Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

शिष्यलेख

Tác giả
चन्द्रगोमिन्
Thông tin
GRETIL — I. Minaev: "Poslanie k uceniku", in: Zapiski Vostocnago Otdelenija Russkago Archeologiceskago Obscestva, 4 (1889), pp. 29-52.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

चन्द्रगोमिन्: शिष्यलेख

ओम् नमो रत्नत्रयाय ॥

पूर्वावदानचरितेषु सुदुष्करेषु गीतेषु यस्य सुरकिंनरसुन्दरीभिः । अद्यापि चन्द्रकिरणैरिव संकुचन्ति माराङ्गनावदनपङ्कजकाननानि ॥ श्l_1 ॥

सौभाग्यहृद्यवपुषः परमाद्भुतस्य यस्याल्पपुण्यजनदुर्लभदर्शनस्य । संपादिताभिमतलोकमनोरथस्य चिन्तामणेरिव परार्थरसैकवृत्तिः ॥ श्l_2 ॥

यः सर्वदा परसुखैकरसो बभूव दुःखेन दुःखमगमत्परमं परेषाम् । अत्यर्थमाहितमहाकरुणागुणस्य यस्यात्मदुःखसुखमन्तरितं तदेव ॥ श्l_3 ॥

vicchi x māvayasi yasya śiraḥ parārtha x x x sannayanapaṅkajatāmavāpa | स्वार्थं पुन x x x x x सितातपत्रा पृथ्वी बभूव निशितेव कृपाणधारा ॥ श्l_4 ॥

लोकोपकारनिरतप्रकटोदयेन शुल्क x x x x x x गुणोज्ज्वलेन । दोषान्धकारभिदुरेण मनोरमेण येनोदितेन शशिनेव जगत्प्रकाशम् ॥ श्l_5 ॥

चूडाविभूषणमिवोत्तमरत्नकल्पमूढं शिरोभिरुरुभिः फणिनां x x x । यच्छासनं शुभमखण्डविशुद्धवृत्तं पातालमूर्धनि लयतिमिरं प्रमार्ष्टि ॥ श्l_6 ॥

धर्माम्बुवाह इव यो ऽभ्युदितो हिताय धर्मामृतं जलमिवैकरसं ववर्ष । तापाप x x x x x x x x x x x x यदनेकरस x x x x x x x x x x x x x x ॥ श्l_7 ॥

विस्तीर्णनिम्नविमलप्रकटाश्रयेषु पात्रेषु सर्वपरिमर्दसहेषु येषु । तत्संस्थितं भवति सर्वजनोपकारं x x x x x x x x x x x x x x ॥ श्l_8 ॥

तज्जागरं मरणजन्मजरापहारि ये नाप्नुवन्ति न पिबन्ति न धारयन्ति । ते माहिता बहुलमोहमहामदेन x x x x x x x x x धमाद्रियन्ते ॥ श्l_9 ॥

चक्षुर्यदेकममलं जगतो ऽखिलस्य साधारणं त्रिभुवनस्य यदेकदीपः । तच्छासनं समधिगम्य यदुत्सृजन्ति मोहस्य तद्विलसितं परमाद्भुतस्य ॥ श्l_10 ॥

शिक्षा x x x विदितेष्विव बोधिसौधसोपानपद्धतिपदेषु पदं दधानाः । तुङ्गां प्रयान्ति पदवीमनिवर्तमाना भूमिं निजामवतरन्ति विवर्तमानाः ॥ श्l_11 ॥

जन्मार्णवं परमदुस्तरमुत्तितीर्षुः शीलप्लवं क इह हस्तगतं जहाति । कान्तारमध्यपतितः कथमार्यसार्थाद्भ्रष्टो न शोचति चिरं सुपथानभिज्ञः ॥ श्l_12 ॥

संसारभूधरदरीजठरप्रपातादुत्थातुमुद्यतपराः परमान्धकारात् । मुञ्चन्ति ये जिनगुणावलिमन्तराले वेगेन ते विषमपातमधः पतन्ति ॥ श्l_13 ॥

एकाकिनो ऽपि मनसा नियमं प्रकल्प्य ये कर्मणा समुदितेन समुन्नयन्ति । ते साधवो भुवनमण्डलमौलिभूतास्तैरेव यान्ति गुरुतां गुरवः सुशिष्यैः ॥ श्l_14 ॥

लब्ध्वा गुणौघजननीं जननीमिवार्यामत्यन्तशुद्दहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ श्l_15 ॥

तिष्ठन्तु तावदिह सर्वजनापवादाः सर्वाश्च पापगतयो निरयाश्च घोराः । सद्यो जहाति सहजां प्रकृतिं यदेष दुःखं ततः किमपरं भुवि सज्जनस्य ॥ श्l_16 ॥

यः प्रप्य नावमिव धर्ममयीं विशालां भूयो जहाति पदवीं मुनिभिः प्रक्लृप्ताम् । संसारसागरविवर्तननर्तनेषु चेतःस्पृहा तरलिता नियमेन तस्य ॥ श्l_17 ॥

संसारचक्रमनिशं परिवर्तमानमारुह्य यः सुखमवैति विवर्तमानः । सो ऽवश्यमेव तरिवशं मसः क्रमेण सर्वाः समाश्च विसमाश्च गतीः प्रयाति ॥ श्l_18 ॥

अत्युग्रगन्धमशुचिप्रकरोपरुद्धमत्यन्तसंकटमुपोढघनान्धकारम् । आविश्य गर्भनिलयं निरयं यथैव दुःखं महत्स सहते परिपिण्डताङ्गः ॥ श्l_19 ॥

कालक्रमेन स ततो दृढतैलयन्त्रनिष्पीड्यमान इव याति भुवं कथंचित् । सद्यस्तथापि यदयं न जहाति जीवं दुःखोपभोगगतिदुर्लभि तत्तदेव ॥ श्l_20 ॥

तत्र स्थितं तमशुचौ परिवर्तमानमार्द्रोल्बवेष्टिततनुं बहलोग्रगन्धम् । पूर्वस्मृतिव्रणमिवोल्बणदोषपाकं भिन्नं जहाति घृणयेव निपीड्यमानः ॥ श्l_21 ॥

सर्वोपचारविवशं शिथिलाकुलाङ्गमुत्सृज्य बाल्यमुपजातकणैरभावः । तुङ्गेषु यौवनगिरीन्द्रदरीतटेषु मोहायते विषयदृष्टिविषालयेषु ॥ श्l_22 ॥

स ततोऽपि पतत्यचेतनः पतितो नैव जहाति विक्रियाम् । अजरामरमात्मविग्रहं ललितं मन्यत एवं बालिशः ॥ श्l_23 ॥

स विहाय मुनीन्द्रसेवितं सुपथं यात्यपथेन मोहितः । रभसेन परां विचूर्णयन् गजवज्जातमदो निरङ्कुशः ॥ श्l_24 ॥

अथ तस्य बलादनिच्छतः शिरसि न्यस्तपदा सुनिर्दयम् । निशितं पलिताङ्कुशं जरा करिणो हस्तिपकीव यच्छति ॥ श्l_25 ॥

स तथापि विजिह्यचेष्टितः कुशलेनापि भयादिवोज्झितः । सुकृतानि करोति मोहितः शरवत्स्वात्मवधाय पुष्पितः ॥ श्l_26 ॥

अथ तं प्रहसन्निवान्तकः पलितौघैर्दर्शनैरिवोल्बणैः । शिरसि ग्रसितुं प्रवर्तते निरुपायप्रशमो जरारुजः ॥ श्l_27 ॥

विदलन्ति ततो ऽस्य सन्वयो मतिरुत्क्रामति हीयते गतिः । क्षयमेति वपुः परिश्लषं नियतं वर्धत एव जीविताशा ॥ श्l_28 ॥

क्रमशश्च निमीलितेन्द्रियो हतशक्तिर्विषयेषु लालसः । उपगच्छति यामयं दशां नरके सा यदि भीम एव सः ॥ श्l_29 ॥

कथमेवमिदं मया कृतं कथमेवं न कृतं हता गतिः । कथमेवमयं मयास्तकः शिरसि न्यस्तपदो न लक्षितः ॥ श्l_30 ॥

इति x x x चित्तमाधिभिः कुकृतैः शोकमयैरुपद्रुतः । व्यधितेन सवाष्पवारिणा करुणं बन्धुजनेन वीक्षितः ॥ श्l_31 ॥

विनिपीडितमर्मबन्धनस्तिमिरं घोरतरं विशन्निव । विजहाति निजं कडेवरं दयितं यत्नपरेण रक्षितम् ॥ श्l_32 ॥

स विरौति गृहीतमूर्धजो यमदूतैर्दृढपाशसंयतः । न शृणोति जनो ऽस्य भाषितं स्वकृताक्रन्दरवादिवाकुलः ॥ श्l_33 ॥

प्रस्तारशैलसरिदन्तरदुर्गमेषु मार्गेषु तीक्ष्णतरकण्टकसंकटेषु । घोरैः कृतान्तपुरुषैर्यमदण्डघातमाकृष्यते गलनिषेवितकालपाशः ॥ श्l_34 ॥

दूरान्निरीक्ष्य विमलं सलिलं पिपासुरभ्येति गाढतृषितो यदयं तदेव । केशौघशैवलविमिश्रितपूतिपूयपङ्कापङ्कितं क्षतजवं जलता प्रयाति ॥ श्l_35 ॥

वेलानिलाकुलितशीकरशीतसानुमानीलचन्दनतरुं मलयं प्रयाति । सो ऽप्यस्य चण्डवनदावशिखावलीढशीर्णोल्मुकप्रकरदन्तुरतां प्रयाति ॥ श्l_36 ॥

यद्येति वारिनिधिमुद्वतभीमलोलकल्लोलभेदजनितोल्वणफेनहासम् । सो ऽप्यस्य तप्तविषदारुणसैकताभ्रविभ्रान्तकर्कशमरुन्मरुतां प्रयाति ॥ श्l_37 ॥

तत्र स्थितस्य जलदागमशंसिनो ऽस्य साङ्गारधूमकुलिशोपलविस्फुलिङ्गम् । विद्युल्लताकनकराजिपिशङ्गमङ्गे नाराचवर्षमभिवर्षति वारिवहः ॥ श्l_38 ॥

तापार्दितस्य दहनं तु हितानिलो ऽपि शीतार्दितस्य दहनो ऽपि करोति शीतम् । अत्युग्रकर्मपरिणामविमोहितस्य विश्वं तदास्य विपरीतमिदं विभाति ॥ श्l_39 ॥

शूचीमुखस्य बहुयोजनभीमकुक्षेरार्तस्य वारिपिबतो ऽपि महासमुद्रे । अप्राप्त एव पृथुकण्ठदरीप्रपातश्लेष्मोष्मणा जललवः परिशोषमेति ॥ श्l_40

cañcacchaṭānika x pīvarasārameyadaṃṣṭrāṅkurāgrakuliśakṣatacūrṇitāṅgaḥ | क्षाराम्बुपूर्णतरवैतरणीतटेषु निष्कृष्यते विषमकोटिशितोपलेषु ॥ श्l_41 ॥

धावञ्जवेन निशितक्षुरसंस्तरेषु विच्छिन्नमूर्तिरसिपत्त्रलतावनेषु । कूपे पतत्यशरणः शितशूलशक्तिप्रासासिहासनिजितान्तकवक्त्ररन्धे ॥ श्l_42 ॥

तीव्रातपक्वषितदुःसहाखिन्नदेहो वृक्षान्निरीक्ष्य घननीलदलानुपैति । तत्पत्त्रशस्त्रशतपातविभिन्नमूर्तिस्तत्रैव तिष्ठति चिरं विरुतैकबन्धुः ॥ श्l_43 ॥

पर्यन्तनिर्गतशिखाशतविस्फुलिङ्गमालाकुलज्वलितमण्डनमण्डिताभिः । प्रेमान्तरप्रणयनिर्दयमङ्गनाभिरालिङ्ग्यते क्रकचकर्कशविग्रहाभिः ॥ श्l_44 ॥

शैलाभभीषणविसंकटमेषयूथसंघट्टचूर्णितविशीर्णसमस्तगात्रः । आपातवातलवशैत्यसमर्पितासुः संचूर्ण्यते पुनरसौ शतशस्तथैव ॥ श्l_45 ॥

उत्त्रासितो मुखरखड्गशिवासहस्रैरारोहति द्रुतपदं पुनरेव रौद्रान् । तां कूटशाल्मलिमधोमुखकण्ठकौघनिर्भिद्यमानवपुरर्पितगाढशल्यः ॥ श्l_46 ॥

मृत्योः करान्तगलितैरिव कालपाशैराशीविषैर्धृतफणैर्दृढसंयतस्य । उत्पाटयन्ति नयने स्फुरतः प्रसह्य तत्र स्थितस्य बकवायसकङ्कगृध्राः ॥ श्l_47 ॥

तेषां मुखैः कुलिशकोटिनिभैः प्रसह्य निद्रायमानवपुरेष कृतार्तनादः । लोहोन्मुखप्रचुरपीवरतीक्ष्णशङ्कुनिर्भिन्नमूर्तिरवरोहति नष्टचेताः ॥ श्l_48 ॥

आदीप्तशूलशितशल्यविभिन्नदेहास्तत्रैव केचिदवरोढुमशक्नुवन्तः । घोरैर्यदा निशितशस्त्रमुखैरयोभिराकृष्यमाणविसरद्गलितान्त्रसूत्राः ॥ श्l_49 ॥

केचित्पतन्ति विषमेषू गिरेस्तटेषु केचित्परिक्वषिततैलकटाहकुक्षौ । उत्तप्तवालुकभुवं विसृतस्फुलिङ्गामेन्य विशन्ति पदसङ्गमनाप्नुवन्तः ॥ श्l_50 ॥

एके पुनः सिमिसिमायितमूक्ष्मजन्तुसंघातजर्जरितसूनविपूतिकायाः । संचालमात्रमपि हर्तुमशक्नुवन्तो जीवन्ति कर्ममयपाशनिबद्धजीवाः ॥ श्l_51 ॥

अस्थीन्यपि प्रणयता रहितोपमेन शीतेन जर्जरितवेपितपिण्डिताङ्गाः । उत्पन्नभिन्नपिटका शतजातजन्तुजग्धक्षतश्रुतसमज्जवशालशीकाः ॥ श्l_52 ॥

संदष्टलग्नदशनास्तनुलोमकेशाः संघट्टितव्यधितलोचनकर्णकण्ठाः । आ चेतसो जडतरत्वमुपेतकायास्तिष्ठन्ति शीतनरकेषु भृशं नदन्तः ॥ श्l_53 ॥

विकीर्णबहलोग्रगन्धकटुधूमधूम्रान्तरं विजृम्भितशिखाकरप्रकररुद्रदिग्मण्डलम् । सितास्थिसकलाटलीरचितभूषणं भीषणं प्रवृत्तमिव भैरवं ससुजचर्म हाहारवम् ॥ श्l_54 ॥

चटच्छढदिति क्वचित्स्फुरदुरुस्फुलिङ्गाकुलं छमच्छमदिति क्षणस्थगितजृम्भितं मेदसि । कटत्कटदिति क्वणन्तमुरसो ऽस्थिरन्ध्रान्तरे पतन्ति नरकानलं विजितकल्पकालानलम् ॥ श्l_55 ॥

पुराणतृणजर्जरज्वलितपर्शुका x x x x x x x x लतालवो धगिति वान्तदीप्तार्चिषः । स्फुटज्जठरनिःसृतप्रसरदन्त्रसंत्रासिताः विमुक्तगुरुघर्घरध्वनितमात्रशेषक्रियाः ॥ श्l_56 ॥

निरीक्ष्य विवरान्तरं मुहुरपावृतं दूरतः प्रयान्ति कथमप्यमी प्रमतदुःखमोक्षाश्रयाः । यदा तदपि घट्टितं भवति कर्मपट्टैर्दृढैस्तदा विफलवाञ्छिताः किमपि यान्ति दुःखान्तरम् ॥ श्l_57 ॥

ज्वलन्निशिततोमरप्रकरवर्षणानन्तरं द्रवीकृतमयोरसं दहनरश्मिमालाकुलम् । पिबन्ति गलदस्रवो नरकपालदण्डाहता मुखश्रवणनासिकाविवरलब्धधूमोद्गमाः ॥ श्l_58 ॥

आदग्धविस्फुटितनेत्रशिरः कपालमस्तिष्कदीपितपिशङ्गशिखाकलापः । शुष्केन्धनप्रकरनिर्दयतामुपैति शोकाग्निकोष इव गात्रचयेषु तेषाम् ॥ श्l_59 ॥

ते जन्तवो गिरिनदीजललोलजीवा औष्ठ्यं तदेव नरकेषु त एव चाग्निः । कर्माणि तत्खलु तथा परिणामयन्ति सर्वं यथा परमदारुणमाविभाति ॥ श्l_60 ॥

आत्मीयकर्मविवशाकुलवेष्टितस्य मुक्तस्य पापनिलयान्निरयां कथंचित् । लोकेष्वनन्तगतिभेदभयाकुलेषु मानुष्यकं परमदुर्लभमेव जन्तोः ॥ श्l_61 ॥

म्लेच्छेषु वा नरकपालसमव्रतेषु तिर्यक्षु वा कृतपरस्परभक्षणेषु । जातिं लभेत यदि तत्र तदेव शीलमासेवते पतति येन पुनः प्रपातम् ॥ श्l_62 ॥

यत्प्राप्य जन्मजलधेरपि यान्ति पारमारोपयन्ति शिवमुत्तमबोधिबीजम् । चिन्तामणेरपि समभ्यधिकं गुणौघैर्मानुष्यकं क इह तद्विफलीकरोति ॥ श्l_63 ॥

अत्यन्तदुर्लभमुपेत्य मनुष्यभावं यद्वाञ्छितं तदभिवाञ्छितमेव कुर्यात् । चण्डानिलाकुलितदीपशिखाचलस्य न ह्यायुषः क्षणमपि स्थितिनिश्चयोऽस्ति ॥ श्l_64 ॥

श्वः कार्यमेतदिदमद्य परं मुहूर्तादेतत्क्षणादिति जनेन विचिन्त्यमाने । तिर्यग्निरीक्षणपिशङ्गितकालदण्डः शङ्के हसत्यसहनः कुपितः कृतान्तः ॥ श्l_65 ॥

आयाति फुल्लकुसुमः कुसुमागमो ऽयमेषा शशाङ्कतिलका शरदागतेति । सर्वः प्रहृष्यति जनो न पुनर्ममैतदायुः प्रहीणमिति याति परं विषादम् ॥ श्l_66 ॥

आसन्नपीनशशिमण्डलमण्डनासु विश्रान्तवारिगुरुवारिदमेखलासु । निःसङ्गमासु गिरिशृङ्गवनस्थलीषु धन्या नयन्त्यनिलचञ्चलशीलमायुः ॥ श्l_67 ॥

किं सा रतिर्भवति नन्दनभूमिकासु दिव्याङ्गनाजघनपृष्ठशिलातलासु । या मुग्धमुग्धहरणीगणसेवितासु निःसङ्गचारुसुभगासु वनस्थलीषु ॥ श्l_68 ॥

दिव्याङ्गनापरिमलाविलये निभिन्नसंतानकस्तवकहासवितण्वनीषु । किं सा रतिः सुरसरित्सु विविक्तरम्यतीरासु या शुचिजलासु वने नदीषु ॥ श्l_69 ॥

विशालाः शैलानां विरतजनसंपातसुभगा गुहा गाढाभोगा हरितवनलेखापरिकराः । सरित्तीरासन्ना सुरजमधुरैर्निर्जनरवैर्न गम्याः क्लेशाग्नेरयमिति वदन्तीव पथिकान् ॥ श्l_70 ॥

मायामरीचिदकचन्द्रतरंगकल्पाः कामा जिनेन गदिता विभवाः स्त्रियश्च । स्वप्नान्तदुर्लभितविभ्रमविप्रलब्धा बालाः पतन्ति निरयेष्वपि येषु सक्ताः ॥ श्l_71 ॥

आपातमात्रमधुरा विषया विषश्च घोरा विषाककटुका विषया विषश्च । मोहान्धकारगहना विषया विषश्च दुर्वारवेगचपला विषया विषश्च ॥ श्l_72 ॥

कामा विषश्च विषयाश्च निरूप्यमानाः श्रेयो विषं न विषया विषमस्वभावाः । एकत्र जन्मनि विषं विषतां प्रयाति जन्मान्तरे ऽपि विषया विषतां प्रयान्ति ॥ श्l_73 ॥

विषस्य विषयाणां च दूरमत्यन्तगोचरम् । उपयुक्तं विषं हन्ति विषयाः स्मरणादपि ॥ श्l_74 ॥

संसृष्टं व्रजति विषं विषेण शान्तिं सन्मन्त्रैरगदधरैश्च साध्यमानम् । युक्तं वा भवति विषं हिताय नॄणां न त्वेवं विषयमहाविषं कदाचित् ॥ श्l_75 ॥

यद्वद्वृषो विषमकूपतटान्तत्रूढो दूर्वाप्रवाललवलालसमानसः सन् । श्वभ्रे पतत्यथ च नास्तु त एव लाभस्तद्वत्सुखान्वितमतिः खलु जीवलोकः ॥ श्l_76 ॥

मन्दाकिनीजलरयाकुलितालकाभिः क्रीडाविहारमनुभूय सहाप्सरोभिः । भूयो भ्रमन्ति खरवैतरणे तरंगसंपर्कजर्जरितदारुणदुःखभाजः ॥ श्l_77 ॥

आस्तीर्णकल्पतरुपल्ल्वसंस्तरेषु कान्तासखाः सुरवनेषु मखं विहृत्य । भूयो भ्रमन्ति निशिताकुलशस्त्रपातविच्छिन्नगात्रमसिपत्त्रवनस्थलीषु ॥ श्l_78 ॥

स्पर्शे सुखासु पदपातनतोन्नतासु मेरोर्नितम्बपदवीषु चिरं विहृत्य । उत्तप्तसैकतकुकूलकृशानुराशिं संसीर्यमाणचरणोरुभुजो भ्रमन्ति ॥ श्l_79 ॥

गत्वा दिवं मुखरभासुरकिङ्कनीकहारावलीनिकरदन्तुरितैर्विमानैः । घोरं स्थिराश्रयममेयमनन्तपारमन्धं तमः पुनरधःशिरसा पतन्ति ॥ श्l_80 ॥

शक्रो ऽपि यत्र सुरकिंनरनागयक्षमौलिप्रभाप्रकरपिञ्जरपादपीठः । कर्मानिलाकुलगतिः कुगतिः प्रयाति को नाम तत्र पुरुषो न भयं भजेत ॥ श्l_81 ॥

प्रम्लायमानकुसुमाः श्रु x x x दिग्धा म्लानाम्बराः करुणदीक्षितबन्धुवर्गाः । दुःखं परं यदमरा मरणे व्रजन्ति तन्मानवा न जलबुद्बुदलोलजीवाः ॥ श्l_82 ॥

दुःखाग्निप्रकरनिरोधभैरवे ऽस्मिन्यलोके वहति जनः सुखाभिमानम् । तन्मत्योर्वदनमपावृतं विशालं तद्बीजं पुनरपि जन्मपादपस्य ॥ श्l_83 ॥

तं तृष्णामयदृढदीर्घतन्तुबद्धं पर्यस्तप्रणिहितभीमकालदण्डम् । सत्त्वानां भवजलधौ परिप्लुतानां मत्स्यनां बडिशमिवान्तकेन दत्तम् ॥ श्l_84 ॥

कुम्भीपाकक्वथितकलिलादुष्णसंरम्भवेगात्कृत्वोद्ग्रीवं क्षणमपि सुखं लब्धनिश्वासमोक्षाः । क्रोधापूर्णैः सुबहुभिरयोमुद्गरैस्ताड्यमाना मन्यते तं परमिव सुखं नारका यद्वदेव ॥ श्l_85 ॥

तद्वद्दुःखैरनिशमवशो दारुणैः पीड्यमानस्तावत्कालं जरणमणरक्षोभमुक्तः कथंचित् । मन्दीभूते क्षणमपि निजे दुःसहे दुःखवह्नौ सर्वो लोकस्तनुसुखलवग्रामतृष्णां करोति ॥ श्l_86 ॥

यावद्यावज्जगति सकले जायते सौख्यसंज्ञा तावत्तावद्बहुतरशिखो जायते रागबह्निः । यावद्यावद्विसरति शुभा भावना भाव्यमाना तावत्तावद्बहलतरतामेति मोहान्धकारम् ॥ श्l_87 ॥

यावद्यावन्नियतमशुभा भावना याति वृद्धिम् । तावत्तावत्तरलतरतमिति मोहान्धकारम् ॥ श्l_88 ॥

दुर्गन्धिपूतिविकृतैररविन्दमिन्दुमिन्दीवरं च तुलयन्ति यदाङ्गनाङ्गैः । तस्यानृतस्य फलमुग्रमिदं कवीनां तास्वेव गर्भनिलयं पदमी विशन्ति ॥ श्l_89 ॥

का सौगतिर्जगति या शतशो न याता किं तत्सुखं यदशकृन्न पुरानुभूतम् । कास्ताः श्रियश्चपलचामरचारुहासाः प्राप्ता न यास्तदपि वर्धत एव रागः ॥ श्l_90 ॥

नद्यो न ता न विहृतं पुलिनेषु यासां स्थानं न तज्जगति यत्र कृतो न वासः । व्योम्नापि तन्न पदमस्ति न यत्र यातं दुष्पूरणस्तदपि वर्धत एव रागः ॥ श्l_91 ॥

दुःखं न तद्यदसकृन्न पुरानुभूतं कामा न ते जगति यैरिह तृप्तिरासीत् । सत्त्वो न सो ऽस्ति जठरे शयितं न यस्य संसारिणस्तदपि नास्ति कथं विरागः ॥ श्l_92 ॥

अत्यायते जगति जन्मपरिग्रहे ऽस्मिन्दुःखे सुखे च बहुशः परिवर्तमानः । नासौ जनो जगति यो न बभूव बन्धुर्द्वेषोरगस्तदपि तिष्ठति भीमभोगः ॥ श्l_93 ॥

यैः सार्धमेत्य हसितं ललितं प्रगीतमेकत्र पीतमशितं च कृताश्च गोष्ठ्यः । कालक्रमेण गमिताः कति के ऽपि रम्या नीताः समाश्च विषमाश्च दशाः कथंचित् ॥ श्l_94 ॥

तानार्जवं जवविवर्तनदृष्टनष्टानावर्तमध्यपतितानिव वीक्ष्यमाणः । संसारसागरगतानपहाय बन्धूनेकः प्रयाति यदि नास्ति ततः कृतघ्नः ॥ श्l_95 ॥

अङ्कस्थितेन शिशुना विवशेन यासां पीतः पयोधररसं प्रणयानुयातः । तन्निष्फलप्रचुरदुर्ललितैकभाजः को नाम दस्युरपि हातुमिहोत्सहेत ॥ श्l_96 ॥

या संस्थितो ऽयमुदरे ऽपि कृतावकाशो याः स्नेहविक्लवधियः श्लथमेनमूहुः । ता दुःखिता अशरणाः कृपणा विहाय को नाम शत्रुरपि गन्तुमिहोत्सहेत ॥ श्l_97 ॥

विकीर्णे दुःखौघैर्जगति विवशे ऽस्मिन्नशरणे परार्थे यद्दुःखं तदिह सुखमाहुः सुपुरुषाः । क्षणं क्षुत्तृष्णोष्णश्रमविगमरम्यानरुचः परं कृत्वा तेषामपि यदिह क इवास्य प्रतिसमः ॥ श्l_98 ॥

न सारम्यैर्या नैव च नृपतिलक्ष्मीपरिकरैर्न दारैर्नापत्यैर्न सुरभवने नासुरगतौ । kathaṃcitsaṃprāpyaṃ x viṣayasukhaṃ bhogaparamairlabhante yā prītiṃ parahitasukhādhānaniratāḥ || śl_99 ||

स्वयं घासग्रासं पशुरपि करोत्येव सुलभं यदृच्छा लब्धं वा पिबति सलिलं गाढतृषितः । परस्यार्थ कर्तुं यदिह पुरुषो ऽयं प्रयतते तदस्य स्वं तेजः सुखमिदमहो पौरुषमिदम् ॥ श्l_100 ॥

यदालोकं कुवन् भ्रमति रविरश्रान्ततुरगः सदालोकं धत्ते यदगणितभारा वसुमती । न स स्वार्थः कश्चित्प्रकृतिरियमेव महतां यदेते लोकानां हितसुखरसैकान्तरसिकाः ॥ श्l_101 ॥

अविद्याधूम्रान्धभ्रमपरिगतव्याकुलगतिप्रदीप्ते दुःखाग्नौ पतितमवशं वीक्ष्य भुवनम् । स्फुरद्वह्निज्वाला प्रमथितशिरोवेष्टननिभा यातन्ते ये ऽत्राद्भुत इह पुरुषास्ते सुकृतिनः ॥ श्l_102 ॥

अवीचिं गाहन्ते हुतवहशिखापूरितमपि प्रसर्पद्रोमाञ्चा हिमनिकरचन्द्रांशुशिशिरम् । परार्थे x x x स्फुटनलिनहासापि नलिनी करोत्येषां तापं हुतवहशिखासंहतिरिव ॥ श्l_103 ॥

परहितकरणाय बद्धकक्षाः सुखमसिपत्त्रवने वसन्ति सन्तः । न पुनरमरसुन्दरीसहायाः क्षणमपि नन्दनकानने रमन्ते ॥ श्l_104 ॥

अशरणजनतारणाय तीर्णाः पुनरपि वैतरणीं तरन्ति धीराः । न तु गगनसरित्तरंगभङ्गव्यतिकरसङ्गसुखं स्वयं भजन्ते ॥ श्l_105 ॥

इति सुचरितरत्नं भूषणं भूषणानां शिवममृतमुदारं भासुरं भासुराणाम् । असुलभमकृतज्ञैर्नन्दनं नन्दनानां भज समसुखहेतुं मङ्गलं मङ्गलानाम् ॥ श्l_106 ॥

सुगतवचनपुष्पं सर्वदा सेवनीयं फलति फलमुदारं पुष्पमेव द्रुमाणाम् । सुगतवचनपुष्पादर्थराशिर्निषेव्यो मधुनि मुधकराणां यस्य वाञ्छाप्रकर्षम् ॥ श्l_107 ॥

विसृज विषयान्नीत्याकीर्णां क्षणव्ययसङ्गिनो भज समसुखं साकाङ्क्षं कृतान्तभयोज्झितम् । विकर तिमिरं मोहव्याजं विमोक्षयथार्गलं न खलु सुचिरं निद्रायन्ते सदश्वकिशोरकाः ॥ श्l_108 ॥

विनयविसरो वीर्यस्कन्धः क्षमादमपल्लवः शमथकुसुमः प्रज्ञाशाखः प्रदानघनच्छदः । प्रणिधिशिखरः शीलच्छायः प्रशान्तिफलप्रदो भव भव मरौ तापार्तानां त्वमेकमहाद्रुमः ॥ श्l_109 ॥

बहुजनहितो माभैर्वादप्रदानमहास्वनः पृथुतरशोधारासारः कृपानिलचोदितः । प्रशमितरजः शीलच्छायाविभूषितभूतलो भव भव मरौ तापार्तानां त्वमेकमहाघनः ॥ श्l_110 ॥

प्रकटविपुलं पङ्कागाधः प्रसन्नतराश्रयः सततशिशिरो जालव्यालप्रमादविवर्जितः । प्रकृतिसुभगस्तृष्णाच्छेदाविमर्दभरक्षमो भव भव मरौ तापार्तानां त्वमेकमहाह्रदः ॥ श्l_111 ॥

इति निगदता यदुपार्जितं पुण्यं मया कियत्सुगतचरिते कृत्वा श्रद्धामनेन जनो ऽखिलः । सततसुखितो रम्याभोगः समृद्धमनोरथः परहितरतः सर्वज्ञत्वं प्रयातु ततः शनैः ॥ श्l_112 ॥

करतलसमाः स्पष्टालोकाः प्रशान्तकृशानवः स्थलकमलिनीपत्त्रच्छन्ना बिसाङ्कुरदन्तुराः । शुचिसुरभयः स्फुल्लाम्भोजैर्विभूषितभूमयो दधतु नरकाः स्फीतां शोभां सशीकरवायवः ॥ श्l_113 ॥

विजितंविरुतमारानीकाः कृताभयघोषणा गगनसलिलक्रीडा रम्या समेत नरामराः । जननमरणक्लेशायासप्रबन्धविघातिनो दिशि दिशि सदा बुद्धोत्पादा भवन्तु समीहिताः ॥ श्l_114 ॥

भवतु जगतां धर्मामोदः प्रबन्धमहोत्सवः सुचिरगुणिता मृत्योर्बन्ध्या भवन्तु मनोरथाः । मुनिजनकथागोष्ठीबन्धैः समावृतवर्षिभिः सततशिशिरः सुभगचन्द्रालोकः प्रयातु कृतार्थताम् ॥ श्l_115 ॥

॥ इति शिष्यलेखनाम धर्मकाव्यं समाप्तम् ॥

। कृतिराचार्यचन्द्रगोमिपादस्य ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.