Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
दिव्यावदान
- Thông tin
- GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
431.011. अस्थानमनवकाशो यद्बुद्धा भगवन्तः पदशो धर्मं वाचयिष्यन्ति नेदं स्थानं विद्यते/ 431.012. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--इमं पाठय त्वमानन्द पन्थकम्/ 431.012. आयुष्मानानन्दस्तं पाठयितुमारब्धः/ 431.013. स न शक्नोति पाठयितुम्/ 431.013. आयुष्मानानन्दो भगवन्तमिदमवोचत्--मया तावद्भदन्त शास्तुरुपस्थानं करणीयम्, श्रुतमुद्ग्रहीतव्यम्, गणो वाचयितव्यः/ 431.014. आगतगतानां ब्राह्मणगृहपतीनां धर्मो देशयितव्यम्/ 431.015. नाहं शक्ष्यामि पन्थकं पाठयितुम्/ 431.015. भगवता तस्य द्वे पदे दत्ते--रजो हरामि, मलं हरामीति/ 431.016. तस्यैतत्पदद्वयं न लेभे/ 431.016. भगवान् संलक्षयति/ 431.017. कर्मापनयो ऽस्य कर्तव्यमिति/ 431.017. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--शक्ष्यसि त्वं पन्थक भिक्षूणामुपानहान्मूलाच्च प्रोञ्छितुम्/ 431.018. परं भदन्त शक्ष्यामि/ 431.018. गच्छ प्रोञ्छस्व/ 431.019. स भिक्षूणामुपानहान्मूलाच्च प्रोञ्छितुमारधः/ 431.019. तस्य ते भिक्षवो नानुप्रयच्छन्ति/ 431.019. भगवानाह--अनुप्रयच्छत, कर्मापनयो ऽस्य कर्तव्य इति/ 431.020. पदद्वयस्य दास्ये स्वाध्यायनिकाम्, अनुप्रयच्छत/ 431.021. स भिक्षूणामुपानहान्मूलं क्रमतश्च प्रोञ्छते/ 431.021. तस्य ते भिक्षवः पदद्वय्स्य स्वाध्यायनिकामनुप्रयच्छन्ति/ 431.022. तस्यैतत्पदद्वयं स्वाध्यायतः कालान्तरेण प्रवृत्तं जातम्/ 431.023. अथायुष्मतः पन्थकस्य रात्र्याः प्रत्यूषसमये एतदभवत्--भगवानेवमाह--रजो हरामि, मलं हरामीति/ 431.024. किं नु भगवानाध्यात्मिकं रजः संधायाह आहोस्विद्बाह्यम्? तस्यैवं चिन्तयतस्तस्यां वेलायामष्रुतपूर्वास्तिस्रो गाथा आमुखीप्रवृत्ता जाताह्-- 431.026. रजो ऽत्र रागो न हि रेणुरेष रजो रागस्याधिवचनं न रेणोः/ 431.028. एतद्रजः प्रतिविनुदन्ति पण्डिता न ये प्रमत्ताः सुगतस्य शासने//3//
431.030. रजो ऽत्र द्वेषो न हि रेणुरेष रजो द्वेषस्याधिवचनं न रेणोः/
432.001. <432>एतद्रजः प्रतिविनुदन्ति पण्डिता न ये प्रमत्ताः सुगतस्य शासने//4//
432.003. रजो ऽत्र मोहो न हि रेणुरेष रजो मोहस्याधिवचनं न रेणोः/ 432.005. एतद्रजः प्रतिविनुदन्ति पण्डिता न ये प्रमत्ताअः सुगतस्य शासने//5//
432.007. तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 432.008. अर्हन् संवृत्तस् त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः/ 432.010. सेन्द्रोपेन्द्राणां देवानां मान्यश्च पूज्यश्चाभिवाद्यश्च संवृत्तः/ 432.010. ध्याने निषण्ण आयुष्मता महापन्थकेन दृष्टः/ 432.011. असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते/ 432.011. स तेन बाहौ गृहीत्वोक्तह्--आगच्छ स्वाध्यायिनिकां तावत्कुरु, ततः पश्चाद्ध्यायिष्यसीति/ 432.012. अथायुष्मता पन्थकेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, गजभुजसदृशो बाहुरुत्सृष्टः/ 432.013. आयुष्मता महापन्थकेन पृष्टतो मुखं व्यवलोकयता दृष्टः/ 432.014. स कथयति--आयुष्मन् पन्थक, एवं ते त्वया गुणगणा अधिगताह्? अधिगताः//
432.016. यदा आयुष्मता पन्थकेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, अन्यतीर्थिका अवध्यायन्ति ध्रियन्ति विवाचयन्ति/ 432.017. श्रमणो गौतम एवमाह--गम्भीरो मे धर्मो गम्भीरावभासो दुर्दृशो दुर्नुबोधो ऽतर्को ऽतर्कावचरः, सूक्षुमो निपुणपण्डितविज्ञवेदनीयः/ 432.018. अत्रेदानीं किं गम्भीरो ऽस्य, यस्येदानीं पन्थकप्रभृतयश्चूडाः परमचूडा धन्वाः परमधन्वाः प्रव्रजन्ति/ 432.020. भगवान् संलक्षयति--सुमेरुप्रख्ये महाश्रावके महाजनकायः क्षान्तिं गृह्णाति/ 432.020. गुणोद्भावना अस्य कर्तव्या/ 432.021. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द, पन्थकस्य कथय--भिक्षुण्यस्ते अववदितव्या इति/ 432.022. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येनायुष्मान् पन्थकस्तेनोपसंक्रान्तः/ 432.023. उपसंक्रम्यायुष्मन्तं पन्थकमिदमवोचत्--शास्ता त्वामायुष्मन् पन्थक एवमाह--भिक्षुण्यस्ते अववदितव्या इति/ 432.024. आयुष्मान् पन्थकः कथयति--किमर्थं स्थविरस्थविरान् भिक्षूनपहाय मां भगवान् भिक्षुण्यववादकमाज्ञापयति? ममैव गुणोद्भावना कर्तव्येति शास्तुर्मनोरथं परिपूरयिष्यामीति/ 432.026. भिक्षुण्यश्छन्दहानिसह्(?) जेतवनमागताः/ 432.027. ता भिक्षून् पृच्छन्ति--भगवता को ऽस्माकमववादक आज्ञप्तह्? ते कथयन्ति--आयुष्मान् पन्थकः/ 432.028. ताः कथयन्ति--भगिन्यः, पश्यत कथं मातृग्रामः परिभूतः/ 432.028. येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता/ 432.029. भिक्षुण्यस्त्रिपिटा धार्मकथिका युक्तमुक्तप्रतिभानाः/ 432.030. स किल भिक्षुणीरववदिष्यतीति/ 432.030. ताः पर्षदमागता भिक्षुणीभिः पृष्टाह्--भगिन्यः, को ऽस्माकमववदितुमागमिष्यति? ताः कथयन्ति--आर्यपन्थकः/ 432.031. किमार्यो महापन्थकह्? न ह्ययम्, स त्वन्यश्चूडापन्थकः/ 432.032. द्वादशवर्गीयाभिः श्रुतम्/ 432.032. तावदवध्यायन्ति/
433.001. <433>भगिन्यः पश्यत, कथं मातृग्रामः परिभूतह्? येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता/ 433.002. इमा भिक्षुण्यस्त्रिपिटा धर्मकथिका युक्तमुक्तप्रतिभानाः, स किल किमासामववदिष्यतीति? ताः कथयन्ति--भगिन्यः, षड्जन्यो द्वादशहस्तिकाभिर्लताभिः सिंहासनं प्रज्ञपयन्तु/ 433.004. षड्जन्यः श्रावस्त्यां प्रविश्य रथ्य रथ्यावीथिचत्वरशृङ्गाटकेष्वारोचयन्तु--सो ऽस्माकं तादृशो ऽववादक आगमिष्यति, यो ऽस्माकं तनुसत्यानि न द्रक्ष्यति/ 433.005. तेन संसारे चिरं वस्तव्यं भविष्यतीति/ 433.006. येन न कश्चित् पुत्रमोटिकापुत्रो ऽल्पश्रुत उत्सहते भिक्षुणीरववदितुम्/ 433.007. तासां षड्भिर् जनीभिर् द्वादशहस्तिकाभिर् लताभिः संहासनं प्रज्ञप्तम्, षड्भिक्षुणीभिः श्रावस्तीं प्रविश्य रथ्यावीथिचत्वरशृङ्गाटकेष्वारोचितम्--सो ऽस्माकं तादृशो ऽववादक आगमिष्यति, यो ऽस्माकं तनुसत्यानि न द्रक्ष्यति/ 433.009. तेन संसारे चिरं वस्तव्यं भविष्यतीति/ 433.010. आयुष्मान् पन्थकः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्/ 433.011. कृतभक्तकृत्यः पश्चाद्भक्तापिण्डपात्रप्रतिक्रान्तः पात्रचीवरं प्रतिसमय्य पादौ प्रक्षाल्य विहारं प्रविष्टः प्रतिसम्लयनाय/ 433.012. अथायुष्मान् पन्थकः सायाह्ने प्रतिसम्लयनाय व्युत्थाय संघाटीमादाय अन्यतमेन भिक्षुणा पश्चाच्च्रमणेन संप्रस्थितः/ 433.013. अनेकानि प्राणिशतसहस्राणि--कानि च कुतूहलजातानि, कानिचित् पूर्वकैः कुशलमूलैः संचोद्यमानानि/ 433.014. अद्राक्षीत् सा परिषत् आयुष्मन्तं पन्थकं दूरादेव/ 433.015. दृष्ट्वा च पुनः परस्परं पृच्छति--कतरो ऽत्र भिक्षुण्यववादकह्? किं
पुरःश्रमणः, आहोस्वित् पश्चाच्छ्रमणह्? तत्रैके कथयन्ति--पुरःश्रमणः/ 433.016. ते ऽवध्यायितुमारब्धाह्--पश्यत भदन्त, संचिन्त्य वयं भिक्षुणीभिर्विहेठिताः/ 433.017. येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता, स किं भिक्षुणीरववदिष्यति, धर्मं वा वाचयिष्यति? गच्छामः/ 433.019. अपरे कथयन्ति--तिष्ठामो यदि धर्मं देशयिष्यति, श्रोष्यामः/ 433.019. अथ न, गच्छामः/ 433.019. इति सा पर्षत् समवस्थिता/ 433.020. आयुष्मता पन्थकेन सिंहासनं दृष्टं प्रज्ञप्तकं दृष्ट्वा संलक्षयति--किं तावत् प्रसादजाताभिः प्रज्ञप्तमाहोस्वित् विहेठनाभिप्रायाभिह्? पश्यति--यावत् विहेठनाभिप्रयाभिः/ 433.020. दृष्ट्वा संलक्षयति--किं तावत् प्रसादजाताभिः प्रज्ञप्तमाहोस्वित् विहेठनाभिप्रसायाभिह्? पश्यति--यावत् विहेठनाभिप्रायाभिः/ 433.022. आयुष्मता पन्थकेन गजभुजसदृशं बाहुमभिप्रसार्य तं सिंहासनम् यथास्थाने स्थापितम्/ 433.023. आयुष्मान् पन्थकस्तत्र निषण्णः/ 433.023. स निषीदन् कैश्चित् दृष्टह्. कैश्चित् न दृष्टः/ 433.024. अथात्रस्थ आयुष्मान् पन्थकस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वे आसने ऽन्तर्हितः, पूर्वस्यां दिशि उपरिविहायसमभ्युद्गम्य पूर्ववत् यावत् ऋद्धिप्रातिहार्याणि विदर्श्य तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः/ 433.026. निषद्य आयुष्मान् पन्थकस्ता भिक्षुणीरामन्त्रयते--मया भगिन्यस्त्रिभिर्मासैरेका गाथा पठिता/ 433.027. उत्सहेतव्यानि(?) श्रोतुमेकगाथायाः सप्तरात्रिंदिवसान्यन्यैः पदैर्व्यञ्जनैरर्थं विभक्तुम्? 433.029. पापं न कुर्यान्मनसा न वाचा कायेन वा किंचन सर्वलोके/
433.031. रिक्तः कामेइः स्मृतिमान् संप्रजानन् दुःखं न स विद्यादनर्थोपसंहितम्//6//इति/
434.001. <434>सर्वपापस्य भगवान् कारणमाह--यावद्गाथार्थस्यार्थमधीतम् याति, तावद् द्वादशभिः प्राणिसहस्रैः सत्यानि दृष्टानि/ 434.002. कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित् सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित् प्रत्येकायां बोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि/ 434.005. यद्भूयसा सा परिषद् बुद्धनिंनाधर्मप्रवणा संघप्राग्भारा व्यवस्थिता/ 434.006. अथायुष्मान् पन्थकस्तां परिषदं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः/ 434.007. स भिक्षुभिरागच्छन् दृष्टः/ 434.007. ते संलक्षयन्ति--अद्यायुष्मता पन्थकेन महाजनकायः प्रसादितो भविष्यति/ 434.008. ते न षक्नुवन्त्यायुष्मन्तं पन्थकं संमुखमप्रियं प्रष्टुम्/ 434.008. तैः पश्चाच्छ्रमणः पृष्टः/ 434.009. आयुष्मन्, अद्य आयुष्मता पन्थकेन किं महाजनकायो न प्रसादितो वा प्रसादितह्? आयुष्मता न कश्चित् अप्रसादितः/ 434.010. भगवता वाराणस्याम् ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं चक्रं प्रवर्तितम्, तदद्यायुष्मता पन्थकेनानुप्रवर्तितम्/ 434.011. यावद्गाथार्थं न विभजति, तावद् द्वादशभिः प्रणिसहस्रैः सत्यानि दृष्टानि//
434.013. तत्र भगवाअन् भिक्षूनामन्त्रयते स्म--एषो ऽग्रो मे भिक्षवो भिक्चूणां मम श्रावकाणां चेतोविवर्तकुशलानाम् यदुत पन्थको भिक्षुः/ 434.014. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त द्वादशवर्गीयाभिरायुष्मतः पन्थकस्यानर्थं करिष्यामि इत्यथ एव कृतः/ 434.015. भगवानाह--न भिक्षव एतर्हि यथा अतीते ऽप्यध्वनि आभिरनर्थं करिष्याम इत्यर्थ एव कृतः/ 434.016. तच्छ्रूयताम्//
434.017. भूतपूर्वमेवं भिक्षवो ऽन्यतमस्मिन् कर्वटके ब्राह्मणः प्रतिवसति/ 434.017. तेन सदृशात्कुलात्कलत्रमानीतम्/ 434.018. स तया सर्धं क्रीडति रमते परिचारयति/ 434.018. तस्य क्रीडतो रममाणस्य परिचारयतो भूयः क्रीडति रमते परिचारयति यावर् द्वादश पुत्रा जाताः/ 434.019. तेन तेषां निवेशः कृतः/ 434.020. अपरेण समयेन तस्य पत्नी कालगता/ 434.020. सो ऽपि ब्राह्मणो वृद्धावस्थायां जातः/ 434.020. अन्धीभूतस्य स्नषा दुश्चारिण्यः/ 434.021. यदा तासां स्वामिनो बहिर् निर्गता भवन्ति, तदा ताः परपुरुषैः सार्धं परिचारयन्ति/ 434.022. स ब्राह्मणः शब्दे कृतावी/ 434.022. स जानाति--अयं मम पुत्रस्य शब्दः, अयं परपुरुषयेति/ 434.023. स पुरुषाणां पदशब्दाञ् श्रुत्वा ताः स्नुषा गर्जयति. 434.023. ताः संलक्षयन्ति--अयं ब्राह्मण्प्^स्माकमनर्थाय प्रतिपन्नः/ 434.024. तास्तस्य चकट्योदनं काञ्जितकच्छिटिं चानुप्रयच्छन्ति/ 434.026. तैस्ता उक्ताह्--किं कारणम् यूयं तातस्य चकट्योदनं काञ्जिकच्छिटिं चानुप्रयच्छत? ताः कथयन्ति--तस्य पुण्यानि परिक्षीणानि, अस्यार्थे पिपरीकायां त:डुलाः प्रक्षिप्ता भवन्ति, चकट्योदनं परिवर्तते, दधि प्रक्षिप्तं काञ्जिकं परिवर्तते/ 434.028. ते कथयन्ति--किमेतदेवं भविष्यति? ताः कथयन्ति--वयम् युष्माकं प्रत्यक्षीकरिष्यामः/ 434.029. ताः कथयन्ति--अस्माभिः प्रतिज्ञातमिदानीं निर्वोढव्यम्/ 434.030. ताभिः कुम्भकाअर उक्तह्--शक्ष्यसि त्वं भद्रमुखम् एकमुखिके द्वे स्थाल्यौ कर्तुम्? स कथयति--शक्ष्यामि/ 434.031. तेनैकमुखिके द्वे स्थाल्यौ कृते/ 434.031. ताभिरेकस्यां स्थाल्यां चकटितण्डुलाः प्रक्षिप्ताः, द्वितीयायां काञ्जिकम्/ 434.032. ताभिः स्वामिनां पुरस्तादेकस्य <435>स्थाल्यां तण्डुलाः प्रक्षिप्ता एकस्यां दधि/
435.001. ताभिः साधितम्/ 435.001. कथयन्ति--आर्यपुत्रस्य किं तावत्तातस्तत्प्रथमतः परिभुक्तामाहोस्वित् यूयम्/ 435.002. ते कथयन्ति--तातस्तावत्परिभुक्ताम्/ 435.003. ताभिस्तेषां पुरस्तात्तस्यौकस्याः स्थाल्या उद्धृत्य चकट्योदनं दत्तं द्वितीयायाः कञ्जिकम्/ 435.004. तत एवं ताभिस्तेषामेकस्याः स्थाल्या उद्धृत्य शाल्योदनं दत्तं द्वितीयाया दधि उद्धृतम्/ 435.004. ते तस्य कथयन्ति--तात, तव पुण्यानि परिक्षीणानि/ 435.005. यत एकस्यां स्थाल्यां शालितण्डुलाः प्रक्षिप्ताः, द्वितीयस्यां दधि, तच्चकट्योदनं काञ्जिकं च परिवृत्तम्/ 435.006. ब्राह्मणः संलक्षयति--मया हस्तोच्छ्रयशतैर्भोगाः समुदानीताः/ 435.007. किं कारणं मम पुण्यानि परिक्षीणानि? तेन तासामप्रत्यक्षं महानसं प्रविश्य पर्येषमाणेन हस्तसंस्पत्शेनैकमुखे द्वे स्थाल्यौ लब्धे/ 435.008. तेन गोपायिते/ 435.009. तेन एत्षां पुत्राणामागतानां ते प्रदर्शिते--पश्यत, मम पुण्यानि परिक्षीणानि/ 435.010. गत्वा पश्यध्वमस्माकं गृह एव एकमुखी स्थाली/ 435.010. पुत्रक, अन्येषु गेहेषु न स्हालीद्वयं त्वकमुखमस्माकं मन्दभाग्यानाम्/ 435.011. तैस्ताः पत्न्यः सुताडिताः/ 435.011. ताः संलक्षयन्ति--अयं ब्राह्मणो ऽस्माकमनर्थाय प्रतिपन्नकः//
435.012. प्रघातयाम इति/ 435.012. तेन च प्रदेशेनाहितुण्डिक आगतः/ 435.013. ताः पृच्छन्ति--अस्ति सर्प इति? स कथयति--कीदृशं सर्पं मृगयथ जीवन्तमाहोस्वित् मृतकमिति? ताः कथयन्ति--मृतकम्/ 435.014. स संलक्षयति--केमेता मृतकेन सर्पेण करिष्यन्ति? नूनमेता एतं वृद्धं मारयितुकामा भविष्यन्ति/ 435.015. धर्मता खलु सर्पस्य रुषितस्य द्वयोः स्थानयोर्विषं संक्रामति--शिरसि पुच्छे च/ 435.016. तेन रोषित्वा शिरः पुच्छं स्वयं छित्त्वा तासां मध्ये सर्पा दत्तः/ 435.017. ताभिर्जोमां साधयित्वा स ब्राह्मण उक्तह्--तात, हिलिमां जोम पास्यसि? स ब्राह्मणः संलक्षयति--किमेता मे हिलिमां जोमां दास्यन्ति? नूनं किंचित् अभैषज्यं दत्तं भविष्यति/ 435.019. स संलक्षयति--पिबामि, यथा च तथा मरामि/ 435.019. ताभिस्तस्य हिलिमा जोमा दत्ता/ 435.020. तेन पीता/ 435.020. तस्य बाष्पेण पटले स्फुटिते/ 435.020. स द्रष्टुमारब्धः/ 435.020. स निपत्यावस्थितः/ 435.021. कथयति च--मरामि मरामीति/ 435.021. ताः कथयन्ति--शीघ्रं मा पातु/ 435.021. ताः कथयन्ति--तात, भूयः पास्यसि? स कथयति--पास्यामीति/ 435.022. ताभिस्तस्य भूयो हिलिमा जोमा दत्ता/ 435.023. तेन भूयः पीता/ 435.023. तस्य तेन बाष्पेण भूयस्या मात्रया पटले स्फुटिते/ 435.023. स स्पष्टतरं द्रष्टुमारब्धः/ 435.024. ताः पूर्वम् यथा तस्यान्धस्य ततो विश्वस्ता विहृतवन्त्यस्तथैव विहर्तुमारब्धाः/ 435.025. स दण्डं गृहीत्वा उत्थितः/ 435.025. कथयति च--किम् यूयं जानीथ इदानीमप्यहं न पश्यामि? पश्याम्यहमिदानीमिति/ 435.026. ताः सलज्जा निष्पलायिताः//
435.027. किं मन्यध्वे भिक्षवः/ 435.027. यो ऽसौ ब्राह्मणः, एष एवासौ पन्थकस्तेन कालेन तेन समयेन/ 435.028. यास्तास्तस्य द्वादश स्नुषाः, एता एव ता द्वादशवर्गीयाः/ 435.028. तदाप्याभिरस्यानर्थं करिष्याम इत्यर्थ एव कृतः/ 435.029. एतर्ह्यपि आभिरस्यानर्थं करिष्याम इत्यर्थम् एव कृतः//
435.030. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त भगवता आयुष्मान् पन्थकः परीत्तेनाववादेनाचोद्य संसारकान्तारादुत्तार्य अत्यन्तनिष्ठे अनुत्तरे योगक्षेमे निर्वाणे प्रतिष्टापितः/ 435.032. भगवानाह--न भिक्षव एतर्हि यथा अतीते ऽप्यध्वन्येषो मया परीत्तेनाववादेनाचोद्य महत्यैश्वर्याधिपत्ये प्रतिष्ठापिताः/ 435.033. तच्छ्रयताम्//
436.001. <436>भूतभूतं भिक्षवो ऽन्यतमस्मिन् कर्तवटके गृहपरिः प्रतिवसति आड्यो सहाधनो महाभोगः/ 436.002. तेन सदृशात्कुलात्कलत्रमानीतम्/ 436.002. स तया सार्धं त्रीटति रमते पतिचारयति/ 436.002. तस्य पुत्रो जातः/ 436.003. स पर्नीमामन्त्रयते--भद्रे, जातो ऽस्माकम् ऋणहरः/ 436.003. गच्छामि, अहं पण्यमादाय महासमुद्रमवतरामि/ 436.004. सा आह--एवं कुरुष्व/ 436.004. स गृहपतिः संलक्षयति--यदहमस्यै प्रभूतानं कार्षापणान् दास्यामि, परपुरुषैः सार्धं विहरिष्यति/ 436.005. तेन तस्याः कार्षापणा न दत्ताः/ 436.006. तस्मिन् कर्पटके श्रेष्ठी प्रतिवसति तस्य गृहपतेर्वयस्यः/ 436.006. तस्य हस्ते प्रभूताः कार्षापणाः स्थापिताह्--यदि मम पत्न्या भक्ताच्छादेन योगोद्वहनं कुर्याः/ 436.007. स पण्यमादाय महासमुद्रमवतीर्णः/ 436.008. तर्रैवानयेन व्यसनमापन्नह्. 436.008. तया स दारको ज्ञातिबकेन स्वहस्तबलेन वा आयापिता(पयित्वा) पालितो वर्धितः/ 436.009. स मातरं पृच्छति--अम्ब, किमस्माकं पिता पितामहाश्च कर्माकार्षुह्? सा संलक्षयति--यद्यस्य वक्ष्यामि महासमुद्रे पोतसंव्यवहारिण आसन्न् इति, स्थानमेतद्विद्यते यदेषो ऽपि महासमुद्रमवतरिष्यतीति, तत्रैव अनयेन व्यसनमापत्स्यते/ 436.011. श्रुतमाहितस्तव पुता च पितामहाश्च इहैव वाणिज्यमकार्षुः/ 436.012. स कथयति--कार्षापणान् ममानुप्रयच्छ, यैरिहैव वाणिज्यं करिष्यामि/ 436.013. माता कथयति--कुतो मम कार्षापणाह्? त्वं मया कथंचित् ज्ञातिबलेन स्वहस्तबकेन आयापितः पोषितः संवर्धितः/ 436.014. कुतो मे कार्षापणानां विभवह्? अपि त्वयं श्रोष्टी तव पितृवयस्यो
भवति/ 436.015. अस्य सकाशात् कार्षापणान् गृहीत्वा कर्म कुरु/ 436.016. स तस्य गृहं गतः/ 436.016. तस्यान्यतमेन पुरुषेण यावत् द्विरपि विनाशितः/ 436.017. स तमवसादयति/ 436.017. तस्य च गृहात् प्रेष्यदारिकायाः संकारतलस्योपरि मृतमूषिकां दृष्ट्वा प्रयच्छति च्छोरयितुम्/ 436.018. स श्रेष्ठी तस्य पुरुषस्य कथयति--यः पुरुषः स्यात्, शक्यते अनया मृतमूषिकया आत्मानमुद्धर्तुम्/ 436.019. तेन दारकेण श्रुतम्/ 436.019. स संलक्षयति--महात्मैषः/ 436.019. न शक्यमनेन यद्वा तद्वा वक्तुम्/ 436.020. नूनं शक्यमनया मृतमूषिकया आत्मानमुद्धर्तुम्/ 436.020. स तस्या दारिकायाः पृष्ठतो निर्गतः/ 436.021. तया दातिकया संकारे छोरिता/ 436.021. स तां मृतमूषिकामादाय वीथीं गतः/ 436.022. तत्र वाणिजको बिडाकेन क्रीडित्वा स्थितः/ 436.022. तेन तस्य बिडालस्य मृतमूषिका दर्शिता/ 436.023. स तांदृष्ट्वा उत्पतितुमारब्धः/ 436.023. तेन वाणिजकेन दारक उच्यते--अनुप्रयच्छ अस्य बिडालस्य मृतमूषिकाम्/ 436.024. स कथयति--किमयं कलिकया दीयते? मूल्यमनुप्रयच्छ/ 436.025. तेन तस्य कलायानामञ्जलिपूरोओ दत्तः/ 436.025. स संलक्षयति--यद्येतान् भक्षयिष्यामि, मूलमेव ब्भिक्षितं भविष्यति/ 436.026. स तान् भ्राष्ट्रे भर्जयित्वा शीतलस्य पानीयस्य वर्धनीयस्य पूर्णं कृत्वा तद्गृह्य तस्मात्स्थानकान्निष्क्रम्य यस्मिन् प्रदेशे काष्ठहारका विश्राम्यन्ति, तस्मिन् प्रदेशे गत्वावस्थितः/ 436.028. काष्ठहारका आगताः/ 436.028. तेनोक्ताह्--मातुलाः, अर्पयत काष्ठभारकाः, मुहूर्तं विश्राम्यताम्/ 436.029. तैः काष्ठभाराः स्थिपिताः/ 436.029. तेन तेषां कलायानां स्तोक्तं दत्तं
शीतलं च पानीयं पातम्/ 436.030. ते कथयन्ति--भागिनेय, क्व यास्यसि? काष्ठानाम्/ 436.030. भागिनेय, वयं तावत् कल्यमेवोत्थाय गत्वा इदानीमागच्छामः/ 436.031. त्वमिदानीं गच्छन् कियता आगमिष्यसि? तैस्तस्यैकैकं काष्ठमनुप्रदत्तम्/ 436.032. तस्य काष्ठमूलिका संपन्ना/ 436.032. स तां गृहीत्वा प्रतिनिवृत्तः/ 436.032. स तां विक्रीय <437>कलायानां गृहीत्वा भर्जयित्वा उदकस्य कुम्भं पूरयित्वा तस्मिन्नेव प्रवेशे गत्वावस्थितः/
437.002. ते काष्ठहारकास्तथैव तेन कलायैः संविभक्ताः, शीतलेन पानीयेन संतर्पिताः/ 437.002. ते तस्य कथयति--भागिनेय, दिवसे दिवसे त्वं कलायान् पानीयं च गृहीत्वा आगम्य अत्रैव तिष्ठम्/ 437.004. वयं तवोपरि काष्ठमूलिकामानयिष्यामः/ 437.004. स दिवसे दिवसे तयैव कर्तुमारब्धः/ 437.004. स तेषां कथयति--मातुल, मा यूयं काष्ठभारान् वीर्थां नयथ/ 437.005. मम गृहे स्थापयत/ 437.005. युष्माकमेवं पिण्डितमूल्यं दास्यामि/ 437.006. तैस्तस्य गृहे काष्ठभारकाणि स्थापिताः/ 437.006. अपरेण समयेन सप्ताहवर्दलिका जाताः/ 437.007. तेन तानि काष्ठभारकाणि विक्रीतानि/ 437.007. तस्य प्रभूतो लाभः संपन्नः/ 437.008. स संलक्षयति--एतत्प्रतिक्रुष्टतरं वाणिज्यानाम् यदुत काष्ठवाणिज्यम्/ 437.008. स संलक्षयति--अपि चन्दनकाष्ठेन काष्ठवाणिज्यमेव/ 437.009. यन्न्वहमुक्करिकापणं प्रसारयेयम्/ 437.009. तेन उक्करिकापणः प्रसारितः/ 437.010. स धर्मेण व्यवहरति/ 437.010. तस्य तत्प्रभूतो लाभः स संलक्षयति--एतत् प्रतिक्रुष्टतरं वाणिज्यानाम् यदुत उक्करिकापणः/ 437.011. यन्न्वहं गान्धिकापणं प्रसारयेयम्/ 437.012. तेन गान्धिकापणः प्रसारितः/ 437.012. तस्य प्रभूतो लाभः संपन्नः/ 437.012. स संलक्षयति--एतदपि प्रतिक्रष्टतरं च तद्वाणिज्यानां पूर्ववत्/ 437.013. तेन सर्वे हैरण्यका अभिभूताः/ 437.013. तस्य मूषिकाहैरण्यको मूषिकाहैरण्यक इति संज्ञा संवृत्ता/ 437.014. ते हैरण्यकाः कथयन्ति--भवन्तः, सर्वे वयमनेन मूषिकाहैरण्यकेनाभिभूताः/ 437.015. वयमेनं मानं प्राहयामः, यथा महासमुद्रमवतरेत्
तत्रैवानयेन व्यसनमापत्स्यते तथा करिष्याम इति/ 437.016. ते तस्य नातिदूरे स्थित्वा स्वैः कथासम्लापेन तिष्ठन्ति--यथापि नाम भवन्तः पुरुषो हस्तिग्रीवायां गत्वा अश्वपृष्ठेन गच्छेत्, अश्वपृठेन गत्वा शिबिकायां गच्छेत्, शिबिकायां गत्वा पद्भ्यां गच्छेत्, एवमेवास्य मूष्किकाहैरण्यिकस्य पिता च पितामहाश्च समुद्रे पोतसंव्यवहातिण आसन्/ 437.019. एष इदानीं कुऋच्छ्रेण जीविकां कल्पयति हैरण्यिकापणं वाहयतीति/ 437.020. श्रुत्वा स कथयति--किं कथयत? ते कथयन्ति--तव पिता च पितामहाश्च पोतसंव्यवहारिण आसन्/ 437.021. स त्वमिदानीं कृच्छ्रेण जीविकां कल्पयसि, हैरण्यिकापणं वाहयसि? स गृहं गत्वा मातरं पृच्छति--अम्ब, सत्यमस्माकं पिता च पितामहाश्च महासमुद्रे पेतसंव्यवहारिण आसन्? सा संलक्षयति--नूनमनेन किंचित्कुतश्चित् श्रुतं स्यात्/ 437.024. तदप्रतिरूपं स्यात्, यदहं मृषावादेन वञ्चयेयम्/ 437.024. सत्यं पुत्र/ 437.024. स कथयति--अनुजानीष्व, अहमपि महासमुद्रमवतरिष्यामि/ 437.025. सा कथयति--पुत्र, इहैव तिष्ठ/ 437.025. स भूयो भूयः कथयति--गच्छामि/ 437.026. तस्य निर्बन्धं ज्ञात्वा अनुज्ञातः/ 437.026. तेन घण्टावधोषणं कृतम्--यो युष्माकमुत्सहते मूषिकाहैरण्येन सार्धमशुल्केनागुल्मेनातरपण्येन महासमुद्रमवतरितुम्, स महासमुद्रगमनीयं पण्यं समुदानयतु/ 437.028. पञ्चमात्रैर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्/ 437.028. अथ मूषिलाहैरण्यिकः कृतमङ्गलकैतूहलस्वस्त्ययनः शकटैर्भारैर्मूटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः पण्यमारोप्य महासमुद्रं संप्रस्थितः/ 437.030. सो
ऽनुपूर्वेण महासमुद्रमवतरन्ननुप्राप्तः/ 437.030. ते वणिजो महासमुद्रं दृष्ट्वा भईतः/ 437.031. नोत्सहन्ते वहनमभिरोडुम्/ 437.031. सार्थवाहः कर्णधारस्य कथयति--कथय कथय भोः पुरुष यथाभूतं महासमुद्रस्य वर्णम्/ 437.032टतः कर्णधार उद्धोषयितुमारब्धह्--सन्त्येतस्मिन् <438>महासमुद्रे इमान्येवम्रूपाणि रत्नानि तद्यथा--मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवाल रजतजातरूपमश्मगर्भो मुसारगल्वो लोहितका दक्षिणावर्तः/
438.002. यो युष्माकमुत्सहते एवम्रूपै रत्नैरात्मानं सम्यक्सुखेन प्रतिणयितुम्, मातापितरौ पुत्रदारान् दासीदासकर्मकरपौरुषेयं मोत्रामात्यज्ञातिसालोहितं कालेन कालं श्रमणब्राह्मणेभ्यो दक्षिणां प्रतिष्ठापयितुम्, मूर्धगामिनीं सौभासिकीं सुखविपाकामायत्यां स्वर्गसंवर्तनीम्, स महासमुद्रमवतरतु/ सम्पत्तिकामो लोकः/ 438.006. महाजनकायो ऽभिरूढो यतस्तद्वहनमसह्यं जातम्/ 438.006. सार्थवाहः संलक्षयति--किमिदानीं वक्ष्यामि अवतरतेति? स कर्णधारस्य कथयति--घोषय भोः पुरुष महासमुद्रस्य यथाभूतं वर्णम्/ 438.008. ततः कर्णधार उद्धोषितुमारव्धह्--शृण्वन्तु भवन्तो जम्बुद्वीपका वणिजः/ 438.009. सन्त्यस्मिन् महासमुद्रे इमान्येवंतूपाणि महान्ति महाभयानि, तद्यधा तिमिभयं तिमिंगलभयं तिमितिमिंगलभयमावर्तभयं कुम्भीरभयं शिशुमारभयमन्तर्जलगतानां पर्वतानामाघातभयम्/ 438.011. चौरा अप्यत्रागव्व्हन्ति नीलैः सितैर्वनचारिणः, अस्माकं सर्वेण सर्वं जीविताद्व्यवरोपयिष्यन्ति/ 438.012. येन युष्माकं प्रियमात्मानं परित्यक्त्वा मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यञ्जातिसालोहितं महासमुद्रमवतरतु/ 438.013. अल्पाः शूरा बहवः कातराः/ 438.013. महाजनकायो ऽवतीर्णः, यतस्तद्वहनं सह्यं संवृतम्/ 438.014. ततः कर्णधारस्त्रिरुद्द्ःप्षणावघोषणं कृत्वा ततः पश्चादेकां वस्त्रां मुञ्चति, द्वित्रिवस्त्रां मुञ्जति, यतस्तद्वहनं महाकर्णधारसंधानबलवद्वायुसम्प्रेरितं महामेघ इव संप्रस्थितो ऽनुगुणेन वायुना यावद् रत्नद्वीपमनुप्राप्तम्/ 438.016. ततः कर्णधार उद्धोषयितुमारब्धह्--शृण्वन्तु
भवन्तो जम्बुद्वीपका वणिजः, सन्त्यस्मिन् रत्नद्वीपे काचमणयो रत्नसदृशाः/ 438.018. ते भवद्भिरुपपरीक्ष्योपपरिक्ष्य ग्रहीतव्याः/ 438.018. मा वः पश्चाज्जम्बुद्वीपप्राप्तानां पश्चात्तापो भविष्यति/ 438.019. अस्मिन्नेव च रत्नद्वीपे क्रोञ्जकुमारिका नाम राक्षस्यः प्रतिवसन्ति/ 438.020. ताः पुरुषं तथा उपलालयन्ति यथा तत्रैवानयेन व्यसनमापद्यन्ते/ 438.020. अस्मिन्नेव रत्नद्वीपे मदनीयानि फणानि सन्ति/ 438.021. तानि यः परिभुङ्क्ते, स सप्तरात्रं मूर्च्छितस्तिष्ठति/ 438.021. तानि भवद्भिर् न परिभोक्तव्यानि/ 438.022. अस्मिन्नेव च रत्नद्वीपे ऽमनुष्याः प्रतिवसन्ति/ 438.022. ते मुष्याणां सप्ताहं मर्षयन्ति/ 438.023. सप्ताअहस्यात्ययात् तादृशं वायुमुत्सृजन्ति येन वहनमपह्रियते यथापि तद्कृतकार्याणाम्/ 438.024. यं श्रुत्वा ते वणिजो ऽवहिता अप्रमत्ता अवस्थिताः/ 438.024. तैस्तद्वहनं रत्नानमुपपरीक्ष्योपपरीक्ष्य पूरितं तद्यथा तिलतण्डुलकोलकुलत्थानाम्/ 438.025. ते अनुगुणेन वायुना जम्बुद्वीपमनुप्राप्ताअः/ 438.026. एवम् यावत् सप्तकृत्वः संसिद्धयाअनपात्र आगतः/ 438.026. स मात्रा^भिहितह्--पुत्र, अत्र निवेशस् त्रियतामिति/ 438.027. स कथयति--अग्रधनिकं तावच्छिनद्भि, ततः पश्चान्निवेशं करिष्यामि/ 438.028. स तथा उक्तह्--पुत्र न तव पुता न पुतामहो धनिकः कृतः, कुतस्तव धनिको जातह्? स कथयति--अम्ब, अहमेव जानामि/ 438.029. तेन चातुरत्नमय्यश्चतस्रो मूषिकाः कारिताः/ 438.030. तेन सुवर्णस्य फेलां पूरयित्वा चतस्नो मूषिकाश्चतुर्षु पार्श्वेषु स्थापयित्वा श्रोष्ठिगृहं गतः/ 438.031. स श्रेष्ठी तदा तस्यैव तद्वर्णं
भाषमाणस्तिष्ठति--पश्यत भवन्तो मूषिकाहैरण्यिकः कथं पुण्यमहेशाख्यो यम् यमेव गृह्णाति तृणं वा लोष्टं वा सर्वं तत् सुवर्णं संपद्यते/ 438.032. स च <439>तथा कथासम्लापेन तिष्ठति/
439.001. दैवारिकेण चास्य गत्वा आरोचितम्--मूषिकाहैरण्यिको द्वारितिष्ठति/ 439.002. स कथयति--प्रविशतु, मूषिकाहैरण्यकं वा आनयेति/ 439.002. स प्रविश्य कथयति--इदं ते मूलम्, अयं लाभः/ 439.003. प्रतिगृह्यताम्/ 439.003. स आह--विस्मरामि, सत्यम् यत्त्व किंचिद्दत्तकमिति/ 439.003. अहं ते स्मारयिष्यामि/ 439.004. तेन स्मारितम्/ 439.004. स पृच्छति--कस्य त्वं पुत्र इति/ 439.004. अमुकस्य गृहपतेः/ 439.004. श्रेष्ठी कथयति--त्वं मम वयस्यपुत्रो भवसि/ 439.005. मयैव तव दातव्यम्/ 439.005. तव पित्रा गच्छता मम हस्तो कार्षापणाः स्थापिताः/ 439.006. तेन श्रेष्ठिना दुहिता सर्व्लम्लारविभूषिता तस्य भार्यार्थमनुप्रदत्ता//
439.007. किं मन्यध्वे भिक्षवो यो ऽसौ श्रेष्ठी, अहमेव तेन कालेन तेन समयेन/ 439.007. यो ऽसौ मूषिकाहैरण्यकः, एष एव पन्थकस्तेन कालेन तेन समयेन/ 439.008. तदाप्येष मया परीत्तेनाववादेनाचोद्य महत्यैश्वर्ये प्रतिष्ठपितः/ 439.009. एतर्ह्यप्येष मया परित्तेनाववादेनाववाद्य संसारकान्तारादुत्तार्य अत्यन्तनिष्ठे ऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापिताः//
439.011. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--किं भदन्त पन्थकेन कर्म कृतम् यस्य कर्मणो विपाकेन धन्वः परमधन्वश्चूडः परमचूडो जातह्? पन्थकेनैव भिक्षवः कर्माणि कृतानि/ 439.012. न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु विपच्यन्ते शुभान्यशुभानि च/ 439.015. न प्रणश्यन्ति कर्मणि कल्पकोटिशतैरपि/ 439.016. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्//7//
439.017. भूतपूर्वं भिक्षवो विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शस्ता लोक उत्पन्नस्तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचिरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्/ 439.019. स विंशतिभिर्भिक्षुसहस्रैः परिवारो वाराणसीमुपनिश्रित्य विहरति स्म/ 439.020. तस्यैव प्रवचने भिक्षुरासीत् त्रिपिटः/ 439.020. अनेन तत्र मात्सर्येण न कस्यचिच्चतुष्पदिकापि गाथा उद्दिष्टो/ 439.021. भूयो ऽन्यस्मिन् कर्पटके सौकरिक आसीत्/ 439.022. तस्मात् कर्पटकान्नदीपारे द्वितीयं कर्पटकम्/ 439.022. तत्र पर्वणी प्रत्युपस्थिता/ 439.022. स संलक्षयति--यदि सूकरान् प्रघात्य नयिष्यामि, मांसस्य क्रयिको न भविष्यति, क्लेदं गमिष्यति/ 439.023. जीवन्तमेव गृहीत्वा गच्छामि/ 439.024. तत्र तत्र प्रघात्य नेष्यामि, यत्र यत्र क्रायिको ऽस्ति/ 439.025. स प्रभूतान् सूकराञ् जानुषु बुद्ध्वा नावमारोप्य संप्रस्थितः/ 439.025. सा नैस्तैः परिस्पन्दमानैर्बाडिता/ 439.025. तत्रैवानयेन व्यसनमापन्नः/ 439.026. सो ऽपि सौकरिको ऽत्र स्नोतेनोह्यमानः/ 439.026. तस्या नद्यास्तीरे पञ्चप्रत्येकबुद्धशतानि प्रतिवसन्ति/ 439.027. तेषामेकः प्रत्येकबुद्धः पानीयस्यार्थे नदीं गतः/ 439.027. तेन स दृष्टः/ 439.028. स संलक्षयति--किं तावदयं मृतह् आहोस्विज्जीवतीति? पश्यति यावज्जीवति/ 439.028. स तेन गजमुजसदृशं बाहुमभिप्रसार्य उद्धृत्य वालुकायाः स्हलं कृत्वा तत्रावमूर्धकः स्थापिताः/ 439.030. तस्य कायात् पानीयं निःसृतम्/ 439.030. स व्युत्थितः/ 439.030. मनुष्यपदानि पश्यति/ 439.030. स तेन पादानुसारेण गतो यावत्पश्यति पञ्चमात्राणि प्रत्येकबुद्धशतानि/ 439.031. स तेषां पत्रेण पुष्पेण फलेन दन्तकाष्ठेन चोपस्थानं कर्तुमारब्धः/ 439.032. ते तस्य पात्रशोषमनुप्रयच्छन्ति/ 439.032. तेन भुक्तम्/ 439.032. अथ <440>ते प्रत्येकबुद्धाः पर्यङ्क बुद्ध्वा ध्यायन्ति/
440.001. तदा सो ऽप्येकान्ते स्थित्वा पर्यङ्कं बुद्ध्चा ध्यायति/ 440.002. स तत्रासंज्ञिकमुत्पाद्य असंज्ञिसत्त्वेषु देवेषूपपन्नः//
440.003. किं मन्यध्वे भिक्षवः/ 440.003. यो ऽसौ काश्यपस्य सम्यक्सम्बुद्धस्य प्रवचने भिक्षस्त्रिपिटह् आसीत्, पश्चादसौ सौकरिकः, एष एव पन्थको भिक्षुः/ 440.004. यदनेन मात्सर्येण न कस्यचिच्चतुष्पदिका गाथा उद्दिष्टा, यच्च सूकरान् प्रघात्य यच्चासंज्ञिसत्त्वेभ्य इहोपपन्नः, तस्य कर्मणो विपाकेन चूडः परमचूडो धन्वः परमधन्वः संवृत्तः//
440.007. यदा आयुष्मान् पन्थकः स्वाख्याते धर्मविनये प्रव्रजितः, जीवकेन श्रुतम्--पन्थकः स्वाख्याते धर्मविनये प्रव्रजित इति/ 440.008. स संलक्षयति--यदि भगवान् राजगृहमागमिष्यति, अहं बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामि स्थापयित्वा भदन्तं पन्थकम्/ 440.009. भगवान् यथाभिरम्यं श्रावस्तीं विहृत्य येन राजगृहे तेन चारिकां प्रक्रान्तः/ 440.010. अनुपूर्वेण चारिकां चरन् राजगृहमनुप्राप्तः/ 440.011. राजगृहे विहरति वेणुवने कलन्दकनिवापे/ 440.011. अश्रौषीज्जीवकः कुमारभूतह्--भगवान् मगधेषु जनपदचारिकां चरन् राजगृहे विहरति वेणुवने कलन्दकनिवापे/ 440.012. श्रुत्वा पुनर्येन भगवांस्तेनोपसंक्रान्तः/ 440.013. अपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तो निषण्णः/ 440.013. एकान्तनिषण्णं जीवकं कुमारभूतं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 440.015. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 440.015. अथ जीवकः कुमारभूतह् उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतद्वोचत्--अधिवासयतु मे भगवाञ्छ्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन/ 440.017. दूरासदा बुद्धा भगवन्तो दुष्प्रसहाः/ 440.018. स न शक्नोति भगवन्तं वक्तुं स्थापयित्वा भदन्तं पन्थकम्/ 440.018. अथ जीवकः कुमारभूतो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्तो येनायुष्मानान्दस्तेनोपसंक्रान्तः/ 440.020. उपसंक्रम्यायुष्मत आनन्दस्य पादौ शिरसा विन्दित्वा एकान्ते निषण्णः/ 440.021.
एकान्तनिषण्णो जीवकः कुमारभूत आयुच्मन्तमानन्दिमदमवोचत्--यत्खलु भदन्त आनन्द जानीयाह्--मया बुद्धप्रमुखो भिक्षुसंघः श्वो ऽन्तर्गेहे भक्तेनोपनिमन्त्रितः स्थापयित्वा भदन्तं पन्थकम्/ 440.023. यथा ते जीवक कुशलानां धर्माणां वृद्धिर्भवति/ 440.023. अथ जीवकः कुमारभूत आयुष्मत आनन्दस्य भाषितमभिनन्द्यानुमोद्य आयुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा प्रक्रान्तः/ 440.025. अथायुष्मानानन्दो ऽचिरप्रक्रान्तं जीवकं कुमारभूतं विदित्वा येनायुष्मान् पथकस्तेनोपसंक्रान्तः/ 440.026. उपसंक्रम्यायुष्मन्तं पन्थकमिदमवोचत्--यत्खल्वायुष्मन् पन्थक जानीयाह्--जीवकेन कुमारभूतेन बुद्धप्रमुखो भिक्षुसंघः श्वो ऽन्तर्गृहे भक्तेनोपपनिमन्त्रितः स्हाप्यित्वा आयुष्मन्तं पन्थकम्/ 440.028. यथास्य भ्दन्तानन्द कुशलानां धर्माणां वृद्धिर्भवति/ 440.028. स जीवकः कुमारभूतस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय कल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समये भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यते/ 440.031. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन जीवकस्य कुमारभूतस्य निवेशनं तेनोपसंक्रान्तः/
441.001. <441>उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 441.001. निषद्य भगवानायुष्मन्तमानन्दमामन्त्रयते--पन्थकस्यानुगन्ती मोक्तव्या/ 441.002. जीवकः कुमारभूतः सौवर्णभृङ्गारं गृहीत्वा वृद्धान्ते तिष्ठति/ 441.003. भगवान् वारिधारां न प्रतिगृह्णाति/ 441.003. जीविकः कुमारभूतः कथयति--किं कारणं भगवन् वारिधारां न प्रतिगृह्णाति/ 441.004. भगवानाह--न तावद्भिक्षुसंघम् इति समग्र इति/ 441.005. जीवकः कथयति--भगवान्, को ऽनागत इति/ 441.005. भगवानाह--न पन्थको भिक्षुः संघः/ 441.006. जीवकः कथयति--भगवन्, नासौ मया निमन्त्रित इति/ 441.006. भगवानाह--न त्वया जीवक बुद्धप्रमुखो भिक्षुसंघो निमन्त्रितह्? भगवन्, निमन्त्रितः/ 441.007. किमसौ भिक्षुसंघाद्बहिर् न वा? भगवान् कथयति जीवकम्--गच्छ त्वं शब्दापय/ 441.008. जीवकः कुमारभूतः संलक्षयति--किं चाप्यहं भगवतो गौरवेण शब्दापयामि, न सत्कृत्य परिवेषयिष्यामि/ 441.009. तेन दूतो ऽनुप्रेषितह्--गच्छ, शब्दापयस्व/ 441.010. आयुष्मानपि पन्थकश्च त्रयोदशभिक्षुशतानि निर्मायावस्थितः/ 441.010. तेन दूतेन गत्वा पन्थक इति शब्दो मुक्तः/ 441.011. अनुकैर्भिक्षुभिः प्रतिवचनं दत्तम्/ 441.011. स दूत आगत्य जीवकस्य कथयति--तथैव वेणुवनं कलन्दकनिवापो भिक्षूणां पूर्णस्तिष्ठति/ 441.012. भगवानाह--गच्छ त्वं कथय यो भूतपन्थकः स आगच्छतु/ 441.013. स गत्वा कथयति--यो भूतपन्थकः स आगच्छतु/ 441.014. आयुष्मान् पन्थकस्तत्र गत्वा स्वस्यां गत्यां निषण्णाः/ 441.014. जीवकः कुमारभूतो बुद्धप्रमुखं
भिक्षुसंघं परिवेषयितुमारब्धः/ 441.015. आयुष्मन्तं पन्थकं न सत्कृत्य पतिवेषयति/ 441.015. भगवान् संलक्षयति--सुमेरुप्रख्ये महाश्रावके जीवकः कुमारभूतः क्षान्तिं गृह्णाति/ 441.016. गुणोद्भावना अस्य कर्तव्या/ 441.016. भगवता आयुष्मत् आनन्दस्य पात्रं नानुप्रदत्तम्/ 441.017. धर्मता खलु न तावत् स्थबिरस्ह्तविराणां भिक्षूणां पात्राणि प्रतिगृह्यन्ते, यावद्भगवतः पात्रप्रतिग्रही न भविष्यति/ 441.018. आयुष्मान् पन्थकः संलक्षयति--किं कारणं भगवतः स्थविरस्थविराणां भिक्षूणां पात्राणि न गृह्यन्ते? मया अत्र गुणोद्भावना कर्तव्या/ 441.020. आयुष्मता पन्थकेनाधर्मासनं कृत्वा गजभुजसदृशं बाहुमभिप्रसार्य भगवतः पात्रं गृहीतम्/ 441.021. कुमारभूतेन जीवकेन वृद्धान्ते स्थितेन दृष्ठम्/ 441.021. स संलक्षयति--को ऽप्ययं स्थविरो भिक्षुः/ 441.022. ऋद्धिप्रातिहार्यं विदर्शयति/ 441.022. स पात्रानुसारेण गतो यावत्पश्यत्यायुष्मतं पन्थकम्/ 441.023. स दृष्ट्वा मूर्छितकस्तिष्ठति/ 441.023. स जलपरिषेकप्रत्यागतप्राण आयुष्मतः पन्थकस्य पादयोर् निपत्य क्षमापयति, गाथां च भाषते-- 441.025. नित्यं चैत्यगुणो हि चन्दनरसो नित्यं सुगन्धयुत्पलं नित्यं भासति काञ्चनस्य विमलं वैडूर्यशुद्धम्/ 441.027. नित्यं पापजने हि क्रोधमतुलं पाषाणरेखोपमं नित्यं चार्यजनेषु प्रातिर्वसते क्षान्तिर्ध्रुवा ह्यर्हताम्//8//
441.029. आयुष्मान् पन्थकः कथयति--क्षान्तं जीवक//
441.030. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त, यदा जीवकः कुमारभूत आयुष्मतः पन्थकस्य गुणानामनभिज्ञस्तदा असत्कारः प्रयुक्तः, यदा गुणानामभिज्ञस्तदा पादयोर् निपत्य <442>क्षमापयति/
442.001. भगवानाह्--न भिक्षव एतर्हि यथातीते ऽध्वन्येषो ऽस्य गुणानामनभिज्ञह्,तदा असत्कारं प्रयुक्तवान्/ 442.002. यदा गुणानामभिज्ञस्तदा पादयोर् निपत्य क्षमापितवान्/ 442.002. तच्छ्रूयताम्//
442.003. भूतपूर्वं भिक्षव उत्तरापथात् सार्थवाः पञ्चशतमश्वपण्यमादाय मध्यदेशमागतः/ 442.004. तस्य च वडवायाः कुक्षावश्वाजानेयो ऽवक्रान्तः/ 442.004. स यमेव दिवसमवक्रान्तस्तमेव दिवसमुपादाय ते ऽश्वा न भूयो हेषन्ते/ 442.005. सार्थवहः संलक्षयति--किं च ममाश्वानां कश्चिद् रोगः प्रादुर्भूतो भविष्यति येन ते न हेषन्ते? अपरेण समयेनाश्वा वडवा प्रसूता/ 442.006. तस्याः किशोरको जातः/ 442.007. स यमेव दिवसमुपादाय ते ऽश्वाः संचर्तुमपि नारब्धाः/ 442.007. सार्थवाहः संलक्षयति--नूनमयं दौर्भाग्यसत्त्वो जातह् अस्य दोषण ममाश्वानां रोगः प्रादुर्भूतः/ 442.008. स तां वटवां नित्यमेव वाहयति/ 442.009. तस्या नवयवसम्पन्नयोग्याशनमनुप्रयच्छति/ 442.009. सो ऽनुपूर्वेण पूजितं नामाधिष्ठानमनुप्राप्तः/ 442.010. तस्य तत्र वार्षारत्र्यः प्रत्युपस्थिताः/ 442.010. स संलक्षयति--यदि गमिष्यामि, अश्वानां खुराः क्लेदं गमिष्यन्ति, अपण्योओभविष्यन्ति/ 442.011. इहैव वर्षां तिष्ठामि/ 442.011. स तस्यैव वर्षामुषितस्य तद्वासिनो यो शिल्पिनस्ते स्वेन शिल्पेनोपस्थानं कुर्वान्ति/ 442.012. तस्य गमनकाले शिल्पिन्न् उपसंक्रान्ताः/ 442.013. तेषां तेन संविभागः कृतः/ 442.013. तत्रैकः कुम्भकारः प्रतिवसति/ 442.013. तेनापि तस्य स्वेन शिल्पेनोपस्थानं कृतम्/ 442.014. स पत्न्याभिहितह्--आर्यपुत्र, स सार्थवाहो गच्छति/ 442.014. गच्छ, त्वं गत्वा किंचिद्याचस्व/ 442.015. तस्माच्चलितस्य मृत्पिण्डं गृहीत्वोपस्थितः/ 442.015. स तेन सार्थवाहेन दृष्टः/ 442.015. स तस्य कथयति--भोः पुरुष, अतिचिरेण त्वमागतः/ 442.016. मम किंचिद्दातव्यम्/
442.016. स आह--सर्वं गतम्/ 442.017. तस्यापि सार्थवाहस्य तस्य किशोरस्यान्तिके ऽमङ्गलबुद्धिः/ 442.017. स कथयति--अपि त्वयमेकः किशोरस्तिष्ठति, यदि प्रयो ऽसि, गृहीत्वा गच्छ/ 442.018. कुम्भकारः कथयति--शोभनम्/ 442.018. अहं भाण्डानि करिष्यामि, एष भेत्स्यते/ 442.019. स किशोरकस्तस्य पादौ जिह्वया लेढुमारब्धः/ 442.020. तस्याश्वस्यान्तिके ऽनुनय उत्पन्नः/ 442.020. स तं गृहीत्वा गतः/ 442.020. स पत्न्या उक्तह्--अस्ति किंचित्त्वया तस्य सकाशाल्लब्धम्? लब्धम्/ 442.021. अयं किशोरकः/ 442.021. त्वं भाण्डानि करिष्यसि, एष भेत्स्यते/ 442.021. स किशोरको ऽस्याः पादानि लेढुमारब्धः/ 442.022. तस्या अपि तस्यान्तिके ऽनुनय उत्पन्नः/ 442.023. स पक्कमानानां भाण्डानां मध्ये परिसर्पन्न किंचिद्भाण्डं भिनत्ति/ 442.023. सा तस्य पत्नी कथयति--शोभनम्/ 442.024. अयं किशोरकः संप्रजानन् परिसर्पति/ 442.024. अपरेण समयेन कुम्भकारो मृत्तिकार्थमागतः/ 442.025. स किशोरकस्तस्य पृष्ठतो ऽनुसरन्ननुबद्धः/ 442.025. तेन कुम्भकारेण मृत्तिकाप्रसेवकः पूरितः/ 442.026. तेन किशोरकेन पृष्ठमवनामितम्/ 442.026. तेन तस्य मृत्तिकायाः प्रसेवकः पृष्ठमारोपितः/ 442.027. स तं गृहीत्वा गृहमागतः/ 442.027. तेन कुम्भकारेण पत्नी उक्ता--भद्रे, शोभनः किशोरकः/ 442.028. न भूयो मया मृत्तिका वोढव्या भविष्यति/ 442.028. अहमस्य तत्रारोपयिष्यामि, त्वमिहावतारयिष्यसि/ 442.029. स तस्य तुषान् कुटिं चानुप्रयच्छति//
442.030. तेन कालेन तेन समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च बहुजनमनुष्यं च/ 442.031. तस्याश्वाजानेयः कालगतः/ 442.031. सामन्तराज्यैः श्रुतम्--ब्रह्मदत्तस्य राज्ञो ऽश्वाजानेयः कालगत इति/ 442.032. तैस्तस्य संदिष्टम्--करप्रत्यायान् वा अनुप्रयच्छ उद्यानम् <443>वा/
443.001. ते निर्गतकण्टके ऽनुवरोध्य आनयिष्यामः/ 443.001. स तेषां करप्रत्यायान् नानुप्रयच्छति, नापि तं स उद्यानं समागतः/ 443.002. सार्थवाहो ऽश्वपण्यमादाय वाराणसीमनुप्राप्त/ 443.002. ब्रह्मदत्तेन राज्ञा श्रुतम्--उत्तरापथात् सार्थवाहो ऽश्वपण्यमादाय वाराणसीमनुप्राप्त इति/ 443.003. सो ऽमात्यानामन्त्रयते स्म--भवन्तः, कियच्चिरं मयेहं प्रविष्टेन स्थातव्यम्? गच्छत, अश्वाजानेयं पर्येषध्वम्/ 443.005. ते सार्थवाहस्य सकाशं गताः/ 443.006. तैस्ते ऽश्वाः/ 443.006. न चात्र कश्चिदश्वाजानेयो विद्यते/ 443.006. सार्थवाहं दृष्ट्वा ते कथयन्ति--भवन्तो ऽश्वावडवाया अश्वाजानेयो जातः/ 443.007. स च न दृश्यते/ 443.007. सार्थवाहमुपसंक्रम्य पृच्छन्ति--अस्ति कश्चिदश्वस्त्वया विक्रीतः कस्यचिद्वा दत्त इति? स कथयति--नास्ति कश्चिद्विक्रीतः/ 443.008. अपि त्वस्ति मया पूजितके ऽधिष्ठाने ऽमङ्गलकः किशोरकः कुम्भकारस्य दत्त इति/ 443.009. ते ऽन्योन्यं कथयन्ति--भवन्तः, महामूर्खो ऽयं सार्थवाहः, यो ऽयं मङ्गलमपहायामङ्गलानेवादायागत इति/ 443.010. ते राजानमवलोक्य पूजितकं गताः/ 443.011. ते तं कुम्भकारमुपसंक्रान्ताः/ 443.011. उपसंक्रम्य कथयन्ति--किमनेन किशोरकेन करोषि? स आह--एष मम मृत्तिकां वहति/ 443.012. ते कथयति--वयं ते तथा गर्दभमनुप्रयच्छामः, त्वमस्माकममुमनुप्रयच्छस्व/ 443.013. कथयति--एष मे शोभन इति/ 443.013. चतुर्गवयुक्तं शकटमनुप्रयच्छामः/ 443.014. स कथयति--एष मम शोभन इति/ 443.014. ते कथयन्ति--एवं चेत् संप्रधारय वयं श्वो भूय आगमिष्यामः/ 443.015. इत्युक्त्वा प्रक्रान्ताः/
443.015. स किशोरकः कथयति--किमर्थं नानुप्रयच्छसि? किं त्वं जानासि मया मृत्तिका वोढव्या तुषाश्च कुटिसकण्टं भक्षितव्यम्/ 443.017. मया राजा क्षत्रियो मूर्धाभिषिक्तो वाढव्यः, सौवर्णस्थाले मधुम्राक्षितका मूलका भक्षितव्याः/ 443.018. ते यदि संकथयन्ति केशोरक इति, वक्तव्याह्--किं लज्जध्वं वक्तुमश्वाजानेय इति? श्वः पुनरागत्वा ते कथयिष्यन्ति मूल्येनानुप्रयच्छेति/ 443.020. वक्तव्याह्--सुवर्णलक्षं वानुप्रयच्छथ यावद्वा दक्षिणेन सक्थ्ना करिष्यति तावदनुप्रयच्छति/ 443.021. ते ऽपरस्मिन् दिवसे उपसंक्रम्य पृच्छन्ति--भोः पुरुष, संप्रधारितं त्वया? संप्रधारितम्--किं लज्जध्वं वक्तुमश्वाजानेय इति? ते कथयन्ति--मूर्खः स एषः/ 443.022. किमेष ज्ञास्यति? एष अश्वाजानेयो धारयति/ 443.023. एतदेव तेन सार्थवाहेनास्यारोचितं भविष्यति/ 443.023. ते कथयन्ति--अश्वाजानेयो भवतु/ 443.024. मूल्येनानुप्रयच्छ/ 443.024. स कथयति--सुवर्णलक्षं वानुप्रयच्च्ः, यावद्वा सुवर्णलक्षं दक्षिणेन सक्थ्ना करिष्यति/ 443.025. ते संलक्षयन्ति--बलवानेषः/ 443.025. स्थानमेतद्विद्यते यत् प्रभूततरमाकर्षयति/ 443.026. सुवर्णलक्षमनुप्रयच्छामः/ 443.026. तैर्ब्रह्मदत्तस्य राज्ञः संदिष्टं सुवर्णलक्षेण अश्वाजानेयो लभ्यते/ 443.027. राज्ञापि संदिष्टम्--यूयम् यावता मूल्येन तावता गृह्णीत/ 443.027. तैः सुवर्णलक्षेण गृहीतः/ 443.028. ते तमादाय वारणसीमागताः/ 443.028. स तैश्च मन्दुरायां प्रतिष्ठापितः/ 443.028. तस्य परमयोग्याशनं दीयते/ 443.029. स तं न परिभुङ्क्ते/ 443.029. किं सरोगो भवद्भिरश्वाजानेय आनीतह्? अपि तु
समनुयुञ्ज्यामहे तावदेनम्/ 443.030. अथ सूतो गाथां भाषते-- 443.032. स्मरसि तुरग घटिकरस्य शालां किमिह विधैर्य विप्रयुक्रः/
444.001. <444>परिशिथिलशिरास्थिचर्मगात्रः स्वदशानचूर्णितघासस्य चारी//9//
444.003. न चरसि बहुमतस्तदर्थे मासिदिह हि चर यानसहस्रपूर्णयायी/ 444.005. ह्यवसनमिदं तृषापनीतं न चरसि किं वद मे ऽद्य साधु पृष्टः//10//
444.007. तमकथयदमर्षितः सकोपं परमयवार्जवधैर्यसम्प्रयुक्तः/ 444.009. उपशममथ संप्रचिन्त्य तस्मात् तुरगवरो नरसूतमैत्रबुद्धिः//11//
444.011. त्वमिह विधिहितप्रदाभिमानी न च विहितो भवतो यथावदस्मि/ 444.013. निधनमहमिह प्रयायमाशु न च बिदुषाय तरय पूर्व्याम्//12//
444.015. सुचिरमपि हि न सज्जनावमानो यदि गुणवानसि सौम्य नावमानः/ 444.017. क्षणमापि खलु सज्जनावमानो यदि गुणवानसि नावमानः//13//
444.019. सूतो राज्ञः कथयति--देवस्यानुपूर्वी न कृता यनैष यवसयोग्याशनं न गृह्णाति/ 444.020. कास्यानुपूर्वी कृता? अस्यायमुपचारः/ 444.020. सार्धतृतीयानि योजनानि मार्गशोभा कर्तव्या/ 444.020. राजाभिषिक्तश्चतुरङ्गेन बलकायेन सार्धं प्रत्युद्गच्छति/ 444.021. यस्मिन् प्रदेशे स्थाप्यते, स प्रदेशस्ताम्रपट्टैर्बध्यते/ 444.022. राज्ञो ज्येष्ठपुत्रः/ 444.022. स तस्य शतशलाकं छत्रं मूर्ध्नि धारयति/ 444.022. राज्ञो ज्येष्ठा दुहिता सौवर्णेन मणिव्यजनेन मक्षिकान् वारयति/ 444.023. राज्ञो ऽग्रमहिषी सौवर्गस्थाले मधुम्रक्षितकान् मूलान् भक्षयतो धारयति/ 444.024. राज्ञो ऽग्रामात्यः सौवर्णेन लक्षणेन लड्डीश्छोरयति/ 444.024. राजा कथयति--एष नाम राजा, नाहं स राजेति/ 444.025. सूतः कथयति--देव, नास्य सर्वकालमेष उपचारः क्रियते/ 444.026. अपि तु सप्ताहस्यात्ययाद्विधेयो भवति/ 444.026. राजा कथयति--यत्तावदतीतं न शक्यं तत्पुनः कर्तुम्, यदवशिष्टं तत्क्रियताम्/ 444.027. यस्मिन् प्रदेशे ताम्रपड्डैर्बद्धः, तस्य राज्ञो ज्येष्ठः पुत्रः शतशलाकां धारयति, राज्ञो ज्येष्ठा दुहिता सौवर्णमणिमयवालव्यजनेन मक्षिकान् वारयति, राज्ञो ऽग्रमाहिषी सौवर्णेन स्थालेन मधुम्रक्षितकान् मूलान् भक्षयतो धारयति, राज्ञो ऽमात्यः सौवर्णेन लक्षणेन लड्डीश्छोरयति/ 444.030. तमनुनयति पार्थिवः/ 444.030. ससृतपरमसुगन्धिविलेपनानुधारी मधुरमधुरकृतान्तरानुरागा नृपमहिषी तुरगोत्तमाय दत्ता राज्ञा/ 444.031. उद्यानभूमिं निर्गन्तुकामो ऽस्याश्चाजानेय उपगम्य पृष्ठमुन्नामयति/ 444.031. राजा सूतं पृच्छति--राजा अस्य पृष्ठं दुःखयति/ 444.031. स कथयति--किं तु राजा <445>दुःखमधिरोक्ष्यतीति/
445.001. यतो ऽनेनावनामितं स राजा तमभिरुह्य संप्रस्थितः/ 445.001. तस्य गच्छतः पानीयमागतम्/ 445.002. स तत्र नावतरति/ 445.002. राजा सूतं पृच्छति--एषो बिभेति? देव, नैष बिभेति/ 445.002. अपि तु मा राजानं पुच्छोदकेन सेक्ष्यामीति/ 445.003. तस्य तत्पुच्छं सौवर्णायां नालिकायां प्रक्षिप्तम्/ 445.003. स तं पानीयमुत्तीर्णः/ 445.004. स उद्यानं गत्वा प्रमत्तो ऽवस्थितः/ 445.004. सामन्तराजैः श्रुतम्--यथा राजा ब्रह्मदत्त उद्यानं गत इति/ 445.005. तैरागत्य नगरस्य द्वाराणि बन्धयन्ति/ 445.005. राज्ञा ब्रह्मदत्तेन श्रुतं सामन्तराजैर् नगरद्वाराणि निगृहीतानीति/ 445.006. सो ऽश्वाजानेयमभिरूढः/ 445.006. अन्तरा च वाराणस्यन्तरा चोद्यानमत्रान्तरा ब्रह्मवती नाम पुष्किरिण्युत्पलकुंदपुण्डरीकसंछन्ना/ 445.007. सो ऽश्वाजानेयः पद्मोपरि सरन् वाराणसीं प्रविष्टः/ 445.008. राजा तुष्टो ऽमत्यानां कथयति--भवन्तः, योराज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य जीवितमनुप्रयच्छति, किं तस्य कर्तव्यम्? देव, उपार्धराज्यं दातव्यम्/ 445.009. राजा कथयति--तिर्यगेषः/ 445.010. किमस्योपार्धराज्येन? अपि त्वेनमागम्य सप्ताहं दानानि दीयन्ताम्, पुण्यानि क्रियन्ताम्, अकालकौमुदी च क्रियताम्/ 445.011. अमात्यैः सप्ताअहं दानानि दातुमारब्धानि, पुण्यानि कर्तुमारब्धानि, सप्ताहमकालकौमुदी प्रस्थापिता/ 445.012. सार्थवाहः पुरुषान् पृच्छति--भवन्तः, किमकालकौमुदी वर्तते? ते ऽस्य कथयन्ति--पूजितं नामाधिष्ठानम्/ 445.013. ततः कुम्भकारस्य सकाशात् सुवर्णलक्षेणाश्वाजानेयं गृहीत्वा इहानीतम्/ 445.014. तेनाद्य राज्ञो जीवितं दत्तम्/ 445.014. तमागम्य सप्ताहं दानानि दातुमारब्धानि, पुण्यानि क्रियन्ते, अकालकौमुदी च प्रस्थापिता/ 445.015. सार्थवाहः संलक्षयति--यो मया छोरितो नाम, स एष किशोरको ऽश्वाजानेयः स्यात्? तत्तावद्गत्वा पश्यामि/ 445.017. स तस्य सकाशं गतः/ 445.017. स तेनाश्वाजानेयेनोक्तह्--भोः पुरुष, किं त्वया तेषामश्वानां सकाशाल्लब्धम्? मयैकाकिनैव तस्य कुम्भकारस्य सुवर्णलक्षं दत्तम्/ 445.018. स मूर्छितकः पृथिव्यां निपतितः/ 445.019. जलपरिषेकेन प्रत्यागतप्राणः पादयोर् निपत्य क्षमापितवान्//
445.020. किं मन्यध्वे ब्ःक्षवो यो ऽसौ सार्थवाहः, एष एव जीवकस्तेन कालेन तेन समयेन/ 445.021. यो ऽश्वाजानेयः, एष एव पन्थकस्तेन कालेन तेन समयेन/ 445.021. तदापि यदा अस्यैष गुणानामनभिज्ञः, तदास्यासत्कारं प्रयुक्तवान्/ 445.022. यदा तु गुणानामभिज्ञः, तदा पादयोर् निपत्य क्षमापितवान्/ 445.023. एतर्ह्यप्येष यदा गुणानामनभिज्ञः, तदा असत्कारं प्रयुक्तवान्/ 445.023. यदा गुणानामभिज्ञः, तदा पादयोर् निपत्य क्षमपयति//
445.025. इति श्रीदिव्यावदाने चूडापक्षावदानं समाप्तम्//
********** अवदान 36 **********
446.001. दिव्36 माकन्दिकावदानम्/
446.002. बुद्धो भगवान् कुरुषु जनपदचारिकां चरत् कल्माषदम्यमनुप्राप्तः/ 446.002. तेन खलु पुनः समयेन कल्माषदम्ये माकन्दिको नाम परिव्राजकः प्रतिवसति/ 446.003. तस्य साकलिर् नाम पत्नी/ 446.004. तस्य दुहिता जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता/ 446.004. तस्या अस्थीनि सूक्ष्माणि सुसूक्ष्माणि, न शक्यत उपमा कर्तुम्/ 446.005. तस्यास्त्रीणि सप्ताहान्येकविंशतिं दिवसान् विस्तरेण जातिमही संवृत्ता यावज्जातमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारिकाया नामेति? ज्ञातय ऊचुह्--इयं दारिका अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता/ 446.008. तस्या अस्थीनि सूक्ष्माणि सुसूक्ष्माणि, न शक्यते उपमा कर्तुम्/ 446.008. भवतु दारिकाया अनुपमेति नाम/ 446.009. तस्या अनुपमेति नामधेयं व्यवस्थापितम्/ 446.009. सोन्नीता वर्धिता/ 446.009. माकन्दिकः संलक्षयति--इयं दारिका न मया कस्यचित् कुलेन दातव्या न धनेन नापि श्रुतेन, किं तु यो ऽस्या रूपेण समो वाप्यधिको वा, तस्य मया दातव्येति//
446.012. अत्रान्तरे भगवान् कुरुषु जनपदेषु चारिकां चरन् कल्माषदम्यमनुप्राप्तः/ 446.012. कल्माषदम्ये विहरति कुरूणां निगमे विहरति/ 446.013. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय कल्माषदम्यं पिण्डाय प्राविक्षत्/ 446.014. कल्माषदम्यं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तः/ 446.015. पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाम्य अन्यतमवृक्षमूलं निश्रित्य निषण्णः सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा/ 446.016. तेन खलु समयेन माकन्दिकः परिव्रजकः पुष्पसमिधस्यार्थे निर्गतो ऽभुत्/ 446.017. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं दूरदेवान्यतरवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्क बद्ध्वा निषण्णं भगवन्तं दूरादेवान्यतरवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीलृतं पर्यङ्कं बद्ध्वा निषण्णं प्रासादिकं प्रदर्शनीयं शान्तेन्द्रियं शान्तमानसं परमेण चित्तव्युपशमेन समन्वागतं सुवर्णयूपमिव श्रिया ज्वलन्तम्/ 446.020. दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातः/ 446.020. स संलक्षयति--यादृशो ऽयं श्रमणः प्रासादिकः प्रदर्शनीयः सकलजनमनोहारी, दुर्लभस्तु सर्वस्त्रीजनस्य पतिः प्रतिरूपः प्रागेव अनुपमायाः/ 446.022. लब्धो मे जामातेति/ 446.022. येन स्वं निवेशनं तेनोपसंक्रान्तः/ 446.022. उपसंक्रम्य पत्नीमामन्त्रयते--यत्खलु भद्रे जानीयाह्--लब्धो मे दुहितुर्जामाता/ 446.023. अलंकुरुष्व, अनुपमां ददामीति/ 446.024. सा कथ्यति--कस्य प्रयच्छसीति? स कथयति--श्रमणस्य गौतमस्येति/ 446.024. सा कथयति--गच्छावस्तावत्पश्याव इति/ 446.025. माकन्दिकस्तया सार्धं गतः/ 446.025. दूरात्तया दृष्टः/ 446.025. तस्या अन्तर्मार्गे स्मृतिरुपपन्ना/ 446.026. गाथां भाषते-- 446.027. दृष्टो मया विप्र स पिण्डहेतोः कल्माषदम्ये विचरन्महर्षिः/ 446.029. भूरत्नभा सन्ति तस्य प्रगच्छतो ऽत्युन्नमते न चैव(?)//1//
446.031. नासौ भक्तां भजते कुमारिकाम्/ 446.031. निवर्त, यास्यामः स्वकं निवेशनम्/ 446.031. सो ऽपि गाथां भासते--
447.001. <447>अमङ्गले साकलिके त्वं मांगलयकाले वदसे ह्यमङ्गलम्/ 447.003. सचेद्द्रुत समधिकृतं भविष्यति पुनरप्यसौ कामगुण्येषु रंस्यते//2// इति/ 447.005. सा आनुपमां वस्त्राम्लकारैरलंकृत्य संप्रस्थिता/ 447.005. भगवानपि तस्नाद्वनषण्डादन्यवनषण्डं संप्रस्ह्तितः/ 447.006. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं तृणसंस्तरणकम्/ 447.006. दृष्ट्वा च पुनः पत्नीमामन्त्रयते--यत्खलु भवति जानीयाह्--एष ते दुहितुस्तृणसंस्तरक इति/ 447.007. सा गाथां भाषते-- 447.009. रक्तस्य शय्या भवततिविकोपिता द्विष्टस्य शय्या सहसा निपीडिता/ 447.011. सूढस्य शय्या खलु पादतो गता सुवीतरागेण निसेविता न्वियम्/ 447.013. नासौ भर्ता भजते कुमारिकां निर्वत, यास्यामः स्वं निवेशनम्//3//
447.015. अमङ्गले साकलिके त्वं मङ्गल्यकाले वदसे ह्यमङ्गलम्/ 447.017. साचेद्द्रुतं समधिकृतं भविष्यति पुनरप्यसौ कामगुणेषु रंस्यते//4//
447.019. अद्राक्षीन्माकन्दिकः परिव्राजकः/ 447.019. भगवतः पदानि दृष्ट्वा पुनः पत्नीमामन्त्रयते--इमानि ते भवन्ति भद्रे दुहितुर्जामातुः पदानि/ 447.020. गाथां भाषते-- 447.021. रक्तस्य पुंसः पदमुत्पटं स्यान्निपीडितं द्वेषवतः पदं च/ 447.023. पदं हि मूढस्य विसृष्टदेहं सुवीतरागस्य पदं त्विहेदृशम्/ 447.025. नासौ भर्ता भजते कुमारिकाम्/ 447.026. निवर्त, यास्यामः स्वकं निवेशनम्//5//
447.027. अमङ्गले साकलिके पूर्ववत्/ 447.028. भगवतोत्कशशब्दः कृतः/ 447.028. अश्रौषीन्माकन्दिकः परिव्राजको भगवत उत्काशनशब्दं शुश्राव/ 447.029. श्रुत्वा च पुनः पुनः पत्नीमामन्त्रयते--एष ते भवति हुहितुर्जामातुरुत्काशनशब्द इति/ 447.030. सा गाथां भाषते-- 447.031. रक्तो नरो भवति हि गददस्वरो द्विष्टो नरो भवति हि खक्खटास्वरः/
448.001. <448>मूढो नरो हि भवति समाकुलस्वरो बुद्धो ह्ययं ब्राह्मणदुन्दुभिस्वरः/ 448.003. नासौ भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्//3//
448.005. अमङ्गले साकलिके पूर्ववत्/ 448.006. भगवता माकन्दिकः परिव्राजको दूरादिवलोकितः/ 448.006. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तमवलोकयन्तम्/ 448.007. दृष्ट्वा च पुनः पत्नीमामन्त्रयते स्म--एष ते भवति दुहितुर्जामाता निरीक्षत इति/ 448.008. स गाथां भाषते-- 448.009. रक्तो नरो भवति हि चञ्चलेक्षणो द्विष्टो भुजगघोरविषो यथेक्षते/ 448.011. मूडो नरः संतमसीव पश्यति द्विजवीतरागो युगमात्रदर्शी/ 448.013. न एष भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्//7//
448.015. अमङ्गले साकलिके पूर्ववत्/ 448.016. भगवांश्चक्रम्यते/ 448.016. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं चंक्रम्यमाणम्/ 448.017. दृष्ट्वा च पुनः पत्नीमामन्त्रयते--एष दुहितुर्जामाता चंक्रम्यत इति/ 448.017. सा गाथां भाषते-- 448.018. यथास्य तेत्रे च यथावलेकितम् यथास्य काले स्थित एव गच्छतः/ 448.020. यथैव पद्मं स्तिमिते जले ऽस्य नेत्रं विशिष्टे वदने विराजते/ 448.022. न एष भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्//8//
448.024. अमङ्गले साकलिके त्वं मङ्गलकाले वदसे ह्यमङ्गलम्/ 448.026. सचेद्द्रुतं समधिकृतं भविष्यति पुनरप्ययं कामगुणेषु रंस्यते//9//
448.028. वशिष्ठोशीरमौनलायना(?) अपत्यहेतोरतत्काममोहिताः/ 448.030. धर्मो मुनीनां हि सनातनो ह्ययमपत्यमुत्पादितवान् सनातनः//10//
449.001. अथ माकन्दिकः परिव्राजको येन भगवांस्तेनोपसंक्रान्तः/ 449.001. उपसंक्रम्य भगवन्तमिदमवोचत्-- 449.003. इमां भगवान् पश्यतु मे सूतां सतीं रूपोपपन्नां प्रमदामलंकृताम्/ 449.005. कामार्थिनीम् यद्भवते प्रदीयते सहानया साधुरिवाचरतां भवान्/ 449.007. समेत्य चन्द्रो नभसीव रोहिणीम्//11//
449.008. भगवान् संलक्षयति--यद्यहमनुपमाया अनुनयवचनं ब्रूयाम्, स्थानमेतद्विद्यते यदनुपमा रागेण स्विन्ना कालं कुर्वाणा भविष्यति/ 449.009. तत्तस्याः प्रतिघवचनं ब्रूयामिति विदित्वा गाथां भाषते-- 449.011. दृष्टा मया मारसुता हि विप्र तृष्णा न मे नापि तथा रतिश्च/ 449.013. छन्दो न मे कामगुणेषु कश्चित्/ 449.014. तस्मादिमां मूत्रपुरीषपूर्णां प्रष्टुं हि यत्तामपि नोत्सहेयम्//12//
449.016. माकन्दिको गाथां भाषते-- 449.017. सुतामिमां पश्यसि किं मदीयां हीनाङ्गिनीं रूपगुणैर्वियुक्ताम्/ 449.019. छन्दं न येनात्र करोषि चारौ विविक्तभावेष्विव कामभोगी//13// इति/ 449.021. भगवानपि गाथां भाषते-- 449.022. यस्मादिहार्थी विषयेषु मूटः स प्रार्थयेद्विप्र सुतां तवेमाम्/ 449.024. रूपोपपन्नां विषयेषु सक्तामवीतरागो ऽत्र जनः प्रमूडः//14//
449.026. अहं तु बुद्धो मुनिसत्तमः कृती प्राप्ता मया बोधिरनुत्तरा शिवा/ 449.028. पद्मम् यथा वारिकणैरलिप्तं चरामि लोके ऽनुपलिप्त एव//15//
449.030. नीलाम्बुजं कर्दमवारिमध्ये यथा च पङ्केन व नोपलिप्तम्/ 449.032. तथा ह्यहं ब्राह्मण लोकमध्ये चरामि कामेषु विविक्तह् {एव}//16// इति/
450.001. अथानुपमा भगवता मूत्रपुरीषवादेन समुदाचरिता वीतहर्षा दुर्मनाः संवृत्ता/ 450.001. तस्या यद्रागपर्यवस्थानं तद्विगतम्, द्वेषपर्यवस्थानमुत्पन्नम्, स्थूलीभूतार्यस्थीतिकावरीभूतेक्षिणी(?)/ 450.003. तेन स खलु समयेनान्यतमो महल्लो, भगवतः पृष्ठतः स्थितो ऽभूत्/ 450.003. अथ महल्लो भगवन्तमिदमवोचत्-- 450.005. समन्तदृष्टे प्रतिगृह्य नारीमस्मत्समेतां भगवन् प्रयच्छ/ 450.007. रता वयं हि प्रमदामलंकृतां भोक्ष्यामहे घीर यथानुलोमम्//17// इति/ 450.009. एवमुक्ते भगनांस्तं महल्लमिदमवोचत्--अपेहि पुरुष, मा मे पुरतस्तिष्ठेति/ 450.009. स रुषितो गाथां भाषते-- 450.011. इदं च ते पात्रमिदं च चीवरम् यष्टिश्च कुण्डी च व्रजन्तु निष्ठाम्/ 450.013. इमां च शिक्षां स्वयमेव धारय धात्री यथा ह्यङ्कगतं कुमारकम्//18// इति/ 450.015. एवमुक्ते स महल्लः शिक्षां प्रत्याख्याय महाननार्यो ऽयमिति मत्वा येन माकन्दिकः परिव्राजकस्तेनोपसंक्रान्तः/ 450.016. उपसंक्रम्य माकन्दिकं परिव्राजकमिदमवोचत्--अनुप्रयच्छममान्तिके ऽनुपमामिति/ 450.017. स पर्यवस्थितः कथयति--महल्ल, द्रष्टमपि ते न प्रयच्छामि, प्रागेव स्पर्च्टुमिति/ 450.018. एवमुक्तस्य माकन्दिकस्य परिव्राजकस्यान्तिके तादृशं पर्यवस्थानमुपन्नम् येनोष्णं शोणितं छर्दयित्वा कालगतो नरकेषूपपन्नः//
450.020. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त, भगवता अनुपमा लभ्यमाना न प्रतिगृहीतेति/ 450.021. भगवानाह--न भिक्षव एतर्हि, यथा अतीते ऽप्यध्वन्येषा मया लभ्यमाना न प्रतिगृहीता/ 450.022. तच्छ्रूयताम्//
450.023. भूतपूर्वं भिक्षवो ऽन्यतमस्मिङ्कर्वटके ऽयस्कारः प्रतिवसति/ 450.023. तेन सदृशात्कुलात् कलत्रमानीतम्/ 450.024. पूर्ववद्यावद्दुहिता जाता अभिरूपा दर्शनीया प्रासादिका/ 450.024. उन्नीता वर्धिता महानीतं संवृत्ता/ 450.025. अयस्कारः संलक्षयति--मयैषा दुहिता न कस्यचित् कुलेन दातव्या, न रूपेण न धनेन, अपि तु यो मम शिल्पेन समो ऽभ्यधिको वा, तस्याहमेनां दास्यामीति/ 450.027. याअवदन्यतमो माणवो भिक्षार्थी तस्य गृहं प्रविष्टः/ 450.027. सा दारिका भैक्षमादाय निर्गता/ 450.027. स माणवस्तां दृष्ट्वा कथयति--दारिके, त्वं कस्यचिद्दत्ता आहोस्विन्न दत्तेति? सा कथयति--यदा जाताहं तदैव मत्पितैवाङ्गीकृत्य वदति--दुष्करमसौ मां कस्यचिद्दास्यति/ 450.029. किं तव पिता वदति? यो मम शिल्पेन समो ऽभ्यधिको वा, अस्याहमेनां दास्यामीति/ 450.030. तव पिता कीदृशं शिल्पं जानीते? सूचीमीदृशां करोति यावदुदके प्लवते/ 450.031. स माणवः संलक्षयति--किं चाप्यहमनयानर्थी, मदापनयो ऽस्य कर्तव्य इति/ 450.032. कुशलो ऽसौ तेषु तेषु शिल्पस्थानकर्मस्थानेषु/
451.001. <451>तेनायस्कारभाण्डिकाम् याचित्वा अन्यत्र गृहे सुसूक्ष्माः सूच्यो घटिताः, या उदके प्लवन्ते/ 451.002. एका च महती घटिता यस्यां सप्त सूच्यः प्रतिक्षिप्ताः सह तया प्लवन्ते/ 451.002. स ताः कृत्वा तस्यायस्कारस्य गृहमागतः/ 451.003. स कथयति--सूच्यः सूच्य इति/ 451.003. तया दारिकया दृष्टाः/ 451.003. सा गाथां भाषते-- 451.005. उन्मत्तकस्त्वं कटुको ऽथ वासि अचेतनः/ 451.006. अयस्कारगृहे यस्त्वं सूचीं विक्त्रेतुमागतः//19// इति/ 451.007. सो ऽपि गाथां भाषते-- 451.008. नाहमुन्मत्तको वास्मि कटुको ऽहमचेतनः/ 451.009. मानावतारणार्थं तु मया शिल्पं प्रदृश्यते//20//
451.010. सचेत्पिता ते जानीयाच्छिल्पं मम हि यादृशम्/ 451.011. त्वां चैवानुप्रयच्छेत अन्यच्च विप्रतम् (विपुलम्?) धनम्//21// इति/ 451.012. सा कथयति--कीदृशं त्वं शिल्पं जानीषे? ईदृषीं सूचीं करोमि योदके प्लवते/ 451.013. तया मातुर् निवेदितम्--अम्ब, शिल्पकर्मात्रागत इति/ 451.013. सा कथयति--प्रवेशयेति/ 451.013. तया प्रवेशितः/ 451.014. अयस्कारभार्या कथयति--कीदृशं त्वं शिल्पं जानीषे? तेन समाख्यातम्/ 451.014. तया स्वामिने निवेदितः/ 451.015. आर्यपुत्र, अयं शिल्पदारकः/ 451.015. ईदृशं जानीत इति/ 451.015. स कथयति--यद्येवमानय पानीयम्, पश्यामीति/ 451.016. तया पानीयस्य भाजनं पूरयित्वोपनामितम्/ 451.016. तेनैका सूची प्रक्षिप्ता/ 451.017. सा प्लोतुमारब्धा/ 451.017. एवं द्वितीया, तृतीया/ 451.017. ततः सा महती सूची प्रक्षिप्ता/ 451.017. सापि प्लोतुमारब्धा/ 451.018. पुनस्तस्यामेका सूची प्रक्षिप्ता/ 451.018. तथापि प्लोतुमारब्धा/ 451.018. एवं द्वितीयां तृतीयाम् यावत् सप्तसूचीं प्रक्षिप्य प्रक्षिप्तास्तथापि प्लोतुमारब्धाः/ 451.019. अयस्कारः संलक्षयति--ममैषो ऽधिकतरः शिल्पेन/ 451.020. अस्मै दुहितरमनुप्रयच्छाम्/ 451.020. इति विदित्वा तां दारिकां सर्वालंकारविभूषितां कृत्वा वामेन पाणिना गृहीत्वा दक्षिणेन पाणिना भृङ्गारकमादाय माणवस्य पुरतः स्थित्वा कथयति--इमां ते ऽहं माणवक दुहितरमनुप्रयच्छामि भार्यार्थायेति/ 451.022. स कथयति--नाहमनयार्थी, किं तु तवैव मदापनयः कर्तव्य इति मया शिल्पमुपदर्शितमिति//
451.024. भगवानाह--किं मन्यध्वे भिक्षवो यो ऽसौ माणवः, अहमेव स तेन कालेन तेन समयेन/ 451.025. यो ऽसावयस्कारः, एष एव माकन्दिकस्तेन कालेन तेन समयेन/ 451.025. यासावयस्कारभार्या, एषैवासौ माकन्दिकभार्या तेन कालेन तेन समयेन/ 451.026. यासावयस्कारदुहिता, एषैवासावनुपमा तेन कालेन तेन समयेन/ 451.027. तदाप्येषा मया लभ्यमाना न प्रतिगृहीता/ 451.028. एतर्ह्यप्येषा मया लभ्यमाना न प्रतिगृहीता//
451.029. पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त अयं महल्लको ऽनुपमामागम्यानयेन व्यसनमापन्न इति/ 451.030. भगवानाह--भिक्षव एतर्हि यथातीते ऽप्यध्वन्येष अनुपमामागम्य सान्तःपुरो ऽनयेन व्यसनमापन्नः/ 451.031. तच्छ्रूयताम्//
452.001. <452>भूतपूर्वं भिक्षवः सिंहकल्पायां सिंहकेसरी नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनं पूर्ववद्यावद्धर्मेण राज्यं कारयति/ 452.002. तेन खलु समयेन सिंहकल्पायां सिंहको नाम सार्थवाहः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहः पूर्ववद्यावत्तेन कलत्रमानीतम्/ 452.004. सा आपन्नसत्त्वा संवृत्ता/ 452.004. न चास्याः किंचिदमनो ऽज्ञशब्दश्रवणम् यावद्गर्भस्य परिपाकाय/ 452.005. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता/ 452.005. दारको जातह् अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णह् छत्राकारशिराः प्रलम्बबाहुर्विद्तीर्णललाट उच्चघोण संगतभ्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः/ 452.007. तस्य त्रीणि सप्तकान्येकविंशतिं दिवसान् विस्तरेण तस्य जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारकस्य नामेति? ज्ञातय ऊचुह्--अयं दारकः सिंहस्य सार्थवहस्य पुत्रः/ 452.009. भवतु सिंहल इति नाम/ 452.009. तस्य सिंहल इति नामधेयं व्यवस्थापितम्/ 452.010. सिंहलो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तः पूर्ववद्यावदष्टासु परीक्षासु घटको वाचकः पिण्डितः पटुप्रचारः संवृत्तः/ 452.011. तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्/ 452.012. त्रीण्यन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयसम्/ 452.013. सो ऽपरेण समयेन पितरमाह्वयते--तात, अनुजानीहि, महासमुद्रमवतरामीति/ 452.014. स कथयति--पुत्र, तावत्प्रभूतं मे धनजातमस्ति यदि त्वं तिलतण्डुलकुलत्थादिपरिभोगेन रत्नानि मे परिभोक्ष्यसे, तथापि मे
भोगा न तनुत्वं परिक्षयं पर्यादानं गमिष्यन्ति/ 452.015. तद्यावदहं जीवामि, तावत् क्रीड रमस्व परिचारय/ 452.016. ममात्ययाद् धनेनोपार्जितं करिष्यसीति/ 452.016. स भूयो भूयः कथयति--तात, अनुजानीहि, महासमुद्रमवतरामीति/ 452.017. स तेनावश्यनिर्बन्धं ज्ञात्वा उक्तह्--पुत्र, एवं कुरु/ 452.018. किं तु भयभैरवसहिष्णुना ते भवितव्यमिति/ 452.018. तेन सिंहकल्पायां राजधान्यां घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तः सिंहकल्पनिवासिनो वणिजो नानादेशाभ्यागताश्च/ 452.020. सिंहलसार्थवाहो महासमुद्रमवतरिष्यतीति/ 452.020. यो युष्माकमुत्सहते सिंहलेन सार्थवाहेन सार्धमशुल्केनातरपण्येन महासमुद्रमवतर्तुम्, स महासमुद्रगमनीयं पण्यं समुदानयत्विति/ 452.022. ततः पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्/ 452.022. मातापितरौ भृत्यांश्च सुहृत्सम्बन्धिबान्धवानवलोक्य दिवसतिथिमुहूर्तप्रयोगेण कृतकौतुकम.ङ्गलस्वस्त्ययनः शकटैर्भारैः पिटकैर् मूटैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं महासमुद्रगमनीयं पण्यमादाय पञ्चभिर्वणिक्शतैः सपरिवारः संप्रस्थितः/ 452.025. सो ऽनुपूर्वेण ग्रामनगरनिगमराष्ट्राजधानीषु चञ्चूर्यमाणः पत्तनान्यवलोकयन् समुद्रतीरमनुप्राप्तः/ 452.026. विस्तरेण राक्षसीसूत्रं सर्वं वाच्यम्/ 452.026. सर्वे ते वणिजो बालहाश्वराजात्पतिताः, ताभिश्च राक्षसीभिर्भक्षिताः/ 452.027. सिंहलक एकः स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्राप्तः/ 452.028. सिंहलभार्या या राक्षसी सा राक्षसीभिरुच्यते--भगिनि, अस्माभिः स्वकस्वकाः स्वामिनो भिक्षिताः, त्वया स्वामी निर्वाहितः/ 452.029. यदि
तावत्तमानयिष्यसीत्येवं कुशलम्, नो चेत्वां भक्षयाम् इति/ 452.030. सा संत्रस्ता कथयति--यदि युष्माकमेष निर्बन्धो मां धरिष्यथ आनयामीति/ 452.031. ताः कथयन्ति--शोभनम्/ 452.031. एवं कुरुष्वेति/ 452.031. सा परमभीषणरूपमभिनिर्माय लघुलध्वेव गत्वा सिंहलस्य सार्थवाहस्य पुरतो गत्वा स्थिता/ 452.032. सिंहलेन सार्थवहेन निष्कोषमसिं कृत्वा <453>संत्रासिता अपक्रान्ता/
453.001. यावन्मध्यदेशात् सार्थ आगतः/ 453.001. सा राक्षसी सार्थवाहस्य पादयोर् निपत्याह--सार्थवाह, अहं ताम्रद्वीपकस्य राज्ञो दुहिता/ 453.002. तेनाहं सिंहलसार्थवाहस्य भार्यार्थं दत्ता/ 453.003. तस्य महासमुद्रमध्यगतस्य मकरेण मत्स्यजातेन यानपात्रं भग्नम्/ 453.003. तेनाहममङ्गलेति कृत्वा छोरिता/ 453.004. तदर्हसि तं ममोपसंवरयितुमिति/ 453.004. तेनाधिवासितं क्षमापयामीति/ 453.004. स तस्य सकाशं गतः/ 453.005. विश्रम्भकथालापेन मुहूर्तं स्थित्वा कथयति--वयस्य, राजदुहितासौ त्वया परिणिता/ 453.006. मा तामस्थाने परित्यज, क्षमस्वेति/ 453.006. स कथयति--वयस्य, नासौ राजदुहिता, ताम्रद्वीपादसौ राक्षसी/ 453.007. अथ कथमिहागता? तेन वृत्तमारोचितम्/ 453.007. स तूष्णीमवस्थितः/ 453.008. सिंहलः सार्थवाहो ऽनुक्रमतः स्वगृहमनुप्राप्तः/ 453.008. सापि राक्षसी स्वयमतीवरूपयौवनसम्पन्नमहासुन्दरीमानुषीरूपमास्थाय सिंहलसदृशनिर्विशेषसुन्दरं पुत्रं निर्माय तं पुत्रमादाय सिंहकल्पां राजधानीमनुप्राप्ता/ 453.010. सिंहलस्य सार्थवाहस्य स्वगृहद्वारमूले ऽवस्थिता/ 453.010. जनकायेनासौ मुखबिम्बकेन प्रत्यभिज्ञातः/ 453.011. ते कथयन्ति--भवन्तः, ज्ञायन्तामयं दारकः सिंहलस्य सार्थवाहस्य पुत्र इति/ 453.012. राक्षसी कथयति--भवन्तः, परिज्ञातो युष्माभिः/ 453.012. तस्यैवायं पुत्र इति/ 453.013. ते कथयन्ति--भगिनि, कुत आगता, कस्य वा दुहिता त्वमिति? सा कथयति--भवन्तः, अहं ताम्रद्वीपराजस्य दुहिता सिंहलस्य सार्थवाहस्य भार्यार्थं दत्ता/ 453.014. महासमुद्रमध्यगतस्य सार्थवाहस्य
मत्स्यजातेन यानपात्रं भग्नम्/ 453.015. तेनाहममङ्गलेति कृत्वा अस्थाने छोतिता, कथंचिदिह संप्राप्ता/ 453.016. क्षुद्रपुत्राहम्/ 453.016. अर्हथ सिंहलं सार्थवाहं क्षमयितुमिति/ 453.016. तैस्तस्य मातापित्रोर् निवेदितम्/ 453.017. स ताभ्यामुक्तह्--पुत्र, मैनाम् {त्यज}दुहितरं राज्ञः, क्षुद्रपुत्रेयं तपस्विनी, क्षमेति/ 453.018. स कथयति--तात, नैषा राजदुहिता, राक्षस्येषा ताम्रद्वीपादिहागतेति/ 453.018. तौ कथयतह्--पुत्र, सर्वा एव स्त्रियो राक्षस्यः/ 453.019. क्षमेति/ 453.019. तात, यद्येषा युष्माकमभिप्रेता, एतां गृहे धारयत/ 453.020. अहमप्यन्यत्र गच्छामीति/ 453.020. तौ कथयतह्--पुत्र, सुतरां वयमेनां तवैवार्थाय धारयामः/ 453.020. यद्येषा तव नाभिप्रेता, किमस्माकमनया? न धारयाम इति/ 453.021. ताभ्यां निष्कासिता/ 453.021. सा सिंहकेसैणो राज्ञः सकाशं गता/ 453.022. अमात्यै राज्ञो निवेदितम्--देव, ईदृशी रूपयौवनसम्पन्ना स्त्री राजद्वारे तिष्ठतीति/ 453.023. राजा कथयति--प्रवेशयेति/ 453.023. पश्याम इति/ 453.023. सा तैः प्रवेशिता/ 453.023. हारिणीन्द्रियाणि/ 453.024. राजा तां दृष्ट्वा रागेनोत्क्षिप्तः/ 453.024. स्वागतवादसमुदाचारेण तां समुदाचर्य कथयति--कुतः कथमत्रागता, कस्य वा त्वमिति/ 453.025. सा पादयोर् निपत्य कथयति--देव, अहं ताम्रद्वीपकस्य राज्ञो दुहिता सिंहलस्य सार्थवाहस्य भार्वार्थं दत्ता/ 453.026. तस्य महासमुद्रमध्यगतस्य मकरेण मत्स्यजातेन यानपात्रं भग्नम्/ 453.027. तेनाहममङ्गलेति श्रुत्वा अस्थाने छोतिता, कथंचिदिह संप्राप्ता/ 453.028. क्षुद्रपुत्राहम्/ 453.028. तदर्हसि देव तमेव सिंहलं
सार्थवाहं क्षमापयितुमर्हसि/ 453.028. तेन राज्ञा समाश्वासिता/ 453.029. अमात्यानामाज्ञा दत्ता--गच्छन्तु भवन्तः, सिंहलं सार्थवाहं शब्दयतेति/ 453.029. तैरसौ शब्दितः/ 453.030. राजा कथयति--सिंहल, एनां राजादुहितरं धारय, क्षमस्वेति/ 453.030. स कथयति--देव, नैषा राजदुहिता, राक्षस्येषा ताम्रद्वीपादिहागतेति/ 453.031. राजा कथयति--सार्थवाह, सर्वा एव स्त्रियो राक्षस्यः, क्षमस्व/ 453.032. अथ तव नाभिप्रेता, ममानुप्रयच्छेति/ 453.032. सार्थवाहः कथयति--देव, <454>राक्षस्येषा/
454.001. नाहं ददामि, न वरयामीति/ 454.001. सा राज्ञा अन्तःपुरं प्रवेशिता/ 454.001. तया राजा वशीकृतः/ 454.002. यावदपरेण समयेन राज्ञः सान्तःपुरस्यास्वापनं दत्वा तासां राक्षसीनां सकाशं गत्वा कथयति--भगिन्यः, किम् युष्माकं सिंहलेन सार्थवाहेन? मया सिंहकेसरिणो राज्ञः सान्तःपुरस्यास्वापनं दत्तम्/ 454.004. आगच्च्छत, तं भक्षयाम इति/ 454.004. ता विकृतकरचरणनासाः परमभैरवमात्मानमभिनिर्माय रात्रौ सिंहकल्पमागताः/ 454.005. ताभिरसौ राजा सान्तःपुरपरिवारो भक्षितः/ 454.006. प्रभातायां राजन्यां राजद्वारं न मुच्यते/ 454.006. राजगृहस्योपरिष्टात्कुणपखादकाः पक्षिणः परिभ्रामितुमारब्धाः/ 454.007. अमात्या भटबलाग्रनैगमजनपदाश्च राजद्वारे तिष्ठन्ति/ 454.007. एष शब्दः सिंहकल्पायां राजधान्यां समन्ततो विसृतह्--राजद्वारं न मुच्यते/ 454.008. राजगृहस्योपरिष्टात्कुणपखादकाः पक्षिणः परिभ्रमन्ति/ 454.009. अमात्या भटबलग्रं नैगमजनपदाश्च राजद्वारे तिष्ठन्तीति/ 454.010. सिंहलेन सार्थवाहेन श्रुतम्/ 454.010. स त्वरितत्वरितं खङ्गमादाय गतः/ 454.010. स कथयति--भवन्तः, क्षमं चिन्तयत/ 454.011. तया राक्षस्या राजा खादित इति/ 454.011. अमात्याः कथयन्ति--कथमत्र प्रतिपत्तव्यमिति? स कथयति--निश्रयणीमानयत, पश्यामीति/ 454.012. तैरानीता/ 454.012. सिंहलः सार्थवाहः खङ्गमादाय निरूठः/ 454.013. तेन ताः संत्रासिताः/ 454.013. तासां काश्चिद्धस्तपादानादाय निष्पलायिताः, काश्चिच्छिरः/ 454.014. ततः सिंहलेन सार्थवाहेन राजकुलद्वाराणि भुक्तानि/ 454.014. अमात्यै राजकुलं शोधितम्/ 454.015.
पौरामात्यजनपदाः संनिपत्य कथयन्ति--भवन्तः, राजा सान्तःपुरपरिवारो राक्षसीभिर्भक्षितः/ 454.016. कुमारो नास्य, कमत्राभिषिञ्चाम इति? तत्रैके कथयन्ति--यः सात्त्विकः प्रज्ञश्चेति/ 454.017. अपरे कथयन्ति--सिंहलात्सार्थवाहात् को ऽन्यः सात्त्विकः प्रज्ञश्च? सिंहलं सार्थवाहमभिषिञ्चाम इति/ 454.018. एवं कुर्मः/ 454.018. तैः सिंहलः सार्थवाह उक्तह्--सार्थवाह, राज्यं प्रतीच्छेति/ 454.019. स कथयति--अहं वणिक्संव्यवहारोपजीवी/ 454.019. किं मम राज्येनेति? ते कथयन्ति--सार्थवाह, नान्यः शक्नोति राज्यं धारयितुम्/ 454.020. प्रतीच्छेति/ 454.020. स कथयति--समयेन प्रतीच्छामि यदि मम वचनानुसारिणो भवथ/ 454.021. प्रतीच्छ, भवामः, शोभनं ते/ 454.021. तौरसौ नगरशोभां कृत्वा महता सत्कारेण राज्ये ऽभिषिक्तः/ 454.022. तेन नानादेशनिवासिनो विद्यावादिका आहूय भूयस्या मात्रया विद्या शिक्षिता, एवमिष्वस्त्राचार्या इष्वस्त्राणि/ 454.023. अमात्यानां चाज्ञा दत्ता--सज्जीक्रियतां भवन्तश्चतुरङ्गबलकायं संनाहितम्/ 454.025. सिंहलो राजा चतुरङ्गाद्बलकायाद्वरवराङ्गान् हस्तिनो ऽश्वान् रथान् मनुष्याश्च वहनेष्वरोप्य ताम्रद्वीपं संप्रस्थितः/ 454.026. स्नुपूर्वेण समुद्रतीरमनुप्राप्तः/ 454.026. तासां रक्षसीनामापणस्थानीयो ध्वजः कम्पितुमारब्धः/ 454.027. ताः संजल्पं कर्तुमारब्धाह्--भवत्यः, आपणस्थानीयो ध्वजः कम्पते/ 454.028. नूनं जाम्बुद्वीपका मनुष्या युद्धभिनन्दिन आगताः/ 454.029. समन्वेषाम इति/ 454.029. ताः समुद्रतीरं गताः/ 454.029. यावत् पश्यन्ति अनेकशतानि यानपात्राणि समुद्रतीरमनुप्राप्तानि/ 454.030. दृष्ट्वा च पुनस्ता
अर्धेन प्रत्युद्गताः/ 454.030. ततो विद्याधारिभिराविष्टा इष्वस्त्राचार्यैः संप्रघातिताः/ 454.031. अवशिष्टाः सिंहलस्य राज्ञः पादयोर् निपत्य कथयन्ति--देव, क्षमस्वेति/ 454.032. स कथयति--समयेन क्षमे, यदि यूयमेतन्नगरमुत्कीलयित्वा अन्यत्र गच्छथ, न च मद्विजिते <455>कस्यचिदपराध्यथेति/
455.001. ताः कथयन्ति--देव, एवं कुर्मः/ 455.001. शोभनम्/ 455.001. तं नगरमुत्कीलयित्वा अन्यत्र गत्वावस्थिताः/ 455.002. सिंहलेनापि राज्ञा आवासितमिति सिंहलद्वीपः सिंहलद्वीप इति संज्ञा संवृत्ता//
455.004. किं मन्यध्वे भिक्षवो यो ऽसौ सिमिहलः, अहमेव स तेन कालेन तेन समयेन/ 455.004. यो ऽसौ सिंहकेसरी राजा, एष एव स महल्लस्तेन कालेन तेन समयेन/ 455.005. या सा राक्षसी, एषैवानुपमा तेन कालेन तेन समयेन/ 455.006. तदाप्येच अनुपमाया अर्थे अनयेन व्यवसनमापन्नः/ 455.006. एतर्ह्यप्येष अनुपमाया अर्थे अनयेन व्यसनमापन्नः//
455.008. माकन्दिकः परिव्राजको ऽनुपमामादाय कौशाम्बीं गतः/ 455.008. अन्यतमस्मिन्नुद्याने ऽवस्थितः/ 455.009. उद्यानपालकपुरुषेण राज्ञ उदयनस्य वत्सराजस्य निवेदितम्--देव, स्त्री अभिरूपा दर्शनीया प्रासादिका उद्याने तिष्ठति/ 455.010. देवस्यैषा योग्येति श्रुत्वा राजा तदुद्यानं गतः/ 455.011. तेनासौ दृष्टा/ 455.011. हारीणीन्द्रियाणि/ 455.011. सहदर्शनादेवाक्षिप्तहृदयः/ 455.011. तेन माकन्दिकः परिव्राजक उक्तह्--कस्येयं दारिका? स आह--देव, मद्दुहिता देव, न कस्यचिद्/ 455.012. मम कस्मान्न दीयते? देव, दत्ता भवतु राज्ञः/ 455.013. शोभनम्/ 455.013. महाराजस्य बहवः पण्यपरिणीताः/ 455.013. तस्य पुष्पदन्तस्य परिणीता/ 455.014. तस्याः पुष्पदन्तस्य प्रासादस्यार्थं दत्तम्, पञ्चोपस्थायिकाशतानि दत्तानि, पञ्च च कार्षापणशतानि दिने दिने गन्धमाल्यनिमित्तम्/ 455.015. माकन्दिकः परिव्राजको ऽग्रामात्यः स्थापितः/ 455.016. तेन खलु पुनः समयेनोदयनस्य राज्ञस्त्रयो ऽग्रामात्या योगन्धरायणो घोषिलो माकन्दिक इति/ 455.017. यावदपरेण समयेन उदयनस्य राज्ञः पुरुष उपसंक्रान्तः/ 455.017. राज्ञा पृष्टह्--कस्त्वमिति? स कथयति--देव प्रियाख्यायीति/ 455.018. अमात्यानामाज्ञा दत्ता--भवन्तः, प्रयच्छत प्रियाख्यायिनो वृत्तिमिति/ 455.019. तैस्तस्य वृत्तिर्दत्ता/ 455.019. यावदपरः पुरुष उपसंक्रान्तः/ 455.019. सो ऽपि राज्ञा पृष्टह्--कस्त्वमिति? स कथयति--देव अप्रियाख्यायीति/ 455.020. राज्ञा अमात्यानामाज्ञा दत्ता--भवन्तः, प्रयच्छताअस्याप्यप्रियाख्यायिनो वृत्तिमिति/ 455.021. ते कथयन्ति--मा कदाचिद्देवो ऽप्रियं शृणुयात्/ 455.021. स कथयति--भवन्तः,
विस्तीर्णानि राजकार्याणि/ 455.022. प्रियच्छतेति/ 455.022. तैस्तस्यापि वृत्तिर्दत्ता/ 455.022. यावदपरेण समयेन राजा उदयनः श्यामावती अनुपमा चैकस्मिन् स्थाने तिष्ठन्ति/ 455.023. तदा राज्ञा क्षुतं कृतम्/ 455.024. श्यामावत्योक्तम्--नमो बुद्धायेति/ 455.024. अनुपमया नमो देवस्येति/ 455.024. अनुपमा कथयति--महाराज, श्यामाअवती देवस्य सन्तकं भक्तं भुङ्क्ते, श्रमणस्य गौतमस्य नमस्कारं करोतीति/ 455.026. राजा कथयति--अनुपमे, नात्र ह्येवम्/ 455.026. श्यामावत्युपासिका/ 455.026. अवश्यं श्रमणस्य गौतमस्य नमस्कारं करोतीति/ 455.027. सा तूष्णीमवस्थिता/ 455.027. तस्याः प्रेष्यदारिका उक्ता--दारिके, यदा देवः श्यामावती अहं च रहसि तिष्ठेम, तदा त्वं सोपानके कांसिकां पातयिष्यसीति/ 455.029. एवमस्त्विति/ 455.029. तया तेषां रहस्यवस्थितानां सोपानके कांसिका पातिता/ 455.029. श्यामावत्योक्तम्--नमो बुद्धायेति/ 455.030. अनुपमा नमो देवस्येत्युक्त्वा कथयति--देवस्य सन्तकं भवती भुङ्क्ते, श्रमणस्य गौतमस्य नमस्कारं करोतीति/ 455.031. राजा कथयति--अनुपमे, अत्र मा संरम्भं कुरु, उपासिकैषा, नात्र दोष इति/ 455.032. राजा उदयन एकस्मिन् दिवसे श्यामावत्या सकाशम् <456>भुङ्क्ते, द्वितीयदिवसे ऽनुपमायाः/
456.001. राज्ञा शाकुनिकस्याज्ञा दत्ता--यस्मिन् दिवसे श्यामावत्या भोजनवारः, तस्मिन् दिवसे जीवन्तः कपिंजला आनेतव्या इति/ 456.002. शाकुनिकेन जीवन्तः कपिंजला राज्ञ उपनीताः/ 456.003. राजा कथयति--अनुपमायाः समर्पयेति/ 456.003. अनुपमया श्रुतम्/ 456.004. सा कथयति--देव, न मम वारः/ 456.004. श्यामावत्या वार इति/ 456.004. राजा कथयति--गच्छ भोः पुरुष, श्यामावत्याः समर्पयेति/ 456.005. तेन श्यामावत्याः सकाशमुपनीतह्--देवस्यार्थाय साधयेति/ 456.005. सा कथयति--किमहं शाकुनिकायिनी? न मम प्राणातिपातः कल्पते/ 456.006. गच्छेति/ 456.006. तेन राज्ञे गत्वा निवेदितम्--देव, श्यामावती कथयति--किमहं शाकुनिकायिनी? न मम प्राणातिपातः कल्पते/ 456.008. गच्छेति/ 456.008. अनुपमा श्रुत्वा कथयति--देव, यद्यसावुच्यते श्रमणस्य गौतमस्यार्थाय साधयेति साम्प्रतं सपरिवारा साधयेत्/ 456.009. राजा संलक्षयति--स्यादेवम्/ 456.009. तेनासौ पुरुष उक्तह्--गच्छ भोः पुरुष, एवं वद--भगवतो ऽर्थाय साधयेति/ 456.010. संप्रस्थितो ऽनुपमया प्रच्छन्नमुक्तह्--प्रघातयित्वानयेति/ 456.011. तेन प्रघातयित्वा श्यामावत्या उपनीताः/ 456.011. देव कथयति--भगवतो ऽर्थाय साधयेति/ 456.012. सा सपरिवारा उद्युक्ता/ 456.012. शाकुनिकेन गत्वा राज्ञे निवेदितम्--सा देव सपरिवारा उद्युक्तेति/ 456.013. अनुपमा कथयति--श्रुतं देवेन? यदि तावत्प्राणातिपातो न कल्पते, श्रमणस्यार्थाय न कल्पते, देवस्यापि कल्पते? देवस्य न कल्पते इति कुत एतत्? राजा पर्यवस्थितो धनुः पूरयित्वा संप्रथितः/ 456.015. मितामित्रमध्यमो लोकः/ 456.015. अपरया श्यामावत्या
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
