरुहर्म्यम्/ 506.005. चलत्पताकाग्रविभिन्नमेघं गेहं विवेशाप्सरसां हि तासाम्//95//
506.007. तासां विलासैर्गमनैः सलीलैर्हासैः कटाक्षैर्मधुरैः प्रलापैः/ 506.009. क्रीडन् स कालं न विवेद यातं सर्वात्मना रागपरीतचेताः//96//
506.011. प्रत्यहं च दक्षिणेन गमनं वारयन्ति स्म/ 506.011. सो ऽपि यथा यथा निवार्यते, तथा तथा तया दिशा गमनायौत्सुक्यमना बभूव/ 506.013. यत्रायं वार्यते लोको जनेन हितबुद्धिना/ 506.014. विपर्यस्तमतिस्तत्र जनः स परिधावति//97//
506.015. यदि कुर्यादयं लोके सुहृदां वचनं हितम्/ 506.016. परैति स्वर्गं पाताले श्वभ्रे वा स्वप्नतो ऽपि न//98//
506.017. अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसामपरिज्ञातगमनप्रयोजनो दक्षिणस्यां दिशि पदवीमारुह्य व्रजन् सदामत्तकं नाम नगरं ददर्श/ 506.018. तस्मादपि नगरादष्टाप्सरसः ससम्भ्रमं निःसृत्य तं महासत्त्वं प्रवेशयामासुः/ 506.019. तत्राप्यतिचिरं रतिमनुभूय प्रतिषिद्धमानगमनक्रियस्तेनैव दक्षिणेन पथा गच्छन्नन्दनं नाम नगरं ददर्श/ 506.020. तस्मादपि षोडशाप्सरोभिरभिगम्य सत्कृत्य प्रवेशयामासे/ 506.021. तत्रापि चिरं क्रीडां सेवित्वा तस्मादपि ब्रह्मोत्तरं नाम नगरं प्रययौ/ 506.021. तत्रापि द्वात्रिंशताप्सरोभिः प्रभूतसत्कारं विषयसुखं भुक्त्वा ताः प्राह-- 506.023. इच्छामि गन्तुं तदहं भवन्त्यो मा मत्कृते शोकह्रदे शयीध्वम्/ 506.025. संपातभद्राणि हि कस्य नाम विश्लेषदुःखानि न सन्ति लोके//99//
506.027. स्थित्वापि येनैव चिरं वियोगः शत्रोः कृतान्ताद्भवितान्तकाले/ 506.029. तेनैव नेत्राश्रुजलार्द्रगण्डान् युष्मान् विहायाद्य यियासुरस्मि//100//
506.031. वाताहताम्भोधितरंगलोले ये जीवलोके बहुदुःखभीमे/
507.001. <507>विश्लेषदुःखाय रतिं प्रयान्ति तेषां परो नास्ति विमूढचेताः//101//
507.003. अथाप्सरसस्ताः समस्तास्तद्गमनवियोगशोकरोपितहृदयाः ससम्भ्रमाः कमलकुवलयकुन्मलविलासा नलिन्य इव शिरसि विरचितोभयकमलाञ्जलयः प्राहुह्-- 507.005. अस्मासु ते कर्तुमनिष्टमिष्टं कथं हि भक्तिप्रणयार्पितासु/ 507.007. सो ऽन्येन एकग्रहणीयरूपः शरीरदानेन वयो ऽग्रहीत्ते//102//
507.009. गत्वा तन्नगरत्रयम् यदपि हे स्वामिन्निहाप्यागतः संप्राप्ता विषयोपभोगमधुराः संपत्तयस्ते चिरम्/ 507.011. गन्तव्यं न पुनस्त्वया सुबहुना प्रोक्तेन किम् यासि चेत् संस्मर्तासि विपत्समुद्रपतितो वाक्यं हि नो दुःखितः//103//
507.013. बोधिसत्त्वः प्राह-- 507.014. यदभ्यासवशान्नृर्णामुदयः संपदस्थिरा/ 507.015. कथं तेषु निवार्येरन्निवर्तेरन् कथं नु वा//104//
507.016. नियोजनीयाः सुहृदो ऽसुहृद्भिर् यस्मिन् हिते कर्मणि नित्यकालम्/ 507.018. निवारणं तत्र तु ये प्रकुर्वते ते शत्रवो मित्रतया भवन्ति//105//
507.020. दिव्यं प्राप्य सुखं पुरे रमणके संचोदितः कर्मणा आयातो ऽस्मि निषेवणाय परं सौख्यं सदामत्तकम्/ 507.022. संप्राप्तो ऽस्मि ततः स्वकर्मकुशलेनेष्टं पुरं नन्दनं तस्मादागतकस्य यूयमधुना प्रोन्मूलिता भूमयः//106//
507.024. तस्मादतो मे गमनं भवन्त्यो मा वारयध्वं न हि नो ऽस्त्यपायः/ 507.026. अस्माद्विशेषाणि सुखानि मन्ये लप्स्ये ऽहमित्युच्चलितो ऽहमद्य//107// इति/ 507.028. अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसां हितमपि वाक्यमहितमिवावज्ञया तिरस्कृत्य तेनैव दक्षिणेन पथा गच्छन् ददर्श महार्गलप्रघटितप्रकटपुटचतुर्द्वारदारुणं सुरेश्वरेणाप्यभेद्योत्तुङ्गायसविशालप्राकारपरिवेष्टितमन्तर्भ्रमच्चक्रमण्डलालोकप्रमुक्तदमदमाशब्दगम्भीरभैरवमायसं नगरम्/ 507.031. तस्य च द्वारदेशमुपचक्राम/
508.001. <508>सम्प्राप्तमात्रस्य तु तत्क्षणेन द्वारं च पुस्फोट कपाटभारम्/ 508.003. वज्राग्रधारोपरिभिन्नसानोर्विन्ध्याचलस्येव नितम्बकुक्षिः//108//
508.005. ततो मैत्रकन्यको बोधिसत्त्वो ऽत्र विवेश/ 508.006. प्रविष्टमात्रस्य तु तत्क्षणेन द्वारं परिक्षिप्तकपाटयन्त्रम्/ 508.008. तत्कर्मवायुप्रभवैर्महद्भिः क्षणाद्भुजाग्रैरिव संजघाट//109//
508.010. अश्रौषीच्च प्रगाढवेदनाविक्लवहृदयपुरुषस्यान्तःप्राकारान्तरतिरस्कृतपरमभीषणनिर्नादं सकलजनोत्त्रासनमुच्चरन्तम्/ 508.011. श्रुत्वा च द्वारदेशं त्वरितमतिर्ललङ्घ/ 508.012. प्रविष्टमात्रस्य ततो द्वितीयमास्फालितं द्वारमिवापरुद्धम्/ 508.014. पर्यन्तकालानिलवेगविद्धं द्वारं सुराणामिव वज्रकल्पम्//110//
508.016. ततो मैत्रकन्यको बोधिसत्त्वः प्रविवेश/ 508.017. प्रविष्टमात्रस्य पुनस्तृतीयं द्वारं परिक्षिप्तकपाटयन्त्रम्/ 508.019. क्षणादभूत्तन्नगरं च सर्वं भ्रान्तं च कृत्स्नं स ददर्श भीतः//111//
508.021. ततो मैत्रकन्यको बोधिसत्त्वः पश्यति स्म तमतिदारुणाकारप्रमाणं क्रूराज्वलनमालालिङ्गितमुदारेण पटुपवनविकीर्यमाणधूमपटलान्धकारदुर्दिनेन स्फुरत्क्फुलिङ्गावलिकरालदर्शनेनायसेन महता भ्रमता चक्रेण दार्विव प्रविदार्यमाणमूर्धानं स्वशिरःप्रविगलितशोणितवसारसाहारमात्रविधृतप्राणशेषम्/ 508.024. समीपं चोपगम्यैनं पर्यपृच्छत्-- 508.025. किं नागो ऽसि सुरो ऽसि किन्नरवरो यक्षो ऽसि किं मानुषः किं विद्याधरसैनिकः किमसि वा दैत्यः पिशाचो ऽसि वा/ 508.027. किं वाकारि भवान्तरेषु भवता कर्मातिरौद्रं स्वयम् यास्यामि व्यसनं दुरुत्तरमिदं भुज्यं फलं क्रन्दयत्//112//
508.029. पुरुषः प्राह-- 508.030. नाहं नागो नैव यक्षो न देवो दैत्यो नाहं नापि गन्धर्वराजः/
509.001. <509>रक्षो नाहं नापि विद्याधरो ऽपि जातिस्तुल्या संप्रतीहि त्वया नः//113//
509.003. बोधिसत्त्वः प्राह-- 509.004. किं कर्म भ्रमता त्वया कुमतिना संसारदुर्गे कृतम् येनेदं ज्वलितानलं शिरसि चक्रं भ्रमत्यायसम्/ 509.006. पुरुषः प्राह-- 509.007. नानादुष्करकारिका भगवती संसारसंदर्शिका तत्र श्रेयःसुखोपपादनपरा मत्स्नेहबद्धाशया//114//
509.009. यां लोके प्रवदन्ति साधुमतयः क्षेत्रं परं प्राणिनां दैवावेशवशादकार्यगुरुकस्तस्या जनन्या महत्/ 509.011. साधो प्रास्खलयं शिरःप्रहरणं पादेन पापाशयस् तेनेदं ज्वलितानलं शिरसि मे चक्रं भ्रमत्यायसम्//115//
509.013. अथ बोधिसत्त्वस्तस्य पुरुषस्य प्रवचनप्रतोदेन संचोदितहृदयस्तां परजुगुप्सामात्मन्यनुपश्यन्नाह-- 509.015. अन्यं जुगुप्साम्यहमल्पबुद्धिरात्मानमेवाद्य निनिन्द अज्ञः/ 509.017. येषु स्वयं दोषगुणेषु मग्नस् तैरेव लोकं कथमङ्कयामि//116//
509.019. मयापि यन्मातरि दक्षिणीयैह् (णायाम्?) कृतो ऽपराधः पुरुषाधमेन/ 509.021. तस्यैव पापस्य फलानि भोक्तुमुल्लङ्घ्य तोयावलिमागतो ऽस्मि//117//
509.023. अथ तस्य वचनानन्तरमेव प्रभिन्ननवकुवलयदलनिर्मलान्नभस्तलात् सजलजलदनिनादगम्भीरधीरो ध्वनिरुच्चचार-- 509.025. किं न पश्यति कर्माणि बलवन्ति शरीरिणाम्/ 509.026. लोकालोकान्तरस्थायी पाशेनेव विकृष्यते//118//
509.027. ये बद्धा विषयेण दुःखनिगडेनायासकर्मोत्कटे ये त्यक्त्वा गुरुवाक्यमन्धमतयः पापाश्रयं कुर्वते/ 509.029. मुक्ताः कर्मभिरेव दुःखनिगडप्रच्छेदशूरैः शुभैर् मानुष्यम् यदवाप्य मूढमतयो दूरे स्थिता जर्मिणह् (जन्मिनह्?) //119//
509.031. अथ तस्य वचनानन्तरमेव कर्मानिलावेगोत्क्षिप्तमिव तच्चक्रं चिटिचिटायमानदहनकणचयोद्गाररौद्रं तस्य मूर्ध्नः समभ्युद्गम्य मैत्रकन्यकस्य बोधिसत्त्वस्य शिरः प्रविदारयद् भ्रमितुमारब्धम्/ 509.034. क्षणात्स रेजे रुधिरप्रवाहैर्मूर्ध्ना च्युतैः स्नातसमस्तमूर्तिः/
510.001. <510>प्रभिन्नचक्राग्रविभिन्नमूर्ध्ना ऐरावणस्येव तनुः पतन्ती//120//
510.003. ततः स पुरुषो हा हेति मूर्ध्ना प्रविदाहजेन तीव्रेण दुःखेन समाक्रम्यमाणशरीरकं मैत्रकन्यकं बोधिसत्त्वमाह-- 510.005. दिव्याङ्गनागीतमनोहराणि चित्तप्रमोदोदयसाधनानि/ 510.007. संत्यज्य कर्माद पराणि तानि प्राप्तस्त्विदं स्थानमनन्तदुःखम्//121//
510.009. देवालयं दिव्यसुखोपभोगं को नाम संप्राप्य शुभैरतुल्यैः/ 510.011. नित्यं ज्वलद्वह्निशिखाकरेण संप्रार्थयेद्भीममपायगर्तम्//122//
510.013. बोधिसत्त्वः प्राह-- 510.014. सत्तालिकोलाहलसंकुलानि वनानि पुष्पोज्ज्वलमस्तकानि/ 510.016. संत्यज्य नागा व्यसनं सहन्ते यया तयेच्छालतया गतो ऽहम्//123//
510.018. राज्यानि विस्तीर्णधनोज्ज्वलानि विहाय नारीमुखपङ्कजानि/ 510.020. युद्धे म्रियन्ते बहवो नरेन्द्रा यया तयेच्छालतया गतो ऽहम्//124//
510.022. समुत्पतत्तुङ्गतरंगरोद्रौ भ्रमज्जलावर्तविमुक्तनादे/ 510.024. महोदधौ यान्ति नराः प्रणाशम् यया तयेच्छालतया गतो ऽहम्//125//
510.026. निरत्ययात्यन्तिकसौख्यसाधनं नरामरश्रीसुखसिद्धिमार्गम्/ 510.028. मुनीश्वराणां व्रतमुत्सृजन्ति यया तयेच्छालतया गतो ऽहम्//126//
510.030. तेषां मुनीनां विगतव्यथानां देयं कथं पादरजेन मूर्ध्नि/ 510.032. यैर्लङ्घितास्तीव्रविषप्रचण्डा आशाप्रपाता बहुदुःखभीमाः//127//
511.001. <511>किं तद्भवेद्दुःखमतीव तीव्रं का वा विपत्तिर्बहुदुःखयोनिः/ 511.003. तृष्णाविषाग्निक्षतचित्तवृत्तेर्या दूरतः संपरिवर्तिनी स्यात्//128//
511.005. अपि च हे साधो, 511.006. कर्मणा परिकृष्टो ऽस्मि वर्तमानो ऽपि दूरतः/ 511.007. कर्षति प्राणिनस्तत्र फलम् यत्र प्रयच्छति//129//
511.008. अपि च-- 511.009. कति वर्षसहस्राणि कति वर्षशतानि च/ 511.010. प्रदीप्तमायसं चक्रं मम मूर्ध्नि भ्रमिष्यति//130//
511.011. पुरुषः प्राह-- 511.012. षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च/ 511.013. प्रदीप्तमायसं चक्रं तव मूर्ध्नि भ्रमिष्यति//131//
511.014. बोधिसत्त्वः प्राह-- 511.015. एतद्भासुरवह्निपिङ्गलशिखाज्वालाकलापोज्ज्वलं को ऽन्यो ऽवभ्रमितं प्रयास्यति समं छित्त्वा परश्चैष्यति/ 511.017. पुरुषः प्राह-- 511.018. यो मातर्यपकारकर्तुमनसः कृत्वा समायास्यति तस्येदं शिरसि भ्रमिष्यति पुनर्मूर्ध्ना तव प्रच्युतम्//132//
511.020. अथ बोधिसत्त्वस्तेन मूर्ध्ना प्रविदाहजेन तीव्रेण दुःखेन समाकुलहृदयो ऽपि सत्त्वेष्वनन्तेषु समुत्पादिततीव्रकारुण्याशयस्तं पुरुषमाबभाषे-- 511.022. क्षपितसकलरागक्लेशजालान्धकारा गगनतलनिलीना योगिनो ये नमस्याः/ 511.024. स्फुरितकटकहाराः प्रज्वलन्मौलयो ये पुनरमरसमूहास्ते ऽपि शेण्वन्तु सन्तः//133//
511.026. कृत्वा दुश्चरितं स्वमातरि जगत्कृत्स्नम् यदि प्रोद्वहेदेतत्प्रज्वलिताग्निरागकपिलं चक्रं बृहन्मूर्धनि/ 511.028. कल्पं कल्पसमैरहोभिरयुतान् वोढुं चिरायोत्सहे सत्त्वार्थं प्रतिपद्यमानमस्य हि मे चित्तं न संखिद्यते//134//
511.030. अथ तस्य सर्वसत्त्वप्रियस्य मैत्रकन्यकस्य बोधिसत्त्वस्य वचनानन्तरमेव मूर्ध्ना समुत्पाट्योत्क्षिप्तमिव तच्चक्रं सप्ततालोच्छ्रयाच्चक्रं नभस्तलं समुत्पत्यावतस्थे/ 511.032. रेजे तच्चपलानिलाहतचलज्ज्वालाकलापोज्ज्वलं चक्रं खे परिवर्तमानमसकृत्प्रोन्मुक्तभीमस्वनम्/ 511.034. उद्यद्बिम्बमिवारुणस्य सकलप्रोन्मुक्तरश्म्युत्करं रत्नाद्यैः प्रविलम्बमानममलैर्वैडूर्यभित्त्याश्रयैः//135//
512.001. <512>ततः स्रवन्निर्झरवारिचारिणः समीरणोल्लासितपुष्पशाखिनः/ 512.003. नभो विचुम्ब्यायतशृङ्गबाहवश्चकम्पिरे भूमिभृतो हता इव//136//
512.005. भुजंगविक्षोभसमुद्गतोर्मयः पयोधरध्वानगभीरनादिनः/ 512.007. जलालया रत्नशिखानिवासिनस्तदातिवेलासलिलैर्ललङ्घिरे//137//
512.009. प्रमुक्तनिःशेषमयूखभासुरं रराज खे मण्डलमंशुमालिनः/ 512.011. रवेर्मयूखाङ्कुरदन्तुरान्तराद्दिशः समन्ताद्ददृशुः स्फुटश्रियः//138//
512.013. स्फुरत्तडिद्दामविराजितोरसः सुरेन्द्रचापप्रतिबद्धकङ्कणाः/ 512.015. पयोमुचः किंचिदवास्रुताम्भसो वितानवद्व्योमनि ते विरेजिरे//139//
512.017. स्रजो विचित्रा विनिपेतुरम्बरात् वितुष्टुवुर्हृष्टतरा दिवौकसः/ 512.019. चिरप्रगाढव्यसना हतार्तयः क्षणादभूवन् बहवो निरामयाः//140//
512.021. ज्वलति विषमचक्रे प्रान्तदीर्णोर्ध्वकायो गलितरुधिरधारासिक्तसर्वाङ्गकायः/ 512.023. भगवति गुणराशौ संप्रसाद्य स्वचित्तं स्वगृहमिव स साधुर्द्यामयात्तत्क्षणेन//141//
512.025. दानोदकमहत्तीर्थे शीलशौचसुनिर्मले/ 512.026. क्षमासुरभिशीताच्छे वीर्यागाधप्रवाहके//142//
512.027. ध्यानस्तिमितगम्भीरे प्रज्ञापद्मप्रबोधके/ 512.028. तस्मिन् बोधिमहातीर्थे स्थित्वा बोधिपुरोत्सुकः//143//
512.029. प्रक्षालयेच्छेषपापं तुषिते ऽसौ ययौ मुदा/ 512.030. तत्रस्थो ऽप्यचिरं रेमे दृष्ट्वा लोकं कृपान्वितः//144//
512.031. तत्किमिदमुपनीतम्? एवं हि मातर्यपकारिणः प्राणिनह् इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानसानसैः सत्पुरुषैर्मातरः शुश्रूषणीया इति//
512.033. इति श्रीदिव्यावदाने मैत्रकन्यकावदानं समाप्तम्//
== end of the divyavadana ==
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
