Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

धर्मसमुच्चय

Thông tin
GRETIL — Vijayasankar Caube: Dharmasamuccaya.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

माद्यन्ते बहुमोहान्धा न च बुद्धयन्ति बालिशाः / मन्देन क्षणिका यद्वत् मलयेन्धनपादपाः // dhs_7.29 //

कामा असाराः वञ्चकाश्च भवन्ति

स्वप्नप्रमोषधर्माणो गन्धर्वनगरोपमाः / रिक्तास्तुच्छा असाराश्च कामाः परमवञ्चकाः // dhs_7.30 //

(का) मा मोहेन (च) समाः किं पाकसदृशोपमाः / कामा लोकहितकरा वह्निवत् परिकीर्तिताः // dhs_7.31 //

कामस्यादीनवं ज्ञात्वा येन तत्फलमोहिताः / तेन तद्दर्शकाः प्रीता गतकांक्षस्य (देहिनः) // dhs_7.32 //

(अ)न्यथा चिन्त्यमानानां यथा प्राप्ता पुनस्तथा / सर्वतः पापकर्तारः कामा लोके विषोपमाः // dhs_7.33 //

कामैरतृप्तमनसस्ते ते देवाश्च्युताः पुनः / पतन्ति नरके मूढाः कामेन परिवञ्चिताः // dhs_7.34 //

नारीं निन्दयति

नदीतरङ्गचपला विद्युल्लेखसमाश्च ते / मीनावर्तबला नार्यः कामलोकविषास्पदाः // dhs_7.35 //

विचिन्तिता विवर्धन्ते वर्द्धिता वह्निसन्निभाः / आदौ चान्ते तथा कामास्तस्मात् कामान् विवर्जयेत् // dhs_7.36 //

कामसेवनफलम्

यथा यथा हि सेव्यन्ते विवर्धन्ते तथा तथा / वह्निज्वालासमासृष्टाः कामाः कटुविपाकिनः // dhs_7.37 //

कामवर्जनफलम् आह

एवं दोषं सदा ज्ञात्वा धीरः कामान् विवर्जयेत् / परिवर्तितकामस्य सुखं भवति नैष्ठिकम् // dhs_7.38 //

कामाग्निः देवान्नपि पातयति

असङ्ख्यानि सहस्राणि देवानां नियुतानि च / पतन्ति कामदहनं नरकं वह्निभैरवम् // dhs_7.39 //

यथाग्निविषशस्त्राणि वर्जयन्ति सुखार्थिनः / तथा कामाः सदा वर्ज्या हेतवो नरकस्य ते // dhs_7.40 //

न दृष्टो न श्रुतः कश्चिद् यः कामवशगः पुमान् / न कामैर्विप्रलब्धः स्यान्न च दुःखेन पीडितः // dhs_7.41 //

तस्मादलमलं कामैर्मा चैतेषु मनः कृथाः / सर्वे सर्वास्ववस्थासु कामा वह्निविषोपमाः // dhs_7.42 //

अनादिर्मति संसारे शत्रवश्चित्तसम्भवाः / अहन्त्वात्तु भवेत् प्रीतिर्न सा कामैः कथञ्चन // dhs_7.43 //

सकल्मषा कटुफला दुःखात् कामोद्भवा रतिः / या तु कामविनिर्मुक्ता सा रतिः परि(भाषिता) // dhs_7.44 //

योगिनः परमा गतिः

तां समाश्रित्य गच्छन्ति योगिनः परमां गतिम् / न तु कामकृता प्रीतिर्नयते पदमच्युतम् // dhs_7.45 //

कामजरतिं निन्दति

आपातमधुरा रम्या विपाके ज्वलनोपमा / रतिर्भवति कामाग्निजन्या नरकगामिनी // dhs_7.46 //

आपातरम्या मधुरा मध्ये रम्या च सर्वदा / शान्तमन्ते च विमलं नयते पदमच्युतम् // dhs_7.47 //

आद्यन्तमध्यकल्याणी नित्यं मातेव शोभना / तां व्युदस्य कथं बाला रक्षन्ते (कामजां रतिम्) // dhs_7.48 //

कामकृता रतिः निरतं तपति

मध्यादिनिधने दुःखा नित्यं दोषादिभिर्वृता / कथं सा सेव्यते बालैर्या न दृष्टा सुखावहा // dhs_7.49 //

विषमञ्जरिवद् रम्या स्पर्शे ज्वलनसम्भवा / तथा कामकृता प्रीतिः परिणामे विषोपमा // dhs_7.50 //

हूयमानो यथा वह्निर्ज्वलनेन प्रशाम्यति / दाहेन च प्ररोहः स्यात् तद्वत् कामकृता रतिः // dhs_7.51 //

पतङ्गः पश्यति ह्यग्नि दाहदोषं न पश्यति / तथा कामकृतां प्रीतिं पश्यन्त्यकृतबुद्धयः // dhs_7.52 //

यस्तु रागकृतो दाहः पच्यते कामिनां सदा / पतङ्गसदृशं दाहं सर्वथा नै(व) पश्यति // dhs_7.53 //

कामप्रमादात् पतनं ध्रुवमेव

तस्मात् काम(विषं) त्यक्त्वा नित्यं जीवथ हे सुराः / भवन्तु मा वृथा जन्मप्रमादेन प्रपातनम् // dhs_7.54 //

संक्षीणशुभकर्माणो नित्यं कामैर्विमोहिताः / तं हित्वा नरकं यान्ति काममोहेन वञ्चिताः // dhs_7.55 //

काममोहितः विषवृक्षमयं पुष्पं पिबति

विषवृक्षमयं पुष्पं पीयते भ्रमरैर्यथा / तथा विषात्मकमिदं सुखं भुङ्क्ते हि मोहितः // dhs_7.56 //

जीवेयुः पामराः केचित् विषं पीत्वापि दुर्भगाः / न कामविषपीतस्य जीवितं दुर्लभं भवेत् // dhs_7.57 //

यथा हि नरके वह्निर्ज्वलयत्य विचारिणम् / तथा काममयो वह्निर्दहतीह दिवौकसः // dhs_7.58 //

कामाग्निः हिंसक एव

श्रुतिपाशमयो वह्निः प्रेतानेष दहत्यति / दहने हिंसको वह्निर्नृणां पर्येषणात्मकः // dhs_7.59 //

एवमग्निसमं तावत् परिहार्य समन्ततः / सर्वलोकमशेषेण दह्यते काममोहितः // dhs_7.60 //

विषयासक्तं मनः व्यसने पातयति

विषयेषु सदाचित्तं धावन्तं चञ्चलं महत् / न त्याज्यं व्यसने मूढ यद् पश्यसि भविष्यति // dhs_7.61 //

कामेषु रक्ष ते चित्तं व्यसनेनावबुध्यते / व्यसनौघे समुत्पन्ने तत् पश्चात् परितप्यते // dhs_7.62 //

काममोहिताः महद्भयमपि न पश्यन्ति

वृथा काममदैर्मत्ता देवाः प्रकृतिदुर्बलाः / भ्रमन्ति भ्रमिताः कामैर्न पश्यन्ति महद् भयम् // dhs_7.63 //

विश्वसन्ति हि ये देवाः कामेष्वहितकारिषु / व्यतिरेकेषु ते पश्चात् प्रतिबुध्यन्त्यमेधसः // dhs_7.64 //

कामाः परमवञ्चका भवन्ति

न च पश्यन्ति (वि)बुधाश्चित्तेन परिवञ्चिताः / क्षणिका मधुरा जाताः कामाः परमवञ्चकाः // dhs_7.65 //

काम प्रति न विश्वसेत्

शतशश्च सहस्त्रैश्च कोटिशः पद्मशस्तथा / लब्धा नष्टा पुनः कामा न तेषां विश्चसेत् पुमान् // dhs_7.66 //

कामैर्मोहितः पतङ्गसमो नरकाग्निना दह्यते

विषयाद् बन्धनं तीव्रं सर्वे नरकहेतवः / तस्मादत्यन्ततस्त्यक्त्वा श्रेयसे क्रियतां मनः // dhs_7.67 //

रागेण रञ्जिताः पूर्वं द्वेषेण च तिरस्कृताः / मोहेन मोहिताश्चैव ते ऽश्रुताकृतकारिणः // dhs_7.68 //

कामार्थैरेष्यते बालः पुनः कामैर्विमोहितः / स पतङ्गसमो मूढः दह्यते नरकाग्निना // dhs_7.69 //

कामवशगाः सुरलोकादपि पतन्ति

अवश्यम्भावि पतनं सुरलोकात् समन्ततः / न ज्ञात्वा कामवशगो स्यादिह कथञ्चन // dhs_7.70 //

कामेन वञ्चिताः सत्त्वाः कामेन च विमोहिताः / कामपाशापकृष्टास्ते पतन्ति नरके सदा // dhs_7.71 //

कामं त्यक्त्व स्वहिते मनः कर्त्तव्यम्

तदेतद् व्यसनं सत्त्वाः स्वहिते क्रियतां मनः / मनसापि स्वदान्तेन नानुतप्यन्ति देहिनः // dhs_7.72 //

मनोविषेण ये दष्टाः कामवेगेन सर्वदा / ते मूढा मृत्युवशगाः कामानलहता नराः // dhs_7.73 //

न तृप्तिरस्ति कामानां तृष्णया हितकारिणाम् / तृष्णापि तृप्तिजनिका मनो नैव हि तृप्यति // dhs_7.74 //

ज्ञानदीपेनैजेन्द्रियाणां विषयेभ्यस्तृप्तिर्जायते

न जातु विषयैस्तृप्तिरिन्द्रियाणां भविष्यति / यदि न ज्ञानदीपेन क्षपयिष्यन्ति (ते नराः) // dhs_7.75 //

नारीसेवनेन नाशः सुनिश्चितः

योषितः सेव्यमाना हि वितर्कशतमालिकाः / प्रवर्धति यथा वह्निर्वायुना समुदीरितः // dhs_7.76 //

कामाग्निदीप्ताः कदापि शान्तिं नाप्नुवन्ति

तं मत्वा वेगरभसा नित्यं कामो ऽग्निदीपितः / कामान् हापयति ज्ञानी बुद्धतत्त्वविचिन्तकः // dhs_7.77 //

ये नित्यं भ्रान्तमनसो नित्यं विषयतत्पराः / रमन्ते विबुधाः सर्वे तत् सर्वं मोहचेष्टितम् // dhs_7.78 //

सेव्यमानो हि विबुधैर्विषयाग्निर्विवर्धते / पाशेनानेन संयुक्तो वह्निर्वायुसमीरितः // dhs_7.79 //

रागविवशा अमरा अपि पतन्ति

अमराः रागविवशा नित्यं विषयतत्पराः / देवलोकात् पतन्त्येते मोहरागेण वञ्चिताः // dhs_7.80 //

रमन्ते विषयैरेते तत्र तल्लीनमानसाः / न च विन्दन्ति यद् दुःखं विप्रयोगो भविष्यति // dhs_7.81 //

वियोगजं दुःखं कष्टप्रदमेव

यदेतत् सुखमेवादौ दिव्यं पञ्चगुणान्वितम् / वियोगजस्य दुःखस्य कलां नार्हतिषोडशीम् // dhs_7.82 //

कामानां तद्विघातो हि जनेनैवोपयुज्यते / सतृष्णस्य तथा तृप्तिः कामेभ्यो नैव जायते // dhs_7.83 //

कामानुसेविनः दुःखं कदापि शान्तिं नाधिगच्छति

अनपेक्षितचित्तस्य नित्यं कामानुसेविनः / दीर्घरात्रानुशयिकं दुःखं नैव प्रशाम्यते // dhs_7.84 //

त्वरितं रक्ष्यते मूढो व्यसनेनैव बुध्यते / पश्चात्तु व्यसने प्राप्ते जानीते यस्य तत् फलम् // dhs_7.85 //

आस्वादभद्रका ह्येते कामाः परमदारुणाः / दूतकान् नरकस्यैतान् चरन्त्यहितकारिणः // dhs_7.86 //

विषयाग्निदग्धाः नरकं यान्ति

यस्तेषां विश्वसेत् मर्त्यो ज्ञानचक्षुर्विगर्हितः / विषयाग्निरभ्रतुल्यः स याति नरकं नरः // dhs_7.87 //

अल्पास्वादाल्पहृदया नित्यं पुरुषवञ्चकाः / गन्धर्वनगरप्रख्याः कामा आस्वादभद्रकाः // dhs_7.88 //

विषयमोहिताः देवा अपि दुर्गति यान्ति

(यथा) दीपप्रभा(भस्म) सञ्छन्नेव पुनः पुनः / न च बिन्दत्यमनसो देवा विषयमोहिताः // dhs_7.89 //

विषयेणातिरभसा नित्यं कामवशानुगाः / न विदन्ति महद् दुःखं यदवश्यं भविष्यति // dhs_7.90 //

रमणीयानि कामानि यस्यैवं जायते मतिः / स पश्चाद् व्यसने प्राप्ते मूढो ऽसौ विप्रलप्यते // dhs_7.91 //

न कामेन मदान्धस्य विषयैर्मोहितस्य च / नैत्यिकं भवति शर्म्म यत्सुखानामनुत्तमम् // dhs_7.92 //

आध्यात्मिकसुखापेक्षया कामसुखं हीनतमम्

यच्च कामसुखं लोके यच्च तृष्णोद्भवं सुखम् / एकस्याध्यात्मिकस्येदं कलां नार्हतिषोडशीम् // dhs_7.93 //

कामी कदापि सुखं नाश्नुते

न सुखी वर्तते तावद्य यस्य कामो हृदि स्थितः / स सर्वदुःखभागार्हो नरकानुपधावति // dhs_7.94 //

न तृप्तिर्विद्यते कामैरपि (भोगः) शतं नृणाम् / यत्र सौख्यं न तत्रास्ति तृप्तिर्विषयसेविनाम् // dhs_7.95 //

सेव्यमानाः सदा कामा वर्धन्ते च मुहुर्मुहुः / ते वर्धिता विषसमा भवन्ति विनिपातिनः // dhs_7.96 //

विपत्तिकुशला घोरा नित्यं पतनहेतवः / न च तेषां परित्यागं कुर्वन्ति विषयोत्सवाः // dhs_7.97 //

यस्य दृष्टिसमुद्रस्य रूपैस्तृप्तिर्न विद्यते / तथा शर्ममनोज्ञैश्च रसतृप्तिर्न विद्यते // dhs_7.98 //

गन्धैरपि सदा घ्राणं न तृप्तिमधिगच्छति / स्पर्शाः सम्मुखसंस्पर्शाः सेव्यन्ते नैव तृप्यते // dhs_7.99 //

शब्दैः कान्तैः सुमधुरैः श्रोत्रमेति न तर्पणम् / मनो ऽपि तृप्तिविश्वस्तं वर्धमानं न तृप्यति // dhs_7.100 //

इन्द्रियाणि कामभूमिषु पातयन्ति

षडेन्द्रियाणि चपलान्याधृतानि रतौ पुनः / भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः // dhs_7.101 //

न तृप्तिरस्ति देवानां गजानां वै तृणैर्यथा / अनलस्य स्वभावो ऽयं तस्य तृप्तिर्न विद्यते // dhs_7.102 //

षडेते वह्नयस्तीव्रा वितर्कानिलमूर्छिताः / भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः // dhs_7.103 //

इन्द्रियदग्धा नरकं यान्ति

तैरयं दह्यते लोको न च विन्दत्यबुद्धिमान् / आस्वादभद्रका हयेते नरकस्य च हेतवः // dhs_7.104 //

काममोहितः सुखवञ्चितो भवति

कामा विषयलोभास्ते लेलिहाना यथोरगाः / विलोचनवरो हयेष न च कामैर्विमोहितः // dhs_7.105 //

कामवशीनरः नेत्रहीना मूढतरः

सुखानुसारिणः कामो नरकानुपधावति / न नेत्रहीनो नरके पात्यते सत्क्रियान्वितः // dhs_7.106 //

तस्माद् वरं विचक्षुः स्यान्न तु कामवशो नरः / अशक्यवञ्चिता मूढाः कामैरहितकारिभिः // dhs_7.107 //

कामचारिणां ज्ञानादिकं दुर्लभम्

अनिर्विद्यन्ति कामेभ्यो मोहिताः स्वेन चेतसा / न ज्ञानं नापि विज्ञानं विद्यते कामचारिणाम् // dhs_7.108 //

कामः मृत्युभवनं नयति

यद् दुःखकामजं हत्वा पुनः कामवशानुगाः / मित्ररूपा च ये कामाः किम्पाकफलसन्निभाः / नयन्ति मृत्युभवनं दुर्गतीश्च पुनः पुनः // dhs_7.109 //

अनिवर्त्त्य यथा तोयमापगानामनेकशः / तथा सौख्यगतं नृणां सर्वथा न विवर्तते // dhs_7.110 //

वनोपवनभोगेषु सुखप्राप्तेष्वनेकशः / यो न तृप्यति कामेषु स नरो ऽधमगामिकः // dhs_7.111 //

प्रमादो पहतो जन्तुः कामास्वादेषु तत्परः / रूपेषु रक्ष्यते नित्यं परिणामे च विद्यते // dhs_7.112 //

घनच्छायास्वरूपाणि कर्ममिश्राणि यानि वै / तानि चैव कथं देवाः शक्ष्यन्ते कामगोचरे // dhs_7.113 //

कामाः कदापि न सेव्याः यदि नित्या भवेयुर्न कामास्ते स्युर्विषोपमाः // dhs_7.114 // कामतृष्णादुःखकरी

तथापि कामतृष्णा या न सा जाति विलक्षणा / प्रागेव नित्यं दुःखाय शून्यमात्मानमेव च // dhs_7.115 //

तेषु दुःखविपाकेषु कथं रक्षन्त्यबुद्धयः / कामास्वादेषु रक्ष्यन्ते बालिशाः मन्दबुद्धयः / आदीनवं न बुद्धयन्ते किम्पाकफलसन्निभम् // dhs_7.116 //

रूपशब्दादिबद्धो ऽयं तृष्णाविप्रकृतो जनः / दीप्यते विवशो नित्यं, कुकर्मफलमोहितम् // dhs_7.117 //

आस्वादयित्वा पुरुषाः कामान् विषफलोपमान् / तृष्णया तृप्तमनसः पतन्ति नरके पुनः // dhs_7.118 //

यथाभिवर्षते तोयं वर्धन्ते सरितो यथा / तथा कामाभिवर्षेण देवानां वर्धते ऽनलः // dhs_7.119 //

कामसुखस्य नान्तो विद्यते

जलसम्भवमीनो ऽपि दृश्यते तृष्णयातुरः / एवं सुखाभिवृद्धा च न वितृप्यति देवता // dhs_7.120 //

आकाशस्य यथा नान्तो विद्यते नापि संशयः / एवं कामेषु नास्त्यन्तः कामिनां नास्ति संक्षयः // dhs_7.121 //

सलिलादिभिरतृप्तस्य सागरस्योर्मिमालिनः / न तु कामैरतृप्तस्य तृप्तिरस्ति कथञ्चन // dhs_7.122 //

अप्राप्तैर्विषयैर्देवा न वितृप्यन्ति बालिशाः / विषयैर्नैव तृप्यन्ति सुखलालसतत्पराः // dhs_7.123 //

कामस्तापाय, न तु शान्त्यै

संप्राप्ते व्यसने तीव्रे च्यवमानेप्यनेकशः / तप्यते विषये तस्मात् परं कामो न शक्यते // dhs_7.124 //

विलोक्य पुरुषानेते कामविश्वासघातिनः / त्यजन्ति व्यसने प्राप्ता विपद्यन्ते हि ते नराः // dhs_7.125 //

अतृप्तस्य सुखं नास्ति विषयैश्चापि तृप्यते / ये वा तृइप्तिकरा दृष्टास्तान् बुद्ध्वा (तु) विवर्जयेत् // dhs_7.126 //

विषयान्परित्यज्य शान्तिः सेव्या

सुखमूला सदा शान्तिरसुखा विषया मताः / तस्माच्छान्तिसुखा देवा वर्जयित्वा विषयोरगान् // dhs_7.127 //

बधबन्धनरोगादि विषयेभ्यो महद्भयम् / सम्भ्रान्तिरिह संसारे विषयैरेव जायते // dhs_7.128 //

संयोगा विप्रयोगान्ताः शतशो ऽथ सहस्त्रशः / जातौ जातौ सदा दृष्टाः सौगतैस्तत्त्वदर्शिभिः // dhs_7.129 //

अनेक सुखसंसारः विषयात्मक एव

अनेकसुखसंसारो विषयेषु हि विद्यते / विषयैश्च भवेत् सर्व जातौ जातौ प्रजायते // dhs_7.130 //

कष्टैर्यैरनकामैर्न शक्यते ऽमूढचेतसा / पुनस्तानेव मोहान्धाः सेवन्ते ऽकृतबुद्धयः // dhs_7.131 //

विषयशत्रुसेविनः बालिशाः भवन्ति

वर्जते हि सदा शत्रुवञ्चनाशङ्कया नरः / विषयाः शत्रुभूता हि न वश्यन्ते कथञ्चन // dhs_7.132 //

कामबद्धाः सदा मोहबालिशा वा भवन्ति ते / न त्यजन्ति कथं मूढा मोहिताः स्वेन कर्मणा // dhs_7.133 //

यथा बह्निभयात् कश्चिद् वह्निमेवोपसेवते / तथा विषयसंमूढो विषयानुपसेवते // dhs_7.134 //

स्नायुसङ्ग्रथितः पाशो दृष्टिरम्यो यथा भवेत् / तथा विषयरम्यो ऽयं पाशः परमदारुणः // dhs_7.135 //

कामसुखं नाशाय भवति

किंपाकस्य यथास्वादो मधुराग्रो महोदयः / पश्चाद् भवति नाशाय सुखं तद्वदिदं नृणाम् // dhs_7.136 //

प्रदीपस्य शिखां यावत् पतङ्गो मोहमूर्छितः / पतते दह्यते चैव तथेदं सुखमिष्यते // dhs_7.137 //

अज्ञात्वा हि तथा बाला रम्यदेहसुखेच्छया / स्पृशन्ति ज्वलनं तद्वत् सुखमेतद् भविष्यति // dhs_7.138 //

तृष्णाविघात एव सुखाय जायते

यथा रम्यो वनमृगस्तृष्णार्त उपधावति / न च तृष्णाविघातो ऽस्य तदिदं सुखमिष्यते // dhs_7.139 //

न तृप्ता न च तृप्यन्ति न च तृप्तिर्भविष्यति / विषयैः सर्वदेवानां तस्मात् कामो न शान्तये // dhs_7.140 //

विषयैः प्रमत्ताः दुःखमनुभवन्ति

प्रत्युत्पन्नसुखाः कामा नान्तकल्याणकारकाः / रञ्जिता विषयैर्देवा विक्षिप्तमनसः सदा // dhs_7.141 //

नानासौख्यप्रमत्तस्य विषयैर्वञ्चितस्य च / सम्प्राप्ते मृत्युकाले च न शमायास्य विद्यते // dhs_7.142 //

अनुक्रमेण मरणमभ्येति तच्च विद्यते / विषयापहतैर्देवैः कामव्यासक्तबुद्धिभिः // dhs_7.143 //

कामा अहितकारिणो भवन्ति

जानीयादद्य मे देवा यद् दुःखं विप्रयोगजम् / मुहूर्तमपि कामेषु न कुर्यात् तत्र संस्थितिम् // dhs_7.144 //

रागाग्निना दग्धो विमोहितो जायते

अनित्यात्मभयाः कामा नित्यं चाहितकारिणः / तथा विमोहितान् कालः पुनस्ताननुसेवते // dhs_7.145 //

रागाग्निना प्रदहयन्ते नित्यं देवाः प्रमोहिताः / दह्यमानाः पुनस्तत्त्वं प्रशंसन्ति पुनः पुनः // dhs_7.146 //

रथचक्रवत्सदा भ्रान्ता विषयविमोहिताः भवन्ति

विषयेषु न रक्ष्यन्ते तेषां दुःखमिव स्थितम् / त्रैधातुकमिदं सर्व भ्राम्यते रथचक्रवत् // dhs_7.147 //

गन्धर्वनगरसदृशाः कामाः भवन्ति

सत्त्वा अविद्यया मुग्धा नित्यं दुःखस्य भोगिनः / विद्युदालातचक्रेण समाः कामाः प्रकीर्तिताः / स्वप्ने गन्धर्वनगरसदृशा विप्रलम्भिनः // dhs_7.148 //

पञ्चस्कन्धमतिर्दुःखितस्तिष्ठति

अनित्यदुःखशून्येषु न कुर्यान्मतिमात्मवान् / पञ्चस्कन्धासुरैः प्रोक्तः शुभै रिक्तः स्वभावतः // dhs_7.149 //

अन्यथा विषवद् विज्ञः कामेषु च प्रसह्यते / स बुधः पारगः शान्तः सत्त्वानामनुकम्पकः // dhs_7.150 //

निर्वाणोन्मुख एव दोषाच्छान्तिमधिगच्छति हित्वा क्लेशमयं पाशं निर्वाणस्यान्तिके स्थितः // dhs_7.151 //

कामविभ्रान्तस्य शान्तिकथा वृथा

प्रभवेन्न च दोषेषु कामचर्यारतस्य च / विभ्रान्तमनसस्तस्य कुतः शान्तिर्भविष्यति? // dhs_7.152 //

विभ्रान्तं पश्यतु मनो विषयेषु प्रधावति / सद्धर्मपथविभ्रान्तो नरकेषूपपद्यते // dhs_7.153 //

अशक्तप्राप्तविभ्रष्टे किं कामैर्विद्युतोपमैः / किंपाकविषशस्त्राग्निसन्निभैर्दुःखहेतुभिः? // dhs_7.154 //

कामाग्निः विषयसेवनेन वर्धते

यथा यथा हि सेव्यन्ते वर्धन्ते ते तथा तथा / अवितृप्तिकरा ह्येते वह्निदाहस्य हेतवः // dhs_7.155 //

कामान् वर्जयित्वैव सुखमश्नुवते जनाः दाहदोषेण सम्भ्रान्ताः ये सुराः सुखकाङ्क्षिणः / वर्जयित्वाशिवान् कामास्ततः सौख्यं भविष्यति // dhs_7.156 //

कामाः विद्युद् गुणोपमाः चञ्चलाः

वञ्चयित्वा जनं मूढं शाटी कृत्येव बन्धनम् / प्रत्ययो नेत्रचपलः कामा विद्युद् गुणोपमाः // dhs_7.157 //

उपर्युपरि कामा यैः सेव्यन्ते कामतृष्णया / ते रागवह्निना दग्धा दाहाद् दाहमवाप्नुयात् // dhs_7.158 //

अतिमूढतमा ह्येते ये सुराः काममोहिताः / अथवा ये न गच्छन्ति यत्सुखात् सुखमुत्तमम् // dhs_7.159 //

निर्वाणगामिनो नास्ति विना मुक्त्या कुतः सुखम्? / तस्मात् कामान्न सेवेत कष्टः कामसमागमः // dhs_7.160 //

इन्द्रियाणि न तृप्यन्ते विषयै रागसेविनः / अतृप्तौ च कुतः शर्म सर्वथा सम्प्रवेशते // dhs_7.161 //

तस्याग्रमुभयाद् वेत्ति संसाराद् दुःखसागरात् / कामान् तृष्णाविषयगान् परित्यजति पापकान् // dhs_7.162 //

कामोदयव्ययौ सम्यगवधेयौ

एतानि गिरिकूटानि रम्याणि विविधैर्द्रुमैः / ध्यायन्ते तानि संश्रित्य कामानामुदयव्ययौ // dhs_7.163 //

शीलेन श्रद्धया च इष्टसाधनं कर्त्तव्यम्

न कामबन्धनेस्तृप्ताः कामजं निधनं हि तत् / न शीलश्रद्धे येनेष्टे लभ्यते ऽशिवकारणम् / कामजं निधनं ह्येतत् संसाराटविदेशकम् // dhs_7.164 //

पापानि परित्यज्य सुखावहः शान्तिमार्गः सेवनीयः

यत्र कामविसंयुक्तं बन्धनं वनमुच्यते / यत्र भासयते पापाद् यत्र शान्तिः सुखावहा / तत् केवलं महाज्ञानं कथ्यते निधनं धनम् // dhs_7.165 //

कामतृष्णाभ्यां विमुक्तः शिवमाप्नोति

ये प्रसक्ता न कामेषु तृष्णया न प्रलोभिताः / ते शिवं स्थानमापन्ना न कामाग्निप्रवेशकाः // dhs_7.166 //

अवितृप्ताः नराः नश्यन्त्येव

तृप्तिर्नास्ति सदा कामैर्न कामाः शान्तये स्मृताः / तृष्णासहायसंयुक्ता ज्वलन्ति ज्वलनोपमाः // dhs_7.167 //

अवितृप्ता विनश्यन्ति नरा देवास्तथोरगाः / ते केवलं प्रणष्टा हि नरकाग्नि प्रदर्शकाः // dhs_7.168 //

तृष्णामोहितस्य मृत्युरधिपतिः

वितर्कापहतस्यास्य विषयैर्वञ्चितस्य च / तृष्णया मोहितस्यैष मृत्यू राजा भविष्यति // dhs_7.169 //

कामासक्ताः पथ्यापथ्यं न विजानन्ति

संसक्तकामभोगेषु पथ्यापथ्यं न विद्यते / जना विमोहिताः सर्वैविषयैः कामसंज्ञकैः // dhs_7.170 //

कामवशानुगाः विषयैरेव बध्यन्ते

विषयैरेव कृष्यन्ते ये सुरा मूढचेतसः / ये (तु) बुद्धगुणैर्युक्ता न ते कामवशानुगाः // dhs_7.171 //

ऽधीरऽ परिभाषा

प्रत्युत्पन्नेषु कामेषु सदोषेषु विशेषतः / यो न मुह्यति सौख्येषु स ऽधीरऽ इति कथ्यते // dhs_7.172 //

कामपतितानां सुराणां स्थितिमाह

स्वप्नकायविचित्रेषु ज्वालामालोपमेषु च / गन्धर्वपुरतुल्येषु कामेषु पतिताः सुराः // dhs_7.173 //

तृष्णाजनकभूतेषु विनाशान्तकरेषु च / कान्तारेषु विशालेषु कामेषु पतिताः सुराः // dhs_7.174 //

इत्त्वरेषु त्रिछिद्रेषु नदीवेगोपमेषु च / चञ्चलेष्वतिदुर्गेषु (कामेषु) पतिताः सुराः // dhs_7.175 //

पवनोद्धृतवेगोर्मिजलचन्द्रे चलेषु च / अतातचक्रलोकेषु कामेषु पतिताः सुराः // dhs_7.176 //

समं विद्युल्लताचक्रमृगतृष्णोपमेषु च / फेनवच्चाप्यसारेषु कामेषु पतिताः सुराः // dhs_7.177 //

कदलीगर्भतुल्येषु गजकर्णोपमेषु च / नदीतरङ्गवेगेषु कामेषु पतिताः सुराः // dhs_7.178 //

किंपाकफलतुल्येषु वह्निसन्निभजातिषु / मायारश्मिनिभेष्वेषु कामेषु पतिताः सुराः // dhs_7.179 //

ज्ञानाङ्कुशेन कामो वर्जनीयः

ज्ञानाङ्कुशेन वार्यन्ते विषयास्तत्त्वदर्शिभिः / ये ऽमुक्ताश्चपलास्तीव्राः सर्वानर्थकरा मताः // dhs_7.180 //

विषया एव नरकपातहेतवः

विषयाशा च मूढानां सङ्कल्पहृतचेतसाम् / मृत्युपाशो ऽयमभ्येति जीविताशा(वि)बन्धकः // dhs_7.181 //

पचन्ति निरये कामाः प्राणिनं लघुचेतसम् / न च विन्दन्ति मूढा ये मोहेन परिवञ्चिताः // dhs_7.182 //

विषयाश्चपलाः सर्वे गन्धर्वनगरोपमाः / दुःखसंवर्तका ह्येते नरकाः पञ्चहेतवः // dhs_7.183 //

सङ्कल्पजो रागः नरकं पातयति

सङ्कल्पाज्जायते रागः रागात् क्रोधः प्रवर्तते / क्रोधाभिभूतः पुरुषो नरकानुपसेवते // dhs_7.184 //

कामपरित्यागपूर्वकं निर्वाणप्राप्तये यतेत

तस्मात् कामं परित्यज्य क्रोधं निर्वास्य पण्डितः / मोहं चापि परित्यज्य निर्वाणाभिमुखो भवेत् // dhs_7.185 //

निर्वाणपथिकानां कृते शत्रुवदेव कामः परिवर्जनीयः

शत्रुवद् विषया ज्ञेया निर्वाणं चैव मित्रवत् / पुमान् विश्रान्तविषयो निर्वाणमधिगच्छति // dhs_7.186 //

काममलैरलिप्त एव विमलप्रकाशमाप्नोति

अलोलुपः काममलैरलिप्तः प्रहीणदोषो हतवाणतृष्णः / संक्षीणदोषो विमलप्रकाशः प्रयाति शान्तिं स्वफलोपभोगी // dhs_7.187 //

सुखार्थी कामं परित्यज्यैव शान्तिमधिगच्छति यः कामपङ्कोद्धृतवानदोषः सर्वेषु सत्त्वेषु सदा सुखार्थी / स निर्मलो ऽशान्तमनोविमुक्तः प्राप्नोति निर्वाणसुखं प्रसह्य // dhs_7.188 //

इति कामजुगुप्सावर्गः सप्तमः /

(8) तृष्णावर्गः

तृष्णाग्निरेव नरकभूतः

भवोताराय तृष्णाग्निर्ज्वलनः शीत उच्यते / नरके नारके यो ऽग्निस्तृष्णाग्निस्त्रिषु धातुषु // dhs_8.1 //

कल्पभूतो ह्ययं वह्निः यो ऽयं नरकसम्भवः / बहुज्वालाकुलो वह्निः तृष्णाहेतुसमुद्भवः // dhs_8.2 //

कर्मक्षयाद् विमुच्यन्ते नरकात् पापकारिणः / त्रिषु धातुषु दह्यन्ते नरास्तृष्णावशानुगाः // dhs_8.3 //

अनादिमति संसारे तृष्णाग्निरतिबन्धकः / तृष्णाग्निर्नरकं तस्मान्नाग्निर्नरकसम्भवः // dhs_8.4 //

तृष्णाग्निः शरीरं मनश्च दहति

गात्रदाहं परं कुर्यान्नारकेयो हुताशनः / शारीरं मानसं दाहं तृष्णाग्निः कुरुते नृणाम् // dhs_8.5 //

तृष्णाग्निः सामान्याग्निना विशिष्यते

तस्माद् विशिष्यते वह्निः तृष्णाहेतुसमुद्भवः / नारकेयो ऽसमश्चैव तृष्णाग्निर्नितरां स्मृतः // dhs_8.6 //

अयमग्निः त्रिकालसम्भवः

त्रिस्थानगः त्रिहेतुश्च त्रिकर्मपरिदीपकः / त्रिकालसम्भवो ज्ञेयस्तृष्णाग्निपरकस्तथा // dhs_8.7 //

तृष्णाग्निः सदैव सर्वत्र दाहकः

रागाग्निर्दह्यते स्वर्गे द्वेषाग्निस्तिर्यगे तथा / मोहाग्निर्दह्यते पापे तृष्णाग्निः सर्वदा स्थितः // dhs_8.8 //

तृष्णाग्नेः स्वरूपनिरूपणम्

मानेर्ष्याधूमविशिखः सङ्कल्पे धनसम्भवः / लोभाग्निर्दहते लोकं नाग्निः कामसमुद्भवः // dhs_8.9 //

तृष्णाग्निर्विषयसेवनेनैव वर्धते लोभाशीविषदष्टा ये तेषां शर्म न विद्यते / सेवितो भावितो लोभो भूय एवाभिवर्धते // dhs_8.10 //

लोभसमो रिपुर्भुवि नास्ति

यथा यथेन्धनं प्राप्यानलो वर्धत्यनेकशः / शक्यः पालयितुं(वह्नि) र्लोभवह्निर्न(शक्यते) // dhs_8.11 //

चक्रवद् भ्रमते लोको लोभेन परिवञ्चितः / अनादिनिधने लोके नास्ति लोभसमो रिपुः // dhs_8.12 //

विशन्ति सागरजले लोभेन परिवञ्चिताः / शस्त्रसङ्घातगहनं युद्धं संप्रविशन्ति च // dhs_8.13 //

लोभहेतोर्हि भूपाला नाशयन्ति परस्परम् / शस्त्रासिभैरवप्रोता युद्धयन्ते धनतृष्णया // dhs_8.14 //

तृष्णाविषविनिर्मुक्ता लोभाङ्गारविवर्जिता / समलोष्टकाञ्चना ये निर्वाणस्यान्तिके हि ते // dhs_8.15 //

लोभाग्निः सर्वापेक्षया विषमः

अतीवानुपपन्नस्य धनलोभेन दह्यते / न वह्निर्विषमस्तत्र लोभाग्निर्यत्र वर्तते // dhs_8.16 //

लोभशान्तिं विना निर्वाणकथा वृथा

लोभाधारप्रयत्नेन हन्यात् तान् रभसा बुधः / अनिर्वापितलोभस्य निर्वाणं दूरतः स्थितम् // dhs_8.17 //

भवसुखपरित्यागी भवजं दुःखं नाप्नोति

भवाभिलाषिणीं नान्दीं नाभिनन्दन्ति ये नराः / न तेषां भवजं दुःखं स्वप्ने समुपविद्यते // dhs_8.18 //

तृष्णाबद्धान् जनान् मृत्युः शम्बूक इव कर्षति मत्स्यान् यथा जालबद्धान् शम्बूकः परिकर्षति / तृष्णाबद्धांस्तथा सत्त्वान्मृत्युः समुपकर्षति // dhs_8.19 //

तृष्णाविषं कुत्रापि न मुञ्चति

सविषैः सायकैर्विद्धो मृगो यत्र (प्र)धावति / तत्र तत्र विषं याति तथा तृष्णाविषं नृणाम् // dhs_8.20 //

प्रवाहप्रवहन्नद्या गतिर्गत्यऽनुधाविनी / यथा निर्दहते बालान् शुष्केन्धनमिवानलः // dhs_8.21 //

आपातरम्या(विषया) विपाकज्वलनोपमाः / तस्मात् तृष्णा विमोक्तव्या यदि सौख्यं हि रोचते // dhs_8.22 //

यथा हि वडिशग्रस्ता मीना मृत्युवशानुगाः / तथा प्रतप्ता विषयान् परिधावन्ति दुःखिताः // dhs_8.23 //

तृष्णाग्निः नरकादपि महान्

नरकं नारकेयं च तृष्णानिहितं महत् / पतन्ति निधना मर्त्याः परदारोपजीविनः // dhs_8.24 //

तृष्णाप्रेरितो मुनिरपि दुःखमनुभवति

न चेष्टितमनोपापतृष्णया प्रेरितो मुनिः / षडिन्द्रियसमुद्भूतो विषयेन्धनदाहकः // dhs_8.25 //

देवानपि तृष्णाग्निर्दहत्येव

तृष्णाग्निर्दहते देवं कायाग्निर्न कथञ्चन / सुखावृताः सुखरताः सुखे(न) परिवञ्चिताः // dhs_8.26 //

तृष्णापरिवञ्चितः पतनमपि नावगच्छति पतनं नावगच्छन्ति तृष्णया परिवञ्चिताः / ज्वालामालाकुलः सर्वः संसारस्तृष्णयावृतः // dhs_8.27 //

तृष्णाग्निना वशीभूता जना गच्छन्ति दुर्गतिम् / तृष्णाग्निभिः परिवृतः सुरलोकः समन्ततः // dhs_8.28 //

तृष्णाग्निः सदैव वर्धते

दह्यते विवशो रक्तः कामभोगवशीकृतः / यथा यथेन्धनं प्राप्य ज्वलनं संप्रवर्धते // dhs_8.29 //

तथा तथा सुखं प्राप्य तृष्णाग्निर्वर्धते नृणाम् / परिवर्तयते पुंसः काष्ठाग्निर्दाहदीपकः // dhs_8.30 //

तृष्णाग्निर्दहते लोकं परिहातुं न शक्यते / ये विशालां नदीं तीर्णा सङ्कल्पकृतभैरवीम् // dhs_8.31 //

तृष्णापाशशून्यः परमां शान्तिमाप्नोति

ते गताः परमां शान्तिं यान् हि तृष्णा न बाधते / तृष्णापाशविमुक्ता ये सङ्गदोषविवर्जिताः // dhs_8.32 //

निर्मुक्तपापकल्माषा वीतशोका हि ते बुधाः / कल्पकोटिसहस्राणि तृष्णया वञ्चिता नराः // dhs_8.33 //

तृष्णया वञ्चितो लोकस्तृष्णामेवोपास्ते

(न)ते त्यजन्ति(विषयान्) मायामोहवशंगताः / तृष्णया वञ्चितो लोकस्तृष्णामेवोपसेवते // dhs_8.34 //

लवणोदं तृषातोयं यथा पिबति नारिकः / न तेन (तुष्यति) जन्तुर्मुहुश्च परिशुष्यति // dhs_8.35 //

दुःखकरीं तृष्णां न सेवेत

विषयेष्वेव तृष्णार्तश्चेष्टते पुरुषो ऽधमः / तस्मात् तृष्णां न सेवेत सा हि तृष्णा दुरासदा // dhs_8.36 //

तृष्णावशो नैव प्रमुच्यते

तृष्णावशो हि पुरुषः संसारान्नैव मुच्यते / अनुत्तमानि सौख्यानि भुक्त्वा देवेषु जन्तवः // dhs_8.37 //

तृष्णापाशविकृष्टाः नरकं पतन्ति

तृष्णापाशविकृष्टास्ते पतन्ति नरकं पुनः / अस्वतन्त्रादिकल्याणं नित्यदुःखमयं कटु // dhs_8.38 //

तृष्णया कदापि तुष्टिर्न भवति

तृष्णायाः सेवनान्मुक्तः सन्मार्गमधिगच्छति / सतृष्णस्य कुतस्तुष्टिर्विषयेषु भविष्यति // dhs_8.39 //

सा तृप्तिर्या वितृष्णस्य वीतशोकस्य देहिनः / एवं वितर्कविहिताः प्रमादेन च वञ्चिताः // dhs_8.40 //

तृष्णया देवानपि नरकं यान्ति

तृष्णयाः तोषिता देवाः पतन्ति नरकं पुनः / विडम्बनेयं परमा यत्सुरा नरकं गताः // dhs_8.41 //

क्रीडकाः परमा भूत्वा कामस्य वशमागताः / न चोद्विजन्ति संसारान् प्राणिनश्चित्तमोहिताः // dhs_8.42 //

तृष्णया दुःखतरं पदमाप्नोति

दुःखाद् दुःखतरं यान्ति तृष्णया परिवञ्चिताः / यथा यथा सुखस्याप्तिर्वर्धते जालिनी तथा // dhs_8.43 //

जालिनीवह्निदग्धस्य नरकानुपकर्षति / सतृष्णस्य वितर्का ये तेषां संख्या न विद्यते // dhs_8.44 //

विषयगामिनः तृष्णया मृत्युमुखमेव प्रविशन्ति

अवितर्कवितर्कन्तु मृत्युराजो विकर्षति / वितर्ककामवशगास्तृष्णाविषयगामिनः // dhs_8.45 //

कामास्वादप्रमत्ताः विषयिणो दुःखिनस्तिष्ठन्ति

सुखस्य भोगिनं दृष्ट्वा न विद्वद्भिस्तथेष्यते / कामास्वादप्रमत्तानां प्राणिनां विषयार्थिनाम् // dhs_8.46 //

देहिनः तृष्णया दहयन्ते

जालिनी बाधते नित्यं यथा बध्नन्ति देहिनः / पञ्चालम्बनमेतत्तु तृष्णया नैव दहयते // dhs_8.47 //

तृष्णाविमुक्ता विमला भवन्ति

तृष्णाविमुक्तविमला न पापपुरगामिनः / सङ्कल्पदोषा कुटिला त्रिदोषरजसोद्भवाः // dhs_8.48 //

तृष्णया संसारसागरे परिवर्ते पतन्ति जनाः

प्रमादजलगम्भीराः स्त्रीरागकृतसेवनाः / गीततूर्यस्वराः शीघ्रं सुरापानाच्च चञ्चलाः // dhs_8.49 //

सञ्छन्नविषया सर्वे मनः क्षिप्ततरङ्गिणः / तृष्णानदीषु विषमे वहन्ति न च गोचरे // dhs_8.50 //

गाहन्ते ते च सम्मूढाः सुरा रागेण वञ्चिताः / त्रिदोषकाष्ठसंभूताः प्रमादानिलवेगतः // dhs_8.51 //

तृष्णानलः सुरगणान् दहते न च ते विदुः / न क्षणो नापि हि लवो न मुहूर्त कथञ्चन // dhs_8.52 //

या न तृष्णावशगतैः सुरैः समुपभुज्यते / तृष्णाभूमिरियं काष्ठा वितर्कजलसम्भृता // dhs_8.53 //

तृष्णासर्पदग्धः कालवशीकृतो भवति

यस्मिन् क्रीडन्ति विवशाः देवाः कामवशानुगाः / चित्तादिना प्रचण्डेन तृष्णाविषविसर्पिणा // dhs_8.54 //

दष्टानुपञ्चशीर्षेण किं वृथा विलपस्यथ / तृष्णानदी विशालेयं पञ्चतीर्थसमुद्भवा // dhs_8.55 //

तृष्णामोहेन्द्रजालेन विप्रकीर्णेन सर्वदा / तथा प्रपञ्चिता देवा यथा न शुभभागिनः // dhs_8.56 //

तृष्णाविषयघृतसिक्तो वर्धत एव

नेन्द्रियाणि सदा कामैस्तृप्यन्ति हि कथञ्चन / संवर्धते तथा तृष्णा घृतसिक्तो यथानलः // dhs_8.57 //

तृष्णया विविधासु योनिषु जनाः भ्रमन्ति

नानाविधैः सुखैरेषा जालिनी लोकनाशिनी / नरकप्रेततिर्यक्षु भ्रामयन्ती नरान् सदा // dhs_8.58 //

वीततृष्णः निर्मुक्तबन्धनः परमां गतिमाप्नोति

मृत्यूपपत्तिदोलायां श्लिष्यन्ते बालिशाः जनाः / सुशीलावीततृष्णाश्च गतास्ते परमां गतिम् // dhs_8.59 //

निर्मुक्तबन्धना धीरा गतशोका गतव्यथाः / सुखं प्राप्नुवन्ति नित्यं ये न तृष्णावशानुगाः / जन्मदुःखमयैः पाशैर्न ते विध्यन्ति सूरयः // dhs_8.60 //

तृष्णाविसृष्टिः ज्ञानाय प्रवर्तयति

येषां सर्वास्ववस्थासु ज्ञानेषु विहितं मनः / अनिमित्ते मनो येषां विसृष्टा ये च तृष्णया / ते वीतमलकान्ताराः पारं प्राप्ताः सुखोदयम् // dhs_8.61 //

तृष्णामोहप्रमत्ताः भवे भवे भ्रमन्ति

तृष्णामोहप्रमत्ता ये रतिसौख्यास्तथैव च / मोहितास्ते देवगणा भ्रमिष्यन्ति भवे भवे // dhs_8.62 //

अहर्निशं तृष्णा तापयति

कुट्टनव्यवहारा ये परिचित्तापहारिणः / अविद्याबहुला ये वा नित्यं दाहाभिकाङ्क्षिणः / न रात्रौ न दिवा तेषां हृदयं सुप्रसीदति // dhs_8.63 //

लोभाभिभूताः तुषाग्निकल्पा भवन्ति

लोभाभिभूतमनसां परिवित्ताभिकाङ्क्षिणाम् / तेषां तुषाग्निकल्पानां विश्वसेन्न स्वभावतः // dhs_8.64 //

विषयेन्धन सर्पाद् भयमेवोचितम्

बिभेति हि नरः सर्वः सर्पादिव विषेन्धनात् / लोभेन विषयेणैवाभिभूतास्ते नरा भृशम् // dhs_8.65 //

तृष्णावशगाः विविधां योनिं लभन्ते

ते मृता नरकं यान्ति प्रेतयोनिं तथैव च / तस्मादपि विनिर्मुक्ता नरकाद् वह्निसम्मुखात् // dhs_8.66 //

आकाङ्क्षिणः नित्यं दुःखभागिनो भवन्ति

पञ्चजन्मशतान्येते भवन्ति परिकाङ्क्षिणः / विवर्णा दीनवदना नित्यं दुःखस्य भागिनः / भवन्ति मनुजाः सर्वे लोभोपहतचेतसः // dhs_8.67 //

विवेकसम्पन्नाः परमां गतिं लभन्ते

प्रहीणलोभा ये सन्ति नित्यं ज्ञानाभिकाङ्क्षिणः / बुद्धिमन्तः सदा सन्तः ते गताः परमां गतिम् / निर्वाणहृदया वीतलोभमोहाः सदा नराः // dhs_8.68 //

लोभाकृष्टस्य विनिपातः

लोभाशीविषदष्टस्य विनिपातो ध्रुवं स्थितः / क्रियमाणो ध्रुवं लोको वर्धते स मुहुर्मुहुः // dhs_8.69 //

शुष्केन्धनं समादाय यथा वह्निः प्रवर्धते / धनतृष्णारताः सत्त्वाः धनोपार्जनतत्पराः // dhs_8.70 //

मृत्युकाले समुत्पन्ने त्यजन्ति विवशा धनम् / यच्च तत्सम्भवं योगात् तत् सर्व न विनश्यति // dhs_8.71 //

लोभात्मा घोरं नरकं याति

तेन वित्तेन लोभात्मा नीयते नरकं भृशम् / अन्यैस्तद्भुज्यते वित्तं स तु पापेन लिप्यते // dhs_8.72 //

प्रयान्ति नरकं घोरं पश्चात्तापेन दह्यते / अनर्थो ह्यर्थरूपेण सुखरूपेण वा सुखम् // dhs_8.73 //

लोभत्यागं प्राज्ञः कुर्यात्

अमित्रं मित्ररूपेण लोभो ऽयं हृदि वर्तते / न लोभं संश्रयेत् प्राज्ञो लोभाग्निर्दह्यते सदा // dhs_8.74 //

लोभदग्धाः नरकगामिनो भवन्ति

तेन दग्धा भृशं सत्त्वाः पश्चान्नरकगामिनः / लोकसाधारणा ह्येते विभवाः सुखवर्जिताः // dhs_8.75 //

तृष्णाभयविमुक्तिरेव श्रेयस्करी

तेषामर्थे कथं पाप क्रियते मन्दबुद्धिभिः / तृष्णाभयविमुक्तस्य निराशस्य हि सर्वतः // dhs_8.76 //

वीतकाङ्क्षस्य धीरस्य नित्यं पदमवस्थितम् / सम्पत्तौ धाबते लोको विपत्तौ नावबुध्यते // dhs_8.77 //

सम्पत्तिः क्षयान्ता

विपदन्ता हि सम्पत्तिः क्षयान्तं दिवसं यथा / यथा तिष्ठति सम्पत्तिः विपत्तिः पापिका तथा // dhs_8.78 //

कामभोगैर्देवा अपि नरकं यान्ति

अवितृप्तस्य कामेभ्यस्तृष्णया परिदह्यते / यस्येष्टाः सम्पदो नित्यं सुखं चाभिमतं सदा // dhs_8.79 //

जनि नाशयते तासां तृष्णा नष्टा सुखावहा / ते देवा नरकं यान्ति कामभोगैस्तथार्पिताः // dhs_8.80 //

अनलाचेष्टितं सर्व तद् वदन्ति तथागताः / मनुष्या यच्च नरकं प्रया(न्ति) शतशस्तथा // dhs_8.81 //

विमुग्धाः यति जीवनं नावगच्छन्ति

चेष्टितं तद् विशालायाः योषिकाया विदुर्बुधाः / विमोहिता न विन्दन्ति त्वरितं स्वल्पजीवितम् // dhs_8.82 //

तृष्णया सुकृतानि विनश्यन्ति

सुकृतानि च नश्यन्ति तृष्णा नैव विनश्यति / भवे भवे गता सत्वाः न विन्दन्ति शुभाशुभम् // dhs_8.83 //

शुभस्य फलमेवेष्टं यत् सुराः परिभुञ्जते / अशुभस्य तथा दृष्टमसुखं विनिपातजम् // dhs_8.84 //

शुभाशुभप्रहीणा एव जरामरणरहिता भवन्ति

शुभाशुभप्रहीणा ये सङ्गदोषविवर्जिताः / ते गताः परमं स्थानं जरामरणवर्जितम् // dhs_8.85 //

तृष्णानदीपरिक्षिप्तः जनः किमपि नावगच्छति

पञ्चारं भवचक्रं तत् तृष्णानाभिपुरःसरम् / नदीरागपरिक्षिप्तं न च लोको ऽवबुध्यते // dhs_8.86 //

दोषावर्ततरा ज्ञेया सङ्कल्पमकराकुलाः / तृष्णानदी विशालेयं न च लोको ऽवबुध्यते // dhs_8.87 //

तृष्णा त्रिषु कालेषु वञ्चिका

त्रिकाले वञ्चनी तृष्णा नित्यमज्ञानकारिणी / न तस्यां विश्वसेद् धीमान् संसारबन्धना हि सा // dhs_8.88 //

तृष्णा लोकबन्धनभूता

मित्रवद् दृश्यते काले शत्रुवच्च निकृन्तति / न तस्यां विश्वसेत् प्राज्ञः सा हि लोकस्य बन्धनम् // dhs_8.89 //

शक्यं हि बन्धनं छेत्तुमायसं दारुवत्तथा / न तृष्णाबन्धनं छेत्तुं नित्यं कामगवेषिभिः // dhs_8.90 //

यस्येष्टो बन्धभेदो ऽयं यस्येष्टं सुखमव्ययम् / स तृष्णया विमुक्तः (स्यात्)प्रज्ञाशो (धनकृद्) भवेत् // dhs_8.91 //

ज्ञानेन तृष्णावृक्षस्य छेदनं कर्त्तव्यम्

ज्ञानालोकः सुखालोको दुःखं तृष्णातमःस्मृतम् / तस्मादालोकमास्थाय तमो नुदति पण्डितः // dhs_8.92 //

ज्ञानखड्गेन तीक्ष्णेन तृष्णावृक्षं निकृन्तति / निकृत्तवृक्षः (स) नरः सुखं प्राप्नोत्यनुत्तमम् // dhs_8.93 //

दोषेण बहुला ह्येषा नदी प्रस्रवणाकुला / दोषा नेतानहित्वा (न) भवान्मुञ्चति पण्डितः // dhs_8.94 //

प्रज्ञानावमाश्रित्य तृष्णानद्याः पारं गच्छति

तृष्णानदीं त्रिपथगां प्रमादावर्तदुस्तराम् / प्रज्ञानावं समाश्रित्य पारं गच्छन्त्यनामयम् // dhs_8.95 //

महेच्छतामहच्छत्रं येन चायान्ति बालिशाः / तस्मान्महेच्छता बध्या त्वयेयं ज्ञानचक्षुषा // dhs_8.96 //

महेच्छैव हृदयव्रणभूता

महेच्छताव्रणस्तीव्रो हृदये यस्य जायते / न रात्रौ न दिवा तस्य सुखं भवति लोभिनः // dhs_8.97 //

सङ्कल्पे तु न सम्भूतः तृष्णावायुसमीरितः / महेच्छतामयो वह्निर्दहते हृदयं नृणाम् // dhs_8.98 //

लोभेनात्मनो ऽहितं कुर्वन्ति जनाः

लोभेनावेष्टितमनाः पुरुषो लघुचेतसा / जीवितान्यपि साराणि जहाति धनतृष्णया // dhs_8.99 //

पापानि हि च कर्माणि कुर्वन्ति पुरुषाः क्षितौ / धनलाभेन तत् सर्व प्रवदन्ति मनीषिणः // dhs_8.100 //

ये साहसं न कुर्वन्ति विशन्ति ज्वलनं च यत् / तत् सर्व लोभदोषेण कुर्वन्त्यहितमात्मनः // dhs_8.101 //

शस्त्रानिलानि दुःखानि विविधानि च (सर्वतः) / विशन्ति (वै) नरा मूढा लोभस्तत्र हि कारणम् // dhs_8.102 //

हृदयस्थो मनोवह्निर्नित्यं बह्विच्छतां नृणाम् / अल्पेच्छतया (हि) हृच्छान्तिर्भवतिलाभिनः // dhs_8.103 //

यथाग्निरिन्धनेनैव प्रशान्तिमधिगच्छति / तथा वह्विच्छतां नृणां धनैर्वृद्धिः प्रजायते // dhs_8.104 //

अल्पेच्छतैव सुखम्

भूपाला (हि) धनैस्तृप्ताः कोटिशो निधनं गताः / यास्यन्ति चान्ये निधनं तस्मादल्पेच्छता सुखम् // dhs_8.105 //

तृष्णाविहीन एव सुखमाप्नोति

दुःखं वह्विच्छता नृणां लक्षणं सुखदुःखयोः / (हेया सर्वप्रयत्नेन) इदमुक्तं परीक्षकैः / एष पन्थाः शिवः श्रेष्ठो येन तृष्णा वशीकृता // dhs_8.106 //

// इति तृष्णावर्गो ऽष्टमः //

(9) स्त्रीजुगुप्सावर्गः

स्त्रिय एवानर्थमूलम्

स्त्रियो मूलं (हि) पापस्य धननाशस्य सर्वथा / स्वहिते ये न निरताः कुतस्तेषां भवेत् सुखम् // dhs_9.1 //

अनर्थकर्मरतयः शाठ्येर्ष्याबहुलास्त्रियः / लोकद्वयविनाशाय पुरुषाणामवस्थिताः // dhs_9.2 //

नित्यं सरागकुशला नित्यं तद्वचनाः पराः / अन्यच्च हृदये तासां कथयन्त्यन्यदेव वा // dhs_9.3 //

आपातमधुराः सूक्ष्माः विपाके वज्रचेतसः / नोपकारेण सत्कारं स्मरन्ति लघुचेतसः // dhs_9.4 //

स्त्रियो विद्युत्स्वभावहृदया अतिचञ्चलाः

नाशयित्वा प्रियशतं स्मरन्त्येकं हि विप्रियम् / विद्युत्स्वभावहृदयाः स्त्रियः पापस्य भूमयः // dhs_9.5 //

स्त्रीणां नाशसाधकत्वप्रदर्शनम्

स्त्रीहेतुनाशमिच्छन्ति पुरुषा वक्रचेतसः / स्त्रीविनाशो विनाशो द्रागिह लोके परत्र च // dhs_9.6 //

स्त्रीदर्शनमेवाग्निवद्दहति

एवं तु सर्वविषयाः स्त्रीदर्शनमिहैकजम् / अभिभूय सर्वविषयान् नार्यग्निज्वलनं महत् // dhs_9.7 //

स्त्रीदोषप्रदर्शनपूर्वकं नारीजुगुप्सासमीक्षणम्

संश्लेषादपि विश्लेषः स्मरणात् कथनादपि / स्त्रीणां दाहसमुत्थो ऽयं वह्निरन्तर्जहासकः // dhs_9.8 //

रागेण सह जायन्ते नित्यं वै दारुणाः स्त्रियः / दानेन सह जायन्ते यथा लोके हुताशनाः // dhs_9.9 //

न भवेत् तादृशो दाहो यो ऽयं वह्निसमुद्भवः / यादृशः स्त्रीमदो ह्यस्ति देहिनां हृदयोद्भवः // dhs_9.10 //

सर्वलोकविनाशाय सर्वधर्मक्षयाय च / हेतवो नरकस्यैताः स्त्रियः प्रोक्ता महर्षिभिः // dhs_9.11 //

मुखतो मधुरामर्षा हृदयेन विषोपमाः / अनवस्थितसौहार्दा नासां कश्चित् प्रियो नरः // dhs_9.12 //

मुहूर्तेन प्रियस्तासां मुहूर्तेन तथाप्रियः / अनवस्थितसौहार्दाश्चञ्चला क्षणिकोपमाः // dhs_9.13 //

वञ्चनाहेतुकुशला नित्यं कार्यपरायणाः / नित्यं संयोगमनसो नित्यं मानपरायणाः // dhs_9.14 //

देवानां च मनुष्याणां पिशाचोरगराक्षसाः / न बन्धभूता यादृश्यः स्त्रियः कालविषोपमाः // dhs_9.15 //

नोपकारं स्मरन्त्येता न कुशलं नापि विक्रमम् / अनवस्थितचित्ताश्च वायुवेगसमाः स्त्रियः // dhs_9.16 //

भवन्ति सम्पदो यत्र रक्ष्यन्ते यत्र योषितः / व्यसनेषु विरक्तास्तु त्यजन्ति पुरुषं ध्रुवम् // dhs_9.17 //

यं यं गच्छन्ति पुरुषं रक्ष्यन्ते तत्र योषितः / शीघ्रं शीघ्रं नरं ह्येतास्त्यजन्ति पुरुषं स्थितम् // dhs_9.18 //

यथा हि भ्रमरी पुष्पं शुष्कं त्यजति सर्वदा / तथा वित्तेन रहितं पुरुषं त्यजति प्रिया // dhs_9.19 //

निस्त्रिंशहृदयाः क्रूराश्चञ्चलास्तमसावृताः / स्त्रियः पुरुषनाशाय जाताः केनापि हेतुना // dhs_9.20 //

देवानां बन्धनं नाम यथा स्त्रीबन्धनं मतम् / स्त्रीबन्धननिबद्धास्तु पतन्ति नरकं पुनः // dhs_9.21 //

एतदग्रं हि रागाणां यो रागः स्त्रीसमुद्भवः / स्त्रीरागदग्धमनसं पश्चाद् दहति पावकः // dhs_9.22 //

प्रत्यक्षाण्यपि कर्माणि रागैश्चापहतः पुमान् / न वेत्ति मूढहृदयः स्त्रीरागेण विमोहितः // dhs_9.23 //

विश्वास्य विषये पुरुषं बद् ध्वा प्रियमनेकशः / त्यजन्ति वित्तनाशेन त्वचं यद्वद्भुजङ्गमाः // dhs_9.24 //

सर्वोपायभृता नार्यः सर्वशः परिपालिताः / न शक्याः स्ववशीकर्त्तुं स्त्रियः परमदारुणाः // dhs_9.25 //

आसां सर्वस्वभावानां नारीणां चलचेतसाम् / न यायाज्जातु विश्वासं पुमान् धीरेण चेतसा // dhs_9.26 //

स्त्रीविधेयास्तु ये मर्त्या नित्यं कामगवेषिणः / पश्चिमदर्शनं तेषां सुरलोके भविष्यति // dhs_9.27 //

पञ्चाङ्गिकेन तूर्येण विप्रलुब्धाः समन्ततः / विन्दन्ति व्यसने दुःखं यदवश्यं भविष्यति // dhs_9.28 //

इमास्ताश्चञ्चला नार्यो यासां रागः कृतस्त्वया / ता भवन्तं परित्यज्य पुनरन्यं ततो गताः // dhs_9.29 //

द्विधा हि प्रकृतिर्यासां (योषितां) सहचारिणी / भूयो ऽभियन्ति पुरुषं व्यसनेषु त्यजन्ति च // dhs_9.30 //

मृगवन्मोहयन्त्येताः पुरुषं रागमोहितम् / पश्चात् (तु) व्यसने प्राप्ते त्यजन्ति लघुचेतसः // dhs_9.31 //

नोपकारं न सत्कारं न प्रियाणि न सन्ततिम् / स्मरन्ति योषितस्तीव्रा व्यसने समुपस्थिते // dhs_9.32 //

म्लानं पुष्पं यथा त्यक्त्वा भ्रमरो ऽन्यत्र धावति / तथा हि व्यसने प्राप्ते त्यजन्ति खलु योषितः // dhs_9.33 //

अनपेक्षितसौहार्दाश्चञ्चलाश्च रणप्रियाः / भवन्ति योषितः सर्वा विषमिश्रं यथा मधु // dhs_9.34 //

मोहयन्ति नरान् कामैर्वाक्यैश्चापि विशेषतः / न तेषां विश्वसेद्धीमान् पुरुषो धीरमानसः // dhs_9.35 //

आभिर्विमोहिताः किं वा रंजिताः पुरुषाः स्वतः / न कुर्वन्ति हितं वाक्यं यथा मुष्णिकगामिकम् // dhs_9.36 //

देवासुरनरान् यक्षान् पिशाचोरगराक्षसान् / इन्द्रजालमया नार्यो वञ्चयन्ति विशेषतः // dhs_9.37 //

एतदग्रञ्च पाशानां यदिदं स्त्रीमयं दृढम् / अनेन बद्धाः पुरुषा भ्रमन्ति भवचारके // dhs_9.38 //

न कश्चित् पाशपाशो ऽयं हृत्पाशो योषितः परम् / हृत्पाशबन्धनैर्बद्धाः पुरुषा दुःखमोहिताः // dhs_9.39 //

दहयते छिद्यते पाशस्स्त्रीमयस्तु न दहयते / नरकप्रेततिर्यक्षु गच्छन्तमनुगच्छति // dhs_9.40 //

मूर्तिमान् बध्यते कायः पाशेन महता तथा / अमूर्तिगं चित्तमिदं स्त्रीपाशेन तु बध्यते // dhs_9.41 //

(न) दृश्यते पाशमन्यं येन बध्नन्ति योषितः / अभिज्ञेयमप्रमाणं स्त्रीमयं बन्धनं महत् // dhs_9.42 //

अनेनापातरम्येण (दुःख) मोक्षेण सर्वदा / पाशेन बद्धाः पुरुषा न मुच्यन्ते भवार्णवात् // dhs_9.43 //

षडिन्द्रियाणि बध्नाति पाशो यः स्त्रीमयो महान् / पाशस्तु कायमेवैकं कश्चित् बध्नाति वा न वा // dhs_9.44 //

बन्धनं न दृढं हीदं मोक्षवार्य षडायसम् / संरक्तचित्तभोगे हि मन्दबुद्धेर्नरस्य च // dhs_9.45 //

स्नायुयन्त्रेण बद्धासु विस्तृतकर्मभूमिषु / तीक्ष्णरक्तासिना युक्तो मरणार्थमिहागतः // dhs_9.46 //

स्त्रीणां दौर्गुण्यम्

वञ्चनाच्छलकूटासु रभसा नु विशेषतः / चञ्चलो भ्रान्तचित्तासु भ्रान्तस्त्वङ्गक्षणारिषु // dhs_9.47 //

विभ्रान्तो भ्रान्तकथितैर्भूषणानां तथा स्वनैः / हरन्ति पुरुषं क्षिप्रं वञ्चनाकुशलाः स्त्रियः // dhs_9.48 //

नानाविधेषु पुष्पेषु यथा चरति षट् पदः / नानाविधेषु मर्त्येषु तथेमाश्चञ्चलाः स्त्रियः // dhs_9.49 //

यथा मधुरिका पीत्वा पुष्पमन्यत्र गच्छति / तथा पुरुषमापीयः प्रयान्ति रभसं स्त्रियः // dhs_9.50 //

अर्थादानेषु कुशलाः क्रुद्धा नित्यं दुरासदाः / वञ्चयित्वा नरं शीघ्रमन्यत्र संप्रयान्ति ताः // dhs_9.51 //

साध्यमायाप्रहरणाः कालकूटविषोपमाः / स्त्रियः पुरुषघातिन्यश्चातुर्येषु व्यवस्थिताः // dhs_9.52 //

वाय्वाकाशानला यद्वन् न शक्ता ग्रथितुं नरैः / तथोपायशतैर्नार्यो (न) शक्ता रक्षितुं नरैः // dhs_9.53 //

अनर्थव्याधिमृत्यूनां दुष्कृतानाञ्च कर्मणाम् / हेतुभूताः परं नार्यो मोक्षचर्याबधस्य च // dhs_9.54 //

यदनेकप्रकारेषु शठेषु पापकर्मसु / (पतन्ति) मनुजा लोके तत्र हेतुः परस्त्रियः // dhs_9.55 //

न बालयौवनेनैव वार्धक्येनैव शाम्यति / चापल्यं सहजं स्त्रीणां भास्करस्य यथा प्रभा // dhs_9.56 //

अनित्यं सौहृदं तासां दीप्तानामर्चिषां कणैः / वैरञ्च शाश्वतं तासामश्मनां च यथा व्रणैः // dhs_9.57 //

धनहीने विरज्यन्ते धनयुक्ता भवन्ति च / यावदर्थ स्त्रियस्तावदर्थहीने कुतः स्त्रियः? // dhs_9.58 //

न सेवाभिश्चदानेन नोपकारैः पृथग्विधैः / स्वीकर्त्तुं न स्त्रियः शक्याः ज्वलनोपमचेतसः // dhs_9.59 //

यथा नरो ऽनुकूलश्च छन्दकर्त्ता यथा यथा / तथा तथा स्त्रियस्तस्य वञ्चनाकुशलाः परम् // dhs_9.60 //

पुष्पच्छत्रो यथा सर्पो भस्मच्छत्रो यथा नलः / रूपच्छन्नं तथा चित्तमासां भवति योषिताम् // dhs_9.61 //

विषवृक्षे यथा पुष्पं दृष्टिरम्यं न शान्तये / विषवृक्ष (समा) नार्यः परिवर्ज्याः समन्ततः // dhs_9.62 //

नारीणां दर्शनाकांक्षी विषयेसु च तत्परः / नरो न सुखभोगाय (हय) स्मिल्लोके न चापरे // dhs_9.63 //

नाग्निना न च शस्त्रेण न बलेन न जन्तुभिः / स्त्रीमयं बन्धनं हेतुः शक्यते न दुरासदम् // dhs_9.64 //

दोषजालमिदं (सूत्रं)स्त्रीमयं चरते भुवि / यस्त्रीविवर्जितो धीमान् अस्मिल्लोके महीयते // dhs_9.65 //

यथा भूतैर्मनुष्याणां स्वकर्मोत्थापने न च / तथा स्त्रियो हि रक्षन्ति विषमार्थ त्यजन्ति च // dhs_9.66 //

गतार्थविभवं भूयो वर्जितं स्वेन कर्मणा / देवं समीक्ष्य चपलाः स्त्रियो नैव प्रभाविकाः // dhs_9.67 //

स्त्रीसुखं क्षणभङ्गुरम्

क्षणभङ्गमिदं सौख्यमधिगतमवस्थितम् / चत्वार्येतानि दुःखानि सेवितानि नृभिः सदा // dhs_9.68 //

स्त्री विषाग्निसदृशा

तस्मात् तानि विवर्ज्यानि विषाग्निसदृशानि हि / यः कश्चिच्चपलो जन्तुर्यश्च दोषोद्भवः सदा // dhs_9.69 //

तस्मात् परिसमाविष्टाः स्त्रियः कारणवत्सलाः / न सूर्यस्तमसो हेतुर्नाग्निः शीतस्य कारणम् // dhs_9.70 //

न स्त्रीणां सौहृदं चित्ते स्वल्पमप्यवतिष्ठते / यथा स्थिरा भूमिरियं यथा वायुः सदा चलः // dhs_9.71 //

स्त्रियः दोषमेव स्मरन्ति

तथा स्त्रीणां कृतं नास्ति दोषमय्यः सदा स्मृताः / चिरप्रयत्नाः पुरुषैः लोभिता बहुशः स्त्रियः // dhs_9.72 //

त्यजन्ति व्यसने प्राप्ते शुष्कं सर इवाशुगाः / नोर्ध्वगाः सरितो दृष्टा नाश्मनो गतिरिष्यते // dhs_9.73 //

गिरीणां गमनं नास्ति स्त्रीणां नैवास्ति सौहृदम् / वपुकर्ति सदा नृणां धर्मार्थयशसां तथा // dhs_9.74 //

योनिश्चानर्थजालस्य दोषाणामुद्भवस्य च / भवेद् वज्रमयी मृद्वी त्यजेद् (रात्रौ यथा) रविम् // dhs_9.75 //

न स्त्री त्यजेदसाध्यानि जन्मापेक्षा विशेषतः / नोपचारक्रिया दानप्रियवाक्यापलापनैः // dhs_9.76 //

स्वीकर्तुं न स्त्रियः शक्या ज्वलनोपमचेतसः / सुखेषु समतां यान्ति व्यसनेषु त्यजन्ति च // dhs_9.77 //

उपकारांश्च विस्मृत्य दोषमेकं स्मरन्ति ताः / वनोपवनशैलेषु भुक्त्वा सुखमनेकशः // dhs_9.78 //

स्त्री लोकस्य बन्धनम्

संप्राप्ते व्यसने तीव्रे स्त्रिय परिभवन्ति हि / लोकस्य बन्धनं नार्यो वञ्चनाकृतिवर्धिकाः // dhs_9.79 //

अधमाः विनिपातानां दोषाणां चास्पदं (बहु) / सर्वलोकविनाशाय वशीकुर्वन्ति तृष्णया // dhs_9.80 //

यथा स्त्रीबन्धनमिदं दुर्विषह्यं कृतं महत् / यदिदं बन्धनं लोके कामरागमयं महत् // dhs_9.81 //

स्त्रीवर्जनमेव श्रेयष्करम्

तथा चान्यप्रयत्नेन विचार्य उपलभ्यते / वशीकुर्वन्ति ता (नार्यः) कामवाणैरनेकशः // dhs_9.82 //

स्वल्पैः पराजितं कृत्वा कामस्य वशगाः स्त्रियः / रागेर्ष्याशाठ्यभूमीनां विद्युच्चञ्चलचेतसाम् // dhs_9.83 //

लोभाहङ्कारयोनीनां न विश्वास्याः कथञ्चन / शस्त्राग्निसदृशास्तीक्ष्णाः कामपाशपरात्मनः // dhs_9.84 //

स्वभ्रप्रपातविषमं गंभीरसमचेतसाम् / पराभिद्रोहमायेन्द्रजालतद्गतमानसान् // dhs_9.85 //

अकालमृत्युवज्राग्निकालकूटसमात्मनाम् / अनेकदोषसम्भारनन्दितानामनेकशः // dhs_9.86 //

यदि शीललवः कश्चित् स्त्रीणां मनसि वर्तते / चिरेण दहते वह्निः स स्पृष्टाः पवनेरितः // dhs_9.87 //

स्त्रीदर्शनसमुच्छ्रेयमात्रं दहति पावकः / तस्मात् स्त्रियो विवर्ज्याः स्युः यदिच्छेत् सुखमुत्तमम् // dhs_9.88 //

एतत् सर्व परं लोके नारीणां वर्जनं सदा / यदृच्छाजालिनीहेतुं यः इच्छेद् भूतिमात्मनः // dhs_9.89 //

य इच्छति निवृत्तिं तु स नरः स्त्रीं विवर्जयेत् / सुखासक्तस्तथार्थो (च) कुसीदश्चञ्चलः शठः // dhs_9.90 //

पापसेवी सुमृष्टाशी नरो भद्रं न पश्यति / उद्युक्तो वीर्यवान् धीरो धार्मिकः स्त्रीं विवर्जयेत् / दक्षो हेतुफलश्रद्धो नरः कल्याणवान् भवेत् // dhs_9.91 //

// इति स्त्रीजुगुप्सावर्गो नवमः //

(10) मद्यजुगुप्सावर्गः

मद्यपानवर्णनसाधनप्रदर्शनम्

मद्यपानं न सेवेत मद्यं हि विषमुत्तमम् / नश्यन्ति कुशला धर्मा मद्यपाननिषेवणात् // dhs_10.1 //

यः सेवते सदा मद्यं तस्य बुद्धिरसंस्थिता / बलबुद्धी न धर्मो ऽस्ति तस्मान्मद्यं विवर्जयेत् // dhs_10.2 //

नाशानामुत्तमं नाशं मद्यमुक्तं मनीषिभिः / तस्मान्मद्यं न सेवेत (मद्यं) नाशयते नरम् // dhs_10.3 //

अनिष्टाः पापका धर्मा मद्यपाननिषेवणात् / भवन्ति तस्माद् विषवन्मद्यपानं विवर्जयेत् // dhs_10.4 //

धनक्षयं पापकरं कौसीद्यकरमुत्तमम् / मद्यपानस्थिता दोषाः तस्मात् तत् परिवर्जयेत् // dhs_10.5 //

रागस्योद्दीपनं मद्यं क्रोधस्यापि तथैव च / मोहस्योद्दीपकं भूयस्तस्मान्मद्यं विवर्जयेत् // dhs_10.6 //

मद्यमूलमनर्थस्य हासस्य नरकस्य च / सर्वेन्द्रियविनाशानां हेतुभूतं ह्यनर्थकम् // dhs_10.7 //

अतिहर्षाभिधानस्य शोकस्य च भयस्य च / वाग्दोषस्यातिदम्यस्य पारुष्यस्यास्पदं हि तत् // dhs_10.8 //

मद्येनाक्षिप्तमनसः पुरुषाः पशुभिः समाः / कार्याकार्य न विन्दन्ति तस्मान्मद्यं विवर्जयेत् // dhs_10.9 //

मद्यक्षिप्तो हि पुरुषो जीवन्नपि मृतो मतः / य इच्छेज्जीवितं सौख्यं स मद्यं वर्जयेत् सदा // dhs_10.10 //

मद्यं सर्वदोषास्पदम्

सर्वदोषास्पदं मद्यं सर्वानर्थकरं सदा / सर्वपापेषु सोपानं तमसामालयो महान् // dhs_10.11 //

मद्येन प्रेतलोके नरके वा पतनम्

मद्येन नरकं यान्ति प्रेतलोकं तथैव च / तिर्यक्षु यान्ति पुरुषा मद्यदोषेण वञ्चिताः // dhs_10.12 //

विषादपि विषं मद्यं नरकान्नरकं तथा / व्याधीनां च परं व्याधिर्मद्यमुक्तं मनीषिभिः // dhs_10.13 //

मद्येन हानिप्रदर्शनम्

बुद्धीन्द्रियविनाशाय धर्मरत्नं क्षयाय च / यो ऽतिरेकपरं मद्यं ब्रह्मचर्यबधाय च // dhs_10.14 //

मद्येन लघुतां यान्ति पार्थिवा शास्त्रचक्षुषः / किं पुनः प्राकृता मर्त्या मद्यपानविलम्बिताः // dhs_10.15 //

मद्यस्य विनाशकरत्वम्

कुठारः सर्वधर्माणां ह्रीविनाशकरं परम् / मद्यं निषेवितं मर्त्यैर्विनाशायोपकल्प्यते // dhs_10.16 //

मद्येन ज्ञानाज्ञानविवेकशून्यप्रदर्शनम्

न ज्ञानं नापि विज्ञानं न कार्याणि न च क्रियाम् / जानीते पुरुषः सर्व मद्येन हृतचेतसा // dhs_10.17 //

मद्यसेवनस्य परितापसाधनम्

अकस्मात् तप्यते जन्तुरकस्मात् परितप्यते / भवत्यकस्मात् पापी (च) यो मद्यमनुसेवते // dhs_10.18 //

मद्यस्य बुद्धिसम्मोहजनकत्वम्

बुद्धिसम्मोहजनकं लोकद्वयविनाशकम् / वह्निश्च मोक्षधर्माणां मद्यमेकं व्यवस्थितम् // dhs_10.19 //

मद्यस्य किम्पाकत्वम्

अभ्यासे मधुरं मद्यं विपाके परमं कटु / किम्पाकादपि किम्पाकं मद्यमुक्तं परीक्षकैः // dhs_10.20 //

नरकस्य साधनं मद्यम्

न मद्ये विश्वसेद्धीमान् नरं वक्ष्यति मामिति / शीतस्पर्श विपाकोष्णं मद्यं नरकगामिकम् // dhs_10.21 //

सम्पत्तौ व्यसनं मद्यं देवानां तु विशेषतः / यथा यथा सुखा प्रीतिस्तन्नाशे व्यसनं तथा // dhs_10.22 //

मद्यपानमदोन्मत्ताः सत्त्वा मोहवशानुगाः / साक्ष्यमोहमयं पानं पिबन्ति रसतृष्णया // dhs_10.23 //

मद्यं मोहमयं पान पीत्वा कालेन चोदिताः / नाकात् प्रत्यक्षनरकं तस्मात् मद्यं न संस्पृशेत् // dhs_10.24 //

दर्शनात्पानाच्च मद्यपानं मोहजनकम्

दर्शनात् स्पर्शनात् पानात मद्यं मोहयते नरम् / तस्मात् स मद्यपानं च दूरतः परिवर्जयेत् // dhs_10.25 //

दर्शनाज्जायते लोभः स्पर्शनाद् गन्धसम्भवः / गन्धाद् रसाभिलाषश्च रसनादधमा मतिः // dhs_10.26 //

मनीषिणः मद्यसेवनात्पतन्ति

नैकसर्वाधमं न्यासं कथयन्ति मनीषिणः / नामरूपनिषेधाय यथा मद्यं निषेवितम् // dhs_10.27 //

मद्यपानफलसूचनम्

वाग्भ्रामयति मस्तिष्कं चक्षुषीध्वनिरेव च / सम्भ्रान्तिविमतिर्मूढो न किञ्चित् प्रतिपद्यते // dhs_10.28 //

स्त्रियो ऽपि मद्यपायिनमुपहसन्ति

स्त्रियो ऽप्युपहसन्तीमं पुरुषं पतितं भुवि / निश्चेष्टं काष्ठसदृशं निश्चलं पतितं भुवि // dhs_10.29 //

मद्यपानं मरणादपि निकृष्टतरम्

सम्भावितस्य मरणं मद्यपानं प्रकीर्त्यते / हालाहलादभ्यधिकं कारावासाधिकं च तत् // dhs_10.30 //

मद्यपानवर्जनं श्रेयस्करम्

आदीनवाश्च षट् त्रिंशन्मद्यपानादवस्थिताः / तस्मादादीनवो ज्ञेयः स हि तद् वर्जयेत् सदा // dhs_10.31 //

मद्यपानं विदुषो ऽपि जन्तोः मलिनीकरणाय भवति

अतिजातस्य विदुषो मलिनीकरणं महत् / काशपुष्पसमं जन्तुं कुरुते लघुसत्त्वरम् // dhs_10.32 //

विषयानलदग्धः कार्याकार्यशून्यो भवति

प्रमादौह्यति मग्नानां विषयैरपहृष्यते / मद्यपानेन भूयश्च मनोव्यामोहकारिणा // dhs_10.33 //

विषयानलदग्धस्य कार्याकार्यमजानतः / वनोपवनलब्धस्य मद्यपानस्य किं पुनः // dhs_10.34 //

मद्यपानं मोहाय पापाय जायते

रसेन शोभनं मद्यं परिणामेन दारुणम् / परिणामफलं पापं नरकेषूपपद्यते // dhs_10.35 //

पीतं जनयते मोहं मोहात् पापेषु रक्ष्यते / संरक्तहृदयो बालो नरकानुपधावति // dhs_10.36 //

मद्यपानमधमत्वसाधनम्

प्रकर्ष जनयत्यादौ विपाके दैन्यमुत्तमम् / तृट् छेदं कुरुते चासौ पश्चाद्दाहं सुदारुणम् // dhs_10.37 //

तद् बुद्धिं नाशयत्यादौ पश्चान्नाशयते सुखम् / तस्मात् स पुरुषो धीरो यो मद्यं नानुसेवते // dhs_10.38 //

मद्यनिषेविणो विहगसदृशा भवन्ति

विहगैः सदृशं यान्ति पुरुषा मद्यसेविनः / तुल्यं व्यामोहजनकं मद्यं मोहमहाविषम् // dhs_10.39 //

विमोहिता दुर्गतिमधिगच्छन्ति

यैर्मद्यं विषवद् दृष्टं तैर्दृष्टं पदमुत्तमम् / यैस्तु तद् विरसं पीतं पीतं ताम्र (क) लोहितम् // dhs_10.40 //

निष्प्रतीकारकर्माणि यः करोति विमोहितः / मद्यपानसमाविष्टः सो ऽन्ते गच्छति दुर्गतिम् // dhs_10.41 //

मद्यपानसेविनां नाशो भवति

एकत्र सर्वपापानि मद्यपान (निषेवणम्) / यस्मान्नाशयते (मद्यं) चित्तमूलश्च संवरः // dhs_10.42 //

मद्यपायी नष्टधर्मो भवति

नैकाङ्गिता हि चित्तस्य न धर्माणां विचारणा / यः पा(प)निरतो भिक्षुर्भवेन्मद्यनिषेवणात् // dhs_10.43 //

मद्येनाक्षिप्तमनसो कुशलस्य च घातकः / नष्टधर्मस्य सत्त्वस्य नायं लोको न चापरः // dhs_10.44 //

ईर्य्यापथं न जानाति न कालं नापि देशनाम् / सद्धर्मतो विरुद्धश्च तुच्छं किमपि भाषते // dhs_10.45 //

स्वयं तावन्न जानाति किमिदं कथ्यते मया / वाक्पारुष्यं कथं चान्यं परिज्ञास्यत्यशोभनम् // dhs_10.46 //

लाघवं याति लोकस्य धर्माच्च परिहीयते / निधन पुरुषैर्दृष्टं मद्यज्वलनसेवनात् // dhs_10.47 //

मद्यपानं कुत्सां सम्पादयति

नाशो भवत्यतीते हि वर्तमाने सुहृज्जने / अनागते कुत्सितानां मद्यं त्रैकाल्यनाशकम् // dhs_10.48 //

मद्यं धर्मप्रदूषकमेव

नामरूपविनाशाय चित्तनाशाय देहिनाम् / उत्पन्नदोषजनकं मद्यं धर्मप्रदूषकम् // dhs_10.49 //

मद्यवर्जनं धर्माय पानञ्च मृत्युर्न भवति

समाहिता धर्मशीलाः पुरुषा मद्यवर्जकाः / ते यान्ति परमं स्थानं यत्र मृत्युर्न विद्यते // dhs_10.50 //

// इति मद्यजुगुप्सावर्गो दशमः //

अथ द्वितीयम् उदानम्

(चित्तञ्च वाक् तथा कर्म संयोजनन्तु पापकम् /

नरकप्रेततिर्यक्क्षुत्कौसीद्यानि विदुर्दश // )

(11) चित्तवर्गः

चित्तं राजवत् प्रवर्तते

अगाधं विषमं तीव्रं सर्वसत्त्वगतं महत् / चित्तं सर्वस्य जगतो राजवत् सम्प्रवर्तते // dhs_11.1 //

चित्तधारिणस्तज्ज्ञाः परमां गतिं प्राप्नुवन्ति

अदृश्यं सम्प्रति भयं कर्म नारकचञ्चलाः / ये चित्तधारिणस्तज्ज्ञास्ते गताः परमां गतिम् // dhs_11.2 //

एतन्नयति व्युत्थानमेतन्नयति दुर्गतिम् / तदेवाद्यन्तममलं निर्वाणमधिगच्छति // dhs_11.3 //

मनः पूर्वमङ्गमा धर्मा मनः श्रेष्ठा मनोमयाः / मनसा सुप्रसन्नेन भाषते वा करोति वा // dhs_11.4 //

चित्तवशगस्य चित्तमनुधावति

यो न चित्तस्य वशगश्चित्तं तस्यान्तगं सदा / स निर्णाशयति क्लेशान् तमः सूर्योदयो यथा // dhs_11.5 //

चित्तदग्धाः नाशं यान्ति

चित्तं शत्रुः परं शत्रुर्न शत्रुरपरः स्मृतः / चित्तदग्धाः सदा सत्त्वाः कालदग्धा यथा जडाः // dhs_11.6 //

यश्चित्तवशमापन्नो बालो मूढो ऽजितेन्द्रियः / तेन दुःखे समो नास्ति निर्वाणं तस्य दूरतः // dhs_11.7 //

चित्तवशगः नरः नरकमधिगच्छति

आवर्ज्यः शत्रुरपरो न चित्तानि (निगूहते) / एष बध्नाति पुरुषो नृपतेर्यमशासने // dhs_11.8 //

विषयेषु रता नित्यं न स धर्मः कथञ्चन / सद्धर्मपथसम्मूढो नरकं नयते महत् // dhs_11.9 //

दुर्दमानां परं चित्तमनीनामग्निरुत्तमः / दुर्दान्तं शीघ्रगन्तृ च नरकं नयते ध्रुवम् // dhs_11.10 //

ये चित्तस्य वशं याता यातास्ते नरकं पुरा / यैस्तु तद् वार्यते शीघ्रं न ते दुःखानुगामिनः // dhs_11.11 //

चित्तानुरूपं सुखं दुःखञ्च भवति

यथा यथा (नृणां) चित्तं परिणामस्तथा तथा / कल्पानां शुभकर्त्तुश्च पापकर्त्तुश्च पापकम् // dhs_11.12 //

चित्तायत्तं भवेत् कर्म कर्मायत्तं मनो भवेत् / चित्तकर्म समुत्थाय संसारः परिकीर्तितः // dhs_11.13 //

दुष्टेन चेतसा कर्म यः करोति पुमानिह / पच्यते नरके तेन जालिन्या स विडम्बितः // dhs_11.14 //

चित्तकर्म एवं संसारः

चित्ताधीनं भवेत् पापं संसारः परिकीर्तितः / चित्तप्रत्ययजं ह्येतत् हेतुप्रत्ययसम्भवम् // dhs_11.15 //

चित्तेन वञ्चिताः सत्त्वा पापस्य वशमागताः / गच्छन्ति नरकं पापात् कारणाग्रमहाभया(त्) // dhs_11.16 //

न भवेत् चित्तवशगो ऽपि तु धर्मवशो भवेत् न गच्छेत् चित्तवशतां गच्छेद् धर्मवशे सदा / धर्मचारी सुखी नित्यं पापचारी न शर्मभाक् // dhs_11.17 //

चित्तायत्तं सर्व फलम्

चित्तायत्ता क्रिया सर्वा चित्तायत्तं फलं स्मृतम् / विचित्तं हि फलं चित्तं तथा फलमधिस्मृतम् // dhs_11.18 //

चित्तेन चिन्तितं सर्व लोकश्चित्तभवानुगः / न हि तद् विद्यते स्थानं यन्न चित्तवशानुगम् // dhs_11.19 //

शुभस्य निर्वाणसाधनत्वम्

मोक्ष बन्धनयोर्मूलं हेतुभूतं परं मतम् / शुभेन मुच्यते जन्तुरशुभेनाशु बध्यते // dhs_11.20 //

चित्तवशगाः कदापि निर्वाणं नाधिगच्छन्ति जालिन्या मोहिताः सत्त्वाश्चित्तस्य वशमागताः / निर्वाणं नापि गच्छन्ति जात्यन्धा इव सत्पथम् // dhs_11.21 //

पञ्चेन्द्रियाणि जितवान् पापं भुङ्क्ते न कर्हिचित् / एकचित्तं तथा कर्म कुरुते विविधे भवे // dhs_11.22 //

पञ्चरङ्गोज्ज्वलं चित्तं यथा दृश्यं प्रशस्यते / पञ्चेन्द्रियविचित्रं हि तथा कर्म भवे भवेत् // dhs_11.23 //

चित्तकर्त्तानेकधा भवति

चित्तकर्ता हि पुरुषो दृश्यैर्भवति नैकधा / चित्तं चित्तकरं शून्यं सर्वथा नैव दृश्यते // dhs_11.24 //

चित्तं शोभनमशोभनं च कर्म करोति

शोभनाशोभनं चित्रं यथा भित्तिः कृतिस्तथा / शोभनाशोभनं कर्म तथा चित्तं करोति हि // dhs_11.25 //

चित्तानुगं कर्म

दिवारात्रौ यथा चित्तं स्थितं भवति चित्रगम् / दिवारात्रौ तथा कर्म भवे समनुवर्तते // dhs_11.26 //

अकृत्वा सुकृतं कर्म चित्तवृत्त्यनुगा नराः / पतन्ति विवशाः पापे चित्तारिपरिवञ्चिताः // dhs_11.27 //

कर्मचित्तकरो ह्येष यत्र यत्र नियुज्यते / चरचित्तेन महता तच्चित्तं च करोत्ययम् // dhs_11.28 //

परिणामविशेषेण यत्र यत्र नियोक्ष्यते / प्रेष्यन्ते तत्र चित्तेन त्रिधा तु गतिचारिणः // dhs_11.29 //

चित्तस्य दमनं सुखावहम्

चित्ताधिनानि वर्तन्ते सर्वकर्माणि देहिनाम् / तस्माच्चित्तं सदा दान्तं नयते पदमच्युतम् // dhs_11.30 //

दुर्विषह्यस्य लघुना यत्र यत्र निपातिनः / चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् // dhs_11.31 //

येन चित्तं सदा दान्तं तेन दोषाः सदा जिताः / जितदोषस्य धीरस्य दुःखं नैव प्रपद्यते // dhs_11.32 //

चित्तस्य लघुचेष्टितमेव दुःखम्

यच्च स्वकं भवेद् दुःखं यच्च दुःखं परत्र च / तत् सर्वमविषह्यस्य चित्तस्य लघुचेष्टितम् // dhs_11.33 //

चित्तमेव सर्वेषां प्रभुः

ससुरासुरनागानां पिशाचोरगरक्षसाम् / प्रभुरेकः परं चित्तं राजा(हि)त्रिभवस्य तत् // dhs_11.34 //

चित्तभ्रान्तदुःखमश्नुते

चित्तं नयति देवेषु चित्तञ्च नरभूमिषु / चित्तं नयत्यपाये(षु) चित्तं भ्रामयति प्रजाः // dhs_11.35 //

चित्ताद् भ्रान्तस्य नष्टस्य विषयैर्मोहितस्य च / तृष्णया दह्यमानस्य स्थितं दुःखमनुत्तमम् // dhs_11.36 //

चित्तस्य दमनात् सुखानुभूतिर्भवति

एकचारि सदामूढं दुर्विषह्यं महाबलम् / सम्प्रदारि सदादृश्यं चपलं शीघ्रगामिनम् // dhs_11.37 //

एवं विधं हि ये चित्तं दमयन्ति मनीषिणः / ते मारबन्धनातीताः पारं प्राप्ताः सुखोदयम् // dhs_11.38 //

चपलं चित्तं नरकायोपकल्प्यते

सङ्कल्पकुटिलं तीव्रमगाधं चपलं हि तत् / चित्तं तमःश्रितं शुभ्रं नरकायोपकल्प्यते // dhs_11.39 //

दोषनिर्मुक्तो ऽच्युतं पदं प्राप्नोति

तदेवं दोषनिर्मुक्तं नेन्द्रियार्थवशानुगम् / अलिप्तं पापकैर्धर्मैर्नयते पदमच्युतम् // dhs_11.40 //

शुद्धं चित्तं शुद्धे कर्मणि प्रवर्तते

हेतुप्रत्ययजं चित्तं योगवाहि परं च तत् / परिणामवशाच्छीघ्रं तथा तत् सम्प्रवर्तते // dhs_11.41 //

चित्तानधीनत्वे कर्म चञ्चलं भवति

एकं करोति कर्माणि विविधानि चलं च तत् / एकानेकं चरं सूक्ष्मं क्षणादूर्ध्व न तिष्ठति // dhs_11.42 //

संसारस्य मायोपमत्वप्रतिपादनम्

दुर्विज्ञेयः सदा तस्य निःशरीरस्य सर्वदा / को ऽसौ नयति लोकान्तमथ केन च गच्छति // dhs_11.43 //

गतश्च तिष्ठति कुत्र शरीरकर्मकारकम् / दृश्यानि तस्य कर्माणि सञ्चयो न च दृश्यते // dhs_11.44 //

दमनं दुष्करं तस्य यस्य भूतिर्न विद्यते / सर्वसत्त्वगतं घोरं लघुकारि च चाक्षुषम् // dhs_11.45 //

पापात् पापतरं दृष्टं मायोपममिदं भवेत् / पुण्यात् पुण्यतरं दृष्टं सम्यग्मार्गसमाश्रितम् // dhs_11.46 //

मायोपमत्वसमर्थनम्

न गतिर्ज्ञायते तस्य गमनं नैव दृश्यते / नीयते च क्षतं सर्व जात्युत्तरसमानि च // dhs_11.47 //

शस्त्रेण छिद्यते नेदं ज्वलनेन च दहयते / छिद्यते दह्यते चैव जनः सर्वमचक्षुषा // dhs_11.48 //

दृढं यत् कर्मरज्ज्वादि नरं बध्नाति दुःखितम् / जात्यन्तरसहस्त्राणि नयते न च दृश्यते // dhs_11.49 //

दान्तमेव चित्तं सुखावहम्

मुहूर्तेन शुभं भूतं मुहूर्तेनाशुभं च तत् / शुभाशुभाभ्यां रचितं(चित्तं) दान्तं सुखावहम् // dhs_11.50 //

षड् भिर्द्वारैः प्रसूतेषु विषयेष्वतिलोलुपम् / चित्तं नयति लोकान्तं व्यसनं न च बुध्यते // dhs_11.51 //

विप्रसन्नचित्तस्य श्रेयस्करत्वे ऽनुत्तमं सुखं भवति

विप्रसन्नं यथा तोयं विप्रसन्नं यथा नभः / विप्रसन्नं तथा चित्तं नीयते सुखमुत्तमम् // dhs_11.52 //

जनाः सातिशया (दृष्टा) वितर्कविषयोद्भवात् / पौरवाश्चित्तराज्ञस्ते भवन्ति सहचारिणः // dhs_11.53 //

चञ्चलं मनः संसारे गतिं कारयति

धावति यत्र च मनस्तत्र धावन्त्यज्ञानिनः / परस्परबलान्नी (ता) भ्रमन्ति त्रिभवार्ण(व)म् // dhs_11.54 //

विशेषचित्तेनोत्तमा गतिर्भवति

चित्तवैशद्य भावानां विशेषः कर्मणास्तथा / न कर्मगुणहीनस्य विशेष उपलभ्यते // dhs_11.55 //

सुसमाहितचित्तस्य प्रशंसा

सुसमाहितचित्तः स नित्यं धर्मानुदर्शकः / न दोषवशमायाति यथा दिव्यस्तमोनुदः // dhs_11.56 //

गृहस्थस्य सम्यग्दृष्टित्वे निर्वाणप्राप्तिर्भवति

सम्यग्दृष्टेश्चाधिमात्रा यस्य चेतसि वर्तते / गृहस्थो ऽपि स मे ज्ञेयो मुक्तः संसारबन्धनात् // dhs_11.57 //

विज्ञा देवलोकं गच्छन्ति

कल्याणनिर्मलं यच्च ततो दोषेण बाध्यते / विज्ञो (न) मलमाप्नोति देवलोके स जायते // dhs_11.58 //

विनीतचित्ताः सुखगामिनो भवन्ति

विषयद्वारचपलं नदीकुटिलगामिनम् / यैर्विनीतमिदं चित्तं ते सुराः शुभभागिनः // dhs_11.59 //

अधर्ममार्गः कल्याणाय न भवति

अधर्मपथमाश्रित्य जनाः पापवशानुगाः / चिरं भ्रमन्ति संसारे चित्तेन परिखेदिताः // dhs_11.60 //

चित्तं क्षणे क्षणे परिवर्तते

क्षणे क्षणे चित्तमिदं नैकशः परिवर्तते / लघुस्वभावचपलं मायागन्धर्वसन्निभम् // dhs_11.61 //

चञ्चलचित्तो बद्धो भवति

तस्य बन्धनमेवेष्टं ज्ञानविज्ञानसम्मतम् / दूरवृत्तिर्महावेगः परिधावत्यनेकधा // dhs_11.62 //

धृत्या चित्तधारिणः सुखमश्नुते

ह्रियमाणं सदा चित्तमिन्द्रियार्थे दुरासदम् / सन्धारयति यो धृत्या स धीरः पारगामिकः // dhs_11.63 //

धृतिमज्ञानमोहं च विषयोत्तानमानसम् / सन्धारयति यो धीमान् स लोके पण्डितो नरः // dhs_11.64 //

शुभचित्तं कामावरोधकं भवति

यो यथा कुरुते चित्तं तथा कामान् स पश्यति / शुभेन कामशमनं नाशुभेन प्रवर्धनम् // dhs_11.65 //

अप्रशान्तमतिर्दुःखमाप्नोति शान्तचित्तंमनाः कामानस्यतीह विषास्त्रवत् / अप्रशान्तमतिः सर्पमणिवत् तान् स पश्यति // dhs_11.66 //

चित्तवशगो न शुभां गतिमाप्नोति

इन्द्रियाणीन्द्रियार्थाश्च चित्ताधीना भवन्त्यमी / चित्त संश्लेषयोगेन परिणामः प्रवर्तते // dhs_11.67 //

धीरप्रशंसा

तस्यैव व्यवधानेन धीरश्च प्रतिबुध्यते / रूपसामान्यतो दृष्टं परिणामः कथं पृथक् // dhs_11.68 //

चित्तस्वरूपनिरूपणम्

यथा रूपं तथा सर्व विषयाश्चित्तहेतवः / चित्तं दान्तं सदा शान्तं दोषमिश्रविगर्हितम् // dhs_11.69 //

एकमेकं यथा शालि गन्धरूपे पृथग्विधे / संश्लेषो याति नानात्वं तथाचित्तं प्रवर्तते // dhs_11.70 //

क्रियां हि तत्र कुरुते यत्र (चित्तं) प्रधावति / चित्तसंवाहनं तद्वाक्यं लोको ऽयं सम्प्रवर्तते // dhs_11.71 //

विषयाद् भ्रान्तमनसश्(चा)तिवेगो महाबलः / चित्तं(शान्त)करं दान्तं शिवं भवति देहिनाम् // dhs_11.72 //

दान्तेन चेतसा तत्त्वदर्शनं भवति

तेनादान्तेन शीघ्रेण सर्वपापविहारिणा / भ्राम्यते त्रिभवः सर्वः न च तत्त्वं स पश्यति // dhs_11.73 //

समीरणरणोद्भ्रान्तो लोकः संसारे भ्रमति

समीरणरणोद्भ्रान्तो यथा भ्रमति सागरः / चित्तेश्वरसमायुक्तो लोको ऽयं भ्राम्यते सदा // dhs_11.74 //

चित्तं शुभं सुखमेधीत

शुभोपनीतं चित्तं(हि) शुभेष्वेवापनीयते / तथा शुभानुचरितमश्नुते तेषु धावति // dhs_11.75 //

योगवाहिचित्तं प्रत्ययं लभते

योगवाहि नृणां चित्तं वाय्वम्बुसममेव च / प्रत्ययश्च यथा लभ्यस्तथा तत् परिधावति // dhs_11.76 //

चित्तं प्रधावति परिवर्तते च

शीघ्रं प्रधावते चित्तं शीघ्रञ्च परिवर्तते / शीघ्रं नयति देवेश (भुवने) दायभूमिषु // dhs_11.77 //

चित्तस्य कर्त्तृत्वम्

कर्त्तृत्वं सर्वधर्माणां भर्त्तृत्वं सर्वकर्मणाम् / नेतृत्वं सर्वकर्माणां चित्तत्वमिति लक्ष्यते // dhs_11.78 //

चित्तं न विश्वसेत्

न विश्वसेद्धि चित्तस्य नित्यं छिद्रप्रहारिणः / दुर्लभस्यापि वश्यस्य चपलस्य विशेषतः // dhs_11.79 //

चित्तगतिवर्णनम्

मुहूर्तेन शुभं याति मुहूर्तेन तथाशुभम् / भवत्यव्याकृतं शीघ्रं गतिरस्य न विद्यते // dhs_11.80 //

नायतिर्ज्ञायते तस्य गमनं नैव विद्यते / अभूतः सम्भवस्तस्य भूत्वा च प्रतिगच्छति // dhs_11.81 //

रूपरहितं चित्तम्

नाकारो विद्यते तस्य सञ्चयो ऽपि न विद्यते / ग्रहणं तस्य नैवास्ति निःशरीरस्य सर्वतः // dhs_11.82 //

प्रत्ययसाधनवर्णनम्

हेतुप्रत्ययसामग्रया प्राप्तः सञ्जायते पुनः / मणिसोमप्रत्ययो (हि) प्रत्ययो ज्ञायते ऽनलः // dhs_11.83 //

चित्तमिन्द्रियरूपादीन् प्रति धावति

तथैवेन्द्रियरूपादीन् प्रतिविज्ञानसम्भवः / नैकस्य ज्ञायते चित्तं समवाय्यनुलक्ष्यते // dhs_11.84 //

चित्तं दुर्निवार्यम्

तदेवं विषयं मत्वा दुर्निवार्य च सर्वतः / सद्धर्ममतिरास्थेया न कामेषु कथञ्चन // dhs_11.85 //

चित्तमति चपलम्

चण्डातिचपलं तीव्रमविषह्यं महावलम् / चित्तं करोति कर्माणि यन्न पश्यन्ति बालिशाः // dhs_11.86 //

दुःखप्रवर्तकं चित्तम्

सर्वस्य कर्मणश्चित्तं हेतुभूतं भवे भवे / भवेत् प्रवर्तकं दुःखं येन धावति बालिशः // dhs_11.87 //

चित्तदोषो महादोष एव

वातादयो न दोषाः स्युर्दोषा रागादयो मताः / वातादिभिरपायेषु मानवो नोपपद्यते // dhs_11.88 //

चित्तदोषो महादोषो नित्यं(पाप) विदर्शकः / तस्मात्तेषां समाश्रेयो न वातादिगमादिह // dhs_11.89 //

रागानुगं चित्तं दुष्टं भवति

वातादयः प्रणश्यन्ति देहनाशाच्छरीरिणाम् / (रागादयो) न तस्य स्युर्जन्मान्तरशतैरपि // dhs_11.90 //

तस्माद् रागस्य वशगं न विधेयं कदाचन / आभ्यन्तिकं परं श्रेयः प्राप्यते रागसङ्क्रमात् // dhs_11.91 //

मन एव चिकित्सको भवति

यश्चित्तवैद्यः स भिषग् न शरीरभिषग् भृशम् / मनश्चिकित्सको ज्ञेयो न तथा लौकिको मतः // dhs_11.92 //

स्वचित्तकर्मणा दग्धो नरके पतति

कर्मचिन्त्यं समं चिन्त्यं न चित्तेन प्रपद्यते / स्वचित्तकर्मणा दग्धो नरकानुपधावति // dhs_11.93 //

ध्यानादेव चित्तं शुद्धं भवति

यच्छ्रेयः समचित्तस्य न तत् (क्वाप्युप)पद्यते / संरक्ष्यं हृदयं मूढः प्रयातमनुधावति // dhs_11.94 //

चित्तवशगो दुःखमाप्नोति

ध्यानाद् ध्येयेन कूटेन यः पुमान् वनमाश्रितः / तं मुक्त्वा चित्तकः सो ऽयं संप्रहृष्यति बालिशः // dhs_11.95 //

ये बालाश्चित्तपाशेन चित्तकर्मविचारिणः / नीयन्ते ह्यवशा घोरं नरकं कर्ममोहिता // dhs_11.96 //

चित्तवैविध्यनिरूपणम्

सुचित्तमपि यच्चितं न तच्चित्तं सतां मतम् / कर्मचित्तं महाचित्तं त्रिधातुगतचित्रितम् // dhs_11.97 //

सत्त्वा चित्रैरुपायैर्हि भ्रमन्ति गतिपञ्चके / तत् सर्व कर्मसाचिव्यं चित्रकर्तृ विचित्रितम् // dhs_11.98 //

चित्तवशगो बद्धो भवति

चित्तचित्रकरेणेदं कर्मजातं विचित्रितम् / येन सर्वमिदं बद्धं जगद् भ्रमति मोहितम् // dhs_11.99 //

वर्षातपरजोधूमैश्चित्तं नश्यति भूभुजैः / कल्पकोटिसहस्त्रेण चित्रं चित्तं विनश्यति // dhs_11.100 //

नाशं प्रयाति बसुधा सागरश्चापि शुष्यति / चित्तेनापि कृतं चित्रं तस्यानुभवने स्थिते // dhs_11.101 //

प्रमत्ते चित्ते नानागतिर्भवति

नानागतिसमावृत्ता नानाकर्मसमानुगाः / नानाचित्तवशाः सत्त्वा भ्रमन्ति गतिपञ्चके // dhs_11.102 //

बालिशा (नां)नृणां चित्तं विषयं(प्रति)धावति / न चिनोत्यशुभं कर्म येन धावति दुर्गतिम् // dhs_11.103 //

चञ्चलं चित्तं सदा विषमं भवति

तस्माच्चित्तं सदा रक्ष्यं चञ्चलं विषमं खरम् / नित्यं विषयसंसक्तं तृष्णाविषसमावृत्तम् // dhs_11.104 //

विषयानुरक्तं चित्तं व्यसने पातयति

धावते विषयं चैतद् व्यसनं नावबुध्यते / पश्चात्तु व्यसने प्राप्ते फलं विन्दति कर्मणः // dhs_11.105 //

समाहितचित्तः सुखमश्नुते

अपायभीरुता तस्य तस्य चित्तं समाहितम् / समाहितेन चित्तेन सुखात् सुखमवाप्नुते // dhs_11.106 //

निर्जितचित्तः सुखमाप्नोति

विषमं चपलं तीव्रमविषह्यं महाबलम् / यैश्चित्तं निर्जितं धीरैस्ते लोके सुखिनो मताः // dhs_11.107 //

// इति चित्तवर्ग एकादशः //

(12) वाग्वर्गः

निर्वाणाभिलाषुकः पारुष्यं वर्जयेत्

पारुष्यं वर्जयेत् धीमान् सम्यग्वाग् भीरतो भवेत् / माधुर्याभिरतो जर्न्तुनिर्वाणस्यान्तिके स्थितः // dhs_12.1 //

वाचं पश्यन् सदाभाषेन्मलिनां च विवर्जयेत् / वाङ्मनेनाभिभूता ये ते यान्ति नरकं नराः // dhs_12.2 //

एकधर्मव्यतीतस्य मृषावादस्य देहिनः / प्रतीर्णप्रतिलोकस्य नाकार्य पापमस्तिह // dhs_12.3 //

मृषावाग् न प्रयोक्तव्या

मृषावाचं न भाषेत सर्वा प्रत्ययकारिकाम् / यथा बध्यति संसारे सुगतिं नैव पश्यति // dhs_12.4 //

साधुप्रत्ययतेनीहा सर्वविद्वेषकारिका / कान्तारः सर्वाधर्माणां मृषावाच प्रवर्तते // dhs_12.5 //

जातमात्रस्य मर्त्यस्य कठारी जायते मुखे / पश्चात् छिनत्त्यात्मानं वाचा दुर्भाषितं वदन् // dhs_12.6 //

सर्वा कार्यपताका सा सर्वपापप्रसूतिका / तमसां योनिरेका सा यां वाचं भाषते मृषा // dhs_12.7 //

सत्येन हीनाः पुरुषाः सर्वसाधुविवर्जिताः / तृणवद् यान्ति लोके ऽस्मिन् प्रत्यपायेषु दुःखिताः // dhs_12.8 //

न वदेदनृतं धीरः कष्टा ह्यनृतवादिता / पूतिगन्ध्यसुखी चापि पश्चात्तापेन तप्यते // dhs_12.9 //

सत्यमहिमा

सत्यं च न विवर्जेत तस्य धर्मो न विद्यते / विनिवर्तितधर्मस्य स्थितं दुःखमनेकजम् // dhs_12.10 //

सत्यं सर्वधर्माणां प्रदीपभूतम्

प्रदीपः सर्वधर्माणां साधूनां रत्नवत् प्रियम् / स्वर्गस्य च परं वर्त्म सत्यमुक्तं गतज्वरैः // dhs_12.11 //

सत्यं न हि दिवं याति मोक्षस्यासत्यवादिनः / सत्यहीना हि पुरुषाः पशुतुल्याः प्रकीर्तिताः // dhs_12.12 //

जघन्यानां जघान्यास्ते येषां न विद्यते / सत्यं धर्मस्य सोपानं ज्योतिषामाकरो महान् // dhs_12.13 //

पन्थाश्च मोक्षधर्माणां धनानां धनमुत्तमम् / पापकैश्च (परि)त्राणां सत्यमुक्तं मनीषिभिः // dhs_12.14 //

सत्यभूषितं वाग् भूषणस्यापि भूषणम्

ज्योतिषां परमं ज्योतिश्चक्षुश्चक्षुष्मतामपि / द्रविणेन विना सत्यं भूषणस्यापि भूषणम् // dhs_12.15 //

निधानमतुलं सत्यमहार्य (सर्वसाधकम्) / गच्छन्ति (सत्या यिणः) पुरुषाः परमां गतिम् // dhs_12.16 //

न तथा भासते राजा नानालङ्कारभूषितः / सत्येन भूषितो धीमान् शोभते देववद् यथा // dhs_12.17 //

न माता न पिता चाथ मित्राणि न च बान्धवाः / त्राणमेवं यथा श्रुत्वा तस्मात् सत्यपरो भवेत् // dhs_12.18 //

अनृतनिन्दा

वह्नीनां परमो वह्निर्विषाणां परमं विषम् / दुर्गतीनां च सोपानमनृतं परिकीर्तितम् // dhs_12.19 //

विषाग्नितुल्यसंस्पर्श वर्तयेदनृतं पुमान् / अनृतेन हि यो देव दग्धैत्यभिधीयते // dhs_12.20 //

सत्यासत्ययोः परस्परविरोधित्वम्

तस्मात् सर्वाभिसारेण (न वदेद) नृतं पुमान् / सर्व भयादिकं कष्टमनृतं कीर्तितं बुधैः // dhs_12.21 //

वह्नीनां परमो वह्निर्निर्दहेदपि सागरम् / किं पुनर्यो मृषावादी काष्ठलोष्ठसमाकृतिः // dhs_12.22 //

सत्यं त्यक्त्वा मृषावादं यो नरः प्रतिपद्यते / रत्नं त्यक्त्वा स पापात्मा पाषाणं प्रतिपद्यते // dhs_12.23 //

यस्यात्मा न भवेत् द्विष्टो यस्य वा नरकं प्रियम् / मृषावादं स्वदेहाग्निम् अबुद्धिः स निषेवते // dhs_12.24 //

सदेदं सत्यवचनं भूषणं सर्वदेहिनाम् / सत्यं त्यक्त्वा मृषावादे कस्माद् यान्ति कुबुद्धयः // dhs_12.25 // सत्यं गुणानामग्र्यं वै दोषाणामनृतं स्मृतम् / गुणांस्त्यक्त्वा कथं मूढो दोषेषु परिधावति // dhs_12.26 //

बीजं सर्वस्य दुःखस्य मृषावादः प्रकीर्तितः / तथा सत्यं सुखस्यैव तस्मान्नानृतको भवेत् // dhs_12.27 //

सत्यवादी हि पुरुषः प्रियः सर्वस्य देहिनः / चक्षुर्दोषैमृषावादी तस्मान्नानृतको भवेत् // dhs_12.28 //

देवकल्पाः सदा कृष्टाः पुरुषाः सत्यवादिनः / नारकेयास्तथा मूढा जना ह्यनृतचेतसः // dhs_12.29 //

कल्याणानां परं सत्यं दोषाणामनृतं तथा / दोषवर्जी गुणद्वेषी पुरुषः पुरुषोत्तमः // dhs_12.30 //

सुखोदयं सुखोदर्कं सुखेन परिपच्यते / सुखेन लभते सत्यं(सत्यं) निर्वाणगामिकम् // dhs_12.31 //

दुःखोदयं कटुफलं दुःखेन सह पच्यते / अनृतं सर्वदुःखान्तं कः पुमान् न विवर्जयेत् // dhs_12.32 //

नान्यदेशागतं सत्यं नान्यस्मात् प्रार्थ्यते हि तत् / सर्वतीर्थोत्तमं सत्यं न तीर्थसलिलावृतम् // dhs_12.33 //

दीपानां च परो दीपः सत्यं बुद्धेन देशितम् / औषधानां परं तच्च सदा दुःखनिषूदनम् // dhs_12.34 //

अमृतञ्च विषञ्चैव जिह्वापाशे स्थितं नृणाम् / अमृतं सत्यमित्युक्तं विषं तूक्तं मृषावचः // dhs_12.35 //

यस्यानृतमभिप्रेतं तस्य सत्यं ध्रुवं स्थितम् / विषन्तु यस्याभिमतं तस्येष्टं स्यान्मृषावचः // dhs_12.36 //

विषेण निश्चितं नाशो मृषावादेन निश्चितः / मृतवत् स पुमानस्ति यो मिथ्यात्वभिभाषते // dhs_12.37 //

नात्मनो हि हितं पथ्यं (पर)स्य न कथञ्चन / पश्चात्तु परदुःखाय तत् कथं सेव्यते नृभिः // dhs_12.38 //

देशे देशे मया दृष्टं जन्ममृत्युसहस्रकम् / परः सहस्त्रं जनयेन्नाशयेदनृतं वचः // dhs_12.39 //

अभिजातस निष्कर्षो द्विजातीनां च भूषणम् / दर्शनं मोक्षमार्गस्य सत्यमित्यभिधीयते // dhs_12.40 //

तृष्णानदी हयमाराणां सतां सत्येन कर्मणाम् / पूर्ववत् सत्यमित्युक्तं परं सुगतदेशिकम् // dhs_12.41 //

अनादिनिधने लोके तृष्णापारङ्गता (नराः) / नास्त्यत्राणं यथा सत्यमिति धर्मविदो विदुः // dhs_12.42 //

अभिध्यापाशो न सेवनीयः

सत्यवध्या सदा क्लेशा वज्रवध्या यथा नगाः / हता(स्ते) पुरुषा (ज्ञेया ये ऽ) भिध्या परिवञ्चिताः // dhs_12.43 //

परचित्तसमेनेदं रूपाद्यैः परिवञ्च्यते / अभिध्यामानसं पाशं सेवितं न विचक्षणैः // dhs_12.44 //

दह्यते ऽविकृत आत्मा तैलदीप्तिरिवानलः / अभिध्यादग्धमनसः कारणं नोपलभ्यते // dhs_12.45 //

व्यापादः सत्त्वान् मोहयत्येव

यस्मात् तत् सर्वदा वर्ज्यं कटुकाशाविषोदयम् / व्यापादमोहिताः सत्त्वा नित्यं तद्गतमानसाः // dhs_12.46 // न शान्तिमधिगच्छन्ति सर्पा इव बिलेशयाः / अथ कूरस्वभावा ये व्यापादपरमा नराः // dhs_12.47 //

न तेषां विद्यते सौख्यमादित्येन यथा तमः / न धर्मे नार्थनिकरो न धर्मा न च बान्धवाः // dhs_12.48 //

रक्षन्ति पुरुषान् सर्वान् व्यापादाहतचेतसः / तमसामाकरो ह्येष व्यापाद इह कथ्यते // dhs_12.49 //

व्यापादयति जनकं व्यापादः परिकीर्तितः / अव्यापादः परं श्रेयो न व्यापादः कथञ्चन // dhs_12.50 //

अव्यापादपरा ये तु ते यान्ति पदमच्युतम् / नियतातथवादी यो ऽधर्मवादी न धार्मिकः // dhs_12.51 //

स चौरः सर्वलोकस्य न चौरः प्राकृतः स्मृतः / धर्मवादी नरो यस्तु चरते धर्ममेव यः // dhs_12.52 //

स याति शाश्वतं स्थानं यत्र गत्वा न शोच्यते / मिथ्यावचोहत (पुमान्) लौकिकः सम्प्रकीर्त्यते // dhs_12.53 //

लोकोत्तरैः कल्पशतैः कदाचित् कथ्यते न वा / तस्मात् लोकोत्तरं वाक्यं लौकिकं न कथञ्चन // dhs_12.54 //

संसारबन्धनं दृष्टं लौकिकं विषवद् वचः / तृष्णारतः सदा पुण्यान्मुच्यतेति सुनिश्चितम् // dhs_12.55 //

लोकोत्तरो (नरो) धन्यो विद्वद्भिः समुदाहृतः / हितं तत्त्वं च यो मूढो न गृह्णाति गुरोर्वचः // dhs_12.56 //

सत्यवादी सदा देवताभिः पुरस्कृतः

स पश्चाद् व्यसने प्राप्ते तप्यते स्वेन चेतसा / सत्यवादी सदा दान्तो देवताभिः पुरस्कृतः // dhs_12.57 //

प्रियो भवति लोकस्य पश्चाद् देवेषु मोदति / प्रियो भवति लोकस्य पश्चाद् स्वान्तेन(वर्धते) / दर्शनीयं मुखं चास्य देवलोकेषु जायते // dhs_12.58 //

अभूतवादी पुरुषः सर्वसत्त्वोपपातकः / तमोनिचयसङ्काशो जीवन्नपि मृतः समः // dhs_12.59 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.