Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
प्रसन्नपद
- Tác giả
- चन्द्रकीर्ति
- Thông tin
- GRETIL — P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तत्र कारणस्यानन्तरो निरोधः कार्यस्योत्पादप्रत्ययः समनन्तरप्रत्ययलक्षणम् । अत्र विचार्यते- अनुत्पन्नेषु धर्मेषु कार्यभूतेष्वङ्कुरादिषु निरोधो नोपपद्यते कारणस्य बीजादेः । यदैतदेवम्, तदा कारणस्य निरोधाभावादङ्कुरस्य कः समनन्तरप्रत्ययः? अथानुत्पन्ने ऽपि कार्ये बीजनिरोध इष्यते, एवं सति निरुद्ध बीजे अभावीभूते अङ्कुरस्य कः प्रत्ययः? को वा बीजनिरोधस्य प्रत्यय इति । उभयमेतदहेतुकमित्याह- निरुद्धे च कः प्रत्यय इति । चशब्दो ऽनुत्पन्नशब्दापेक्षः । तेन अनुत्पन्ने चाङ्कुरे बीजादीनां निरोधे इष्यमाणे ऽप्युभयमेतदहेतुकमपद्यत इति नानन्तरमतो युक्तम् । अथ वा । न स्वतो नापि परत इत्यादिना उत्पादो निषिद्धः, तमभिसंधायाह-
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते ।
नानन्तरमतो युक्तम् इति ।
अपि च ।
निरुद्धे प्रत्ययश्च कः ॥ इत्यत्र पूर्वकमेव व्याख्यानम् ॥ 11 ॥ इदानीमधिपतिप्रत्ययस्वरूपनिषेधार्थमाह- बीजादीनां
भावानां निःस्वभावानां न सत्ता विद्यते यतः । सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥ 12 ॥
इह यस्मिन् सति यद्भवति, तत्तस्य आधिपतेयमित्यधिपतिप्रत्ययलक्षणम् । भावानां च प्रतीत्यसमुत्पन्नत्वात् स्वभावाभावे कुतस्तद यदस्मिन्निति कारणत्वेन व्यपदिश्यते, कुतस्तद् यदिदमिति कार्यत्वेन? तस्मान्नास्ति लक्षणतो ऽपि प्रत्ययसिद्धिः ॥ 12 ॥
अत्राह- तन्त्वादिभ्यः पटादिकमुपलभ्य पटादेस्तन्त्वादयः प्रत्यया इति । उच्यते पटादिफलप्रवृत्तिरेव स्वरूपतो नास्ति, कुतः प्रत्ययानां प्रत्ययत्वं सेत्स्यति? यथा च पटादिफलप्रवृत्तिरसती, तथा प्रतिपादयन्नाह-
न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम् । प्रत्ययेभ्यः कथं तच्च भवेन्न प्रत्ययेषु यत् ॥ 13 ॥
तत्र व्यस्तेषु तन्तुतुरीवेमतसरशलाकादिषु प्रत्ययेषु पटो नास्ति, तत्रानुपलभ्यमानत्वात् कारणबहुत्वाच्च कार्यबहुत्वप्रसङ्गात् । समुदितेष्वपि तन्त्वादिषु नास्ति पटः, प्रत्येकमवयवेष्वविद्यमानत्वात्, एकस्य कार्यस्य खण्डश उत्पत्तिप्रसङ्गात् । तस्मात्फलाभावान्न सन्ति प्रत्ययाः स्वभावत इति ॥ 13 ॥
अथासदपि तत्तेभ्यः प्रत्ययेभ्यः प्रवर्तते ।
इत्यभिप्रायः स्यात्- अप्रत्ययेभ्यो ऽपि कस्मात्फलं नाभिप्रवर्तते ॥ 14 ॥ अप्रत्ययेष्वपि नास्ति फलमिति । अप्रत्ययेभ्यो ऽपि वीरणादिभ्यः कस्मान्नाभिप्रवर्तते पट इति नास्ति फलप्रवृत्तिः स्वरूपतः ॥ 14 ॥
अत्राह- यदि अन्यत् फलं स्यादन्ये च प्रत्ययाः, तदा किं प्रत्ययेषु फलमस्ति नास्तीति चिन्ता स्यात् । नास्ति तु व्यतिरिक्तं फलम्, किं तर्हि प्रत्ययमयमेवेति? उच्यते-
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः । फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् ॥ 15 ॥
यदि प्रत्ययमयं प्रत्ययविकारः फलमिति व्यवस्थाप्यते, तदयुक्तम् । यस्मात्ते ऽपि प्रत्यया अस्वयंमया अप्रत्ययस्वभावा इत्यर्थः । तन्तुमयो हि पट इत्युच्यते । स्यात् पटो यदि तन्तव एव (pp_31) स्वभावसिद्धाः स्युः । ते हि अंशुमया अंशुविकारा न स्वभावसिद्धाः । ततश्च तेभ्यो ऽस्वयंमयेभ्यो ऽस्वभावेभ्यो यत्फलं पटाख्यम्, तत्कथं तन्तुमयं भविष्यति? यथोक्तम्-
पटः कारणतः सिद्धः सिद्धं कारणमन्यतः । सिद्धिर्यस्य स्वतो नास्तो तदन्यज्जनयेत्कथम् ॥ इति ॥ 15 ॥
तस्मान्न प्रत्ययमयं
फलं संविद्यते । अप्रत्ययमयं तर्हि अस्तु-
नाप्रत्ययमयं फलम् ।
संविद्यते
इति तन्तुमयो यदा पटो नास्ति, तदा कथं वीरणमयः स्या?
अत्राह- मा भूत्फलम्, प्रत्ययाप्रत्ययनियमस्तु विद्यते । तथा च भवान् ब्रवीति- यदि असत् फलं प्रत्ययेभ्यः प्रवर्तते, अप्रत्ययेभ्यो ऽपि कस्मान्नाभिप्रवर्तते इति । न चासति फले पटकटाख्ये तन्तुवीरणानां प्रत्ययानां प्रत्ययत्वं युक्तम्, अतः फलमप्यस्तीति । उच्यते । स्यात्फलं यदि प्रत्ययाप्रत्यया एव स्युः । सति हि फले इमे ऽस्य प्रत्यया इमे ऽप्रत्यया इति स्यात् । तच्च विचार्यमाणं नास्तीति- फलाभावात्प्रत्ययाप्रत्ययाः कुतः ॥ 16 ॥ प्रत्ययाश्च अप्रत्ययाश्चेति समासः ॥ तस्मान्नास्ति भावानां स्वभावतः समुत्पत्तिरिति । यथोक्तमार्यरत्नाकरसूत्रे-
शून्यविद्य न हि विद्यते क्वचि अन्तरीक्षि शकुनस्य वा पदम् । यो न विद्यति सभावतः क्वचि सो न जातु परहेतु भेष्यति ॥
यस्य नैव हि सभावु लभ्यति सो ऽस्वभावु परपच्चयः कथम् । अस्वभावु परु किं जनीष्यति एष हेतु सुगतेन देशितः ॥
सर्व धर्म अचला दृढं स्थिता निर्विकार निरुपद्रवाः शिवाः । अन्तरीक्षपथतुल्य ऽजानका तत्र मुह्यति जगं अजानकम् ॥
शैलपर्वत यथा अकम्पिया एवं धर्म अविकम्पियाः सदा । नो च्यवति न पि चोपपद्ययु एवं धर्मत जिनेन देशिता ॥ इत्यादि ।
तथा-
यो न पि जायति ना चुपपद्यी नो च्यवते न पि जीर्यति धर्मः । तं जिनु देशयती नरसिंहः तत्र निवेशयि सत्त्वशतानि । यस्य सभावु न विद्यति कश्चि नो परभावतु केनचि लब्धः । नान्तरतो न पि बाहिरतो वा लभ्यति तत्र निवेशयि नाथः ॥
शान्त गती कथिता सुगतेन नो च गति उपलभ्यति काचि । तत्र च वोहरसी गतिमुक्तो मुक्तकु मोचयमी बहुसत्त्वान् ॥ इति विस्तरः ॥ 16 ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् ॥
2
गतागतपरीक्षा द्वितीयं प्रकरणम् ।
अत्राह- यद्यपि उत्पादप्रतिषेधात्प्रतीत्यसमुत्पादस्य अनिरोधादिविशेषणसिद्धिः, तथापि अनागमनिर्गमप्रतीत्यसमुत्पादसिद्धये लोकप्रसिद्धगमनागमनक्रियाप्रतिषेधार्थं किंचिदुपपत्त्यन्तरमुच्यतामिति । उच्यते । यदि गमनं नाम स्यान्नियतं तद्गते वा अध्वजाते परिकल्प्येत अगते गम्यमाने वा । सर्वथा च न युज्यते इत्याह-
गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥ 1 ॥
तत्र उपरतगमिक्रियमध्वजातं गतमित्युच्यते । आविश्यमानं गमिक्रियया वर्तमानं गम्यत इत्युच्यते । यद्गतमुपरतगमिक्रियं तद्वर्तमानगमिक्रियायोगवाचिना गम्यते इत्यनेन शब्देनोच्यमानमसंबद्धमिति कृत्वा गतं तावद् गम्यत इति न युज्यते । तावच्छब्देन च प्रतिषेधक्रमं दर्शयति ॥
अगतमपि न गम्यते । अगतं हि अनुपजातगमिक्रियमनागतमुच्यते, गम्यत इति च वर्तमानम् । अतो ऽनागतवर्तमानयोरत्यन्तभेदादगतमपि गम्यत इति न युज्यते । यदि अगतं कथं गम्यते, अथ गम्यते न तदगतमिति ॥
गम्यमाने ऽपि नास्ति गमनम्, यस्मात्-
गतागतविनिर्मुक्तं गम्यमानं न गम्यते ।
इह हि गन्ता यं देशमतिक्रान्तः स तस्य देशो गतः, यं च नातिक्रान्तः सो ऽस्यानागतः । न च गतागतव्यतिरेकेण तृतीयमपरमध्वजातं पश्यामो गम्यमानं नाम । यतश्चैवं गम्यमानं न गम्यते, गम्यत इति न प्रज्ञायते, तस्मान्नास्ति गम्यमानम् । अतो न तद् गमिक्रियया आविश्यते न गम्यत इति नास्ति गम्यमाने ऽपि गमनम् ॥
अथ स्यात्- गन्तुर्गच्छतो यश्चरणाक्रान्तो देशः, स गम्यमानः स्यादिति । नैवम्, चरणयोरपि परमाणुसांघातत्वात् । अङ्गुल्यग्रावस्थितस्य परमाणोर्यः पूर्वो देशः, स तस्य गते ऽन्तर्गतः । पार्ष्ण्यवस्थितस्य चरमपरमाणोर्य उत्तरो देशः, स तस्य अगते ऽन्तर्गतः । न च परमाणुव्यतिरेकेण चरणमस्ति । तस्मान्नास्ति गतागतव्यतिरेकेण गम्यमानम् । यथा चैवं चरणे विचारः, एवं परमाणूनामपि पूर्वापरदिग्भागसंबन्धेन विचारः कार्य इति । अथार्धगतं गम्यमानम्, उक्तमुत्तरं जायमानविचारेण । तस्माद्गम्यमानं न गम्यते इति सिद्धम् ॥ 1 ॥
तत्राह- गम्यत एव गम्यमानम् । इह हि-
चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः । न गते नागते चेष्टा गम्यमाने गतिस्ततः ॥ 2 ॥
तत्र चेष्टा चरणोत्क्षेपपरिक्षेपलक्षणा । यतो व्रजतो गन्तुर्यत्र देशे चेष्टा गतिः तत्रैव देशे । सा च चेष्टा न गते ऽध्वनि संभवति नाप्यगते, किं तु गम्यमान एव । ततश्च गम्यमाने गतिः । यत्र हि गतिरुपलभ्यते तद्गम्यमानम्, तच्च गमिक्रियया आविश्यते । तस्माद् गम्यमानमेव गम्यते इति । एको ऽत्र गमिर्ज्ञानार्थः, अपरश्च देशान्तरसंप्राप्त्यर्थ इति ॥ 2 ॥
एवमपि परिकल्प्यमाने गम्यमानं न गम्यत इत्याह-
गम्यमानस्य गमनं कथं नामोपपत्स्यते । गम्यमाने द्विगमनं यदा नैवोपपद्यते ॥ 3 ॥
इह हि गमिक्रियायोगादेव गम्यमानव्यपदेशमिच्छति भवान्, तच्च इति गम्यत ब्रवीति । एका चात्र गमिक्रिया, तया गम्यमानव्यपदेशो भवतु काममध्वनः । गम्यत इति भूयः क्रियासंबन्धो गम्यमानस्य न युज्यत इति
गम्यमानस्य गमनं कथं नामोपपत्स्यते ।
कारणमाह-
गम्यमाने द्विगमनं यदा नैवोपपद्यते ॥ इति ॥
गम्यमानमिति गम्यत इत्यर्थः । द्विगतं गमनं द्विगमनम् । एकस्या गमिक्रियाया गम्यमानमित्यत्रोपयुक्तत्वाद् द्वितीयाया अभावाच्च, गम्यत इत्ययं व्यपदेशो विना गमनेन यदा नैवोपपद्यते, तदा गम्यमानं गम्यत इति परिपूर्णो वाक्यार्थो नास्तीत्यभिप्रायः । गम्यमानमित्येतावन्मात्रमेव संभवति द्वितीयक्रियाभावात्, न तु गम्यत इति ॥ 3 ॥
अथ गम्यते इत्यत्रैव गमिक्रियासंबन्ध इष्यते, एवं सति गम्यमानव्यपदेशे नास्ति क्रियासंबन्ध इति न परिपूर्णता वाक्यार्थस्येत्याह-
गम्यमानस्य गमनं यस्य तस्य प्रसज्यते । ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते ॥ 4 ॥
यस्य वादिनो गम्यमानस्य गमनमिति पक्षः, गम्यमाने संज्ञाभूते गमिक्रियाशून्ये यो गमिक्रियामाधेयभूतामिच्छति, तस्य पक्षे ऋते गतेर्गम्यमानमिति प्रसज्यते, गतिरहितं गमनं स्यात्, यस्मादस्य गम्यमानं हि गम्यते । हि शब्दो यस्मादर्थे । यस्माद् गतिरहितमेव गम्यमानं सत् तस्य वादिनो गम्यते, गम्यत इत्यत्र क्रियोपयोगात्, तस्माद् गतिरहितं गमनं प्रसज्यते ॥ 4 ॥
अथ उभयत्रापि क्रियासंबन्ध इष्यते गम्यमाने गम्यते इत्यत्र च, एवमपि-
गम्यमानस्य गमने प्रसक्तं गमनद्वयम् । येन तद्गम्यमानं च यच्चात्र गमनं पुनः ॥ 5 ॥
येन गमनेन योगाद्गम्यमानव्यपदेशं प्रतिलभते ऽध्वा, तदेकं गमनम् ॥ तत्र गम्यमाने ऽधिकरणभुते द्वितीयं गमनं येन सो ऽध्वा गम्यते । एतद्गमनद्वयं गम्यमानस्य गमने सति प्रसक्तम् ॥ 5 ॥
भवतु गमनद्वयम्, को दोष इति चेत्, अयं दोषः । यस्मात्-
द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये ।
किं पुनः कारणं गन्तृद्वयप्रसङ्गे इत्याह- गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते ॥ 6 ॥ यस्मादवश्यं क्रिया स्वसाधनमपेक्षते कर्म कर्तारं वा । गमिक्रिया चैवं कर्तर्यवस्थिता, अतो गन्तारमपेक्षते । नास्ति च एकस्मिन्नेव गच्छति देवदत्ते द्वितीयः कर्तेति । अतः कर्तृद्वयाभावान्नास्ति गमनद्वयम् । ततश्च गम्यमानं गम्यत इति नोपपद्यते ॥
अथ स्यात्- यदायं देवदत्तः स्थितः, स न भाषते? पश्यति न? तदैको ऽनेकक्रियो दृष्टः, एवमेकस्मिन् गन्तरि क्रियाद्वयं भविष्यति इति । नैवम् । शक्तिर्हि कारको न द्रव्यम् । क्रियाभेदाच्च तत्साधनस्यापि शक्तेः सिद्ध एव भेदः । न हि स्थितिक्रियया वक्ता स्यात् । द्रव्यमेकमिति चेत्, भवतु एवम्, न तु द्रव्यं कारकः, किं तर्हि शक्तिः, सा च भिद्यत एव । अपि च । सदृशक्रियाद्वय कारकत्वं नैकदेशिकस्य दृष्टम्, अतो नैकस्य गन्तुर्गमनद्वयम् ॥ 6 ॥
अत्राह- यद्यप्येवं तथापि गन्तरि देवदत्ते गमनमुपलभ्यते देवदत्तो गच्छतीति व्यपदेशात् । ततश्च विद्यत एव गमनं गमनाश्रयगन्तृसद्भावात् । उच्यते । स्यादेवं यदि गमनाश्रयो गन्ता स्यात्, न त्वस्ति । कथमित्याह-
गन्तारं चेतिरस्कृत्य गमनं नोपपद्यते । गमने ऽसति गन्ताथ कुत एव भविष्यति ॥ 7 ॥ गन्तारमन्तरेण निराश्रयं गमनमसदित्युक्तम्, ततश्च गन्तारं चेतिरस्कृत्य प्रत्याख्याय गमनं नास्ति, असति गमने कुतो निर्हेतुको गन्ता? अतो नास्ति गमनम् ॥ 7 ॥ अत्राह- विद्यत एव गमनम्, तद्वतस्तेन व्यपदेशात् । इह गन्ता गमनेन युक्तः, तद्योगाच्च गच्छति । यदि गमनं न स्यात्, गमनवतो देवदत्तस्य गच्छतीति व्यपदेशो न स्यात्, दण्डाभावे दण्डिव्यपदेशाभाववत् । उच्यते । स्याद्गमनम्, यदि गच्छतीत्येवं व्यपदेशः स्यात् । यस्मात्-
गन्ता न गच्छति तावदगन्ता नैव गच्छति । अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति ॥ 8 ॥
इह गच्छतीति गन्ता, स तावन्न गच्छति, यथा च न गच्छति तथोत्तरेण श्लोकत्रयेण प्रतिपादयिष्यति । अगन्तापि न गच्छति । अगन्ता हि नाम यो गमिक्रियारहितः । गच्छतीति च गमिक्रियायोगप्रवृत्तः शब्दः । यद्यसावगन्ता, कथं गच्छति? अथ गच्छति, नासौ अगन्ता इति । तदुभयव्यतिरिक्तो गच्छतीति चेन्नैवम् । को हि गन्तुरगन्तुर्विनिर्मुक्तस्तृतीयो ऽस्ति यो गच्छतीति कल्प्येत? तस्मान्नास्ति गमनम् ॥ 8 ॥
अत्राह- नागन्ता गच्छति नाप्युभयरहितः, किं तर्हि गन्तैव गच्छतीति । एतदप्यसत् किं कारणम्? यस्मात्-
गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते । गमनेन विना गन्ता यदा नैवोपपद्यते ॥ 9 ॥
गन्ता गच्छतीत्यत्र वाक्ये एकैव गमिक्रिया, तया च गच्छतीति व्यपदिश्यते । गन्तेति तु व्यपदेशे नास्ति द्वितीया गमिक्रिया इति । गमनेन विना गन्ता, अगच्छन् गन्तेति यदा न संभवति, तदा गन्ता गच्छतीति न युज्यते । कामं गच्छतीत्यस्तु, गन्तेति तु न संभवतीति तदयुक्तम् ॥ 9 ॥
अथ गतियोगात्सगतिक एव गन्ता, तथापि द्वितीयगमिक्रियाभावद्गच्छतीति व्यपदेशो न स्यादित्याह-
पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते । गमनेन विना गन्ता गन्तुर्गमनमिच्छतः ॥ 10 ॥
यस्य वादिनो गमिक्रियायोगादेव गन्तेति पक्षः, तस्य गन्तुर्गमनमिच्छतः सगमनगन्तृव्यपदेशाद्गमनेन विना गन्ता गच्छतीति स्यात्, द्वितीयगमिक्रियाभावात् । अतो गन्ता गच्छतीति न युज्यते । गच्छतीत्येतस्यार्थे गन्तेति शब्दो गमनेन विना गन्तेत्यत्र वाक्ये ॥ 10 ॥
अथ उभयत्रापि गतियोग इष्यते गन्ता गच्छतीति, एवमपि-
गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति । गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति ॥ 11 ॥
येन गमनेन योगाद् गन्तेत्युच्यते व्यपदिश्यते तदेकं गमनम् । गन्ता भवन् यच्च गच्छति, यां च गतिक्रियां करोति, तदेतद्गमनद्वयं प्रसक्तम् । अतो गन्तृद्वयप्रसङ्ग इति पूर्ववद् दूषणं वक्तव्यम् । तस्मान्नास्ति गच्छतीति व्यपदेशः ॥
अत्राह- यद्यप्येवम्, तथापि देवदत्तो गच्छतीति व्यपदेशसद्भावाद्गमनस्तीति । नैवम् । यस्माद्देवदत्ताश्रयैवैषा चिन्ता किमसौ गन्ता सन् गच्छति, उत अगन्ता गच्छति, तद्वयतिरिक्तो वेति । सर्वथा च नोपपद्यत इति यत्किंचिदेतत् ॥
अत्राह- विद्यत एव गमनम्, तदारम्भसद्भावात् । इह देवदत्तः स्थित्युपमर्देन गमनमारभते । न च अविद्यमानकूर्मरोमप्रावारादिकमारभते । उच्यते । स्याद्गमनं यदि तदारम्मे एव स्यात् । यस्मात्- गते नारभ्यते गन्तुं गतं नारभ्यते ऽगते । नारभ्यते गम्यमाने गन्तुमारभ्यते कुह ॥ 12 ॥
यदि गमनारम्भो भवेत्, तद् गते वाध्वन्यारम्येत, अगते वा गम्यमाने वा । तत्र गते गमनं नारभ्यते, तद्धि नाम उपरतगमिक्रियम् । यदि तत्र गमनमारभ्येत, तद् गतमित्येवं न स्याद् अतीतवर्तमानयोर्विरोधात् । अगते ऽपि गमनं नारभ्यते, अनागतवर्तमानयोर्विरोधात् । नापि गम्यमाने, तदभावात् क्रियाद्वयप्रसङ्गात् कर्तृद्वयप्रसङ्गाच्च । तदेवं सर्वत्र गमनारम्भमपश्यन्नाह- गन्तुमारभ्यते कुहेति ॥ 12 ॥
यथा च गमनं न संभवति तथा प्रतिपादयन्नाह-
न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् । यत्रारभ्येत गमनमगते गमनं कुतः ॥ 13 ॥
इह देवदत्तो यदावस्थित आस्ते, स तदा गमनं नारभते । तस्य गमनारम्भात्पूर्वं न गम्यमानमध्वजातमस्ति, न च गतं यत्र गमनमारभ्येत । तस्माद् गतगम्यमानाभावादेनयोर्न गमनारम्भः ॥
अथ स्यात्- यद्यपि गमनारम्भात्पूर्वं न गतं न गम्यमानं तथाप्यगतमस्ति, तत्र गमनारम्भः स्यादिति । उच्यते । अगते गमनं कुतः । अनुपजातगमिक्रियमनारब्धगमिक्रियमगतम् । तत्र गमनारम्भ इत्यसंबद्धमेतदित्याह- अगते गमनं कुतः इति ॥ 13 ॥
यद्यपि गतागतगम्यमानेषु गमनारम्भो नास्ति, गतागतगम्यमानानि तु सन्ति । न चासति गमने एतानि युज्यन्त इति । उच्यते । स्याद् गमनं यद्येतान्येव स्युः । सति हि गमिक्रियाप्रारम्भे यत्रोपरता गमिक्रिया तद् गतमिति परिकल्प्येत, यत्र वर्तमाना तद् गम्यमानम्, यत्राजाता तदगतमिति । यदा तु गमिक्रियाप्रारम्भ एव नास्ति, तदा-
गतं किं गम्यमनं किमगतं किं विकल्प्यते । अदृश्यमान आरम्भे गमनस्यैव सर्वथा ॥ 14 ॥ प्रारम्भे ऽनुपलभ्यमाने किं मिथ्याध्वत्रयं परिकल्प्यते, कुतो वा तद्वयपदेशकारणं गमनमित्ययुक्तमेतत् ॥ 14 ॥ अत्राह- विद्यत एव गमनं तत्प्रतिपक्षसद्भावात् । यस्य च प्रतिपक्षो ऽस्ति, तदस्ति, आलोकान्धकारवत् पारावारवत् संशयनिश्चयवच्च । अस्ति च गमनस्य प्रतिपक्षः स्थानमिति । उच्यते । स्याद् गमनं यदि तत्प्रतिपक्षः स्थानं स्यात् । कथमिहेदं स्थानं गन्तुरगन्तुस्तदन्यस्य वा परिकल्प्येत? सर्वथा च न युज्यत इत्याह-
गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति । अन्यो गन्तुरगन्तुश्च कस्तृतीयो ऽथ तिष्ठति ॥ 15 ॥
यथा गन्ता न तिष्ठति तथोत्तरेण श्लोकेनाख्यास्यति । अगन्तापि न तिष्ठति, स हि तिष्ठत्येव, तस्य किमपरया स्थित्या प्रयोजनम्? अगन्तापि न तिष्ठति? स हि तिष्ठत्येव, तस्य (pp_38) किमपरया स्थित्या प्रयोजनम्? एकया स्थित्या अगन्ता अपरया तिष्ठतीति स्थितिद्वयप्रसङ्गात् स्थातृद्वयप्रसङ्ग इति पूर्ववद्दोषः । गन्त्रगन्तृरहितश्चान्यो नास्ति ॥ 15 ॥
अत्राह- नागन्ता तिष्ठति, नापि गन्तुरगन्तुश्चान्यः, किं तर्हि गन्तैव तिष्ठतीति नैवम् । यस्मात्-
गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते । गमनेन विना गन्ता यदा नैवोपपद्यते ॥ 16 ॥
यदायं तिष्ठतीत्युच्यते, तदा स्थितिविरोधि गमनमस्य नास्ति, विना च गमनं गन्तृव्यपदेशो नास्ति । अतो गन्ता तिष्ठतीति नोपपद्यते ॥ 16 ॥
अत्राह- विद्यत एव गमनम्, तन्निवृत्तिसद्भावात् । इह गतेर्निवर्तमानः स्थितिमारभते गमनाभावे तु न ततो निवर्तेत । उच्यते । स्याद् गमनं यदि तन्निवृत्तिरेव स्यात् । [न त्वस्ति] यस्मात्-
न तिष्ठति गम्यमानान्न गतान्नागतादपि ।
तत्र गन्ता गतादध्वनो न निवर्तते गत्यभावात् । अगतादपि, गत्यभावादेव । गम्यमानादपि न निवर्तते तदनुपलब्धेः गमिक्रियाभावाच्च । तस्मान्न गतिनिवृत्तिः ॥
अत्राह- यदि गमनप्रतिद्वन्द्विस्थित्यभावाद्गतिरसती, एवं तर्हि गमनप्रसिद्धये स्थिति साधयामः, तत्सिद्धौ गमनसिद्धिः । तस्माद्विद्यत एव स्थानं प्रतिद्वन्द्विसद्भावात्, स्थितेर्हि प्रतिद्वन्द्वि गमनम्, तदस्ति, ततश्च स्थितिरपि, प्रतिद्वन्द्विसद्भावात् । एतदप्ययुक्तम् । यस्मात्- गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा ॥ 17 ॥ अत्र हि यद्गमनं स्थितिसिद्धये वर्णितं तद्गत्या समं गतिदूषणेन तुल्यमित्यर्थः । यथा गन्ता न तिष्ठति तावदित्यादिना गतिप्रसिद्धये स्थितेर्हेतुत्वेनोपात्ताया दूषणमुक्तम्, एवमिहापि स्थितिप्रसिद्धये गमनस्य हेतुत्वेनोपात्तस्य स्थाता न गच्छति तावदित्यादिना श्लोकद्वयपाठपरिवर्तेन दूषणं वक्तव्यमिति नास्ति गमनम्, तदभावात्प्रतिद्वन्द्विनी स्थितिरपीति । एवं तावद् गमनं गत्या तुल्यं प्रत्याख्येयम् ॥
अथ स्यात्- विद्यत एव स्थानं तदारम्भसद्भावात् । इह गत्युपमर्देन स्थानमारभ्यते, कथं तन्न स्यात्? उच्यते । संप्रवृत्तिश्च गतेः समा वाच्या । तत्र यथा पूर्वं गते नारभ्यते गन्तुमित्यादिना गमनारम्भो निषिद्धः, एवमिहापि-
स्थिते नारभ्यते स्थातुं स्थातुं नारभ्यते ऽस्थिते । नारभ्यते स्थीयमाने स्थातुमारभ्यते कुह ॥
इत्यादिना श्लोकत्रयपरिवर्तेन स्थानसंप्रवृत्तिरपि गतेः समा । स्थाननिवृत्तिरपि गतिनिवृत्त्या समा प्रत्याख्येया । यथा गतिनिषेधे-
न तिष्ठति गम्यमानान्न गतान्नागतादपि ।
इति गतेर्दूषणमुक्तम्, एवं स्थितिनिषेधे ऽपि
न गच्छति स्थीयमानान्न स्थितान्नास्थितादपि ।
इति गत्या तुल्यं दूषणमिति नास्ति स्थितिः । तदभावात्कुतो गतिप्रतिपक्षस्थितिसद्भाववादिनां गतेः सिद्धिरिति ॥ 17 ॥
अपि च । यदि गमनं स्यात्, गन्तृव्यतिरेकेण वा स्यादव्यतिरेकेण वा? सर्वथा च विचार्यमाणं न संभवतीत्याह-
यदेव गमनं गन्ता स एवेति न युज्यते । अन्य एव पुनर्गन्ता गतेरिति न युज्यते ॥ 18 ॥
कथं पुनर्न युज्यत इत्याह-
यदेव गमनं गन्ता स एव हि भवेद्यदि । एकीभावः प्रसज्येत कर्तुः कर्मण एव च ॥ 19 ॥
येयं गमिक्रिया, सा यदि गन्तुरव्यतिरिक्ता नान्या स्यात्, तदा कर्तुः क्रियायाश्चैकत्वं स्यात् । ततश्च इयं क्रिया, अयं कर्ता, इति विशेषो न स्यात् । न च छिदिक्रियायाः छेत्तुश्च एकत्वम् । अतो यदेव गमनं स एव गन्तेति न युज्यते ॥ 19 ॥
अन्यत्रमपि गन्तृगमनयोर्यथा नास्ति तथा प्रतिपादयन्नाह-
अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते । गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते ॥ 20 ॥
यदि हि गन्तृगमनयोरन्यत्वं स्यात्, तदा गमननिरपेक्षो गन्ता स्यात्, गन्तृनिरपेक्षं च गमनं गृह्येत पृथक् सिद्धं घटादिव पटः । न च गन्तुः पृथक्सिद्धं गमनं गृह्यत इति । अन्य एव पुनर्गन्ता गतेरिति न युज्यते इति प्रसाधितमेतत् ॥ 20 ॥
तदेवम्-
एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः । न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥ 21 ॥
ययोर्गन्तृगमनयोर्यथोदितन्यायेन एकीभावेन वा नानाभावेन वा नास्ति सिद्धिः, तयोरिदानीं केनान्येन प्रकारेण सिद्धिरस्तु? अत आह- तयोः सिद्धिः कथं नु खलु विद्यत इति । नास्ति गन्तृगमनयोः सिद्धिरित्यभिप्रायः ॥ 21 ॥
अत्राह- इह देवदत्तो गन्ता गच्छतीति लोकप्रसिद्धम् । तत्र यथा वक्ता वाचं भाषते, कर्ता क्रियां करोति, इति प्रसिद्धम्, एवं यया गत्या गन्तेत्यभिव्यज्यते तां गच्छतीति न यथोक्तदोषः । तदप्यसत् । यस्मात्-
गत्या ययोच्यते गन्ता गतिं तां स न गच्छति ।
यया गत्या देवदत्तो गन्तेत्यभिव्यजते, स गन्ता सन् तां तावन्न गच्छति, न प्राप्नोति यदि वा न करोतीत्यर्थः ।
यस्मान्न गतिपूर्वो ऽस्ति
गतेः पूर्वो गतिपूर्वः । यदि गन्ता गतेः पूर्वं सिद्धः स्यात्, स तां गच्छेत् । कथम् यस्मात्- कश्चित्किंचिद्धि गच्छति ॥ 22 ॥ कश्चिद्देवदत्तः किंचिदर्थान्तरभूतं ग्रामं नगरं वा गच्छतीति दृष्टम् । न चैवं यया गत्या गन्तेत्युच्यते, तस्याः पूर्वं सिद्धरूपो गतिनिरपेक्षो गन्ता नाम अस्ति यस्तां गच्छेत् ॥ 22 ॥
अथ मन्यसे- यया गत्या गन्तेत्यभिव्यज्यते, तामेव असौ न गच्छति, किं तहि ततो ऽन्यामिति । एतदप्यसत् । यस्मात्-
गत्या ययोच्यते गन्ता ततो ऽन्यां स न गच्छति । गती द्वे नोपपद्येते यस्मादेके प्रगच्छति ॥ 23 ॥
यया गत्या गन्ता अभिव्यज्यते, ततो ऽन्यामपि स गन्ता सन् न गच्छति, गतिद्वयप्रसङ्गात् । यया गत्या गन्ता अभिव्यज्यते, गन्ता सन् यां चापरां गच्छतीत्येतद् गतिद्वयं प्रसक्तम् । न च एकस्मिन् गन्तरि गतिद्वयम् । इत्युक्तमेतत् । एतेन वक्ता वाचं भाषते कर्ता क्रियां करोति, इति प्रत्युक्तम् ॥ 23 ॥
तदेवम्-
सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति । नासद्भूतो ऽपि गमनं त्रिप्रकारं स गच्छति ॥ 24 ॥
गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति ।
तत्र गम्यत इति गमनमिहोच्यते । तत्र सद्भूतो गन्ता यो गमिक्रियायुक्तः । असद्भूतो गन्ता यो गमिक्रियारहितः । सदसद्भूतो य उभयपक्षीयरूपः । एवं गमनमपि त्रिप्रकारं गमिक्रियासंबन्धेन वेदितव्यम् । तत्र सद्भूतो गन्ता सद्भूतमसद्भूतं सदसद्भूतं त्रिप्रकारं गमनं न गच्छति । एतच्च कर्मकारकपरीक्षायामाख्यास्यते । एवमसद्भूतो ऽपि गन्ता त्रिप्रकारं गमनं न गच्छति । सदसद्भूतो ऽपीति तत्रैव प्रतिपादयिष्यति । यतश्चैवं गन्तृगन्तव्यगमनानि विचार्यमाणानि न सन्ति, तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते ॥ 25 ॥ यथोक्तमार्याक्षयमतिनिर्देशसूत्रे-
अगतिरिति भदन्त शारद्वतीपुत्र संकर्षणपदमेतत् । गतिरिति भदन्त शारद्वतीपुत्र निष्कर्षणपदमेतत् । यत्र न संकर्षणपदं न निष्कर्षणपदं तदार्याणां पदम् । अपदयोगेन अनागतिरगतिश्चार्याणां गतिरिति ॥
यदि बीजमेवाङ्कुरे संक्रमति, बीजमेव तत्स्यान्न यदङ्कुरः शाश्वतदोषप्रसङ्गश्च । अथाङ्कुरो ऽन्यत आगच्छति, अहेतुकदोषप्रसङ्गः स्यात् । न चाहेतुकस्योत्पत्तिः खरविषाणस्येव ॥
अत एवाह भगवान्-
बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो । न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वत धर्मता ॥ इति ॥
मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते । न च तत्र न चैव सान्यतो एवं संस्कारनुच्छेदशाश्वताः ॥ इति च ॥
तथा-
आदर्शपृष्ठे तथ तैलपात्रे निरीक्षते नारिमुखं अलंकृतम् । सो तत्र रागं जनयित्व बालो प्रधावितो कामि गवेषमाणो ॥
मुखस्य संक्रान्ति यदा न विद्यते बिम्बे मुखं नैव कदाचि लभ्यते । मूढो यथा सो जनयेत रागं तथोपमान् जानथ सर्वधर्मान् ॥
तथा [आर्यसमाधिराजसूत्रे ऽपि]-
तहि कालि सो दशबलो अनघो जिनु भाषते इमु समाधिवरम् । सुपिनोपमा भगवती सकला न हि कश्चि जायति न चो म्रियते ॥
न च सत्त्वु लभ्यति न जीवु नरो इमि धर्म फेनकदलीसदृशाः । मायोपमा गगनविद्युसमा दकचन्द्रसंनिभ मरीचिसमाः ॥
न च अस्मि लोकि मृतु कश्चि नरो परलोक संक्रमति गच्छति वा । न च कर्म नश्यति कदाचि कृतं फलु देति कृष्ण शुभ संसरतो ॥
न च शाश्वतं न च उच्छेद पुनो न च कर्मसंचयु न चापि स्थितिः । न च सो ऽपि कृत्व पुनरास्पृशति न च अन्यु कृत्व पुन वेदयते ॥
न च संक्रमो न च पुनागमनं न च सर्वमस्ति न च नास्ति पुनः । न च दृष्ट स्थानगतिशुद्धिरिहो न च सत्वचार सुपशान्तगति ॥
सुपिनोपमं हि त्रिभवं वशिकं लघु भग्नमनित्येन मायसमम् । न च आगतं न च इहोपगतं शून्यानिमित्त सद संततियो ॥
अनुत्पाद शान्त अनिमित्तपदं सुगतान गोचर जिनान गुणा । बल धारणी दशबलान बलं बुद्धान इयं वृषभिता परमा ॥
वरशुक्लधर्मगुणसंनिचयो गुणज्ञानधारणिबलं परमम् । ऋद्धीविकुर्वणविधिः परमो वरपञ्चभिज्ञप्रतिलाभनयः ॥
इति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ गतागतपरीक्षा नाम द्वितीयं प्रकरणम् ॥
3
चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् ।
अत्राह- यद्यपि गतिश्च गन्ता च गन्तव्यं च न विद्यते, तथापि प्रवचनसिद्धयपेक्षया द्रष्ट्टद्रष्टव्यदर्शनादीनामस्तित्वमास्थेयम् । तथा चाभिधर्मे उच्यते ।
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः । इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः ॥ 1 ॥
तस्मात्सन्ति दर्शनादीनि स्वभावत इति । उच्यते । न सन्ति । इह हि पश्यतीति दर्शनं चक्षुः, तस्य च रूपं विषयत्वेनोपदिश्यते ॥ 1 ॥
यथा दर्शनं रूपं न पश्यति तथा प्रतिपादयन्नाह-
स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति । न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥ 2 ॥
तत्र तदेव दर्शनं स्वात्मानं न पश्यति स्वात्मनि क्रियाविरोधात् । ततश्च स्वात्मादर्शनाच्छ्रोत्रादिवन्नीलादिकं न पश्यति । तस्मान्नास्ति दर्शनम् ॥ 2 ॥
यद्यपि स्वात्मानं दर्शनं न पश्यति, तथाष्यग्निवत् परान् द्रक्ष्यति । तथा हि अग्निःपरात्मानमेव दहति न स्वात्मानम्, एवं दर्शनं परानेव द्रक्ष्यति न स्वात्मानमिति । एतदत्ययुक्तम् । यस्मात्-
न पर्याप्तो ऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये ।
यो ऽयमग्निदृष्टान्तो दर्शनस्य प्रसिद्धये भवतोपन्यस्तः, स न पर्याप्तो नालं न समर्थो न युज्यत इत्यर्थः । यस्मात्- सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः ॥ 3 ॥ सह दर्शनेन वर्तत इति सदर्शनः । यो ऽयमग्निदृष्टान्तो दर्शनप्रसिद्धये भवतोपन्यस्तः, सो ऽपि सह दर्शनेन दार्ष्टान्तिकार्थेन प्रत्युक्तो दूषितः । केन पुनरित्याह- गम्यमानगतागतैः । यथा गतं न गम्यते नागतं न गम्यमानम्, एवमग्निनापि दग्धं न दह्यते नादग्धं दह्यत इत्यादिना समं वाच्यम् । यथा च न गतं नागतं न गम्यमानं गम्यते, एवम्-
न दृष्टं दृश्यते तावददृष्टं नैव दृश्यते । दृष्टादृष्टविनिर्मुक्तं दृश्यमानं न दृश्यते ॥ इत्यादि वाच्यम् ॥ 3 ॥ यथा च गन्ता न गच्छति तावदित्याद्युक्तम्, एवं न दग्धा दहति तावदित्यादि वाच्यम् । एवं न द्रष्टा पश्यति तावदित्यादिना अग्निदृष्टान्तेन सह गम्यमानगतागतैर्यस्मात्समं दूषणम्, अतो ऽग्निवद् (pp_44) दर्शनसिद्धिरिति न युज्यते । ततश्च सिद्धमेतत्- स्वात्मवद् दर्शनं परानपि न पश्यतीति ॥ 3 ॥
यदैवं तदा-
नापश्यमानं भवति यदा किंचन दर्शनम् । दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥ 4 ॥
यदा चैवमपश्यन्न किंचिद्दर्शनं भवति, तदानीमपश्यतो दर्शनात्वायोगात् स्तम्भादिवत्, पश्यतीति दर्शनमिति व्यपदेशो न युज्यते । यद्यपि दर्शनशब्दादनन्तरं श्लोकबन्धानुरोधेन दर्शन पश्यतीति पाठः, तथापि व्याख्यानकाले पश्यतीति दर्शनमित्येवं कथमेतत्तु युज्यते इति पठितव्यम् ॥ 4 ॥
किं चान्यत्- इह पश्यतीति दर्शनमित्युच्यमाने दर्शनक्रियया दर्शनस्वभावस्य वा चक्षुषः संबन्धः परिकल्प्येत, अदर्शनस्वभावस्य वा? उभयथा च न युज्यते इत्याह-
पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ।
दर्शनस्वभावस्य तावद् दृशिक्रियायुक्तस्य भूयः पश्यतीत्यादिना संबन्धो नोपपद्यते दृशिक्रियाद्वयप्रसङ्गात् दर्शनद्वयप्रसङ्गाच्च । अदर्शनमपि न पश्यति दर्शनक्रियारहितत्वादङ्गूल्यग्रवदित्याभिप्रायः । यदा
पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ।
तदा
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥
इत्यनेनैव संबन्धः ॥
ये तु मन्यन्ते- निर्व्यापारं हीदं धर्ममात्रमुत्पद्यमानमुत्पद्यते इति, नैव किंचित्, कश्चिद्विषयं पश्यति क्रियाया अभावात्, तस्माद्दर्शनं न पश्यतीति सिद्धमेतत्प्रसाध्यत इति । अत्रोच्यते । यदि क्रिया व्यवहाराङ्गभूता न स्यात्, तदा धर्ममात्रमपि न स्यात्, क्रियाविरहितत्वात्, खपुष्पवदिति कुतः क्रियारहितं धर्ममात्रं भविष्यति? तस्माद्यदि व्यवहारसत्यं धर्ममात्रवत् क्रियाप्यभ्युपगम्यताम् । अथ तत्त्वचिन्ता, तदा क्रियावद् धर्ममात्रमपि नास्तीति भवताभ्युपगम्यताम् । यथोक्तं शतके-
क्रियावान् शाश्वतो नास्ति नास्ति सर्वगते क्रिया । निष्क्रियो नास्तिना तुल्यो नैरात्म्यं किं न ते प्रियम् ॥ इति ।
तस्मान्नायं विधिर्बाधकः परस्य, नाप्यस्माकं सिद्धसाधनदोषः ॥
अत्राह- नैव हि पश्यतीति दर्शनमिति कर्तृसाधनमभ्युपगम्यते, किं तर्हि पश्यत्यनेनेती दर्शनमिति करणसाधनम्, ततश्च उक्तदोषाप्रसङ्गः । यश्चानेन दर्शनेन करणभूतेन पश्यति, स द्रष्टा, एष च विद्यते विज्ञानमात्मा वा, कर्तृसद्भावाच्च दर्शनमपि सिद्धमिति । उच्यते- व्याख्यातो दर्शनेनैव द्रष्टा चाप्युपगम्यताम् ॥ 5 ॥ यथा स्वमात्मानं दर्शनं हीत्यादिना दूषणमुक्तम्, एवं द्रष्टुरपि दर्शनवद्दूषणं वेदितव्यम् । तद्यथा-
स्वमात्मानं नैव द्रष्टा दर्शनेन विपश्यति । न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥
इत्यादि वाच्यम् । तस्माद्दर्शनवद् द्रष्टापि नास्तीति सिद्धम् ॥ 5 ॥
अत्राह- विद्यत एव द्रष्टा तत्कर्मकरणसद्भावात् । इह यन्नास्ति इति, न तस्य कर्मकरणे विद्येते तद्यथा वन्ध्यासूनोः । अस्ति च द्रष्टुः करणं दर्शनं द्रष्टव्यं च कर्म । तस्माच्छेत्तृवद्विद्यमानकर्मकरणो विद्यत एव द्रष्टेति । उच्यते । नैव हि द्रष्टव्यदर्शने विद्येते, तत्कुतो द्रष्टा स्यात्? द्रष्टुसापेक्षे हि द्रष्टव्यदर्शने । स च निरूत्त्यमाणः-
तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम् ।
इह द्रष्टा नाम यदि कश्चित्स्यात्, स दर्शनसापेक्षो वा स्यान्निरपेक्षो वा । तत्र यदि दर्शनसापेक्षो ऽतिरस्कृत्य दर्शनमिष्यते, तदा सिद्धस्य वा दर्शनापेक्षा स्यादसिद्धस्य वा । तत्र सिद्धो द्रष्टा न हि दर्शनमपेक्षते । किं सिद्धस्य सतो द्रष्टुः पुनर्दर्शनापेक् षा कुर्यात्? न हि सिद्धं पुनरपि साध्यत इति । अथासिद्धो ऽपेक्षेत, असिद्धत्वाद्वन्ध्यासुतवद्दर्शनं नापेक्षते । एवं तावदतिरस्कृत्य दर्शनमपेक्ष्य द्रष्टा नास्ति । तिरस्कृत्यापि, दर्शननिरपेक्षत्वात् इत्युक्तं प्राक् । तदेवं तिरस्कृत्यातिरस्कृत्य वा दर्शनं यदा द्रष्टा नास्ति, तदा- द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः ॥ 6 ॥ द्रष्टर्यसति निर्हेतुके द्रष्टव्यदर्शने न संभवतः इति कुतस्तत्सद्भावाद् द्रष्टा प्रसेत्स्यति?
अत्राह- विद्येते एव द्रष्टव्यदर्शने, तत्कार्यसद्भावात् । तत्र-
प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः । चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः ॥ 7 ॥
इति द्रष्टव्यं दर्शनं च प्रतीत्य विज्ञानमुत्पद्यते । त्रयाणां संनिपातात्सास्रवस्पर्शः, स्पर्शसहजा वेदना, तत्प्रत्यया तृष्णेति । एवं चत्वार्यपि भवाङ्गानि द्रष्टव्यदर्शनहेतुकानि विद्यन्ते । तस्मात्कार्यसद्भावाद् द्रष्टव्यदर्शने विद्येते इति । 7 ॥
उच्यते- स्यातामेते, यदि विज्ञानादिचतुष्टयमेव स्यात् । यस्मात्-
द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम् । नास्तीति
इह द्रष्टुरभावाद् द्रष्टव्यदर्शने अपि न स्त इत्युक्तम् । अतः कुतो विज्ञानादिचतुष्टयं विज्ञानस्पर्शवेदनातृष्णाख्यम्? तस्मान्न सन्ति विज्ञानादीनि ॥
अत्राह- सन्त्येवतानि तत्कार्यसद्भावात् । इह तृष्णाप्रत्ययमुपादानमित्यादिना उपादानभवजातिजरामरणादिकं विज्ञानादिचतुष्टयादुत्पद्यते, तस्मात्सन्ति विज्ञानादीनि तत्कार्यसद्भावात् । (pp_46) उच्यते । स्युरुपादानादीनि यदि विज्ञानादिचतुष्टयमेव स्यात् । यदा तु द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयं नैवास्ति, तदा- उपादानादीनि भविष्यन्ति पुनः कथम् ॥ 8 ॥न सन्त्युपादानादीनीत्यर्थः ॥ 8 ॥ इदानीं दर्शनवच्छेषायतनव्याख्यानातिदेशार्थमाह-
व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः । दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च ॥ 9 ॥
इति ॥
उक्तं हि भगवता-
न चक्षुः प्रेक्षते रूपं मनो धर्मान्न वेत्ति च । एतत्त परमं सत्यं यत्र लोको न गाहते ॥
सामग्र्या दर्शनं यत्र प्रकाशयति नायकः । प्राहोपचारभूमिं तां परमार्थस्य बुद्धिमान् ॥ इति ॥
तथा-
चक्षुश्च प्रतीत्य रूपतः चक्षुविज्ञानमिहोपजायते । नो चक्षुषि रूप निश्रितं रूपसंक्रान्ति न चैव चक्षुषि ॥
नैरात्म्य ऽशुभाश्च धर्मिमे तेष्वात्मेति शुभाश्च कल्पिताः । विपरीतमसद्विकल्पितं चक्षुविज्ञान ततो ऽपि जायते ॥
विज्ञाननिरोधसंभवं विज्ञानौपादवयं विपश्यति । न कहिंचि गतं न चागतं शून्य मायोपम योगि पश्यति ॥
तथाचार्योपालिपृच्छायाम्-
सर्व सयोगि तु पश्यति चक्षुस्तत्र न पश्यति प्रत्ययहीनम् । नैव च चक्षु प्रपश्यति रूपं तेन सयोगवियोगविकल्पः ॥
आलोकसमाश्रित पश्यति चक्षू रूप मनोरमचित्रविशिष्टम् । येन च योगसमाश्रितचक्षुस्तेन न पश्यति चक्षु कदाचि ॥
यो ऽपि च श्रूयति शब्दु मनोज्ञः सो ऽपि च नान्तरि जातु प्रविष्टः । संक्रमणं न च लभ्यति तस्य कल्पवशात्तु समुच्छ्रितु शब्दः ॥ इति ॥
तथा-
गीतं न नृत्यमपि वाद्यरुतं न ग्राह्यं स्वप्नोपमा हि रतयो ऽबुधमोहनाश्च । संकल्पलालस गता अबुधा ऽत्र नाशं किं क्लेशदास इव बालजनो भवामि ॥ इति ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ चक्षुरादीन्द्रियपरीक्षा नाम तृतीयं प्रकरणम् ॥
4
स्कन्धपरीक्षा चतुर्थ प्रकरणम् ।
अत्राह- यद्येवं चक्षुरादीनीन्द्रियाणि न सन्ति, न स्कन्धाः, अप्रतिषेधात् तदन्तर्गतानि चेन्द्रियाणि, अतस्तान्यपि भविष्यन्तीति । उच्यते । स्युरेव, यदि स्कन्धाः स्युः तत्र रूपस्कन्धमधिकृत्याह-
रूपकारणनिर्मुक्तं न रूपमुपलभ्यते । रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् ॥ 1 ॥
तत्र रूपं भौतिकम् । तस्य कारणं चत्वारि महाभूतानि । तद्वयतिरिक्तं पृथग्भूतं रूपं रूपशब्दगन्धरसस्प्रष्टव्याख्यं नोपलभ्यते घटादिव पटः । रूपेणापि न निर्मुक्तं रूपात्पृथग्भूतं रूपकारणमुपलभ्यते ॥ 1 ॥
तदेतत्प्रतिज्ञाद्वयं प्रसाधयितुकाम आह-
रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते । आहेतुकं, न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् ॥ 2 ॥
यथा घटादर्थान्तरभूतः पटो न घटहेतुकः, एवं रूपकारणचतुर्महाभूतव्यतिरिक्त भौतिकं रूपमिष्यमाणं न भूतहेतुकं स्यात् । न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् । तस्मादहेतुकत्वदोषप्रसङ्गान्न रूपकारणनिर्मुक्तं रूपमभ्युपेतव्यमिति ॥ 2 ॥
इदानीं रूपेणापि विनिर्मुक्तं यथा रूपकारणं नास्ति, तथा प्रतिपादयन्नाह- रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम् ।
यदि कार्यरूपविनिर्मुक्तं रूपकारणं स्यात्, तदा, यथा घटात्कुण्डं पृथक्सिद्धं घटहेतुकं न भवति, एवं कार्यात्पृथग्भूतं कारणमिष्यमाणम्-
अकार्यकं कारणं स्यात्
निर्हेतुकं स्यात् । कारणस्य हि कारणत्वे कार्यप्रवृत्तिर्हेतुः, कार्यनिरपेक्षाच्च कारणात् पृथक्सिद्धा नास्ति कार्यप्रवृत्तिः । यच्चाकार्यकं कारणं तन्निर्हेतुकत्वान्नरोरगतुरगविषाणवन्नास्त्येवेत्याह- नास्त्यकार्यं च कारणम् ॥ 3 ॥इति ॥ 3 ॥ अथ चेदं रूपस्य कारणमिष्यमाणं सति वा रूपे कारणत्वेनेष्यते ऽसति वा? उभयथा च नोपपद्यत इत्याह-
रूपे सत्येव रूपस्य कारणं नोपपद्यते । रूपे ऽसत्येव रूपस्य कारणं नोपपद्यते ॥ 4 ॥ सति वा संविद्यमाने रूपे किं रूपकारणेन प्रयोजनम्? असति असंविद्यमाने रूपे किं किं रूपकारणेन प्रयोजनम्, कस्य वा तत्कारणं परिकल्प्यते? तस्मादसत्यपि रूपे रूपकारणं नोपपद्यते ॥ 4 ॥ अथ स्यात्- यद्यपि एवं रूपकारणं न संभवति, तथापि कार्यं रूपं संविद्यते, सद्भावात् कारणमपि भविष्यतीति । स्यादेवम्, यदि कार्यं रूपं स्यात् । न त्वस्ति । य्स्मात्-
निष्कारणं पुना रूपं नैव नैवोपपद्यते ।
रूपकारणं यथा नास्ति तथोक्तम् । असति कारणे कुतो निर्हेतुकं कार्यं रूपं भवेत्? नैव नैवेत्यनेन सावधारणेन प्रतिषेधद्वयेन अहेतुकत्वादस्यात्यनिष्टतां दर्शयति । यतश्चैवं रूपं सर्वथा विचार्यमाणं न संभवति,
तस्मात्
तत्त्वदर्शी योगी रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत् ॥ 5 ॥सप्रतिघाप्रतिघसनिदर्शनानिदर्शनातीतानागतनीलपीतादिविकल्पान् रूपालम्बनान्न कांश्चित्परिकल्पयितुमर्हतीत्यर्थः ॥ 5 ॥ अपि च । इदं रूपकारणमिष्यमाणं सदृशं कार्यं निष्पादयेदसदृशं वा? उभयथा च नोपपद्यते इत्याह-
न कारणस्य सदृशं कार्यमित्युपपद्यते । न कारणस्यासदृशं कार्यमित्युपपद्यते ॥ 6 ॥
तत्र रूपकारणं कठिनद्रवोष्णतरलस्वभावम् । भौतिकं तु चक्षुराध्यात्मिकं पञ्चचक्षुर्विज्ञानाद्याश्रयकरूपप्रसादात्मकम् । बाह्यं तु रूपाद्यायतनादिकं चक्षुर्विज्ञानादिग्राह्यलक्षणं न महाभूतस्वभावमिति । अतो भिन्नलक्षणत्वान्निर्वाणवत्कार्यकारणयोः सादृश्यमेव नास्तीति
न कारणस्य सदृशं कार्यमित्युपपद्यते ।
न चापि सदृशानां शालिबीजादीनां परस्परकार्यकारणभावो दृष्टः, इत्यतः न कारणस्य सदृशं कार्यमित्युपपद्यते ।
तथापि
न कारणस्यासदृशं कार्यमित्युपपद्यते । भिन्नलक्षणत्वान्निर्वाणवदेवेत्यभिप्रायः ॥ 6 ॥ यथा चेदं रूपं विचार्यमाणं सर्वथा नोपपद्यते, एवं वेदनादयो ऽपि, इत्यतिदिशन्नाह-
वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः । सर्वेषामेव भावानां रूपेणैव समः क्रमः ॥ 7 ॥
वेदनादिकमपि सर्वं रूपविचारेणैव समं योज्यम् । यथैव ह्येकस्य धर्मस्य शून्यता प्रतिपादयितुमिष्टा माध्यमिकेन, तथैव सर्वधर्माणामपीति ॥ 7 ॥
अतः-
विग्रहे यः परीहारं कृते शून्यतया वदेत् । सर्वं तस्यापरिहृतं समं साध्येन जायते ॥ 8 ॥
तत्र परपक्षदूषणं विग्रहः । शून्यतया कारणभूतया रूपं निःस्वभावमित्येवं सस्वभाववादे प्रतिषिद्धे, यदि परः परिहारं ब्रूयात्- वेदनादयस्तावत्सन्ति, तद्वद्रूपमप्यस्तीति, तदेतत्सर्वं तस्यापरिहृतं भवति । यस्माद्वेदनादीनामपि सद्भावः साध्येन रूपसद्भावेन समो वेदितव्यः । यथा रूपं स्वकारणात्तत्त्वान्यत्वेन विचार्यमाणमसत्, एवं स्पर्शप्रत्यया वेदना, विज्ञानसहजा संज्ञा, अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं च विज्ञानं स्वकारणात्स्पर्शादेः तत्त्वान्यत्वादिना विचार्यमाणं नास्तीति सर्वमेतत्साध्यसमं भवति । यथा वेदनादयः साध्यसमाः, एवं लक्ष्यलक्षणकार्यकारणावयव्यवयवादयो ऽपि सर्व एव पदार्थाः रूपेण साध्येन समा इति कुतः परस्य परीहार संभवेत्? सर्वं वचनमस्य साध्यसमं भवतीति सर्वत्र शास्त्रे परीहारेण साध्यसमत्वं माध्यमिकेना ग्राहणीयमित्याचार्यः शिक्षयति ॥ 8 ॥
यथा च परपक्षदूषणे विहि ऽतोयं विधिः, एवं व्याख्यानकाले ऽपीत्याह-
व्याख्याने य उपालम्भं कृते शून्यतया वदेत् । सर्वं तस्यानुपालब्धं समं साध्येन जायते ॥ 9 ॥
व्याख्यानकाले ऽपि यः शिष्यदेशीयश्चोद्यमुपालम्भं कुर्यात्, तस्यापि तच्चोद्यमुपालम्भाख्यं पूर्ववत्साध्यसमं वेदितव्यम् । यथोक्तम्-
भावस्यैकस्य यो द्रष्टा द्रष्टा सर्वस्य स स्मृतः । एकस्य शून्यता यैव सैव सर्वस्य शून्यता ॥ इति ।
आर्यगगनगञ्जसमाधिसूत्रे ऽपि-
एकेन धर्मेण तु सर्वधर्मान् अनुगच्छते मायमरीचिसादृशान् । अग्राह्यतुच्छानलिकानशाश्वतान् सो बोधिमण्डं नचिरेण गच्छति ॥ इति ॥
समाधिराजसूत्रे ऽपि-
यथ ञात तयात्मसंज्ञ तथैव सर्वत्र पेषिता बुद्धिः । सर्वे च तत्स्वभावा धर्म विशुद्धा गगनकल्पाः ॥
एकेन सर्वं जानाति सर्वमेकेन पश्यति । कियद्बहु पि भावेत्वा न तस्योत्पद्यते मदः ॥ इति ।
इत्याचार्यचन्द्रकीर्तिपादोपरचित्तायां प्रसन्नपदायां मध्यमकवृत्तौ स्कन्धपरीक्षा नाम चतुर्थ प्रकरणम् ॥
5
धातुपरीक्षा पञ्चमं प्रकरणम् ॥
अत्राह- धातवः सन्ति प्रतिषेधाभावात् । उक्तं च भगवता- षड्धातुरयं महाराज पुरुषपुद्गल इत्यादि । ततश्च प्रवचनपाठाद्धातुवत्स्कन्धायतनान्येव सन्तीति । उच्यते । स्युः स्कन्धायतनानि यदि धातव एव स्युः । कथमित्याह-
नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् । अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥ 1 ॥
तत्र षड् धातव उक्ताः पृथिव्यप्तेजोवाय्वाकाशविज्ञानाख्याः । तत्राकाशमधिकृत्योच्यते दूषणं स्वरूपनिरूपणात् । इहाकाशस्यानावरणं लक्षणमुच्यते । यद् यस्मात्पूर्वमाकाशमनावरण लक्षणाल्लक्ष्यं स्यात्, तत्र लक्षणप्रवर्तनादनावरणलक्षणात्पूर्वं नाकाशं लक्ष्यरूपमिति । यदा चैवम्-
नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् । अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥
तथाहि अलक्षणं प्रवर्तताम् । तदभावे खपुष्पवन्नास्त्याकाशमित्याह-
अलक्षणो न कश्चिच्च भावः संविद्यते क्वचित् ।
इति । अत्राह- लक्षणप्रवृत्तिर्लक्ष्ये भवेत्, तत्सद्भावाल्लक्ष्यमप्यस्तीति । एतदपि नास्ति । यस्मात्- असत्यलक्षणे भावे क्रमतां कुह लक्षणम् ॥ 2 ॥ लक्षणात्पूर्वमलक्षणो भावो नास्तीत्युक्तम् । ततश्च असति असंविद्यमाने अलक्षणे लक्षणरहिते भावे कुह इदानीं लक्षणंप्रवर्ततामिति नास्ति लक्षणप्रवृत्तिः ॥ 2 ॥
अपि च । इदं लक्षणं प्रवर्तमानं सलक्षणे वा प्रवर्तेत अलक्षणे वा? उभयथा च नोपपद्यत इत्याह-
नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे । सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ॥ 3 ॥
तत्र अलक्षणे खरविषाणवन्न लक्षणप्रवृत्तिः । सलक्षणे ऽपि भावे न लक्षणप्रवृत्तिरूपपद्यते प्रयोजनाभावात् । किं हि लक्षणवतः प्रसिद्धस्य भावस्य पुनर्लक्षणकृत्यं स्यात्? इत्यनवस्था अतिप्रसङ्गश्चैवं स्यात् । न ह्यसौ कदाचिन्न सलक्षणः स्यादिति सदैव लक्षणप्रवृत्तिः प्रसज्येत । न चैतदिष्टम् । तस्मात्सलक्षणे ऽपि भावे न लक्षणप्रवृत्तिपरुपद्यते प्रयोजनाभावात् । तत्रैवं स्यात्- सलक्षणालक्षणाभ्यामन्यत्र प्रवर्तिष्यत इति । उच्यते-
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ।
किं कारणम्? असद्भावात् । यदि सलक्षणो नालक्षणः, अथालक्षणो न सलक्षणः । अतः सलक्षणश्च अलक्षणश्चेति विप्रतिषिद्धमेतत् । न च विप्रतिषिद्धं संभवति । तस्मादसंभवादेव सलक्षणे चालक्षणे च लक्षणप्रवृत्तिर्नोपपद्यते इति ॥ 3 ॥
अथापि स्यात्- यद्यपि न लक्षणप्रवृत्तिः, तथापि लक्ष्यमस्तीति एतदपि नास्ति । यस्मात्-
लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते ।
यदा लक्षणप्रवृत्तिरेव नास्ति तदा कथं लक्ष्यं स्यात्? नैव संभवतीत्यभिप्रायः ।
अत्राह- लक्षणप्रवृत्तिस्त्वया निषिद्धा न तु लक्षणम्, ततश्च विद्यते लक्ष्यम्, लक्षण सद्भावात् । उच्यते- लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः ॥ 4 ॥ लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते इति प्रतिपादितम् । तदा
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः । निराश्रयत्वात् ॥ 4 ॥ यदा चैवं लक्षणं नास्ति, तदा लक्षणसद्भावाद्विद्यते लक्ष्यमिति यदुक्तं तन्न यतश्चैतदेवम्-
तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते ।
इति निगमनम् ॥
अत्राह- यद्यापि लक्ष्यलक्षणे न स्तः, तथा (प्या)काशमस्ति, भावरूपं च भवदाकाश लक्ष्यं लक्षणं वा स्यात् । तस्माल्लक्ष्यलक्षणे अपि ष्ट इति । एतदप्ययुक्तमित्याह- लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते ॥ 5 ॥ लक्ष्यलक्षणे यथा न स्तः, तथोक्तं प्राक् । यदा अनयोरभावः, तदा लक्ष्यलक्षणरहितत्वादाकाशकुसुमवन्नास्त्याकाशम् ॥ 5 ॥
यद्याकाशं भावो न भवति, अभावस्तर्हि अस्तु? एतदपि नास्ति । यस्मात्-
अविद्यमाने भावे च कस्याभावो भविष्यति ।
यदा आकाशं भावो न भवति, तदा भावस्यासत्त्वे कस्याभावः कल्प्यताम्? वक्ष्यति हि-
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति । भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः ॥ इति ।
तस्माद् भावाभावादभावो ऽप्याकाशं न संभवति । रूपाभावश्चाकाशमिति व्यवस्थाप्यते । यद्यपि रूपं स्यात्तदा रूपाभाव आकाशमिति स्यात् । यदा च यथोक्तेन न्यायेन रूपमेव नास्ति, तदा कस्याभाव आकाशं स्यात्?
अत्राह- विद्येते एव भावाभावौ, तत्परीक्षकसद्भावात् । अस्ति च भवान् भावाभावयोः परीक्षकः, य एवाह-
अविद्यमाने भावे च कस्याभावो भविष्यति ।
इति । तस्माद् भवतो भावाभावपरीक्षकस्य सद्भावात् परीक्ष्यावपि भावाभावौ विद्येते इति । उच्यते । एतदप्ययुक्तम् । यस्मात्- भावाभावविधर्मा च भावाभावमवैति कः ॥ 6 ॥ स्यातां भावाभावौ यदि, तदा तयोः परीक्षको भावो व स्यादभावो वा । यदि भाव इष्यते, तस्य
लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते ।
इत्युक्तं दूषणम् । अथ अभावः,
अविद्यमाने भावे च कस्याभावो भविष्यति ।
इत्यत्रोक्तमेतद्दुषणम् । न च भावाभावविसदृशधर्मा कश्चित् तृतीयः पदार्थो ऽस्ति, यो ऽनयोरवगमक इति नास्ति भावाभावयोः परीक्षकः । अत एवोक्तं भगवता-
भावानभावानिति यः प्रजानति स सर्वभावेषु न जातु सज्जते । यः सर्वभावेषु न जातु सज्जते स आनिमित्तं भजते समाधिम् ॥ इति ।
तथा-
यो ऽपि च चिन्तयि शून्यकधर्मान् सो ऽपि कुमार्गपपन्नकु बलः । अक्षर कीर्तित शून्यक धर्माः ते च अनक्षर अक्षर उक्ताः ॥
शान्त पशान्त य चिन्तयि धर्मान् सो ऽपि च चिन्त न जातु न भूतः । चित्तवितर्कण सर्वि पपञ्चाः सूक्ष्म अचिन्तिय बुध्यथ धर्मान् ॥ इति विस्तरः ॥ 6 ॥ इदानीं प्रतिपादितमर्थं निगमयन्नाह- तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् । आकाशम्
इति । यथा चाकाशम्, एवम्- आकाशसमा धातवः पञ्च ये परे ॥ 7 ॥पृथिव्यादिधातवो ये पञ्च परे ऽवशिष्यन्ते, ते ऽपि आकाशवद् भावाभावलक्ष्यलक्षणपरिकल्पस्वरूपरहिताः परिज्ञेया इत्यर्थः ॥ 7 ॥ तदेवं पदार्थानां स्वभावे व्यवस्थिते अविद्यातिमिरोपहतमतिनयनतया अनादिसंसाराभ्यस्ततया भावाभावादिविपरीतदर्शना निर्वाणानुगाम्यविपरीतनैःस्वभाव्यदर्शनसन्मार्गपरिभ्रष्टाः
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः । भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् ॥ 8 ॥
द्रष्टव्योपशमं शिवलक्षणं सर्वकल्पनाजालरहितं ज्ञानज्ञेयनिवृत्तिस्वभावं शिवं परमार्थस्वभावम् । परमार्थमजरममरमप्रपञ्चं निर्वाणं शून्यतास्वभावं ते न पश्यन्ति मन्दबुद्धितया अस्तित्वं नास्तित्वं चाभिनिविष्टाः सन्त इति । यथोक्तमार्यरत्नावल्याम्-
नास्तिको दुर्गतिं याति सुगतिं यात्यनास्तिकः । यथाभूतपरिज्ञानान्मोक्षमद्वयनिश्रितः ॥ इति ॥
आर्यसमाधिराजे चोक्तं भगवता-
अस्तीति नास्तीति उमे ऽपि अन्ता शुद्धी अशुद्धीति इमे ऽपि अन्ता । तस्मादुमे अन्त विवर्जयित्वा मध्ये ऽपि स्थानं न करोति पण्डितः ॥
अस्तीति नास्तीति विवाद एषः शुद्धी अशुद्धीति अयं विवादः । विवादप्राप्त्या न दुखं प्रशाम्यते अविवादप्राप्त्या च दुःखं निरुध्यते ॥ इति । तस्मादसंभव एव यत्सांसारिकेण मार्गेण निर्वाणमधिगम्यत इति ॥ 8 ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ धातुपरीक्षा नाम पञ्चमं प्रकरणम् ॥
6
रागरक्तपरीक्षा षष्ठं प्रकरणम् ।
अत्राह- विद्यन्त एव स्कन्धायतनधातवः । कुतः? तदाश्रयसंक्लेशोपलब्धेः । इह यन्नास्ति, न तदाश्रयसंक्लेशोपलब्धिरस्ति बन्ध्यादुहितुरिव वन्ध्यासूनोः । सन्ति च रागादयः क्लेशाः संक्लेशनिबन्धनम् । यथोक्तं भगवता- बालो भिक्षवे अश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितः चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते । सो ऽभिनिविष्टः सन् रागमुत्पादयति । रक्तः सन् रागजं द्वेषजं मोहजं कर्माभिसंस्करोति कायेन वाचा मनसेति विस्तरः । उच्यते । स्युः स्कन्धायतनधातवो यदि रागादय एव क्लेशाः स्युः । इहायं रागः परिकल्प्यमानो बालपृथग्जनैः सति रक्ते नरे परिकल्प्येत असति वा? उभयथा च न युज्यत इत्याह-
रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः । तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति ॥ 1 ॥
तत्र रागः सक्तिरध्यवसानं सङ्गो ऽभिनिवेश इति पर्यायाः । रक्तो रागाश्रयः । स यदि रक्तो रागात्पूर्वं रागतिरस्कृतो रागरहितो भवेत्, तदा तं रागतिरस्कृतं रक्तं प्रतीत्य रागो भवेत् । एवं सक्ति रक्ते रागो भवेदिति युक्तम् । न त्वेवं संभवति, यद्रागरहितो रक्तः स्यात् । अर्हतामपि रागप्रसङ्गात् ॥ 1 ॥
यद्येवं सति रक्ते न रागः, असति तर्हि रक्ते रागो ऽस्तु । एतदप्ययुक्तमित्याह-
रक्ते ऽसति पुना रागः कुत एव भविष्यति ।
यदा सति रक्ते रागो नास्ति, तदा कथमसति रक्ते निराश्रयो रागः सेत्स्यति? न हि असति फले तत्पक्वता संभवतीति ॥
अत्राह- यद्यपि त्वया रागो निषिद्धः, तथापि रक्तो ऽस्ति, अप्रतिषेधात् । न च रागमन्तरेण रक्तो युक्तः, तस्मादयमप्यस्तीति । उच्यते । स्याद्रागो यदि रक्तः स्यात् । यस्मादयं रक्त इष्यमाणः सति वा रागे परिकल्प्येत, असति वा? उभयथा च नोपपद्यते इत्याह- सति वासति वा रागे रक्ते ऽप्येष समः क्रमः ॥ 2 ॥ तत्र यदि सति रागे रक्तः परिकल्प्येत, तत्रापि एष एव रागानुपपत्तिक्रमो ऽनन्तरोक्तो रक्ते ऽपि तुल्यः ।
रक्ताद्यदि भवेत्पूर्वं रागो रक्ततिरस्कृतः ।
इत्यादि । अथासति रागे रक्त इष्यते, एतदप्ययुक्तम् । यस्मात्-
रागे ऽसति पुना रक्तः कुत एव भविष्यति ।
इति । तस्माद्रक्तो ऽपि नास्ति । रागरक्ताभावाच्च स्कन्धादयो ऽपि न सन्तीति ॥ 2 ॥
अत्राह- नैव हि रागरक्तयोः पौर्वापर्येण संभवो यत इदं दूषणं स्यात्, किं तर्हि रागरक्तयोः सहैवोद्भवः । चित्तसहभूतेन रागेण हि चित्तं रज्यते, तच्च रक्तमिति । अतो विद्येते एव रागरक्ताविति । उच्यते । एवमपि-
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः ।
सहोत्पादो ऽपि न युक्तो रागरक्तयोः । यस्मात्- भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥ 3 ॥सहभावात् सव्येतरगोविषाणवदित्यभिप्रायः ॥ 3 ॥ अपि च । अनयो रागरक्तयोः सहभावः एकत्वे परिकल्प्येत पृथक्त्वे वा? तत्र यदि एकत्वे, तन्न युज्यते । यस्मात्
नैकत्वे सहभावो ऽस्ति
कस्मात्पुनर्नास्तीत्याह-
न तेनैव हि तत्सह ।
न हि रागस्वात्मा रागादव्यतिरिक्तो रागेण सहेति व्यपदिश्यते ॥
इदानीं पृथक्त्वे ऽपि सहभावाभावमाह- पृथक्त्वे सहभावो ऽथ कुत एव भविष्यति ॥ 4 ॥न हि पृथग्भूतयोरालोकान्धकारयोः संसारनिर्वाणयोर्वा सहभावो दृष्ट इति ॥ 4 ॥ किं चान्यत्-
एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः । पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः ॥ 5 ॥
यदि एकत्वे सहभावः स्यात्, तदा यत्र यत्रैकत्वं तत्र तत्र सहभाव इत्येकस्यापि सहभावः स्यात् । पृथक्त्वे ऽपि सहभावे इष्यमाणे यत्र यत्र पृथक्त्वं तत्र तत्र सहभाव इति अश्वादिव्यतिरिक्तस्य पृथगवस्थितस्य गोः असहायस्य सहभावः स्यात् ॥ 5 ॥
किं च-
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः । सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः ॥ 6 ॥
पृथक्त्वे सहभावश्च रागरक्तयोः परिकल्प्यते । किमनयोः सिद्धः पृथक्पृथग्भावः? किं रागनिरपेक्षो रक्तः सिद्धो यतस्तयोः सहभावः स्यात्? पृथक्पृथक्सिद्धयोरेव हि गवाश्वयोः सहभावो दृष्टः । न त्वेवं रागरक्तौ पृथक्पृथक्सिद्धाविति नास्त्यनयोः सहभावः ॥ 6 ॥
अथवा । पृथक्पृथगसिद्धयोर्न सहभाव इति कृत्वा-
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः ।
परिकल्प्यते भवता, किमिदानीं सहभावेनाकिंचित्करेण परिकल्पितेनेत्याह- सहभावं किमर्थं तु परिकल्पयसे तयोः ॥ 7 ॥ रागरक्तयोः सिद्धयर्थं सहभावः परिकल्प्यते । सच पृथक्पृथगसिद्धयोर्नास्तीति पृथक्पृथक् सिद्धिरभ्युपगम्यते त्वया । नन्वेवं सति सिद्धत्वात्किमनयोः सहभावेन कृत्यम्?
अथ-
पृथङ् न सिध्यतीत्येवं सहभावं विकाङ्क्षसि ।
पृथक्पृथग् रागरक्तयोः सिद्धिर्नास्तीति कृत्वा यद्यनयोः सहभावमिच्छसि, स च पृथक्पृथगसिद्धयोर्नास्तीति- सहभावप्रसिद्धयर्थ पृथक्त्वं भूय इच्छसि ॥ 8 ॥नन्वेवं सति इतरेतराश्रयायां सिद्धौ स्थितायां कस्येदानीं सिद्धौ सत्यां कस्य सिद्धिरस्तु? ॥ 8 ॥ यावता-
पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति । कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि ॥ 9 ॥
नास्त्येव स पृथग्भावः सहभावानपेक्षो यस्मिन् पृथग्भावे सति सहभावसिद्धिः स्यादित्यसंभावयन्नाह- कतमस्मिन्पृथग्भावे सहभावं सतीच्छसि ॥ 9 ॥ तदेवं यथोदितविचारपरामर्शेन रागरक्तयोरसिद्धिं निगमयन्नाह-
एवं रक्तेन रागस्य सिद्धिर्न सह नासह ।
इति । यथा च रागरक्तयोर्न पौर्वापर्येण सिद्धिः नापि सहभावेन, एवं सर्वभावानामपीत्यतिदिशन्नाह- रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥ 10 ॥इति द्वेषद्विष्टमोहमूढादीनां रागरक्तवदसिद्धिर्योज्यते ॥ 10 ॥ अत एवोक्तं भगवता-
यो रज्येत यत्र वा रज्येत येन वा रज्येत, यो दुष्येत यत्र वा दुष्येत येन वा दुष्येत, यो मुह्येत यत्र वा मुह्येत येन वा मुह्येत, स तं धर्म न समनुपश्यति तं धर्म नोपलभते । स तं धर्ममसमनुपश्यन्ननुपलभमानो ऽरक्तो ऽदुष्टो ऽमूढो ऽविपर्यस्तचित्तः समाहित इत्युच्यते । तीर्णः पारग इत्युच्यते । क्षेमप्राप्त इत्युच्यते । अभयप्राप्त इत्युच्यते । यावत् क्षीणास्रव इत्युच्यते । निःक्लेशो वशीभूतः सुविमुक्तचित्तः सुविमुक्तप्रज्ञ आजानेयो महाभागः कृतकृत्यः कृतकरणीयः अपहतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः सर्वचेतोवशितापरमपारमिप्राप्तः श्रमण इत्युच्यते । इति विस्तरः ॥
तथा-
ये रागदोषमदमोहसभाव ज्ञात्वा संकल्पहेतुजनितं वितथप्रवृत्तम् । न विकल्पयन्ति न विरागमपीह तेषाम् [आशु] सर्वभवभावविभावितानाम् ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचित्तायां प्रसन्नपदायां मध्यमकवृत्तौ रागरक्तपरीक्षा नाम षष्ठं प्रकरणम् ॥
7
संस्कृतपरीक्षा सप्तमं प्रकरणम् ।
अत्राह- विद्यन्त एव संस्कृतस्वभावाः, स्कन्धायतनधातवः उत्पादादिसंस्कृतलक्षणसद्भावात् । उक्तं हि भगवता- त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि । संस्कृतस्य भिक्षवः उत्पादो ऽपि प्रज्ञायते, व्ययो ऽपि, स्थित्यन्यथात्वमपीति । न च अविद्यमानस्य खरविषाणस्येव जात्यादिलक्षणमस्ति । तस्मात्संस्कृतलक्षणोपदेशाद्विद्यन्त एव स्कन्धायतनधातवः इति । उच्यते । स्युः स्कन्धायतनधातवः संस्कृतस्वभावास्तावकेन मतेन, यदि जात्यादिलक्षणमेव भवेत् । इहायमुत्पादः संस्कृतलक्षणत्वेनेष्यमाणः संस्कृतो वा तल्लक्षणत्वेनेष्यते, असंस्कृतो वा? तत्र-
यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी ।
त्रयाणां लक्षणानां समाहारस्त्रिलक्षणी । इयं च उत्पादस्थितिभङ्गसमाहारस्वभावसर्वसंस्कृताव्यभिचारिणीति कृत्वा यदि उत्पादः संस्कृत इति परिकल्प्यते, तदा उत्पादे ऽपि त्रिलक्षणी प्रसज्यते । ततश्च रूपादिवल्लक्ष्यत्वमुत्पादस्य स्यात्, न संस्कृतलक्षणत्वम् । अथोत्पादे ऽपि त्रिलक्षणी नेष्यते, तदा त्रिलक्षणीरहितत्वादाकाशवत् संस्कृतलक्षणत्वमस्यावहीयते इत्याह- अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् ॥ 1 ॥ इति । नैतत्संस्कृतलक्षणमित्यभिप्रायः ॥ 1 ॥
अपि च । इमे उत्पादादयः संस्कृतस्य लक्षणत्वेन परिकल्प्यमाना व्यस्ता वा पृथग्वा लक्षणत्वेन परिकल्प्येरन्, समस्ता वा सहभूता वा? उभयथा च न युज्यत इत्याह-
उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि । संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा ॥ 2 ॥
तत्र व्यस्ता लक्षणकर्मणि न युज्यन्ते । यदि उत्पादकाले स्थितिभङ्गौ न स्यातां तदा स्थितिभङ्गरहितस्य आकाशस्येव संस्कृतलक्षणत्वेनानुपपद्य एवोत्पादः । अथ स्थितिकाले उत्पादभङ्गौ न स्तः, तदा तद्रहितस्य स्थितिः स्यात् । उत्पादभङ्गरहितश्च पदार्थो नास्त्येवेति न अस्याविद्यमानस्य खपुष्पवत् स्थितिर्युज्यते । किं च । स्थितियुक्तस्य पश्चादनित्यतयापि योगो न स्यात्, तद्विरोधिधर्माक्रान्तत्वात् । अथ स्यात्- पूर्वं शाश्वतो भूत्वा पश्चादशाश्वत इति, न चैकपदार्थः शाश्वतश्चाशाश्वतश्च युक्त इति नोत्पादभङ्गरहितस्य स्थितिः । तथा यदि भङ्गकाले स्थित्युत्पादौ न स्याताम्, एवमप्यनुत्पन्नस्य स्थितिरहितस्य खपुष्पस्य विनाशो ऽपि नास्तीति । एवं तावदुत्पादादयो व्यस्ता नालं लक्षणकर्मणि नालं न पर्याप्ता इत्यर्थः ॥
इदानीं समस्ता अपि न युज्यन्त इत्याह-
समस्ताः स्युरेकत्र कथमेकदा ।
एकत्र पदार्थे, एकस्मिन् काले, परस्परविरुद्धत्वाद्रागवैराग्यवत्, आलोकान्धकारवद्वा न युज्यन्त इत्यभिप्रायः । यस्मिन्नेव क्षणे पदार्थो जायते, तस्मिन्नेव तिष्ठति विनश्यति चेति कः सचेताः प्रतिपद्येत? तस्मात्समस्तानामपि उत्पादादीनां संस्कृतस्य लक्षणकर्मणि नास्ति सामर्थ्यम् ॥ 2 ॥
अथ यदुक्तं ऽयदि संस्कृत उत्पादःऽ; इत्यादि, तेन यदि उत्पादादीनां त्रिलक्षणी प्राप्ता प्रसक्ता, ततः को दोषः? अथासंस्कृतः, एवमप्यदोष इति । उच्यते-
उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम् अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः ॥ 3 ॥
ननु च पक्षद्वये ऽपि विहित एव दोषः, तत्र किं पुनरुक्ताभिधानेनेति । सत्यमुक्तो दोषः स खलु नाचार्येण, किं तर्हि वृत्तिकारेण । अथ पूर्वप्रतिज्ञातमेव दूषणान्तराभिधानेन स्पष्टीकरणार्थं पुनराचार्यो ऽभिहितवान् । यदि उत्पादस्थितिभङ्गानामन्यदुत्पादादिकं संस्कृतलक्षणमिष्यते, तदा तेषामप्यन्यत्, तेषामप्यन्यत्, इत्यपर्यवसानदोषः स्यात् । सति च अपर्यवसानदोषे, किं पूर्वं स्याद् यत उत्तरकालमपरं भवेदिति व्यवस्थाभावादसंभव एवं उत्पादादीनामित्यभिप्रायः । अथवा, पूर्वं मुख्यत्वादुत्पादस्यैव दूषणमुक्तम्, अधुना तु सामान्येनेति । नास्ति चेत्ते न संस्कृता इति गतार्थमेतत् ॥ 3 ॥
अत्राहुः सांमितीयाः- सन्ति चोत्पादादीनामुत्पादादयः, न च अनवस्थाप्रसङ्गः, लक्षणानुलक्षणानां परस्परनिष्पादकत्वात् । यस्मादिह संस्कृतधर्मः कुशलः क्लिष्टो वा उत्पद्यमानः आत्मना पञ्चदशः उत्पद्यते । स धर्मस्तस्य चोत्पादः समन्वागमः स्थितिर्जरा अनित्यता । यद्यसौ धर्मः क्लिष्टो भवति, तस्य मिथ्याविमुक्तिः । अथ शुभः, तस्य सम्यग्विमुक्तिः । यदि नैर्याणिको भवति तस्य नैर्याणिकता । अथ अनैर्याणिकः, तस्य अनैर्याणिकता । इत्येष परिवारः । इदानीमुत्पाद स्यापर उत्पादः यावदनैर्याणिकतानैर्याणिकतेत्येष परिवारस्य परिवारः । तत्र यो ऽयं मौल उत्पाद स आत्मानं विहाय अन्यांश्चतुर्दश धर्मान् जनयति । उत्पादोत्पादसंज्ञकस्तु अनुलक्षणभूत उत्पादो मौलमेवोत्पादं जनयति । एवं यावदनैर्याणिकता चतुर्दश धर्मान् न निर्याणयति, न तन्निर्वाणं प्रापयतीत्यर्थः । अनैर्याणिकतानैर्याणिकता तु न निर्याणयति । तदेवमुत्पादादीनामनवस्थां परिहरन्नाह-
उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् । उत्पादोत्पादसुत्पादो मौलो जनयते पुनः ॥ 4 ॥
द्विविधो ह्युत्पादः । एको मौल उत्पादः, अपरश्च उत्पादोत्पादसंज्ञकः, उत्पादस्योत्पाद इति कृत्वा । तत्र यो ऽयमुत्पादोत्पादसंज्ञक उत्पादः, स मूलोत्पादस्य केवलमुत्पादकः । तं चेदानीमुत्पादोपादाख्यमुत्पादं (pp_61) मौल उत्पादो जनयति । तदेवं परस्परनिर्वर्तनादस्ति च त्रिलक्षणी उत्पादादीनाम्, न चानवस्थाप्रसङ्ग इति ॥ 4 ॥
अत्रोच्यते- उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि । मौलेनाजनितस्तं ते स कथं जनयिष्यति ॥ 5 ॥ यदि तव उत्पादस्योत्पादो मूलोत्पादस्य जनक इति मतम्, स कथमिदानीं मौलेनोत्पादेनानुत्पादितः सन् उत्पादोत्पादो मौलं जनयिष्यति? ॥ 5 ॥ अथ मन्यसे- उत्पादित एव मौलेनोत्पादेन उत्पादोत्पादो मौलं जनयिष्यति, एतदप्यसदित्याह-
स ते मौलेन जनितो मौलं जनयते यदि । मौलः स तेनाजनितस्तमुत्पादयते कथम् ॥ 6 ॥
स उत्पादोत्पादसंज्ञक उत्पादो मौलेन जनितो यदि मौलं जनयति, स मौल उत्पादोत्पादेनाजनितो ऽविद्यमानः कथमुत्पादोत्पादं जनयिष्यति? तस्मान्मौलेन जनितः सन् उत्पादोत्पादो मौलं जनयतीते न युज्यते । ततश्च परस्परनिर्वर्त्यनिर्वर्तकत्वाभावात्स एव अनवस्थाप्रसङ्ग इति नास्त्युत्पादः ॥ 6 ॥
अत्राह- उत्पद्यमान एव मूलोत्पाद उत्पादोत्पादमुत्पादयति, स एवोत्पादोत्पादो मूलोत्पादं जनयिष्यतीति । उच्यते-
अयमुत्पद्यमानस्ते काममुत्पादयेदिमम् । यदीममुत्पादयितुमजातः शक्नुयादयम् ॥ 7 ॥
काममयं मूलोत्पाद उत्पद्यमान उत्पादयेदुत्पादम्, यद्ययमेव अजातः शक्नुयादपरमजातमुत्पादयितुम् । उत्पद्यमानो हि नाम अनागतः । स च अजातः कथमुत्पादयिष्यतीति न युक्तमेवैतदित्यभिप्रायः एवमुत्पादोत्पादे ऽपि वाच्यम् ॥ 7 ॥
अत्राह- नैव हि उत्पादस्यापर उत्पादो ऽस्ति यतो ऽनवस्थाप्रसङ्गः स्यात् । किं तर्हि-
प्रदीपः स्वपरात्मानौ संप्रकाशयिता यथा । उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा ॥ 8 ॥ यथा प्रदीपः प्रकाशस्वभावत्वादात्मानं प्रकाशयति घटादींश्च, एवमुत्पादो ऽप्युत्पादस्वभावत्वादात्मानमुत्पादयिष्यति परं चेति ॥ 8 ॥ उच्यते । स्यादेतदेवं यदि प्रदीपः स्वपरात्मानौ संप्रकाशयेत् । न चैवम् । यस्मात्-
प्रदीपे नान्धकारो ऽस्ति यत्र चासौ प्रतिष्ठितः । किं प्रकाशयति दीपः प्रकाशो हि तमोवधः ॥ 9 ॥
इह प्रकाशो नाम तमस्य (सो?) वधः । तमश्च प्रदीपस्वात्मनि तावन्न संभवति विरोधात्, यत्तमो निघ्नतः स्वात्मप्रकाशत्वं स्यात् । न चापि प्रदीपो यत्र देशे तिष्ठति तत्र तमो ऽस्ति, यत्तमो निघ्नतः प्रदीपस्य परप्रकाशकत्वं स्यात् । अतो ऽपि नास्ति प्रदीपस्य स्वपरात्मप्रकाशकत्वम् । यदा चैवम्, तदा प्रदीपवदुत्पादस्य स्वपरात्मोत्पादकत्वं न संभविष्यति, इति अयुक्तमेतत् ॥ 9 ॥
अत्राह- यदेतदुक्तं प्रदीपे नान्धकारो ऽस्तीति, एतदसत्यन्धकारधाते युक्तमेव वक्तुम् । यस्मात्तु उत्पद्यमानेनैव प्रदीपेन तमो निहतम्, तत्र प्रदीपे नान्धकारो ऽस्ति, यत्र च प्रदीपो ऽस्ति, तत्राप्यन्धकारो नास्तीति युज्यते । यदि प्रदीपेन नान्धकारधातः कृतः, तदा अनुत्पन्ने इव प्रदीपे उत्पन्ने ऽपि घटादयो नोपलभ्येरन्, अन्धकारघाताभावात्प्रागवस्थामिव । तस्मादस्त्येव अन्धकारघातलक्षणं प्रकाशनं प्रदीपस्य । तच्चानेन उत्पद्यमानेन प्रदीपेन कृतमिति । उच्यते-
कथमुत्पद्यमानेन प्रदीपेन तमो हतम् । नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा ॥ 10 ॥
इह आलोकान्धकारयोर्यौगपद्याभावात् प्राप्तेरभावः । यदा चैवं प्राप्तेरभावः, तदा कथं केन प्रकारेणेदानीमुत्पद्यमानेन प्रदीपेन तमो हतमिति युक्तं परिकल्पयितुम्? यस्माच्च एवमुत्पद्यमान प्रदीपः तमो न प्राप्नोति, तस्मान्नैव अप्राप्तत्वात्प्रदीपः किंचिदपि प्रकाशयतीत्यवसीयताम् ॥ 10 ॥
अथ मन्यसे- यथा अप्राप्तामेव अविद्यां ज्ञानं निहन्ति, अप्राप्तमेव रूपं चक्षुः पश्यति अप्राप्तमेव अयः अयस्कान्तो मणिराकर्षति, एवमेव अप्राप्तमेवान्धकारं प्रदीपो निहनिष्यतीति एतदप्यसारमित्याह-
अप्राप्यैव प्रदीपेन यदि वा निहतं तमः । इहस्थः सर्वलोकस्थं स तमो निहनिष्यति ॥ 11 ॥
यदि अप्राप्यैव प्रदीपेन तमो निहतम्, एवं सति, इहस्थ एव प्रदीपः सर्वलोकस्थं तमो निहनिष्यति, अप्राप्तत्वात्समीपस्थमिवेत्यभिप्रायः । एतेन न्यायेन ज्ञानेन अविद्याघातः, चक्षुषा रूपदर्शनम्, अयस्कान्तमणिना अयआकर्षणमिव इत्येवमादिकं साध्यसमं ज्ञेयम् ॥
अथ अप्राप्तावपि सत्यामयस्कान्तमणिप्रभृतीनां योग्यदेशावस्थानामेव स्वकार्यकृत्वं देभविष्यतीति चेत्, तदपि न युक्तम् । अप्राप्तौ हि सत्यां विप्रकृष्टदेशान्तरावस्थितवदव्यवहितशान्तरावस्थित वच्च अप्राप्तत्वाद् योग्यदेशावस्थितानामपि योग्यदेशावस्थितत्वं न युक्तमिति कुतो योग्यदेशावस्थितानां स्वकार्यकृत्त्वं प्रसेत्स्यति?
दृष्टमेतल्लोकत इति चेन्नैतदेवम् । यथा हि भवान् परिकल्पयति न तथा लोके दृष्टम् । यस्मात् न लोकः प्राप्त्यप्राप्तिचिन्तामेवमादौ विषये ऽवतार्य प्रदीपादीनां प्रकाशकत्वादिकं कल्पयति । यथोदितं तु विचारमनवतार्य प्रदीपेन तमो हतम्, चक्षुषा रूपदर्शनम्, अयस्कान्तमणिना अयआकर्षणम् इत्यादि इच्छति । पश्यतु वा लोक एवम् । तत्त्वविचारकाले तु लोकस्याप्रामाण्यान्न तेन बाधा शक्यते कर्तुम् । एवं तावदप्राप्य प्रकाशनमयुक्तम् । प्राप्तावपि विषयादिग्रहणमयुक्तमेव । प्राप्तिर्हि एकत्वे सति भवति । यदा चैकत्वं तदा स्वरूपवद्दर्शनाकर्षणादिकं नास्ति ॥ यद्यपि चेयं प्राप्त्यप्राप्त्यादिचिन्ता लौकिकव्यवहारे नावतरतीति निरुपपत्तिकत्वेन मृषार्थत्वादस्य, तथापि तत्त्वविचारे ऽवतार्या, मा भूत्परमार्थतो ऽपि निरुपपत्तिकपक्षाभ्युपगम इत्यलं प्रसङ्गेन ॥ 11 ॥ यदि च स्वपरात्मानौ प्रदीपः प्रकाशयतीति परिकल्प्यते त्वया, तमसो ऽपि तर्हि प्रतिपक्ष भूतस्य स्वपरात्मनोः प्रच्छादनं प्रकल्प्यतमित्याह-
प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि । तमो ऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् ॥ 12 ॥
प्रतिद्वन्द्वित्वात्प्रदीपवत् तमो ऽपि स्वपरात्मगतं व्यापारं करिष्यति, ततश्च परवदात्मानमपि छादयिष्यति । यदि च आत्मानं छादयेत्तमः, तस्यैवानुपलब्धिः स्यात्, घटादिवत्तमसा प्रच्छादितत्वात् । अत एवोक्तमार्योपालिपृच्छायाम्-
इह सासनि सूरमणीये प्रव्रजथा गृहिलिङ्ग जहित्वा । फलवन्तु भविष्यथ श्रेष्ठो एषु निदेशितु कारुणिकेन ॥
प्रव्रजित्वा गृहिलिङ्ग जहित्वा सर्वफलस्य भविष्यति प्राप्तिः । पुन धर्मसभाव तुलित्वा सर्वफलान फलान च प्राप्तिः ॥
अलभन्त फलं तथ प्राप्तिं आश्चरियं पुन जायति तेषाम् । अहो ऽतिकारुणिको नरसिंहो सुष्ठुपदेशित युक्ति जिनेन ॥ इति ॥
तथार्यरत्नकूटसूत्रे-
यथा हि दीपो लयने चिरस्य कृतो हि गेहे पुरुषेण केनचित् । तत्रान्धकारस्य न भोति एवं चिरस्थितो नाहमितो गमिष्ये ॥
तमोन्धकारस्य न शक्तिरस्ति कृते प्रदीपे न विगच्छनाय । प्रतीत्य दीपं च विनश्यते तम उभयं पि शून्यं न च किं च मन्यति ॥
ज्ञानं तथा आर्य प्रतीत्य नास्रवं अज्ञान क्लेशोपचितं विगच्छति । संपर्क तेषां न कदाचि विद्यते ज्ञानस्य क्लेशस्य च नित्यकालम् ॥
ज्ञानं न कल्पेति अञानु नो भवेत् ज्ञानं प्रतीत्यैव विनश्यते तमो । भयं पि अग्राह्य खपुष्पसंनिभं ज्ञानं तथाज्ञानु भयं पि शून्यम् ॥ इति ॥ 12 ॥
किं चान्यत्- इहायमुत्पादो यद्यात्मानमुत्पादयेत्, स उत्पन्नो वा स्वात्मानमुत्पादयेत्, अनुत्पन्नो वा? उभयथा च नोपपद्यते इत्याह-
अनुत्पन्नो ऽयमुत्पादः स्वात्मानं जनयेत्कथम् । अथोत्पन्नो जनयते जाते किं जन्यते पुनः ॥ 13 ॥
यदि अनुत्पन्न उत्पादः स्वात्मानमुत्पादयेत्, मण्डूकजटाशिरोमणिरप्यात्मानमुत्पादयेत् । अथ उत्पन्न उत्पादयेत्, किमुत्पन्नस्यापरेणोत्पादेन प्रयोजनमिति । एवं तावदुत्पाद आत्मानं नोत्पादयति ॥ 13 ॥
इदानीं परमपि यथा नोत्पादयति तथा प्रतिपादयन्नाह-
नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथंचन । उत्पद्यते तथाख्यातं गम्यमानगतागतैः ॥ 14 ॥
यदि हि किंचिदुत्पद्येत तदुत्पाद उत्पादयेत् । न तु किंचिदुत्पद्यते ऽध्वत्रये ऽप्युत्पादासंभवात् । एतच्च गम्यमानगतागतैः प्रागेवोक्तम् । तत्र यथा गतं न गम्यते, अतीतवर्तमानयोर्विरोधात् । नाप्यगतं गम्यते, अनागतवर्तमानयोर्विरोधात् । नापि गम्यमानं गम्यते, गतागतव्यतिरिक्तगम्यमानानुपलम्भादित्युक्तम् । एवमुत्पद्यमानो भावो नोत्पद्यते, उत्पन्नानुत्पन्नव्यतिरेकेणोत्पद्यमानाभावात् । उत्पन्नो ऽपि नोत्पद्यते, अतीतवर्तमानयोर्विरोधात् । उत्पन्न इत्युपरतोत्पत्तिक्रिय उच्यते, उत्पद्यत इति वर्तमानक्रियाविष्टः । ततश्च उत्पन्न उत्पद्यते इत्युच्यमाने अतीतवर्तमानयोरेककालता स्यात् । अनुत्पन्नो ऽपि नोत्पद्यते, अनागतवर्तमानयोर्विरोधात् । तस्मादुत्पादः परमुत्पादयतीति न युक्तम् ॥ 14 ॥
अत्राह- उत्पद्यमानमेवोत्पद्यते नोत्पन्नं नाप्यनुत्पन्नमिति । अथ मन्यसे- उत्पन्नानुत्पन्नव्यतिरेकेण उत्पद्यमानासंभवान्नोत्पद्यमानमुत्पद्यत इति, एतच्च नास्ति, यस्मादिह उत्पत्तिक्रियायुक्तमुत्पद्यमानमिति व्यपदिश्यते । तस्मादुत्पत्तौ सत्यामुत्पत्तिं प्रतीत्य उत्पद्यमानसिद्धेः उत्पद्यमानमेवोत्पद्यते, तच्चोत्पद्यमानमुत्पाद उत्पादयतीति । उच्यते-
उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा । कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥ 15 ॥
यदुक्तम्- उत्पत्तिं प्रतीत्य उत्पद्यमानं भवति, तच्चोत्पद्यत इति । ननु । विशेषत एतद्वक्तव्यं स्यात्- अस्योत्पत्तिं प्रतीत्य इदं नामोत्पद्यमानं भवतीति । न चैवमुच्यते । न हि तदुत्पद्यमानं विशेषतो निर्धारयितुं शक्यते इदं तदुत्पद्यमानमिति, अनुत्पन्नत्वात्तन्निमित्तग्रहणतः । ततश्च उत्पद्यमानासंभवादुत्पत्तिक्रियापि नास्तीति । कथमसत्यामुत्पत्तौ तां प्रतीत्य उत्पद्यमानं स्यात्? तस्मादुत्पद्यमानमुत्पद्यते, तच्च उत्पाद उत्पादयतीत्ययुक्तम् ॥ 15 ॥
अत्राह- अहो बत अहमतीव भवतो दृष्टादृष्टपदार्थनिरपेक्षादत्यन्तनास्तिकाद्विभेमि, यो हि नाम भवांस्तथागतप्रवचनव्याख्यानव्याजेन दूषणमात्रकौशलमेवात्मनः प्रकटयन् परमर्षिगदितमिदं प्रत्ययताप्रतीत्यसमुत्पादलक्षणं परमार्थसत्यं तथागतानां निहन्ति । इह भगवता तथागतेन प्रकृतीश्वरस्वभावकालाणुनारायणजैमिनिकणादकपिलादितीर्थकरकर्तृवादनिरासेन सर्वभावानां तत्त्वमादर्शितम्, यदुत अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते, यदुत अविद्याप्रत्ययाः संस्काराः इत्याद्यविपरीतं प्रतीत्यसमुत्पादं प्रकटयता । तस्य च त्वया नोत्पद्यमानं नोत्पन्नं नानुत्पन्नमित्यादिना दूषणं विदधता तथागतजनन्याः प्रतीत्यसमुत्पत्तिमातुर्वध एवाचरित इत्यलं भवता सर्वनास्तिकेन त्वयेति । उच्यते । नाहं सकलदशबलजननीं प्रतीत्यसमुत्पत्तिमातरं निहन्मि । भवानेव तु परमगम्भीरप्रतीत्यसमुत्पादाधिमुक्तिविरहाद्विपरीतं तदर्थमवधार्य अस्माकमेव अधिलयं करोति । ननु च इदं प्रतीत्येदं भवतीत्येवमभिधानेन भगवता तथागतेन निःस्वभावत्वमेव सर्वधर्माणां स्पष्टमावेदितम् । यस्मात्-
प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः ।
यो हि पदार्थो विद्यमानः स सस्वभावः स्वेनात्मना स्वं स्वभावमनपायिनं बिमर्ति । स संविद्यमानत्वान्नैवान्यत्किंचिदपेक्षते, नाप्युत्पद्यते, इति कृत्वा सस्वभावभावाभ्युपगमे सति कुतः प्रतीत्यसमुत्पाद इति भवतेव सस्वभावतां भावानामभ्युपगच्छता सर्वथा प्रतीत्यसमुत्पाद एव बाधितो भवति । ततश्च परमधर्मबुद्धदर्शनमपि बाधितं भवति- यः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति, यो धर्मं पश्यति स बुद्धं पश्यतीत्यागमात् । मया तु यत्प्रतीत्य बीजाख्यं कारणं यद्भवत्यङ्कुराख्यं कार्यम्, तच्च उभयमपि शान्तं स्वभावविरहितं प्रतीत्यसमुत्पन्नं प्रतिपादयता सर्वथा भगवतां तथागतानां प्रतीत्यसमुत्पत्तिमाता द्योतिता भवति । यत एवम्- तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च ॥ 16 ॥इति स्फुटमवसीयताम् ॥ 16 ॥ अत्राह- यदुक्तम्-
उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा । कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥
इति, तदयुक्तम् । यस्मादिदमुत्पद्यमानमित्येव संभवति । तथा हि घटोत्पत्तिं प्रतीत्य घट उत्पद्यमानो भवति, तं च उत्पद्यमानमुत्पाद उत्पादयतीत्युच्यते । एतदप्ययुक्तम् । यस्मात्-
यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित् । उत्पद्येत स किं तस्मिन् भाव उत्पद्यते ऽसति ॥ 17 ॥
यदि कश्चिदनुत्पन्नः उत्पादात्पूर्वं घटो नाम क्वचित्संविद्येत, स उत्पत्तिक्रियां प्रतीत्योत्पद्येत न चैवं कश्चिदुत्पादात्पूर्वं क्वचिदस्ति । तस्मिन्नसति घटे किमुत्पद्यते?
अथ स्यात्- यद्युत्पादात्पूर्वं घटो नास्ति, तथापि उत्पन्नः सन् घटसंज्ञां प्रतिलप्स्यते, तद्भाविन्या संज्ञया न दोष इति । एतदप्ययुक्तम् । यदि हि उत्पत्तिक्रिया प्रवर्तेत, तदा वर्तमानीभूतो भावो घटाख्यां प्रतिलभेत । यदा तु अनागतभावासंबन्धेन क्रियाया अप्रवृत्तिः, तदा कुतो वर्तमानता? अथ अघटाश्रयेण क्रिया प्रारभ्येत, तद्वक्तव्यम्- यो ऽसौ अघटः, स किं भवितुर्महति पटः, उत नैव किंचित्? यदि पट उत्पद्यमानः स कथमुत्पन्नः सन् घटो भविष्यतीति अथ नैवं किंचित्, कथं तदाश्रया क्रिया क्रिया प्रवर्तते? कथं वा स उत्पन्नः सन् घटो भवेत्? इति सर्वथा भावितत्वकल्पनाप्ययुक्ता । तस्मादुत्पद्यमानमप्युत्पादो नोत्पादयतिति सिद्धम् ॥ 17 ॥
अपि च । एवं न युज्यमानायामप्युत्पद्यमानस्योत्पत्तौ भवतो मतमभ्युपेत्योच्यते-
उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम् । उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः ॥ 18 ॥ यद्यपि उत्पद्यमानं पदार्थमुत्पाद उत्पादयेद्भवन्मतेन, इदं तु वक्तव्यम्- तमिदानीमुत्पादः कतमो ऽपरः उत्पादमुत्पादयिष्यतीति ॥ 18 ॥ अथ स्यात्- उत्पादस्यापर उत्पादः उत्पादकः परिकल्प्येत, तदा अनवस्थादोषप्रसङ्ग इत्याह- अन्य उत्पादत्येनं यद्युत्पादो ऽनवस्थितिः ।
एतच्चोक्तम् । अथ नास्यापर उत्पाद इष्यते, नन्वेवं सति विना उत्पादेन उत्पाद उत्पद्यते इत्येवं प्राप्नोति । ततश्च उत्पादोत्पाद्यानामपि पदार्थानां विनैवोत्पादेन उत्पत्तिरस्तु भावत्वादुत्पादवदिति प्रतिपादयन्नाह- अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा ॥ 19 ॥इति ॥ 19 ॥ अपि च । उत्पाद आत्मानं परांश्चोत्पादयतीत्यत्र पक्षे दूषणमेव न वक्तव्यमधुनास्माभिः । यस्मादत्र पक्षे दूषणम्-
सतश्च तावदुत्पत्तिरसतश्च न युज्यते । न सतश्चासतश्चेति पूर्वमेवोपपादितम् ॥ 20 ॥
नैवासतो नैव सतः प्रत्ययो ऽर्थस्य युज्यते ।
इति
न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा ।
इत्यादिना उत्पादो निषिद्ध एव पूर्वम् । ततश्चैवमुत्पादे निषिद्धे उत्पद्यमानमुत्पाद उत्पादयति, स्वपरात्मानौ वा उत्पादयतीत्यस्याः कल्पनाया नास्त्येवावतार इति कुत एतत्प्रसेत्स्यति- उत्पाद उत्पद्यते, उत्पद्यमानमुत्पद्यते, स्वपरात्मानौ चोत्पादयतीति ॥ 20 ॥
किं चान्यत्- इहायमुत्पादः परिकल्प्यमानः निरुध्यमानस्य अनित्यतानुगतस्य वर्तमानस्य वा भावस्य परिकल्प्यते, अनिरुध्यमानस्य वा अतीतानागतस्यानित्यताविरहितस्य? उभयथा च नोपपद्यते इत्याह-
निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते । यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ 21 ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
