Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

प्रसन्नपद

Tác giả
चन्द्रकीर्ति
Thông tin
GRETIL — P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तत्र निरुध्यमानस्य वर्तमानस्य विद्यमानत्वादुत्पादो नोपपद्यते । अनिरुध्यमानस्यापि विनाशरहितस्य अतीतानागतस्य भावलक्षणविलक्षणस्य खपुष्पस्येव नास्त्युत्पाद इति ॥ 21 ॥

एवं भावानामुत्पादाभावं प्रतिपाद्य अतः परं स्थितिर्विचार्यते ॥

अत्राह- विद्यत एव भावानामुत्पादः, तद्भावभाविधर्मसद्भावात् । नानुत्पन्नस्य स्थिति संभवतीत्युत्पादभावेन स्थितेर्भावात् । स्थितिरुत्पादभावभाविनी भवति । तस्मादुत्पादो ऽप्यस्ति, तद्भावभाविधर्मसद्भावात् । इह यन्नास्ति, न तद्भावभाविधर्मसद्भावः, तद्यथा गगनकुसुमसौरभ्यस्येति उच्यते । स्यादुत्पादः, यदि तद्भावभाविनी स्थितिरेव स्यात् । न त्वस्ति । तदेवम्-

न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति । न तिष्ठति तिष्ठमानः को ऽनुत्पन्नश्च तिष्ठति ॥ 22 ॥

तत्र स्थितं न तिष्ठति तत्र स्थितिक्रियानिरोधात् । अस्थितभावो ऽपि न तिष्ठति स्थितिरहितत्वात् । तिष्ठमानमपि न तिष्ठति स्थितिद्वयप्रसङ्गात्, स्थितास्थितव्यतिरिक्तसंतिष्ठमानाभावाच्च अपि च ।

को ऽनुत्पन्नश्च तिष्ठति । इहोत्पादप्रतिषेधात्को ऽसावनुत्पन्नः पदार्थो यस्तिष्ठेदिति सर्वथा नास्ति स्थितिः ॥ 22 ॥ अपि च । इयं स्थितिर्निरुध्यमानस्य भावस्य स्यादनिरुध्यमानस्य वा? उभयथा च न युज्यते इति प्रतिपादयन्नाह-

स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते । यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ 23 ॥

निरुध्यमानस्य निरोधाभिमुखस्य तावद्भावस्य विरोधिनी स्थितिर्न संभवति । यश्चाप्यनिरुध्यमानः स भाव एव न भवति, कुतस्तस्य स्थितिर्भविष्यति ॥ 23 ॥

अपि च । जरसा मरणेन च सर्व एव भावाः क्षणमपि न त्यज्यन्ते । यदा चैतदेवम् तदा जरामरणविरोधिन्याः स्थितेर्भावेषु प्रवृत्त्यवकाश एव नास्तीति प्रतिपादयन्नाह-

जरामरणधर्मेषु सर्वभावेषु सर्वदा । तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥ 24 ॥ के हि नाम जरामरणरहिता भावा येषां स्थितिः स्यात्? तस्मान्नास्त्येव स्थितिरित्यभिप्रायः ॥ 24 ॥ यदि च, अस्याः स्थितेरन्या वा स्थितिः स्थित्यर्थं परिकल्प्येत, स्वयं वा स्वात्मानं स्थापयेत् । उभयथा च न युज्यते इत्याह-

स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते । उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ 25 ॥

ऽअनुत्पन्नो ऽयमुत्पादः स्वात्मानं जनयेत्कथम् ।ऽ; इत्यादिना यथा उत्पाद आत्मानं न जनयति इत्युक्तम्, एवं स्थितिरपि नात्मानं स्थापयतीति वक्तव्यम् ।

अस्थिता स्थितिरेषा चेत्स्वात्मानं स्थापयेत्कथम् । स्थिता चेत्स्थापयत्येषा स्थितायां स्थाप्यते ऽथ किम् ॥

इति योज्यम् । यथा च-

अन्य उत्पादयत्येनं यद्युत्पादो ऽनवस्थितिः ।

इत्युत्पादे व्याख्यातम्, एवं स्थितावपि व्याख्येयम्-

अथान्या स्थापयत्येनां स्थितिर्यद्यनवस्थितिः ।

इति । एवं स्थितिरपि न युक्ता । अत एवोक्तं भगवता-

अस्थिता हि इमे धर्माः स्थितिश्चैषां न विद्यते । अस्थितिः स्थितिशब्देन स्वभावेन न विद्यते ॥

न स्थितिर्नापि चो जातिर्लोकनाथेन देशिता लोकनाथं विदित्वैवं समाधिं तेन जानथा ॥ इति ॥

उक्तं च आर्यसचर्यगाथासु-

आकाशनिश्रित समारुत आपखन्धो तन्निश्रिता इय मही पृथिवी जगच्च । सत्त्वान कर्मौपभोगनिदानमेवं आकाशथानु कृत चित्तम एतमर्थम् ॥

यावत्-

स्थानम्मयानु अयु थानु जिनेन उक्तो ॥ इति विस्तरः ॥ 25 ॥ अत्राह- विद्येते एव स्थित्युत्पादौ तत्सहचारिधर्मसद्भावात् । इह उत्पादस्थितिलक्षणसहचारिणी संस्कृतानामनित्यतास्ति । तस्मात्स्थित्युत्पादावपि स्तः इति । उच्यते । स्यात स्थित्युत्पादौ, यदि अनित्यतैव स्यात् । न त्वस्ति । कथमिति? यस्मात्-

निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते । तथापि निरुध्यमानं किमजातं निरुध्यते ॥ 26 ॥

यदि अनित्यतेति काचित्स्यात्, सा निरुद्धस्य भावस्य अनिरुद्धस्य वा निरुध्यमानस्य वा स्यात् । तत्र निरुद्धं निरुध्यते इति न युक्तम्, अतीतवर्तमानयोर्विरोधात् । अनिरुद्धमपि न युक्तम्, निरोधविरहितत्वात्, यदनिरुद्धमेव तत्कथं निरुध्यत इति परस्परविरोधाच्च । तथापि निरुध्यमानं न निरुध्यते इत्यनेन संबन्धः । निरुध्यमानमपि न निरुध्यते निरुध्यमानाभावात्, (pp_70) निरोधद्वयप्रसङ्गाच्च । यतश्चैवं त्रिष्वपि कालेषु निरोधासंभवः, तस्मान्नास्त्येव निरोध इति कुतस्तत्सहचारिस्थित्युत्पादसंभवः स्यात्? अपि च । प्रागुत्पादप्रतिषेधादसंभव एव निरोधस्येत्याह-

किमजातं निरुध्यते । इति ॥ 26 ॥ अपि च । अयं निरोधः स्थितस्य वा भावस्य स्यादस्थितस्य वा? उभयथा च न युज्यते इत्याह-

स्थितस्य तावद्भावस्य निरोधो नोपपद्यते ।

स्थितस्य निरोधविरुद्धस्य नास्ति निरोधः । नास्थितस्यापि भावस्य निरोध उपपद्यते ॥ 27 ॥अस्थितस्य अभावस्य अविद्यमानस्य निरोधो नास्ति, इति सर्वथा नास्ति निरोधः ॥ 27 ॥ किं चान्यत् । यदि इह निरोधः स्यात्, स तयैवावस्थया तस्या एवावस्थायाः स्यादन्यया वा अन्यस्या अवस्थायाः स्यात् । सर्वथा च नोपपद्यते इति प्रतिपादयन्नाह-

तयैवावस्थयावस्था न हि सैव निरुध्यते । अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥ 28 ॥

तयैव तावत्क्षीरावस्थया सैव क्षीरावस्था न निरुध्यते, स्वात्मनि क्रियाविरोधात् । नाप्यन्यया दध्यवस्थया क्षीरावस्था निरुध्यते । यदि हि क्षीरदध्यवस्थयोर्यौगपद्यं स्यात्, स्यात्तयोर्विनाश्यविनाशकभावः । न तु दध्यवस्थायां क्षीरावस्था अस्ति । यदा च नास्ति, तदा कामसती विनाशयेत्? यदि विनाशयेत्, खरविषाणतीक्ष्णतामपि विनाशयेत् । तस्मादन्ययाप्यवस्थया नैवान्यावस्था निरुध्यते ॥ 28 ॥

अत्राह- यद्यपि तयैवावस्थया सैवावस्थ्या, अन्यया वा अवस्थया अन्यावस्था न निरुध्यते, तथापि क्षीरावस्थायास्तावन्निरोधो ऽस्ति, ततश्च उत्पादो ऽपि स्यादिति । उच्यते । अहो बत अतिजडतामात्मनो भवान् प्रकटयति । ननु च पूर्वोक्तेन न्यायेन

यदैवं सर्वधर्माणामुत्पादो नोपपद्यते ।

इत्युक्तम्, तदैवं सर्वधर्माणां निरोधो नोपपद्यते ॥ 29 ॥इति स्फुटतरमेव प्रतिपादितं भवति ॥ 29 ॥ अपि च । निरोधो नाम यदि कश्चित् स्यात्, स सतो वा भावस्य स्यादसतो वा । तत्र-

सतश्च तावद्भावस्य निरोधो नोपपद्यते ।

स्वभावादप्रच्युतस्य भावस्य निरोधो न युक्तः । यस्मात्- एकत्वे न हि भावश्च नाभावश्चोपपद्यते ॥ 30 ॥ निरोधो हि नाम अभावः । स यस्य भवति, स नैव भवति । ततश्च सतो भावस्य निरोध इति ब्रुवता भावाभावयोरेकाधिकरणता अभ्युपगता भवति । एकत्वे सति उभयं न युज्यते । यदि तदानीं भावः स्यात्, तदा निरोधेनाभावेनावेशाद्भावव्यपदेशो ऽयुक्तः । अथ अभावः, सो ऽप्यस्य न युज्यते, अभावविरोधिना भावरूपेणावियोगात् । तस्मादेकत्वे सति भावाभावयोः स पदार्थो नैव भावो नाप्यभाव इति युज्यते । अथवा, परस्परविरुद्धत्वादालोकान्धकारवदेकत्वे सति न हि भावश्च नाभावश्चोपपद्यते । एवं तावत्सतो भावस्य निरोधो न युक्तः ॥ 30 ॥

इदानीम्-

असतो ऽपि न भावस्य निरोध उपपद्यते ।

अविद्यमानस्याभावस्य न विनाशो ऽस्ति वन्ध्यातनयस्येव, अविद्यमानत्वात् । अत एवाह- न द्वितीयस्य शिरसच्छेदनं विद्यते यथा ॥ 31 ॥ प्रसिद्धासत्त्वस्यैव नराणां द्वितीयस्य शिरसो दृष्टान्तत्वेनोपादानान्निर्देशापूर्णत्वान्नास्तीति नोपात्तम् । तदेवमसतो भावस्य निरोधो न संभवति, सतो ऽपि न । यश्चोभयथापि न संभवति, स केनात्मना स्थितः? नास्त्येव निरोध इति प्रतीयताम् ॥ 31 ॥

किं चान्यत् । यदि निरोधो नाम भावानां निरोधक इति कल्प्यते, तस्येदानीं किमन्यो निरोध इष्यते, उत न? यदि इष्यते तन्न युज्यते ।

न स्वात्मना निरोधो ऽस्ति निरोधो न परात्मना ।

कथं पुनर्नास्तीति प्रतिपादयन्नाह- उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ 32 ॥ तत्र यथा-

अनुत्पन्नो ऽयमुत्पादः स्वात्मानं जनयेत्कथम् ।

इत्यादिना उत्पादः स्वात्मानं नोत्पादयति, एवं निरोधो ऽपि स्वात्मानं न निरोधयति । कथमिति? उच्यते-

अनिरुद्धो निरोधो ऽयं स्वात्मानं नाशयेत्कथम् । अथ नष्टो नाशयति नष्टे किं नाश्यते पुनः ॥

इति सममुत्पादेन वक्तव्यम् । एवं च स्वात्मना न निरोधो ऽस्ति । निरोध इदानीं परात्मनापि नास्ति । कथम्? तत्र यथा उत्पादे गदितम्- ऽअन्य उत्पादयत्येनम्ऽ; इत्यादि, एवं निरोधे ऽपि वक्तव्यम्-

अन्यो विनाशयत्येनं नाशो यद्यनवस्थितिः । अथाविनाशो नष्टो ऽयं सर्वं नश्यतु ते तथा ॥

इति । तदेवं परात्मनापि निरोधो न संभवतीति नास्ति निरोधस्य निरोधः ॥

अथ मन्यसे- नास्त्येव निरोधस्य निरोध इति, तदयुक्तम् । यदि हि निरोधस्य निरोधो न स्यात, तदा निरोधरहितत्वात्संस्कृतलक्षणमवहीयते । तदेवं यदि विनाशस्य विनाशः परिकल्प्यते तथापि न युक्तो विनाशः । अथ न परिकल्प्यते, तथापि न युक्त इति । कथं त्विदानीं विनाशो योक्ष्यते परस्य? अथ स्यात्- तथापि एवमेव विचारे सति विनाशो भवतो ऽपि न युज्यते, ततः य उभयोर्दोषः, न तेनैकश्चोद्यो भवतीति । उच्यते । नैवेदं चोद्यं ममापतति । किं कारणम्? ये स्वात्मना निःस्वभावा भावाः, ते च निःस्वभावा एव सन्तो बालानामिदंसत्याभिनिवेशिनां व्यवहारपथमुपयान्ति अविचारप्रसिद्धेनैव न्यायेनेति तेषु नास्ति यथोदितविचारावतारो ऽस्माकम् मायास्वप्नगन्धर्वनगरादिवत्तु लौकिकाः पदार्था निरुपपत्तिका एव सन्तः सर्वलोकस्याविद्यातिमिरोपहतमतिनयनस्य प्रसिद्धिमुपगता इति परस्परापेक्षयैव केवलं प्रसिद्धिमुपगता बालैरभ्युपगम्यन्ते । यथोक्तं शतके-

अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः । धूमिकान्तःप्रतिश्रुत्कामरीच्यभ्रैः समो भवः ॥

तस्मात्सति उत्पादे उत्पाद्यम्, सति उत्पाद्ये उत्पादः । सति निरोधे निरोध्यम्, सति निरोध्ये निरोधः, इत्येवं लौकिकस्य व्यवहारस्याभ्युपगमात्कुतो ऽस्मत्पक्षे समप्रसङ्गिता भवितुमर्हति ।

यस्तु विनाशस्य अहेतुकत्वमभ्युपेत्य क्षणिकतां संस्काराणामाह, तस्य निर्हेतुकत्वात् । खपुष्पवद्विनाशाभावात् कुतः क्षणिकत्वं भावानां सेत्स्यति, कुतो विनाशरहितानां संस्कृतत्वमपीति सर्वमेव असमञ्जसं तस्य जायते । जातिप्रत्ययं जरामरणं संस्कृतलक्षणानां च संस्कारस्कन्धान्तर्भाव वर्णयता भगवता ननु सहेतुकत्वं स्पष्टमादर्शितं विनाशस्य । जातिमात्रापेक्षत्वाच्चास्य क्षणभङ्गो ऽपि सुखसाध्य इति सर्वं सुस्थं जायते ॥

अथ स्यात्- विनाशो हि नाम अभावः, यश्च अभावः, किं तस्य हेतुना कर्तव्यम् । अतो निर्हेतुको विनाश इति । ननु च भावे ऽपि हेत्वभावप्रसङ्गो भवति । भावो हि नाम विद्यमानः, यश्च विद्यमानः तस्य च किं हेतुना प्रयोजनम्? न हि जातं पुनरपि जन्यते । तस्मात्सर्वत्रैव हेत्वभावप्रसङ्गादयुक्तमेतत् ॥

अपि च । यथा उत्पादः सहेतुकः पूर्वमभावात्पश्चाच्च भावात्, एवं विनाशो ऽपीष्यताम् । विनाशो हि न सर्वदा भवति, उत्पादात्पूर्वमभावात्पश्चाच्च भावात् । यच्चोच्यते- यश्चाभावः तस्य (pp_73) किं हेतुना कर्तव्यमिति, तदयुक्तम् । यस्मान्न वयं विनाशस्य हेतुना किंचित्क्रियमाणमिच्छामः, किं तर्हि विनाश एव क्रियते इति वर्णयामः । नन्वेवं सति क्रियमाणत्वाद्विनाशो ऽपि भावः प्राप्नोतीति चेत्, इष्यत एवैतत् । विनाशो हि स्वरूपापेक्षया भावः, रूपादिधर्मनिवृत्तिस्वभावत्वात्तु न भावः । अपि च । मरणमपि द्विविधकार्यप्रत्युपस्थापनं संस्कारविध्वंसनं च करोति । अपरिज्ञानानुपच्छेदं (?) चेत्यागमात् कथं न सहेतुको विनाशः? अपि च । कल्पिताभावलक्षणायाश्च शून्यतायाः परेण भावरूपतामभ्युपगच्छता कथमभावस्य भावत्वं नाभ्युपगतं भवति? भावत्वाच्च कथमसंस्कृतत्वं शून्यतायाः स्यात्? अतः सर्वमभ्युपेतं विहीयते भवता । अत एव वक्ष्यति-

भवेदभावो भावश्च निर्वाणमुभयं कथम् । न संस्कृतं हि निर्वाणं भावाभावौ च संस्कृतौ ॥

इत्यलं प्रसङ्गेन । प्रकृतमेव व्याख्यास्यामः ॥ 32 ॥

अत्राह- यदि उत्पादस्थितिभङ्गाः संस्कृतस्य निषिद्धाः, तथापि संस्कृतमस्ति विशेषलक्षणयुक्तम् । तथाहि काठिन्यादिकं सास्नादिकं च तस्य विशेषलक्षणमुपदिश्यते । तस्मात्संस्कृतस्य सद्भावात्तल्लक्षणमप्यस्तीति । उच्यते । स्यादेवं यदि संस्कृतमेव वस्तु स्यात् । कुतः? यस्मात्-

उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम् ।

यदा यथोक्तेन न्यायेन उत्पादस्थितिभङ्गा एव निषिद्धाः, तदा कुतः संस्कृतं वस्तु तद्विशेषलक्षणमप्यस्तीति ॥

अत्राह- विद्यत एव संस्कृतम्, तत्प्रतिपक्षासंस्कृतसद्भावात् । उच्यते । स्यादेतदेवम्, यदि असंस्कृतमेव स्यात् । यस्मात्- संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥ 33 ॥ अत्रैके आकाशाप्रतिसंख्यानिरोधनिर्वाणान्यसंस्कृतानीति कल्पयन्ति । अपरे शून्यतां तथतालक्षणामसंस्कृतां परिकल्पयन्ति । तदेतत्सर्वं संस्कृतस्याप्रसिद्धौ सत्यां नास्त्येवेति स्पष्टमादर्शितम् ॥ 33 ॥

अत्राह- यदि उत्पादस्थितिभङ्गा न सन्तीत्यवधारितम्, यत्तर्हि इदमनावरणज्ञानिना मुनिना-

"संस्कृतस्य भिक्षवः उत्पादो ऽपि प्रज्ञायते, व्ययो ऽपि, स्थित्यन्यथात्वमपि"

इत्युदाहृतम्, तत्कथं वेदितव्यमिति? उच्यते-

यथा माया यथा स्वप्नो गन्धर्वनगरं यथा । तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम् ॥ 34 ॥

यथा मायादयः स्वभावेनानुत्पन्ना अविद्यमाना मायादिशब्दवाच्या मायादिविज्ञानगम्याश्च लोकस्य, एवमेते ऽपि लोकप्रसिद्धिमात्रेण उत्पादादयः स्वभावेन अविद्यमाना अपि भगवता तथाविधविनेयजनानुग्रहचिकीर्षुणा निर्दिष्टा इति । अत एवोक्तम्-

त्वक्स्नायुमांसास्थिसमुच्छ्रये च उत्पाद्य संज्ञां मम पत्निरेषा । मूढा हि बला जनयन्ति रागं स्त्रियो न जानन्ति यथैव मायाम् ॥

यथा कुमारी सुपिनान्तरस्मिं सा पुत्र जातं च मृतं च पश्यति । जाते ऽतितुष्टा मृति दौर्मनस्थिता तथोपमान् जानथ सर्वधर्मान् ॥

यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिनं यथैव । स्वभावशून्या तु निमित्तभावना तथोपमान् जानथ सर्वधर्मान् ॥

संस्कृतासंस्कृतधर्मविविक्ता नास्ति विकल्पन तेषमृषीणाम् । सर्वगतीषु असंस्कृतप्राप्ता दृष्टिगतेहि सदैव विविक्ता ॥

नित्यमरक्त अदुष्ट अमूढाः तस्य सभावसमाहितचित्ता । एष समाधिबली बलवन्तो यो इमु जानति शून्यकधर्मान् ॥ इति ॥ 34 ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचित्तायां प्रसन्नपदायां मध्यमकवृत्तौ संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् ॥

8

कर्मकारकपरीक्षा अष्टमं प्रकरणम् ।

अत्राह- विद्यन्त एव संस्कृतस्वभावतो विज्ञानादयः संस्कृता धर्माः, तद्धेतुककर्मकारकसद्भावात् । उक्तं हि भगवता-

अविद्यानुगतो ऽयं भिक्षवः पुरुषपुद्गलः पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि, आनिञ्जयानपि संस्कारानभिसंस्करोति ।

इत्यादिना कर्मणां कारको व्यपदिष्टः, तत्कर्मफलं च विज्ञानादिकमुपदिष्टम् । यस्य च कारको ऽस्ति, तदस्ति, तद्यथा घटः । यन्नास्ति, न तस्य कारकः, तद्यथा कूर्मरोमप्रावारस्येति । उच्यते । स्याद्विज्ञानादिकं संस्कृतं यदि तस्य निष्पादककर्मकारकौ स्याताम् । न तु स्तः । यस्मात्-

सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् । कारको नाप्यसद्भूतः कर्मासद्भूतमीहते ॥ 1 ॥

तत्र करोतीति कारकः कर्ता । कुर्वाणस्यैव किंचित् कारकव्यपदेशो नाकुर्वाणस्य । तच्च करणं सद्भूतस्य वा कर्तुः परिकल्प्येत, असद्भूतस्य वा, सदसद्भूतस्य वा? क्रियते इति कर्म कर्तुरीप्सिततमम् । तदपि त्रिविधम्, सद्भूतमसद्भूतं सदसद्भूतं च । तत्र सद्भूतः कारकः क्रियायुक्तः सद्भूतं क्रियायुक्तं कर्म न करोतीत्येका प्रतिज्ञा । इदानीमसद्भूतो ऽपि क्रियाकारकरहितो ऽसद्भुतं क्रियारहितं कर्म न करोतीत्यपरा प्रतिज्ञा ॥ 1 ॥

तत्राद्यां प्रसाधयितुमाह-

सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।

क्रियानिबन्धनत्वात्कारकव्यपदेशस्य, करोति क्रियायुक्त एव कश्चित्सद्भूतः कारकव्यपदेशं लभते, ततश्च तस्यैवंविधस्य क्रियाहेतुकलब्धकारकव्यपदेशस्य अपरा क्रिया नास्ति यया कर्म कुर्यात् । क्रियाभावाच्च यदा कारकः कर्म न करोति, तदा कारकनिरपेक्षमकर्तृकं कर्म स्यात् । न चाकर्तृकं कर्म संभवति बन्ध्यासूनोरिव घटकरणमिति । एवं तावत्

सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।

इति दोषप्रसङ्गात् सद्भूतः कारकः कर्म न करोति ।

इदानीं सद्भूतमपि कर्म कारको न करोतीति प्रतिपादयन्नाह- सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ॥ 2 ॥ सद्भूतं नाम कर्म क्रियायुक्तम् । तस्येदानीं क्रियानिबन्धनलब्धकर्मव्यपदेशस्य अपरा क्रिया नास्ति यया कर्म क्रियेतेति । एवं तावत्सद्भूतस्य कर्मणः क्रिया नास्ति । यदा नास्ति परा क्रिया, तदा कारकस्तत्सद्भूतं कर्म नैव करोति । यदा च न करोति कर्मणो द्वितीयक्रियाभावात्, तदा (pp_76) अकर्मक एव अविद्यमानकर्मक एव तस्य कर्मणः कारकः स्यात् । न चैतद्यक्तम् । न हि अकृतानन्तर्यकर्मणः आनन्तर्यकर्मकारकत्वं दृष्टमिति ॥ 2 ॥

एवं सद्भूतः कारकः सद्भूतं कर्म न करोति इति संसाध्य इदानीं यथा असद्भूतमपि कर्म असद्भूतः कारको न करोति तथा प्रतिपादयन्नाह-

करोति यद्यसद्भूतो ऽसद्भूतं कर्म कारकः । अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् ॥ 3 ॥

असद्भूतः कारको यः क्रियारहितः । क्रिया च कारकव्यपदेशे हेतुरिति क्रियारहित कारको ऽपि निर्हेतुकः स्यात् । कर्माप्यसद्भूतं निर्हेतुकं स्यात् ॥ 3 ॥

सति च अहेतुकवादाभ्युपगमे कार्यं च कारणं च सर्वमपोदितं स्यादित्याह-

हेतावसति कार्यं च कारणं च न विद्यते ।

सत्येव हि हेतोरभ्युपगमे हेतुना यन्निष्पाद्यते तत् कार्यम्, तस्य च यो निष्पादकः तत्कारणमिति युज्यते । तद्यथा घटस्य मृद् हेतुः, घटः कार्यम्, तस्य च चक्रादयः सहकारिकारणम् । अहेतुकवादाभ्युपगमे तु हेत्वनपेक्षत्वान्मण्डूकजटाशिरोमणिमयघटवन्न स्यादयं घटः । असति घटे कुतस्तत्कारणमिति । एवम्-

हेतावसति कार्यं च कारणं च न विद्यते ।

ततश्च- तदभावे क्रिया कर्ता करणं च न विद्यते ॥ 4 ॥ तदभावे कार्यकारणभावे, किं कुर्वाणस्य क्रिया संभवेत्, कस्यां वा क्रियायां कुम्भकारस्य स्वातन्त्र्यात्कर्तृत्वं स्यात्? न चापि मृदां तादात्म्यप्रवृत्त्या साधकतमत्वेन करणत्वं युज्यत इति एवं तावत्-

तदभावे क्रिया कर्ता करणं च न विद्यते ॥

ततश्च-

धर्माधर्मौ न विद्येते क्रियादीनामसंभवे ।

इह यदा देवदत्तः प्राणातिपातविरतिक्रियास्वातन्त्र्यात्कर्ता सन् स्वतन्त्रकार्येण करणभूतेन प्राणातिपातविरतिक्रियां करोति, तदास्य धर्म उपजायते । एवं दशस्वपि कुशलेषु कर्मपथेषु कुशलक्रियानिष्पाद्येषु रत्नत्रयमातापितृतदन्यपूज्यपूजादिलक्षणेषु च कुशलधर्मप्रारम्भेषु योज्यम् । एवमधर्मे ऽपि प्राणातिपातादिलक्षणे कुशलविपर्ययेण क्रियाकर्तृकरणानामभावे सति कर्मणामभावप्रसङ्ग उद्भावनीयः ॥

यदा चैवं धर्माधर्मौ न संभवतः, तदा तत्फलमपि नास्त्येवेति प्रतिपादयन्नाह- धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते ॥ 5 ॥धर्माधर्मजनितमिष्टानिष्टफलं सुगतिदुर्गत्योर्धर्माधर्मयोरभावे सति न स्यात् ॥ 5 ॥ ततश्च-

फले ऽसति न मोक्षाय न स्वर्गायोपपद्यते । मार्गः

यदि हि फलमिष्टानिष्टं स्यात, स्याल्लौकिकस्य मार्गस्य ध्यानारूप्यसमाधिसमापत्तिलक्षणं स्वर्गः, तदानीं तदर्थं लौकिकमार्गभावना ज्यायसी स्यात्, कुगतिगमनकर्मपथविरतिसाफल्यं च स्यात् । यदि च मोक्षलक्षणं निर्वाणं फलं स्यात्, तदर्थ लोकोत्तरार्याष्टाङ्गमार्गभावनासाफल्यं स्यात् । यदा तु फलं नास्ति, तदा-

फले ऽसति न मोक्षाय न स्वर्गायोपपद्यते । मार्गः ।

किं च । एवं फलाभावे सति- सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते ॥ 6 ॥ या अपि ह्येताः कृषिवाणिज्यबल (भृति?) गतादिकाः क्रियाः फलार्थ प्रारभ्यन्ते, ता अपि सर्वाः फलाभावे सति नोपपद्यन्त इति । एवं सर्वक्रियाणां नैरर्थक्यं प्रसज्यते भवताम् । न चासां नैरर्थक्यम् । तस्मान्निरवशेषदोषविषवृक्षाकरभूतो ऽयं स्वर्गापवर्गापवादी नरकादिमहापायप्रपातवर्तनहेतुः दृष्टादृष्टहेतुपदार्थविरोधीति कृत्वा, सद्धिः असद्भूतः कारको ऽसद्भूतं कर्म करोतीति पक्षो निकृष्ट एवेति त्याज्यः ॥ 6 ॥

तदेवं प्रतिज्ञाद्वयं संसाध्य इदानीमुभयरूपः कारकः, उभयरूपमपि कर्म न करोतीत्याह-

कारकः सदसद्भूतः सदसत्कुरुते न तत् ।

तत्र यदेतदसद्भूतं कर्म क्रियायुक्तमक्रियायुक्तं च, तत् सदसद्भूतः कारको न करोतीति । यस्मात्- परस्परविरुद्धं हि सच्चासच्चैकतः कुतः ॥ 7 ॥ एकः पदार्थः एकस्मिन् काले क्रियायुक्तश्चाक्रियायुक्तश्चेति न युज्यत एवैतत् । ततश्च सदसद्भूतो ऽपि कारकः सदसद्भूतं कर्म न करोति, अविद्यमानत्वादित्यभिप्रायः ॥ 7 ॥

एवं समे पक्षे दूषणमुद्भाव्य विषमपक्षस्यापि निराचिकीर्षया आह-

सता च क्रियते नासन्नासता क्रियते च सत् । कर्त्रा

सता सद्भूतेन तावत्कर्त्रा क्रियायुक्तेन असद्भूतमसदक्रियायुक्तं कर्म न क्रियते । यस्मात्- सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि ॥ 8 ॥ सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।

इत्येवं तावत् सद्भूतः कारकः कर्म न करोति, नाप्यसद्भूतं कर्म क्रियते । असद्भूतं हि कर्म अहेतुकं भवेत् । ततश्च-

हेतावसति कार्यं च कारणं च न विद्यते ॥

इत्यादिना सर्वं दूषणमापद्यते । तस्मात्पूर्वोक्तैरेव हेतुभिर्दूषितत्वादस्य विषमपक्षस्य न पुनर्हेतोरुपादानमनुष्ठीयते । यथा चैतत् सता कर्त्रा असत्कर्म न क्रियते इति प्रतिपादितम्, एवमसता कर्त्रा अक्रियायुक्तेन सत्कर्म न क्रियते इति व्याख्येयमुक्तपथानुसारेण ॥ 8 ॥

एवं तावद्विषमपक्षे एकैकपदपरामर्शेन दूषणमभिधाय इदानीमेकैकस्य पदस्य पदद्वय परामर्शेन दूषणाभिधानमाह-

नासद्भूतं न सद्भूतः सदसद्भूतमेव वा । करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ 9 ॥

स कारकः सद्भूतः असद्भूतं कर्म सदसद्भूतमेव वा न करोतीति । कथमित्याह- पूर्वोक्तैरेव हेतुभिरिति । तत्र ऽसद्भूतस्य क्रिया नास्तिऽ; इत्यादिना सद्भूतः कारको न करोति । असद्भूतमपि कर्म न क्रियते ऽअहेतुकं भवेत्कर्मऽ; ऽहेतावसति कार्यं चऽ; इत्यादिना विहितदोषात् । सदसद्भूतमपि कर्म न क्रियते-

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः

इति वचनात् । एवं तावत्सद्भूतः कारको ऽसद्भूतं सदसद्भुतं च कर्म न करोति ॥ 9 ॥

इदानीमसद्भूतो ऽपि कारकः सद्भूतं कर्म सदसद्भूतं च कर्म न करोतीत्याह-

नासद्भूतो ऽपि सद्भूतं सदसद्भूतमेव वा । करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ 10 ॥

असद्भूतः कारको निर्हेतुको भवेत् । ऽहेतावसति कार्यं चऽ; इत्यादिना उक्तदोषादसद्भूतः कारको न करोति ।

सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ।

इति प्रसङ्गात् सद्भूतं कर्म न क्रियते । सदसद्भूतमपि कर्म न क्रियते,

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः । इति वचनात् ॥ 10 ॥ इदानीं सदसद्भूतो ऽपि कारकः एकैक एवोभयरूपः सन् यथा सद्भूतमसद्भूतं च भिन्नसंकेतं कर्म न करोति तथा प्रतिपादयन्नाह-

करोति सदसद्भूतो न सन्नासच्च कारकः । कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः ॥ 11 ॥

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः ।

इति वचनात्सदसद्भूतः कारको न करोति ।

सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ।

इति प्रसङ्गात्सद्भूतं कर्म न क्रियते । असद्भूतमपि कर्म अहेतुकं ऽहेतावसति कार्य चऽ; इत्यादिनोक्तदोषान्न क्रियते । यतश्चैवं समपक्षेषु विषमपक्षेषु च कर्तुः कर्मणश्च सर्वथा सिद्धिरयुक्ता, तस्माद्यदुक्तं विद्यन्त एव विज्ञानादयः संस्कृता धर्माः संस्कृतस्वभावाः तद्धेतुककर्मकारकसद्भावादिति, तदयुक्तम् ॥

अत्राह- किमवधारितमेतद्भवता न सन्ति भावा इति? न हि । भवतस्तु सस्वभाववादिनः स्वभावस्य भावानां वैधुर्यात्सर्वभावापवादः संभाव्यते । वयं तु प्रतीत्योत्पन्नत्वात्सर्वभावानां स्वभावमेवनोपलभामहे, तत्कस्यापवादं करिष्यामः? यथोक्तमार्यरत्नावल्याम्-

मरीचि तोयमित्येतदिति मत्वागतो ऽत्र सन् । यदि नास्तीति तत्तोयं गृह्णीयान्मूढ एव सः ॥

मरीचिप्रतिमं लोकमेवमस्तीति गृह्णतः । नास्तीति चापि मोहो ऽयं सति मोहे न मुच्यते ॥

अज्ञानकल्पितं पूर्वं पश्चात्तत्वार्थनिर्णये । यदा न लभते भावमेवाभावस्तदा कुह ॥ इति ॥ 11 ॥

तदेवं निःस्वभावानां सर्वभावानां कुतो यथोक्तप्रकारसिद्धिः? तस्माल्लौकिकं विपर्यासमभ्युपेत्य सांवृतानां पदार्थानां मरीचिकाजलकल्पानामिदंप्रत्ययतामात्राभ्युपगमेनैव प्रसिद्धिर्नान्येनेत्याह-

प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् । कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम् ॥ 12 ॥

इह अकुर्वाणस्य कर्मनिरपेक्षस्य कारकत्वाभावात् कर्मापेक्ष्य कारकस्य कारकत्वं भवति । कारकेण चाक्रियमाणस्य कस्यचित्कर्मत्वाभावात् क्रियमाणस्यैव कर्मव्यपदेशात्, तं कारकं प्रतीत्य कर्म प्रवर्तते इत्येवं कर्मकारकयोः परस्परापेक्षिकीं सिद्धिं मुक्त्वा नान्यत्सिद्धिकारणं पश्यामः ॥ 12 ॥

यथा च कर्मकारकयोः परस्परापेक्षिकी सिद्धिः, एवमन्येषामपि भावानामित्यतिदिशन्नाह-

एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः । कर्तुश्च

एवमित्यनेन अनन्तरां कर्मकारकप्रज्ञप्तिं दर्शयति । उपात्तिरुपादानम् । अनेन चोपात्तिक्रियामाह । सा च स्वसाधनं कर्तारमुपादातारं कर्म चोपादानं संनिधापयति । तयोश्च उपादेयोपादात्रोः परस्परापेक्षयोः कर्मकारकवदेव सिद्धिर्न स्वाभाविकी । कस्मात्पुनः स्वाभाविकी न भवति इत्याह- व्युत्सर्गादिति कर्मणः, कर्तुश्चेति । इतिशब्दो हेतुपरामर्शी । व्युत्सर्गो व्युदासः । ततश्च अयमर्थ उपपद्यते- यैरेव हेतुभिः कर्मणश्च व्युत्सर्गो ऽस्माभिरुक्तः, तैरेव हेतुभिः उपादाता उपादेयं च प्रतिषिद्धं वेदितव्यम् । न च केवलमनयोरन्योन्यापेक्षिकी सिद्धिः कतुर्श्च कर्मणश्च प्रतिषेधेनावसेया, अपि च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् ॥ 13 ॥ प्राज्ञ इति वाक्यशेषः । कर्मकारकोपादेयोपादातृव्यतिरिक्ता ये ऽन्ये भावा जन्यजनकगन्तृगमनद्रष्टव्यदर्शनलक्ष्यलक्षणोत्पाद्योत्पादकाः, तथा अवयवावयविगुणगुणिप्रमाणप्रमेयादयो निरवशेषा भावाः, तेषां कर्तृकर्मविचारेण स्वभावतो ऽस्तित्वं प्रतिषिध्य परस्परापेक्षिकीमेव सिद्धि प्राज्ञो निर्मुमुक्षुर्जातिजरामरणादिबन्धनेभ्यो मोक्षाय विभावयेत् ॥

एषां च विस्तरेण विचारो मध्यमकावतारादिभ्यो ऽवसेयः ॥

ननु च शेषान् भावान् विभावयेदित्यनेनैव उपादानोपादान्नोरधिगतत्वादुपादानोपादानं पुनरयुक्तम् । सत्यमेतत् । तथापि तत्त्वविचारे प्राधान्यज्ञापनार्थमुपादानोपादात्रोभेदेनोपादानम्, तथा हि उत्तरेषु प्रकरणेषु भूयसा अनयोरेव विचारो भविष्यतीति । अत एवोक्तं भगवता आर्योपालिपरिपृच्छायाम्-

भय दर्शित नैरयिकं मे सत्त्वसहस्र सवेजित नैके । न च विद्यति कश्चिह सत्त्व यो च्युतु गच्छति घोरमपायम् ॥

न च कारकु कारणं सन्ति येहि कृता असितोमरशस्त्राः । कल्पवशेन तु पश्यति तत्र कायि पतन्ति अपायित शस्त्राः ॥

चित्रमनोरम सज्जितपुष्पाः स्वर्णविमान जलन्ति मनोज्ञाः । तेष्वपि कारकु नास्तिह कश्चि ते ऽपि च स्थापित कल्पवशेन ॥

कल्पवशेन विकल्पितु लोकः संज्ञगहेण विकल्पितु बालः । सो च गहो अगहो असभूतो मायमरीचिसमा हि विकल्पाः ॥ इति ॥ 13 ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ कर्मकारकपरीक्षा नाम अष्टमं प्रकरणम् ॥

9

पूर्वपरीक्षा नवमं प्रकरणम् ।

अत्राह- यदुक्तम्- ऽएवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः । कर्तुश्चऽ; इति, तदयुक्तम् । यस्मात्-

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ । भवन्ति यस्य प्रागेभ्यः सो ऽस्तीत्येके वदन्त्युत ॥ 1 ॥ यस्य उपादातुः दर्शनश्रवणघ्राणरसनादीनि वेदनास्पर्शमनस्कारादीनि च भवन्ति, स उपादाता पूर्वमेभ्य उपादानेभ्यो ऽस्तीति सांमितीया वदन्ति ॥ 1 ॥ किं कारणम्? यस्मात्-

कथं ह्यविद्यमानस्य दर्शनादि भविष्यति । भावस्य तस्मात्प्रागेभ्यः सो ऽस्ति भावो व्यवस्थितः ॥ 2 ॥

इह विद्यमान एव देवदत्तो धनोपादानं कुरुते नाविद्यमानो वन्ध्यातनयः । एवं यदि तावत्पुद्गलो दर्शनादिभ्यः पूर्वं व्यवस्थितो न स्यात्, नासौ दर्शनादिकस्योपादानमकरिष्यत् । तस्मादस्ति असौ धनात्प्रागेव स्थितदेवदत्तवत् दर्शनादिभ्यः पूर्वं पुद्गलो यो ऽस्य उपादानं करिष्यतीति ॥ 2 ॥

उच्यते-

दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च । यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यते ऽथ सः ॥ 3 ॥

यौ ऽसौ पुद्गलो दर्शनादिभ्यः पूर्वमस्तीति व्यवस्थाप्यते, स केन प्रज्ञप्यताम्? पुद्गलप्रज्ञप्तेर्हि दर्शनादिकं कारणम् । स यदि तेभ्यः प्राग्व्यवस्थितो ऽस्तीति कल्प्यते, तदा दर्शननिरपेक्षः स्याद् घटादिव पटः । यश्च स्वकारणनिरपेक्षः स निर्हेतुको धनादिनिरपेक्षः धनिकवन्नास्तीत्यभिप्रायः ॥ 3 ॥

किं चान्यत्-

विनापि दर्शनादीनि यदि चासौ व्यवस्थितः । अमून्यपि भविष्यन्ति विना तेन न संशयः ॥ 4 ॥

यदि मन्यसे- दर्शनादिभ्यः पूर्वं पुद्गलो नामास्ति, स दर्शनादिकमुपादानमुपादत्ते इति । नन्वेवं सति निरस्तसंशयममून्यपि दर्शनादीनि विना पुद्गलेन भविष्यन्ति । तथाहि देवदत्तो धनसंबन्धात्पूर्वं धनव्यतिरिक्तो व्यवस्थितः सन् अर्थान्तरभूतमेव पृथक्सिद्धं धनमुपादत्ते । एवमुपादातुरपि स्वात्मव्यतिरेकेणार्थान्तरभूतं दर्शनादिकमुपादानं स्यात् ॥ 4 ॥

न तु संभवतीत्याह- अज्यते केनचित्कश्चित् किंचित्केनचिदज्यते । कुतः किंचिद्विना कश्चित् किंचित्कंचिद्विना कुतः ॥ 5 ॥

इह बीजाख्येन कारणेन किंचित्कार्यमभिव्यज्यते ऽङ्कुराख्यम्, तेन च कार्येण किंचित् कारणमभिव्यज्यते बीजाख्यम्- अस्येदं कारणमिदमस्य कार्यमिति । एवं यदि केनचिद्दर्शनादिकेनोपादानेन कश्चिदात्मस्वभावो ऽभिव्यज्यते अस्यायमुपादातेति, केनचिच्चात्मना किंचिदुपादानं दर्शनादिकमभिव्यज्यते इदमस्योपादानमिति, तदानीं स्यात्परस्परापेक्षयोरुपादानोपादात्रोः सिद्धिः यदा तु उपादातारं विना पृथक् सिद्धं दर्शनादिकमभ्युपगम्यते, तदा तन्निराश्रयमसदेव तस्मान्नास्त्युभयोरपि सिद्धिः, इति न युक्तमेतत्- दर्शनादिभ्यः पृथगवस्थित उपादातेति ॥ 5 ॥

अत्राह- यदुक्तं दर्शनश्रवणादिभ्य इत्यादि, अत्रोच्यते । यदि सर्वेभ्यो दर्शनादिभ्य प्रागवस्थित इत्यभ्युपगतं स्यात्, स्यादेष दोषः । यदा तु-

सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते ।

किं तर्हि एकैकस्मात्पूर्वो विद्यते । यदा चैवम्, तदा- अज्यते दर्शनादीनामन्येन पुनरन्यदा ॥ 6 ॥यदा दर्शनेन द्रष्टेत्यभिव्यज्यते, न तदा श्रवणादीन्युपादाय प्रज्ञप्यते, ततश्च पूर्वोक्तदोषानवसर इति ॥ 6 ॥ उच्यते । एतदपि न युक्तं दर्शनादिरहितस्य निरुपादानस्य निर्हेतुकस्य निरञ्जनस्यास्तित्वासंभवात् ।

सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते ।

इति परिकल्प्यते, एवमपि- एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते ॥ 7 ॥ यो हि सर्वेभ्यः पूर्वो न भवति, स एकैकस्मादपि न भवति । तद्यथा सर्वेभ्यो वृक्षेभ्य प्राग् वनं नास्ति, तदा एकैकस्मादपि नास्ति । सर्वासां च सिकतानां तैलजननाभावे सति एकैकस्या अपि सिकतायास्तैलं नास्ति । अपि च । यो ह्येकैकस्मात्पूर्वो भवति, ननु स सर्वेभ्यो ऽपि पूर्वं एवेत्यभ्युपगतं भवति । एकैकव्यतिरेकेण सर्वस्याभावात् । तस्मान्न युक्तमेकैकस्मात्पूर्वो विद्यत इति ॥ 7 ॥

इतश्च न युक्तम्- यस्मात्-

द्रष्टा स एव स श्रोता स एव यदि वेदकः ।

तदा-

एकैकस्माद्भवेत्पूर्वं

न च युक्तं वक्तुं स एव द्रष्टा स एव श्रोतेति । यदि स्यात्, तदा दर्शनक्रियारहितस्यापि श्रोतुर्द्रष्ट्टत्वं स्यात्, श्रवणक्रियारहितस्यापि द्रष्टुः श्रोतृत्वं स्यात् । न चैवं दृष्टं यद्दर्शनक्रियारहितो ऽपि द्रष्टा स्यात्, श्रवणक्रियारहितश्च श्रोतेति । अत एवाह- एवं चैतन्न युज्यते ॥ 8 ॥ इति । प्रतिक्रियं च कारकभेदात्कुत एतदेवं भविष्यतीति प्रतिपादयन्नाह- एवं चैतन्न युज्यत इति ॥

आचार्यबुद्धपालितस्तु व्याचष्टे- एकत्वे हि आत्मनः इन्द्रियान्तरगमनप्रसङ्गः पुरुषस्य स्यात्, वातायनान्तरोपगमनवदिति । अस्य आचार्यभावविवेको दूषणमाह- सर्वगतस्यात्मनो नेन्द्रियान्तरगमनमस्तीत्ययुक्तः प्रसङ्गदोष इति । तदेतदयुक्तं स्वयूथ्यपरिकल्पितपुद्गलवादनिरासस्य प्रस्तुतत्वात्, तस्य च सर्वगतत्वाप्रतिज्ञानात् । तस्माद् युक्त एव प्रसङ्गदोष ॥ 8 ॥

अथापि यथोक्तदोषपरिजिहीर्षया-

द्रष्टान्य एव श्रोतान्यो वेदको ऽन्यः पुनर्यदि ।

परिकल्प्यते, तदपि न युक्तम् । एवं हीष्यमाणे- सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत् ॥ 9 ॥ तद्यथा गोरन्यो ऽश्वः न हि गवि सति न भवति यौगपद्येन, एवं यदि द्रष्टुरन्यः श्रोता स्यात्, सद्रष्टर्यपि सति स्याद्यौगपद्येन । न चैवमिष्यते इति नास्त्यन्यत्वम् । अपि च । एवं सति बहव एवात्मानः प्राप्नुवन्ति द्रष्ट्टश्रोतृवेदकादीनां पृथक् पृथक् सिद्धयुपगमात् । तस्मादेकैकस्मादपि दर्शनादेः पूर्वं नास्ति पुद्गलो नाम कश्चित् ॥ 9 ॥

अत्राह- विद्यत एव पूर्वं स सर्वेभ्यो दर्शनादिभ्य आत्मा । अथ मतम्- यद्यस्ति, केन प्रज्ञप्यते स इति यदुच्यते, इह दर्शनादिभ्यः पूर्वं नामरूपावस्थायां चत्वारि महाभूतानि सन्ति यतः क्रमान्नामरूपप्रत्ययं षडायतनमिति दर्शनश्रवणादीन्युत्पद्यन्ते । तस्माद्दर्शनादिभ्यः पूर्वं चतुर्महाभूतोपादानमेवास्तीति । एवमपि-

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ । भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते ॥ 10 ॥

येभ्यो महाभूतेभ्यो दर्शनादिकमुत्पद्यते, तेष्वपि महाभूतोपादाननिमित्तको ऽप्येष न युज्यते पूर्वेणैव हेतुनेत्यभिप्रायः । तत्र यथा पूर्वमुक्तम्-

कुतः किंचिद्विना कश्चित्किंचित्कंचिद्विना कुतः ।

इति, इहापि तथैव वक्तव्यम् । महाभूतोपादानाद्यश्चात्मा पूर्वं सिद्धः स्यात्, स महाभूतान्युपादाय स्यात् । न चैवम्, निर्हेतुकत्वात् । यश्च नास्ति, स कथं महाभूतान्युपादास्यति? इति दर्शनोपादानवद्भूतोपादाने ऽपि दूषणमुक्तमेवेति न पुनरुच्यते ॥ 10 ॥

अत्राह- यद्यप्येवमात्मा प्रतिषिद्धः, तथापि दर्शनादिकमस्ति, अप्रतिषेधात् । न च अनात्मस्वभावानां घटादीनां दर्शनादिसंबन्धो ऽस्ति । तस्मात्संबन्धी विद्यत एवात्मेति । उच्यते । स्यादात्मा यदि दर्शनादीन्येव स्युः । न तु सन्ति । यस्य दर्शनादीन्युपादानं स यदा नास्तीति (pp_84) प्रतिपादितम्, तदा तस्मिन्नात्मनि उपादातरि असति, कुतो दर्शनादीनामुपादानभूतानामस्तित्वमित्याह-

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ । न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि ॥ 11 ॥

यस्य दर्शनादीनि परिकल्प्यन्ते स यदा नास्तीत्युक्तम्, ननु तदैव दर्शनादिकमपि नास्तीति स्पष्टमादर्शितं भवति । ततश्च दर्शनाद्यभावान्नास्त्येवात्मेति ॥ 11 ॥

अत्राह- किं खलु भवतो निश्चितमेतन्नास्त्येवात्मेति? केन एतदुक्तम्? ननु च अनन्तरमेवोक्तं दर्शनाद्यभावादात्मापि नास्तीति । उक्तमेतदेस्माभिः । न तु अस्यार्थो भवता सम्यग्निश्चितः । यतो भावरूप आत्मेति परिकल्पितः, स स्वभावतो न विद्यते, तस्य च मया स्वभावाभिनिवेशनिवर्तकमेव वचनमुक्तमसद्विपर्यासप्रतिपक्षेण, न तु अस्य अभावः परिकल्पितः । द्वयं ह्येतत् परित्याज्यं यश्च भावेष्वभिनिवेशः, यश्च अभावेषु अभिनिवेश इति । यथोक्तमार्यदेवेन-

यस्तवात्मा ममानात्मा तेनात्मानियमान्न सः । नन्वनित्येषु भावेषु कल्पना नाम जायते ॥ इति ॥ 11 ॥ एतदेव प्रतिपादयन्नाह-

प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च । न विद्यते ऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः ॥ 12 ॥

प्राक् तावद्दर्शनादिभ्य आत्मा नास्ति, तत्र हि तस्यास्तित्वाभावात् । दर्शनादिसहभूतो ऽपि नास्ति, पृथक्पृथगसिद्धयोः सहभावादर्शनात् शशशृङ्गयोरिव । आत्मोपादानयोश्च परस्परनिरपेक्षयो पृथक्पृथगसिद्धत्वात् सांप्रतमपि नास्ति । उर्ध्वमपि । यदि हि पूर्वं दर्शनादीनि स्युः, उत्तरकालमात्मा स्यात्, तदानीमूर्ध्वं संभवेत् । न चैवम्, अकर्तृकस्य कर्मणो ऽसिद्धत्वात् । यश्चैवमात्मा दर्शनादिभ्यः प्राक् पश्चाद् युगपच्च परीक्ष्यमाणो नास्ति, तस्य इदानीमनुपलब्धस्वभावस्य अस्तित्वं नास्तित्वं वा कः परिकल्पयेत्प्राज्ञः? तस्मात्कर्मकारकवदेव उपादानोपादात्रोः परस्परापेक्षा सिद्धिर्न स्वाभाविकीति स्थितम् ॥

अत एवोक्तं भगवता आर्यसमाधिराजभट्टारके-

तहि कालि सो दशबलो अनघो जिनु भाषते इमु समाधिवरम् । सुपिनोपमा भगवती सकला न हि कश्चि जायति न चो म्रियते ॥

न च सत्त्वु लभ्यति न जीवु नरो इमि धर्म फेनकदलीसदृशाः । मायोपमा गगनविद्युसमा दकचन्द्रसंनिभ मरीचिसमाः ॥

न च अस्मि लोकि मृतु कश्चि नरो परलोक संक्रमति गच्छति वा । न च कर्म नश्यति कदाचि कृतं फलु देति कृष्णशुभ संसरतो ॥

न च शाश्वतं न च उच्छेद पुनो न च कर्मसंचयु न चापि स्थितिः । न च सो ऽपि कृत्व पुनरास्पृशति न च अन्यु कृत्व पुन वेदयते ॥

न च संक्रमो न च पुनागमनं न च सर्वमस्ति न च नास्ति पुनः । न च दृष्टिस्थानगतिशुद्धिरिह न च सत्त्वचारसुपशान्तगति ॥

अनुत्पाद शान्त अनिमित्तपदं सुगतान गोचर जिनान गुणा । बल धारणी दशबलान बलं बुद्धानियं वृषमिता परमा ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ पूर्वपरीक्षा नाम नवमं प्रकरणम् ॥

10 अग्नीन्धनपरीक्षा दशमं प्रकरणम् ।

अत्राह- यदिदमुक्तं तस्मात्कर्मकारकवदेव उपादानोपादात्रोरपि न स्वाभाविकी सिद्धिरिति, तदयुक्तम्, सापेक्षाणामपि पदार्थानां सस्वाभाव्यदर्शनात् । तथा हि अग्निरिन्धनमपेक्ष्य भवति । न च निःस्वभावो ऽग्निः, तस्य औष्ण्यदाहकत्वादिस्वभावकार्योपलम्भात् । एवमग्निमपेक्ष्य इन्धनं भवति । न च तन्निःस्वभावम्, बाह्यमहाभूतचतुष्टयस्वभावत्वात् । एवमुपादानसापेक्षो ऽप्युपादाता स्वभावतो भविष्यति, उपादातृसापेक्षं चोपादानमित्यग्नीन्धनवदेतौ भविष्यत उपादानोपादाताराविति । उच्यते । स्यादेतदेवम्, यदि अग्नीन्धने एव स्याताम्, न तु स्तः । कथम्? इह यदि अग्नीन्धने स्याताम्, नियतं ते एकत्वेन वा स्यातामन्यत्वेन वा? उभयथा तु न युज्यत इत्याह-

यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः । अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् ॥ 1 ॥

तत्र इध्यते यत् तदिन्धनम्, दाह्यं काष्ठादिकसंभूतम् । तस्य दग्धा कर्ता अग्निः । तत्र यदि तावद् यदिन्धनं स एवाग्निरिति परिकल्प्यते, तदा कर्तृकर्मणोरेकत्वं स्यात् । न चैवं दृष्टम्, घटकुम्भकारयोश्छेत्तृच्छेत्तव्ययोश्चैकत्वप्रसङ्गात्, तस्य चानभ्युपगमात् । अथ अन्यत्वम्, एवमपि यदि इन्धनादन्यो ऽग्निः स्यात्, तदा इन्धननिरपेक्षस्याग्नेरुपलब्धिः स्यात् । न हि घटादन्यः पटस्तन्निरपेक्षो न दृष्टः । न चैवमिन्धननिरपेक्षो ऽग्निरिति न युक्तमेतत् ॥ 1 ॥

अपि च । यदि इन्धनादन्यो ऽग्निः स्यात्, तदानीम्-

नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः । पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥ 2 ॥ इन्धनात्पृथग्भूतो ऽग्निरिष्यमाणो नित्यप्रदीप्त एव स्यात्, अप्रदीपनहेतुकश्च स्यात् पुनरारम्भवैयर्थ्यं च स्यात्, एवं च सति अकर्मक एव स्यात् ॥ 2 ॥ अमुमेवार्थं प्रतिपादयितुकाम आह-

परत्र निरपेक्षत्वादप्रदीपनहेतुकः । पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते ॥ 3 ॥

इति । तत्र प्रदीप्यते तदिति प्रदीपनमिन्धनम् । प्रदीपनं हेतुरस्येति प्रदीपनहेतुक, न प्रदीपनहेतुकः अप्रदीपनहेतुकः । यदि प्रदीपनादन्यो ऽग्निः स्यात्, तदा इन्धननिरपेक्षः स्यात् । यो हि यस्मादन्यः, स तन्निरपेक्षो दृष्टः, घटादिव पटः । ततश्च परत्र निरपेक्षत्वादप्रदीपनहेतुकः स्यात्, प्रदीपनसापेक्षस्य हि अग्नेः तदभावे स्यान्निर्वाणम् । यदा तु प्रदीपननिरपेक्ष, तदा निर्वाणप्रत्ययवैकल्यान्नित्यप्रदीप्त एव भवेत् । नित्यप्रदीप्ते चाग्नौ सति अग्नेरपरिनिर्वाणार्थं (pp_87) चास्य उपादानसंधुक्षणादिकं व्यर्थमेव स्यात् । एवं च सति अकर्मको ऽग्निः कर्ता स्यात् । न च अविद्यमानकर्मकस्य कर्तृत्वं वन्ध्यासुतस्येव । तस्मादिन्धनादग्नेरन्यत्वमिति न युज्यते ॥ 3 ॥

अत्राह- यदेतदुक्तम्-

अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् ।

इति, तदयुक्तम् । इहान्यत्वे ऽपि सति अग्नीन्धनयोर्न विनैव इन्धनेन अग्नेरस्तित्वम् । यस्माज्ज्वालापरिगतो ऽर्थो दाह्यत्वलक्षणः इन्धनम् । तदाश्रयेण च अग्निरुपलभ्यते न पृथक् । यदा चैतदेवम्, अग्निसंबन्धादेवेन्धनव्यपदेशो भवति, इन्धनाश्रयेण चाग्निरुपलभ्यते न पृथक्, तदा अन्यश्चेदिन्धनादग्निरित्यादिदोषप्रसङ्गस्य नास्त्येवावसर इति । अस्य पक्षस्याष्ययुक्ततामुद्भावयन्नाह-

तत्रैतस्मादिध्यमानमिन्धनं भवतीति चेत् । केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा ॥ 4 ॥

यदि मन्यसे ज्वालापरिगतो ऽर्थो दाह्यलक्षणः इन्धनम्, तदाश्रयश्चाग्निरिति, एवमपि परिकल्प्यमाने इन्धनमग्निर्दहतीति नोपपद्यते । यस्मात्

केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा ।

इहेन्धनमग्निर्दहतीति परिकल्प्यमाने ज्वालापरिगतं दाह्यमिन्धनमिति, न चैतद्वयतिरेकेणापरमग्निं पश्यामो येनेन्धनं दह्येत । यस्मादेतावन्मात्रमिदमुपलभ्यते यदुत ज्वालापरिगतं दाह्यमात्रम् । यदा चैतद्वयतिरिक्तो नास्त्यग्निः, तदा केन तदिन्धनं दाह्यताम्? तावन्मात्रमिदं यदा, इध्यमानमात्रमिदं यदेत्यर्थः । तस्मान्नाग्निरिन्धनं दहति तद्वयतिरिक्ताग्न्यभावात् । यदा चैवम्, तदा कुतः कस्यचिज्ज्वालापरिगतिरिति स एव दोषो न वेपते ॥ 4 ॥

अपि च । अन्यत्वाभ्युपगमे ऽग्नीन्धनयोरिध्यमानव्यपदेशाभावात्कुत इध्यमानमिन्धनम्, कुतो वा इन्धनमग्निर्धक्ष्यतीति प्रतिपादयन्नाह-

अन्यो न प्राप्स्यते ऽप्राप्तो न धक्ष्यत्यदहन् पुनः । न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान् ॥ 5 ॥

यदि इन्धनादन्यो ऽग्निः स्यात्, सो ऽन्यत्वादन्धकारमिवेन्धनं न प्राप्नुयात् । न च धक्ष्यति अप्राप्तत्वाद्विप्रकृष्टदेशावस्थितमिवेत्यभिप्रायः । एवं च इध्यमानमिन्धनं भवतीति नोपपन्नमेव । ततश्च अग्नेर्निर्वाणं न स्यात् । अनिर्वाणश्च स्वलिङ्गवानेव स्थास्यति, प्रदीप्त इत्यर्थः । वाशब्दो ऽवधारणे द्रष्टव्यो विकल्पार्थो वा । स्वलिङ्गवानेव अग्निः स्थास्यति, यदि वा नास्त्यन्यत्वमग्नेरिन्धनादिति । समुच्चये वा । अन्यो न प्राप्स्यति न धक्ष्यति न च निर्वास्यति स्वलिङ्गवांश्च स्थास्यति । तस्मादयुक्तमिन्धनादन्यत्वमग्नेः ॥ 5 ॥

अत्राह- अयुक्तमग्नीन्धनयोरन्यत्वम्, यस्मान्न प्राप्स्यते ऽप्राप्तो न धक्ष्यत्यदहन् पुनरित्यादि, तदयुक्तम् । दृष्टा हि अन्यत्वे स्त्रीपुरुषयोः प्राप्तिः, एवमग्नीन्धनयोरपि भविष्यतीति । उच्यते-

अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि । स्त्री संप्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा ॥ 6 ॥ स्यादेतदेवम्, यदि स्त्रीपुरुषवत्परस्परानपेक्षा अग्नीन्धनयोः सिद्धिः स्यात् ॥ 6 ॥ न त्वस्तीत्याह-

अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात् । अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते ॥ 7 ॥

न त्वेवं संभवति यदिन्धननिरपेक्षो ऽग्निः स्यात्, अग्निनिरपेक्षं चेन्धनमिति । तस्माद् दृष्टान्तवैयर्थ्यम् । अन्योन्यापेक्षाधीनजन्मनां सत्यन्यत्वे येषां प्राप्तिः सिद्धा, तेषामेव दृष्टान्तत्वेनोपादानं न्याय्यं स्यात् । ते च न संभवन्तीति न युक्तमेतदन्यत्वे सति प्राप्तिरस्तीति ॥ 7 ॥

अत्राह- यद्यपि अग्नीन्धनयोः स्त्रीपुरुषवत्परस्परनिरपेक्षा सिद्धिर्नास्ति, तथापि परस्परापेक्षा तावदस्ति । ततश्च अस्त्येवाग्नीन्धनयोः स्वरूपसिद्धिः परस्परसापेक्षत्वात् । न हि अविद्यमानयोर्वन्ध्यापुत्रदुहित्रोः परस्परापेक्षता दृष्टेति । उच्यते । एवमपि-

यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम् । कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् ॥ 8 ॥

अस्येन्धनस्य अयमग्निर्दाहकः कर्ता, इत्येवं यदि इन्धनमपेक्ष्याग्निर्व्यवस्थाप्यते, अस्याग्नेरिदमिन्धनं कर्मेत्येवमग्निमपेक्ष्य यदीन्धनम्, तत् कतरदनयोः पूर्वनिष्पन्नम्? किमिन्धनं यदपेक्ष्याग्नि स्यात्, उत अग्निर्यमपेक्ष्येन्धनं स्यात्? तत्र यदि इन्धनं पूर्वनिष्पन्नमिति कल्प्यते, तदयुक्तम्, अग्निनिरपेक्षस्य अनिध्यमानस्येन्धनत्वाभावात्, तृणादेः सर्वस्य चैव इन्धनत्वप्रसङ्गात् । अथ पूर्वमग्निः पश्चादिन्धनमिति, तदप्ययुक्तम्, इन्धनात्पूर्वसिद्धस्याग्नेरसंभवात्, निर्हेतुकत्वप्रसङ्गात् । पश्चाच्चापेक्षया निष्प्रयोजनत्वात् । तस्मान्नास्ति अत्र किंचित्पूर्वसिद्धं यदपेक्ष्य इतरस्य सिद्धि स्यात् ॥ 8 ॥

अथापि मन्यसे- पूर्वमिन्धनं पश्चादग्निरिति, एवमपि

यदीन्धनमपेक्ष्याग्निरग्नेः सिद्धस्य साधनम् ।

भविष्यति । यदि इन्धनमपेक्ष्याग्निर्भविष्यतीति परिकल्प्यते, एवं तर्हि सिद्धस्य सतो ऽग्नेः पुनरपि साधनं स्यात् । विद्यमानस्यैव पदार्थस्य सिद्धरूपस्यापेक्षा युज्यते । न हि अविद्यमानो देवदत्तो गृहे कंचिदपेक्षते । एवं यदि अग्निर्विद्यमानो न स्यात्, नासाविन्धनमपेक्षते । तस्मादस्तित्वमग्ने रम्भुपेयम् । तदा च किमस्य इन्धनस्यापेक्षया पुनः कर्तव्यम्? न हि सिद्धो ऽग्निः पुनरिन्धनेन (pp_89) कर्तव्यो यदर्थमिन्धनापेक्षासाफल्यं स्यात् । तस्मादिन्धनमपेक्ष्याग्निर्भवतीति न युक्तम् ।

अपि च । यदि इन्धनमपेक्ष्याग्निर्भवतीति परिकल्प्यते- एवं सतीन्धनं चापि भविष्यति निरग्निकम् ॥ 9 ॥ यदि इन्धनमसिद्धं स्यात्, नैव तदग्निना अपेक्ष्येत, असिद्धस्यापेक्षायोगात् । तस्मान्निरग्निकस्येन्धनस्य सिद्धिरभ्युपेया, न चैवमेतदिति न युक्तमेतदिति ॥ 9 ॥

अथ मतम्- यौगपद्येनैव इन्धनसिद्धया अग्निसिद्धिः, अग्निसिद्धया च इन्धनसिद्दिः । ततश्च एकस्यापि पूर्वसिद्धयनभ्युपगमात्, तत्र यदुक्तम्-

कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् ।

इति, तदयुक्तमिति । उच्यते । एवमपीष्यमाणे उभयस्यापि नास्ति सिद्धिः । यस्मात्-

यो ऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति । यदि यो ऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः ॥ 10 ॥

तत्र यदि यः अग्न्याख्यो भावः यमिन्धनाख्यं भावमपेक्ष्य सिध्यति, इन्धनाख्यश्च भावः यो ऽग्निना आत्मसिद्धयर्थमपेक्षितव्यः, स यदि तमेव अग्न्याख्यं पदार्थमपेक्ष्य सिध्यति, कथ्यतामिदानीं सिध्यतां कमपेक्ष्य कः इति । यदा च अग्न्यभावे सति इन्धनस्य सिद्धिरेव नास्ति, तदा अकारणस्येन्धनस्याभावात् कुतस्तद्धेतुको ऽग्निः प्रसेत्स्यति? एवं य इन्धनाख्यो भावः यमग्न्याख्यं भावमपेक्ष्य सिध्यति, अग्न्याख्यश्च भावो यः इन्धनाख्येन आत्मसिद्धयर्थमपेक्षितव्यः, स यदि तमेवेन्धनाख्यं भावमपेक्ष्य सिध्यति, कथ्यतां किमिदानीं सिध्यतां कमपेक्ष्य कः इति । यदा हि इन्धनाभावे सति अग्नेः सिद्धिर्नास्ति, तदा निष्कारणस्याग्नेरभावात् कुतस्तद्धेतुकमिन्धनम्? ॥ 10 ॥

इतश्च अग्नीन्धनयोः परस्परापेक्षयापि सिद्धिरसती, सिद्धासिद्धयोरपेक्षाभावादिति प्रतिपादयन्नाह-

यो ऽपेक्ष्य सिध्यते भावः सो ऽसिद्धो ऽपेक्षते कथम् । अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते ॥ 11 ॥

यो हि अग्न्याख्यो भावः इन्धनाख्यं भावमपेक्ष्य सिध्यति, सः असिद्धो वा इन्धनमपेक्षते सिद्धो वा? यदि असिद्धः, तदा असिद्धत्वात् खरविषाणवन्नेन्धनमपेक्षेत । अथ सिद्धः, सिद्धत्वात् किमस्येन्धनापेक्षया? न हि सिद्धं पुनरपि साध्यते वैयर्थ्यात् । एवमिन्धने ऽपि वाच्यम् । तस्मान्नाग्नीन्धनयोः परस्परापेक्षया यौगपद्येन वा सिद्धिरिति ॥ 11 ॥

यतश्चैवम्, तस्मात्-

अपेक्ष्येन्धनमग्निर्न

अथ स्यात्- अनपेक्ष्याग्निस्तर्हि भविष्यतीति । एतदपि न युक्तमित्याह-

नानपेक्ष्याग्निरिन्धनम् ।

अन्यत्वप्रतिषेधादहेतुकत्वप्रसङ्गाच्च । यथा च अग्निरपेक्ष्य वा अनपेक्ष्य वा इन्धनं संभवति, एवमिन्धनमपीत्याह- अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निमिन्धनम् ॥ 12 ॥एतच्च अनन्तरमेव गतार्थत्वान्न पुनरुच्यते ॥ 12 ॥ अत्राह- किमनया अस्माकमतिसूक्ष्मेक्षिकया प्रयोजनम्, ये वयं ब्रूमः- यस्मादग्निना इध्यमानमिन्धनं प्रत्यक्षत उपलभ्यते, तस्मात्ते एव अग्नीन्धने इति । उच्यते । स्यादेतदेवम्, यदि अग्निरिन्धनं दहेत् । यदि इन्धने ऽग्निः संभवेत्, स इन्धनं दहेत् । न तु संभवतीत्याह-

आगच्छत्यन्यतो नाग्निरिन्धने ऽग्निर्न विद्यते ।

इन्धनव्यतिरिक्तात्तावत्कुतश्चिदन्यतो ऽग्नेरागमनं नास्ति, तस्य अदृष्टत्वात् । निरिन्धनस्य चाहेतुकस्याग्नेरागमनाभावात्, सेन्धनस्य चागमने प्रयोजनाभावात्, तत्रापि चेन्धने तुल्यपर्यनुयोगात्, अनवस्थाप्रसङ्गाच्च आगच्छत्यन्यतो नाग्निः । तथा इन्धने ऽप्यग्निर्न संभवति तत्रानुपलभ्यमानत्वात् ।

अथ स्यात्- विद्यमानस्यापि मूलोदकादिवदभिव्यञ्जकप्रत्ययवैकल्यात्पूर्वमनुपलभ्यमानत्वम्, अरणिनिघर्षणादभिव्यञ्जकप्रत्ययसंभवात्तु पश्चादुपलब्धिरिति । इदमेव तावत्संप्रधार्यते- किं पुनर्मूलोदकादीनामभिव्यञ्जकैः प्रत्ययैः क्रियत इति । तत्र स्वरूपं तावन्न क्रियते विद्यमानत्वात् अभिव्यक्तिः क्रियत इति चेत्, केयमभिव्यक्तिर्नाम? प्रकाशतेति चेत्, एवं तर्हि सैव क्रियते पूर्वमविद्यमानत्वादस्याः । सत्कार्यवादत्यागश्चैवं जायते अभिव्यक्तेः पूर्वमविद्यमानत्वात्पश्चाच्च भावात् । स्वरूपस्य चोत्पत्तिप्रत्ययनिरपेक्षत्वात्खपुष्पवदभिव्यक्तिप्रत्ययसापेक्षतापि न स्यात् । अपि च इयमभिव्यक्तिरभिव्यक्तस्य वा भावस्य परिकल्प्येत अनभिव्यक्तस्य वा? तत्र तावद् यदभिव्यक्तं तन्नाभिव्यज्यते, तस्याभिव्यक्तिवैयर्थ्यात् अनिष्टदोषप्रसङ्गाच्च । अनभिव्यक्तमपि नाभिव्यज्यते खपुष्पवदनभिव्यक्तत्वात् । इत्येवमभिव्यक्तिर्न संभवति ॥

अथापि स्यात्- विद्यमानस्यैव प्रत्ययैः स्थौल्यं क्रियते इति, एवमपि यदेव स्थौल्यं पूर्वं नास्तीति तदेव क्रियत इति कुतः स्थौल्यापादनमभिव्यक्तिः? सौक्ष्म्यस्य च निर्हेतुकस्यासंभवात् कस्य स्थूलतापादनादभिव्यक्तिः स्यादिति । तदेवं सर्वथा इन्धने अग्नेर्न संभव इति इन्धने ऽग्निर्न विद्यते । न चाविद्यमानाग्निना इन्धनस्य दहनमुपजायते इत्यसत्यमेवैतदुपलभते भवान् ।

अपि च । यथा पूर्वं गतागतगम्यमानानां दूषणमुक्तम्- अत्रेन्धने शेषमुक्तं गम्यमानगतागतैः ॥ 13 ॥ अग्निना इन्धनं दह्यमानमुपलभ्यते इत्यत्र इन्धनप्रस्तावे शेषं दूषणं गम्यमानगतागतदूषणेन वेदितव्यम्, उक्तपाठविपर्ययेण-

दग्धं न दह्यते तावददग्धं नैव दह्यते । दग्धादग्धविनिर्मुक्तं दह्यमानं न दह्यते ॥

इत्यादिना । यत एवम्, अतो नास्त्यग्निना इन्धनस्य दहनमिति वेदितव्यम् ॥ 13 ॥

इदानीं यथोपपादितमर्थं निगमयन्नाह-

इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् । नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः ॥ 14 ॥

तत्र

यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।

भवेत्, इत्यनेन अग्नीन्धनयोरकत्वप्रतिषेधात्

इन्धनं पुनरग्निर्न, अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् ।

इत्यादिना अन्यत्वस्य प्रतिषेधात्

नाग्निरन्यत्र चेन्धनात् ।

तत्त्वान्यत्वोभयपक्षप्रतिषेधादेव तद्वत्पक्षाधाराधेयपक्षाणामप्यर्थतः प्रतिषिद्धत्वात्तानपि निगमयन्नाह-

नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः ।

इति । तत्राग्निरिन्धनवान्न भवति । इन्धनमस्यास्मिन् वा विद्यत इति व्यतिरेकेण वा व्युत्पादेन अव्यतिरेकेण वा । तत्र व्यतिरेकेण- तद्यथा गोमान् देवदत्तः । अव्यतिरेकेण- बुद्धिमान् देवदत्तो रूपवानित्यादि । अग्नीन्धनयोश्च पक्षद्वयस्यापि प्रतिषिद्धत्वादिन्धनवानग्निरिति प्रतिषेधो विहितः । अन्यच्च । कुण्डं दध्न आधारतां प्रतिपद्यते । न चेन्धनादन्यत्वमग्नेरस्तीति नाग्नाविन्धनानीति युज्यते । नापि इन्धने ऽस्त्यग्निः, अन्यत्वप्रतिषेधादिति । एवमाधाराधेयताप्रतिषेधो ऽप्यर्थत उपपादित एव ॥ 14 ॥

यथा चाग्निः पञ्चधा विचार्यमाणो न संभवति, एवमात्मापि, इत्यतिदिशन्नाह-

अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः । सर्वो निरवशेषेण

तत्र उपादीयते इत्युपादानं पञ्चोपादानस्कन्धाः । यस्तानुपादाय प्रज्ञप्यते, स उपादाता ग्रहीता निष्पादक आत्मेत्युच्यते । अहंकारविषयत्वादाहित उत्पादितो ऽहंमानो ऽस्मिन्निति । तदस्यात्मन उपादानस्य च यः क्रमः सिद्धिः, स सर्वो ऽग्नीन्धनाभ्यां व्याख्यातो ऽवगन्तव्यो निरवशेषेण ॥

कः पुनः सर्वस्य निरवशेषस्य च भेदः? सर्वग्रहणेनैव पञ्च पक्षाः समनन्तरप्रक्रान्त अभिसंबध्यन्ते । सर्वे एते पञ्चापि पक्षाः अग्नीन्धनवदात्मोपादानयोरप्यविकला ढौकनीयाः । यश्चैया प्रतिपादने उपपत्तिक्रमः प्रागुपवर्णितः, तेन निरवशेषेण आत्मोपादानयोः प्रतिषेधो वेदितव्यः इत्यनेन सर्वात्मना प्रतिषेधसाम्यमग्नीन्धनाभ्यामात्मोपादानयोर्वेदितव्यमित्युपदर्शनार्थं सर्वो निरव शेषेणेत्याह । तत्र यदेवोपादानं स एव आत्मा, इत्येवं कर्तृकर्मणोरेकत्वप्रसङ्गान्न युज्यते नाप्यन्यदुपादानमन्य उपादाता, स्कन्धव्यतिरेकेणाप्यात्मोपलब्धिप्रसङ्गात्, परत्र निरपेक्षत्वादित्यादिप्रसङ्गाच्च । एकत्वान्यत्वप्रतिषेधाच्च स्कन्धवानष्यात्मा न भवति । अन्यत्वाभावाच्च नात्मनि स्कन्धा न स्कन्धेष्वात्मा । यत एवं पञ्चसु प्रकारेषु आत्मनो न सत्त्वम्, तस्मात्कर्मकारकवदेव आत्मोपादानयोः परस्परापेक्षिकी सिद्धिरिति स्थितम् ॥

यश्चायमात्मोपादानयोः क्रमः, स नानयोरेव, किं तर्हि- सार्धं घटपटादिभिः ॥ 15 ॥ निरवशेषैः पदार्थैः सर्वथा व्याख्यातो वेदितव्यः । घटादयो हि कार्यकारणभूत अवयवावयविभूता लक्षणलक्ष्यभूता गुण्नगुणिभूता वा स्युः । तत्र मृद्दण्डचक्रसूत्रसलिलकुलालकरव्यायामादयो घटस्य कारणभूताः, घटः कार्यभूतः । कपालादयो नीलादयो वा अवयवभूताः घटो ऽवयवी । पृथुबुध्नलम्बौष्ठदीर्घग्रीवत्वादीनि लक्षणानि घटो लक्ष्यः। श्यामत्वादयो गुणाः, घटो गुणी । इत्येवं व्यवस्थाप्य अग्नीन्धनवत् क्रमो योज्यः । एषां च घटादीनामात्मोपादानयोश्च मध्यमकावतारप्रकरणाद् व्याख्यानमवसेयम् ॥ 15 ॥

तदेवं कर्मकारकवदात्मोपादानयोर्घटादीनां च परस्परापेक्षिक्यां सिद्धौ व्यवस्थितायां तथागतवचनाविपरीतार्थावबोधाभिमानितया तीर्थ्यमतोपकल्पितपदार्थव्यवस्थां सौगतप्रवचनार्थत्वेनोपनीय अतिमूढतया-

आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक् । निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान् ॥ 16 ॥

तत्र सह तेन वर्तत इति सतत्, सततो भावः सतत्त्वम्, अपृथक्त्वम्, अनन्यत्वम् एकत्वमित्यर्थः । तदेतत् सतत्त्वं ये वर्णयन्ति, न तानाचार्यः शासनार्थपण्डितान् मन्यते । तद्यथा- आत्मा उपादानेन प्रज्ञप्यते येन, सहैव तेनोपादानेन संभवति । स न पृथक् । अव्यतिरेकेणैव भवतीत्यर्थः । एवं येन कारणेन मृदादिना घटः प्रज्ञप्यते, तदव्यतिरेकेणैव स भवति, न पृथक् । एवमात्मनो भावानां च सतत्त्वं ये वर्णयन्ति, न ते परमगम्भीरस्य प्रतीत्यसमुत्पादस्थ शाश्वतोच्छेदरहितस्य उपादायप्रज्ञप्त्यभिधानस्य तत्त्वं पश्यन्ति । पृथक् पृथक् च ये निर्दिशन्ति, पृथगित्यात्मानम्, पृथगुपादानम्, पृथक् कार्यम्, पृथक् कारणम्, इत्यादिना अन्यत्वं पश्यन्ति, अमूनपि न शासनस्यार्थकोविदानाचार्यो मन्यते । यथोक्तम्-

एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत् । संक्रान्तिमासाद्य गतं बुद्धवांस्त्वमनिन्दितः ॥

एवं च अग्नीन्धनपरीक्षया अधिगतधर्मतत्त्वपरमस्य योगिनः कल्पेनाकालालिप्सितैरपि नैव वपुर्दह्यते रागद्वेषमोहहुताशनैरपि वा इति । यथोक्तं भगवता-

यथ गगणु न जातु दग्धपूर्वं सुबहुभि कल्पशतैर्हि दह्यमानम् । गगनसम विजानमान धर्मान् सो ऽपि न दह्यति जातु साग्निमध्ये ॥

सर्वि हि ज्वलमाणि बुद्धक्षेत्रे प्रणिधि करोति समाधिये स्थिहित्वा । ज्वलत अयु प्रशाम्यतामशेष पृथिवि विनश्यिपि नैवस्यान्यथात्वम् ॥

तथा अरणिं यथ चोत्तरारणिं हस्तव्यायामु त्रयेभि संगतिः । इति प्रत्ययतो ऽग्नि जायते जातु कृतु कार्य लघू निरुध्यते ॥

अथ पण्डितु कश्चि मार्गते कुत अयमागतु कुत्र याति वा । विदिशो दिश सर्वि मार्गतो नागतिर्नास्य गतिश्च लभ्यति ॥

स्कन्धायतनानि धातवः शून्य आध्यात्मिक शून्य बाहिराः । सर्वात्मविविक्तनालया धर्म आकाशसभावलक्षणाः ॥

इमु ईदृश धर्मलक्षणा बुद्ध दीपंकरदर्शने त्वया ॥

अनुबुद्ध यथ त्वयात्मना तथ बोधेहि सदेवमानुषान् ॥

विपरीतअभूतकल्पितै रागदोषैः परिदह्यते जगत् । कृपमेघशमाम्बुशीतलां मुञ्च धाराममृतस्य नायक ॥

इति विस्तरः ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ अग्नीन्धनपरीक्षा नाम दशमं प्रकरणम् ॥

11 पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् ।

अत्राह- विद्यत एव आत्मा, संसारसद्भावात् । यदि हि आत्मा न स्यात्, कस्य पञ्चगतिके आजवंजवीभावेन जन्ममरणपरंपरया संसरणं स्यात्? उक्तं हि भगवता- अनवराग्रो हि भिक्षवो जातिजरामरणसंसारः इति । अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां तृष्णागण्डुरबद्धानां संसरतां संधावतां पूर्वा कोटिर्न प्रज्ञायत इति । यदा च भगवदुपदेशात्संसारो ऽस्ति, तदा संसर्ताप्यस्ति । स च आत्मा उच्यत इति । उच्यते । स्यादात्मा, यदा संसार एव स्यात् । कथम्? यस्मादस्य-

पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः । संसारो ऽनवराग्रो हि नास्यादिर्नापि पश्चिमम् ॥ 1 ॥

कोटिर्भागो देश इति पर्यायाः । पूर्वा कोटिः पूर्वो देश इत्यर्थः । यदि हि संसारो नाम कश्चित् स्यात्, नियतं तस्य पूर्वमपि स्यात्, पश्चिममपि, घटादीनामिव । उक्तं च भगवता- अनवराग्रो हि भिक्षवो जातिजरामरणसंसार इति । यदेव अवराग्रे न स्तः, संसारस्य अनवराग्रवचनात्, संसार एव नास्तीति ननु स्पष्टमादेशयामास भगवान् । तस्मान्नास्ति संसारः, पूर्वापरकोटयनुपलम्भात्, अलातचक्रवत्, इति स्थितम् ॥

अत्रेदं विचार्यते- यदि पूर्वं चापरं च संसारस्य निषिद्धं भगवता, कथं पुनरिदमाह- तस्मात्तर्हि संसारक्षयाय प्रतिपत्स्यामह इत्येवं वो भिक्षवः शिक्षितव्यम्, इति? उच्यते । अविद्यानीवरणानां सत्त्वानामित्यादिविशेषणोपादानात्तेषामेवायमनवराग्रः संसार इति प्रतीयते, न पुनस्तत्त्वज्ञानानिलबलात् समुन्मूलिताविद्यानीवरणतरूणाम् । तेषां तु लोकोत्तरमार्गज्ञानाग्निना दग्धाशेषक्लेशवासनामूलनिःशेषपादपानां भवत्येव अन्तः इति विज्ञेयम् ॥

कथं पुनरादिरहितानामन्तोपदेश इति यावत् । दृष्टमेतद् बाह्येषु व्रीह्यादिषु आद्यभावे ऽपि दहनादिसंपर्कादन्तसद्भावः । यथोक्तमार्यदेवपादैः-

यथा बीजस्य दृष्टो ऽन्तो न चादिस्तस्य विद्यते । तथा कारणवैकल्याज्जन्मनो ऽपि न संभवः ॥ इति ।

स च अन्तोपदेशो लौकिक एव व्यवहारे स्थित्वा संसारचारकावबद्धानामुत्साहनार्थं सत्त्वानां देशितो लौकिकज्ञानापेक्षया । वस्तुकचिन्तायां तु संसार एव नास्ति, तत्कुतो ऽस्य परिक्षयः? प्रदीपावस्थायां रज्जूरगपरिक्षयवत् ॥

अत्राह- यद्येवं लौकिकज्ञानापेक्षया अन्तवद् आदिरपि किं नोच्यते? उच्यते । अहेतुकदोषप्रसङ्गात् लौकिकज्ञानापेक्षयापि संसारस्यादेरभाव इत्युभयथाप्यादेरभाव एवेति विज्ञेयम् ॥ 1 ॥

अत्राह- यद्यापि अवराग्रे न स्तः संसारस्य, तथापि मध्यमस्ति, अप्रतिषेधात् । ततश्च अस्ति संसारो मध्यसद्भावात् । इह यन्नास्ति, न तस्य मध्यमस्ति तद्यथा कूर्मरोमप्रावरणस्येति । हास्यः खल्वसि । ननु च भोः,

नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् ।

अग्रमिति आदिः, पूर्वम्, प्रथमम् उच्यते । अवरमिति अवसानम्, अन्तः, व्यवच्छेद उच्यते । यस्य संसारस्य आदिरन्तश्च प्रतिषिद्धः, तस्य कुतो मध्यं भविष्यति? ततश्च संज्ञामात्रकमेव विपर्यासपरवशमानसानां संसारः आदिमध्यावसानविरहितत्वादाकाशवदलातचक्रादिवदिति भावः । संसाराभावाच्च नास्ति आत्मेति । यत एवं संसारस्यादिमध्यावसानानि न सन्ति, अत एव संसाराभावाज्जातिजरामरणादीनां पूर्वापरसहक्रमा अपि नैव सन्तीत्याह- तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः ॥ 2 ॥ यथा च नोपपद्यन्ते तथा प्रतिपादयन्नाह-

पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् । निर्जरामरणा जातिर्भवेज्जायेत चामृतः ॥ 3 ॥

यदि पूर्वं जातिर्भवेत्, तदा मरणसहिता स्यात् । न च जरादिरहिता जातिर्युज्यते, असंस्कृतत्वप्रसङ्गात् । जरामरणरहितस्य भावस्य जातौ परिकल्प्यमानायामन्यत्र अमृतस्यैव देवदत्तस्य प्रथममिह जातिः परिकल्प्यमाना स्यात् । ततश्च आदिमान् संसारः स्यादहेतुकदोषश्च । अभूवमतीतमध्वानम्, इत्येवं पूर्वान्तकल्पना च न स्यात् । अभूत्वा च पूर्वं पश्चादिहोत्पादः स्यात् ॥

अथ स्यात्- आम्रादीनां यथा पूर्वं विनापि जरामरणसंबन्धात् प्रथममेव उत्पादो दृष्टः, एवमात्मानो ऽपीति । नैवम् । साध्यसमत्वात् । आम्रादीनामपि हि स्वबीजनिरोधे समुत्पद्यमानत्वात् नान्यत्राविनष्टानामुत्पाद इति सममेतत् पूर्वेण ॥

अथ स्यात्- अन्यदेव वृक्षाद्बीजम्, अतो ऽन्यत्राविनाशपूर्वक एव वृक्षस्योत्पाद इति नैवम् । कार्यकारणयोरन्यत्वस्यासिद्धत्वात् । तथा च वक्ष्यति-

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥

न च बीजाद्वृक्षस्यान्यत्वम् । अतः साध्यसममेतत् । यतश्च अन्यत्रामृतस्य इहोत्पादो नास्ति, न पूर्वं जातिरभ्युपेया ॥ 3 ॥

अथ पूर्वं जरामरणम्, पश्चाज्जातिः, एवमपि-

पश्चाज्जातिर्यदि भवेज्जरामरणमादितः । अहेतुकमजातस्य स्याज्जरामरणं कथम् ॥ 4 ॥

जातिप्रत्ययं जरामरणमिति वचनाज्जातिहेतुकं जरामरणमुक्तं भगवता । यदि एतत्पूर्वं स्यात्तदा निर्हेतुकं स्यात् । तस्मान्न युक्तमेतत् । यतो ऽप्युक्तम्-

यथ उक्खित्ते लोढम्मि उक्खेवे अत्थि कारणं । षडने कारणं णत्थि अण्णं उक्खेवकारणा ॥ इति ।

यथाष्यत्रोत्क्षेपः पतनकारणं नान्यत्, एवमिहापि जातिमेवकारणत्वेन विनाशस्य वर्णयामो नान्यत्, इति नास्त्यहेतुकता विनाशस्य । जातिहेतुकत्वाच्चास्योद्गमनमेव विनाशस्य हेतुरिति कृत्वा एषापि गाथा सुनीता भवति-

एविमे संखता धम्मा संभवन्ति सकारणा । स भाव एव धम्माणं यं विभोन्ति समुग्गता ॥ इति ॥ 4 ॥ इदानीं सहभावेनापि जातिजरामरणानामसद्भावं प्रतिपादयन्नाह-

न जरामरणेनैव जातिश्च सह युज्यते । म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः ॥ 5 ॥

यदि सहभावो जातिजरामरणानां स्यात्, तदा जायमानस्य मरणं स्यात् । न चैतद्युक्तम् । न च परस्परविरुद्धत्वादालोकान्धकारवदेककालता युक्ता । न चैवं लोके दृष्टं यज्जायमान एव म्रियते इति । अपि च । अहेतुकत्वं जात्यादीनां सहभावकल्पनायां स्यात् । न हि सहभूतयोः सव्येतरगोविषाणयोरन्योन्यहेतुकता दृष्टेति न युक्तमेतत् ॥ 5 ॥

तदेवम्-

यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः । प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम् ॥ 6 ॥

यस्यां जातौ यत्र जरामरणे एते पूर्वापरसहक्रमाः न सन्ति, तां जातिमनुपलभमाना आर्याः किं प्रपञ्चयन्ति? किंशब्दो ऽसंभवे । नैव प्रपञ्चयन्तीत्यर्थः । अथवा । एवमविद्यमानेषु जात्यादिषु तां जातिभविद्यमानां बालाः किं प्रपञ्चयन्ति तच्च जरामरणं यन्न संविद्यते? तस्मादवस्तुक एव बालानां प्रपञ्च इत्यभिप्रायः ॥ 6 ॥

यथा च संसारस्य पूर्वा कोटिर्नास्ति, एवमन्येषामपि भावानामित्याह-

कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च । वेदना वेदकश्चैव सन्त्यर्था ये च केचन ॥ 7 ॥

पूर्वा न विद्यते कोटिः संसारस्य न केवलम् । सर्वेषामपि भावानां पूर्वा कोटिर्न विद्यते ॥ 8 ॥

तत्र यदि पूर्वं कारणं पश्चात्कार्यं स्यात्, अकार्यकं कारणं निर्हेतुकं स्यात् । अथ पूर्वं कार्यं पश्चात्कारणम्, एवमपि कारणात्पूर्वं कार्यं निर्हेतुकमेव स्यात् । अथ युगपत्कार्यकारणे स्याताम्, एवमुभयमप्यहेतुकं स्यात् । एवं लक्ष्यलक्षणे वेदनावेदकौ च योज्यौ । न च केवलं संसारस्य व्याख्यानेन कार्यकारणादिकं व्याख्यातं वेदितव्यम्, अपि च ये ऽप्यन्ते पदार्था ज्ञानज्ञेयप्रमाणप्रमेयसाधनसाध्यावयवावयविगुणगुण्यादयः, तेषामपि पूर्वा कोटिर्न विद्यत इति योज्यम् ॥ अत एव आर्यरत्नमेघसूत्रे आर्यसर्वनीवरणविष्कम्भिणा महाबोधिसत्त्वेन भगवान् स्तुतः-

आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव च निर्वृताः । धर्मास्ते विवृता नाथ धर्मचक्रप्रवर्तने ॥ इति

तथा-

आदित शून्य अनागत धर्मा नो गत अस्थित स्थानविविक्ताः । नित्यमसारक मायसभावाः शुद्ध विशुद्ध नभोपम सर्वि ॥

यं च पभाषति धर्म जिनस्य तं च न पश्यति सो ऽक्षयताय । आदिनिरात्म निसत्त्विमि धर्मास्तांश्च च पभाषति नो च क्षपेति । कल्पित बुच्चति कल्पितमात्रं अन्तु न लभ्यति संसरमाणे । कोटि अलक्षण या पुरि आसीदेति अनागति प्रत्ययताये ॥

कर्म क्रिया च प्रवर्तति एवं हीनौत्कृष्टतया समुदेन्ति । जड्डक धर्म सदा प्रकृतीये शून्य निरात्म विजानथ सर्वान् ॥

इत्यादि ॥ ।

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ पूर्वापरकोटिपरीक्षा नामैकादशमं प्रकरणम् ॥

12 दुःखपरीक्षा द्वादशमं प्रकरणम् ।

अत्राह- विद्यत एव आत्मा, तत्संबन्धिदुःखसद्भावात् । इह हि पञ्चोपादानस्कन्धा दुःखमित्युच्यते, तच्च अस्ति, तेन च दुःखेन कस्यचिद्भवितव्यं न निराश्रयेणेति, अतो विद्यत एव दुःखस्याश्रयः, स चात्मेति । उच्यते । स्यादात्मा यदि दुःखमेव स्यात् । तद्धि भवेत् स्वयं कृतं वा परकृतं वा उभयकृतं वा हेतुरहितं वा । सर्वथा च इष्यमाणं तत्कार्यमेव नास्तीति प्रतिपादयन्नाह-

स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् । दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते ॥ 1 ॥

तत्रैके वादिनः स्वयं कृतं दुःखमिति प्रतिपन्नाः । अपरे पुनः परकृतम्, अन्ये च उभयकृतम्। केचिदहेतुसमुत्पन्नमेव दुःखमिति प्रतिपन्नाः । सर्वथा च तद्दुःखमिष्यमाणं कार्यं कर्तव्यं न युज्यते, तदेतत्प्रतिज्ञामात्रकमिति ॥ 1 ॥

तत्प्रतिपादयन्नाह-

स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत् । स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि ॥ 2 ॥ यस्मादिमान् मरणान्तिकान् स्कन्धान् प्रतीत्य इमे औपपत्त्यांशिकाः स्कन्धा उत्पद्यन्ते तस्मात्स्वयं कृतं दुःखमिति नोपपद्यते ॥ 2 ॥ इदानीं परकृतमपि दुःखं यथा न संभवति, तथा प्रतिपादयन्नाह-

यद्यमीभ्य इमे ऽन्ये स्युरेभ्यो वामी परे यदि । भवेत्परकृतं दुःखं परैरेभिरमी कृताः ॥ 3 ॥

यदा अमीभ्यो मरणान्तिकेभ्यः स्कन्धेभ्यः इमे औपपत्त्यांशिकाः स्कन्धा अन्ये स्युः, एभ्यो वा औपपत्त्यांशिकेभ्यः अमी मरणान्तिका स्कन्धाः परे स्युः, स्यात्तदानीं परकृतं दुःखम् । न चैषामन्यत्वं दृष्टं हेतुफलसंबन्धावस्थानात् । वक्ष्यति हि-

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ इति ।

अतः परकृतमपि दुःखं न संभवति । यदि हि अन्यत्वं स्यात्, तदा सति अन्यत्वे एतैः परभूतैः स्कन्धैरमी परभूताः कृता इति युक्तं वक्तुं स्यात् । न चैतदेवम्। इति परकृतमपि दुःखं न संभवति ॥ 3 ॥

अथ स्यात्- न ब्रूमो यस्माद्दुःखेनैव दुःखं कृतम्, अतः स्वयं कृतमिति । किं तर्हि स्वपुद्गलेन यस्मात्स्वयमेव कृतम्, नापरेण कृत्वा दत्तम्, इत्यतः स्वयं कृतं दुःखमिति ब्रूमः । उच्यते-

स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर्विना । स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् ॥ 4 ॥

यदेतन्मनुष्यदुःखं पञ्चोपादानस्कन्धलक्षणं स्वयं पुद्गलेन कृतमिति परिकल्प्यते, कल्प्यतामसौ पुद्गलो येन तद्दुःखं स्वयं कृतम् । यदि तावद्येन दुःखेन स्वपुद्गलः प्रज्ञप्यते, तदेव दुःखं तेन कृतमिति, स भेदेन कथ्यतामिदं तद्दुःखमयमस्य कर्तेति । अथापि मनुष्यदुःखोपादानेन पुद्गलेन तदेव दुःखं कृतं स्यात्, न तर्हि स्वपुद्गलकृतं तत्, परपुद्गलकृतमेव स्यात् । अथोपादानभेदे ऽपि पुद्गलाभेद इष्यते, एतच्च नास्ति, उपादानव्यतिरिक्तस्य भिन्नस्य पुद्गलस्य दर्शयितुमशक्यत्वात् । एवं तावत् स्वपुद्गलकृतं दुःखं न भवति ॥ 4 ॥

अत्राह- क एवमाह स्वपुद्गलकृतं दुःखमिति? किं तर्हि परपुद्गलजं दुःखम् । अन्य एव देवदुःखान्मनुष्यपुद्गलः, मनुष्यपुद्गलश्च देवदुःखं कृत्वा यस्माद्देवपुद्गलाय ददाति, तेन च देवदुःखेन देवपुद्गलः प्रज्ञप्यते, तस्मात्तस्य पुद्गलस्य तद्दुःखं परपुद्गलजमेव भवति । उच्यते-

परपुद्गलजं दुःखं यदि यस्मै प्रदीयते । परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः ॥ 5 ॥

यदि देवदुःखं मनुष्यपुद्गलकृतम्, तेन च मनुष्यपुद्गलेन तद्दुःखं कृत्वा परस्मै देवपुद्गलाय प्रदीयत इति स देवपुद्गलो देवदुःखविनिर्मुक्तः कुतो यस्मै प्रदीयेतेति । एवं तावदपरपुद्गलजस्य दुःखस्य प्रतिग्राहक एव नास्ति ॥ 5 ॥

इदानीं यश्च ददाति, असावपि नास्तीत्याह-

परपुद्गलजं दुःखं यदि कः परपुद्गलः । विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् ॥ 6 ॥ येनोपादानेन स मनुष्यपुद्गलः प्रज्ञप्यते, स मनुष्योपादानव्यतिरिक्तः कतमो यो देवपुद्गलाय देवदुःखं कृत्वा प्रहेष्यति? तस्मात्परपुद्गलजमपि दुःखं न संभवति ॥ 6 ॥ ततश्च-

स्वयंकृतस्याप्रसिद्धेर्दुःखं परकृतं कृतः । परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम् ॥ 7 ॥

यदि देवपुद्गलदुःखं मनुष्यपुद्गलेन कृतत्वात्परकृतं भवति, ननु, मनुष्यपुद्गलस्य स्वयंकृतमेव तद्भवति । एतच्च नास्तीत्युक्तम् । ततः स्वयंकृतस्याप्रसिद्धेर्यदा मनुष्यपुद्गलेन स्वयं तद्दुःखं न कृतम्, तदा कुतः परपुद्गलस्य देवाख्यस्य तद्दुःखं परकृतं भविष्यतीति । अतो ऽपि परकृतं दुःखं न संभवति ॥ 7 ॥

इदानीं प्रकरणान्तरेणापि पक्षद्वयासंभवं प्रतिपादयन्नाह-

न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम् । परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम् ॥ 8 ॥

इतश्च स्वपराभ्यां दुःखस्य करणं न युज्यते, यस्मान्न तावत्स्वकृतं दुःखम् । किं कारणम्? यस्मान्न तेनैव हि तत् कृतम्, स्वात्मनि वृत्तिविरोधात्, अतः स्वकृतं नास्ति । न परकृतमपि, यस्माद्यो ऽसौ परः करोतीति परिकल्प्यते, स एव तावन्नात्मना कृतो नात्मना निष्पन्नः तस्यापि हेत्वन्तरापेक्षणात् । यश्च स्वात्मना न निष्पन्नः, स कथमविद्यमानस्वभावः सन् परं करिष्यतीति न युक्तमेतत् ॥ 8 ॥

इदानीमुभयकृतमपि दुःखमसदित्याह-

स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि ।

यदि हि एकैकेन दुःखस्य करणं स्यात् स्यात्तदानीमुभाभ्यां कृतं दुःखम् । न चैकैककृतं तत्, उक्तदोषात् । न चैकैकेन प्राणातिपाते कृते द्वाभ्यां कृत इति व्यपदेशो दृष्टः ॥

इदानीं निर्हेतुकमपि दुःखं यथा नास्ति, तथा प्रतिपदयन्नाह- पराकारास्वयंकारं दुःखमहेतुकं कुतः ॥ 9 ॥ परेण अकारो अकरणं यस्येति पराकारम् । न स्वयंकारो ऽस्येत्यस्वयंकारम् । यदि दुःखं स्वयंकृतं नास्ति, परकृतमपि नास्ति यथोक्तेन न्यायेन, तदिदानीं कुत एव निर्हेतुकं भविष्यति खपुष्पसौगन्ध्यवत्? दुःखाभावात्कुतस्तस्याश्रयभूत आत्मा ॥ 9 ॥

यथा च चतुर्धा विचार्यमाणं दुःखमसत्, एवं बाह्या अपि बीजाङ्कुरघटपटादयो भावा वेदितव्याः, इति प्रतिपादयन्नाह-

न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते ।

सर्वेषां बाह्यानामपि भावानां चातुर्विध्यं न विद्यते ॥ 10 ॥ पूर्ववत्सर्व समं योज्यम् । यदि खल्वेषां दुःखादीनां चातुर्विध्यासंभवः, तत्कतमेन तर्हि इदानीं प्रकारेण एषां सिद्धिरिति । उच्यते । स्वभावतो यदि एतानि दुःखादीनि स्युः, नियतमेषां चतुर्णां प्रकाराणामन्यतमेन प्रकारेण सिद्धिः स्यात् । न त्वस्ति । तस्मात्स्वभावतो न सन्ति दुःखादीनीत्यवसीयते । अथ विपर्यासमात्रलब्धात्मसत्ताकाया दुःखादिसंवृतेः प्रतीत्यसमुत्पादव्यवस्था (pp_103) मृग्यते, तदा कर्मकारकपरीक्षाप्रकरणविहितविधिना यथोदितपक्षचतुष्टयतिरस्कारेण इदंप्रत्ययतामात्रार्थप्रतीत्यसमुत्पादसिद्धया सिद्धिरभ्युपेया । यथोक्तम्-

स्वयंकृतं परकृतं द्वाभ्यां कृतमहेतुकम् । तार्किकैरिष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् ॥ इति ॥

उक्तं च भगवता आर्योपालिपृच्छायाम्-

तथा

संवृति भाषितु धर्म जिनेन संस्कृत ऽसंस्कृत पश्यथ एव । नास्तिह भूततु आत्म नरो वा एत्तकु लक्षण सर्वजगस्य ॥

कृष्णशुभं च न नश्यति कर्म आत्मन कृत्व च वेदयितव्यम् । नो ऽपि तु संक्रम कर्मफलस्य नो च अहेतुक प्रत्यनुभोति ॥

सर्वि भवा अलिका वसिकाश्च रिक्तक तुच्छक फेनसमाश्च । मायमरीचिसमा सद शून्या देशितुः संवृतु ते च विविक्ताः ॥

शैलगुहागिरिदुर्गनदीषु यद्व प्रतिश्रुक जायि प्रतीत्य । एविमु संस्कृत सर्वि विजान मायमरीचिसमं जगु सर्वम् ॥ इत्यादि ॥ 10 ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ दुःखपरीक्षा नाम द्वादशमं प्रकरणम् ॥

13 संस्कारपरीक्षा त्रयोदशमं प्रकरणम् ।

यतश्चैवं समनन्तरातिक्रान्तप्रकरणविधिना स्वपरोभयकृतत्वमहेतुसमुत्पनत्वं च निरूप्यमाणं भावानामसत्, अन्यश्चोत्पादको विधिरसन्, उत्पन्नरूपत्वेन चैते भावा अविद्यातिमिरोपहतमतिनयनानां बालपृथग्जनानां ख्यान्ति, तस्मान्निःस्वभावा एव सन्तो बालानां विसंवादका मायाकरितुरगादिवत् तदनभिज्ञानां न तु विज्ञानाम् । अत एव सर्वधर्मस्वाभावाव्यापरोक्षधीनयनः समुन्मूलिताशेषाविद्यावासनः चतुर्विपर्यासविपर्यस्तात्राणसत्त्वपरित्राणाय अविपरीतनैः स्वाभाव्योपदेशतत्परो बुद्धो जगद्विबोधको महाकारुणिकः-

तन्मृषा मोषधर्म यद्भगवानित्यभाषत । सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा ॥ 1 ॥

सूत्रे उक्तम्- तन्मृषा मोषधर्म यदिदं संस्कृतम् । एतद्धि खलु भिक्षवः परमं सत्यं यदिदममोषधर्म निर्वाणम् । सर्वसंस्काराश्च मृषा मोषधर्माणः इति । तथा- नास्त्यत्र तथता अवितथता वा । मोषधर्मकमप्येतत् । प्रलोपधर्मकमप्येतत् इति । तदनेन न्यायेन यन्मोषधर्म तन्मृषेत्येवं यस्मादुक्तवांस्तथागतो भगवान्, सर्वे च मोषधर्माणः संस्काराः, तस्मान्मोषधर्मकत्वेन ते संस्कारा मृषा भवन्ति चित्रकरयन्त्रदारिकावत्, लक्षणोपेतयन्त्रमयवारणवञ्चितोदयनवत्सराजवत् । तत्र विसंवादकं मोषधर्मकं वितथख्यात्यालातचक्रवत् । अतो निःस्वभावत्वेन मृषा सर्वसंस्काराः मोषधर्मकत्वात् मरीचिकादिजलवत् । यत्तु सत्यं न तन्मोषधर्मकम्, तद्यथा निर्वाणमेकम् । ततश्च विहितया उपपत्त्या अस्माच्चागमात् सिद्धं सर्वभावानां नैःस्वाभाव्यम् । शून्याः सर्वधर्मा निःस्वभावयोगेन इति च प्रज्ञापारमिता- अर्धशतिकापाठात् ॥ 1 ॥

अत्राह- यद्येवं मोषधर्मकत्वेन सर्वसंस्काराणां मृषात्वं प्रतिपादितं भवता, नन्वेवं सति न सन्ति सर्वे भावा इति सर्वपदार्थापवादिनी मिथ्यादृष्टिरेव स्यात् । उच्यते । सत्यं मोषधर्मकाः सर्वसंस्काराः, ये ऽद्यापि भवन्तं मुष्णन्ति । ननु च भोः,

तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते ।

यदा अस्माभिः तन्मृषा मोषधर्मकम् इत्युक्तम्, तदा किं तत्र मुष्यते? किं तत्राभावो भवति? कश्चिद्यदि पदार्थो ऽभविष्यत्, स्यात्तस्यापवादादभावदर्शनान्मिथ्यादृष्टिः । यदा तु पदार्थमेव कंचिन्न पश्यामः, तदा किं तत्र मुष्यते? नैव किंचिदभावो भवतीत्ययुक्तो ऽयमुपालम्भो भवतः ।

अत्राह- यदि अभावदर्शनमपि न प्रतिपाद्यते, किं पुनरनेनागमेन प्रतिपाद्यत इति? उच्यते- एतत्तूक्तं भगवता शून्यतापरिदीपकम् ॥ 2 ॥ यदेतदुक्तं भगवता, तन्न भावानामभावपरिदीपकम् किं तर्हि शून्यतापरिदीपकम् स्वभावानुत्पादपरिदीपकमित्यर्थः । यथोक्तमनवतप्तह्रदापसंक्रमणसूत्रे-

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.