Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

प्रसन्नपद

Tác giả
चन्द्रकीर्ति
Thông tin
GRETIL — P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

यः प्रत्ययैर्जायति स ह्यजातो नो तस्य उत्पादु सभावतो ऽस्ति । यः प्रत्ययाधीनु स शून्य उक्तो यः शून्यतां जानति सो ऽप्रमत्तः ॥ इति ॥ 2 ॥ अत्राह- नायमागमो भावस्वभावानुत्पादं परिदीपयति, किं तर्हि निःस्वभावत्वम्, स्वभावस्यानवस्थायित्वम्, विनाशित्वम्, इति । कुत एतदिति चेत्,

भावानां निःस्वभावत्वमन्यथाभावदर्शनात् ।

विचार्यमाणानामन्यथात्वं विपरिणामदर्शनात् इत्यर्थः । एतदुक्तं भवति- यदि भावानां स्वभावो न स्यात्, तदानीं नैवैषामन्यथात्वमुपलभ्येत । उपलभ्यते च परिणामः । तस्मात्स्वभावानव स्थायित्वमेव सूत्रार्थ इति विज्ञेयम् ॥

इतश्चैतदेवम् । यस्मात्- अस्वभावो भावो नास्ति भावानां शून्यता यतः ॥ 3 ॥ यो ह्यस्वभावो भावः, स नास्ति । भावानां च शून्यता धर्म इष्यते । न च असति धर्मिणि तदाश्रितो धर्म उपपद्यते । न हि असति वन्ध्यातनये तच्छयामतोपपद्यत इति । तस्मादस्त्येव भावानां स्वभाव इति ॥ 3 ॥

अपि च-

कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते ।

यदि भावानां स्वभावो न स्यात्, यो ऽयं विपरिणामलक्षणः अन्यथाभावः, स कस्य स्यादिति? अत्रोच्यते । एवमपि परिकल्प्यमाने कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते ॥ 4 ॥ इह यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अपरप्रतिबद्धत्वात् । अग्नेरौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते । तदेव औष्ण्यमप्सूपलभ्यमानं परप्रत्ययसंभूतत्वात्कृत्रिमत्वान्न स्वभाव इति । यदा चैवमव्यभिचारिणा स्वभावेन भवितव्यम्, तदा अस्य अव्यभिचारित्वादन्यथाभावः स्यादभावः । न हि अग्निः शैत्यं प्रतिपद्यते । एवं भावानां सति स्वभावाभ्युपगमे ऽन्यथात्वमेव न संभवेत् । उपलभ्यते चैषामन्यथात्वम् । अतो नास्ति स्वभावः ॥ 4 ॥

अपि च । अयमन्यथाभावो भावानां नैव संभवति, यद्दर्शनात्सस्वभावता स्यात् । यथा च न संभवति, तथा प्रतिपादयन्नाह-

तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते । युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते ॥ 5 ॥

तस्यैव तावत् प्राग्वत् प्रागवस्थायां वर्तमानस्य भावस्यान्यथात्वं नोपपद्यते । तथा हि यूनो युवावस्थायामेव वर्तमानस्य नास्ति अन्यथात्वम् । अथापि अवस्थान्तरप्राप्तस्यैव अन्यथात्वं परिकल्प्यते, तदपि नोपपद्यते । अन्यथात्वं नाम जरायाः पर्यायः । तद्यदि यूनो नेष्यते, अन्यस्यैव जीर्णस्य भवतीति, तदपि न युज्यते । यस्मान्न हि जीर्णस्य पुनर्जरया संबन्धः, निष्प्रयोजनत्वात् । किं हि जीर्णस्य पुनर्जरया संबन्धः कुर्यात्? तदागमनान्तरेण जीर्णताभावाज्जीर्णो जीर्यत इति न युज्यते । अथ यून एवान्यथाभावः, तदयुक्तम्, अप्राप्तजरावस्थस्य युवेति व्यपदेशात्, अवस्थाद्वयस्य च परस्परविरुद्धत्वात् ॥ 5 ॥

अपि च ।

तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि ।

अथ स्यात्- क्षीरावस्थापरित्यागेन दध्यवस्था भवति, अतः न क्षीरमेव दधि भवतीति । उच्यते । यदि क्षीरं दधि भवतीति नेष्यते परस्परविरोधात्- क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति ॥ 6 ॥ किमुदकस्य दधिभावो भवतु? तस्मादसंबद्धमेव तदन्यस्य दधिभावो भविष्यतीति । तदेवमन्यथात्वासंभवात् कुतस्तद्दर्शनात् सस्वभावता भावानां प्रसेत्स्यतीति न युक्तमेतत् । यथोक्तमार्यरत्नाकरमहायानसूत्रे-

यो न पि जायति नो चुपपद्यी नो च्यवते न पि जीर्यति धर्मः । तं जिनु दर्शयती नरसिंह तत्र निदेशयि सत्त्व महर्षी ॥

यस्य स्वभाव न विद्यति कश्चि नो ऽपरभावतु केनचि लब्धः । नान्तरतो न पि बाहिरतो वा लभ्यति तत्र निवेशयि नाथः ॥

शान्त गती कथिता सुगतेन नो च गती उपपद्यति काचि । तत्र च व्योहरसी गतिमुक्तो मुक्तकु मोचयसी बहुसत्त्वान् ॥

सर्वि वदेसि निरात्मक धर्मान् सत्त्वतु ग्राहतु मोचसि लोकम् । मुक्त स्वयं गतितो गतिमुक्तो तेनसि पारगतो न च तीर्णः ॥

पारगतो ऽसि भवार्णवतीर्णः पारगतो न च लभ्यति कश्चि । पारु न विद्यति नापि अपारु पारगतो ऽस्मि वदेसि च वाक्यम् ॥

वाच न विद्यति यां च वदेसि यं पि वदेसि न विद्यति तं पि । यस्य वदेसि न विद्यति सो ऽपि यो ऽपि विजानति सो ऽपि असन्तो ॥

तत्र प्रणष्टु जगं इमु सर्वं वितथविकल्पनिवेशवशेन । शान्त विजानति यो नरु धर्मां स्तेहि तथागतु दृष्ट स्वयंभूः ॥

शान्त प्रजानति धर्म प्रणीतान् प्रीति स विन्दति तोषति सत्त्वान् । सो भवती जिनु जित्वेन क्लेशान् आत्म ............ । तेन विजानित बोधि जिनानां बुद्धिय बोधयते स जगं पि । इत्यादि ॥ 6 ॥ यच्चोक्तम्- अस्वभावो भावो नैवास्ति, शून्यता च भावानामिष्यते, तस्मादस्ति शून्यताअश्रयो भावस्वभाव इति, एतदपि न युज्यते इत्याह-

यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किंचन । न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति ॥ 7 ॥

यदि शून्यता नाम काचित् स्यात्, तदा तदाश्रयो भावस्वभावः स्यात् । न त्वेवम् । इह हि शून्यता नामेति सर्वधर्माणां सामान्यलक्षणमित्यभ्युपगमात् अशून्यधर्माभावादशून्यतैव नास्ति । यदा च अशून्याः पदार्था न सन्ति, अशून्यता च नास्ति, तदा प्रतिपक्षनिरपेक्षत्वाच्छून्यतापि (pp_108) खपुष्पमालावन्नास्तीत्यवसीयताम् । यदा च शून्यता नास्ति, तदातदाश्रया अपि पदार्था न सन्तीति स्थितमविकलम् ॥ 7 ॥

अत्राह- त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्रणिहिताख्यानि विमुक्तये विनेयेभ्यो भगवता निर्दिष्टानि सर्वतीर्थिकसमयासाधारणानि सौगत एव प्रवचने समुपलभ्यन्ते । येषामुपदेशार्थमेव बुद्धा भगवन्तो ऽशेषतीर्थ्यवादमहामोहान्धकारानुगतजगति जगदेकप्रदीपा नैरात्म्योपदेशाविच्छिन्नशिखा उत्पद्यन्ते । स भवांस्तथागतप्रवचनव्याख्यानव्याजेन इदानीं तामेव शून्यतां प्रतिक्षेप्तुमारब्धवान्, इत्यलं भवता स्वर्गापवर्गमार्गसमुच्छेदकेनेति । उच्यते । अहो वत भवानत्युन्मुख इव अत्यन्तविपर्यासान्निर्वाणपुरगामिनं शिवमृजुं परमं पन्थानमवधूय भावाभिनिवेशव्या, कुलितं संसारकान्तारानुगमेव मार्गं मोक्षपुरगामित्वेन समाश्रितो निर्मुमुक्षुः सन् संसाराटवीकान्तारः सद्भिरुपालभ्य एव सन् अभिमानाभिनिवेशग्रहपवरशतया तानेवोपालभते । ननु भोः, निरवशेषक्लेशव्याधिचिकित्सकैर्महावैद्यराजैः-

शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः । येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे ॥ 8 ॥

इह सर्वेषामेव दृष्टिकृतानां सर्वग्रहाभिनिवेशानां यनिःसरणमप्रवृत्तिः सा शून्यता । न च दृष्टिकृतानां निवृत्तिमात्रं भावः । ये तु तस्यामपि शून्यतायां भावाभिनिवेशिनः, तान् प्रति अवाचका वयमिति कुतो ऽस्मदुपदेशात् सकलकल्पनाव्यावृत्त्या मोक्षो भविष्यति? यः नकिंचिदपि ते पण्यं दास्यामीत्युक्तः, स चेत् ऽदेहि भोस्तदेव मह्यं नकिंचिन्नाम पण्यम्,ऽ; इति ब्रूयात्, स केनोपायेन शक्यः पण्याभावं ग्राहयितुम्? एवं येषां शून्यतायामपि भावाभिनिवेशः, केनेदानीं स तेषां तस्यां भावाभिनिवेशो निषिध्यतामिति? अतो महाभैषज्ये ऽपि दोषसंज्ञित्वात् परमचिकित्सकैर्महावैद्यैस्तथागतैः प्रत्याख्याता एव ते । यथोक्तं भगवता आर्यरत्नकूटसूत्रे-

यन्न शून्यतया धर्मान् शून्यान् करोति, अपि तु धर्मा एव शून्याः । यन्नानिमित्तेन धर्माननिमित्तान् करोति, अपि तु धर्मा एवानिमित्ताः । यन्नाप्रणिहितेन धर्मानप्रणिहितान् करोति, अपि तु धर्मा एवाप्रणिहिताः । यैवं प्रत्यवेक्षा, इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा । ये हि काश्यप शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति, तानहं नष्टप्रणष्टानिति वदामि ॥

इति प्रवचनात् ॥

तथा-

वरं खलु काश्यप सुमेरुमात्रा पुद्गलदृष्टिराश्रिता, न त्वेव अभावाभिनिवेशिकस्य शून्यतादृष्टिः । तत्कस्य हेतोः? सर्वदृष्टिकृतानां हि काश्यप शून्यता निःसरणम् । यस्य खलु पुनः शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति वदामि । तद्यथा काश्यप ग्लानः पुरुषः स्यात् । तस्मै (pp_109) वैद्यो भैषज्यं दद्यात् । तस्य तद्भैषज्यं सर्वदोषानुच्चार्य स्वयं कोष्ठगतं न निःसरेत् । तत्किं मन्यसे काश्यप अपि तु स पुरुषस्ततो ग्लान्यान्मुक्तो भवेत्? नो हीदं भगवन् । गाढतरं तस्य पुरुषस्य ग्लान्यं भवेत्, यस्य तद्भैषज्यं सर्वदोषानुच्चार्य कोष्ठगतं न निःसरेत् । भगवानाह- एवमेव काश्यप सर्वदृष्टिकृतानां शून्यता निःसरणम् । यस्य खलु पुनः शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति वदामि ॥ इति ॥ 8 ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संस्कारपरीक्षा नाम त्रयोदशमं प्रकरणम् ॥

14 संसर्गपरीक्षा चतुर्दशमं प्रकरणम् ।

अत्राह- अस्त्येव भावस्वभावः, तत्संसर्गोपदेशात् । इह यन्नास्ति, न तस्य संसर्गः, तद्यथा वन्ध्यासुतदुहित्रोः । अस्ति च संस्काराणां संसर्गोपदेशः । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम्, त्रयाणां संनिपातः स्पर्शः, स्पर्शसहजा वेदनेति विस्तरः । तथा संज्ञा च वेदना च संसृष्टावेतौ धर्मौ नासंसृष्टाविति संस्काराणां संसर्गोपदेशः । तदेवं संसर्गोपदेशाद्विद्यत एव भावस्वभाव इति । उच्यते । स्यादेतदेवम्, यदि संसर्ग एव भवतो भवेत्, न त्वस्ति, यस्मात्-

द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः । सर्वशश्च न संसर्गमन्योन्येन ब्रजन्त्युत ॥ 1 ॥

तत्र द्रष्टव्यं रूपम्,दर्शनं चक्षुः, द्रष्टा विज्ञानम् । एषां त्रयाणां द्विशो द्विशः संसर्गो नास्ति । चक्षुषो रूपस्य च, चक्षुषो विज्ञानस्य च, विज्ञानस्य रूपस्य च संसर्गो नास्ति । इत्येवं द्विशो द्विशः संसर्गो न भवति । सर्वशो ऽपि त्रयाणामप्येषां युगपच्च संसर्गो नास्ति ॥ 1 ॥

यथा च द्रष्टव्यदर्शनद्रष्टणां द्विशो द्विशः सर्वशश्च संसर्गाभावः,

एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम् ।

रागस्य रक्तस्य च संसर्गो नास्ति, रागस्य रञ्जनीयस्य च, त्रयाणामपि युगपत्संसर्गो नास्ति । यथा चैषाम्, एवम्- त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च ॥ 2 ॥ अन्योन्येन संसर्गं न व्रजन्ति । त्रयः प्रकारास्त्रिधा, त्रिधाभावस्त्रैधम् । तेन त्रैधेन शेषाः क्लेशा द्वेषमोहादयः, ते एते द्वेषद्विष्टद्वेषणीयादिना त्रैधेन श्रोत्रश्रोतृश्रोतव्यादिना च ॥ 2 ॥

कस्मात्पुनरेतेषां संसर्गो नास्तीत्याह-

अन्येनान्यस्य संसर्गस्तच्चान्यत्वंन विद्यते । द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः ॥ 3 ॥

यदित्ययं यस्मादर्थे । यदि द्रष्टव्यादीनां परस्परमन्यत्वं स्यात्, तदा क्षीरोदकयोरिव अन्येन अन्यस्य संसर्गः स्यात् । तच्चान्यत्वं यस्मादेषां द्रष्टव्यप्रभृतीनां न संभवति, अतो नैते संसर्ग ब्रजन्ति ॥ 3 ॥

अपि च ।

न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते । कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते ॥ 4 ॥ न च केवलं कार्यकारणभावस्थितानां द्रष्टव्यादीनामन्यत्वं न संभवति, घटपटादीनामपि पदार्थानां सर्वेषां नैव संभवतीत्यवसीयताम् ॥ 4 ॥ यथा चैषां द्रष्टव्यप्रभृतीनां परस्परतो ऽन्यत्वमसत्, तथा प्रतिपादयन्नाह-

अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृते ऽन्यतः । यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते ॥ 5 ॥

इह यदेतद् घटाख्यं वस्तु पटादन्यदिति व्यपदिश्यते, तदेतदन्यदन्यत्प्रतीत्य अन्यद्भवति । अन्यवस्तुनः ऋते, ऋते ऽन्यतः, विना अन्यत्, अन्यदन्यन्न भवति । यच्च पटाख्यं वस्तु अन्यद् घटाख्यं वस्तु प्रतीत्य अन्यद्भवति, तस्मात्पटाख्याद्वस्तुनः तद् घटाख्यं वस्तु नान्यद्भवतीत्यवसीयताम् । यस्मात्, यत्प्रतीत्य यद्भवति, तस्मात्तदन्यन्न भवति, सापेक्षत्वाद् बीजाङ्कुरवत् ह्रस्वदीर्घवच्चेति । तथा च वक्ष्यति-

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतत् ॥ इति ॥ 5 ॥ अत्राह- यदि घटादन्यः पटः स्यात्, तं च पृथग्भूतं पटमपेक्ष्य अन्यो घटः स्यात्, तदा को दोष इति । उच्यते-

यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत् । तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः ॥ 6 ॥

एको ऽत्र अन्यशब्द उपदर्शने, अपरश्च अर्थान्तरपरामर्शी, अन्यश्च प्रसिद्धोच्चारणम्, इति अन्यशब्दत्रयोपादानम् । यदि हि एतद् घटाख्यं वस्तु पटादन्यस्मादन्यत् स्यात्, तद् घटाख्यं वस्तु अन्यस्मादपि पटाख्यादृते अन्यद्भवेत्, तदा च पटनिरपेक्षस्यैव एकैकस्य घटस्य अन्यत्वं भवेत् । यद्धि यस्मादन्यत्, तत्तेन विनापि सिद्धयति । तद्यथा । स एव घटो न स्वरूपनिष्पत्तावन्यं पटमपेक्षते । एवमन्यत्वमपि यदि घटस्य अन्यस्मात्पटादृते भवेत्, तदानीं पटनिरपेक्षस्य घटस्य परत्वं स्यात् । न तु एकैकस्य पटनिरपेक्षस्य घटस्यान्यत्वं दृष्टम्। तस्मादन्यद्भवतीति ब्रुवता यदपेक्ष्य यदन्यत्, ततस्तदन्यन्न भवतीति स्फुटमभ्युपेतं भवति ॥

अत्राह- यदि खलु अन्यत्वमेवं कुतश्चित्कस्यचिन्नास्ति, ननु इदमपि तदा न संभवति वक्तुम्- यस्मादन्यत्प्रतीत्य अन्यदन्यद्भवतीति, तस्मादेव तदन्यदन्यन्न भवतीति । उच्यते । यत एव हि परस्परापेक्षिकी भावानामन्यत्वसिद्धिः, अत एव अन्यदित्युच्यते लौकिके व्यवहारे स्थित्वा । वस्तुतस्तु परीक्ष्यमाणमन्यत्वं न संभवतीति ब्रूमः ॥

यदि तर्हि एवमप्यविद्यमाने ऽप्यन्यत्वे लोकसंवृत्या पटादन्यो घट इति व्यपदिश्यते, अथ कस्माद् बीजाङ्कुरयोरपि एवमन्यत्वं न व्यपदिश्यते? उच्यते । नैव हि लोको घटपटयोरिव बीजाङ्कुरयोरन्यत्वं प्रतिपद्यते, घटपटयोरिव जन्यजनकत्वाभावप्रसङ्गात्, यौगपद्यभावप्रसङ्गात् । अपि च । यस्माद्बीजमात्रमु त्वा बीजकार्यं वृक्षमुपदर्शयति पुमान् लोके- अयं वृक्षो मयोप्त इति, तस्माल्लोके ऽपि कार्यकारणभूतानां नास्त्येव परत्वमिति व्यवस्थाप्यते ॥ 6 ॥

अत्राह- यदि पदार्थान्तरे पदार्थान्तरसापेक्षा परबुद्धिः स्यात्, स्यादेष दोषः- तस्मात्तदन्यन्न भवतीति । न त्वेवं ब्रूमः । किं तर्हि इह अन्यत्वं नाम सामान्यविशेषो ऽस्ति, तद्यत्र समवेतम् स पदार्थः पदार्थान्तरनिरपेक्षयापि पर इत्युच्यते, तस्मादुक्तदोषानवसरो ऽस्मत्पक्षे इति । उच्यते स्यादेतदेवम्, यदि अन्यत्वमेव स्यात्, न त्वस्ति । इहेदमन्यत्वं कल्प्यमानमन्यस्मिन् वा कल्प्येत अनन्यस्मिन् वा? उभयथा च नोपपद्यत इति प्रतिपादयन्नाह-

नान्यस्मिन् विद्यते ऽन्यत्वमनन्यस्मिन्न विद्यते ।

तत्र अन्यस्मिन्नन्यत्वमस्तीति कल्प्यते, किं तदानीमन्यत्वपरिकल्पनया? अन्यव्यपदेशसिद्धयर्थं हि भवता अन्यत्वं परिकल्प्यते । स च अन्यव्यपदेशो विनाप्यन्यत्वेन सिद्ध एव, यस्माल्लब्धान्यव्यपदेश एव पदार्थे ऽन्यस्मिन् अन्यत्वं कल्प्यते, इत्येवं तावदन्यस्मिन्नन्यत्वं न संभवति इदानीमनन्यस्मिन्नपि अन्यत्वं नास्ति, यस्मादनन्य उच्यते एकः, तत्र च अन्यत्वविरुद्धमेकत्वमस्तीति यतः विरोधादनन्यस्मिन्नपि अन्यत्वं न संभवति । यच्च इदानीं नान्यस्मिन्ननन्यस्मिन् विद्यते तद्वयतिरिक्तस्य पदार्थान्तरस्यासंभवाद् एतद्वयतिरिक्ते ऽपि पदार्थे न संभवति, तत्रैवास्ति । यदा चैवमन्यत्वमेव नास्ति, तदा अन्यत्वसमवायनिबन्धनः अन्यबुद्धिध्वनिप्रवृत्तिहेतुरन्यो ऽपि पदार्थो नास्तीति सिद्धम् ॥

अत्राह- यद्यपि अन्यत्वं नास्ति, तथापि अन्यस्तावदस्ति । न च असति अन्यत्वे अन्यो भवितुमर्हति, अतो ऽन्यत्वं भविष्यतीति । उच्यते- अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा ॥ 7 ॥ यदा अन्यत्वमेव नास्तीति प्राक् प्रतिपादितम्, तदा कुतः असति अन्यत्वे अन्यद्वा तदेव वा भविष्यति? तदेवेति अनन्यत्वमित्यर्थः । तस्मान्नास्ति अन्यद्वा तदेव वा ॥ 7 ॥

अत्राह- विद्यन्त एव दर्शनादयः, संसर्गसद्भावात् । इह दर्शनादीनां यद्यपि अन्यत्वं नास्तीति प्रतिपादितम्, तथापि त्रयाणां संनिपातः संगतिः स्पर्श इति संसर्गो ऽस्ति । ततश्च संसर्गसद्भावाद् विद्यन्त एव दर्शनादय इति । उच्यते । स्युरेवम्, यदि तेषां संसर्ग एव स्यात् । न त्वस्ति । यथा च नास्ति, तथा प्रतिपादयन्नाह-

न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते ।

इह यदि दर्शनादीनां संसर्गः स्यात्, स एकत्वेन वा परिकल्प्येत अन्यत्वेन वा? तत्र एकत्वे नास्ति संसर्गः । न हि एककं क्षीरमुदकनिरपेक्षमुदकेन संसृज्यत इत्युच्यते । पृथक्त्वे ऽपि संसर्गो नास्ति । न हि उदकात्पृथगवस्थितं क्षीरमुदकेन संसृज्यत इति कथ्यते । एवं दर्शनादीनां यदि एकत्वे सति संसर्गः परिकल्प्यते, सो ऽनुपपन्नः । एककस्यापि चक्षुषः संसृष्टिप्रसङ्गात् । अथ पृथक्त्वम्, एवमप्यनुपपन्नः । एककस्यापि चक्षुषो रूपादिभ्यः पृथग्भूतस्य संसृष्टिप्रसङ्गात् । असति संसर्गे नास्ति दर्शनादिकमिति सिद्धम् ॥

अत्राह- यद्यपि संसर्गो नास्ति, तथापि संसृज्यमानं संसृष्टं संस्रष्टा चास्ति, तदप्रतिषेधात् । न च संसर्गमन्तरेण संसृज्यमानं संसृष्टं संस्रष्टा च संभवति । तस्मात्संसर्गो ऽपि भविष्यतीति । उच्यते । एतदपि न युक्तम् । यस्माद्यदा संसर्ग एव नास्तीति प्रतिपादितम्, असति च (pp_113) संसर्गे तदा कुतः संसृज्यमानादिकम्? तत्र वर्तमानसंसर्गक्रियासाधनकर्मभूतं संसृज्यमानम्, संसृष्टं निष्पन्नसंसर्गक्रियम्, संस्रष्टा कर्ता क्रियानिष्पत्तौ स्वातन्त्र्येणावस्थितः । तदत्र संसर्गाभावादेव संसृज्यमानादिकमपश्यंस्तत्प्रतिषेधं निगमयन्नाह- संसृज्यमानं संसृष्टंसंस्रष्टा च न विद्यते ॥ 8 ॥ इति । यथोक्तं भगवता [उपालिपरिपृच्छायाम्]

सर्वसयोगि तु पश्यति चक्षुस्तत्र न पश्यति प्रत्ययहीनम् । [नैव च] चक्षु पपश्यति [रूपं] तेन सयोगवियोगविकल्पः ॥

आलोकसमाश्रित पश्यति चक्षु रूप मनोरम चित्रविचित्रम् । येन च योगसमाश्रित चक्षुस्तेन न पश्यति चक्षु कदाचि ॥

ते परिनिर्वृत लौकिक शूरा येहि स्वभावत ज्ञातिभि धर्माः । कामगुणैर्हि चरन्ति असङ्गाः सङ्ग विवर्जिय सत्त्व विनेन्ति ॥

नो पि च सत्त्व न जीविह कश्चि सत्त्वहितं च करोन्ति जिनेन्द्राः । ............. सत्त्वु न अस्ति करोन्ति च अर्थम् ॥

सङ्गु न विद्यति अत्र कदाचि .............. । ............. तस्य न विद्यति वेदन लोके ॥

तथा-

भावितु मार्ग पवर्तितु ज्ञान शून्यक धर्म निरात्मक सर्वि । येन विभावित भोन्तिमि धर्मास्तस्य भवेत्प्रतिभानमनन्तम् ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संसर्गपरीक्षा नाम चतुर्दशमं प्रकरणम् ॥

15 स्वभावपरीक्षा पञ्चदशमं प्रकरणम् ।

अत्राह- विद्यत एव भावानां स्वभावः, तन्निष्पादकहेतुप्रत्ययोपादानात् । इह यन्नास्ति न तस्य निष्पादकहेतुप्रत्ययोपादानमस्ति यथा खपुष्पस्य । उपादीयन्ते च बीजाविद्यादयो हेतुप्रत्यया अङ्करसंस्कारादीनां निष्पादकाः, इत्यतो विद्यत एव भावस्वभाव इति । उच्यते । यदि भावानां संस्काराङ्कुरादीनां स्वभावो ऽस्ति, किमिदानीं विद्यमानानां हेतुप्रत्ययैः प्रयोजनम् । यथा वर्तमानीभूतानां संस्काराङ्कुरादीनां भूयोनिष्पत्तये अविद्याबीजादीनामुपादानं क्रियते एवमन्यदपि तदुत्पत्तये न कर्तव्यं स्यात्, तत्स्वभावस्य विद्यमानत्वादिति प्रतिपादयन्नाह-

न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः ।

अथ स्यात्- नैवोत्पादात्पूर्वं कस्यचिद्भावस्य स्वभावो ऽस्ति यतो ऽस्य विद्यमानत्वादुत्पत्तिवैयर्थ्यं स्यात्, किं तर्हि उत्पादात्पूर्वमविद्यमानस्यैव स्वभावस्य हेतुप्रत्ययान् प्रतीत्य पश्चादुत्पादो भवतीति । एवमपीःयमाणे- हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् ॥ 1 ॥ अथ स्यात्- इष्यत एव हेतुप्रत्ययसंभूतत्वात्स्वभावस्य कृतकत्वम्, तस्मात्कृतकस्यैव स्वभावस्याभ्युपगमात् कृतकत्वप्रसङ्गो नास्माकं बाधक इति, एतदपि न युक्तमित्याह-

स्वभावः कृतको नाम भविष्यति पुनः कथम् ।

कृतकश्चेति स्वभावश्चेति परस्परविरुद्धत्वादसंगतार्थमेतत् । इह हि स्वो भावः स्वभाव इति व्युत्पत्तेः, यः कृतकः पदार्थः, स लोके नैव स्वभाव इति व्यपदिश्यते, तद्यथा अपामौष्प्यं धातुपिशाचप्रत्ययनिष्पादितः कर्केटनादीनां पद्मरागादिभावश्च । यस्तु अकृतकः स स्वभावः, तद्यथा अग्नेरौष्ण्यं जातानां पद्मरागादीनां पद्मरागादिस्वभावश्च । स हि तेषां पदार्थान्तरसंपर्काजनितत्वात्स्वभाव इत्युच्यते । तदेवमकृतकः स्वभाव इति लोकव्यवहारे व्यवस्थिते वयमिदानीं ब्रूमः- यदेतदौष्ण्यं तदष्यग्नेः स्वभावो न भवतीति गृह्यतां कृतकत्वात्, इह मणीन्धनादित्यसमागमादरणिनिर्धर्षणादेश्च अग्नेर्हेतुप्रत्ययसापेक्षतैव उपलभ्यते । न च अग्निव्यतिरिक्तमौष्ण्यं संभवति । तस्मादौष्ण्यमपि हेतुप्रत्ययजनितम्, ततश्च कृतकम्, कृतकत्वाच्चापामौष्ण्यवत् स्वभावो नैव भवतीति स्फुटमवसीयते ॥

ननु च गोपालाङ्गनाजनप्रसिद्धमेतद् अग्नेरौष्ण्यं स्वभाव इति । किं खलु अस्माभिरुक्तं न प्रसिद्धमिति? एतत्तु वयं ब्रूमः- नायं स्वभावो भवितुमर्हति स्वभावलक्षणवियुक्तत्वात् । अविद्याविपर्यासानुगमात्तु लोको निःस्वभावमेव भावजातं सस्वभावत्वेन प्रतिपन्नः । यथा हि (pp_115) तैमिरिकाः तिमिरप्रत्ययादसन्तमेव केशादिस्वभावं सस्वभावत्वेनाभिनिविष्टाः, एवमविद्यातिमिरोपहतमतिनयनतया बाला निःस्वभावं भावजातं सस्वभावत्वेनाभिनिविष्टा यथाभिनिवेशं लक्षणमाचक्षते अग्नेरौष्ण्यं स्वलक्षणम् । ततो ऽन्यत्रानुपलम्भादसाधारणत्वेन स्वमेव लक्षणमिति कृत्वा । बालजनप्रसिद्धयैव च भगवता तदेवैषां सांवृतं स्वरूपमभिधर्मे व्यवस्थापितम् । साधारणं त्वनित्यत्वादिकं सामान्यलक्षणमिति चोक्तम् । यदा तु विगताविद्यातिमिरावदातप्रज्ञाचक्षुषां दर्शनमपेक्ष्यते, तदा वितिमिरैः तैमिरिकोपलब्धकेशादर्शनवत् बालजनमतिपरिकल्पितानुपलब्धस्वभावैरार्यैः पुर उच्यते परहितव्यापारैः, नायं स्वभावो भावानामिति । यथोक्तमार्यलङ्कावतारसूत्रे-

केशोण्डुकं यथा मिथ्या गृह्यते तैमिरिकैर्जनैः । तथा भावविकल्पो ऽयं मिथ्या बालैर्विकल्प्यते ॥

न स्वभावो न विज्ञप्तिर्न च वस्तु न चालयः । बालैर्विकल्पिता ह्येते शवभूतैः कुतार्किकैः ॥ इति ।

तथा-

स्वभावानुत्पत्तिं संधाय महामते मया सर्वधर्मा अनुत्पन्ना इत्युक्ताः ॥ इति विस्तरः ॥

अत्राह- यदि खलु इदमग्न्यादेरौष्ण्यादिकं हेतुप्रत्ययसंभूतत्वेन कृतकत्वान्निःस्वभावमित्युच्यते, किमिदानीं तत्स्वभावस्य लक्षणं कश्चासौ स्वभाव इति वक्तव्यम् । उच्यते- अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ॥ 2 ॥ इह स्वो भावः स्वभाव इति यस्य पदार्थस्य यदात्मीयं रूपं तत्तस्य स्वभाव इति व्यपदिश्यते । किं च कस्यात्मीयं यद्यस्याकृत्रिमम्, यत्तु कृत्रिमं न तत्तस्यात्मीयं तद्यथा अपामौष्ण्यम् । यच्च यस्यायत्तं तदपि तदात्मीयं तद्यथा स्वे भृत्याः, स्वानि धनानि । यत्तु यस्य परायत्तं न तत्तस्यात्मीयं तद्यथा तावत्कालिकायाचितकमस्वतन्त्रम् । यतश्चैवं कृत्रिमस्य परसापेक्षस्य च स्वभावत्वं नेष्टम्, अत एव औष्ण्यमग्नेर्हेतुप्रत्ययप्रतिबद्धत्वात्पूर्वंमभूत्वा पश्चादुत्पादेन कृतकत्वान्न स्वभाव इति युज्यते । यतश्चैतदेवम्, अतो यदेवाग्नेः कालत्रये ऽप्यव्यभिचारि निजं रूपमकृत्रिमम्, पूर्वमभूत्वा पश्चाद्यन्न भवति, यच्च हेतुप्रत्ययसापेक्षं न भवति अपामौष्ण्यवत् पारावारवत् दीर्घह्रस्ववद्वा, तत् स्वभाव इति व्यपदिश्यते । किं खलु अग्नेः तदित्थं स्वरूपमस्ति? न तदस्ति, न चापि नास्ति स्वरूपतः । यद्यपि एवम्, तथापि श्रोतृणामुत्त्रासपरिवर्जनार्थं संवृत्या समारोप्य तदस्तीति ब्रूमः । यथोक्तं भगवता-

अनक्षरस्य धर्मस्य श्रुतिः का देशना च का । श्रूयते देश्यते चापि समारोपादनक्षरः ॥ इति ।

इहापि च वक्ष्यति-

शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् । उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥

यदि खलु तदध्यारोपाद्भवद्भिरस्तीत्युच्यते, कीदृशं तत्? या सा धर्माणां धर्मता नाम, सैव तत्स्वरूपम् । अथ केयं धर्माणां धर्मता? धर्माणां स्वभावः । को ऽयं स्वभावः? प्रकृतिः । का चेयं प्रकृतिः? येयं शून्यता । केयं शून्यता? नैःस्वाभाव्यम् । किमिदं नैःस्वाभाव्यम्? तथता । केयं तथता? तथाभावो ऽविकारित्वं सदैव स्थायिता । सर्वथानुत्पाद एव ह्यग्न्यादीनां परनिरपेक्षत्वादकृत्रिमत्वात्स्वभाव इत्युच्यते ॥

एतदुक्तं भवति- अविद्यातिमिरप्रभावोपलब्धं भावजातं येनात्मना विगताविद्यातिमिराणामार्याणामदर्शनयोगेन विषयत्वमुपयाति, तदेव स्वरूपमेषां स्वभाव इति व्यवस्थाप्यते । तस्य चेदं लक्षणम्- अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च । इति व्यवस्थापयांबभूवुराचार्या इति विज्ञेयम् । स चैष भावानामनुत्पादात्मकः स्वभाव अकिंचित्त्वेन अभावमात्रत्वादस्वभाव एवेति कृत्वा नास्ति भावस्वभाव इति विज्ञेयम् । यथोक्तं भगवता-

भावानभावानिति यः प्रजानति स सर्वभावेषु न जातु सज्जते । यः सर्वभावेषु न जातु सज्जते स आनिमित्तं स्पृशते समाधिम् ॥ इति ॥ 2 ॥ अत्राह- यद्यपि स्वभावो नास्ति भावानाम्, तथापि परभावस्तावदस्ति, तदप्रतिषेधात् सति च परभावे स्वभावो ऽपि भविष्यति । स्वभावमन्तरेण परभावाप्रसिद्धेरिति । उच्यते-

कुतः स्वभावस्याभावे परभावो भविष्यति । स्वभावः परभावस्य परभावो हि कथ्यते ॥ 3 ॥

इह स्वभाव एव हि लोके कश्चित्स्वभावान्तरापेक्षया पर इति व्यपदिश्यते । यदि हि अग्नेरौष्ण्यं स्वभावः स्यात्, द्रवस्वभावसलिलसापेक्षया परभाव इति व्यपदिश्येत । यदा तु मुमुक्षुभिर्विचार्यमाणस्य कस्यचित्स्वभाव एव नास्ति, तदा कुतः परत्वं स्यात्? परभावाच्च स्वभावो ऽपि नास्ति इति सिद्धम् ॥ 3 ॥

अत्राह- यद्यपि स्वभावपरभावौ न स्तः, तथापि भावस्तावदस्ति, अप्रतिषेधात् । स च भावो भवन् स्वभावो वा भवेत्, परभावो वा । तस्मात्स्वभावपरभावावपि भविष्यत इति । उच्यते-

स्वभावपरभावाभ्यामृते भावः कुतः पुनः । स्वभावे परभावे वा सति भावो हि सिध्यति ॥ 4 ॥

भावो हि परिकल्प्यमानः स्वभावो वा भवेत्, परभावो वा । तौ च पूर्वोक्तविधिना न स्तः, इति तयोरभावाद्भावो ऽपि नास्तीत्यवधार्यताम् ॥ 4 ॥

अत्राह- यद्यपि भवता भावः प्रतिषिद्धः, तथाप्यभावो ऽस्ति, प्रतिषेधाभावात् । ततश्च भावो ऽपि भविष्यति प्रतिद्वन्द्विसद्भावात्, अभाववदिति । उच्यते । स्याद्भावः, यदि अभाव एव स्यात् । न त्वस्तीत्याह-

भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति । भावस्य ह्यन्यथाभावमभावं व्रुवते जनाः ॥ 5 ॥

इह हि यदि भावो नाम कश्चिदभविष्यत्, स्यात्तस्यान्यथाभावादभावः । घटादयो हि वर्तमानावस्थायाः प्रच्युताः सन्तः अन्यथाभावमापन्नाः अभावध्वनिवाच्या भवन्ति लोके । यदा त्वमी घटादयो भावरूपत्वेनैवासिद्धाः, तदा कुतो ऽविद्यमानस्वभावानामन्यथात्वमिति । अतः अभावो ऽपि नास्ति ॥ 5 ॥

तदेवं सर्वथा स्वभावपरभावभावाभावेषु अनुपपद्यमानेषु अविद्यातिमिरोपहतमतिनयनतया विपरीतम्-

स्वभावं परभावं च भावं चाभावमेव च । ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने ॥ 6 ॥

ये हि तथागतप्रवचनाविपरीतव्याख्यानाभिमानितया पृथिव्याः काठिन्यं स्वभावः, वेदनाया विषयानुभवः, विज्ञानस्य विषयप्रतिविज्ञप्तिः स्वभावः, इत्येवं स्वभावं भावानां वर्णयन्ति, अन्यद्विज्ञानम्, अन्यद्रूपम्, अन्यैव च वेदना, इत्येवं परभावं वर्णयन्ति, वर्तमानावस्थं च विज्ञानादिकं भावत्वेन ये वर्णयन्ति, विज्ञानादिकमेव च अतीततामापन्नमभाव इति, न ते परमगम्भीरस्य प्रतीत्यसमुत्पादस्य तत्त्वं वर्णयन्ति । यस्माद्यथोदितोपपत्तिविरुद्धं स्वभावपरभावादीनामस्तित्वम्, न चोपपत्तिविरुद्धं पदार्थस्वभावमनुवर्णयन्ति तथागताः । स्वयमविपरीताशेषपदार्थतत्त्वसंबोधात् । अत एव बुद्धानामेव भगवतां वचनं प्रमाणमित्युपवर्णयन्ति विचक्षणाः, सोपपत्तिकत्वेनाविसंवादकत्वात् । अत एव च आप्तेभ्यः प्रहीणाशेषदोषेभ्य आगतत्वात्, आगमयतीति समन्तात् तत्त्वं गमयतीति वा, आमिमुख्याद्गमनाद्वा तदाश्रयेण लोकस्य निर्वाणगमनात् संबुद्धवचनस्यैव आगमत्वं व्यवस्थाप्यते । तदन्यमतानां तु उपपत्तिवियुक्तत्वान्न प्रामाण्यम्, आगमाभासत्वं च व्यवस्थाप्यते ॥ 6 ॥

यस्माच्च एतानि स्वभावपरभावभावाभावदर्शनानि युक्तिविधुरत्वान्न तत्त्वानि, अत एव मुमुक्षूणां विनेयजनानाम्-

कात्यायनाववादे चास्तीति नास्तीति चोभयम् । प्रतिषिद्धं भगवता भावाभावविभाविना ॥ 7 ॥

उक्तं हि भगवता आर्यकात्यायनाववादसूत्रे-

यद्भूयसा कात्यायन अयं लोको ऽस्तितां वा अभिनिविष्टो नास्तितां च । तेन न परिमुच्यते । जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो न परिमुच्यते । पाञ्चगतिकात्संसारचारकागारबन्धनान्न परिमुच्यते । मातृमरणसंतापदुःखान्न परिमुच्यते । पितृमरणसंतापदुःखादिति विस्तरः ॥

इदं च सूत्रं सर्वनिकायेषु पठयते । तदस्मादागमात् यथोपवर्णितायाश्चोपपत्तेर्नार्हति प्राज्ञस्वभावपरभावभावाभावदर्शनं तथागतवचनादत्यन्तविरुद्धमास्थातुम् । भगवता प्रतिषिद्धत्वात् । किंविशिष्टेन भगवता? भावाभावविभाविना । भावाभावौ विभावयितुं शीलमस्येति भावाभावविभावी । यथावस्थितभावाभावाविपरीतस्वभावपरिज्ञानाद् भावाभावविभावीति भगवानेवोच्यते । तेन भगवता भावाभावविभाविना यस्मादस्तित्वंच नास्तित्वं च उभयमेतत् प्रतिषिद्धम्, तस्मान्न युक्तं भावाभावदर्शनं तत्त्वमित्यास्थातुम् ॥

तथा-

अस्तीति काश्यप अयमेको ऽन्तः । नास्तीति काश्यप अयमेको ऽन्तः । यदेनयोरन्तयोर्मध्यम्, तदरूप्यमनिदर्शनमप्रतिष्ठमनाभासमनिकेतमविज्ञप्तिकम् । इयमुच्यते काश्यप मध्यमां प्रतिपद् भूतप्रत्यवेक्षा इति ॥

तथा-

अस्तीति नास्तीति उभे ऽपि अन्ता शुद्धी अशुद्धीति इमे ऽपि अन्ता । तस्मादुभे अन्त विवर्जयित्वा मध्ये ऽपि स्थानं न करोति पण्डितः ॥

अस्तीति नास्तीति विवाद एषः शुद्धी अशुद्धीति अयं विवादः । विवादप्राप्त्या न दुःखं प्रशाम्यति अविवादप्राप्त्या च दुःखं निरुध्यते ॥ इति ।

अत्राह- यदि पुनरेवमग्न्यादीनां स्वभावत एवास्तित्वं स्यात्, को दोषः स्यात्? उक्तदोषः-

हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् । इत्यादिना ॥ 7 ॥ अपि च । यदि अयमेषामग्न्यादीनां स्वभावः स्यात्, तस्य विद्यमानस्य सतो न स्यात् पुनरन्यथात्वमिति प्रतिपादयन्नाह-

यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता ।

यदि अग्न्यादेर्भावस्य प्रकृत्या स्वभावतो ऽस्तित्वम्, तदा अस्य स्वभावस्य प्रकृत्या विद्यमानस्य पुनरन्यथात्वं न स्यात् । यस्मात्- प्रकृतेरन्यथाभावो न हि जातूपपद्यते ॥ 8 ॥ यदि एषामग्न्यादीनामियमेव प्रकृतिः स्यात्, स्वभावः स्यात्, तदा प्रकृतेरविकारिणीत्वान्न कदाचित्पुनरन्यथाभाव उपपद्येत । न हि आकाशस्यानावरणत्वं कदाचिदप्यन्यथात्वं प्रतिपद्यते । एवमग्न्यादीनामपि प्रकृत्या विद्यमानानां पुनरन्यथात्वं न स्यात् । उपलभते च भवानेषामन्यथात्वप्रबन्धोपरमलक्षणं विनाशम् । तस्माद्विपरिणामधर्मित्वादपामौष्ण्यवत् नायमेषां स्वभाव इति प्रतीयताम् ॥ 8 ॥

अत्राह- यदि प्रकृत्या विद्यमानस्यान्यथात्वासंभवादन्यथात्वस्य च उपलभ्यमानत्वात् प्रकृतिरेषां भावानां नास्तीत्युच्यते, ननु च एवमपि-

प्रकृतौ कस्य चासत्यामन्यथात्वं भविष्यति ।

कस्य इदानीं प्रकृत्या स्वरूपेणाविद्यमानस्य खपुष्पस्येव अन्यथात्वं भविष्यति? तस्मादविद्यमानप्रकृतिकस्य अन्यथात्वानुपलम्भात्, अन्यथात्वस्य च दर्शनात्, अस्त्येव स्वभाव इति । उच्यते । यदि तावकेन मतेन प्रकृत्या स्वभावेन असंविद्यमानस्य अन्यथात्वाभावाद् अन्यथात्वस्य च दर्शनात्प्रकृतिरित्युच्यते, एवमपि- प्रकृतौ कस्य च सत्यामन्यथात्वं भविष्यति ॥ 9 ॥ कस्येदानीं प्रकृत्या स्वभावेन विद्यमानस्य वर्तमानस्यैव अन्यथात्वं भविष्यति? तस्मात् प्रकृत्या विद्यमानस्य अन्यथात्वं नास्तीति सर्वथा अन्यथात्वासंभव एव । ततश्च नास्ति प्रकृतिर्भावानामिओति विज्ञेयम् ॥ 9 ॥

यच्चाप्युक्तम्- अन्यथात्वस्य दर्शनान्नास्ति प्रकृतिरिति, तदपि परप्रसिद्धया अन्यथात्वदर्शनमधिकृत्योक्तम्, न त्वस्माभिः कदाचिदपि कस्यचिदन्यथात्वमभ्युपेतम् । तदेवमत्यन्ततः प्रकृतावसंविद्यमानायां सर्वधर्मेषु असंविद्यमानेषु अस्वभावेषु तदन्यथात्वे च असंविद्यमाने यो हि इदानीमस्तित्वं नास्तित्वं च भावानां परिकल्पयति, तस्य एवं परिकल्पयतो नियतमेव-

अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम् ।

प्रसज्यत इति वाक्यशेषः । तच्चैतत् शाश्वतोच्छेददर्शनं स्वर्गापवर्गमार्गान्तरायकरत्वाद् यस्मान्महानर्थकरम्, तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः ॥ 10 ॥ कस्मात्पुनर्भावाभावदर्शने सति शाश्वतोच्छेददर्शनप्रसङ्गो भवतीति? यस्मात्-

अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम् । नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते ॥ 11 ॥

यत् स्वभावेन अस्तीत्युच्यते, स्वभावस्यानपायित्वान्न तत् कदाचिदपि नास्तीति, एवं भावस्यास्तित्वाभ्युपगमे सति शाश्वतदर्शनमापद्यते । पूर्वं च वर्तमानावस्थायां भावस्वरूपमभ्युपेत्य इदानीं तद्विनष्टत्वान्नास्तिति पश्चादभ्युपगच्छतः उच्छेददर्शनं प्रसज्यते । यस्य तु भावस्वभाव एव नोपपद्यते, न तस्य शाश्वतोच्छेददर्शनप्रसङ्गः, भावस्वभावानुपलम्भात् ॥

ननु च भावानां स्वभावो नास्तीत्यभ्युपगच्छतो मा भूद्भावदर्शनाभावाच्छाश्वतदर्शनम्, उच्छेददर्शनं तु नियतं प्रसज्यते इति । नैवमभावदर्शनं भवति । यो हि पूर्वं भावस्वभावमभ्युपेत्य पश्चात् तन्निवृत्तिमालम्बते, तस्य पूर्वोपलब्धस्वभावापवादात् स्यादभावदर्शनम् । यस्तु तैमिरिकोपलब्धकेशेष्विव वितैमिरिको न किंचिदुपलभते, स नास्तीति ब्रुवन् किंचिन्नास्तीति ब्रूयात् प्रतिषेध्याभावात् । विपर्यस्तानां तु मिथ्याभिनिवेशनिवृत्त्यर्थमतैमिरिका इव वयं ब्रूमः- न सन्ति सर्वभावाः इति । न चैवं ब्रुवतामस्माकं परहितव्यापारपरायणानामुच्छेददर्शनप्रसङ्गः । यथोक्तं सूत्रे-

यो हि भगवन् पूर्वं रागद्वेषमोहभावाभ्युपगमं कृत्वा पश्चान्न सन्ति रागद्वेषमोहभावा इति ब्रवीति, स भगवन् वै नास्तिको भवति । इति विस्तरः ॥

यस्तु परतन्त्रचित्तचैत्तवस्तुमात्रमभ्युपेत्य तस्य परिकल्पितस्वभावाभावादस्तित्वदर्शनं परिहरति, संक्लेशव्यवदाननिबन्धनस्य च परतन्त्रवस्तुमात्रसद्भावान्नास्तित्वदर्शनं परिहरति, तस्य परिकल्पितस्याविद्यमानत्वात् परतन्त्रस्य च विद्यमानत्वाद् अस्तित्वनास्तित्वदर्शनद्वयस्यापि उपनिपातात् कुतो ऽन्तद्वयपरिहारः? हेतुप्रत्ययजनितस्य च सस्वभावेनायुक्तत्वप्रतिपादनादयुक्तमेवास्य व्याख्यानम् । तदेवं मध्यमकदर्शने एव अस्तित्वनास्तित्वद्वयदर्शनस्याप्रसङ्गः, न विज्ञानवादिदर्शनादिष्विति । विज्ञेयम् । अत एवोक्तमार्यरत्नावल्याम्-

ससांख्यौल्लूक्यनिर्ग्रन्थपुद्गलस्कन्धवादिनम् । पृच्छ लोकं यदि वदत्यस्तिनास्तिव्यतिक्रमम् ॥

धर्मयौतकमित्यस्मादस्तिनास्तिव्यतिक्रमम् । विद्धि गम्भीरमित्युक्त बुद्धानां शासनामृतम् ॥ इति ॥

तथाविधविनेयजनबोधानुरोधात्तु परमार्थदर्शनस्य उपायभूतत्वात् नेयार्थत्वेन भगवता महाकरुणापरतन्त्रतया विज्ञानादिवादो देशितः सांमितीयपुद्गलवादवत्, न नीतार्थः इति विज्ञेयम् । यथोक्तमार्यसमाधिराजभट्टारके-

नीतार्थसूत्रान्तविशेष जानति यथोपदिष्टा सुगतेन शून्यता । यस्मिन् पुनः पुद्गल सत्त्व पूरुषो नेयार्थतो जानति सर्वधर्मान् ॥

एतच्च आर्याक्षयमतिनिर्देशादिषु विस्तरेण बोद्धव्यमिति । भावाभावदर्शनद्वयप्रसङ्गो यावत् तावत्संसार इत्यवेत्य मुमुक्षुभिरेतद्दर्शनद्वयनिरासेन सद्भिर्मध्यमा प्रतिपद् भावनीया यथावदिति । एतच्चोक्तं भगवता-

भाव अभाव विभावयि ज्ञानं सर्वि अचिन्तिय सर्वि अभूतं । ये पुन चित्तवशानुग बालाः ते दुखिता भवकोटिशतेषु ॥

भावानभावानिति यः प्रजानती स सर्वभावेषु न जातु सज्जते । यः सर्वभावेषु न जातु सज्जते स आनिमित्तं स्पृशते समाधिम् ॥ इति ।

तथा-

स्मराम्यहं पूर्वमतीत अध्वनि अचिन्तिये कल्पि नराणमुत्तमः । उत्पन्नु लोकार्थकरो महर्षी नामेन सो ऽभावसमुद्गतो ऽभूत् ॥

स जातमात्रो गगने स्थिहित्वा सर्वाण धर्माणभाव देशयि । तदानुरूपं कृत नामधेयं शब्देन सर्वं त्रिसहस्र विज्ञयी ॥

देवापि सर्वे प्रमुमोचु शब्दं अभावनामेति जिनो भविष्यति । यो जातमात्रः पद सप्त प्रक्रमन् अभाव धर्माण समं प्रकाशयी ॥

बुद्धो यदा भेष्यति धर्मराजः सर्वाण धर्माण प्रकाशको मुनिः । तृणगुल्मवृक्षौषधिशैलपर्वते अभाव धर्माण रवो भविष्यति ॥

यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भावः । तावन्ति खो तस्य तथागतस्य रवु निश्चरी लोकविनायकस्य ॥ इति ।

भवतीति भावः सत्ता । न विद्यते सत्ता स्वभावः सर्वभावानामित्यभावाः सर्वधर्माः, शून्याः सर्वधर्मा निःस्वभावयोगेनेति प्रज्ञापारमितापाठात् भावस्वभावस्यानुपपत्तेः ।

अभाव धर्माण रवो भविष्यति

इत्यादिना सूत्रार्थो ऽवगन्तव्यः ॥

यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भावः । इत्यादि ।

भूत्वा अभावप्रतिषेधविवक्षितत्वाद् भावाभावार्थ एव स्वभावाभावार्थः ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ स्वभावपरीक्षा नाम पञ्चदशमं प्रकरणम् ॥

16 बन्धमोक्षपरीक्षा षोडशमं प्रकरणम् ।

अत्राह- विद्यत एव भावानां स्वभावः, संसारसद्भावात् । इह संसरणं संसृतिः गतेर्गत्यन्तरगमनं संसार इत्युच्यते । यदि भावानां स्वभावो न स्यात्, कस्य गतेर्गत्यन्तरगमनं संसारः स्यात्? न हि अविद्यमानानां वन्ध्यासूनुसंस्काराणां संसरणं दृष्टम् । तस्मात् संसारसद्भावात् विद्यत एव भावानां स्वभाव इति । उच्यते । स्याद्भावानां स्वभावः, यदि संसार एव भवेत् । न त्वस्ति । इह यदि संसारः स्यात्, स नियतं संस्काराणां वा भवेत् सत्त्वस्य वा? किं चातः? उभयथा च दोष इत्याह-

संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते । संसरन्ति च नानित्याः सत्त्वे ऽप्येष समः क्रमः ॥ 1 ॥

तत्र यदि संस्काराः संसरन्तीति परिकल्प्यते, किं ते नित्याः संसरन्ति उत अनित्याः? तत्र न नित्याः संसरन्ति निष्क्रियत्वात्, अनित्यानां च घटादीनां सक्रियत्वोपलम्भात् । अथ अनित्याः, ये हि अक्रियाः, ते उत्पादसमनन्तरमेव विनष्टाः । ये च विनष्टाः, कुतस्तेषामविद्यमानत्वाद्वन्ध्यासूनुसंस्काराणामिव क्वचिद् गमनम्? इत्येवमनित्यानामपि नास्ति संसारः ॥

अथापि स्यात्- अनित्या एव सन्तो हेतुफलसंबन्धपरंपरया अविच्छिन्नक्रमाः संतानेन च प्रवर्तमानाः संस्काराः संसरन्तीति । एतदपि नोपपद्यते । कुतः? यत् तावदुत्पद्यते कार्यम्, तस्य संसारो नास्ति, कुतश्चिदनागमनात् क्वचिच्चागमनात् । यच्च कारणं नष्टम्, तस्यापि संसारो नास्ति, कुतश्चिदनागमनात् क्वचिच्चागमनात् । संस्कारमात्रव्यतिरेकेण अतीतानागतयोरसिद्धत्वात्, नष्टाजातत्वेन अविद्यमानत्वात् ॥

उत्तरस्मिन् क्षणे उत्पन्ने पूर्वः संसरतीति चेत्, यदि पूर्वोत्तरयोः क्षणयोरेकत्वं स्यात्, स्यादेतदेवम् । न तु एकत्वमस्ति कार्यकारणभावात्, चक्षूरूपचक्षुर्विज्ञानानां नास्ति च । किं च एकत्वे सति पूर्वोत्तरक्षणवाच्यतैव न स्यात् । न हि एको देवदत्तः एकदा पूर्वश्चोत्तरश्चेति व्यपदिश्यते । एवमिहापि एकत्वात् पूर्वोत्तरक्षणव्यपदेश एव न स्यात् । अपि च पूर्वक्षणो नष्ट इति न स्यादुत्तरक्षणवदव्यतिरिक्तत्वात् । उत्तरक्षण उत्पन्न इति न स्यात्, पूर्वक्षणवदव्यतिरिक्तत्वात् । अथ अन्यत्वे सति संसरणं स्यात्, एवं सति अर्हतामपि संसरणं स्यात् । अन्यस्य पृथग्जनस्य संसारोत्पत्तिसद्भावात् । निर्वृतश्च प्रदीपः प्रदीपान्तरे ज्वलतीति स्यात् । किं चान्यत् । नष्टाद्वा पूर्वक्षणादुत्तरस्य क्षणस्योदयः स्यादनष्टान्नश्यमानाद्वा? तत्र यदि नष्टादिष्यते, वह्निदग्धादपि बीजादङ्कुरोदयः स्यात्, ततश्च निर्हेतुकः स्यात् । अथ अनष्टात्, एवमपि अविकृते ऽपि बीजे ऽङ्कुरोदयः स्यात्, कार्यकारणयोश्च यौगपद्यं स्यात्, निर्हेतुकश्चोत्पादः स्यात् । नश्यमानादिति चेत् । नष्टानष्टव्यतिरेकेण नश्यमानाभावात्, नष्टानष्टयोश्च (pp_124) विहितदोषत्वान्नश्यमानादपि नास्त्युत्पत्तिरिति, कुतः कार्यकारणव्यवस्था पूर्वोत्तरक्षणव्यवस्था वा भविष्यति? यदा च पूर्वोत्तरक्षणव्यवस्था कार्यकारणव्यवस्था च नास्ति, तदा संतानो ऽपि नास्ति, तदभावान्नास्ति भवतां संसार इति अनित्यानामपि संस्काराणां नास्ति संसार इति ॥

अत्रैके वर्णयन्ति- सत्यं संस्कारा न संसरन्ति उत्पत्तिविधुरत्वात्, किं तर्हि सत्त्वः संसरतीति । उच्यते । सत्त्वे ऽप्येष समः क्रमः । सत्त्वः संसरतीत्युच्यमाने किमसौ नित्यः संसरति, उत अनित्यः, इति विचार्यमाणे य एव संस्काराणां संसरणानुपपत्तिक्रमः, स समत्वात्सत्त्वे ऽपि समो निपतति । तस्मात्सत्त्वो ऽपि न संसरति ॥ 1 ॥

अत्राह- नैव हि सत्त्वसंस्काराणां संसारानुपपत्तिक्रमः समो भवितुमर्हति, यस्मादिह संस्काराणां नित्यानित्यभूतानां संसरणं नास्तीत्युक्तम् । न चैवमात्मा नित्यानित्यभूतः । तस्य हि स्कन्धेभ्यस्तत्त्वान्यत्वावक्तव्यतावत् नित्यत्वेनानित्यत्वेनाप्यवक्तव्यता व्यवस्थाप्यते । तस्मादात्मैव संसरतीति न चोक्तदोषप्रसङ्ग इति । उच्यते-

पुद्गलः संसरति चेत्स्कन्धायतनधातुषु । पञ्चधा मृग्यमाणो ऽसौ नास्ति कः संसरिष्यति ॥ 2 ॥

यदि पुद्गलो नाम कश्चित् स्यात्, स संसरेत् । न त्वस्ति । यस्मात् स्कन्धायतनधातुषु पञ्चधा मृग्यमाणो नास्ति । कथं कृत्वा?

इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् । नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः ॥

अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः ॥

इत्येवं स्कन्धायतनधातुस्वभाव आत्मा न भवति । नापि तेभ्यो व्यतिरिक्तः । न स्कन्धायतनधातुमान् । न स्कन्धायतनधातुष्वात्मा । नात्मनि स्कन्धायतनधातवः । इत्येवं पञ्चधा मृग्यमाण आत्मा न संभवति पूर्वोदितेन न्यायेन । यश्चेदानीं स्कन्धायतनधातुष्वेवं विचार्यमाणः पञ्चधा न संभवति, स कथमविद्यमानः सन् संसरिष्यतीति? एवमात्मनो ऽपि नास्ति संसारः, वन्ध्यासुतस्येव अविद्यमानत्वात् ॥ 2 ॥

अपि च । अयमात्मा-

उपादानादुपादानं संसरन् विभवो भवेत् । विभवश्चानुपादानः कः स किं संसरिष्यति ॥ 3 ॥

भवतु काममात्मनः संसारः, यदि अनुपादानस्य सतो ऽस्य संसारो युक्तः स्यात् । कथं पुनरस्य अनुपादानता प्रसज्यत इति प्रतिपादयन्नाह-

उपादानादुपादानं संसरन् विभवो भवेत् इति ।

इह हि मनुष्योपादानाद्देवोपादानं गच्छन् परित्यज्य वा मनुष्योपादानं देवोपादानं गच्छेदपरित्यज्य वा? यदि तावत्परित्यज्य गच्छतीत्युच्यते, तदा पूर्वोपादानस्य परित्यागादुत्तरस्य चानुपादानात्तदन्तराले विभवः स्यात् । विगतो भवो विभवः । भवः पञ्चोपादानस्कन्धाः, तद्रहितः स्यात् । यश्च विभवो ऽनुपादानः, स स्कन्धरहितत्वात् प्रज्ञप्त्युपादानकारणरहितत्वान्निर्हेतुकः स्यात् । यश्च अनुपादानो निरञ्जनो ऽव्यक्तो निर्हेतुकः, कः सः? न कश्चित् सः । नास्त्येव स इत्यर्थः । तस्मिंश्चासति तदभावादेव उपादानमपि निरुपादातृकं नास्तीति किं संसरिष्यति? नास्त्येव तत्, यत्संसरिष्यतीत्यर्थः । अथवा, किमित्येतत् संसरणक्रियाविशेषणम् । ततश्च अविद्यमानत्वात् नैव संसरणक्रियां करिष्यति । एवं तावत्पूर्वोपादानपरित्यागेन संसरणमयुक्तम् । अथ अपरित्यागेन, तथापि नोपपद्यते । किं कारणम्? पूर्वस्यापरित्यागादुत्तरस्य च ग्रहणाद् यस्मादेकस्यात्मनो द्वयात्मकता स्यात् । न चैतदिष्यत इति । तस्मादपरित्यागेनापि संसरणं नास्ति ॥

अथ पूर्वोत्तरयोर्भवयोर्मध्ये आन्तराभविकस्कन्धसंभवात्, तैश्च सोपादानत्वात् सोपादानं संसरतो ऽपि न विभवताप्रसङ्ग इति । तदपि न युक्तम्, पूर्वभवपरित्यागापरित्यागाभ्यामान्तरामविकस्कन्धसंसारे ऽपि तुल्यप्रसङ्गत्वात् ॥

युगपत्त्यागोपादानाददोष इति चेत्, उच्यते । किमेकदेशेन पूर्वोपादानं त्यजते एकदेशेनान्तराभवोपादानं संचरति, अथ सर्वात्मना? तत्र यदि अवयवेनेति परिकल्प्यते, तदा द्वयात्मकताप्रसङ्गादित्युक्तदोषः । अथ सर्वात्मना, एवमपि स एव विभवताप्रसङ्ग आपद्यते । एतावांस्तु विशेषः यदन्तराभवसंचारे ऽतिसामीप्यात् सूक्ष्मं कालमनुपादानः स्यात् । न च सर्वात्मना एकस्य पदार्थस्य अभिन्नपदार्थस्य विषये युगपत् त्यागोपादाने दृष्टे । न हि एकस्य देवदत्तस्य सर्वात्मना गृहाद्गृहं संचरतः एकदा त्यागोपादानक्रिये द्वे संभवतः । अथ एकेन पादेन एकस्य परित्यागादपरस्य चोपादानाद् युगपत्त्यागोपादाने परिकल्प्येते, ननु एवं सति पादद्वयवद् द्वयात्मकता आत्मनः स्यात् । अंशेन पूर्वत्रावस्थानादंशेन चोत्तरत्रावस्थानादनेकावयवता प्रसज्येत । तस्माद् यौगपद्येनापि त्यागोपादाने न संभवतः इत्यपरिहार एवायम् । तस्मादन्तराभवोपादाने ऽपि स एव दोषप्रसङ्ग इति सर्वथा आत्मनो ऽपि नास्ति संसारः ॥ यदा च संस्काराणामात्मनश्च संसारो नास्ति, तदा नास्त्येव संसार इति स्थितम् ॥ 3 ॥ अत्राह- विद्यत एव संसारः, प्रतिद्वन्द्विसद्भावात् । इह यो नास्ति, न तस्य प्रतिद्वन्द्वी विद्यते, तद्यथा वन्ध्यासूनोरिति । अस्ति च संसारस्य प्रतिद्वन्द्वि निर्वाणम् । तस्मादस्ति संसार इति । उच्यते । स्यात्संसारः, यदि तत्प्रतिद्वन्द्वि निर्वाणं स्यात् । न त्वस्तीत्याह-

संस्काराणां न निर्वाणं कथंचिदुपपद्यते । सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते ॥ 4 ॥

यदि निर्वाणं नाम किंचित् स्यात्, तत् परिकल्प्यमानं संस्काराणां नित्यानां वा परिकल्प्येत अनित्यानां वा? तत्र नित्यानामविकारिणां किं निर्वाणं कुर्यात्? अनित्यानामपि असंविद्यमानानां किं निर्वाणं कुर्यादिति सर्वं पूर्वेण तुल्यम् । न कथंचिदिति न केनापि प्रकारेणेत्यर्थः ॥

अथ सत्त्वस्य निर्वाणं परिकल्प्यते, तदपि नित्यस्य वा अनित्यस्य वा पूर्ववन्नोपपद्यते ॥

अथ नित्यानित्यत्वेनावाच्यस्य परिकल्प्यते, नन्वेवं सति निर्वाणे ऽप्यात्मास्तीत्यभ्युपेत भवति संसार इव । अपि च । सोपादानस्यैवात्मनः अवाच्यता युज्यते । न च निर्वाणे उपादानमस्तीति कुतो ऽस्य अवाच्यता? भवतु वा तत्त्वान्यत्वावाच्यता आत्मनः, अपि तु किमसौ निर्वाणे ऽस्ति उत नास्ति? यदि अस्ति, तदा मोक्षे ऽपि तस्य सद्भावान्नित्यता स्यात् । अथ नास्ति, तदा अनित्य आत्मा स्यात् । ततश्च तत्त्वान्यत्वावाच्यतावन्नित्यानित्यत्वेनापि आत्मनः अवक्तव्यतेति न स्यात् । अथ निर्वाणे ऽपि आत्मनः अस्तित्वनास्तित्वेनावाच्यतैव इष्यते, एवमपि किमसौ विज्ञेयः, अथ न? यदि विज्ञेयः, न तर्हि निरुपादानो ऽसावात्मा निर्वाणे विज्ञेयत्वात् संसार इव । अथ न विज्ञायते, तत्रासौ अविज्ञेयस्वरूपत्वात् खपुष्पवन्नास्त्येवेति कुतो ऽस्य अवाच्यता? तदेवं निर्वाणमपि नास्ति । तदभावान्नास्ति संसार इति । अत एवोक्तं भगवत्यामष्टसाहस्रिकायाम्-

निर्वाणमप्यायुष्मन् सुभूते मायोपमं स्वप्नोपमम् । बुद्धधर्मा आयुष्मन् सुभूते मायोपमाः स्वप्नोपमा इत्यादि । सचेत कुलपुत्र निर्वाणादप्यधिकतरो ऽन्यो धर्मो ऽभविष्यत्, तमप्यहं मायोपमं स्वप्नोपममिति वदामि ॥

तथा आर्यसमाधिराजभट्टारके-

परमार्थसत्य सुपिनेन समं निर्वाणं स्वप्नसमोतरती । मन एवमोतरति येन विदु मनसंवरः कथितु श्रेष्ठु अयम् ॥

तथा-

निरोधसत्यं सुपिनं यथैव स्वप्नस्वभावामथ निर्वृतिं च । येनेह वाचोत्तरि बोधिसत्त्वो अयं खु सो वुच्चति वाचसंवरः ॥

अत्राह- यद्यपि त्वया संसारनिर्वाणे प्रतिषिद्धे, तथापि बन्धमोक्षौ विद्येते । न चाविद्यमानस्य भावस्वभावस्य बन्धमोक्षौ संभवतः । तस्माद् बन्धमोक्षसद्भावाद् विद्यत एव भावानां स्वभाव इति । उच्यते । स्याद्भावानां स्वभावः, यदि बन्धमोक्षावेव स्याताम् । न तु स्तः इत्याह-

न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः । संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते ॥ 5 ॥

इह य इमे रागादयः क्लेशाः बद्धानामस्वतन्त्रीकरणे बन्धनमिति व्यपदिश्यते, यैश्च बद्धाः पृथग्जनाः त्रैधातुकं नातिक्रमन्तीति व्यवस्थाप्यते, तदेतद्रागादिकं बन्धनत्वेन परिकल्प्यमानमुदयव्ययधर्मिणां तावत् क्षणिकानां संस्काराणामुत्पादानन्तरध्वंसिनां नष्टानामसत्त्वान्न संभवति । रागादिबन्धनविच्छेदलक्षणो ऽपि मोक्षः अनित्यानां संस्काराणामविद्यमानत्वान्नैव संभवति । पूर्ववत् पूर्वोक्तविधिनेत्यर्थः । यथा च पूर्वोक्तविधिना संस्काराणां बन्धमोक्षौ न संभवतः, एवं पूर्ववदेव सत्त्वो ऽपि न बध्यते नापि मुच्यते, इत्येवं बन्धमोक्षावपि न स्तः ॥ 5 ॥

अत्राह- यद्यपि संस्काराणां सत्त्वस्य वा बन्धो नास्ति, तथापि रागादिकमुपादानाख्यं बन्धनभूतमस्ति, तत्सद्भावाद्बन्धो ऽपि भविष्यतीति । उच्यते । स्यादुपादानम्, बन्धनं यदि कंचित्पदार्थं बध्नीयात्, न तु बध्नाति । यथा च न बध्नाति, तथा प्रतिपादयन्नाह-

बन्धनं चेदुपादानं सोपादानो न बध्यते । बध्यते नानुपादानः किमवस्थो ऽथ बध्यते ॥ 6 ॥

तत्र विद्यमानोपादानः सोपादानः, स तावद्भावो न बध्यते । यो हि सोपादानः, स बद्ध एव । तस्य पुनरपि बन्धनयोगः किं कुर्यात्? यश्चापि अनुपादानः बन्धनरहितः, असावपि बन्धनरहितत्वात् तथागतवन्न बध्यते । अनुपादानः बन्धनरहितः बध्यत इति परस्परविरुद्धत्वाच्चायुक्तमेतत् । यश्चैवं निरूप्यमाणः सोपादानो निरुपादानो वा न बध्यते, स इदानीं किमवस्थो बध्यताम्? नास्त्येवासौ काचिदपरा अस्यावस्था, यस्यां बध्येतेत्यभिप्रायः । यदा चैवं निरूप्यमाणं बन्धनं न कंचिदपि बध्नाति, तदा कंचिदप्यबध्नत उपादानस्य रागादेः कुतो बन्धनत्वमिति । तस्माद् बन्धनमपि नास्ति ॥ 6 ॥

अपि च ।

बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि । न चास्ति तत्

इह बन्ध्यव्यतिरेकेण बन्धनं निगडादिकं पूर्वसिद्धं सत् बन्ध्यं देवदत्तं बध्नातीति दृष्टम् । एवं यदि बन्ध्येभ्यः संस्कारेभ्यः पुद्गलाद्वा बन्ध्यात्पूर्वं रागादिकं बन्धनं सिद्धं स्यात्, तेन पूर्वसिद्धेन बन्धनं स्यात् संस्काराणां पुद्गलस्य वा । तच्चैतन्न संभवति निराश्रयस्य रागादिकस्य असिद्धत्वात् । पूर्वसिद्धस्य च बन्धनस्य पश्चाद् बन्ध्येन सह संबन्धस्य निष्प्रयोजनत्वात् । (pp_128) बन्ध्यस्य च बन्धनात्पृथक्सिद्धस्य पूवबन्धनापेक्षानिष्प्रयोजनत्वाच्च नास्ति बन्ध्याद्बन्धनस्य पूर्वसिद्धिः । तस्मान्नैव बन्धनं कंचिदपि बध्नाति । न च कंचिदप्यबध्नतो बन्धनत्वं युक्तमिति नास्ति बन्धनम्। बन्धनाभावाच्च बन्ध्यो ऽपि नास्तीति सिद्धम् । यत्पुनरत्र शेषं दूषणं तत्- शेषमुक्तं गम्यमानगतागतैः ॥ 7 ॥ इति वेदितव्यम् । श्लोकपाठपरिवर्तनेन-

बद्धो न बध्यते तावदबद्धो नैव बध्यते । बद्धाबद्धविनिर्मुक्तो बध्यमानो न बध्यते ॥ इत्यादिना योज्यम् ॥ 7 ॥ अत्राह- यद्यपि भवता बन्धनं प्रतिषिद्धम्, तथापि संसारचारकागारावबद्धानामत्राणानां सत्त्वानां महाकारुणिकैस्तथागतैः शीलसमाधिप्रज्ञात्मकरकन्धत्रयोपदेशो यदर्थमुक्तः, स तावन्मोक्षो ऽस्ति । न च अबद्धस्य पुंसो मोक्षः । तस्माद् बन्धो ऽप्यस्तीति । उच्यते । स्याद्बन्धयदि मोक्ष एव स्यात् । इहायं मोक्षः परिकल्प्यमानः बद्धस्य वा परिकल्प्येत अबद्धस्य वा? किचातः? उभयथा च न युज्यत इत्याह-

बद्धो न मुच्यते तावदबद्धो नैव मुच्यते । स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे ॥ 8 ॥

तत्र बद्धस्य मोक्षो न संभवति बद्धत्वात् । अथ बद्धस्य पश्चादुपायेन मोक्ष इति कृत्वा बद्ध एव मुच्यते इति स्यात्, न तर्हि बद्धो मुच्यत इति वक्तव्यम्, किं तर्हि मोक्ष्यत इति । वर्तमानसामीप्यादेव मुच्यत इति चेत्, यदि कदाचिदपि मोक्षः संभवेत्, तदा समीपे स्यात् यदा तु कस्यांचिदप्यवस्थायां मोक्षे इष्यमाणे बद्धस्य मोक्षासंभवेन मोक्षाभावः प्रतिपिपादयिषित तदा कुतो वर्तमानसमीपता? एवं तावद् बद्धो न मुच्यते इति स्थितम् ॥

इदानीमबद्धो ऽपि न मुच्यते । स हि मुक्त एव । तस्य पुनरपि मोक्षः किं कुर्यात् । मुक्तानां चार्हतां पुनरपि मोक्षापेक्षत्वाद् बद्धतैव स्यात्, ततश्चार्हतो ऽपि बन्धः स्यात् ॥

अथ स्यात्- अबद्धस्य मोक्षासंभवाद् बद्ध एव मुच्यते इति, एवं सति बद्धे मुच्यमाने परिकल्प्यमाने बद्धत्वान्मुच्यमानत्वाच्च यौगपद्येन बन्धमोक्षणे स्याताम् । न च परस्परविरुद्धत्वादालोकान्धकारवदेकस्मिन् काले बन्धमोक्षणे उपपद्येते । यतश्चैवं बद्धाबद्धयोर्मोक्षासंभव, तस्मान्मोक्षो ऽपि नास्ति, तदभावाच्च बन्धनमपि नास्तीति सिद्धम् ॥

अत्राह- यदि भवतैव संसारनिर्वाणे निषिद्धे, बन्धमोक्षौ च प्रतिषिद्धौ, य एष संसारविनिर्मुमुक्षूणामविद्यासान्द्रान्धकारविविधकुदर्शनकठिनातिदीर्घलतासंछादितसत्पथं जात्यादिविविधा पर्यन्तव्यसनानिष्टतरविपुलविपाकफलदानुशयविषवृक्षसंकुलं विंशतिशिखरसमुन्नततरातिपृथुसत्कायदृष्टिमहाशैलपरिवेष्टितसर्वदिङ्मुखं (pp_129) विषयसुखाशातिपिच्छिलविपुलमहातटविवरवाहितृष्णानदीमहापरिखं संसारमहाटवीकान्तारं निस्तितीर्षूणां परमाश्वासकरः कुशलो महाधर्मच्छन्दः, कदा नु खल्वहमनुपादानो निर्वास्यामि, कदा नु मे निर्वाणं भविष्यतीति, ननु स व्यर्थक एव संजायते, यश्चाप्येवमुत्पादितकुशलामलविपुलधर्मच्छन्दानां कल्याणमित्रसंसेवादानशीलश्रुतचिन्ताभावनादिक्रमो निर्वाणप्राप्तये, ननु तम्यापि वैयर्थ्यं स्यादिति उच्यते । यो ह्येवं निःस्वभावेषु सर्वभावेषु प्रतिबिम्बमरीचिकाजलालातचक्रस्वप्नमायेन्द्रजालसदृशेषु आत्मात्मीयस्वभावरहितेषु विपर्यासमात्रानुगमात् तामेव सत्कायदृष्टिम् अहं ममेत्यहंकारममकारसमुदाचारपरिग्रहेणोत्पाद्य मन्यते-

निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति । इति येषां ग्रहस्तेषामुपादानमहाग्रहः ॥ 9 ॥

अहमनुपादानः सर्वोपादानरहितो निर्वास्यामि, मम चैवं प्रतिपन्नस्य निर्वाणं भविष्यतीति, एवं येषां मुमुक्षूणां ग्राहो भवति, ननु तदेव अहंकारममकाराख्यं सत्कायदृष्टयुपादानमेषां महाग्रहो भवति, न चैवंविधमहाग्रहाभिनिविष्टानां शान्तिः संभाव्यते । निरवशेषग्रहप्रहाणेनैव मोक्षावाप्तये यावदहंममेति ग्राहाभिनिवेशः, यावच्च निर्वाणं नाम अस्तीति ग्राहाभिनिवेशः, यावच्च उपादानत्यागाभिनिवेशः, तावन्नियतमेव अनुपायेन निर्वाणं प्रार्थयतां सर्व एवारम्भा व्यर्था भवन्ति । तस्मान्मुमुक्षुणा सर्वमेतत् परित्याज्यम् । यथोक्तं भगवता आर्यध्यायितमुष्टिसूत्रे-

अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्- चतुर्णामार्यसत्यानां यथाभूतार्थादर्शनाच्चतुर्भिर्विपर्यासैर्विपर्यस्तचित्ताः सत्वाः एवमिममभूतं संसारं नातिक्रामन्ति । एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्- देशयतु भगवान् कस्योपलम्भतः सत्त्वाः संसारं नातिक्रामन्ति । भगवानाह- आत्मात्मीयोपलम्भान्मञ्जुश्रीः सत्त्वाः संसारं नातिक्रामन्ति । तत् कस्य हेतोः? यो हि मञ्जुश्रीरात्मानं परं च समनुपश्यति, तस्य कर्माभिसंस्कारा भवन्ति । बालो मञ्जुश्रीरश्रुतवान् पृथग्जनः अत्यन्तापरिनिर्वृतान् सर्वधर्मानप्रजानानः आत्मानं परं च उपलभते । उपलभ्य अभिनिविशते । अभिनिविष्टः सन् रज्यते दुष्यते मुह्यते । स रक्तो दुष्टो मूढः सन् त्रिविधं कर्म अभिसंस्करोति कायेन वाचा मनसा । सः असत्समारोपेण विकल्पयति- अहं रक्तः, अहं द्विष्टः, अहं मूढः इति । तस्य तथागतशासने प्रव्रजितस्य एवं भवति- अहं शीलवान्, अहं ब्रह्मचारीति । अहं संसारं समतिक्रमिष्यामि । अहं निर्वाणमनुप्राप्स्यामि । अहं दुःखेभ्यो मोक्ष्यामि । स विकल्पयति- इमे कुशला धर्माः, इमे ऽकुशला धर्माः, इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः, दुःखं परिज्ञातव्यम्, समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यः । स विकल्पयति- अनित्याः सर्वसंस्काराः, आदीप्ताः सर्वसंस्काराः, यन्न्वहं सर्वसंस्कारेभ्यः पलायेयम् । तस्य एवमवेक्षमाणस्य उत्पद्यते निर्वित्सहगतो मनसिकारः अनिमित्तपुरोगतः । तस्यैवं भवति- एषा सा दुःखपरिज्ञा (pp_130) येयमेषां धर्माणां परिज्ञा । तस्यैवं भवति- यन्न्वहं समुदयं प्रजहेयम्

। स एभ्यो धर्मेभ्य आर्तीयते जेह्रीयते वितरति विजुगुप्सते उत्त्रस्यति संत्रस्यति संत्रासमापद्यते । तस्यैवं भवति- इयमेषां धर्माणां साक्षात्क्रिया । इदं समुदयप्रहाणं यदिदमेभ्यो धर्मेभ्यो ऽर्तीयना विजुगुप्सना । तस्यैव भवति- निरोधः साक्षात्कर्तव्यः । समुदयं कल्पयित्वा निरोधे संजानाति । तस्यैवं भवति- एषा सा निरोधसाक्षात्क्रिया । तस्यैवं भवति- यन्नूनमहं मार्गं भावयेयम् । स एको रहोगतः तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते । तस्य तेन निर्वित्सहगतेन मनसिकारेण शमथ उत्पद्यते । तस्य सर्वधर्मेषु चित्तं प्रतिलीयते प्रतिवहति प्रत्युदावर्तते, तेभ्यश्चार्तीयते जेह्रीयते, अनभिनन्दनाचित्तमुत्पद्यते । तस्यैवं भवति- मुक्तो ऽस्मि सर्वदुःखेभ्यः । न मम भूय उत्तरिं किंचित्करणीयम् । अर्हन्नस्मि । इत्यात्मानं संजानाति । समरणकालसमये उत्पत्तिमात्मनः समनुपश्यति । तस्य काङ्क्षा च विचिकित्सा च भवति बुद्धबोधौ । स विचिकित्सापतितः कालगतो महानिरयेषु प्रपतति । तत्कस्य हेतोः? यथापीदमनुत्पन्नान् सर्वधर्मान् विकल्पयित्वा तथागते विचिकित्सां विमतिं चोत्पादयति ॥

अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्- कथं पुनर्भगवंश्चत्वारि आर्यसत्यानि द्रष्टव्यानि? भगवानाह- येन मञ्जुश्रीरनुत्पन्नाः सर्वसंस्कारा दृष्टाः, तेन दुःखं परिज्ञातम् । येन असमुत्थिताः सर्वधर्मा दृष्टाः, तस्य समुदयः प्रहीणः । येन अत्यन्तपरिनिर्वृताः सर्वधर्मा दृष्टाः, तेन निरोधः साक्षात्कृतः । येन अत्यन्तशून्याः सर्वधर्मा दृष्टाः, तेन मार्गो भावितः । येन मञ्जुश्रीरेवं चत्वारि आर्यसत्यानि दृष्टानि, स न कल्पयति न विकल्पयति- इमे कुशला धर्माः, इमे ऽकुशला धर्माः । इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः । दुःखं परिज्ञातव्यम् । समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्य इति । तत्कस्य हेतो? तथाहि स तं धर्मं न समनुपश्यति यं परिकल्पयेत् । बालपृथग्जनास्तु एतान् धर्मान् कल्पयन्तो रज्यन्ति च द्विषन्ति च मुह्यन्ति च । स न कंचिद्धर्ममाव्यूहति निर्व्यूहति । तस्य एवमनाव्यूहतो ऽनिर्व्यूहतः त्रैधातुके चित्त न सज्जति, अजात सर्वत्रैधातुकं समनुपश्यति ॥ इति विस्तरः ॥ 9 ॥

अत एव अस्मादागमात् परमार्थसत्य उच्यते-

न निर्वाणसमारोपो न संसारापकर्षणम् । यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते ॥ 10 ॥

यत्र हि नाम परमार्थसत्ये नैवं न निर्वाणसमारोपः न निर्वाणाध्यारोपः संभवति, अनुपलभ्यमानत्वात्, नापि संसारापकर्षणं संसारपरिक्षयो न संभवति, कस्तत्र संसारः यो विकल्प्यते क्षयार्थम्, किं वा तत्र निर्वाणं यत्प्राप्यर्थं विकल्प्यते? अथवा । यत्र निर्वाणे कस्यचित् सत्त्वस्य संसारादपकर्षणमपनयनं निर्वाणे च समारोपणं प्रयत्नवतापि न शक्यते कर्तुं संसारनिर्वाणयोरप्यनुपलभ्यमानत्वात्, तत्र किं निर्वाणं विकल्प्यते? नैव हि किंचिद्विकल्पयितुं (pp_131) युक्तम् । अविकल्पयतश्च नियतं यथोदितसंसाराटवीकान्तारातिक्रमो निर्वाणपुरप्राप्तिश्च भविष्यतीति । अत एवोक्तमार्यमारदमनसूत्रे-

अथ मञ्जुश्रीः कुमारभूतः तस्यां वेलायां तथारूपं समन्वाहारं समन्वाहरति स्म, यन्मारः पापीयानिन्द्रकीलबन्धनबद्धो धरणीतलप्रपतितः उत्क्रोशति स्म- गाढबन्धनबद्धो ऽस्मि । मञ्जुश्रीराह- अस्ति पापीयन्नेतस्माद्बन्धनाद्गाढतरं बन्धनं येन त्वं नित्यबद्धो न पुनर्बध्यसे? तत्पुनः कतमत्? यदिदमस्मिमानविपर्यासबन्धनं तृष्णादृष्टिबन्धनम्, इदं पापीयन् बन्धनम् । अतो बन्धनाद् गाढतरं बन्धनं न संविद्यते । तेन त्वं नित्यबद्धो न पुनर्बध्यसे । पेयालम् । आह- किं त्वं पापीयन्नात्तमना भूयाः यदि मुच्येथाः । आह- आत्तमना भवेयम्, परमात्तमना भवेयम् ॥

अथ खलु सुयामो देवपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत्- उत्सृज मञ्जुश्रीर्मारं पापीयांसम् । गच्छतु स्वभवनम् । अथ खलु मञ्जुश्रीः कुमारभूतो मारं पापीयांसमेतदवोचत्- केनासि पापीयन् बद्धो यदात्मानमुत्सृजसि? आह- न जाने मञ्जुश्रीः- केनास्मि बद्धः इति । आह- यथा त्वं पापीयन् अबद्धो बद्धसंज्ञी, एवमेव सर्वबालपृथग्जना अनित्ये नित्यसंज्ञिनः, दुःखे ऽदुःख संज्ञिनः, अशुभे शुभसंज्ञिनः, अनात्मनि आत्मसंज्ञिनः, अरूपे रूपसंज्ञिनः, अवेदनायां वेदनासंज्ञिनः, असंज्ञायां संज्ञासंज्ञिनः, असंस्कारे संस्कारसंज्ञिनः, अविज्ञाने विज्ञानसंज्ञिनः । अपि तु खलु पुनः पापीयन्, यस्त्वं मोक्ष्यसे, कुतो मोक्ष्यसे? आह- नाहं जाने कुतश्चिन्मोक्ष्ये । आह- एवमेव पापीयन् ये ऽपि मोक्ष्यन्ते, नते कुतश्चिद्विमोक्ष्यन्ते, अन्यत्र या असौ असद्भूतसंज्ञा । तां परिजानन्ति, तां परिज्ञाय विमुक्ता इत्युच्यन्ते ॥ इति ॥ अत एव आगमाद् असद्विपर्यासकल्पनामात्रलताबन्धनविच्छेदो विमोक्षो निर्वाणमित्युच्यते स्वप्नोपलब्धदहनज्वालानिर्वापणवत् तदनिलसलिलैरिति ॥ 10 ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ बन्धमोक्षपरीक्षा नाम षोडशमं प्रकरणम् ॥

17 कर्मफलपरीक्षा सप्तदशमं प्रकरणम् ।

अत्राह- विद्यत एव संसारः, कर्मफलसंबन्धाश्रयत्वात् । यदि इह संतानाविच्छेदक्रमेण जन्ममरणपरंपरया हेतुफलभावप्रवृत्त्या संस्काराणामात्मनो वा संसरणं स्यात्, स्यात्तदानीं कर्मफलसंबन्धः । यथावर्णिते संसाराभावे तु उत्पत्त्यनन्तरविनाशित्वाच्चित्तस्य कर्माक्षेपकाले च विपाकस्यासद्भावात् कर्मफलसंबन्धाभाव एव स्यात् । संसारसद्भावे तु सति इह कृतस्य कर्मणे जन्मान्तरे ऽपि विपाकफलसंबन्धात् कर्मणां फलसंबन्धो न विरोधितो भवति । तस्माद्विद्यत एव संसारः कर्मफलसंबन्धाश्रयत्वादिति । कानि पुनस्तानि कर्माणि किं वा तत्फलमिति तत्प्रभेद विवक्षयेदमुच्यते-

आत्मसंयमकं चेतः परानुग्राहकं च यत् । मैत्रं स धर्मस्तद्बीजं फलस्य प्रेत्य चेह च ॥ 1 ॥

तत्र आहितः उत्पादितः अहंमानो ऽस्मिन्नित्यात्मा । स्कन्धानुपादाय प्रज्ञप्यमानः पुद्गलआत्मेत्युच्यते । चिनोति उपचिनोति शुभमशुभं कर्म विपाकदानसामर्थ्ये नियमयतीति चेतः । चित्तं मनः विज्ञानमिति तस्यैव पर्यायाः । आत्मानं संयमयति विषयेष्वस्वतन्त्रयति रागादिक्लेशवशेन प्रवृत्तिं निवारयतीत्यात्मसंयमकम् । तदेतदात्मसंयमकं कुशलं चेतः प्राणातिपातादिषु प्रवृत्तिविधारकं दुर्गतिगमनाद्धारयतीति धर्म इत्युच्यते ॥

धर्मशब्दो ऽयं प्रवचने त्रिधा व्यवस्थापितः । स्वलक्षणधारणार्थेन कुगतिगमनविधारणार्थेन पाञ्चगतिकसंसारविधारणार्थेन । तत्र स्वलक्षणधारणार्थेन सर्वे सास्रवा अनास्रवाश्च धर्मा इत्युच्यन्ते । कुगतिगमनविधारणार्थेन दशकुशलादयो धर्मा इत्युच्यन्ते ।

धर्मचारी सुखं शेते अस्मिंल्लोके परत्र च ॥

पाञ्चगतिकसंसारगमनविधारणार्थेन निर्वाणे धर्म इत्युच्यते, धर्मं शरणं गच्छतीत्यत्र। इह तु कुगतिगमनविधारणार्थेनैव धर्मशब्दो ऽभिप्रेतः ॥

किं पुनरात्मसंयमकमेवैकं चेतः धर्म इति? नेत्याह । किं तर्हि परानुग्राहकं च मैत्रं च यच्चेतः, असावपि धर्मः । मैत्रमित्यत्र चशब्दो लुप्तनिर्दिष्टो वेदितव्यः । तत्र परमनुगृह्णातीति परानुग्राहकं चेतः, चतुःसंग्रहवस्तुप्रवृत्तं भयपरित्राणप्रवृत्तं च यच्चेतः, असावपि धर्मः । मित्रे भवमविरुद्धं सत्त्वेषु यच्चेतः, तन्मैत्रं चेतः । मैत्रं यच्चेतः, तन्मैत्रचेतः, मैत्रमेवं वा । यच्चैतत् त्रिविधं चेतो निर्दिष्टम्, स धर्म इत्युच्यते। विपर्ययादधर्मो योज्यः ॥

यच्चैतन्निर्दिष्टप्रभेदं चेतः, तद्बीजं फलस्य । असाधारणं फलाभिनिर्वृत्तौ यत्कारणम्, तदेव बीजमित्युच्यते । तद्यथा शाल्यङ्कुरस्य शालिबीजम् । यत्तु साधारणं क्षित्यादि न तद्बीजं कारणमेतत् । यथैतदेवम्, इहापि इष्टस्य विपाकस्याभिनिर्वृत्तौ त्रिविधं चेतो भवति बीजम् । पुरुषकारादयस्तु कारणमेव ॥

कस्मिन् पुनः काले बीजस्य फलनिष्पत्तिरित्याह- प्रेत्य चेह च । प्रेत्येति अदृष्टे जन्मनि, इहेति दृष्टे जन्मनीत्यर्थः । एतच्च आगमाद्विस्तरेण बोद्धव्यम् ॥ 1 ॥

एवं तावत् चित्तात्मकमेवैकं धर्मं व्यवस्थाप्य पुनरपि द्विविधं भगवता-

चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा ।

परमार्थदर्शनादृषिः । परमश्चासौ ऋषिश्चेति परमर्षिः सर्वाकारतया परमार्थगमनात् श्रावकप्रत्येकबुद्धभ्यो ऽपि उत्कृष्टत्वात् परमर्षिः संबुद्धो भगवान् । तेन परमर्षिणा चेतना कर्म, चेतयित्वा च कर्मेत्युक्तं सूत्रे ॥

यच्चैतद् द्विविधं कर्मोक्तम्- तस्यानेकविधो भेदः कर्मणः परिकीर्तितः ॥ 2 ॥ कथं कृत्वा?

तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम् । चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम् ॥ 3 ॥

मनसि भवं मानसम् । मनोद्वारेणैव निष्ठागमनात् कायवाक्प्रवृत्तिनिरपेक्षत्वाच्च मनोविज्ञानसंप्रयुक्तैव चेतना मानसं कर्मेत्युच्यते । तत्रशब्दो निर्धारणे । यत्तु द्वितीयं चेतयित्वा च कर्मेत्युक्तम्, तत्पुनः कायिकं वाचिकं च वेदितव्यम् । एवं च एवं च कायवाग्भ्यां प्रवर्तिष्ये इत्येवं चेतसा संचिन्त्य यत् क्रियते, तच्चेतयित्वा कर्मेत्युच्यते । तत्पुनर्द्विविधम्, कायिकं वाचिकं च । कायवाचोर्भवत्वात् तद्द्वारेण च निष्ठागमनात् । एवं च त्रिविधम्- कायिकं वाचिकं मानसं च ॥ 3 ॥

एतदपि त्रिविधं कर्म पुनर्भिद्यमानं सप्तविधं संजायते, इत्येवं तस्य कर्मणो भगवता बहुप्रकारो भेदो ऽनुवर्णितः । कथं कृत्वा?

वाग्विष्पन्दो ऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः । अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा ॥ 4 ॥

परिभोगान्वयं पुण्यमपुण्यं च तथाविधम् । चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः ॥ 5 ॥

तत्र व्यक्तवर्णोच्चारणं वाक् । विष्पन्दः शरीरंचेष्टा । तत्र कुशलाकुशला वा वाक् सर्वैव विरत्यविरतिलक्षणा विज्ञप्तिसमुत्थापिका सामान्येन वागिति गृह्यते । एवं कुशलो ऽकुशलो वा विरत्यविरतिलक्षणो विज्ञप्तिसमुत्थापको विष्पन्दः सामान्येन गृह्यते ॥ यथा चैतद्विज्ञप्तेर्द्विधा भेदः, (pp_134) एवमविज्ञप्तेरपि । अविरतिलक्षणा अविज्ञप्तयः विरतिलक्षणाश्चेति कृत्वा । तत्र अविरतिलक्षणा अविज्ञप्तयः तद्यथा अद्यप्रभृति मया प्राणिनं हत्वा चौर्यं कृत्वा जीविका परिकल्पयितव्येति पापकर्माभ्युपगमात्प्रभृति तदकारिणो ऽपि अकुशलकर्माभ्युपगमहेतुकाः सततसमितमविज्ञप्तयः समुपजायन्ते । कैवर्तादीनांच जालादिपरिकर्मकालात्प्रभृति तदकारिणामपि या अविज्ञप्तय उपजायन्ते, ता एता अविरतिलक्षणा अविज्ञप्तय इत्युच्यन्ते । यथा चैतास्तथा अन्याः विरतिलक्षणाः कुशलस्वभावा अविज्ञप्तयः । तद्यथा- अद्यप्रभृति प्राणातिपातादिभ्यः प्रतिविरमामीति कायवाग्विज्ञप्तिपरिसमाप्तिकालक्षणात्प्रभृति तदुत्तरकालं प्रमत्ताद्यवस्थस्यापि याः कुशलोपचयस्वभावा अविज्ञप्तय उपजायन्ते, ता एता विरतिलक्षणा अविज्ञप्तय इत्युच्यन्ते । एता रूपक्रियास्वभावा अपि सत्यो विज्ञप्तिवत् परान्न विज्ञापयन्तीत्यविज्ञप्तयः ॥

तथा परिभोगान्वयं पुण्यम्, कुशलमित्यर्थः । परिभोगेन अन्वयः अस्येति परिभोगान्वयम् । परिभोगः परित्यक्तस्य वस्तुनः संघादिभिरुपभोगः । अन्वयः अनुगमः । दायकसंतानजः कुशलोपचय इत्यर्थः ॥

अपुण्यं च तथाविधम्, परिभोगान्वयमित्यर्थः । तद्यथा देवकुलादिप्रतिष्ठापनम्, यत्र सत्त्वा हन्यन्ते । यथा यथा हि तत्कीर्तौ प्राणिनो हन्यन्ते, तथा तथा तद्देवकुलाद्युपभोगात् तत्कर्तृणां संताने परिभोगान्वयमपुण्यमपि जायते, इत्येवमपुण्यं च तथाविधं भवति ॥

चित्ताभिसंस्कारमनस्कर्मलक्षणा चेतना चेति ॥

संक्षेपेण एतत्सप्तविधं कर्म भवति- कुशलाकुशला वाक्, कुशलाकुशलो विष्पन्दः, कुशलमविज्ञप्तिलक्षणम्, अकुशलमविज्ञप्तिलक्षणम्, परिभोगान्वयं पुण्यम्, परिभोगान्वयमपुण्यम्, चेतना चेति ॥ एते च सप्त धर्माः कर्माञ्जनाः कर्मत्वेनाभिव्यक्ताः कर्मलक्षणाः स्मृताः ॥ 5 ॥ अत्रैके परिचोदयन्ति- यदेतत् कर्म बहुविधमुक्तम्, तत् किमा विपाककालादवतिष्ठते, अथ न तिष्ठति उत्पत्त्यनन्तरविनाशित्वात्? यदि तावत्-

तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात् । निरुद्धं चेन्निरुद्धं सत्किं फलं जनयिष्यति ॥ 6 ॥

यदि उत्पन्नं सत् कर्म आविपाककालं स्वरूपेणावतिष्ठते इति परिकल्प्यते, तद् इयन्तं कालमस्य नित्यता आपद्यते विनाशरहितत्वात् । पश्चाद्विनाशसद्भावान्न नित्यत्वमिति चेत्, नैतदेवम्, पूर्वं विनाशरहितस्य आकाशादिवत् पश्चादपि विनाशेन संबन्धाभावात् । विनाशरहितस्य च असंस्कृतत्वप्रसङ्गात्, असंस्कृतानां च विपाकादर्शनात्, अविपाकत्वेन सदैवावस्थानात् नित्यताभ्युपगम एव कर्मणामुपपद्यते । इत्येवं तावन्नित्यत्वे दोषः । अथ उत्पादानन्तरविनाशित्वमेव कर्मणामभ्युपेतम्, ननु एवं सति-

निरुद्धं चेन्निरुद्धं सत् किं फलं जनयिष्यति । अभावीभूतं सत् कर्म अविद्यमानस्वभावत्वान्नैव फलं जनयिष्यतीत्यभिप्रायः ॥ 6 ॥ तत्रैके निकायान्तरीयाः परिहारं वर्णयन्ति- उत्पत्त्यनन्तरविनाशित्वात्संस्काराणाम्, अनित्यत्वदोषस्तावदस्माकं नोपपद्यते । यच्चाप्युक्तम्-

निरुद्धं चेन्निरुद्धं सत् किं फलं जनयिष्यति ।

इति, अत्रापि परिहारं ब्रूमः-

यो ऽङ्कुरप्रभृतिर्बीजात्संतानो ऽभिप्रवर्तते । ततः फलमृते बीजात्स च नाभिप्रवर्तते ॥ 7 ॥

इह बीजं क्षणिकमपि सत् स्वजातीयभाविफलविशेषनिष्पत्तिसामर्थ्यविशेषयुक्तस्यैव संतानस्य अङ्कुरकाण्डनालपत्राद्यभिधानस्य हेतुभावमप्युपगम्य निरुध्यते । यश्चायमङ्कुरप्रभृतिर्बीजात्संतानः प्रवर्तते, तस्मात् क्रमेण सहकारिकारणवैकल्ये सति स्वल्पादपि हेतोर्विपुलफलप्रचय उपजायते । ऋते बीजात् विना बीजात् स च अङ्कुरादिसंतानः नाभिप्रवर्तते । तदेवं तद्भावे भावित्वेन तदभावे च अभावित्वेन बीजहेतुकत्वमङ्कुरादिसंतानस्य फलस्योपदर्शितं भवति ॥ 7 ॥

तदेवम्-

बीजाच्च यस्मात्संतानः संतानाच्च फलोद्भवः । बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ 8 ॥

यदि इह बीजमप्रसूय अङ्कुरादिसंतानं ज्वालाङ्गारादिविरोधिप्रत्ययसांनिध्यान्निरुध्येत, तदा तत्र कार्यसंतानप्रवृत्त्यदर्शनात् स्यादुच्छेददर्शनम् । यदि च बीजं न निरुध्येत, अङ्कुरादिसंतानश्च प्रवर्तेत, तदा बीजस्यानिरोधाभ्युपगमाच्छाश्वतदर्शनं स्यात्, न चैतदेवम्, इत्यतो नास्ति बीजस्य शाश्वतोच्छेददर्शनप्रसङ्गः ॥ 8 ॥

यथा च बीजे अयं क्रमो ऽनुवर्णितः, एवम्-

यस्तस्माच्चित्तसंतानश्चेतसो ऽभिप्रवर्तते । ततः फलमृते चित्तात्स च नाभिप्रवर्तते ॥ 9 ॥

तस्मात् कुशलाकुशलचेतनाविशेषसंप्रयुक्ताच्चित्ताद् यः चित्तसंतानस्तद्धेतुकः प्रवर्तते, तस्मात् कुशलाकुशलचेतनापरिभाविताच्चित्तसंतानात् सहकारिकारणसंनिधानावैकल्ये सति इष्टमनिष्टं फलमुपजायते सुगतिदुर्गतिषु । ऋते तु तच्चितात् चित्तमन्तरेण स च नाभिप्रवर्तते ॥ 9 ॥

तदेवम्-

चित्ताच्च यस्मात्संतानः संतानाच्च फलोद्भवः । कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ 10 ॥

यदि अर्हच्चरमचित्तमिव तद्धेतुफलपारंपर्याविच्छिन्नक्रमवर्तिनो भाविनश्चित्तसंतानस्य हेतुभावमनुपगम्य कुशलं चित्तं निरुध्येत, तदा उच्छिन्नं तत्कर्म स्यात् । अथापि अनागतसंतानस्य हेतुभावमुपगम्य स्वरूपादप्रच्युतं स्यात्, स्यात्तदानीं कर्म शाश्वतम् । न चैतदेवमिति । तस्मात् क्षणिककर्माभ्युपगमे ऽपि नास्ति उच्छेदशाश्वतदर्शनद्वयप्रसङ्ग इति ॥ 10 ॥

तदत्र यथोदितकर्मप्रभेदव्याख्याने दश कुशलाः कर्मपथा व्याख्याताः । ते च-

धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश । फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च ॥ 11 ॥

त एते दश कुशलाः कर्मपथा धर्मस्य साधनोपाया निष्पत्तिहेतुभूता इत्यर्थः ॥

कः पुनरसौ कुशलकर्मपथव्यतिरिक्तो धर्मो नाम, यस्यैते साधनोपायत्वेन व्यवस्थाप्यन्ते? उच्यते । चित्तविशेष एव कश्चित् धर्मशब्देनोक्तः ॥

आत्मसंयमकं चेतः परानुग्राहकं च यत् । मैत्रं स धर्मः

इत्यनेन । अथवा । परिनिष्ठितरूपा एते दश कुशलाः कर्मपथा धर्मशब्दवाच्या भवन्ति, क्रियमाणरूपास्तु कुशलकर्मपथवाच्या भवन्ति । तदस्य उक्तलक्षणस्य एते दश कुशलाः कर्मपथा निष्पत्तौ हेतुत्वेन व्यवस्थाप्यन्ते । कथं पुनरत्र प्रक्रान्ते कर्मविभागे दश कुशलाः कर्मपथा इति? उच्यते-

वाग्विष्पन्दो ऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः ।

इत्यादिना कायिकास्रयः कर्मपथाः वाचिकाश्चत्वारो व्याख्याताः। चेतना चेत्यनेन अभिध्याव्यापादसम्यग्दृष्टयाख्यास्रयो मानसा व्याख्याताः । इत्येवं दशापि कुशलाः कर्मपथा अत्र व्याख्याताः । ते च यथोदितस्य धर्मस्य निष्पत्तिहेतवो भवन्ति । अस्य च धर्मस्य रूपशब्दगन्धरसस्प्रष्टव्यलक्षणाः पञ्च कामगुणाः । प्रेत्य च अदृष्टे परलोके इत्यर्थः, इह चेति इहलोके इत्यर्थः, फलमुपभुज्यते इति ॥ 11 ॥

एवं तावदैकनिकायिकैराक्षेपपरिहारे वर्णिते सति, तान् प्रति अपरे दोषमुद्भाव्य अन्याक्षेपपरिहारं वर्णयन्तः आहुः-

बहवश्च महान्तश्च दोषाः स्युरपि कल्पना । यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते ॥ 12 ॥

यदि बीजाङ्कुरसाधर्म्येण चित्तसंताने शाश्वतोच्छेददर्शनद्वयदोषप्रसङ्गपरिहारः स्यात्, तदा बहवश्च दोषाः संख्याबहुत्वेन महान्तश्च दृष्टादृष्टविरोधेन परपक्षे प्राप्रुवन्ति । कथं कृत्वा? यदि हि बीजसंतानदृष्टान्तेन शालिबीजात् शाल्यङ्कुरादिसंतान एव प्रवर्तते, न विजातीयः, शाल्यङ्कुरादिसंतानाच्च शालिफलमेव उपजायते, न बिल्वफलम्, भिन्नजातीयत्वात्, एवमिहापि कुशलचित्तात् कुशलचित्तसंतान एव स्यात्, समानजातीयत्वात्, न अकुशलाव्याकृतचित्तसंतानः, विजातीयत्वात् । एवमकुशलाव्याकृतचित्तादकुशलाव्याकृतचित्तसंतान एव स्यान्नान्यः, भिन्नजातीयत्वात् । कामरूपारूप्यावचरानास्रवचित्तेभ्यः सदृशानामेव चित्तानां कामरूपारूप्यावचरानास्रवाणामुत्पादः (pp_137) स्यात्, न भिन्नजातीयानाम् । मनुष्यचित्तान्मनुष्यचित्तमेव स्यान्न देवनारकतिर्यगाद्यन्यचित्तम् । ततश्च यो देवः स देव एव स्यात्, यो मनुष्यः स मनुष्य एव स्यादित्यादि । ततश्च अकुशलमपि कुर्वतां देवमनुष्याणां गतियोनिवर्णबुद्धीन्द्रियबलरूपभोगादि वैचित्र्यं न स्यादपायपतनं च । इष्यते चैतत्सर्वमिति । एवं बहवश्च महान्तश्च दोषा यस्माद्बीजसंतानसाधर्म्यकल्पनायां प्रसज्यन्ते, तस्मान्नैषा कल्पना अत्रोपपद्यते ॥ 12 ॥

इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते । बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम् ॥ 13 ॥

का चासौ कल्पनेत्याह-

पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च । चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः ॥ 14 ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.