Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

धर्मस्कन्ध

Thông tin
GRETIL — Siglinde Dietz: Fragmente des Dharmaskandha - Ein Abhidharma-Text in Sanskrit aus Gilgit. Göttingen 1984 (Abhandlungen der Akademie der Wissenschaften in Göttingen, 142) = DhskD: fols. 3-20, 26, and Kazunobu Matsuda: "Newly Identified Sanskrit Fragments of the Dharmaskandha in the Gilgit manuscripts" (1), Sanskrit Fragments Transliterated, with an Appendix by Hajime Sakurabe, Kyoto 1986. GBM 151-156; DhskM = fols. 21, 22, 27; Ed. also in: K. Sankarnarayan, K. Matsuda, M. Yoritomi: Lokaprajñapti, A Critical Exposition of Buddhist Cosmology, Mumbai/New Delhi 2002. pp. 15-24.chữ Devan

कियता उपासकः शिक्षासु (ध्स्क्द् 17व्8) प्रदेशकारी भवति / यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपाताद् अदत्तादानात् प्रतिविरतः काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानाद् (ध्स्क्द् 17व्9) अप्रतिविरतः इयता उपासकः शिक्षासु प्रदेशकारी भवति /

कियता उपासकः शिक्षासु यद्भूयस्कारी भवति / यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं (ध्स्क्द् 17व्10) गतो भवति प्राणातिपाताद् अदत्तादानात् काममिथ्याचारात् प्रतिविरतः मृषावादात् सुरामैरेयमद्यप्रमादस्थानाद् अप्रतिविरतः इयता उपासकः शिक्षासु यद्भूयस्कारि भवति /

(ध्स्क्द् 18र्1) कियता उपासकः शिक्षास्व् अपरिपूर्णकारी भवति / यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपाताद् अदत्तादानात् काममिथ्याचारान् मृषावादात् प्रतिविरतः सुरामैरेयमद्यप्रमादस्थानाद् (ध्स्क्द् 18र्2) अप्रतिविरतः इयता उपासकः शिक्षास्व् अपरिपूर्णकारी भवति /

कियता उपासकः शिक्षासु परिपूर्णकारी भवति / यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपातात् (ध्स्क्द् 18र्3) प्रतिविरतः अदत्तादानात् काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतः इयता उपासकः शिक्षासु परिपूर्णकारी भवति //

पंचभिर् धर्मैः समन्वागतः उपासकः (ध्स्क्द् 18र्4) आत्महिताय प्रतिपन्नो भवति न परहिताय / कतमैः पंचभिः / आत्मना प्राणातिपातात् प्रतिविरतो भवति / नो तु परान् प्राणातिपातविरतौ समादापयति /

आत्मना अदत्तादानात्326 (ध्स्क्द् 18र्5) काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतो भवति / नो तु परान् सुरामैरेयमद्यप्रमादस्थानविरतौ समादापयति / एभिः पंचभिः (ध्स्क्द् 18र्6) धर्मैः समन्वागत उपासक आत्महिताय प्रतिपन्नो भवति परहिताय //

दशभिर् धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय च / आत्मना प्राणातिपातात् प्रतिविरतो (ध्स्क्द् 18र्7) भवति परांश् च प्राणातिपातविरतौ समादापयति / आत्मना अदत्तादानात् काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतो भवति परांश् च सुरामैरेयमद्यप्रमादस्थानविरतौ (ध्स्क्द् 18र्8) समादापयति / एभिर् दशभिर् धर्मैस् समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय च //

पंचदशभिर् धर्मैस् समन्वागत उपासकः अत्माहिताय प्रतिपन्नो भवति परहिताय च (ध्स्क्द् 18र्9) बहुजनहिताय बहुजनसुखाय च / आत्मना प्राणातिपातात् प्रतिविरतो भवति परान् अपि प्राणातिपातविरतौ समादापयति प्राणातिपातविरतं च दृष्ट्वा सुमनोज्ञो भवति /

आत्मना (ध्स्क्द् 18र्10) अदत्तादानात् काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानविरतौ समादापयति सुरामैरेयमद्यप्रमादस्थानविरतं च दृष्ट्वा सुमनोज्ञो भवत्य् / एभिः पंचदशभिर् धर्मैः (ध्स्क्द् 18व्1) समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसुखाय च //

अष्टाभिर् धर्मैस् समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति न परहिताय / आत्मना (ध्स्क्द् 18व्2) श्रद्धासंपन्नो भवति नो तु परां च्छ्रद्धासंपदि समादापयति / आत्माना शीलसंपन्नस् त्यागसंपन्नः / अभीक्ष्णम् आरामं गन्ता भवति भिक्षूणां दर्शनाय / अवहितश्रोत्रो धर्मं शृणोति / श्रुतानां धर्माणां धारणजातीयो भवति (ध्स्क्द् 18व्3) / धृतानां धर्माणाम् अर्थोपपरीक्षी भवति / आत्मना उपपरीक्षितानां धर्माणाम् अर्थम् आज्ञाय धर्मम् आज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्म नो तु परान् धर्मचारी नो तु परान् धर्मानुधर्मप्रतिपत्तौ (ध्स्क्द् 18व्4) समादापयति / एभिर् अष्टाभिर् धर्मैः समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति न परहिताय /

षोडशभिर् धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति (ध्स्क्द् 18व्5) परहिताय च / आत्मना श्रद्धासंपन्नो भवति परान् अपि श्रद्धासंपदि समादापयति / आत्मना शीलसंपन्नस् त्यागसंपन्नो भवत्य् / आत्मना अभीक्ष्णम् आरामं गन्ता भवति भिक्षूणां दर्शनाय / अवहितश्रोत्रो (ध्स्क्द् 18व्6) धर्मं शृणोति / श्रुतानां धर्माणां धारणजातीयो भवति / धृतानां धर्माणां उपपरीक्षणजातीयो भवति / आत्मना उपपरीक्षितानां धर्माणाम् अर्थम् आज्ञाय धर्मं आज्ञाय धर्मानुधर्मप्रतिपन्नो (ध्स्क्द् 18व्7) भवति / सामीचीप्रतिपन्नो ऽनुधर्मचारी परांश् च धर्मानुधर्मप्रतिपत्तौ समादापयति / एभिः षोडशभिर् धर्मैः समन्वागत उपासक आत्महिताय (ध्स्क्द् 18व्8) प्रतिपन्नो भवति परहिताय च /

चतुर्विंशत्या धर्मैस् समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसुखाय च / आत्मना श्रद्धासंपन्नो भवति परान् (ध्स्क्द् 18व्9) अपि श्रद्धासंपदि समादापयति श्रद्धासंपन्नं च दृष्ट्वा सुमनोज्ञो भवति / आत्मना शीलसंपन्नः त्यागसंपन्नः / अभीक्ष्णम् आरामं गन्ता भवति भिक्षूणां दर्शनाय / अवहितश्रोत्रो धर्मं शृणोति / श्रुतानां (ध्स्क्द् 18व्10) धर्माणां धारणजातीयो भवति / धृतानां धर्माणाम् अर्थोपपरिक्षी भवति / आत्मना उपपरिक्षितानां धर्माणाम् अर्थम् आज्ञाय धर्मम् आज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचार् (ध्स्क्द् 19र्1) / परान् अपि धर्मानुधर्मप्रतिपत्तौ समादापयति / धर्मानुधर्मप्रतिपन्नं च दृष्ट्वा सुमनोज्ञो भवति / एभिश् चतुर्विंशत्या धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसुखाय (ध्स्क्द् 19र्2) च //

दशभिर् धर्मैस् समन्वागत उपासकः कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यते / आत्मना प्राणातिपातिको भवति / अदत्तादायिकः काममिथ्याचारिको मृषावादिकः पिशुनवादिकः (ध्स्क्द् 19र्3) परुषवादिकः संभिन्नप्रलापिको ऽभिध्यालुर् व्यापन्नचित्तो मिथ्यादृष्टिकश् च भवति / एभिर् दशभिर् धर्मैः समन्वागत उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते /

विंशत्या धर्मैः समन्वागत उपासकः कायस्य भेदाद् यावन् (ध्स्क्द् 19र्4) नरकेषूपपद्यते / आत्मना प्राणातिपातिको भवति परान् अपि प्राणातिपाते समादापयति / आत्मना अदत्तादायिको यावन् मिथ्यादृष्टिकः / परान् अपि मिथ्यादृष्टौ समादापयत्य् / एभिर् विंशत्या धर्मैः समन्वागत (ध्स्क्द् 19र्5) उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते /

त्रिंशता धर्मैः समन्वागतः उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते / आत्मना प्राणातिपातिको भवति / परान् अपि प्राणातिपाते समादापयति (ध्स्क्द् 19र्6) प्राणातिपातिकं च दृष्ट्वा सुमनोज्ञो भवति / आत्मना अदत्तादायिको यावन् मिथ्यादृष्टिकं च दृष्ट्वा सुमनोज्ञो भवति / एभिस् त्रिंशता धर्मैः समन्वागतः उपासको यावत् कायस्य भेदान् (ध्स्क्द् 19र्7) नरकेषूपपद्यते /

चत्वारिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते / आत्मना प्राणातिपातिको भवति / परान् अपि प्राणातिपाते समादापयति प्राणातिपातिकं च (ध्स्क्द् 19र्8) दृष्ट्वा सुमनोज्ञो भवति प्राणातिपातस्य च वर्णं भाषते / आत्मना अदत्तादायिको यावन् मिथ्यादृष्टेश् च वर्णं भाषते / एभिश् चत्वारिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते //

(ध्स्क्द् 19र्9) दशभिर् धर्मैः समन्वागत उपासकः कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते / आत्मना प्राणातिपातात् प्रतिविरतो भवति / आत्मना अदत्तादानात् काममिथ्याचारान् मृषावादात् पैशुन्यात् पारुष्यात् (ध्स्क्द् 19र्10) संभिन्नप्रलापाद् अनभिध्यालुर् अव्यापन्नचित्तः सम्यग्दृष्टिको भवति / एभिर् दशभिर् धर्मैः समन्वागत उपासकः कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते //

विंशत्या धर्मैस् समन्वागत उपासकः (ध्स्क्द् 19व्1) कायस्य भेदाद् यावद् देवेषूपपद्यते / आत्मना प्राणातिपातात् प्रतिविरतो भवति / परान् अपि प्राणातिपातविरतौ समादापयति / आत्मना अदत्तादानाद् यावत् सम्यग्दृष्टिको भवति / परान् अपि सम्यग्दृष्टौ समादापयति / एभिर् (ध्स्क्द् 19व्2) विंशत्या धर्मैः समन्वागत उपासको यावद् देवेषूपपद्यते //

त्रिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदाद् यावद् देवेषूपपद्यते / आत्मना प्राणातिपातात् प्रतिविरतो भवति / परान् अपि प्राणातिपातविरतौ (ध्स्क्द् 19व्3) समादापयति / प्राणातिपातविरतं च दृष्ट्वा सुमनोज्ञो भवति / आत्मना अदत्तादानाद् यावत् सम्यग्दृष्टिकं च दृष्ट्वा सुमनोज्ञो भवत्य् / एभिस् त्रिंशता धर्मैः समन्वागत उपासकः कायस्य भेदाद् यावद् देवेषूपपद्यते //

(ध्स्क्द् 19व्4) चत्वारिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते / आत्मना प्राणातिपातात् प्रतिविरतो भवति / परान् अपि प्राणातिपातविरतौ समादापयति / प्राणातिपातविरतं (ध्स्क्द् 19व्5) च दृष्ट्वा सुमनोज्ञो भवति प्राणातिपातविरतेश् च वर्णं भाषते / आत्मना अदत्तादानात् काममिथ्याचारान् मृषावादात्* पैशुन्यात् पारुष्यात् संभिन्नप्रलापात् प्रतिविरतो भवत्य् / अनभिध्यालुर् अव्यापन्नचित्तः (ध्स्क्द् 19व्6) सम्यग्दृष्टिको भवति / परान् अपि सम्यग्दृष्टौ समादापयति / सम्यग्दृष्टिकं च दृष्ट्वा सुमनोज्ञो भवति सम्यग्दृष्टेश् च वर्णं भाषते / एभिश् चत्वारिंशता धर्मैः समन्वागत उपासकः कायस्य (ध्स्क्द् 19व्7) भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते /

17. (पञ्चोपासकस्य शिक्षापदानि)

पंचोपासकस्य शिक्षापदानि / यावज्जीवं प्राणातिपाताद् विरतिर् उपासकस्य शिक्षापदं / यावज्जीवम् अदत्तादानात् काममिथ्याचारान् मृषावादात् (ध्स्क्द् 19व्8) सुरामैरेयमद्यप्रमादस्थानाद् वैरमणिर् उपासकस्य शिक्षापदं // //

यावज्जीवं प्राणातिपाताद् विरतिर् उपासकस्य शिक्षापदम् इति / तत्र कतरः प्राणातिपातः / कतरः प्राणी / कतमा प्राणातिपाताद् वैरमणिः (ध्स्क्द् 19व्9) / यद् उच्यते प्राणातिपाताद् वैरमणिर् उपासकस्य शिक्षापदम् इत्य् आह /

एवं ह्य् उक्तं भगवता / प्राणातिपाती खल्व् इहैको भवति रौद्रो रुधिरपाणिः हतप्रहतनिविष्टः अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व् (ध्स्क्द् 19व्10) अन्ततः कुन्तपिपीलकम् अपि प्राणातिपाताद् अप्रतिविरतो भवति / अयम् उच्यते प्राणातिपातिकः / प्राणी कतमः / यस्मिन् प्राणिनि प्राणिसंज्ञी जीवे जीवसंज्ञी सत्वे सत्वसंज्ञी पोषे पोषसंज्ञी (ध्स्क्द् 20र्1) पुद्गले पुद्गलसंज्ञी अयम् उच्यते प्राणी //

प्राणातिपातः कतमः / आह / यस्मिन् प्राणिनि प्राणिसंज्ञिनः सत्वे सत्वसंज्ञिनः पोषे पोषसंज्ञिनः पुद्गले पुद्गलसंज्ञिनः यत् पराक्रमम् आगम्य यत् पापचित्तम् अकुशलचित्तं (ध्स्क्द् 20र्2) वधकचित्तं हननचित्तं मारणचित्तं च प्रत्युपस्थितं भवति / तत्र यत् कर्मागम्य यत् प्रयोगम् आगम्य याम् ऊहाम् आगम्य यद् उपक्रमम् आगम्य प्राणिनो हननं मारणं संचिन्त्य जीविताद् व्यपरोपणम् इति / (ध्स्क्द् 20र्3) यत् तत् कर्म यो ऽसौ प्रयोगः या सा ऊहा यद् उपक्रमं यत् तत् प्राणिनो हननं मारणं संचिन्त्य जीविताद् व्यपरोपणं अयं उच्यते प्राणातिपातः //

प्राणातिपाती खल्व् इहैको भवतीति आत्मा प्राणातिपाताद् (ध्स्क्द् 20र्4) अनारतो भवतीत्य् अप्रतिविरतस् ततत्रस्थस् तेन समन्वागतस् / तेनाह / प्राणातिपाती खल्व् इहैको भवति /

रौद्र इति / रौद्रता कतमा / आह / यत् तद् आचीर्णदण्डताचीर्णशस्त्रताचीर्णप्रहरणता इयम् उच्यते रौद्रता / (ध्स्क्द् 20र्5) तेनाह / रौद्रता इति /

रुधिरपाणिर् इति रुधिरपाणय उच्यन्ते औरभ्रिकाः कौक्कुटिकसौकरिकमात्सिकमृगलुब्धकाश् चौराः वध्यघातका गोघातका नागमण्डलिकाः शशवागुरिका बन्धनपालकाः (ध्स्क्द् 20र्6) सूचकाः कारणकारका इम उच्यन्ते रुधिरपाणयः / केनैत उच्यन्ते रुधिरपाणयः / आह / किं चापि ये सुस्नाता भवन्ति सुविलिप्ताः कल्पितकेशनखावदातवस्त्रप्रावृताः (ध्स्क्द् 20र्7) आमुक्तमाल्याभरणा अथ च पुनस् ते रुधिरपाणय एवोच्यन्ते / किं कारणम् / आह / यस्मात् ते अनारता अविरता अप्रतिविरतास् तस्य रुधिरस्योत्थापनाय जननाय संजननाय समुत्पादाय (ध्स्क्द् 20र्8) प्राविष्करणाय / तेन कारणेन रुधिरपाणय उच्यन्ते //

हतप्रहतनिविष्टा इति स्यात् प्राणी प्रहतो न हतः / स्याद् धतो न प्रहतः / स्याद् धतश् च प्रहतश् च / प्रहतस् तावन् न हतः / यथा तावत् प्राणी आकोटितो भवति (ध्स्क्द् 20र्9) पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण वा अन्यतमान्यतमेन वा विविधेन प्रहरणेन / न तु सर्वेण सर्वं जीविताद् व्यपरोपितो भवति / एवं प्राणी हतो भवति न हतश् च / यथा तावत् प्राणी (ध्स्क्द् 20र्10) आकोटितो भवति पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण वा अन्यतमान्यतमेन वा विविधेन प्रहरणेन सर्वेण वा सर्वं प्राणी जीविताद् व्यपरोपितो भवति / एवं हतश् च भवति प्रहतश् च / (ध्स्क्द् 20व्1) अपि हतप्रहतनिविष्टश् च भवति सन्निविष्टश् चानिविष्टश् च / तेनाह / हतप्रहतनिविष्ट इति //

अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व् इति / तत्र कतमे प्राणाः / कतमे भूताः / यद् उच्यते अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व् (ध्स्क्द् 20व्2) इत्य् / आह / पृथग्जनाः प्राणाः भगवतः श्रावका भूताः / अपि खलु ये सत्वाः सरागाः सद्वेषाः समोहा इम उच्यन्ते भूताः / अपि खलु ये सत्वा विगतरागा विगतद्वेषा विगतमोहा इम उच्यन्ते भूताः / अपि खलु ये सत्वाः (ध्स्क्द् 20व्3) सतृष्णा सोपादाना इम उच्यन्ते प्राणाः / ये सत्वा निस्तृष्णा निरुपादाना इम उच्यन्ते भूताः / अपि खलु ये सत्वा आनिरुद्धाः प्रतिविरुद्धा इम उच्यन्ते प्राणाः / ये सत्वा अनानिरुद्धाः अप्रतिविरुद्धा इम उच्यन्ते भूता / अपि खलु (ध्स्क्द् 20व्4) ये सत्वा अविदुषो ऽविद्यागता इम उच्यन्ते प्राणाः / ये सत्वा विदुषो विद्यागता इम उच्यन्ते भूताः / अपि खलु ये सत्वाः कामेभ्यो ऽवीतरागाः इम उच्यन्ते प्राणाः / ये सत्वाः कामेभ्यो वीतरागा इम उच्यन्ते भूताः / (ध्स्क्द् 20व्5) अपि खलु ये सत्वाः कामेभ्यो वीतरागा न तु भगवतः श्रावका इम उच्यन्ते प्राणाः / ये सत्वा कामेभ्यो वीतरागास् ते भगवतः श्रावका इम उच्यन्ते भूताः / अस्मिंस् त्व् अर्थे पृथग्जनाः प्राणाः भगवतः (ध्स्क्द् 20व्6) श्रावका भूताः / किं कारणं भवनम् उच्यते निर्वाणं / तत् तैः प्राप्तं प्रतिलब्धम् अधिगतं स्पृष्टं साक्षात्कृतं / यथा चाह /

समन्तानुसारी लोकं दिशः सर्वम् ईरितः / इच्छेद् भवनम् आत्मानं नाधिगच्छेद् अनिश्रितं (ध्स्क्द् 20व्7) //

तद् अस्मिन्न् अर्थे पृथग्जनाः प्राणाः भगवतः श्रावका भूताः तद् एषां प्राणभूतानाम् अदयाय प्रतिपन्नो भवत्य् अननुदयाया नानुकंपाय //

शोकाष्टहारकाः कुन्ता उच्यन्ते (ध्स्क्द् 20व्8) पिपीलकाः / पिपीलका एव / अस्मात् प्राणातिपाताद् उपासकः प्रतिसंख्यायारतो भवत्य् उपद्रुतरतः प्रतिविरतः संवृतश् च / यत्र या अक्रिया अकरणम् अनभिध्याचारो ऽनध्यापत्तिर् अनध्यापदनं (ध्स्क्द् 20व्9) वेला सेतुः वैरमणी स्थितिर् अनतिक्रमो ऽव्यतिक्रमो ऽव्यतिक्रमणता / तेनाह / यावज्जीवं प्राणातिपाताद् वैरमणीर् उपासकस्य शिक्षापदम् इति // * //

यावज्जीवम् अदत्तादानाद् वैरमणीर् उपासकस्य (ध्स्क्द् 20व्10) शिक्षापदम् इति / अदत्तादानं कतमत् /

एवं ह्य् उक्तं भगवता /

अदत्तादायी खल्व् इहैको भवति / स ग्रामगतम् अरण्यगतं वा परेषाम् अदत्तं स्तेयसंख्यातम् आदत्ते / इदम् उच्यते अदत्तादानं /

ध्स्क्म् 21र्1. अदत्तादानं / यावज्जीवम् अदत्तादानाद् वैरमणिर् उपासकस्य शिक्षापदम् इति तत्र कतरद् अदत्तं कतरद् अदत्तादानं कतमा अदत्तादानाद् वैरमणिः या उच्यते यावज्जीवम् अदत्तादानाद् वैरमणिर् उपासकस्य शिक्षापदम् इति अदत्तं .. ///

ध्स्क्म् 21र्2. -ते अदत्तं / अदत्तादानं कतमत्* आह परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनो यत् पापचित्तं चाकुशलचित्तं च हरणचित्तं चापहरणचित्तं चोद्ग्रहणचित्तं च ग्रहणचित्तं चादानचित्तम् आसादीयनचित्तं च प्रत्युपस्थितं भवति तत्र यत्. ///

ध्स्क्म् 21र्3. -पहारम् आगम्य परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनः यद् ग्रहणम् उद्ग्रहणम् आदीयनासादीयना हरणापहरणा संचिन्त्य स्थानात् स्थानसंक्रामणम् इति यत् तत् कर्म यत् प्रयोगं या सा ऊहा यद् उपक्रमं यत् पराक्रमं यत् तद् वा .. ///

ध्स्क्म् 21र्4. यत् तत् परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनो ग्रहणम् उद्ग्रहणम् आदीयनासादीयना संचिन्त्य स्थानात् स्थानसंक्रमणम् इदम् उच्यते अदत्तादानं / अदत्तादायी भवतीत्य् अस्माद् अदत्तादानाद् अनारतो भवत्य् अविरतो ऽप्रतिविरतः तत्रस्थ- ///

ध्स्क्म् 21र्5. -तं वेत्य् अन्तरगतः प्राकारस्य / अरण्यगतं वेति बहिः प्रकारस्य / अदत्तम् इति परपरिगृहीतं स्तेनम् आदत्ते ति परपरिगृहीतम् अदत्तम् आदत्ते अत्यन्तम् अमुक्तम् अनिःसृष्टम् अप्रतिनिःसृष्टम् अपि खलु स्तेयम् उच्यते परचित्तो ऽपहारकः तेन .. ///

ध्स्क्म् 21र्6. -सृष्टम् अप्रतिनिःसृष्टम् अपि खलु यत् परपरिगृहीतं परिष्कारम् अदत्तम् अपि तत्* स्तैन्यम् अपि तत्* संख्यातम् अपि तत्* तद् उच्यते अदत्तस्तैन्यं संख्यातम् आदत्ते // अदत्तादानात् प्रतिविरतो भवतीत्य् अस्माद् अदत्तादानाद् उपासकस्य + + + य्. ///

ध्स्क्म् 21र्7. -संख्यातः संवृतः तत्र या अक्रिया अकरणम् अनध्याचारो ऽनध्यापत्तिर् अनध्यापदनम्* वेला सेतुर् वैरमणी स्थितिर् अनतिक्रमो ऽव्यतिक्रमो ऽव्यतिक्रमणता तद् उच्यते यावज्जीवम् अदत्तादानाद् वैरमणिर् उपासकस्य ///

ध्स्क्म् 21र्8. -मिथ्याचाराद् वैरमणिर् उपासकस्य शिक्षापदम् इति काममिथ्याचारः कतमः / एवं ह्य् उक्तं भगवता काममिथ्याचारी खल्व् इहैको भवति स यास् ता भवन्ति परस्त्रियः परभार्यास् तद्यथा मातृरक्षिता वा पितृराक्षिता वा ///

ध्स्क्म् 21र्9. श्वश्रूरक्षिता वा श्वशुररक्षिता वा ज्ञातिरक्षिता वा जातिरक्षिता वा गोत्ररक्षिता वा सदण्डाः / सावरणाः सदण्डावरणा अन्ततो मालागुणपरिक्षिप्ता / अपि तद्रूपासु सहसा बलेनानुप्रस्कन्द्य कामेषु चारित्रम् आपद्यत्य् अयम् उच्यते ///

ध्स्क्म् 21र्10. खल्व् इहैको भवतीत्य् अस्मात् काममिथ्याचाराद् अनारतो भवत्य् अनुपरतो ऽविरतो ऽप्रतिविरतः तद् उच्यते काममिथ्याचारी खलु भवतीति // यास् ता भवन्ति परस्त्रियो परभार्या इति सप्त पुरुषस्य भार्याः / कतमा सप्त तद्यथा ///

ध्स्क्म् 21र्11. पटवासिनी समजीविका तत्क्षणिका च / उदकदत्ता कतमा या स्त्री कुमारिका वा पुरुषस्य मातापितृभ्याम् उदकेनानुप्रदत्ता भवति इयं ते भार्या भविष्यति प्रजापती इयम् उच्यते उदकदत्ता // धनक्रीता कतमा ///

ध्स्क्म् 21र्12. -नक्रीता भवति इयं मे भार्या भविष्यति प्रजापती सा तस्य भार्या भवति प्रजापती इयम् उच्यते धनक्रीता / ध्वजाहृता यथा तावच् चौराः परराष्ट्रं परविषयं गत्वा स्वं शिरोध्वजं कृत्वा स्त्रियं कुमारिकां वाहरन्ति ///

ध्स्क्म् 21र्13. -मि ध्वजाहृता यथा तावद् राजा अजितं जयं जितम् अध्यावसन् यथा गृहीतिकाम् उत्सृजति / तत्र पुरुषो राज्ञः शिरोध्वजं कृत्वा स्त्रियं कुमारिकां वाहरति इयं मे भार्या भविष्यति प्रजापती स तस्य भार्या ///

ध्स्क्म् 21व्1. च्छन्दवासिनी कतमा या स्त्री स्वया श्रद्धया स्वेन प्रेम्णा स्वेन प्रसादेन पुरुषम् उपसंक्रम्यैवम् आह / आर्यपुत्रो मे स्वामी भवत्य् अहम् आर्यपुत्रस्य भार्या भविष्यामि / प्रजापती इयम् उच्यते च्छन्दवासिनी / पटवासिनी ///

ध्स्क्म् 21व्2. -पसंक्रम्यैवम् आह आर्यपुत्रो मे भक्ताच्छादनम् अनुप्रयच्छत्व् अहं आर्यपुत्रस्य भार्या भविष्यामि प्रजापती इयम् उच्यते पटवासिनी / समजीविका कतमा / या स्त्री पुरुषम् उपसंक्रम्यैवम् आह ///

ध्स्क्म् 21व्3. धनं तद् एकध्ये सन्निचयं गच्छतु ये चास्माकं क्रीडतां रमतां परिचारयतां पुत्रा भविष्यन्ति पौत्रा वा ते ऽस्माकं मृतानां कालगतानां श्राद्धम् अनुप्रदास्यन्ति सा तस्य भार्या भवति प्रजापती ///

ध्स्क्म् 21व्4. .. .. .इकी // मातृरक्षितेति यस्या स्त्रियाः कुमारिकाया वा पिता स्वामी वा उन्मत्तो भवति क्षिप्तचित्तः परराष्ट्रं परविषयं वा निष्पलानो भवति सा मातुर् अन्तिके प्रतिवसति स मातृ ///

ध्स्क्म् 21व्5. गोपिता सुगोपिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रम् आपत्स्यन्त इति इयम् उच्यते मातृरक्षिता / यथा मातृरक्षिता एवं पितृरक्षिता // भ्रातृरक्षिता कतमा / यस्य स्त्रियाः ///

ध्स्क्म् 21व्6. मातापितरौ स्वामी वा मृतो भवति कालगतः उन्मत्तो वा भवति क्षिप्तचित्तः परराष्ट्रं परविषयं निष्पलानो भवति सा भ्रातुर् अन्तिके प्रतिवसति सा भ्रात्रा रक्षिता ///

ध्स्क्म् 21व्7. सुगोपिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रम् आपत्स्यन्त इति इयम् उच्यते भ्रातृरक्षिता / यथा भ्रातृरक्षिता एवं भगिनीरक्षिता // श्वश्रूरक्षिता कतमा + + ///

ध्स्क्म् 21व्8. प्.आ मातापितरौ स्वामी वा मृतो भवति कालगत उन्मत्तो वा भवति क्षिप्तचित्तः परराष्ट्रं परविषयं वा निष्पलानो भवति सा श्वश्र्वा अन्तिके प्रतिवसति वसव- ///

ध्स्क्म् 21व्9. त्रस्य सा श्वश्र्वा रक्षिता भवति सुरक्षिता गोपिता सुगोपिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रम् आपत्स्यन्त इति इयम् उच्यते श्वश्रूरक्षिता // यथा श्वश्रूरक्षिता ///

ध्स्क्म् 21व्10. ज्ञातिरक्षिता कतमा / ज्ञातय उच्यन्ते यावद् आ सप्तमं मातामहं पितामहं युगम् उपादाय यस्या स्त्रियः कुमारिकाया वा पूर्ववत्* // जातिरक्षिता कतमा / जातय उच्यन्ते ///

ध्स्क्म् 22र्1. वैश्याः शूद्राः यस्या स्त्रियाः कुमारिकाया वा पूर्ववत्* // गोत्ररक्षिता कतमा / गोत्रा उच्यन्ते कौत्सा वात्साश् शाण्डिल्या भारद्वाजा उपपंचकाः यस्या स्त्रियाः कुमारिकाया वा माता ///

ध्स्क्म् 22र्2. कालगतः उन्मत्तः क्षिप्तचित्तः वेदनाभितुन्नो वा परराष्ट्रं परविषयं वा निष्पलानो भवति सा गोत्राणाम् अन्तिके प्रतिवसति गोत्रै रक्षिता भवति सुरक्षिता गोपिता ///

ध्स्क्म् 22र्3. अप्रतिसंविदितं कामेषु चारित्रम् आपत्स्यन्त इति इयम् उच्यते गोत्ररक्षिता // सदण्डा इति या सा भवति गूढिका न एवं यथा वेशी नाप्य् एवं यथा कुलस्त्री सचेद् एनं राजा जानीयात् तां + ///

ध्स्क्म् 22र्4. -ध्नीयाद् वा प्रवासयेद् वा हिरण्यदण्डं वानुप्रदापयेद् इयं उच्यते सदण्डाः / सावरणा इति यथा तावद् आर्येण वा आर्यपुत्रेण वा आवृता भवत्य् अपि खलु या एताः प + + ///

ध्स्क्म् 22र्5. -वरणाः सदण्डावरणाः किं कारणम् अतोनिदानं हि पुरुषो ऽधिगच्छति वधं वा बन्धनं वा ज्यानिं वा ग्रहणं वा // अन्ततो मालागुणपरिक्षिप्ता अपीति यथा ताव- ///

ध्स्क्म् 22र्6. कण्ठेगुणेन वा चन्दनचूर्णेन वा विलेपनपुटेन वा अन्यतमान्यतमेन वा केनचित् प्रतिगृहीता भवति इयम् उच्यते मालागुणपरिक्षिप्ता // अपि खलु सर्व्. + ///

ध्स्क्म् 22र्7. -रिणी भिक्षुणिका चरिका परिव्राजिका व्रतपदधर्मजीविनी यथा तावत् पुरुषः स्वां प्रजापतीम् अनुजानीते गच्छ भद्रे चर ब्रह्मचरंस् (सिच्) तस्या तेन व्रतसमादा .. ///

ध्स्क्म् 22र्8. -य संस्पर्शं समापद्यते द्वयद्वयसमापत्तिं वापद्यते काममिथ्याचारां स्वं वा पुनर् पारम् अनङ्गे विज्ञपयन्न् आपद्यते काममिथ्याचारं / अस्मात् काममिथ्याचारा ///

ध्स्क्म् 22र्9. भवत्य् उपरतो विरतः संवृतः तत्र या अक्रिया अकरणम् अनाचारो ऽनध्यापत्तिर् अनध्यापदनं वेला सेतुर् वैरमणी स्थितिर् अनतिक्रमो ऽव्यतिक्रमणता तद् य ///

ध्स्क्म् 22र्10. -मिथ्याचाराद् वैरमणिः शिक्षापदम् इति // ऋ // यावज्जीवं मृषावादाद् वैरमणिर् उपासकस्य शिक्षापदम् इति मृषावादः कतमः एवं ह्य् उक्तं भगवता ///

ध्स्क्म् 22व्1. स सभागतो वा पर्षन्मध्यगतो वा राजकुलमध्यगतो वा युक्तकुलमध्यगतो वा ज्ञातिकुलमध्यगतो वा साक्षीपृष्टः सन् हं भोः पुरुष यज् जानीषे तद् वद यन् न जानीषे तन् मा वोचः ///

ध्स्क्म् 22व्2. तन् मा वोचः सो ऽजानक एव संजानामीत्य् आह / अपश्यक एव संपश्यामीत्य् आह / जानन्न् एन सन् न जानामीत्य् आह पश्यन्न् एव सन्* न पश्यामीत्य् आह इत्य् आत्महेतो परहेतो आमिषकिंचित्क ///

ध्स्क्म् 22व्3. मृषावादाद् अप्रतिविरतो भवतीत्य् अस्मान् मृषावादाद् अनारतो भवत्य् अनुपरतः अविरतो ऽप्रतिविरतः तत्रस्थस् तेन समन्वागतः तेनाह मृषावादी खलु भवतीति / सभागतो वेति ///

ध्स्क्म् 22व्4. -भा राष्ट्रसभा च / तत्रासौ गतश् च भवति समागतश् च / समवहितः संमुखीभूतः तेनाह सभागत इति // पर्षद्गतो वेति चतस्रः पर्षदः तद्यथा क्षत्रियपर्षद् ब्राह्मण ///

ध्स्क्म् 22व्5. -र्षत् तत्रासौ गतश् च भवति समागतश् च समवहितः संमुखीभूतः तेनाह पर्षद्गत इति // राजकुलमध्यगतो वेति आह राजामात्यपरिषत् सन्निषण्णा भवति ///

ध्स्क्म् 22व्6. -ति समागतश् च समवहितः संमुखीभूतः तेनाह राजकुलमध्यगत इति // युक्तकुलमध्यगतो वेति युक्तपर्षत् सन्निषण्णा भवति सन्निपतिता तत्रासौ ///

ध्स्क्म् 22व्7. -हितः संमुखीभूतः तेनाह युक्तकुलमध्यगत इति // ज्ञातिकुलमध्यगतो वेति आह ज्ञातयः सन्निषण्णा भवन्ति सन्निपतिता तत्रासौ गतश् च भवति ///

ध्स्क्म् 22व्8. संमुखीभूतः तेनाह ज्ञातिकुलमध्यगत इति // साक्षीपृष्टः सन्न् इति साक्षी अधीष्टः सन्न् आसादितो वा निपातितः / हं भो पुरुष इति उपैहि उपगच्छ यत्ने .. ///

ध्स्क्म् 22व्9. -य प्रज्ञपय प्रस्थापय प्रकाशय यत्ने न दृष्टं न श्रुतं न मतं न विज्ञातं तं मा वक्ष्व मा देशय मा प्रज्ञपय मा प्रस्थापय मा प्रकाशय / सो ऽजानन्न् एव संजा + ///

ध्स्क्म् 22व्10. -मीत्य् आह / श्रोत्रविज्ञानानुभूतं श्रोत्रविज्ञानप्रतिविज्ञप्तं स विनिधाय संज्ञां विनिधाय क्षान्तिं रुचिं मतिं प्रेक्षां दृष्टिं न मे श्रुतम् इत्य् आह / एवम् अजानन्न् एव सञ्जानामीत्य् आह ///

18. (मैत्री चेतःसमधिः) (ध्स्क्द् 26र्1) + + + + + + पयिकं प्रतिरूपं प्रदक्षिणम् नि + + + ंग संभारं / एतच् चित्तम् एषा तावन् मैत्री चेतःसमाधिर् इति वक्तव्या / तथा समापन्नस्य यच् चित्तं मनोविज्ञानम् इदम् उच्यते मैत्रीसहगतम् चित्तं / या चेतना संचेतना (ध्स्क्द् 26र्2) अभिसंचेतना चेतितं चेतनागतं चित्ताभिसंस्कारा मनस्कर्म इदम् उच्यते मैत्रीसहभुवं कर्म / यश् चेतसो ऽधिमोक्षो ऽधिमुक्तिर् अधिमुच्यनतायम् उच्यते मैत्रीसहभुवो ऽधिमोक्षः / यद् अपि तथा समापन्नस्य (ध्स्क्द् 26र्3) वेदना वा संज्ञा वा च्छन्दो वा स्नेहो वा मनसिकारो वा स्मृतिर् वा समाधिर् वा प्रज्ञा वा इतीमे ऽपि धर्मा मैत्रीसहभुवः / तत् सर्व इमे धर्मा मैत्री चेतःसमाधिर् इति वक्तव्याः /

मैत्री खलु भवेच् चेतःसमाधिर् द्विविधः (ध्स्क्द् 26र्4) परीत्तश् चाप्रमाणश् च /

कतरः प्रयोगः परीत्तस्य मैत्रस्य चेतःसमाधेः / कथं प्रयुक्तश् च पुनः परीत्तं मैत्रं चेतःसमाधिं संआपद्यते / आह /

यथा खल्व् इहैकत्यस्य ये सत्वा भवन्तीष्टाः कान्ता + + + + मनआपास् (ध्स्क्द् 26र्5) तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो वा मित्रज्ञातिसालोहितो वा / एभिः परीत्तैः सत्वैः परीत्तं मैत्रीसहभुवं चित्तम् आस्थापयत्य् उपस्थापयति दमयति (ध्स्क्द् 26र्6) शमयतु व्युपशमयति एकोतीकुरुते समादधाति / तस्यैभिः परीत्तैः सत्वैः परीत्तं मैत्रीसहभुवं चित्तं आस्थापयतः संस्थापयत उपस्थापयतो दमयतः शमयतो व्युपशमयतः (ध्स्क्द् 26र्7) एकोतीकुर्वतः समादधतः तच् चित्तं विक्षिप्यति विसरति विधावति नैकोतीभवति न एकाग्रा स्मृतिः संतिष्ठते / परीत्तं सुखिता बत सत्वा इति यद् अस्य तच् चित्तं विक्षिप्यति विसरति विधावति (ध्स्क्द् 26र्8) न एकोतीभवति न एकाग्रा स्मृतिः संतिष्ठते / परीत्तं सुखिता बत सत्वा इति न एकाग्रता परीत्तं मैत्रं चेतःसमाधिः समापन्न / इति वक्तव्यं /

स तच् चित्तं विक्षिप्यन्तं विसरन्तं विधावन्तं तस्मिन्न् एवोपसंहरति (ध्स्क्द् 26र्9) / तद् एव निमित्तं मनसिकुरुते / परीत्तं सुखिता बत सत्वा इति एवं मनसिकुर्वतो यद् वीर्यं यो व्यायामो निष्क्रमः पराक्रमः स्थाम आरंभ उत्साह उत्सूधिर् अप्रतिश्रब्धि + + + + + + + + + (ध्स्क्द् 26र्10) तद् यः अयं प्रयोगः परीत्तस्य मैत्रस्य चेतःसमाधेः एवं प्रयुक्तश् च पुनः परीत्तं मैत्रं चेतःसमाधिं समापद्यते /

स तम् उत्पन्नं मार्गम् आसेवयति भावयति बहुलीकुरुते तस्य इमं मार्गम् (ध्स्क्द् 26व्1) आसेवयतो भावयतो बहुलीकुर्वतः तच् चित्तम् आस्थिहति संस्थिहति उपस्थिहति एकोतीभवति समावर्ते / यतश् च तच् चित्तं स्थितं च भवति संस्थितं चोपस्थितम् चाद्वयं चापरिहीणं च परीत्तं सुखिता बत सत्वा इति (ध्स्क्द् 26व्2) एतावत् परीत्तं मैत्रं चेतःसमाधिं समापन्न / इति वक्तव्यं / तथा समापन्नस्य यच् चित्तं मनोविज्ञानम् इदम् उच्यते परीत्तं मैत्रीसहभुवं / चित्ते या चेतना विस्तरेण यावद् /

इमे ऽपि धर्मा परीत्तमैत्रीसहभुवः (ध्स्क्द् 26व्3) ते सर्व इमे धर्माः परीत्तं मैत्रं चेतःसमाधिर् इति वक्तव्याः /

कतरः प्रयोगो ऽप्रमाणस्य मैत्रस्य चेतःसमाधेः / कथं प्रयुक्तश् च पुनर् अप्रमाणं मैत्रं चेतःसमाधिं समापद्यते / यद् एवाभ्यस्ते परीत्ते (ध्स्क्द् 26व्4) मैत्रे चेतःसमाधौ तं चित्तं दमयित्वा कारयित्वास्वेदयित्वा परिस्वेदयित्वा ऋजुकृत्वा मृदु कर्मणीयं आर्ज्जवम् आश्रवं विधेयं /

ततः पश्चाद् अप्रमाणं सुखिता बत सत्वा इति शनैः स्फरति पूर्वां दक्षिणां (ध्स्क्द् 26व्5) पश्चिमाम् उत्तरां दिशं तस्याप्रमाणं सुखिता बत सत्वा / इति स्फरतः पूर्वां दिशं दक्षिणां पश्चिमाम् उत्तरां दिशं तच् चित्तं विक्षिप्यति विसरति विधावति न एकोतीभ्हवति न एकाग्रा (ध्स्क्द् 26व्6) स्मृतिः संतिष्ठते / अप्रमाणं सुखिता बत सत्वा इति यतो ऽस्य तच् चित्तं विक्षिप्यति विस्तरेण यावत्* / तावताप्रमाणं मैत्री चेतःसमाधिः समापन्न इति वक्तव्यं / स तच् चित्तं विक्षिप्यन्तं (ध्स्क्द् 26व्7) विसरन्तं विधावन्तं तस्मिन्न् एवोपसंहरति / तद् एव मनसिकुरुते / अप्रमाणं सुखिता बत सत्वा इति एवं मनसिकुर्वतो यद् वीर्यं विस्तरेण यावद् / अयं प्रयोगो ऽप्रमाणे मैत्रे चेतःसमाधौ (ध्स्क्द् 26व्8) / एवं प्रयुक्तश् च पुनर् अप्रमाणं मैत्रं चेतःसमाधिः समापन्न / इति वक्तव्यं / तथा समापन्नस्य यच् चित्तं मनोविज्ञानम् इदम् उच्यते अप्रमाणं मैत्रीसहभुवं चित्तं / या चेतना विस्तरेण (ध्स्क्द् 26व्9) यावद् /

इमे ऽपि धर्मा अप्रमाणमैत्रीसहभुवः / तत् सर्व इमे धर्माः अप्रमाणं मैत्री चेतःसमाधिर् इति वक्तव्या //

19. (करुणा चेतःसमाधिः)

करुणा कतमा / आह / दुःखिता बत सत्वा इति + + + + + + + + (ध्स्क्द् 26व्10) यच् चैवेमे प्रविवेकजा अध्यात्मसमुत्थिताःइ प्रतिसंख्याय समुत्पन्नाः कुशला रूपप्रतिसंयुक्ता अर्त्तिअर्त्तीयना दुःखदुःखायना करुणाकरुणायना + + + + + + + +

ध्स्क्म् 27र्1. -णासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः समुत्थितं कायकर्म वाक्कर्म तत्समुत्थिताश् चित्तविप्रयुक्ताः संस्कारा इयम् उच्यते करुणा ///

ध्स्क्म् 27र्2. -श् चाप्रमाणश् च / कतमः प्रयोगः परीत्तस्य करुणाचेतःसमाधेः कथं प्रयुक्तश् च पुनः परीत्तं करुणं चेतःसमाधिं समापद्यते आह यथा खल्व् इहैकत्य्. ///

ध्स्क्म् 27र्3. तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो मित्रज्ञातिसालोहितो वा स एभिः परीत्तैः परीत्तं करुणासहगतं चित्तम् आस्थापयति संस्थापयति ///

ध्स्क्म् 27र्4. -ति व्युपशमयति एकोतीकुरुते समाधत्ते परीत्तं दुःखिता बत सत्वा इति तस्यैभिः परीत्तैः परीत्तं करुणासहगतं चित्तम् उपस्थापयतः दमयतः शमयतो ///

ध्स्क्म् 27र्5. -तः तच् चित्तं विक्षिप्यते विस्तरेण यथा मैत्रायाम् उक्तं // मुदिता कतमा / आह मोदन्तां बत सत्वा इति एवं मनसिकुर्वतः यान् नैष्क्रम्यप्रविवेक .. ///

ध्स्क्म् 27र्6. कुशला रूपप्रतिसंयुक्ताः चेतस आमोदना प्रमोदनाभिप्रमोदना / मुदिता मोदना आत्तमनस्कता सुमनस्कता सौमनस्यं आरब्धि .. ///

ध्स्क्म् 27र्7. -म् औद्बिल्यायितत्वं प्रीतिः प्रीत्यायितत्वं उच्यते मुदिता / अपि खलु मुदिता मुदितासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः समुत्थितं ///

ध्स्क्म् 27र्8. -त्तविप्रयुक्ताः संस्कारा इयम् उच्यते मुदिता / मुदिता खलु चेतःसमाधिः द्विविधः परीत्तश् चाप्रमाणश् च / कतरः प्रयोगः परीत्तस्य मुदितस्य चेतःसमाधेः ///

ध्स्क्म् 27र्9. -समाधिं समापद्यते आह यथा खल्व् इहैकत्यस्य ये सत्वा भवन्ति इष्टाः कान्ताः प्रिया मनआपास् तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो ///

ध्स्क्म् 27र्10. एभिः परीत्तैः सत्वैः परीत्तं मुदितासहभुवं चित्तम् आस्थापयति संस्थापयत्य् उपस्थापयति दमयति शमयति व्युपशमयति एकोतीकरोति समा ///

ध्स्क्म् 27व्1. तस्यैभिः परीत्तैः सत्वैः परीत्तं मुदितासहगतं चित्तम् आस्थापयतः संस्थापयतः उपस्थापयतः दमयतः शमयतो व्युपशमयतः एकोतीकुर्वतः समादधतः तच् चित्तं विक्षिप्यति ///

ध्स्क्म् 27व्2. -तमा आह सत्वा इत्य् एवं मनसिकुर्वतः यन् नैष्क्रम्यप्रविवेकध्यानसमुत्थिता प्रतिसंख्याय समुत्पन्ना कुशला रूपप्रतिसंयुक्ता चित्तसमता चित्तप्रसन्नता चेतसो ऽनाभो ///

ध्स्क्म् 27व्3. -लूपेक्षासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः समुत्थितं कायकर्म वाक्कर्म ततः समुत्थिताश् चित्तविप्रयुक्ताः संस्कारा इयम् उच्यते उपेक्षा / कतरः प्रयोगः ///

ध्स्क्म् 27व्4. -श् च पुनर् उपेक्षां समाधिं समापद्यते आह / यथा खल्व् इहैकत्यस्य सत्वा भवन्तीष्टाः कान्ताः प्रिया मनआपास् तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो ///

ध्स्क्म् 27व्5. -स्यैवं भवति इयं माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो वा मित्रज्ञातिसालोहितो वा कामम् अन्यत्र सत्वः सत्व इत्य् अधिमुक्तो भवति तद्यथा ///

ध्स्क्म् 27व्6. -त् स तत्र पश्येत्* सालान् वा तालान् वा नक्तमालान् वा अश्वत्थोदुंबरन्यग्रोधान् वा तस्य नैवं भवति इमे ऽत्र साला वा ताला वा नक्तमाला वा अश्वत्थोदुंबर ///

ध्स्क्म् 27व्7. -मुक्तो भवति / एवं एवैहैकत्यस्य ये सत्वा भवन्ति इष्टाः कान्ता विस्तरेण यावज् ज्ञातिसालोहितः तस्य नैवं भवतीयं मम माता वा पिता वा भ्रात वा ///

ध्स्क्म् 27व्8. -तिसालोहितो वा कामम् अन्यत्र सत्वः सत्व इत्य् अधिमुक्तो भवति अयं प्रयोगः उपेक्षस्य चेतःसमाधेर् एवं प्रयुक्तश् च पुनर् उपेक्षः चेतःसमाधिः संपद्यते ///

ध्स्क्म् 27व्9. -श् चाप्रमाणश् च / कतरः प्रयोगः परीत्तस्योपेक्षस्य चेतःसमाधेः कथं प्रयुक्तश् च पुनः परीत्तम् उपेक्षाचेतःसमाधिं समापद्यते आह / यथा खल्व् इहैकत्यस्य ///

ध्स्क्म् 27व्10. विस्तरेण यावज् ज्ञातिसालोहितं स एभिः परीत्तैः सत्वैः परीत्तम् उपेक्षासहगतं चित्तम् आस्थापयति संस्थापयत्य् उपस्थापयति दमयति शमयति ///

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.