Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

धर्मस्कन्ध

Thông tin
GRETIL — Siglinde Dietz: Fragmente des Dharmaskandha - Ein Abhidharma-Text in Sanskrit aus Gilgit. Göttingen 1984 (Abhandlungen der Akademie der Wissenschaften in Göttingen, 142) = DhskD: fols. 3-20, 26, and Kazunobu Matsuda: "Newly Identified Sanskrit Fragments of the Dharmaskandha in the Gilgit manuscripts" (1), Sanskrit Fragments Transliterated, with an Appendix by Hajime Sakurabe, Kyoto 1986. GBM 151-156; DhskM = fols. 21, 22, 27; Ed. also in: K. Sankarnarayan, K. Matsuda, M. Yoritomi: Lokaprajñapti, A Critical Exposition of Buddhist Cosmology, Mumbai/New Delhi 2002. pp. 15-24.chữ Devan

धर्मस्कन्ध

1. (अविद्याप्रत्ययाः संस्काराः)

(ध्स्क्द् 3र्1) संमोहः प्रमोहो मोहं मोहजम् इयम् उच्यते अविद्या / अविद्याप्रत्ययाः संस्काराः कतमे / एवम् उक्तं भगवता /

अविद्या भिक्षवो हेतुः संरागाय हेतुः संद्वेषाय हेतुः संमोहाय / इति (ध्स्क्द् 3र्2) या सा संरागता संमोहता इयम् उच्यते अविद्याप्रत्ययाः संस्काराः /

अपि खल्व् एवम् उक्तं भगवता /

अविद्या भिक्षवः पूर्वंगमं पूर्वनिमित्तम् अनेकविधानां पापकानाम् अकुशलानां (ध्स्क्द् 3र्3) धर्माणां समुत्पत्तये ऽनूत्पातिको भवति यद् उत आःरीक्यं चानपत्राप्यं च / अह्रीमान् भिक्षवो भिक्षुर् अनपत्रापी मिथ्यादृष्टिको भवति / तत्र भिक्षवो मिथ्या मिथ्यादृष्ट्या मिथ्यासंकल्पो भवति / मिथ्यासंकल्पान् (ध्स्क्द् 3र्4) मिथ्यावाचं भाषति / मिथ्यावाचो मिथ्याकर्मान्तः प्रभवति / मिथ्याकर्मान्तान् मिथ्याजीवः प्रभवति / मिथ्याजीवान् मिथ्याव्यायामः प्रभवति / मिथ्याव्यायामान् मिथ्यास्मृतिः प्रभवति / मिथ्यास्मृतेर् (ध्स्क्द् 3र्5) मिथ्यासमाधिः प्रभवति / इति या सा मिथ्यादृष्टिर् मिथ्यासंकल्पो मिथ्यावाङ् मिथ्याकर्मान्तो मिथ्याजीवो मिथ्याव्यायामो मिथ्यास्मृतिः मिथ्यासमाधिर् इम उच्यन्ते अविद्याप्रत्ययाः (ध्स्क्द् 3र्6) संस्काराः / अपि खल्व् एवं उक्तं भगवता /

ये के चिद् भिक्षवो ऽनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यामूलका अविद्यासमुदया अविद्याजातीया अविद्याप्रभवा / (ध्स्क्द् 3र्7) अविदागतो हि भिक्षवः अजानन् कुशलाकुशलान् धर्मान् यथाभूतं न प्रजानाति सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतान् कृष्णशुक्लान् सप्रतिभागप्रतीत्यसमुत्पन्नान् (ध्स्क्द् 3र्8) धर्मान् यथाभूतं न प्रजानाति / स एवं कुशलाकुशलान् धर्मान् यथाभूतम् अप्रजानन् सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् (ध्स्क्द् 3र्9) धर्मान् यथाभूतम् अप्रजानन् मिथ्यादृष्टिको भवति / तत्र भिक्षवो मिथ्यादृष्ट्या मिथ्यासंकल्पः प्रभवति विस्तरेण यथा पूर्वोक्तं / इम उच्यन्ते अविद्याप्रत्ययाः संस्काराः /

(ध्स्क्द् 3व्1) अपि खल्व् एवम् उक्तं भगवता कुंभोपमे व्याकरणे /

पुण्यान् अपि संस्कारान् अभिसंस्करोति अविद्याप्रत्ययान् / अपुण्यान् अप्य् आनिंज्यान् अपि संस्कारान् अभिसंस्करोति / अविद्याप्रत्ययाः पुण्यसंस्काराः कतमे / आह कुशलं कायकर्म (ध्स्क्द् 3व्2) वाक्कर्म कुशलाश् चित्तचैतसिका धर्माः कुशलाश् चित्तविप्रयुक्ताः संस्काराः / यद् अपि तत् कुशलस्य कायकर्मवाक्कर्मणः कुशलानां चित्तचैतसिकानां कुशलानां चित्तविप्रयुक्तानां संस्काराणां दीर्घरात्रं इष्टं कान्तं प्रियं (ध्स्क्द् 3व्3) मनापं विपाकं प्रतिसंवेदयते तद् इदम् उच्यते पुण्यम् इति वा पुण्यफलम् इति वा पुण्यफलविपाकम् इति वा /

अपुण्याः संस्काराः कतमे / आहाकुशलं कायकर्मवाक्कर्म अकुशलाश् चित्तचैतसिका धर्माः अकुशलाश् चित्तविप्रयुक्ताः (ध्स्क्द् 3व्4) संस्कारा / यद् अपि तद् अकुशलस्य कायकर्मवाक्कर्मणः अकुशलानां चित्तचैतसिकानां धर्माणाम् अकुशलानां चित्तविप्रयुक्तानां संस्काराणां दीर्घरात्रम् अनिष्टम् अकान्तम् अप्रियम् अमनापं प्रतिसंवेदयते तद् (ध्स्क्द् 3व्5) उच्यते अपुण्यम् इति वा अपुण्यफलम् इति वा अपुण्यफलविपाकम् इति वा / इम उच्यन्ते अपुण्याः संस्काराः /

आनिंज्याः संस्काराः कतमे / आह / चत्वार्य् आरूप्याण्य् आनिंज्यम् इत्य् उच्यते //

कथम् अपुण्यान् संस्कारान् अभिसंस्कुरुते (ध्स्क्द् 3व्6) अविद्याप्रत्ययान् / आह / यथा खल्व् इहैकत्यो रागपर्यवस्थितो द्वेषपार्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति / इतीमे ते अकुशलाः कायसंस्कारा वाक्संस्कारा (ध्स्क्द् 3व्7) मनःसंस्कारा / इम उच्यन्ते अपुण्याः संस्कारा / यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदान् नरकेषूपपद्यन्ते / तत्र च संस्कारान् अभिनिर्वर्तयन्ते / एवम् अपुण्यान् संस्कारान् अभिसंस्करोति अविद्याप्रत्ययान् /

यथा (ध्स्क्द् 3व्8) नरकेष्व् एवं तिर्यक्प्रेतेषु /

कथं पुण्यान् संस्कारान् अभिसंस्करोति अविद्याप्रत्ययान् / आह / यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तस् / तस्यैवं भवत्य् / अहो बताहं मनुष्यसुखकानां सभागतायाम् (ध्स्क्द् 3व्9) उपपद्येयम् इति / स तं प्रार्थयमानस् तद्धेतुकं संवर्तनीयं कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति / इति ये ते कुशलाः कायसंस्कारा वा वाक्संस्कारा वा मनःसंस्कारा वा इम उच्यन्ते पुण्याः (ध्स्क्द् 3व्10) संस्काराः / यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदान् मनुष्यसुखकानां सभागतायाम् उपपद्यते / तत्र च संस्कारान् अभिनिर्वर्तयत्य् / एवं पुण्यान् संस्कारान् अभिसंस्करोति अविद्याप्रत्ययान् / न हैवावेक्षावान् (ध्स्क्द् 4र्1) भवति प्रतिबद्धचित्तः / अपि त्व् अविद्यायां सत्याम् अविद्यासंचेतनाहेतोः कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति / इति ये ते कुशलाः कायसंस्कारा विस्तरेण यावन् मनुष्यसुखकानां सभागतायाम् उपपद्यते / (ध्स्क्द् 4र्2) तत्र च संस्कारान् अभिसंवर्तयत्य् / एवं पुण्यान् संस्कारान् अभिसंस्कुरुते अविद्याप्रत्ययान् /

यथा मनुष्यसुखकानाम् एवं चातुर्महाराजकायिकानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां /

(ध्स्क्द् 4र्3) यथा खल्व् इहैको ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवति / अहो बताहं ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्येयं / स तं प्रार्थयमानः तद्धेतोस् तत्संवर्तनीयं विविक्तं कामैर् विविक्तं (ध्स्क्द् 4र्4) पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / तथा समापन्नस्य यत् कायसंवरो वाक्संवरः आजीवपरिशुद्धिः इम उच्यन्ते पुण्याः संस्काराः / यद् अपि तद्धेतोस् तत्प्रत्ययं (ध्स्क्द् 4र्5) कायस्य भेदाद् ब्रःमकायिकानां देवानां सभागतायाम् उपपद्यते / तत्र च संस्कारान् अभिनिर्वर्तयति / एवं पुण्यान् संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान् / न हैवावेक्षावान् भवति प्रतिबद्धचित्तः / अपि (ध्स्क्द् 4र्6) त्व् अविद्यायां सत्याम् अविद्यासंचेतनाहेतोर् विविक्तं कामैर् यावत् प्रथमं ध्यानम् उपसंपद्य विहरति / तथा समापन्नस्य यः कायसंवरो वाक्संवरः / विस्तरेण यावत् / तत्र च संस्कारान् अभिनिर्वर्तयति / एवम् पुण्यान् (ध्स्क्द् 4र्7) संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान्*/

यथा ब्रह्मकायिकानाम् एवं ब्रह्मपुरोहितानां महाब्रःमाणां परीत्ताभानां अप्रमाणाभानाम् आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् अनभ्रकाणां (ध्स्क्द् 4र्8) पुण्यप्रसवानां बृहत्फलानां / एषु सर्वेषु यथायोग्यानि ध्यानानि वक्तव्यानि /

यथा खल्व् इहैकत्यः असंज्ञिसत्वानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवत्य् / अहो बताहं असंज्ञिसत्त्वानां देवानां (ध्स्क्द् 4र्9) सभागतायाम् उपपद्येयं / स तं प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं संज्ञाम् औदारिकतो दुःखिलतः स्थूलभित्तिकतो मनसिकरोति आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः / तस्य संज्ञाम् औदारिकतो (ध्स्क्द् 4र्10) दुःखिलतः स्थूलभित्तिकतो मनसिकुर्वतः आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः संज्ञा अन्तरायत्य् आसंज्ञिकं च संस्थिहति / यत्रास्य संज्ञा अन्तरायत्य् आसंज्ञिकं संस्थिहत्य् एतावद् (ध्स्क्द् 4व्1) असंज्ञिसमापत्तिं समापन्न इति वक्तव्यं / तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवविशुद्धिर् इम उच्यन्ते पुण्याः संस्काराः / यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदाद् असंज्ञिसत्त्वानां सभागतायाम् (ध्स्क्द् 4व्2) उपपद्यते / तत्र च संस्कारान् अभिसंनिर्वर्तयत्य् अविद्याप्रत्ययान् / न हैवावेक्षावान् भवति प्रतिबद्धचित्तो / ऽपि त्व् अविद्यायां सत्यां अविद्याभिसंचेतनाहेतोः संज्ञाम् औदारिकतो दुःखिलतः स्थूलभित्तिकतो (ध्स्क्द् 4व्3) मनसिकुरुते आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः / तस्य विस्तरेण यावद् आसंज्ञिकं संस्थिहत्य् एतावत् असंज्ञिसमापत्तिं समापन्न इति वक्तव्यं / तथा समापन्नस्य यः कायसंवरो / विस्तरेण (ध्स्क्द् 4व्4) यावत् / तत्र च संस्कारान् अभिनिर्वर्तयत्य् / एवं पुण्यान् संस्कारान् अभिसंस्करोत्य् अविद्याप्रत्ययान् /

कथम् आनिंज्यान् संस्कारान् अभिसंस्करोत्य् अविद्याप्रत्ययान् / आह / यथा खल्व् इहैकत्यः आकाशानन्त्यायतनानां देवानाम् (ध्स्क्द् 4व्5) अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवत्य् / अहो बताहं आकाशानन्त्यायतनानां देवानां सभागतायाम् उपपद्येयं / स तं प्रार्थयमानः तद्धेतोस् तत्संवर्तनीयं सर्वशो रूपसंज्नानाम् अतिक्रमात् (ध्स्क्द् 4व्6) प्रतिघसंज्ञानां अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति / तथा समापन्नस्य या चेतना चेतितं चेतनामितं चेतयितत्वं (ध्स्क्द् 4व्7) चेतनागतं चित्ताभिसंस्कारो मनस्कर्म इम उच्यन्ते आनिंज्याः संस्काराः / यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदाद् आकाशानन्त्यायतनानां देवानां सभागतायाम् उपपद्यते तत्र च संस्कारान् (ध्स्क्द् 4व्8) अभिनिर्वर्तयत्य् / एवम् आनिंज्यान् संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान् / न हैवावेक्षावान् भवति प्रतिबद्धचित्तः / अपि त्व् अविद्यायां सत्यां अविद्याभिसंचेतनाहेतोः सर्वशो रूपसंज्ञानां समतिक्रमाद् (ध्स्क्द् 4व्9) विस्तरेण यावद् आकाशानन्त्यायतनम् उपसंपद्य विहरति / तथा समापन्नस्य या चेतना विस्तरेण इम उच्यन्ते आनिंज्याः संस्कारा / यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदाद् आकाशानन्त्यायतनानां (ध्स्क्द् 4व्10) देवानां सभागतायाम् उपपद्यते / तत्र च संस्कारान् अभिनिर्वर्तयत्य् / एवं आनिंज्यान् संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान्* /

यथाकाशानन्त्यायतनानाम् एवं विज्ञानानन्त्यायतनानाम् आकिंचन्यायतनानां (ध्स्क्द् 5र्1) नैवसंज्ञानासंज्ञायतनानाम् एतेषां प्रत्येकप्रत्येकसः आरूप्या वक्तव्या / इति ये ते संस्कारा अविद्याम् आगम्याविद्यां निश्रित्याविद्यां प्रतिष्ठाय उत्पद्यन्ति समुत्पद्यन्ते जायन्ति संजायन्ति समुदागच्छन्ति (ध्स्क्द् 5र्2) प्रादुर्भवन्ति इम उच्यन्ते अविद्याप्रत्ययास् संस्काराः //

2. (संस्कारप्रत्ययं विज्ञानं)

उद्दानं /

हेतुः पूर्वंगमं बलं संस्काराः कुम्भेन / चतुष्कं //

उद्दानं / लोभः अलोभः अथ चक्षुः संस्कृतं कुम्भोपमेन / द्वितीयं चतुष्कं //

संस्कारप्रत्ययं (ध्स्क्द् 5र्3) विज्ञानं कतमद् / आह / यथ तावल् लोभसहजां वेदनां प्रतीत्य लोभसहजस्य विज्ञानस्याभिनिर्वृत्तिर् भवति प्रादुर्भावश् च द्वेषसहजां मोहसहजां वेदनां प्रतीत्य मोहसहजस्य विज्ञानस्याभिनिर्वृत्तिर् भवति (ध्स्क्द् 5र्4) प्रादुर्भावः / तद् उच्यते संस्कारप्रत्ययं विज्ञानं / अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं / तत्र चक्षुःसंस्कृतं रूपाणि च बाह्यं प्रत्ययं चक्षुर्विज्ञानस्य तद् उच्यते संस्कारप्रत्ययं विज्नानं / (ध्स्क्द् 5र्5) श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं / तत्र मनःसंस्कृतं धर्माश् च बाह्यं प्रत्ययं मनोविज्ञानस्य तद् उच्यते संस्कारप्रत्ययं विज्ञानं / अपि खल्व् एवम् उक्तं भगवता कुम्भोपमेस्मिन् (ध्स्क्द् 5र्6) व्याकरणे /

तस्य पुण्यान् संस्कारान् अभिसंस्कृत्य पुण्योपगं भवति विज्ञानं / अपुण्यान् आनिंज्यान् संस्कारान् अभिसंस्कृत्यानिंज्योपगं भवति विज्ञानं /

कथम् अपुण्यं / आह / यथा खल्व् इहैकत्यो रागपर्यवस्थितो (ध्स्क्द् 5र्7) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति / इति ये ते अकुशलाः कायसंस्कारा वाक्संस्कारा मनःसंस्कारा इम उच्यन्ते ऽपुण्याः (ध्स्क्द् 5र्8) संस्काराः / यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदान् नरकेषूपपद्यते / तत्र च विज्ञानम् अभिनिर्वर्तयति / एवम् अपुण्यान् संस्कारान् अभिसंस्कृत्यापुण्योपगं विज्ञानं भवति /

यथा नरकेषु तिर्यक्प्रेतेषु (ध्स्क्द् 5र्9) /

कथं पुण्यान् अभिसंस्कारान् अभिसंस्कृत्य पुण्योपगं भवति विज्ञानं / आह / यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तः / विस्तरेण यावत् / तत्र च विज्ञानम् अभिनिर्वर्तयति / एवं (ध्स्क्द् 5र्10) पुण्यान् संस्कारान् अभिसंस्कृत्य पुण्योपगं भवति विज्ञानं /

यथा मनुष्यसुखकानाम् एवं यावत् परनिर्मितवशवर्तिनां ब्रह्मकायिकानां विविक्तं कामैर् विविक्तं तत्र च विज्ञानम् अभिनिर्वर्तयति / (ध्स्क्द् 5र्11) (अबोउत् 65-70 अक्षरस् इल्लेगिब्ले)

(ध्स्क्द् 5व्1) यावद् बृहत्फलानां सर्वेषु प्रतिप्रतिध्यानानि वक्तव्यानि /

कथम् आनिंज्यान् संस्कारान् अभिसंस्कृत्यानिंज्योपगं भवति विज्ञानं / आह / यथा खल्व् इहैकत्य आकाशानन्त्यायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तो (ध्स्क्द् 5व्2) विस्तरेण तत्र च विज्ञानम् अभिनिर्वर्तयति / एवं यावन् नैवसंज्ञानासंज्ञायतनानाम् इति यावद् विज्ञानं संस्कारान् आगम्य विस्तरः //

3. (विज्ञानप्रत्ययम् नामरूपं)

लोभसहजं विज्ञानम् अलोभसहजं तथा नादिकफल्गुनवादं (ध्स्क्द् 5व्3) स्वातिर् आनन्द एव च / उद्दानं //

विज्ञानप्रत्ययं नामरूपं कतरद् / आह / यथा तावल् लोभसहजं विज्ञानं प्रतीत्य लोभसहजस्य कायकर्मवाक्कर्मणो ऽभिनिर्वृत्तिर् भवति प्रादुर्भावश् च लोभसहजा (ध्स्क्द् 5व्4) विविधा उत्पद्यन्ते रूपि विकृतं / य इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानम् इदं नामस्य विज्ञानप्रत्ययं नामरूपस्य / तद् उच्यते विज्ञानप्रत्ययं नामरूपं /

एवं लोभसहजं (ध्स्क्द् 5व्5) मोहसहजं विपर्ययेण शुक्लपक्षेष्व् अलोभसहजम् अमोहसहजं वक्तव्यं /

अपि खल्व् एवम् उक्तं भगवता नादिकाववादव्याकरणे /

प्रियाणां नादिक ज्ञातीनां विपरिणामान्यथीभावाद् (ध्स्क्द् 5व्6) उत्पद्यन्ते शोकाः परिदेवा दुःखदौर्मनस्योपायासाः /

इत्य् एतच् छोकसहजं विज्ञानं प्रतीत्य शोकसहजस्य कायवाक्कर्मणो ऽभिनिर्वृत्तिर् भवति प्रादुर्भावः / यद् इदं रूपस्य तज्जा (ध्स्क्द् 5व्7) वेदना संज्ञा संस्कारा विज्ञानं / इदं नामस्य विज्ञानं विज्ञानस्य प्रत्ययं नामरूपस्य / तद् उच्यते विज्ञानप्रत्ययं नामरूपं /

अपि खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याकरणे / विज्नानं (ध्स्क्द् 5व्8) फल्गुन आहारं यावद् एवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय / तत् कतरद् विज्ञानं / आह / यत् तद् गन्धर्वस्य चरमं चित्तं मनोविज्ञानं आचितम् उपचितं प्रतिष्ठितम् अप्रहतम् अपरिज्ञातं (ध्स्क्द् 5व्9) अनिरोधितम् अशान्तीकृतं / यस्य विज्ञानस्य समनन्तरं मातुः कुक्षौ कललात्मभावो ऽभिसंमूर्च्छति / कललम् आत्मभावं अभिसंमूर्च्छतीति / इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं (ध्स्क्द् 5व्10) विज्ञानम् इदं नामस्य विज्ञानप्रत्ययं नामरूपस्य / तद् उच्यते विज्ञानप्रत्ययं नामरूपं /

अस्ति खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य /

त्रयाणां भिक्षवः (ध्स्क्द् 6र्1) सन्निपातान् मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति / कतमेषां त्रयाणां / इह भिक्षवो मातापितरौ रक्तौ भवतः सन्निपतितौ माता च कल्या भवति ऋतुमती गन्धर्वश् च प्रत्युपस्थितो (ध्स्क्द् 6र्2) भवति / इमेषां भिक्षवस् त्रयाणां सन्निपातान् मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति /

इति यत् तद् गर्भस्य चरमं चित्तं मनोविज्ञानं विस्तरेण यावद् विज्ञानप्रत्यययं (ध्स्क्द् 6र्3) नामरूपस्य / तद् उच्यते विज्ञानप्रत्ययं नामरूपं /

अस्ति खल्व् एवम् उक्तं भगवता महानिदानपर्याये व्याकरणे आयुष्मते आनन्दाय /

अस्ति प्रत्ययम् आनन्द नामरूपं / (ध्स्क्द् 6र्4) पृष्टे सति अस्तीत्य् अस्य वचनीयं / किंप्रत्ययं आनन्द नामरूपं / विज्ञानप्रत्ययम् इति स्याद् वचनीयं /

विज्ञानप्रत्ययं आनन्द नामरूपं / इति मया यद् उक्तम् (ध्स्क्द् 6र्5) इदं मे तत् प्रत्युक्तं / विज्ञानं चेद् आनन्द मातुः कुक्षौ नावक्रमिष्यद् अपि नु नामरूपं कललत्वं हि संमुर्च्छिष्यत्* / नो भदन्त / विज्ञानं चेद् आनन्द मातुः कुक्षौ नावक्रमित्वा पुनर् न व्युत्क्रमिष्यत्* (ध्स्क्द् 6र्6) अपि नु नामरूपं इमं धातुम् आगमिष्यन् / नो भदन्त / विज्ञानं चेद् आनन्दादाव् एव दःरम् अस्य तरुणस्य कुमारकस्य उच्छिद्येत विनश्येत न भवेत अपि नु नामरूपं विरूढिं (ध्स्क्द् 6र्7) वैपुल्यताम् आपद्येत / नो भदन्त / सर्वशो वा पुनः सर्वश आनन्द विज्ञाने असति न नामरूपं प्रज्ञायेत / नो भदन्त / तस्माद् धि आनन्द एतन् निदानम् एष हेतुः एष प्रत्ययो नामरूपस्य (ध्स्क्द् 6र्8) यद् उत विज्ञानं / विज्ञानप्रत्ययम् आनन्द नामरूपम् / इति मया यद् उक्तम् इदं मे तत् प्रत्युक्तं //

4. (नामरूपप्रत्ययं विज्ञानं)

उद्दानं //

द्वयप्रत्ययात्* विज्ञानं फल्गुनः स्वातिर् एव च रागजं द्वेषमोहश् च आनन्दो भवति + +

(ध्स्क्द् 6र्9) नामरूपप्रत्ययं विज्ञानं कतरद् / आह / चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं / तत्र यच् चक्षुर् यानि च रूपाणि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानं / इदं नामरूपस्य (ध्स्क्द् 6र्10) मनसिकारं नामप्रत्ययस्य मनोविज्ञानस्य / तद् उच्यते नामरूपप्रत्ययं मनोविज्ञानं /

एवं श्रोत्रं घ्राणं जिह्वां कायं /

मनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं / (ध्स्क्द् 6व्1) तत्र ये रूपिणो मनोविज्ञेया धर्मा इदं रूपस्य तज्जा वेदना संज्ञा संस्काराः तज्जं विज्ञानं / इदं नामरूपस्य तज्जं मनसिकारं नामप्रत्ययस्य मनोविज्ञानस्य / तद् उच्यते नामरूपप्रत्ययं मनोविज्ञानम् / अपि (ध्स्क्द् 6व्2) खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याकरणे / विज्ञानं फल्गुनाहारं यावद् एवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय /

तत् कतरद् विज्ञानं / आह / यत् तद् गन्धर्वस्य चरमं चित्तं विस्तरेण यावद् (ध्स्क्द् 6व्3) यस्य गन्धर्वस्य समनन्तरं मातुः कुक्षौ कललम् आत्मभावं संमूर्च्छति / कललम् आत्मभावं संमूर्च्छतीति / इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानं इदं नामस्य / इत्य् एतद् अयोनिशोमनसिकारसहजं (ध्स्क्द् 6व्4) नामरूपं प्रतीत्य मातुः कुक्षौ विज्ञानस्याभिनिर्वृत्तिर् भवति प्रादुर्भावस् / तद् उच्यते नामरूपप्रत्ययं विज्ञानं /

अपि खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य /

त्रयाणां भिक्षवः सन्निपातान् (ध्स्क्द् 6व्5) मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति / विस्तरेण यावद् / इत्य् एवम् अयोनिशोमनसिकारेण सहजं नामरूपं प्रतीत्य मातुः कुक्षौ विज्ञानस्यावक्रान्तिर् भवति प्रादुर्भावस् / तद् उच्यते नामरूपप्रत्ययं (ध्स्क्द् 6व्6) विन्ज्ञानं /

अपि खल्व् एवम् उक्तं भगवता महानिदानपर्याये /

विस्तरेण यावद् / विज्ञानं चेद् आनन्द नामरूपप्रतिष्ठां न लभेत तथाप्रतिष्ठिते विज्ञाने अनतिरूढे + + + + + (ध्स्क्द् 6व्7) भवसमुदयसमुत्थापकं जातिजरामरणम् अभिनिर्वर्तेत / नो भदन्त / सर्वशो वा पुनर् आनन्द नामरूपे असति अपि नु विज्ञानं प्रज्ञायेत / नो भदन्त / तस्माद् आनन्द (ध्स्क्द् 6व्8) एतन् निदानं विस्तरेण यथा पूर्वोक्तं /

5. (नामरूपप्रत्ययं षडायतनम्)

उद्दानं /

शीतम् उष्णं च भोज्यं च पानम् उद्वर्तनं तथा शीतोदिका पुष्करिणी स्वातिर् एव च रागजं द्वेषजं चैव मोहजं भवति पश्चिमं //

(ध्स्क्द् 6व्9) नामरूपप्रत्ययं षडायतनं कतरद् / आह / यथा खल्व् इहैकत्यः शीतप्रचुराद् उष्णं गच्छति / तस्य तत उत्पद्यन्ते उष्णसहजानि महाभूतानि / तत्र यानि च उष्णसहजानि (ध्स्क्द् 6व्10) महाभूतानि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानं इदं नामस्य / इत्य् एतच् छीतसहजं नामरूपं प्रतीत्य चक्षुरिन्द्रियस्योपचयो भवति /

(ध्स्क्द् 7र्1) एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽपि तत्र उपचीयते / तद् उच्यते नामरूपप्रत्ययं षडायतनम् / इति एष उष्णप्रचुराच् छीतं /

यथा खल्व् इहैकत्यो जिघत्सादौर्बल्यपरीतः शुचि प्राणीतं खादनीयं भोजनीयम् खादयति / तस्य (ध्स्क्द् 7र्2) तत उत्पद्यन्ते भोजनसहजानि महाभूतानि / तत्र यच् च भोजनं यानि च भोजनसहजानि महाभूतानि इदं रूपस्य तज्जा वेदना / विस्तरेण यथा पूर्वोक्तं /

यथा खल्व् इहैकत्यस् तृषितः क्लान्तः पिपासितः (ध्स्क्द् 7र्3) शुचि शीतलं पानीयं पिबति / तस्य तत उत्पद्यन्ते पानसहजानि महाभूतानि / विस्तरः /

यथा खल्व् इहैकत्यः उत्सदनपरिमर्दनसंवाहनायोगम् अनुयुक्तो विहरति / तस्य तत उत्पद्यन्ते उत्सदनपरिमर्दनसंवाहनसहजानि (ध्स्क्द् 7र्4) महाभूतानि / तत्र यच् च उत्सदनं परिमर्दनसंवाहनं यानि च उत्सदनपरिमर्दनसंवाहनसहजानि महाभूतानि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानम् (ध्स्क्द् 7र्5) इदं नामस्य / विस्तरः /

यथा खल्व् इहैकत्यो ग्रीष्माभितप्तो ग्रीष्मपरीतस् तृषितः क्लान्तः पिपासितः वातातपपरिद्यूनः शीतोदिकां पुष्करिणीम् अवगाहयेत्* / तस्य तत उत्पद्यन्ते (ध्स्क्द् 7र्6) शीतसहजानि महाभूतानि / तत्र च यच् च शीतं यानि च शीतसहजानि महाभूतानि {/} तस्य तज्जा वेदना / विस्तरः /

अपि खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याकरणे /

विज्ञानं फल्गुन (ध्स्क्द् 7र्7) आहारं यावद् आयत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय /

यत् तत् कतरद् विज्ञानं / विस्तरेण यावत्* / यस्य विज्ञानस्य समनन्तरं मातुः कुक्षौ कललम् आत्मभावम् अभिसंमूर्च्छति / (ध्स्क्द् 7र्8) कललं आत्मभावं संमूर्च्छतीति / इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानम् इदं नामस्य / इत्य् एतद् अयोनिशोमनसिकारसहजं नामरूपं प्रतीत्य मातुः कुक्षौ षण्णाम् इन्द्रियाणाम् (ध्स्क्द् 7र्9) अभिनिर्वृत्तिर् भवति प्रादुर्भावस् / तद् उच्यते नामरूपप्रत्ययं षडायतनम् इति / अपि खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य /

त्रयाणाम् भिक्षवः संनिपातान् मातुः कुक्षौ गर्भस्यावक्रान्तिर् (ध्स्क्द् 7र्10) भवति / विस्तरेण यावन् / मातुः कुक्षौ षण्णाम् इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः / तद् उच्यते षडायतनप्रत्ययं नामरूपम् इति /

यथा खल्व् इहैकत्यो + + + रागपर्यवस्थितो (ध्स्क्द् 7व्1) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति / वाचा मनसा दुश्चरितं चरति / कायेन वाचा दुश्चरितं चरति / इदं रूपस्य / मनसा दुश्चरितम् इदं नामस्येत्य् / एतद् अकुशलं नामरूपं (ध्स्क्द् 7व्2) प्रतीत्य दुःखोदयं दुःखविपाकं कायस्य भेदान् नरकेषूपपद्यते / तत्र च षण्णाम् इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः / तद् उच्यते नामरूपप्रत्ययं षडायतनं /

यथा नरकेषु तिर्यक्प्रेतेषु (ध्स्क्द् 7व्3) /

यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवत्य् / अहो बताहं मनुष्यसुखकानां सभागतायाम् उपपद्येयं / स तं प्रार्थयमानो / विस्तरेण यावत् कायेन वाचा (ध्स्क्द् 7व्4) मनसा सुचरितं चरतीति / इदं रूपस्य / मनसा सुचरितं चरतीति / इदं नामस्येत्य् / एतत् कुशलं नामरूपं प्रतीत्य सुखोदयं सुखविपाकं कायस्य भेदान् मनुष्यसुखकानां सभागताया(5)म् उपपद्यते (ध्स्क्द् 7व्5) / तत्र च षण्णाम् इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः / तद् उच्यते नामरूपप्रत्ययं षडायतनम् इति /

यथा मनुष्यसुखकानाम् एवं यावत् परनिर्मितवशवर्तिनां / यथा खल्व् (ध्स्क्द् 7व्6) इहैकत्यो ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / विस्तरेण यावत् / तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवविशुद्धिः इदं रूपस्य तज्जा वेदना (ध्स्क्द् 7व्7) विस्तरेण यावद् विज्ञानं इदं नामस्य / इत्य् एतत् कुशलं नामरूपं प्रतीत्य सुखोदयं सुखविपाकं कायस्य भेदाद् ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्यते / तत्र च षण्णां (ध्स्क्द् 7व्8) इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः / तद् उच्यते नामरूपप्रत्ययं षडायतनम् इति / यथा ब्रह्मकायिकानाम् एवं यावद् असंज्ञिसत्वसंगृहीतानां बृहत्फलानां / इति यत् तत् षडायतनं (ध्स्क्द् 7व्9) नामरूपम् आगम्य च नामरूपं निश्रित्य नामरूपं प्रतिष्ठाय उत्पद्यते समुत्पद्यते जायते संजायते निर्वर्तयत्य् अभिनिर्वर्तयति समुदागच्छति प्रादुर्भवति इदं उच्यते नामरूपप्रत्ययं (ध्स्क्द् 7व्10) षडायतनं //

6. (नामरूपप्रत्ययः स्पर्शः)

नामरूपप्रत्ययः स्पर्शः कतरः /

// उद्दानं

+ + यप्रत्ययाच् च स्पर्शः फल्गुनः स्वातिर् एव च रागजं द्वेषजं मोहजम् आनन्देन पंचिकाह /

(ध्स्क्द् 8र्1) चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं / त्रयाणां सन्निपातः स्पर्शः / तत्र यच् चक्षुर् यानि च रूपाणि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानं / इदं नामस्य तज्जं मनसिकारं नामप्रत्ययं चक्षुःसंस्पर्शस्य (ध्स्क्द् 8र्2) / तद् उच्यते नामरूपप्रत्ययः स्पर्शः /

एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं / त्रायाणां सन्निपातः स्पर्शः / तत्र ये रूपिणो मनोविज्ञेया धर्मा इदं रूपस्य (ध्स्क्द् 8र्3) तज्जा वेदना संज्ञा संस्कारा विज्ञानं / इदं नामस्य तज्जं मनसिकारं नामप्रत्ययम् मनःसंस्पर्शस्य / तद् उच्यते नामरूपप्रत्ययः स्पर्शः /

अपि खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याकरणे /

विज्ञानं फल्गुनाहारं (ध्स्क्द् 8र्4) यावद् एवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय /

तत् कतरद् विज्ञानम् / आह / यत् तद् गन्धर्वस्य चरमं चित्तं मनोविज्ञानं / विस्तरेण यावत् / कललम् आत्मभावम् अभिसंमूर्च्छतीति / इदं रूपस्य (ध्स्क्द् 8र्5) तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानं इदं नामस्य / इत्य् एतद् अयोनिशोमनसिकारसहितं नामरूपं प्रतीत्य मातुः कुक्षौ स्पर्शस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः / तद् उच्यते नामरूपप्रत्ययः (ध्स्क्द् 8र्6) स्पर्शः /

अपि खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य /

त्रयाणां भिक्षवः सन्निपातान् मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति / विस्तरेण यावद् / अयोनिशोमनसिकारसहजं (ध्स्क्द् 8र्7) नामरूपं प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति प्रादुर्भावस् / तद् उच्यते नामरूपप्रत्ययः स्पर्शः /

यथा खल्व् इहैकत्यो रागपर्यवस्थितो द्वेषपर्यवस्थितो मोहपर्यवस्थितः (ध्स्क्द् 8र्8) कायेन दुश्चरितं चरति / वाचा मनसा दुश्चरितं चरति इदं रूपस्य / मनसा दुश्चरितं चरतीति इदं नामस्य / इत्य् एतद् अकुशलं नामरूपं प्रतीत्य दुःखोदयं दुःखविपाकं कायस्य भेदान् नरकेषूपपद्यते / (ध्स्क्द् 8र्9) तत्र च स्पर्शम् अभिनिर्वर्तयति / तद् उच्यते नामरूपप्रत्ययः स्पर्श इति /

यथा नरकेष्व् एवं तिर्यक्प्रेतेषु /

यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तो / विस्तरेण (ध्स्क्द् 8र्10) यावत् / कायेन वाचा सुचरितं चरतीति इदं रूपस्य / मनसा सुचरितं चरतीति इदं रूपस्य / मनसा सुचरितं चरतीति इदं नामस्येत्य् / एतत् कुशलं नामरूपं प्रतीत्य विस्तरेण (ध्स्क्द् 8व्1) यावत् / तत्र च स्पर्शम् अभिनिर्वर्तयति / तद् उच्यते नामरूपप्रत्ययः स्पर्श इति /

यथा मनुष्यसुखकेष्व् एवं यावत् परनिर्मितवशवर्तिषु /

यथा खल्व् इहैकत्यो ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तो / (ध्स्क्द् 8व्2) यावत् / तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिर् इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानम् इदं नामस्य / इत्य् एतत् कुशलं नामरूपम् प्रतीत्य विस्तरेण यावत् / तत्र च स्पर्शम् (ध्स्क्द् 8व्3) अभिनिर्वर्तयति / तद् उच्यते नामरूपप्रत्ययः स्पर्शः /

यथा ब्रह्मकायिकानां एवं यावद् असंज्ञिसत्वसंगृहीतानां बृहत्फलानां /

अपि खल्व् एवम् उक्तं भगवता महानिदानपर्यायेस्मिन् व्याकरणे आयुष्मते (ध्स्क्द् 8व्4) आनन्दाय /

अस्ति प्रत्ययम् आनन्द स्पर्श इति / विस्तरेण यावत्* / येषाम् आनन्दाकाराणां येषाम् उद्देशानां सति नामकायस्य प्रज्ञप्तिर् भवति तेषाम् आकाराणां तेषाम् उद्देशानाम् असत्य् अपि (ध्स्क्द् 8व्5) नु अधिवचनसंस्पर्शः प्रज्ञायेत / नो भदन्त / येषाम् आनन्दाकाराणां येषाम् उद्देशानां सति रूपकायस्य प्रज्ञप्तिर् भवति तेषाम् आकाराणां तेषाम् उद्देशानां असत्य् अपि नु प्रतिघसंस्पर्शः प्रज्ञायेत / (ध्स्क्द् 8व्6) नो भदन्त / सर्वशो वा पुनर् आनन्द नामकायरूपकायानाम् असति अपि नु स्पर्शो वा प्रज्ञायेत स्पर्शप्रज्ञप्तिर् वा / नो भदन्त / तस्माद् ध्य् आनन्दैतन् निदानं विस्तरेण यावद् / इदं मया यद् (ध्स्क्द् 8व्7) उक्तम् इदं मे तत् प्रत्युक्तं /

7. (षडायतनप्रत्ययः स्पर्शः)

त्रयाणां सन्निपाताच् चक्षुर् आध्यात्मिकं तथा चक्षुष्टो रूपतश् चैवं न चक्षुष्टो न रूपतः //

षडायतनप्रत्ययः स्पर्शः कतम / आह / चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं / (ध्स्क्द् 8व्8) त्रयाणां संनिपातः स्पर्शः /

एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं / त्रयाणां सन्निपातात् स्पर्शस् / तद् उच्यते षडायतनप्रत्ययः स्पर्श इति /

अपि खलु (ध्स्क्द् 8व्9) चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं / त्रयाणां सन्निपातात् स्पर्शः / तत्र चक्षुर् आध्यात्मिकम् आयतनं रूपं च बाह्यं प्रत्ययं चक्षुःसंस्पर्शस्य / तद् उच्यते षडायतनप्रत्ययः स्पर्श इति / एवं (ध्स्क्द् 8व्10) श्रोत्रं घ्राणं जिह्वा कायो / मनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं / (त्रयाणां संनि)पातात् स्पर्शः / तत्र मन आध्यात्मिकम् आयतनं धर्माश् च बाह्यं प्रत्ययं मनःसंस्पर्शस्य / तद् उच्यते षडायत)नप्रत्ययः (ध्स्क्द् 9र्1) स्पर्श इति /

अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं / त्रयाणां सन्निपातात् स्पर्शः / चक्षुष्टो रूपतश् च चक्षुर्विज्ञानतः /

एवं श्रोत्रघ्राणजिह्वाकायमनो वक्तव्यम् / अपि खलु चक्षुः प्रतीत्य (ध्स्क्द् 9र्2) रूपाणि चोत्पद्यते चक्षुर्विज्ञानं / त्रयाणां सन्निपातात्* स्पर्शः / तत्र सचक्षु + + + + रूपाणि न चक्षुर्विज्ञानं / या त्व् एषा त्रयाणां धर्माणां संगतिः सन्निकर्षः सन्निपातः संस्पर्शः / एवं श्रोत्रघ्राणजिह्वाकायमनो (ध्स्क्द् 9र्3) वक्तव्यं /

मनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं / या त्व् एषा त्रयाणां धर्माणां संगतिः सन्निकर्षः समवायः संस्पर्शः तद् उच्यते षडायतनप्रत्ययः स्पर्श / इति स्पर्शः षडायतनम् (ध्स्क्द् 9र्4) आगम्य षडायतनं निश्रित्य षडायतनं प्रतिष्ठाय उत्पद्यते समुत्पद्यते जायते संजायते निर्वर्तयत्य् अभिनिर्वर्तयति समुदागच्छति प्रादुर्भवति / अयम् उच्यते षडायतनप्रत्ययः (ध्स्क्द् 9र्5) स्पर्श इति /

8. (स्पर्शप्रत्यया वेदना)

त्रयाणां सन्निपाताज् जायते या हि वेदना सुखवेदनीयः स्पर्शः घोषिलानन्द एव च // उद्दानं //

स्पर्शप्रत्यया वेदना कतमा / आह / चक्षुः प्रतीत्य रूपाणि चोत्पद्यते (ध्स्क्द् 9र्6) चक्षुर्विज्ञानं / त्रयाणां सन्निपातात्* स्पर्शः / स्पर्शप्रत्यया वेदना /

एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं / त्रयाणां सन्निपातात्* स्पर्शः / स्पर्शप्रत्यया वेदना / (ध्स्क्द् 9र्7)

अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं / त्रयाणां सन्निपातात्* स्पर्शः सुखवेदनीयो दुःखवेदनीयो ऽदुःखासुखवेदनीयः / तत् खलु सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते (ध्स्क्द् 9र्8) सुखा वेदनासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना / अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना / अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते अदुःखासुखा (ध्स्क्द् 9र्9) वेदना / तद् उच्यते स्पर्शप्रत्यया वेदना /

अपि खल्व् एवम् उक्तम् आयुष्मता आनन्देन घोषिलस्य गृहपतेर् /

अन्यो च गृहपते चक्षुर्धातुर् अन्यो रूपधातुर् अन्यश् चक्षुर्विज्ञानधातुः / सुखवेदनीयं गृहपते (ध्स्क्द् 9र्10) द्वयं प्रतीत्य विज्ञानस्योत्पादो भवति / त्रयाणां सन्निपातात्* स्पर्शः / तत् खलु सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सुखा वेदना / अन्य एव यावद् / दुःखवेदनीयं गृहपते द्वयं प्रतीत्य (ध्स्क्द् 9व्1) विज्ञानस्योत्पादो भवति / त्रयाणां सन्निपातात्* स्पर्शः दुःखवेदनीयः / तत् खलु दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना / अन्य एव यावद् / अदुःखासुखवेदनीयं गृहपते द्वयं प्रतीत्य विज्ञानस्योत्पादो (ध्स्क्द् 9व्2) भवति / त्रयाणां सन्निपातः स्पर्शः अदुःखासुखवेदनीयः / तत् खल्व् अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते अदुःखासुखा वेदना /

अन्य एव गृहपते श्रोत्रघ्राणजिह्वाकायमनोधातुर् अन्यो धर्मधातुर् (ध्स्क्द् 9व्3) अन्यो मनोविज्ञानधातुः / सुखवेदनीयं गृहपते द्वयं प्रतीत्य विस्तरेण यथा पूर्वोक्तं / तद् उच्यते स्पर्शप्रत्यया वेदना /

अपि खल्व् एवम् उक्तं भगवता महानिदानपर्यायेस्मिन् व्याकरणे आयुष्मते आनन्दाय / (ध्स्क्द् 9व्4)

अस्ति प्रत्ययम् आनन्द वेदना विस्तरेण यावच् / चक्षुःसंस्पर्शश् चेद् आनन्द नाभविष्यद् अपि नु चक्षुःसंस्पर्शप्रत्ययम् अध्यात्मम् उत्पद्येत सुखं वा दुःखं वा अदुःखासुखं वा / नो भदन्त /

एवं श्रोत्रघ्राणजिह्वाकायमहःसंस्पर्शः (ध्स्क्द् 9व्5) चेद् आनन्द नाभविष्यद् अपि नु मनःसंस्पर्शप्रत्ययम् अध्यात्मं उत्पद्येत वेदितं सुखं वा दुःखं वा अदुःखासुखं वा / नो भदन्त / सर्वशो वा आनन्द स्पर्शे असति (ध्स्क्द् 9व्6) वेदना प्रज्ञायेत / नो भदन्त / तस्माद् ध्य् आनन्दैतन् निदानं विस्तरेण यावद् / इदं मया यद् उक्तम् इदं तत् प्रत्युक्तं //

9. (वेदनाप्रत्यया तृष्णा)

उद्दानं //

चक्षुः प्रतीत्यास्वादं द्वौ स्कन्धौ आयतनौ गुह्येनापरद्वयं महानामा (ध्स्क्द् 9व्7) लिच्छविश् चैव निदानं पूर्णमासिकं //

वेदनाप्रत्यया तृष्णा कतमा / आह / चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं / त्रयाणां सन्निपातः स्पर्शः / स्पर्शप्रत्यया वेदना / वेदनाप्रत्यया (ध्स्क्द् 9व्8) तृष्णा /

एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं / त्रयाणां सन्निपातात् स्पर्शः / स्पर्शप्रत्यया वेदना / वेदनाप्रत्यया तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

अपि खलु चक्षुरास्वादं (ध्स्क्द् 9व्9) वेदयितं प्रतीत्य भूयो भूयश् चक्षुषि अप्रतिकूलता संतिष्ठते / अप्रतिकूले सति भूयो भूयश् चक्षुषि उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं तृष्णा /

एवं श्रोत्रघ्राणजिह्वाकायमनःआस्वादं (ध्स्क्द् 9व्10) वेदयितव्य्ं प्रतीत्य भूयो भूयो मनसि अप्रतिकूलता संतिष्ठते / अप्रतिकूले सति भूयो भूयो मनस्य् उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं वा तृष्णा / तद् उच्यते (ध्स्क्द् 10र्1) वेदनाप्रत्यया तृष्ना /

अपि खल्व् एवम् उक्तं भगवता पंचोपादानस्कन्धिके व्याकरणे /

रूपस्याहं भिक्षवः आस्वादपर्येषणाम् अचार्षं / यो रूपे आस्वादस् तम् अन्वभोत्स्यं यावद् रूपे आस्वादः प्रज्ञया मे सुदृष्ट / इत्य् एतद् रूपास्वादं (ध्स्क्द् 10र्2) वेदयितं प्रतीत्य भूयो भूयो रूपे अप्रतिकूलता संतिष्ठते / अप्रतिकूले सति भूयो भूयो रूपे उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

एवं वेदनायाः (ध्स्क्द् 10र्3) संज्ञायाः संस्काराणां

विज्ञानस्याहं भिक्षवः आस्वादपर्येषणाम् अचार्षं / यो विज्ञाने आस्वादस् तम् अन्वभोत्स्यं यावद् विज्ञाने आस्वादः प्रज्ञया मे सुदृष्ट / इत्य् एतद् विज्ञानास्वादं वेदयितं प्रतीत्य भूयो भूयो विज्ञाने अप्रतिकूलता (ध्स्क्द् 10र्4) संतिष्ठते / अप्रतिकूले सति भूयो भूयो विज्ञाने उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

अपि खल्व् एवम् उक्तं भगवता पंचोपादानस्कन्धिके व्याकरणे / (ध्स्क्द् 10र्5)

रूपे चेद् भिक्षव आस्वादो न भवेन् नेमे सत्वा रूपे संरज्येरन्* / यस्मात् तु भिक्षवो ऽस्ति रूपे आस्वादः तेनेमे सत्वा रूपे संरज्यन्ते / इत्य् एतद् रूपास्वादं वेदयितम् प्रतीत्य भूयो विस्तरेण यावद् उत्पद्यते तृष्णा /

(ध्स्क्द् 10र्6) वेदनायां संज्ञायां संस्कारेषु

विज्ञाने चेद् भिक्षवः आस्वादो न भवेन् नेमे सत्वा विज्ञाने संरज्येरन्* / यस्मात् तु भिक्षवो ऽस्ति विज्ञाने आस्वादस् तस्माद् इमे सत्वा विज्ञाने संरज्यन्ते / इत्य् एतद् विज्ञानास्वादवेदयितं प्रतीत्य भूयो (ध्स्क्द् 10र्7) भूयो विस्तरेण यावद् उत्पद्यते तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

अपि खल्व् एवम् उक्तं भगवता षडायतनिके व्याकरणे /

चक्षुषो ऽहं भिक्षव आस्वादपर्येषणाम् अचार्षं / यश् चक्षुषि आस्वादस् तम् अन्वभोत्स्यन् / यावांश् चक्षुष्य् आस्वादः (ध्स्क्द् 10र्8) प्रज्ञया मे स सुदृष्टः / इत्य् एतच् चक्षुष आस्वादं वेदयितं प्रतीत्य भूयो विस्तरेण यावत् तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

एवं श्रोत्रघ्राणजिह्वाकायमनसो ऽहं भिक्षवः आस्वादपर्येषणाम् अचार्षं / यो (ध्स्क्द् 10र्9) मनस्य् आस्वादस् तं अन्वभोत्स्यं यावन् मनस्य् आस्वादः प्रज्ञया मे स सुदृष्ट / इत्य् एतन् मनस आस्वादवेदयितं प्रतीत्य भूयो विस्तरेण यावत् तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

अपि खल्व् एवम् उक्तं भगवता षडायन्तिके (ध्स्क्द् 10र्10) व्याकरणे /

चक्षुषि भिक्षव आस्वादश् चेन् न भवेन् नेमे सत्वाश् चक्षुषि संरज्येरन्* / यस्माद् भिक्षवः अस्ति चक्षुष्व् आस्वादस् तस्माद् इमे सत्वाश् चक्षुषि संरज्यन्ते / इत्य् एतच् चक्षुरास्वादं वेदयितं विस्तरेण प्रतीत्य यावत् तृष्णा / तद् उच्यते (ध्स्क्द् 10व्1) वेदनाप्रत्यया तृष्णा /

एवं श्रोत्रघ्राणजिह्वायां कायेमनसि चेद् भिक्षवः आस्वादो न भवेन् नेमे सत्वा मनसि संरज्येरन्* / यस्मात् तु भिक्षवो ऽस्ति मनस्य् आस्वादस् तस्माद् इमे सत्वा मनसि संरज्यन्ते / इत्य् एतन् मनस आस्वादवेदयितं (ध्स्क्द् 10व्2) प्रतीत्य भूयो भूयो मनस्य् अप्रतिकूलता संतिष्ठते / विस्तरेण यावत् तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

अपि खल्व् एवम् उक्तं भगवता षडायतनिके व्याकरणे /

रूपस्याहं भिक्षवः आस्वादपर्येषणाम् अचार्षम्* / (ध्स्क्द् 10व्3) यो रूपे आस्वादस् तम् अन्वभोत्स्यं यावद् रूपे आस्वादः प्रज्ञया मे स सुदृष्टः / इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य यावत् तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

एवं शब्दगन्धरसस्पर्शधर्माणाम् अहं भिक्षव आस्वादपर्येषणाम् (ध्स्क्द् 10व्4) अचार्षं / यो धर्मे आस्वादस् तं अन्वभोत्स्यं / यावान् धर्मेष्व् आस्वादः प्रज्ञया मे स सुदृष्टः / इत्य् एतद् धर्मास्वादवेदयितं प्रतीत्य विस्तरेण यावत् तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

अपि खल्व् एवम् उक्तं भगवता (ध्स्क्द् 10व्5) षडायतनिके व्याकरणे /

रूपे चेद् भिक्षव आस्वादो न भवेन् नेमे सत्वा रूपे संरज्येरन् / यस्मात् तु भिक्षवो ऽस्ति रूपे आस्वादस् तस्माद् इमे सत्वा रूपे संरज्यन्ते / इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य विस्तरेण यावत् (ध्स्क्द् 10व्6) तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

एवं शब्दे गन्धे रसे स्प्रष्टव्ये धर्मे चेद् भिक्षव आस्वादो न भवेन् नेमे सत्वा धर्मे संरज्येरन्* / तस्मात् तु भिक्षवो ऽस्ति धर्मेष्व् आस्वादस् / तेनेमे सत्वा धर्मे संरज्यन्ते / इत्य् एतद् (ध्स्क्द् 10व्7) धर्मास्वादं प्रतीत्य वेदयितं विस्तरेण यावत् तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा //

अपि खल्व् एवम् उक्तं भगवता महानामानं लिच्छविम् आगम्य /

रूपं चेन् महानामन्न् एकान्तदुःखं भवेन् न सुखं न सुखानुगतं (ध्स्क्द् 10व्8) न सुखसौमनस्यपरीतम् अवक्रान्तम् एव सुखेन हेतुर् अपि महानामन् न प्रज्ञायेत सत्वानां रूपे संरागाय न चेमे सत्वा रूपे संरज्येरन्* / यस्मात् तु महानामन् रूपं नैकान्तदुःखं सुखं (ध्स्क्द् 10व्9) सुखानुगतं सुखसौमनस्यपरीतम् अवक्रान्तम् एव सुखेन तस्माद् इमे सत्वा रूपे संरज्यन्ते संरक्ताः संयुज्यन्ते संयुक्ताः संक्लिष्यन्ते / इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य विस्तरेण यावत् तृष्णा / तद् उच्यते (ध्स्क्द् 10व्10) वेदनाप्रत्यया तृष्णा /

वेदना संज्ञा संस्कारा विज्ञानं चेन् महानामन्न् एकान्तदुःखं भवेन् न सुखं न सुखानुगतं न सुखसौमनस्यपरीतम् अवक्रान्तं चैव सुखेन हेतुर् अपि महानामन् न प्रज्ञायेत सत्त्वानां (ध्स्क्द् 11र्1) विज्ञाने संरागाय न चेमे सत्वा विज्ञाने संरज्येरन्* / यस्मात् तु महानामन् विज्ञानं नैकान्तदुःखं सुखं सुखानुगतं सुखसौमनस्यपरीतं अनवक्रान्तम् एव सुखेन तस्माद् इमे सत्वा विज्ञाने संरज्यन्ते संरक्ताः संयुज्यन्ते (ध्स्क्द् 11र्2) संयुक्ताः संक्लिष्यन्ते / इत्य् एतद् विज्ञानास्वादवेदयितं प्रतीत्य विस्तरेण यावत् तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

अपि खल्व् एवम् उक्तं भगवता पौर्णमासिके व्याकरणे /

यद् भिक्षवो रूपं प्रतीत्योत्पद्यते (ध्स्क्द् 11र्3) सुखम् उत्पद्यते सौमनस्यम् अयं रूपे आस्वादः / इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य यावत् तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

यद् भिक्षवो वेदनासंज्ञासंस्कारान् यद् विज्ञानं प्रतीत्योत्पद्यते सुखम् उत्पद्यते सौमनस्यम् (ध्स्क्द् 11र्4) अयं विज्ञाने आस्वाद / इत्य् एतद् विज्ञानास्वादवेदयितं प्रतीत्य भूयो भूयो विज्ञाने अप्रतिकूलता संतिष्ठते / अप्रतिकूले सति भूयो भूयो विज्ञाने उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानम्* (ध्स्क्द् 11र्5) तृष्णा / तद् उच्यते वेदनाप्रत्यया तृष्णा /

अपि खल्व् एवम् उक्तं भगवता महानिदानपर्याये आयुष्मत्य् आनन्दे /

तत्रानन्द या च भवतृष्णा या च विभवतृष्णा इतीमे द्वे तृष्णाद्वयेन वेदनासमवसरणे (ध्स्क्द् 11र्6) भवतः / तद् उच्यते वेदनाप्रत्यया तृष्णा //

10. (तृष्णाप्रत्ययम् उपादानम्)

उद्दानं //

तत्प्रथमाभिनिपातः कामैश् चावेक्षावांस् तथा दृष्टिर् विचिकित्सा उपादानं विभागो नन्दम् एव च //

तृष्णाप्रत्ययम् उपादानं कतमद् / आह / यत् प्रथमाभिनिपातं (ध्स्क्द् 11र्7) तृष्णावैपुल्यम् उपादानं यथा कथम् इति /

यथा खल्व् इहैकत्यः कामेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तः कामरागपर्यवस्थानं उत्पादयति / स तस्मात् पर्यवस्थानाद् अन्यं पर्यवस्थानम् उत्पादयति (ध्स्क्द् 11र्8) अधिमात्राद् अधिमात्रतरं तीव्रात् तीव्रतरं पूर्णात् पूरिततरं / इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमम् उपादानं तद् उच्यन्ते तृष्णाप्रत्ययं उपादानं /

यथा खल्व् इहैकत्यो रूपेष्व् आरूप्येष्व् अवेक्षावान् भवति प्रतिबद्धचित्त (ध्स्क्द् 11र्9) आरूप्यरागपर्यवस्थानम् उत्पादयति / स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति अधिमात्राद् अधिमात्रतरं यावत् परिपूर्णात् परिपूर्णतरं / इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमम् उपादानम्* / (ध्स्क्द् 11र्10) तद् उच्यते तृष्णाप्रत्ययम् उपादानं /

अस्ति खल्व् एवम् उक्तं भगवता पातलेयव्याकरणे /

देशिता वो भिक्षवो मया धर्माः स्कन्धानां प्रविचयाय / यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रधानानि (ध्स्क्द् 11व्1) चत्वार ऋद्धिपादाः पंचेन्द्रियाणि पंच बलानि सप्त बोध्यंगान्य् आर्याष्टांगो मार्ग / एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय /

अथ च पुनर् इहैकत्या मोहपुरुषा न तीव्रच्छन्दा विहरन्ति न तीव्रस्नेहा न तीव्रप्रेमाणो (ध्स्क्द् 11व्2) न तीव्रप्रमादास् / ते धन्धम् एवानुत्तर्यं स्पृशन्ति यद् उतास्रवाणां क्षयाय / एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय /

अथ च पुनर् इहैकत्याः कुलपुत्राः अतीवतीव्रच्छन्दा विहरन्ति अतीवतीव्रस्नेहा (ध्स्क्द् 11व्3) अतीवतीव्रप्रेमाणो ऽतीवतीव्रप्रमादास् / ते क्षिप्रम् एवानुत्तर्यं स्पृशन्ति यद् उतास्रवाणां क्षयाय / एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय /

अथ च पुनर् इहैकत्यो रूपम् आत्मतः (ध्स्क्द् 11व्4) समनुपश्यति / या सा समनुपश्यना संस्कारास् ते / ते पुनः संस्काराः किन्निदानाः किंसमुदयाः किंजातीयाः किंप्रभवाः / अविद्यासंस्पर्शजं भिक्षवो वेदयितं प्रतीत्य तृष्णोत्पन्ना / ततस् ते संस्कारास् / तृष्णा पुनर् भिक्षवः (ध्स्क्द् 11व्5) किन्निदाना किंसमुदया किंजातीया किंप्रभवा / तृष्णा भिक्षवो वेदनानिदाना वेदनासमुदया वेदनाजातीया वेदनाप्रभवा / वेदना पुनर् भिक्षवः किन्निदाना किंसमुदया किंजातीया किंप्रभवा / वेदना भिक्षवः (ध्स्क्द् 11व्6) स्पर्शनिदाना स्पर्शसमुदया स्पर्शजातीया स्पर्शप्रभवा / स्पर्शः किन्निदानः किंसमुदयः किंजातीयः किंप्रभवः / स्पर्शो भिक्षवः षडायतननिदानः षडायतनसमुदयः षडायतनजातीयः (ध्स्क्द् 11व्7) षडायतनप्रभवः / तत्र भिक्षवः षडायतनम् अनित्यं संस्कृतं चेतितं प्रतीत्यसमुत्पन्नं / सो ऽपि स्पर्शः सापि वेदना सापि तृष्णा सापि समनुपश्यना अनित्या संस्कृता चेतिता प्रतीत्यसमुत्पन्ना / (ध्स्क्द् 11व्8)

स रूपम् आत्मेति समनुपश्यतीति सत्कायदृष्टिपर्यवस्थानम् उत्पादयति / स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति अधिमात्राद् अधिमात्रतरं यावत् परिपूर्णात् परिपूर्णतरं (ध्स्क्द् 11व्9) / इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमम् उपादानं / तद् उच्यते तृष्णाप्रत्ययम् उपादानं /

न हैव रूपम् आत्मेति समनुपश्यत्य् अपि तु रूपवन्तम् आत्मानं समनुपश्यति / न हैव रूपवन्तम् आत्मानं संअनुपश्यत्य् अपि (ध्स्क्द् 11व्10) तु रूपम् आत्मीयं समनुपश्यति / न हैव रूपम् आत्मीयं समनुपश्यत्य् अपि तु रूपे आत्मानं समनुपश्यति /

न हैव रूपे आत्मानं समनुपश्यत्य् अपि तु वेदनाम् आत्मतः समनुपश्यति / न हैव वेदनाम् आत्मतः (ध्स्क्द् 12र्1) संअनुपश्यत्य् अपि तु वेदनावन्तम् आत्मानं समनुपश्यति / न हैव वेदनावन्तं आत्मानं समनुपश्यत्य् अपि तु वेदनाम् आत्मीयां समनुपश्यति / न हैव वेदनाम् आत्मीयां समनुपश्यत्य् अपि तु वेदनायाम् आत्मानं समनुपश्यति /

(ध्स्क्द् 12र्2) न हैव वेदनायाम् आत्मानं समनुपश्यत्य् अपि तु संज्ञाम् आत्मतः समनुपश्यति / न हैव संज्ञाम् आत्मतः समनुपश्यत्य् अपि तु संज्ञावन्तम् आत्मानं समनुपश्यति / न हैव संज्ञावन्तम् आत्मानं समनुपश्यत्य् अपि तु संज्ञाम् आत्मीयां (ध्स्क्द् 12र्3) समनुपश्यति / न हैव संज्ञाम् आत्मीयां समनुपश्यत्य् अपि तु संज्ञायाम् आत्मानं समनुपश्यति /

न हैव संज्ञायाम् आत्मानं समनुपश्यत्य् अपि तु संस्कारान् आत्मतः समनुपश्यति / न हैव संस्कारान् आत्मतः (ध्स्क्द् 12र्4) समनुपश्यत्य् अपि तु संस्कारवन्तम् आत्मानं समनुपश्यति / विस्तरः /

विज्ञानम् आत्मतः समनुपश्यति / न हैव विज्ञानम् आत्मतः समनुपश्यत्य् अपि तु विज्ञानवन्तम् आत्मानं समनुपश्यति / न हैव विज्ञानवन्तम् आत्मानं (ध्स्क्द् 12र्5) समनुपश्यति अपि तु विज्ञानम् आत्मीयं समनुपश्यति / न हैव विज्ञानम् आत्मीयं समनुपश्यत्य् अपि तु विज्ञाने आत्मानं समनुपश्यति /

न हैव विज्ञाने आत्मानं समनुपश्यत्य् अपि तु कांक्षी भवति विचिकित्सी / न हैव कांक्षी भवति विचिकित्सी अपि (ध्स्क्द् 12र्6) तु भवदृष्टिर् भवति विभवदृष्टिः / न हैव भवदृष्टिर् भवति विभवदृष्टिः अपि त्व् अस्तीति वाचाधिगतं भवत्य् / अयम् अहम् अस्मीति समनुपश्यति / यो ऽसाव् अस्मीत्य् अधिगमो ऽयम् अहम् अस्मीत्य् अधिगमो / यासाव् अस्मीति समनुपश्यना (ध्स्क्द् 12र्7) संस्कारास् ते / ते पुनः संस्काराः किंनिदानाः किंसमुदयाः किंजातीयाः किंप्रभवा / विस्तरेण यावत् /

तत्र भिक्षवः षडायतनम् अनित्यं संस्कृतं चेतितं प्रतीत्यसमुत्पन्नं / सो ऽपि स्पर्शः सापि वेदना सापि तृष्णा (ध्स्क्द् 12र्8) ते ऽपि संस्काराः सापि समनुपश्यना अनित्या संस्कृता चेतिता प्रतीत्यसमुत्पन्ना अस्मीत्य् अधिगता भवत्य् / अयम् अहम् अस्मीति संअनुपश्यति / सत्कायदृष्टिपर्यवस्थानं उत्पादयति / स तस्मात् पर्यवस्थानाद् अन्यत् (ध्स्क्द् 12र्9) पर्यवस्थानम् उत्पादयति अधिमात्राद् अधिमात्रतरं तीव्रात् तीव्रतरं परिपूर्णात् परिपूर्णतरं / इति पूर्वकं पर्यवस्थानं त्र्ष्णा पश्चिमम् उपादानं / तद् उच्यते तृष्णाप्रत्ययम् उपादानं /

अपि खलु शाश्वतो लोकः (ध्स्क्द् 12र्10) अन्तग्राहदृष्टिपर्यवस्थानम् उत्पादयत्य् अधिमात्राद् अधिमात्रतरं यावत् परिपूर्णात् परिपूर्णतरम् / इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमकम् उपादानं / तद् उच्यते तृष्णाप्रत्ययम् उपादानं /

अशाश्वतो (ध्स्क्द् 12व्1) लोकः / शाश्वतश् चाशाश्वतश् च / नैव शाश्वतो नाशाश्वतः / अन्तवान् लोकः / अनन्तवान् लोकः / अन्तवांश् चानन्तवांश् च / नैवान्तवान् अनन्तवांश् च / स जीवस् तच् छरीरं / अन्यो जीवो ऽन्यच् छरीरं भवति / तथागतः परं मरणान् न भवति / तथागतः (ध्स्क्द् 12व्2) परं मरणाद् भवति च न भवति च / नैव भवति न न भवति परं मरणाद् / अन्तग्राहदृष्टिपर्यवस्थानम् उत्पादयति / स तस्मात् पर्यवस्थानाद् यावत् परिपूर्णात् परिपूर्णतरं / इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमकम् (ध्स्क्द् 12व्3) उपादानं / तद् उच्यते तृष्णाप्रत्ययम् उपादानं /

अपि खलु न भगवांस् तथागतो ऽर्हन् सम्यक्संबुद्धो न विद्याचरणसंपन्नो न सुगतो लोकविद् अनुत्तरः पुरुषदंयसारथि शास्ता देवमनुष्याणां बुद्धो भगवां मिथ्या दृष्टिपर्यवस्थानं (ध्स्क्द् 12व्4) उत्पादयति / स तस्मात् पर्यवस्थानाद् विस्तरेण परिपूर्णात् परिपूर्णतरं / तद् उच्यते तृष्णाप्रत्ययम् उपादानं /

न स्वाख्यातो भगवतो धर्मो न सांदृष्टिको न निर्ज्वरः नाकालिकः नौपनायिको नैहिपश्यकः (ध्स्क्द् 12व्5) न प्रत्यात्मवेदनीयो विज्ञैर् / न सुप्रतिपन्नो भगवतः श्रावकसंघो न ऋजुप्रतिपन्नो न न्यायप्रतिपन्नो न सामीचीप्रतिपन्नो नानुधर्मचारी /

न दुःखं / न समुदयो / न निरोधो / न मार्गो /

न सर्वसंस्कारा (ध्स्क्द् 12व्6) अनित्या / न सर्वधर्मा अनात्मानो / न शान्तं निर्वाणम् / इति मिथ्यादृष्टिपर्यवस्थानम् उत्पादयति / स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति / विस्तरेण यावद् / इति पूर्वकं पर्यवस्थानं (ध्स्क्द् 12व्7) तृष्णा पश्चिमम् उपादानं / तद् उच्यते तृष्णाप्रत्ययम् उपादानम् इति /

अपि खलु शाश्वतो लोक इदम् एव सत्यं मोहम् अन्यद् / इति दृष्टिपरामर्शपर्यवस्थानम् उत्पादयति / स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् (ध्स्क्द् 12व्8) उत्पादयति / विस्तरेण यावत् पश्चिमकम् उपादानं / तद् उच्यते तृष्णाप्रत्ययम् उपादानं /

शाश्वतो लोको विस्तरेण यावच् चैव भवति तथागतः परं मरणाद् इति इदम् एव सत्यं मोहं अन्यद् / (ध्स्क्द् 12व्9) इति दृष्टिपरामर्शपर्यवस्थानम् उत्पादयति / स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति / विस्तरेण यावत् पश्चिमकम् उपादानं / तद् उच्यते तृष्णाप्रत्ययं उपादानं /

अपि खलु शीलं परामृशति (ध्स्क्द् 12व्10) शीलेन शुच्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति / शीलव्रतपरामर्शपर्यवस्थानम् उत्पादयति / स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानं उत्पादयति (ध्स्क्द् 13र्1) / विस्तरेण यावत् पश्चिमकं उपादानं / तद् उच्यते तृष्णाप्रत्ययम् उपादानं /

व्रतं परामृशति यद् उभयतः शीलव्रतं परामृशति / शीलव्रतेन शुच्यति मुच्यते निर्याति यावत् सुखदुःखं व्यतिक्रमम् अनुप्राप्नोति (ध्स्क्द् 13र्2) / शीलव्रतपरामर्शपर्यवस्थानम् उत्पादयति / स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति / विस्तरेण यावत् पश्चिमकम् उपादानं / तद् उच्यते तृष्णाप्रत्ययम् उपादानं /

अपि खलु तथागतो भगवान् अर्हन् सम्यक्संबुद्धो (ध्स्क्द् 13र्3) नेति विचिकित्सापर्यवस्थानम् उत्पादयति / स तस्मात् पर्यवस्थानाद् अन्यं पर्यवस्थानम् उत्पादयति / विस्तरेण यावत् पश्चिमकं उपादानं / तद् उच्यते तृष्णाप्रत्ययम् उपादानं / विद्याचरणसंपन्नो न विद्याचरणसंपन्नः (ध्स्क्द् 13र्4) / सुगतो लोकवित्* न सुगतो लोकवित्* / अनुत्तरो नानुत्तरः / पुरुषदम्यसारथिः न पुरुषदम्यसारथिः / शास्ता देवमनुष्याणां न शास्ता देवमनुष्याणां / बुद्धो भगवान् न बुद्धो भगवान् * /

(ध्स्क्द् 13र्5) स्वाख्यातो भगवतो धर्मो न स्वाख्यातो भगवतो धर्मः / सांदृष्टिको न सांदृष्टिको / निर्ज्वरो न निर्ज्वरः / आकालिको नाकालिकः / औपनायिको नौपनायिकः / ऐहिदर्शिको नैहिदर्शिकः / प्रत्यात्मवेदनीयो (ध्स्क्द् 13र्6) विज्ञैः न प्रत्यात्मवेदनीयो विज्ञैः /

सुप्रतिपन्नो भगवतः श्रावकसंघो न सुप्रतिपन्नो भगवतः श्रावकसंघः / ऋजुप्रतिपन्नो न ऋजुप्रतिपन्नो / न्यायप्रतिपन्नो न न्यायप्रतिपन्नो (ध्स्क्द् 13र्7) / धर्मानुधर्मप्रतिपन्नो न धर्मानुधर्मप्रतिपन्नः / सामीचीप्रतिपन्नो न सामीचीप्रतिपन्नः / अनुधर्मचारी नानुधर्मचारी /

दुःखं न दुःखं / समुदयो न समुदयो / निरोधो न निरोधः / मार्गो न मार्गः / सर्वसंस्कारा (ध्स्क्द् 13र्8) अनित्या न सर्वसंस्कारा अनित्याः / सर्वधर्मा अनात्मानः न सर्वधर्मा अनात्मानः / शान्तं निर्वाणं न शान्तं निर्वाणं / इति विचिकित्सापर्यवस्थानम् उत्पादयति / विस्तरेण यावत् पश्चिमकम् उपादानम्* / (ध्स्क्द् 13र्9) तद् उच्यते तृष्णाप्रत्ययम् उपादानं /

अपि खलु सर्वाण्य् एव चत्वार्य् उपादानानि तृष्णासमुदयानि तृष्णाजातीयानि तृष्णाप्रभवानि / कतमानि चत्वारि / कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानम् आत्मवादोपादानं (ध्स्क्द् 13र्10) /

कामोपादानं कतमद् / आह / कामप्रतिसंयुक्तां दृष्टिं शीलव्रतं च स्थाप्य यानि तदन्यानि कामप्रतिसंयुक्तानि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानि इदम् उच्यते (ध्स्क्द् 13व्1) कामोपादानं /

दृष्ट्युपादानं कतमद् / आह / चतस्रो दृष्टयो दृष्ट्युपादानम् इत्य् उच्यते सत्कायदृष्टिर् अन्तग्राहदृष्टिर् मिथ्यादृष्टिर् दृष्टिपरामर्श इतीमाश् चतस्रो दृष्टयो / दृष्ट्युपादानम् इत्य् उच्यते /

शीलव्रतोपादानं कतमद् / यथा (ध्स्क्द् 13व्2) खल्व् इहैकत्यः शीलं परामृशति विस्तरेण यावत्* / उभयेन शीलव्रतेन शुच्यति मुच्यते निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमम् अनुप्राप्नोति / इदम् उच्यते शीलव्रतोपादानं /

आत्मव्रतोपादानम् (ध्स्क्द् 13व्3) आत्मवादोपादानं कतमत्* / रूपारूप्यप्रतिसंयुक्तां दृष्टिं शीलव्रतं च स्थाप्य तदन्यानि रूपारूप्यप्रतिसंयुक्तानि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानीदम् उच्यते आत्मवादोपादानं /

(ध्स्क्द् 13व्4) अपि खल्व् एवम् उक्तं भगवता महानिदाने व्याकरणे आयुष्मत्य् आनन्दे /

अस्ति प्रत्ययम् आनन्दोपादानं विस्तरेण यावत् /

तृष्णा चेद् आनन्द नाभविष्यद् अपि नु कस्य चित् का चित् तृष्णाभविष्यन् / नो भदन्त / सर्वशो वा पुनर् आनन्द (ध्स्क्द् 13व्5) तृष्णायाम् असत्याम् अपि नु उपादानं प्रज्ञापयेत / नो भदन्त / तस्मात् तर्ह्य् आनन्द एतन् निदानम् एष हेतुर् एष समुदय एष प्रत्ययः उपादानस्य यद् उत तृष्णा तृष्णाप्रत्ययम् उपादानं / इति (ध्स्क्द् 13व्6) यद् उक्तम् इदं मे तत् प्रत्युक्तम् इति //

11. (उपादानप्रत्ययो भवः)

भवः कतम / आह / उपादानान्य् एव प्रतीत्यानेकविधा भवप्रज्ञप्तिर् उक्ता भगवता / एकविधा अस्ति भवप्रज्ञप्तिर् यत्र त्रैधातुकाः पंच स्कन्धा उक्ता भगवता / (ध्स्क्द् 13व्7) अस्ति भवप्रज्ञप्तिर् यत्रायत्यां पुनर्भवाभिनिर्वर्तकं कर्मोक्तं भगवता / अस्ति भवप्रज्ञप्तिर् यत्रोपपत्त्यंगिका पंच स्कन्धा उक्ता भगवता /

कतमा भवप्रज्ञप्तिर् यत्र त्रैधातुकाः पंच स्कन्धा भवा उक्ता (ध्स्क्द् 13व्8) भगवता / यद् उक्तं / त्रयो भवाः कामभवो रूपभवः आरूप्यभवः / इयं भवप्रज्ञप्तिर् यत्र त्रैधातुकाः पंच स्कन्धा भव उक्ता भगवता /

कतमा भवप्रज्ञप्तिर् यत्रायत्यां पुनर्भवाभिनिर्वर्तकं कर्मोक्तं भगवता (ध्स्क्द् 13व्9) / यद् उक्तं / यद् अपि तद् आनन्द कर्मायत्यां पुनर्भवाय संवर्तते इदम् अत्र भवस्य / इयं भवप्रज्ञप्तिर् यत्रायत्यां पुनर्भवाभिनिर्वर्तकं कर्म भव उक्तं भगवता /

कतमा भवप्रज्ञप्तिर् यत्रोपपत्त्यांगिकाः (ध्स्क्द् 13व्10) पंच स्कन्धा भव उक्ता भगवता / यद् उक्तं / विज्ञानं फल्गुनाहारं यावद् एवायत्यां पुनर्भवाभिनिर्वर्तये प्रादुर्भावाय / इयं भवप्रज्ञप्तिर् यत्रोपपत्त्यांगिकाः पंच स्कन्धा भव उक्तं भगवता /

अपि (ध्स्क्द् 14र्1) खल्व् एवम् उक्तं भगवता निदानपर्याये व्याकरणे आयुष्मत्य् आनन्दे /

अस्ति प्रत्ययम् आनन्द भवो / विस्तरेण यावत् /

सर्वशो वा पुनर् आनन्द उपादाने असति अपि नु भवः प्रज्ञायेत / नो भदन्त / तस्मात् तर्ह्य् आनन्द एतन् निदानं (ध्स्क्द् 14र्2) चैष हेतुर् एष समुदय एष प्रत्ययो भवस्य यद् उतोपादानं / उपादानप्रत्ययम् आनन्द भव / इति यद् उक्तम् इदं मे तत् प्रत्युक्तं //

12. (भवप्रत्यया जातिः)

भवप्रत्यया जातिः कतमा / आह / यथा खल्व् इहैकत्यो रागपर्यवस्थितो (ध्स्क्द् 14र्3) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति / ये ते अकुशला कायसंस्कारा वाक्संस्कारा मनःसंस्कारा अयम् उच्यते अकुशलः कर्मभवः / यद् अपि तद्धेतु (ध्स्क्द् 14र्4) तत्प्रत्ययं कायस्य भेदान् नरकेषूपपद्यते / तत्र या जातिः संजातिर् अवक्रान्तिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभ आयतनप्रतिलाभो जीवितेन्द्रियस्य प्रादुर्भाव इतीयं जातिर् (ध्स्क्द् 14र्5) इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् /

इति यथा नरकेष्व् एवं तिर्यक्प्रेतेषु /

यथा खल्व् इहैकत्यो मनुष्यसुखकानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवत्य् / अहो बताहं मनुष्यसुभगानां (ध्स्क्द् 14र्6) सभागतायाम् उपपद्येयम् इति / स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति / ये ते कुशलाः कायसंस्कारा वाक्संस्कारा मनःसंस्कारा (ध्स्क्द् 14र्7) अयम् उच्यते कुशलः कर्मभवः / यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदान् मनुष्यसुभगानां सभागतायाम् उपपद्यते / तत्र या जातिः संजातिर् विस्तरेण तद् उच्यते भवप्रत्यया जाति /

यथा मनुष्यसुभगानां (ध्स्क्द् 14र्8) एवं चातुर्महाराजिकानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां /

यथा खल्व् इहैकत्यो ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः तस्यैवं भवत्य् (ध्स्क्द् 14र्9) / अहो बताहं ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्येयम् इति / स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं (ध्स्क्द् 14र्10) प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति / तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धिर् अयम् उच्यते कुशलः कर्मभवः / यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् (ध्स्क्द् 14व्1) ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्यते / तत्र जातिः संजातिर् विस्तरेण यावद् / इयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति /

यथा ब्रह्मकायिकानां एवं ब्रह्मपुरोहितानां महाब्रह्मणां /

(ध्स्क्द् 14व्2) यथा खल्व् इहैकत्यः परीत्ताभानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवत्य् / अहो बताहं परीत्ताभानां देवानां सभागतायाम् उपपद्येयम् इति / स तत्प्रार्थयमानो वितर्कविचाराणां व्युपशमाद् (ध्स्क्द् 14व्3) अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति / तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धिः अयम् उच्यते (ध्स्क्द् 14व्4) कुशलः कर्मभवः / यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदात् परीत्ताभनां देवानां सभागतायाम् उपपद्यते / तत्र या जातिः संजातिर् विस्तरेण जीवितेन्द्रियस्य प्रादुर्भावः / इतीयं जातिर् इमं भवम्* (ध्स्क्द् 14व्5) प्रतीत्य तद् उच्यते भवप्रत्यया जातिः /

यथा परीत्ताभानाम् एवम् अप्रमाणाभानाम् आभास्वराणां /

यथा खल्व् इहैकत्यः परीत्तशुभानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवत्य् / अहो बताहं (ध्स्क्द् 14व्6) परीत्तशुभानां देवानां सभागतायाम् उपपद्येयं / स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं प्रीतेर् विरागाद् उपेक्षको विहरति / स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयते / यत् (ध्स्क्द् 14व्7) तद् आर्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारीति तृतीयं ध्यानम् उपसंपद्य विहरति / तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिर् अयम् उच्यते कुशलः कर्मभवः / (ध्स्क्द् 14व्8) यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदात् परीत्तशुभानां देवानां सभागतायाम् उपपद्यते / तत्र या जातिः संजातिर् विस्तरेण / इयम् उच्यते भवप्रत्यया जातिर् इति /

यथा परीत्तशुभानाम् एवम् (ध्स्क्द् 14व्9) अप्रमाणशुभानां शुभकृत्स्नानां / यथा खल्व् इहैकत्यः अनभ्रकाणां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवत्य् / अहो बताहम् अनभ्रकाणां देवानां सभागतायाम् उपपद्येयम् इति / स तत्प्रार्थयमानस् (ध्स्क्द् 14व्10) तद्धेतोस् तत्संवर्तनीयं सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्यदौर्मनस्ययोर् अस्तगमाद् अदुःखासुखं उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति / (ध्स्क्द् 15र्1) तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धिर् अयम् उच्यते कुशलः कर्मभवः / यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् अनभ्रकाणां देवानां सभागतायाम् उपपद्यते (ध्स्क्द् 15र्2) / तत्र या जातिः संजातिः विस्तरेण यावज् जीवितेन्द्रियस्य प्रादुर्भावः / इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिः /

यथा अनभ्रकाणाम् एवं पुण्यप्रसवानाम् (ध्स्क्द् 15र्3) असंज्ञिसत्वसंगृहीतानां च बृहत्फलानां /

यथा खल्व् इहैकत्यः असंज्ञिसत्वानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवत्य् / अहो बताहम् असंज्ञिसत्वानां देवानां सभागतायाम् (ध्स्क्द् 15र्4) उपपद्येयम् इति / स तं प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं संज्ञाम् औदारिकतो दुःखिलतः स्थूलभित्तिकतो मनसिकरोति आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः / तस्य संज्ञाम् औदारिकतो (ध्स्क्द् 15र्5) दुःखिलतः स्थूलभित्तिकतो मनसिकुर्वतः आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः संज्ना अन्तर्धीयते आसंज्ञिकं च संस्थिहति / इति यत्र मम संज्ञा अन्तरायत्य् आसंज्ञिकं (ध्स्क्द् 15र्6) च संस्थिहत्य् एतावद् असंज्ञिसमापत्तिः समापन्न इति वक्तव्यं / तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिर् अयम् उच्यते कुशलः कर्मभवः / यद् अपि तद्धेतु तत्प्रत्ययं (ध्स्क्द् 15र्7) कायस्य भेदाद् असंज्ञिसत्वानां देवानां सभागतायाम् उपपद्यते / तत्र या जातिः संजातिर् विस्तरेण यावज् जीवितेन्द्रियस्य प्रादुर्भाव इति / इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते (ध्स्क्द् 15र्8) भवप्रत्यया जातिर् इति /

यथा खल्व् इहैकत्यः आकाशानन्त्यायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवत्य् / अहो बताहं आकाशानन्त्यायतनानां देवानां सभागतायाम् उपपद्येयम् (ध्स्क्द् 15र्9) इति / स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् (ध्स्क्द् 15र्10) उपसंपद्य विहरति / तथा समापन्नस्य या चेतना संचेतनाभिसंचेतना चेतयितं चेतनागतं चित्ताभिसंस्कारो मनस्कर्म अयम् उच्यते कुशलः कर्मभवः / यद् अपि तद्धेतु (ध्स्क्द् 15व्1) तत्प्रत्ययं कायस्य भेदाद् आकाशानन्त्यायतनानां देवानां सभागतायाम् उपपद्यते / तत्र या जातिः संजातिर् विस्तरेण यावज् जीवितेन्द्रियप्रादुर्भाव / इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते (ध्स्क्द् 15व्2) भवप्रत्यया जातिर् इति /

यथा खल्व् इहैकत्यो विज्ञानानन्त्यायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / तस्यैवं भवत्य् / अहो बताहं विज्ञानानन्त्यायतनानां देवानां सभागतायाम् उपपद्येयं (ध्स्क्द् 15व्3) इति / स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति / तथा समापन्नस्य या चेतना यावच् चित्ताभिसंस्कारो (ध्स्क्द् 15व्4) मनस्कर्मायम् उच्यते कुशलः कर्मभवः / यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् विज्ञानानन्त्यायतनानां देवानां सभागतायाम् उपपद्यते / तत्र या जातिः संजातिः विस्तरेण (ध्स्क्द् 15व्5) यावज् जीवितेन्द्रियस्य प्रादुर्भाव / इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति /

यथा खल्व् इहैकत्य आकिंचन्यायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः (ध्स्क्द् 15व्6) / तस्यैवं भवत्य् / अहो बताहम् आकिंचन्यायतनानां देवानां सभागतायाम् उपपद्येयम् इति / स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति (ध्स्क्द् 15व्7) किं चिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति / तथा समापन्नस्य या चेतना संचेतना विस्तरेण यावच् चित्ताभिसंस्कारो मनस्कर्म अयम् उच्यते कुशलः कर्मभवः / (ध्स्क्द् 15व्8) यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् आकिंचन्यायतनानां देवानां सभागतायां उपपद्यते / तत्र या जातिः संजातिः विस्तरेण यावज् जीवितेन्द्रियस्य प्रादुर्भाव (ध्स्क्द् 15व्9) / इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति /

यथा खल्व् इहैकत्यो नैवसंज्ञानासंज्ञायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः / (ध्स्क्द् 15व्10) तस्यैवं भवत्य् / अहो बताहं नैवसंज्ञानासंज्ञायतनानां देवानां सभागतायां उपपद्येयम् इति / स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं आकिंचन्यायतनं समतिक्रम्य (ध्स्क्द् 16र्1) नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति / तथा समापन्नस्य या चेतना विस्तरेण यावच् चित्ताभिसंस्कारो मनस्कर्मायम् उच्यते कुशलः कर्मभवः / यद् अपि तद्धेतु तत्प्रत्ययं नैवसंज्ञानासंज्ञायतनानां (ध्स्क्द् 16र्2) देवानां सभागतायां उपपद्यते / तत्र या जातिः संजातिर् अवक्रान्तिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभः आयतनप्रतिलाभः जीवितेन्द्रियस्य प्रादुर्भावः (ध्स्क्द् 16र्3) / इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति /

अपि खल्व् एवम् उक्तम् भगवता महानिदानपर्याये व्याकरणे आयुष्मत्य् आनन्दे /

अस्ति प्रत्ययम् आनन्द जातिर् / इति पृष्टैर् अस्तीति (ध्स्क्द् 16र्4) वचनीयं / किंप्रत्यया जातिर् इति / भवप्रत्यया इति वचनीयं / भवप्रत्यया आनन्द जातिर् / इति मे यद् उक्तम् इदं मे तत् प्रत्युक्तं /

भवश् चेद् आनन्द न स्याद् अपि नु मत्स्यानां मत्स्यत्वे पक्षिणानां वा पक्षित्वे (ध्स्क्द् 16र्5) सरीसृपाणां सरीसृपत्वे चतुष्पदानां वा चतुष्पदत्वे नागानां वा नागत्वे यक्षाणां वा यक्षत्वे भूतानां वा भूतत्वे गन्धर्वाणां वा गन्धर्वत्वे देवानां वा देवत्वे मनुष्याणां वा मनुष्यत्वे (ध्स्क्द् 16र्6) तेषां तेषाम् आनन्द सत्वानां तस्मिन् तस्मिन् सत्वनिकाये अपि नु कस्य चित् कश् चिद् भवः स्यान् / नो भदन्त / सर्वशो वा पुनर् आनन्द भवे असत्य् अपि नु कस्य चित् का चिज् जातिः प्रज्ञायेत / नो भदन्त / (ध्स्क्द् 16र्7) तस्मात् तर्ह्य् आनन्दैतन् निदानम् एष समुदय एष हेतुर् एष प्रत्ययो जात्या यद् उत भवः / भवप्रत्यया आनन्द जातिर् / इति मे यद् उक्तम् इदं मे तत् प्रत्युक्तं /

13. (जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः)

जातिप्रत्ययं जरामरणम् इति /

जरा कतमा / (ध्स्क्द् 16र्8) आह / यत् तेषां तेषां सत्वानां तस्मिं तस्मिं सत्वनिकाये जातिः संजातिर् अवक्रान्तिर् अभिनिर्वृत्तिर् विस्तरेण जीवितेन्द्रियस्य प्रादुर्भावः इयम् उच्यते जातिः /

अपि खल्व् एवम् उक्तं भगवता महानिदानपर्याये (ध्स्क्द् 16र्9) व्याकरणे आयुष्मत्य् आनन्दे /

अस्ति प्रत्ययम् आनन्द जरामरणं / इति पृष्टैर् अस्तीति स्याद् वचनीयं / विस्तरेण यावज् /

जातिश् चेद् आनन्द न स्याद् अपि नु मत्स्यानां वा मत्स्यत्वे पक्षिनां वा (ध्स्क्द् 16र्10) पक्षित्वे विस्तरेण यावद् देवानां देवत्वे तेषां तेषाम् आनन्द सत्वानां तस्मिं तस्मिन् सत्वनिकाये अपि नु कस्य चित् का चिज् जातिः स्यान् / नो भदन्त / सर्वशो वा पुनर् आनन्द जात्याम् असत्यां (ध्स्क्द् 16व्1) अपि नु जरामरणं प्रज्नायेत / नो भदन्त / तस्मात् तर्ह्य् आनन्द तन् निदानं एष समुदय एष हेतुर् एष प्रत्ययो जरामरणस्य यद् उत जातिः / जातिप्रत्ययम् आनन्द जरामरणम् इति मे यद् उक्तम् (ध्स्क्द् 16व्2) एतत् प्रत्युक्तं //

जरा कतमा / यत् तत् खालित्यं पालित्यं विस्तरेण यावत् संस्काराणां पुराणीभावो जर्जरीभाव इयम् उच्यते जरा / मरणं कतमद् / आह / यत् तेषां तेषां सत्वानां तस्मात् तस्मात् सत्वनिकायाच् (ध्स्क्द् 16व्3) च्युतिश् च्यवनता भेदो ऽन्तर्हाणिः संमोषः परिहाणिः आयुषो हानिर् ऊष्मणो हानिः स्कन्धानां निक्षेपो जीवितेन्द्रियस्योपरोधो मरणं कालक्रिया इदम् उच्यते मरणं /

शोकः कतम / आह (ध्स्क्द् 16व्4) / यत् तन् मातृमरणेन पितृमरणेन भ्रातृमरणेन भगिनीमरणेन ज्ञातिक्षयाद् धनक्षयाद् भोगक्षयात् स्पृष्टस्य शारीरिकाभिर् वेदनाभिर् दुःखाबिस् तीव्राभिः खराभिः कटुकाभिर् अमनापाभिः (ध्स्क्द् 16व्5) प्राणहारिणीभिर् यो दाघः संदाघः शोकः शोचना शोकायितत्वम् अयम् उच्यते शोकः /

परिदेवः कतम / आह / तथा दह्यते तथा परिदह्यते / हा अंब हा तात हा भगिनि हा भ्रातः / तद् उपादाय (ध्स्क्द् 16व्6) यद् वाक्यं वचनं व्याहारो भाषा गीर् निरुक्तिर् वाक्पथो वाग्घोषो वाचा वाक्कर्म वाग्विज्ञप्तिर् आर्त्तिर् भाष्यं विप्रलापो लालप्यं लालप्यनता परिदेवः परिदेवनता अयम् उच्यते (ध्स्क्द् 16व्7) परिदेवः /

दुःखं कतमद् / आह / पंचविज्ञानसंप्रयुक्तम् असातं वेदितं वेदनागतम् इदम् उच्यते दुःखं /

दौर्मनस्यं कतरद् / आह / मनोविज्ञानंसप्रयुक्तं असातं वेदितं वेदनागतम् इदम् उच्यते दौर्मनस्यं (ध्स्क्द् 16व्8) /

उपायासः कतम / आह / यश् चेतस आयास उपायासः उपायासनता अयम् उच्यते उपायासः //

14. (दुःखस्कन्धस्याभिनिर्वृत्तिः)

अपि खल्व् अविद्यादुःखस्कन्धं प्रतीत्य संस्कारदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति (ध्स्क्द् 16व्9) प्रादुर्भावः / संस्कारदुःखस्कन्धं प्रतीत्य विज्ञानदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः / विज्ञानदुःखस्कन्धं प्रतीत्य नामरूपदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः / नामरूपदुःखस्कन्धं (ध्स्क्द् 16व्10) प्रतीत्य षडायतनदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः / षडायतनदुःखस्कन्धं प्रतीत्य स्पर्शदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः / स्पर्शदुःखस्कन्धं (ध्स्क्द् 17र्1) प्रतीत्य वेदनादुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः / वेदनादुःखस्कन्धं प्रतीत्य तृष्णादुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः / तृष्णादुःखस्कन्धं प्रतीत्योपादानदुःखस्कन्धस्याभिनिर्वृत्तिर् (ध्स्क्द् 17र्2) भवति प्रादुर्भावः / उपादानदुःखस्कन्धं प्रतीत्य भवदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः / भवदुःखस्कन्धं प्रतीत्य जातिदुःखस्कन्धस्याभिनिर्वित्तिर् भवति प्रादुर्भावः / जातिदुःखस्कन्धम्* (ध्स्क्द् 17र्3) प्रतीत्य जरामरणदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः // //

15. (पञ्च भयानि वद्यानि वैराणि)

एवं मया श्रुतम् एकस्मिन् समये भगवांश् छ्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे / तत्र भगवान् भिक्षून् आमन्त्रयते स्म / यस्य कस्य चिद् भिक्षवः (ध्स्क्द् 17र्4) पंच भयानि वद्यानि वैराणि अशान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां गर्ह्यो भवति पश्चाच् चानुताप्यः कायस्य च भेदात् परं मरणाद् अपायदुर्गतिं विनिपातं नरकेषूपपद्यते /

कतमानि पंच भयानि (ध्स्क्द् 17र्5) वद्यानि वैराण्य् अशान्तानि भवन्ति /

यत् प्राणातिपातिकः प्राणातिपातप्रत्ययं वद्यं वैरं प्रसवति प्राणातिपाताद् अप्रतिविरतस्य एवम् अस्येदं प्रथमं भयं वद्यं वैरम् अशान्तं भवति /

यद् (ध्स्क्द् 17र्6) अदत्तादायिकः काममिथ्याचारिको मृषावादिकः

सुरामैरेयमद्यप्रमादस्थायिकः सुरामैरेयमद्यप्रमादस्थानभयं वद्यं वैरं प्रसवति सुरामैरेयमद्यप्रमादस्थानाद् अप्रतिविरतस्य (ध्स्क्द् 17र्7) एवम् अस्येदं पंचमं भयं वद्यं वैरम् अशान्तं भवति /

यस्य कस्य चिद् इमानि पंच भयानि वद्यानि वैराण्य् अशान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां गर्ह्यो भवति पश्चाच् चानुताप्यः / (ध्स्क्द् 17र्8) कायस्य भेदात् परं मरणाद् अपायदुर्गतिं विनिपातं नरकेषूपपद्यते /

यस्य तु कस्य चित् पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां प्रशस्यो भवति पश्चाच् च नानुताप्यः (ध्स्क्द् 17र्9) कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते /

कतमानि पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति /

यत्* प्राणातिपातिकः प्राणातिपातप्रत्ययं भयं वद्यं वैरं प्रसवति प्राणातिपातात् (ध्स्क्द् 17र्10) प्रतिविरतस्य एवम् अस्येदं प्रथमं वद्यं वैरं शान्तं भवति / यद् अदत्तादायिकः काममिथ्याचारिको मृषावादिकः

सुरामैरेयमद्यप्रमादस्थायिकः सुरामैरेयमद्यप्रमादस्थानप्रत्ययं (ध्स्क्द् 17व्1) भयं वद्यं वैरं प्रसवति सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतस्य एवम् अस्येदं पंचमं भयं वद्यं वैरं शान्तं भवति /

यस्य कस्य चिद् इमानि पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति स दृष्ट एव धर्मे (ध्स्क्द् 17व्2) विज्ञानां प्रशस्यो भवति पश्चाच् च नानुताप्यः कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते / इदम् अवोचद् भगवान् / इदम् उक्त्वा सुगतो ह्य् अथापरम् एतद् उवाच शास्ता //

यः प्राणम् अतिपातयति मृषावादं (ध्स्क्द् 17व्3) च भाषते / लोके अदत्तम् आदत्ते परदारं च गच्छति / सुरामैरेयपानं च यो नरो ह्य् अधिगृध्यति / सक्तः पंचसु धर्मेषु दुःशील इति कथ्यते / कायस्य भेदाद् दुष्प्रज्ञो नरकेषूपपद्यते // यस् तु प्राणं नातिपातयति (ध्स्क्द् 17व्4) मृषावादं न भाषते / लोके अदत्तं नादत्ते परदारं न गच्छति / सुरामैरेयपानं च यो नरो नाधिगृध्यति / मुक्तः पंचसु धर्मेषु शीलवान् इति कथ्यते / कायस्य भेदात् सुगतो स्वर्गलोके देवेषूपपद्यते /

इदम् (ध्स्क्द् 17व्5) अवोचत्* //

16. (उपासकः)

कियता उपासको भवति / यतश् च गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतः बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति चित्तम् उत्पादयति वाचं च भाषते उपासकं (ध्स्क्द् 17व्6) मां धारयेति / इयता उपासको भवति /

कियता उपासकः शिक्षास्व् एकदेशकारी भवति / यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपातात् (ध्स्क्द् 17व्7) प्रतिविरतः अदत्तादानात् काममिथ्याचारान् मृषावादाद् अप्रतिविरतः इयता उपासकः शिक्षास्व् एकदेशकारी भवति /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.