Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

बोधिसत्त्वयोगाचारचतुःशतकटीका

Tác giả
चन्द्रकीर्ति
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

दीपवत् / भृष्टतिलवत् / विहायसपरिव्राजकवत् / वृक्षवच् च / यथा दीपस्य प्रत्ययेष्व् असत्सु स्थितिर् न भवति सत्सु भवति / यथा भृष्टानां तिलानां विरोहणं न भवति / विहायसपरिव्राजको मनःशिलां साधयित्वा तद्धेतोर् विहायसा गच्छति स्म / यदा तु सान्येन पुरुषेण विद्यापहृता तदा हेत्वभावात् पतितः / यथा च वृक्षस्य मूलोत्पाटनान् न पुनर् वृद्धिर् भवति हेत्वभावात् / तथा भावाभिनिवेशहेत्वभावान् न रागादीनां क्लेशानाम् उत्पत्तिर् भवति / न च कर्मवशाद् बोधिसत्त्वानां प्रवृत्तिर् अपि तु प्रणिधानवशात् / तस्मात् सर्वगतिभावदर्शित्वेन परमदुष्करतमम् अत्यद्भुतं बोधिसत्त्वस्य यत् सत्त्वार्थे घटते / सत्त्वं च नाभिनिविशते किंचिद् इति /

उक्तं चाचार्यबुद्धपालितेन /

पश्यन्न् अपि जगच् छून्यं जन्मदुःखनुनुत्सया / सुचिरं यद् असि क्लिष्टस् तन् नाम परमाद्भुतम् //

इति /

तच् च सर्वजगत्स्वभावदर्शित्वं यथा भवति तथोत्तरत्र प्रकरणैर् अष्टाभिः प्रतिपादयिष्यति //

आचार्यार्यदेवीये बोधिसत्त्वयोगाचारे चतुःशतके पारिकर्मिकप्रकरणम् अष्टमम् // (ब्य्च्श्ट्_8)

chapter ix nityārthapratiṣedha

इ

समनुक्रान्तप्रकरणजलप्रक्षालितचित्तसन्तानस्य तत्त्वामृतदेशनापात्रस्य शिष्यस्याचार्यो ऽतः परम् अवशिष्टैः प्रकरणैर् यथास्थितपदार्थतत्त्वाधिगमाय तत्त्वविनिश्चयम् आरब्धुकामः संस्कृतस्योदयव्ययत्वेनासारताम् उद्भावयन्न् आह //

सर्वं कार्यार्थम् उत्पन्नं तेन नित्यं न विद्यते // ब्य्च्श्ट्_9.1अब् [= सेरिअल्नो. 201अब्]

कार्यार्था हि प्रवृत्तिर् लोके न स्वाभाविकी / तथा चाहुर् लौकिकाः कार्यकृतो ऽयम् अस्य स्नेहो न स्वाभाविक इति / संस्कृतस्य च भूतभौतिकचित्तचैत्तलक्ष्यलक्षणादेर् एकस्यैकस्योदयाभावाद् यथासम्भवं कलापरूपस्यैवोत्पादः / तस्य कलापस्य मिथःकार्यकारणावस्थानात् / यस्मिन् सति यद् भवति यद् अभावे च यन् न भवति तत् तस्य कारणम् इतरत् कार्यम् इति / पृथिवीम् अन्तरेण भूतत्रयस्याभावात् / सत्यां च भावाद् भवति कार्यप्रयोजना पृथिव्याः समुत्पत्तिर् इत्य् एवं सर्वम् एव संस्कृतं यथास्वं कार्यार्थम् उत्पन्नम् / यच् च कार्यार्थम् उत्पन्नं न तन् नित्यम् /

नित्यशब्दस्य स्वभावसत्यसारवस्तुद्रव्यपर्यायत्वात् / तदभावेन निःस्वभावम् असत्यम् असारम् अवस्त्व् अद्रव्यं संस्कृतम् इति गम्यते /

अत एवोक्तं भगवता /

चक्षुः समृद्धे शून्यम् आत्मनात्मीयेन च नित्येन ध्रुवेण शाश्वतेनाविपरिणामधर्मेणेति / तथा चक्षुश् चक्षुषा शून्यम् अकूटस्थाविनाशिताम् उपादाय / तत् कस्य हेतोः प्रकृतिर् अस्यैषेति अत एव तन् मृषामोषधर्मकं यद् एतत् संस्कृतम् इत्य् उवाच शास्ता /

एतच् च वचनं वक्ष्यमाणयुक्त्युपेतं तन् निश्चित्याचार्य आह //

तस्मान् मुनिम् ऋते नास्ति यथाभावस् तथागतः // ब्य्च्श्ट्_9.1च्द् [= सेरिअल्नो. 201च्द्]

अशैक्ष्यकायवाङ्मनोमौनयोगान् मुनिर् बुद्धो भगवान् / स एवा नित्यशून्यतोपदेशेन यथा भावानां स्वभावस् तथा गतो बुद्धस् तथागत इत्य् उच्यते / नान्यो विपरीततत्त्वोपदेशेन यथास्थिततत्त्वार्थानभिसम्बोधात् / यथा चोक्तम् /

अतीता तथता यद्वत् प्रत्युत्पन्नाप्य् अनागता / सर्वधर्मास् तथा दृष्टास् तेनोक्तः स तथागतः //

इति //

अथवायम् अन्यो ऽर्थः / यत् समुदयधर्मि तद् अवश्यं निरोधधर्मि जातिप्रत्ययं जरामरणम् इति चोपदेशात् / यद् उत्पन्नं तस्य कार्यं विनाश एव तदर्थत्वाद् उत्पादस्येत्य् अतः

सर्वं कार्यार्थम् उत्पन्नं तेन नित्यं न विद्यते / ब्य्च्श्ट्_9.1अब् [= सेरिअल्नो. 201अब्]

स्वभावो न विद्यत इत्यर्थः / यत एतद् एवम् /

तस्मान् मुनिम् ऋते नास्ति यथाभावस् तथागतः / ब्य्च्श्ट्_9.1च्द् [= सेरिअल्नो. 201च्द्]

अस्यार्थः पूर्ववत् /

अथवा वेदनात्रयवेदनीयकर्मणां कालदेशावस्थाविशेषसंवेद्यानां तैर् विना कर्मफलसंवेदनाभावात् तदर्थम् आध्यात्मिकं बाह्यं वा वस्तुसम्भवात् सर्वं कार्यार्थम् उत्पन्नं न स्वरूपत एव व्यवस्थितं तेन नित्यं न विद्यते /

यदि हि तत् स्वरूपतो व्यवस्थितं स्यात् स्वरूपस्यानपायित्वान् नित्यम् एव स्यात् / न च तथास्तीति /

तेन नित्यं न विद्यते / ब्य्च्श्ट्_9.1ब् [= सेरिअल्नो. 201ब्]

स्वभावशून्यं सर्वम् इत्यर्थः / सा चेयं शुन्यत तथागतेतरशास्तृप्रवचनानुपदिष्टेत्य् आह /

तस्मान् मुनिम् ऋते नास्ति यथाभावस् तथागतः / ब्य्च्श्ट्_9.1च्द् [= सेरिअल्नो. 201च्द्]

इति /

तार्किकास् तु व्याचक्षते / परेण यत् कार्यार्थम् अनुत्पन्नत्वेनाभ्युपगतं तद् उत्पन्नं कार्यार्थत्वाद् उत्पन्नकार्यार्थवद् इति / तद् अत्रानुदयव्ययवतां परिकल्पितानां पृथिव्यादिपरमाणूनां खपुष्पादिवत् तावद् अस्तित्वम् आस्थातुम् अशक्यम् / न चाविद्यमानानां कारणत्वम् आरोप्योत्पादसिद्ध्यानित्यत्वसाधनं न्याय्यम् / कार्यार्थत्वस्य स्वत एवासिद्धत्वात् परप्रसिद्धहेत्वङ्गीकरणे चातिप्रसङ्गात् / अयुक्तवस्त्वभ्युपगमाच् च परस्य निवारणीयत्वान् न युक्तं नित्यं कार्यार्थत्वेनाभ्युपगन्तुम् / न चानेन परप्रतिज्ञाया अनुमानविरोधोद्भावनं न्याय्यम् / तस्योभयप्रसिद्धेनैवोद्भावनात् / यस्याप्य् उभयप्रसिद्धेनानुमानबाधासम्भवात् स्वप्रसिद्धेनाप्य् अस्त्य् अनुमानबाधेति नूनं तस्याप्य् अर्थप्रतिपादनाकौशलम् एव स्यात् / न हि विद्वान् सुखप्रतिपाद्यम् अर्थं दुःखेन प्रतिपादयितुम् आद्रियते /

अपि चाकाशस्यापि चक्षुर्विज्ञानाङ्कुरोत्पत्तौ कारणत्वाभिधानात् सूत्रान्ते षड्धातुपाठाच् च पुद्गलप्रज्नप्तिनिमित्तत्वाद् अनैकान्तिकत्वम् एव स्यात् कार्यार्थत्वस्य //

कारणं विकृतिं गच्छज् जायते ऽन्यस्य कारणम् / ब्य्च्श्ट्_9.9अब् [= सेरिअल्नो. 209अब्]

इति न्यायान् नास्त्य् आकाशस्य कारणत्वम् इति चेन् नैतद् एवम् / तत्र हि क्रियते येन तत् कारणम् इति जनक एव हेतुर् अभिसमीहितः कारणत्वेनाङ्कुरस्येव बीजम् / निमित्तभावमात्रेण त्व् आकाशस्यापीष्यत एव कारणत्वम् / एवं ह्य् अनिष्यमाणे सूत्रशास्त्रयोर् अविरोधो नोद्भावितः स्यात् / न चाचार्यः सर्वथा निःस्वभावभाववादित्वाद् ध्य् उत्पत्तिमुखेनानित्यतां प्रतिपादयति / तत्त्वाधिकाराद् उत्तरत्र तस्या अपि नित्यतावत् प्रतिषिध्यमानत्वात् / वक्ष्यति हि /

उत्पादस्थितिभङ्गानां युगपन् नास्ति सम्भवः / क्रमशः सम्भवो नास्ति सम्भवो विद्यते कदा //

इति // शास्त्रे ऽपि चोक्तम् /

अनित्ये नित्यम् इत्य् एवं यदि ग्राहो विपर्ययः / अनित्यम् इत्य् अपि ग्राहः शून्ये किं नविपर्यय /

इति //

अपि च वस्तुनो लोकसिद्धत्वात् तत्सिद्धाव् अनुमानपरिग्रहो निःप्रयोजन एव / यो ऽप्य् अवस्तुनो वस्तुसत्तां मौढ्यात् प्रतिपद्यते सो ऽपि सामान्यजनप्रसिद्ध्या शक्यत एव विवक्षितम् अर्थं ग्राहयितुम् / वस्तुतत्त्वसाधने चावयवत्रितयस्यापि साध्यवद् असिद्धत्वाद् असम्भव एवार्थसाधनस्येत्य् अतस् तार्किकानां व्यर्थ एव तर्कप्रणयनश्रमो लक्ष्यते / तथा च लौकिका अनधीततर्कलक्षणा अपि सन्तो लौकिकार्थविनिश्चयनिपुणा यद् यथास्थितं वस्तु तत् तथैव प्रतिपद्यन्ते / प्रतिपादयन्ति चापरेभ्यः /

अपि चानित्यताया लोकप्रतीतत्वाद् यत्र लोको ऽपि ताम् अवस्यति तत्र न शक्यत एव तद् वक्तुम् अविपरीतार्थाभिधायी तथागत एवेति / यस् तु स्वलक्षणम् आरोप्य लोको ऽनित्यतां प्रतिपद्यमानस् तस्य वस्तुनो मृषामोषधर्मकत्वेनाप्रतिपात्तेः सर्वत्र तथागत एवाविपरीतदर्शीति युक्तम् /

अत्राहुर् एके / सत्यं यत् कार्यार्थम् उत्पन्नं न तन् नित्यं भवतीति / ये तूभयाङ्गविकलाः पदार्थास् तद् यथाकाशादयो मनःपर्यन्ताः / ये ऽपि चैकाङ्गविकलाः पदार्थास् तद् यथा पृथिव्यादिपरमाणवस् ते नित्या भविष्यन्ति / तेषां चास्तित्वनित्यत्वानवगमान् नाविपरीतदर्शी तथागत इति / तेषां मतस्यायुक्तताम् उद्भावयन्न् आहाचार्यः //

अप्रतीत्यास्तिता नास्तीति // ब्य्च्श्ट्_9.2अ [= सेरिअल्नो. 202अ]

यथास्वं हेतुप्रत्ययायत्तोदयानां सुखादीनाम् अस्तित्वम् उपलभ्य कथम् अयम् अर्थापत्त्याप्रतीत्यसमुत्पन्नानां नास्तित्वं न प्रतिपद्येत / अर्हत्य् एवायं स्फुटतरम् एषां गगनोत्पलादीनाम् इवासत्त्वं प्रतिपत्तुम् / तच् चेन् न प्रतिपद्यते नियतम् अस्य तैमिरिकस्येव समारोपकृतं दर्शनवैकृतम् उपलक्ष्यत इति / अतो

ऽप्रतीत्यास्तिता नास्ति / ब्य्च्श्ट्_9.2अ [= सेरिअल्नो. 202अ]

स चैष न्यायः कालवस्तुदेशभेदभिन्ने पदार्थे सर्वत्राव्यभिचारीत्य् आह //

कदाचित् कस्यचित् क्वचिद् ब्य्च्श्ट्_9.2ब् [= सेरिअल्नो. 202ब्]

इति // यतश् चैतद् एवम् //

न कदाचित् क्वचित् कश्चिद् विद्यते तेन शाश्वतः // ब्य्च्श्ट्_9.2च्द् [= सेरिअल्नो. 202च्द्]

पूर्वार्धेन सिद्धस्यैतन् निगमनम् / यदा चैवम् अप्रतीत्यसमुत्पन्नत्वात् परपरिकल्पितानां पदार्थानां सत्त्वनित्यत्वे न स्तस् तदा सिद्धं तथागतस्याविपरीतदर्शित्वं तथा हि तेन सच् च सतो ज्ञातं यत् प्रतीत्यसमुत्पन्नम् / असच् चासतः परपरिकल्पितम् अप्रतीत्यसमुत्पन्नंचेति /

ये पि च सर्गप्रलययोर् आविर्भावतिरोभावमात्रेण महदादेर् अभूत्वाभावतिरस्कारेणाभिव्यक्तिमात्रतया नित्यतां प्रतिपन्ना न कस्यचित् प्रतीत्योदयम् इच्छन्ति ते ऽप्य् उक्तदूषणं नातिवर्तन्ते /

अथ स्यात् / सुखादयस् तावत् प्रतीत्यसमुत्पन्नाः सन्ति / तेषां च समवायिकारणम् आत्मा / न चासतः समवायिकारणत्वं न्याय्यम् इत्य् अतस् तत्कार्योपलम्भाद् अस्ति तावद् आत्मा / स चैष नित्यः / सदकारणत्वात् / यद् अस्ति न चास्य कारणम् उपलभ्यते तन् नित्यम् / सति चात्मनि तज्जातीया अपि पदार्था भविष्यन्तीति /

अत्रोच्यते / स्युस् तज्जातीयाः पदार्था यद्य् आत्मैव स्यात् / न त्व् अस्ति / कथं कृत्वा / यस्मात् //

न विना हेतुना भावः / ब्य्च्श्ट्_9.3अ [= सेरिअल्नो. 203अ]

भावः स्वभाव आत्मेति पर्यायाः / स विना हेतुना न सम्भवति / तथा हि परेणैवास्याकारणत्वम् अभ्युपेतं तच् च निर्हेतुकं खरविषाणादिवन् नास्तीति सिद्धम् / आकाशादिभिर् अनैकान्तिकतेति चेत् / न / तेषाम् अपि तद्वद् एवास्तित्वस्य निषिध्यमानत्वात् /

अथैवं दोषपरिजिहीर्षयाभ्युपेतविरुद्धम् अपि हेतुमत्त्वम् अङ्गीक्रियते / एवम् अप्य् अस्य हीयते नित्यत्वम् / यस्मात् /

हेतुमान् नास्ति शाश्वतः // ब्य्च्श्ट्_9.3ब् [= सेरिअल्नो. 203ब्]

हेतुमत्त्वात् सुखादिवद् इत्य् अभिप्रायः / यत एतद् एवम् //

तेनाकारणतः सिद्धिः सिद्धिर् नेत्य् आह तत्त्ववित् // ब्य्च्श्ट्_9.3च्द् [= सेरिअल्नो. 203च्द्]

उक्तं हि भगवता /

प्रतीत्यधर्मान् अधिमुच्यते विदू / न चान्तदृष्टीय करोति निश्रयम् / सहेतु सप्रत्यय धर्म जानति / अहेतु अप्रत्यय नास्ति धर्मता //

इति // अस्या देशनाया यथोपवर्णितोपपत्त्यनुगमाद् अविपरीतार्थवित् तथागत एवेति सिद्धम् /

अथ स्याद् घटसुखादेः कृतकस्यार्थस्यानित्यत्वम् उपलभ्यार्थापत्त्याकृतकस्यात्मादेर् नित्यत्वं भविष्यतीति / एतद् अप्य् अयुक्तम् / यस्माद् एवम् इष्यमाणे कृतकस्य घटसुखादेर् अस्तित्वम् उपलभ्य तद्विपर्ययेणार्थापत्त्याकृतकस्यात्मादेर् नास्तित्वम् आपन्नम् इति / तद् एव प्रतिपादयन्न् आह //

अनित्यं कृतकं दृष्ट्वा शाश्वतो ऽकृतको यदि / कृतकस्यास्तितां दृष्ट्वा नास्ति तेनास्तु शाश्वतः // ब्य्च्श्ट्_9.4 [= सेरिअल्नो. 204]

न चाविद्यमानस्य नित्यत्वं नापि सद् एवानित्यं वस्तु //

अथ स्याद् आकाशाप्रतिसंख्यानिरोधप्रतिसंख्यानिरोधानाम् अभिधर्मशास्त्रपरिपठितानाम् अकृतकानां सतां नित्यत्वास्तित्वेनाभ्युपगमाद् अकृतकस्यासत्त्वप्रतिपादनम् अभ्युपेतेन बाध्यत इति / एतद् अपि नास्ति / यस्मात् //

आकाशादीनि कल्प्यन्ते नित्यानीति पृथग्जनैः / लौकिकेनापि तेष्व् अर्थान् न पश्यन्ति विचक्षणाः // ब्य्च्श्ट्_9.5 [= सेरिअल्नो. 205]

रूपाभावमात्र एवाकाशव्यवहारान् न किंचनाकाशं नाम वस्तुरूपम् अस्ति / रूपान्तराभावे तु रूपिणाम् उत्पत्तिप्रतिबन्धाभावात् स एव रूपान्तराभावो भृशम् अस्यान्तः काशन्ते भावा इत्य् आकाशम् इत्य् आख्यातः / तद् अस्यावस्तुसतो ऽकिंचनस्य नामधेयमात्रोपदेशव्यामूढैर् अभिधर्मशास्त्रे वैभाषिकैर् यद् वस्तुत्वम् आरोपितं न तत् प्रमाणम् इति न तेनास्माकम् अभ्युपगमबाधाचोदनं न्याय्यम् / तथा हि पदार्थस्वभावपण्डिता आकाशाभिधाने प्रयुज्यमाने लौकिकेनापि ज्ञानेन नाभिधेयं नाम किंचित् स्वरूपम् उपलभन्ते यथा पृथिव्याद्यभिधानेषु काठिन्यादिकम् / किम् उत पदार्थस्वभावज्ञानावस्थिताः सर्वं बाह्यं चाध्यात्मिकं च वस्त्वनुपलभमानास् तस्य स्वरूपम् उपलप्स्यन्त इत्य् एवम् अप्रतिसंख्यानिरोधप्रतिसंख्यानिरोधयोर् अपि वक्तव्यम् / नित्यत्वं तेषाम् अकिंचनत्वेनानन्यथाभावमात्रद्योतकं न विधानम् इत्य् अतो नास्त्य् आकाशादीनां नित्यत्वम् इति /

अत्राह / नित्यम् एवाकाशं विभुत्वात् / यद् अनित्यं न तद् विभुः / तद् यथा घट इति / अत्रोच्यते / यद्य् अप्य् अजातस्यासत्त्वप्रतिपादनेन तदधिकरणसर्वाधेयासम्भवो ऽप्य् अर्थाद् उपपादितस् तथापि परमतप्रसिद्धपदार्थस्वरूपविशेषापाकरणमुखेन तन्मतस्यायुक्तताम् उद्बिभावयिषुर् आकाशस्य विभुत्वप्रतिषेधेन नित्यताम् अपाकर्त्तुकाम आह //

प्रदेशिनि न सर्वस्मिन् प्रदेशो नाम वर्तते / तस्मात् सुव्यक्तम् अन्यो ऽपि प्रदेशो ऽस्ति प्रदेशिनि // ब्य्च्श्ट्_9.6 [= सेरिअल्नो. 206]

आकाशस्य ये ऽवयवास् ते ऽस्य प्रदेशास् तैः प्रदेश्य् आकाशम् / तस्मिन् यो घटसंयोगी प्रदेशः स तदितरपदार्थसंयोगिनि प्रदेशे न वर्तते / यदि हि वर्तेत तदा तेनाभिन्नदेशस्यापि घटस्य सर्वगतत्वं स्यात् / न चैतद् अस्तीत्य् अयुक्तम् एतत् / अपि च यदि प्रदेशो ऽपि सर्वत्र वर्तेत सो ऽपि व्यापित्वात् प्रदेशिवत् प्रदेशाभिधानभाग् न स्यात् / प्रदेशाभावाच् च प्रदेशिनो प्य् अभावः स्यात् / अथैतद्दोषपरिजिहीर्षया

प्रदेशिनि न सर्वस्मिन् प्रदेशो नाम वर्तत ब्य्च्श्ट्_9.6अब् [= सेरिअल्नो. 206अब्]

इत्य् अभिमतम् / तदावश्यं

सुव्यक्तम् अन्यो ऽपि प्रदेशो ऽस्ति प्रदेशिनीत्य् ब्य्च्श्ट्_9.6च्द् [= सेरिअल्नो. 206च्द्]

अभ्युपेयम् / ततश् चासर्वगतप्रदेशवत आकाशस्य प्रदेशिनो घटादिवद् विभुत्वम् अवहीयेत / न च परस्पराव्यतिभिन्नप्रदेशमात्रव्यतिरेकेण प्रदेशी नाम कश्चिद् उपलभ्यत इति कुतो ऽस्यासिद्धसत्ताकस्य नित्यत्वम् इति न नित्यम् आकाशम् /

अथाप्य् अस्य निरवयवत्वात् प्रदेशित्वं नाभ्युपेयते / नन्व् एवं सति घटादीनां तेन न संयोगो ऽपि स्यात् / स हि तेषां संयोगः सर्वात्मना वा स्याद् एकदेशेन वा /

न तावत् सर्वात्मना घटादीनाम् अपि प्रत्येकं सर्वगतत्वप्रसङ्गात् / तस्माद् अवश्यं प्रदेशसंयोगिनो घटादय इत्य् अभ्युपेयम् / तथा चाभ्युपगच्छतो नियतम् अयं यथोक्तो दोषो न नापद्यते / यथोक्तदोषप्रसङ्गाच् च न नित्यम् आकाशम् इति /

कालवादी तु मन्यते / कालकृतौ जगत्प्रवृत्त्युपसंहाराव् उपलभ्य कालसद्भावो ऽनुमीयते / तथा हि सत्स्व् अपि बीजक्षितिसलिलज्वलनपवनाकाशाख्येषु प्रत्ययेषु न सर्वदाङ्कुरादेर् उदय उपलभ्यते / अथ कदाचिद् एवोपलभ्यते / तदवस्थानविरोधिकालसंनिधाने च निवर्तते / तद् एवम् //

यस्मिन् भावे प्रवृत्तिश् च निवृत्तिश् चोपलभ्यते // ब्य्च्श्ट्_9.7अब् [= सेरिअल्नो. 207अब्]

स तथानुमितः कालो नामास्ति / तस्य च सतो ऽपि कारणानुपलम्भान् नित्यत्वम् इति / ननु चैवं सति नित्यत्वात् कालस्य तदायत्तोदयानाम् अङ्कुरादीनां सदैवोत्पादः प्राप्नोति / अथ सतो ऽपि कदाचित् कार्यक्रियासूपरतव्यापारतास्येति कल्प्येत / एवम् अपि सैवास्यासत्त्वम् आपादयिष्यति / अथ सतो ऽपि बीजादिवत् कार्यप्रवृत्तियोग्यात्मातिशयासम्मुखीभावान् नास्ति सर्वदा कार्यम् इति […]

इइ

[…]म् इव संसारनिवृत्तिर् न स्यात् / विशेषाभ्युपगमे च विकारसद्भावाद् अनित्यः स्यात् / अनित्यस्य च कारणत्वं स्यात् / ततश् च दुःखसन्तानसदृश एव स्यात् / एवं च सति स्ववादत्यागः स्यात् / तस्मान् न युक्तम् अस्यात्मानम् अभ्युपेतुम् / अभ्युपेत्यापि हि यत् परं प्रति प्रतिपादनासामर्थ्याद् उक्तदोषाच् च परित्याज्यं किं तेनाभ्युपगतेन प्रयोजनम् इति त्यज्यताम् आत्मवादः /

यद्य् एवं मुक्तावस्थायां मुक्तात्मनो ऽप्य् असद्भावः संस्काराणां चापुनरुत्पत्त्या सर्वथा परिक्षयरूपं परमार्थसंज्ञकं निर्वाणं वर्ण्यते तद् अलम् अनेनेदृशेन परमार्थेनार्थितेनेत्य् अत आत्मकामस्य //

वरम् लौकिकम् एवेदं परमार्थो न सर्वथा / लौकिके विद्यते किंचित् परमार्थे न विद्यते // ब्य्च्श्ट्_9.25 [= सेरिअल्नो. 225]

नैव ह्य् आत्मकामो लोचनामयसम्पातशङ्कयाक्ष्णोर् उत्पाटनम् अनुतिष्ठति करोति त्व् आमयोपघातम् एव / तथा संसारदुःखोद्विग्नस्य दुःखमात्रत्याग एव ज्यायान् / न तु सर्वथा सर्वाभावः / सर्वाभावे हि सति सर्वथा सुखस्याप्य् उच्छित्त्या न किंचिद् अनेनात्मन उपकृतं भवति / ततश् च

वरम् लौकिकम् एवेदम् / ब्य्च्श्ट्_9.25अ [= सेरिअल्नो. 225अ]

लौकिके हि त्वया किंचिद् अङ्गीक्रियते य् अत् प्रतीत्यसमुत्पन्नम् उपादाय च प्रज्ञप्तम् / किंचिन् नाङ्गीक्रियते यत् तीर्थिकैर् अभूतम् आरोपितं सस्वाभाव्यं च भावानाम् / अथवा यद् अदत्तफलम् अतीतं कर्म तत्फलं चानागतं प्रत्युत्पन्नाश् च संस्कारा इत्य् एतत् तव लौकिके ऽस्ति / तदवशिष्टं नास्तीति वरम् एतल् लौकिकं यत्र न सर्वाभावः / परमार्थस् तु सर्वथा न श्रेयान् सर्वथाप्य् आत्मनो ऽप्य् असद्भावाद् इति //

बोधिसत्त्वयोगाचारे चतुःशतके नित्यार्थप्रतिषेधो नाम नवमं प्रकरणम् // (ब्य्च्श्ट्_9)

chapter x

इ

अत्राह / यद्य् आत्मा नाम कश्चित् स्वरूपतः स्यात् तस्य निर्वाणे सर्वथोच्छेददर्शनात् /

नास्त्य् अहं न भविष्यामि न मे स्ति न भविष्यति /

इति / परिशङ्कितस्य स्याद् एवं

वरम् लौकिकम् एवेदं परमार्थो न सर्वथा / लौकिके विद्यते किंचित् परमार्थे न विद्यते //

इति / न चात्मा नाम कश्चित् स्वरूपतः सम्भवति / यदि हि स्यात् स नियतं स्त्रीत्वेन वा स्यात् पुरुषत्वेन या नपुंसकत्वेन वा / ततो ऽन्यस्य कल्पनान्तरस्याभावात् / द्विविधं ह्य् आत्मानं वर्णयन्ति तीर्थिका यद् उतान्तरात्मानं बहिरात्मानं च / तत्रान्तरात्मा नाम यः शरीरागारान्तर्व्यवस्थितः शरीरेन्द्रियसंघातस्य तत्र तत्र प्रवर्तयितान्तर्व्यापारपुरुषो जगदहङ्कारनिबन्धनः कुशलादिकर्मफलोपभोक्ता प्रतितन्त्रम् अनेकविकल्पभेदभिन्नः / बहिरात्मा तु देहेन्द्रियसंहातरूपो ऽन्तरात्मन उपकारीव / तत्र यस् तावद् अयम् अन्तरात्मा स यदि स्त्रीत्वेन परिकल्प्येत तदा तस्याजहत्स्वरूपत्वाज् जन्मान्तरपरिवर्ते ऽपि लिङ्गान्तराप्रतिपत्त्या नित्यम् एव स्त्रीत्वं स्यात् / न चैतद् दृश्यते / व्यत्ययोपलब्धेः स्त्रीत्वादीनाम् आत्मगुणत्वाभावाच् च /

एवं पुंस्त्वे नपुंसकत्वे च वाच्यम् / तद् एवम् /

अन्तरात्मा यदा न स्त्री न पुमान् न नपुंसकम् / तदा केवलम् अज्ञानाद् भावस् ते ऽहं पुमान् इति // ब्य्च्श्ट्_10.1 [= सेरिअल्नो. 226]

पुमान् इत्य् उपलक्षणत्वाद् अहं स्त्रीनपुंसकम् अहम् इति सर्वम् एवाज्ञानाद् भवति / विचार्यमाणस्य वस्तुसत्त्वस्य तथासिद्धत्वाद् अज्ञानं मुक्त्वा नान्यत् तथापरिकल्पकारणं युक्तम् / रज्जुस्वरूपापरिज्ञाने सर्पाध्यारोपवद् इत्य् अभिप्रायः / एवं तावद् अन्तरात्मनो यः स्त्रीत्वादिपरिकल्पो नासौ वस्त्वनुविधायीति स्थितम् //

अथ मन्यसे बहिरात्मनो लिङ्गान्य् एतानि स्त्रीपुंनपुंसकत्वानि तत्सम्बन्धाद् अन्तरात्मन्य् अपि परिकल्प्यन्त इति / स्याद् एतद् एवं यदि बहिरात्मनो ऽप्य् एतानि युज्यन्ते / कथं कृत्वा / इहाकाशस्य तावन् महाभूतत्वायोगाच् चत्वार्य् एव महाभूतानि / यस्यापि पञ्चमहाभूतानि तस्याप्य् आकाशस्य शरीरारम्भकत्वायोगाच् चत्वार्य् एव महाभूतानि कारणभावं प्रतिपद्यन्ते / तेषु च स्त्रीपुंनपुंसकत्वानि स्वरूपतो न विद्यन्ते / यदि स्युस् तदा तत्स्वभावानुरोधात् सर्वदेहानां नियतलिङ्गता स्यात् / कललाद् अपि च लिङ्गोपलब्धिः स्यान् न चैतद् अस्तीत्य् अतः //

यदा सर्वेषु भूतेषु नास्ति स्त्रीपुंनपुंसकम् / तदा किं नाम तान्य् एव प्राप्य स्त्रीपुंनपुंसकम् // ब्य्च्श्ट्_10.2 [= सेरिअल्नो. 227]

किं नामात्र कारणं यत् स्वरूपतो लिङ्गरहितानि महाभूतानि प्राप्य स्त्रीपुंनपुंसकानि देहानां सम्भविष्यन्ति / तद् एवं बहिरात्मनो ऽपि स्त्रीपुंनपुंसकत्वानाम् अयोगात् केवलम् अज्ञानात् तवायम् अभिप्रायः / पुमान् अहं स्त्री नपुंसकम् अहम् इति /

ये ऽपि च खट्वावृक्षयोः स्तनादिलोमशत्वादेर् निमित्तस्याभावाद् अन्यथा स्त्रीत्वादीनि कल्पयन्ति तेषाम् अपि कल्पनामात्रं न वार्यते / तवाप्य् अयं समानप्रसङ्ग इति चेन् नैतद् एवम् / मम हि निःस्वभावाः पदार्थाः प्रतीत्यसमुत्पन्नत्वान् न च निःस्वभावस्य यथा प्रत्ययम् अन्यथाभावो न युज्यते चित्रपुरुषमायाङ्गनादिरूपस्येवेत्य् अदोषः / सस्वभाववादिनस् तु स्वभावस्यान्यथात्वासम्भवाद् यथास्वभावं लिङ्गनियमः प्रसज्यते / तद् एवं पुमान् अहम् इत्य् एवमादीनां कल्पनानां मोहमात्रसम्भूतत्वाद् अयुक्तं तल् लिङ्गवत आत्मनः स्वरूपतो ऽस्तित्वम् / इतश् चात्मा स्वरूपतो नास्ति /

यदि ह्य् आत्मा स्वरूपतः स्यात् स यथैकस्याहङ्कारस्यालम्बनं तथा सर्वेषाम् अप्य् अहङ्कारस्यालम्बनम् / न हि लोके ऽग्नेर् औष्ण्यं स्वभावः कस्यचिद् अनौष्ण्यं भवति / एवम् आत्मा यदि स्वरूपतः स्यात् सर्वेषाम् आत्मेति स्याद् अहङ्कारविषयश् च / न चैतद् एवम् / तथा हि //

यस् तवात्मा ममानात्मा तेनात्मा नियमान् न सः // ब्य्च्श्ट्_10.3अब् [= सेरिअल्नो. 228अब्]

यो हि तवात्मा त्वदहङ्कारविषय आत्मस्नेहविषयश् च स एव ममानात्मा भवत्य् अस्मदहङ्काराविषयत्वाद् आत्मस्नेहाविषयत्वाच् च / यत एतद् एवं तेन नियमान् न सः / यश् च नियमाद् आत्मा न भवति स स्वभावतो नास्तीति त्यज्यतो ऽसदर्थ आत्माध्यारोपः /

यद्य् आत्मा नास्ति क्व ताव् इमाव् अहङ्कारात्मस्नेहाव् इत्य् आह //

नन्व् अनित्येषु भावेषु कल्पना नाम जायते // ब्य्च्श्ट्_10.3च्द् [= सेरिअल्नो. 228च्द्]

यथोपवर्णितेन न्यायेन स्वरूपसिद्धस्य स्कन्धव्यतिरिक्तस्यात्मनः सर्वथाभावान् नन्व् अनित्येषु रूपवेदनासंज्ञासंस्कारविज्ञानाख्येषु भावेस्व् आत्मेति कल्पनास्व् अभूतार्थारोपणं क्रियत आत्मा सत्त्वो जीवो जन्तुर् इति / यथा हीन्धनम् उपादायाग्निर् एवं स्कन्धान् उपादायात्मा प्रज्ञप्यते / स च स्कन्धेभ्यस् तत्त्वान्यत्वेन पञ्चधा च निरूप्यमाणः स्वभावतो नास्तीत्य् उपादाय प्रज्ञप्त्या परिकल्प्यत इत्य् एवम् अनित्येषु संस्कारेष्व् आत्मपरिकल्पना भवतीति स्थितम् /

अत्राह / अस्त्य् एवात्मा स्वभावतः प्रवृत्तिनिवृत्तिकारणत्वात् / यदि ह्य् आत्मा न स्यात् कः शुभम् अशुभं वा कर्म कृत्वा तत्फलं संवेदयेत् / स हि शुभम् अशुभं वा कर्म कृत्वा जातिगतियोन्यादिभेदभिन्ने त्रैधातुके कर्मानुरूपं जन्मप्रबन्धम् अनन्तप्रभेदं सुखदुःखफलोपभोगनिबन्धनम् आसादयति / स ह्य् अभिसंस्कर्ता च प्रत्यनुभविता च स हन्यते बाध्यते स्पृश्यते बध्यते मुच्यते च / तस्माद् अस्ति स्वरूपत आत्मेति /

किं पुनर् अयम् आत्मा जन्मान्तरपरिवर्तेषु देहभेदविकारम् अनुरुध्यते ऽथ न / यदि तावन् नानुरुध्यते तदा किम् अनेनाकिंचित्करेणात्मपरिकल्पनेन / अथानुरुध्यते / तदा नियतं तव

देहवद् विकृतिं याति पुमाञ् जन्मनि जन्मनि // ब्य्च्श्ट्_10.4अब् [= सेरिअल्नो. 229अब्]

ततश् च

देहात् तवान्यता तस्य नित्यता च न युज्यते // ब्य्च्श्ट्_10.4च्द् [= सेरिअल्नो. 229च्द्]

नासौ देहाद् अन्यो देहविकारानुविधायित्वाद् देहैकदेशवत् / नापि नित्यो देहाद् अनन्यत्वाद् देहस्वात्मवद् इत्य् अयुक्त आत्माध्यारोपः / स हि प्रतिक्षणविनश्वराणां संस्काराणाम् अवस्थानाभावात् कर्मफलसंवेदनाय नित्यम् आत्मानं प्रतिपन्नः / […]

इइ

[…]मस् तस्य निःप्रयोजनम् एवेन्धनोपार्जनम् इति / तद्वद् एतत् / ततश् चास्य महदादेर् विकारग्रामस्य विफलैव प्रवृत्तिर् इति व्यर्थ एवास्य शास्त्रे प्रक्रियाप्रणयनश्रमो लक्ष्यते /

अथ स्याच् चैतन्यशक्तिरूपः पुरुषस् तस्य चक्षुरादिकरणव्यापारनिबन्धनबुद्ध्यभिव्यक्तेश् चैतन्यवृत्त्यभिव्यक्तेर् उपभोक्ता हि पुरुषः / स विषयोपभुक्तिक्रियाभिनिर्वृत्त्या विषयं चेतयते / सा ह्य् अस्य विषयोपभुक्तिश् चैतन्यवृत्त्यात्मिका क्रिया / सा च न विना चक्षुरादिना करणग्रामेण भवतीति कुतो ऽस्य विकारग्रामस्य वृथात्वम् इति / उच्यते / यदि चैतन्यं चैतन्यवृत्तिस्वरूपं तदास्य क्रियाया धर्मानतिक्रमेण भवितव्यम् / कश् च क्रियाणां धर्मः / द्रव्याश्रयत्वं चलत्वं च / तथा हि //

आ विनाशाच् चलं नाम द्रव्यं नास्ति क्रिया यथा // ब्य्च्श्ट्_10.11अब् [= सेरिअल्नो. 236अब्]

द्रव्यव्यापाररूपा हि क्रिया / सा चोदयात् प्रभृत्य् आ विनाशाच् चला / तथा हि वृक्षादयः पवनाद्युपनिपातम् अन्तरेणानारब्धक्रियास् तिष्ठन्त्य् अविचलाः / कम्पनक्रिया त्व् एषा पवनादिप्रत्ययसम्पाताद् उपजायमानाविनाशं चलतां नातिवर्तते / यस्माद् एतद् एवम् //

पुरुषो ऽस्ति न चैतन्यम् इति तेन न युज्यते // ब्य्च्श्ट्_10.11च्द् [= सेरिअल्नो. 236च्द्]

यथा वृक्षादयश् चलनक्रियाप्रारम्भात् प्रागवस्थायां वृक्षाद्यात्मना द्रव्यरूपेणोपलभ्यन्ते / नैवं पुरुषः / स हि चैतन्यरूपमात्रत्वान् न तद्व्यतिरिक्तः / द्रव्यरूपत्वाभावाच् च चैतन्यरहितेनाप्य् आत्मनास्तीति न शक्यते कल्पयितुम् /

ततश् च पुरुषः संविद्यते न चैतन्यम् इति न युज्यते / यच् च चैतन्यशक्तिसद्भावात् पुरुषस्यास्तित्वं कल्प्येत तद् अप्य् अयुक्तम् / निराधारायाः शक्तेर् असद्भावात् / यथा चैतन्यवृत्तिव्यतिरिक्तः पुमान् न सम्भवत्य् एवं शक्त्यवस्थायाम् अपि चैतन्यशक्तिमात्रव्यतिरिक्तः पुरुषो नास्ति / ततश् च निराश्रया नास्ति शक्तिः शक्त्यभावाच् च शक्तेर् व्यक्तिरूपभावोपयोगित्वेन यच् चक्षुरादीनां सोपयोगित्वं कल्पितं तद् अयुक्तम् एवेत्य् अविचलम् एतत् /

करणं जायते मिथ्याचैतन्यं शाश्वतं यदि / ब्य्च्श्ट्_10.10अब् [= सेरिअल्नो. 235अब्]

इति /

अपि चायं पुरुषो यदि चैतन्यव्यक्तेः पूर्वं चैतन्यशक्तिरूपः स्यात् तदा //

चेतनाधातुर् अन्यत्र दृश्यते ऽन्यत्र चेतना // ब्य्च्श्ट्_10.12अब् [= सेरिअल्नो. 237अब्]

चैतन्यस्य द्वैरूप्यकल्पनायाम् अन्यत्र पृथक्त्वेन चेतनायाश् चेतनाधातुश् चेतनाबीजं चेतनाशक्तिर् दृश्यते त्वया / चेतनाशक्तेश् चान्यत्र पृथक् चेतनाधातोश् चेतना प्रवर्तमाना चेतनाधातुसमानदेशा प्रवर्तते // दृष्टान्तम् आह //

द्रवत्वम् इव लोहस्येति // ब्य्च्श्ट्_10.12च् [= सेरिअल्नो. 237च्]

यथा लोहं द्रवताम् आपद्यमानं लोहदेशाभिन्नदेशं भवति तद्वत् / बीजाङ्कुरयोर् ह्य् आविर्भावतिरोभावदर्शनान् न समानदेशता / न च पुरुषस्याविर्भावतिरोभावाव् इति समानदेशत्वम् अस्ति / अत एवाचार्यो लोहस्य द्रवतादृष्टान्तम् आह // न च चैतन्यशक्तिरूपात् पृथक् पुरुषो ऽस्ति व्यक्तस् ततो ऽनन्यत्वात् / तद् अयं शक्तिरूपापन्नो व्यक्तिरूपताम् आपद्यमानो

द्रवत्वम् इव लोहस्य विकृतिं यात्य् अतः पुमान् // ब्य्च्श्ट्_10.12च्द् [= सेरिअल्नो. 237च्द्]

विक्रियमाणत्वाच् च लोहवद् एव नास्यात्मनो नित्यत्वम् इति सिद्धम् /

अन्ये पुनर् आहुः / नैव ह्य् अस्माकं चैतन्यरूपः पुमान् / किं तर्हि //

चैतन्यं च मनोमात्रे महांश् चाकाशवत् पुमान् // ब्य्च्श्ट्_10.13अब् [= सेरिअल्नो. 238अब्]

आत्मा हि प्रतिशरीरं सर्वप्राणभृताम् आकाशवद् विभुः / तस्य च मनोमात्रसंयुक्ता चेतना न सर्वव्यापिनी / मनश् चात्मनः परमाणुमात्रप्रदेशसंयुक्तम् / तेन मनसा संयुज्य पुरुषस् तदभिन्नदेशं चैतन्यम् उत्पादयति / ततश् च यथोक्तदोषानवसरो ऽस्मत्पक्ष इति /

उच्यते / यत एव ह्य् आकाशवद् अतिमहतः पुरुषस्य मनोमात्रे चैतन्यम् अभ्युपेयते / ननु त्वया //

अचैतन्यं ततस् तस्य स्वरूपम् इव दृश्यते // ब्य्च्श्ट्_10.13च्द् [= सेरिअल्नो. 238च्द्]

एवं सत्य् अचेतन एव पुरुषः प्राप्नोति / ह हि परमाणुमात्रप्रदेशचेतनासम्बन्धेन सचेतनः पुरुष इति युक्तं वक्तुम् / न हि लवणपरमाणुमात्रसम्पर्काद् गङ्गानदीजलं सलवणम् इति शक्यं सम्भावयितुम् / तद्वद् एतत् / द्रव्यं चात्मा चैतन्यं च गुणरूपं तयोः परस्परभेदाद् अचेतनस्वरूप एव पुमान् / न चास्याचेतनस्य घटस्येवात्मत्वं कल्पयितुं न्याय्यम् इति न युक्त आत्मा / यदि चायम् आत्मा प्रतिसत्त्वं सर्वगतः स्यात् तदा //

परस् त्व् अवेति किं नाहम् अहं सर्वगतो यदि // ब्य्च्श्ट्_10.14अब् [= सेरिअल्नो. 239अब्]

यदि तावकिया कल्पनयाहं सर्वगतः सर्वव्यापी स्याम् आकाशवत् तदा सत्त्वान्तरे ऽप्य् मदात्मनः सद्भावात् किम् इति तस्य तस्मिन् ममेवाहङ्कारो नोत्पद्यते / एवं ह्य् अस्य सर्वगतत्वं युज्यते यदि ममेव परस्यापि मदात्मनि स्याद् अहङ्कारः / न च परात्मनास्य मदात्मनः परशरीरे युक्तम् आवरणम् / न हि परात्मदेशे ऽस्मदात्मनो ऽसद्भावः सर्वात्मनां व्यापित्वाभ्युपगमात् /

यदा च समानदेशता तदा न तेन तस्यावरणं शक्यं कर्तुम् इति प्रतिपादयन्न् आह //

तेनैवावरणं नाम न तस्यैवोपपद्यते // ब्य्च्श्ट्_10.14च्द् [= सेरिअल्नो. 239च्द्]

इति //

समानदेशत्वात् स्वात्मस्वरूपस्येव स्वात्मना नास्त्य् आवरणम् इत्य् अहङ्कारविषयत्वं परात्मनो ऽपि प्रसज्यते / न त्व् एवं भवतीति न सर्वगत आत्मा / एवं तावद् उभयमते ऽप्य् आत्मनो ऽस्तित्वम् अयुक्तम् इति प्रतिपाद्य गुणानाम् अपि सकलजगत्कर्तृत्वासम्भवेनायुक्ततां प्रतिपादयन्न् आह //

येषां गुणानां कर्तृत्वम् अचैतन्यं च सर्वशः / तेषाम् उन्मत्तकानां च न किंचिद् विद्यते ऽन्तरम् // ब्य्च्श्ट्_10.15 [= सेरिअल्नो. 240]

सत्त्वरजस्तमांसि त्रयो गुणाः / तेषां साम्यावस्था प्रधानं प्रसवावस्था प्रकृतिः / सेदानीं त्रिगुणात्मिका प्रकृतिर् अचेतनापि सती पुरुषस्य विदितविषयोपभोगौत्सुक्यात् पुरुषेणाभेद्यं प्रतिपद्य सकलं विकारग्रामं प्रसूते / तत्र चायं क्रमः / यद् उत / प्रकृतेर् महान् / महान् इति बुद्धेः पर्यायः / महतो ऽहङ्कारः / स च त्रिविधः / सात्त्विको राजसस् तामस इति / तत्र सात्त्विकाद् अहङ्कारात् पञ्चबुद्धीन्द्रियाणि श्रोत्रं त्वक् चक्षू रसनं घ्राणम् इति / पञ्चकर्मेन्द्रियाणि वाक् पाणि पाद पायूपस्थाख्यानि / उभयात्मकं च मन इत्य् एकादश प्रवर्तन्ते /

राजसाद् अहङ्कारात् पञ्चतन्मात्राणि शब्दस्पर्शरूपरसगन्धाः / तन्मात्रेभ्यो भूतान्य् आकाशवायुतेजोजलपृथिव्याख्यानि / तामसस् त्व् अहङ्कार उभयोर् अहङ्कारयोः प्रवर्तक इत्य् एवं प्रकृतिविकाररूपत्वात् सकलस्य विकारग्रामस्य त्रयो गुणाः प्रवर्तका इत्य् एवं येषां वादिनां गुणानां कर्तृत्वम् अचैतन्यं चेत्य् अभिप्रायः / वस्तुतत्त्वविचक्षणाः

तेषाम् उन्मत्तकानां च न किंचिद् विद्यते ऽन्तरम् ब्य्च्श्ट्_10.15च्द् [= सेरिअल्नो. 240च्द्]

इति पश्यन्ति / उन्मत्तको हि नाम विपर्यस्तविज्ञानसन्ततिः / स हि विपर्यस्तेन विज्ञानेन यथार्थं न प्रतिपद्यते / विपरीतं चावधारयति / असदर्थं च प्रलपति / तथा चायम् अपि सांख्यो ऽचेतनानां गुणानां कर्तृत्वं शास्त्रेण प्रतिपादयन् यथार्थो व्यवस्थापितस् तथा न प्रतिपद्यते / विपरीतं चावधारयति / असदर्थं प्रलपतीति / तुल्य एवोन्मत्तकैः स भाव्यते //

अपि चास्यायं पुरुषो विकारग्रामस्याकर्ता च भोक्ता च / गुणास् तु कर्तारो न तु भोक्तारः / तद् अयं कर्तृत्वम् अभोक्तृत्वं च निरुपपत्तिकं गुणानाम् आवेदयन्न् अत्यन्तायुक्तताम् एवात्मनः प्रकटयतीति प्रतिपादयन्न् आह //

कर्तुं नाम विजानन्ति गृहादीन् सर्वथा गुणाः / भोक्तुं च न विजानन्ति किम् अयुक्तम् अतः परम् // ब्य्च्श्ट्_10.16 [= सेरिअल्नो. 241]

युक्तिविरुद्धत्वाल् लोकासम्मतत्वाच् चास्य मतस्य नातः परम् अयुक्ततरम् अस्तीत्य् अभिप्राय इत्य् एवं तावद् गुणानां कर्तृत्वम् अयुक्तम् / यस्याप्य् आत्मैव कार्ता धर्माधर्मयोः फलस्य चोपभोक्तेति मतं तस्याप्य् आत्मनो नित्यत्वम् अयुक्तम् / यस्मात् //

क्रियावाञ् छाश्वतो नास्ति // ब्य्च्श्ट्_10.17अ [= सेरिअल्नो. 242अ]

इह करोतीति कर्ता / तस्य क्रियानिबन्धनं कर्तृत्वम् / न ह्य् अकिंचित् कुर्वाणो निर्हेतुकः कश्चित् कर्तेति युज्यते / सति च क्रियावत्त्वे नियतं तु क्रियाप्रागव[…] (ब्य्च्श्ट्_10)

chapter xi

[…]सि / तथा हि / तस्यानागतभावच्युत्या हेतुप्रत्ययैर् वर्तमानता भवति / न चैवम् असंस्कृतं स्वरूपात् प्रच्यवत इति नास्यासंस्कृतवन् नित्यत्वम् इति / एवम् अपि कल्प्यमाने /

विनापि जन्मना भङ्गाद् अनित्यो यद्य् अनागतः // ब्य्च्श्ट्_11.7अब् [= सेरिअल्नो. 257अब्]

एवं तर्हि //

अतीतस्य न भङ्गो ऽस्ति स नित्यः किं न कल्प्यते // ब्य्च्श्ट्_11.7च्द् [= सेरिअल्नो. 257च्द्]

यदि स्वरूपप्रच्युतिसद्भावाद् अनागतस्य नित्यत्व [.. .. .. .. .. .. ] त्तस्य तर्हि स्वरूपप्रच्युतिर् नास्तीति स नित्य इति कल्प्यताम् / कस्य वा पदार्थस्य शक्यम् अनित्यत्वं कल्पयितुम् / यदा च न शक्यते तदा सर्वपदार्थानाम् अनित्यत्वस्यासम्भवान् नित्यतैव सम्भाव्यते / तत्र तावत् //

अनित्यो वर्तमानो ऽयम् अतीतश् च न जायते // ब्य्च्श्ट्_11.8अब् [= सेरिअल्नो. 258अब्]

यस् तावद् अयं वर्तमानः पदार्थस् तस्य तावद् अनित्यत्वं नास्ति / स हि वर्तमानत्वात् स्वभावाद् अच्युतेर् वर्तमान इति व्यपदिश्यते / यस्य चानित्यत्वं स वर्तमान एव न भवत्य् अभावेनाभिसम्बन्धात् /

भावाभावयोश् च युगपद् असम्भवात् / वर्तमानस्यानित्यत्वं न सम्भवति / अतीतस्याप्य् अनित्यत्वं न सम्भवति / विनष्टो ह्य् अतीत उच्यते / न च विनष्टस्य पुनर् अपि विनाशो न्याय्यो निःप्रयोजनत्वाद् आश्रयाभावाद् अनवस्थाप्रसङ्गाच् च / एवं तावद्

अनित्यो वर्तमानो ऽयम् अतीतश् च न जायते / ब्य्च्श्ट्_11.8अब् [= सेरिअल्नो. 258अब्]

न च वर्तमानातीतौ मुक्त्वा तस्यानित्यत्वस्य तृतीयो ऽवकाशो युज्यत इत्य् आह //

ताभ्याम् अन्या तृतीयापि गतिस् तस्य न विद्यते // ब्य्च्श्ट्_11.8च्द् [= सेरिअल्नो. 258च्द्]

उत्पन्नस्य यदानित्यताश्रयस्यानित्यत्वम् असम्भाव्यं तदोत्पत्तिशून्यस्यानागतस्याकाशादेर् इव तत् स्याद् इत्य् अत्यन्तम् असङ्गतम् / न चानित्यतारहितस्याकाशादेर् अध्वत्रयकल्पना युक्तिमती / तद्वत् सस्वभावभाववादिनो न युक्तम् अध्वत्रयम् /

अत्राह / अस्त्य् एवानागतो भावस् तस्य सत्सु प्रत्ययेषु जन्मदर्शनात् / न ह्य् असतः पूर्वं पश्चाज् जन्म युज्यते वन्ध्यापुत्रादेर् इव / ततश् च जन्मदर्शनाद् अस्त्य् एवानागतो भाव इति / एवम् अपि कल्प्यमाने //

यः पश्चाज् जायते भावः स पूर्वं विद्यते यदि / न मिथ्या जायते पक्षस् तेषां नियतिवादिनाम् // ब्य्च्श्ट्_11.9 [= सेरिअल्नो. 259]

य उत्पादात् प्रागवस्थो भावो हेतुप्रत्ययैः पश्चाज् जायते स यद्य् उत्पादात् पूर्वं स्वरूपतो ऽस्तीति कल्प्यत एवं सति नियतिवादिनाम् प्रतिनियतस्वभावं निर्हेतुकं पुरुषकारशून्यम् उपपत्तिविरुद्धं जगद् वर्णयतां नाभ्युपगमो मिथ्या स्यात् / न च न मिथ्या तेषां वादस् तत्पक्षस्य दृष्टादृष्टविरोधात् / पुरुषकारानपेक्षत्वात् तेषां जगत्प्रतीत्यसमुत्पादाभावः / तदभावाच् च खरविषाणवत् सर्वं जगद् अग्राह्यं स्याद् इत्य् अयुक्तो नियतिवादः /

यदि चास्यानागतसद्भाववादिनो न्यायः स्यात् तदा नियतिवादिनाम् अपि वादो न्याय्यः स्याद् इत्य् अयुक्तो ऽनागतार्थसद्भाववादः / इतश् चायुको यतः //

सम्भवः क्रियते यस्य प्राक् सो ऽस्तीति न युज्यते / सतो यदि भवेज् जन्म जातस्यापि भवेद् भवः // ब्य्च्श्ट्_10.10 [= सेरिअल्नो. 260]

यस्यार्थस्य हेतुप्रत्ययैर् उत्पादनं सम्भवः क्रियते स जन्मनः पूर्वम् अप्य् अस्तीति न युज्यते / यदि हि तस्यास्तित्वं स्यात् तदा सतो विद्यमानस्य पुनर् अपि जन्म स्यात् / न च सतः पुनर् अपि जन्म न्याय्यं निःप्रयोजनत्वात् / अनिष्टप्रसङ्गाद् आ संसारम् एकस्यैवार्थस्य पुनर् उत्पादेनापरिसमाप्तोदयस्य सतस् तत्पदार्थान्तराप्रवृत्तेर् हेतुफलभावव्याघातः स्यात् / अस्ति चेयं हेतुफलभूतानां पदार्थानां सन्तानानुवृत्तिर् इति न युक्तो ऽनागतपदार्थसद्भावस्य वादः /

अत्राह / यद्य् अनागतं न स्याद् यद् एतद् अनागतार्थालम्बनं योगिनां प्रणिधिज्ञानं यथार्थं न स्यात् / अस्ति चैतद् यथार्थं योगिनां ज्ञानम् / यथार्थानागतार्थव्याकरणात् तस्य च तथैव भावात् / न ह्य् असत्सु वन्ध्यापुत्रादिष्व् एतत् सम्भवति / तस्माद् अस्त्य् एवानागत इति / उच्यते / तात्त्विकया कल्पनया //

दृश्यते ऽनागतो भावः केनाभावो न दृश्यते // ब्य्च्श्ट्_11.11अब् [= सेरिअल्नो. 261अब्]

उत्पादात् प्रागवस्थायाम् अनागतो भावो नास्ति स्वरूपत इति प्रतिपादितम् / यदि चाविद्यमानः पदार्थो योगिभिर् दृश्येत वन्ध्यापुत्रादयो ऽपि दृश्येरन् / द्वयोर् अपि तुल्यं स्वभावासत्त्वं तत्रैको दृश्यते नेतर इति न युज्यते /

किं पुनर् योगिनो ऽनागतं नेक्षन्ते / यथा भवान् परिकल्पयति तथा नेक्षन्ते / यथाभूतेनानागतेनार्थेन वर्तमानावस्थेन भवितव्यम् / तेषां प्रणिधिबलाक्षिप्तसमाधिविशेषात् तु ज्ञानम् उत्पद्यमानं तथा पदार्थाकारं परिकल्पयद् उत्पद्यते / न तु वर्तमाननीलालम्बनविज्ञानवत् तु तज् ज्ञानं संनिहितवस्त्वाकारानुकारि जायते / तस्य ज्ञानार्थस्य वर्तमानत्वप्रसङ्गात् /

वस्तुसत्पदार्थवादिनो हि यावत् तस्य वस्तुनो ऽस्तित्वं तावत् तथा स्वरूपस्यैव / यदा पदार्थस्वरूपानधिगमस् तदास्य तद् वस्तु सर्वथाभावात् खरविषाणप्रख्यम् इति द्वयवादानतिक्रमाद् अस्य सर्वम् एवाभिसमीहितं दुर्घटं जायते /

निःस्वभाववादिनस् तु सर्वथा वस्तुस्वरूपस्यासम्भवाद् भावकल्पना दूरोत्सारिता / येन ह्य् उत्पत्तव्यं न तस्य नास्तित्वम् / यदि ह्य् अस्य नास्तित्वं स्यात् तदास्य खरविषाणादिवद् उत्पादो न स्यात् / अथास्यास्तित्वं स्यात् तदा वर्तमानस्येवोत्पादो न स्याद् अस्ति चास्योत्पाद इति सिद्धो ऽयम् अद्वयवादः / यत एवास्य नास्तित्वं नास्ति तत एवानागतदर्शनम् अविरुद्धम् / यतश् चास्तित्वं नास्ति तत एवानागतव्यपदेशो ऽपि सिध्यति / एष च लौकिको व्यवहारो न परमार्थ इति नात्रैकान्तेनोपपत्तिर् अवतार्यते /

बुद्धानां भगवतां यद् अनागते ज्ञानं तत् पूर्वप्रणिधानाधिष्ठानाक्षिप्तयथार्थप्रतिपादकशब्दश्रुतिबलाधानात् तथाविधधर्मश्रवणसंवर्तनीयकर्मविशेषप्रभावपरिणतविज्ञानसन्तानास् तथाकारानुविद्धविज्ञानोदयास् तथागताधिष्ठानात् तम् अर्थं प्रतिपद्यमाना यथार्थं प्रतिपद्यन्ते / कालान्तरेण च तम् अर्थं वर्तमानीभूतं तथैवावगच्छन्तीत्य् एवम् अनागते बुद्धानां ज्ञानं व्यवस्थाप्यते / न तु पूर्वधर्मस्वभावव्यवस्थितास् ते किंचित् पश्यन्त्य् उदाहरन्ति चेत्य् अलं प्रसङ्गेन /

एवं तावद् अनागतपदार्थसद्भाववादिनो ऽनागतदर्शनासम्भवः /

अपि च / यस्यानागतो ऽर्थः स्वरूपतो ऽस्ति तस्य न तद् दूरे स्यात् / अस्ति चास्य दूरत्वम् / दूरं धर्माः कतमे / अतीतानागताः / अन्तिकं धर्माः कतमे / प्रत्युत्पन्ना इत्य् अभ्युपगमाद् अनागतम् अस्य दूरे / तच् चास्य दूरत्वम् अयुक्तम् इति प्रतिपादयन्न् आह //

विद्यते ऽनागतं यस्य दूरं तस्य न विद्यते // ब्य्च्श्ट्_11.11च्द् [= सेरिअल्नो. 261च्द्]

वर्तमानस्य विद्यमानत्वाद् इत्य् अभिप्रायः /

यश् चानेन कल्याणमित्रसम्पर्कधर्मश्रवणेन्द्रियपरिपाकादिकाद् भाविनः प्रत्ययाद् दानशीलाद्यात्मको धर्मः सो ऽप्य् अनागतार्थसद्भाववादित्वाद् अस्त्य् एवेति / तदा //

धर्मो यद्य् अकृतो ऽप्य् अस्ति नियमो जायते वृथा // ब्य्च्श्ट्_11.12अब् [= सेरिअल्नो. 262अब्]

यदर्थम् अस्य कायवाङ्मनसां संयमः स धर्मो ऽस्याकृत एवास्तीति तदुपार्जनाय नियमश्रमो ऽस्य वृथा / तेन विनापि तस्य सम्भवात् /

अथास्य तेन नियमेन तस्य धर्मस्य कश्चिद् विशेषो निष्पाद्यते स एव विशेषः पूर्वम् असन् पश्चात् क्रियत इति व्याहन्यते ऽस्य तर्हि सद्भाववादित्वम् इति प्रतिपादयन्न् आह //

अथ स्वल्पो ऽपि कर्तव्यः सत्कार्यस्य न सम्भवः // ब्य्च्श्ट्_11.12च्द् [= सेरिअल्नो. 262च्द्]

अपि च यस्यानित्याः संस्कारा इत्य् अभ्युपगमस् तस्याध्वत्रये ऽप्य् अव्यभिचाराद् अनित्यताया यद् अनित्यत्वं तस्य पूर्वापरयोर् भागयोर् नियतम् असत्त्वेन भवितव्यम् / एवं ह्य् अस्यानित्यत्वं सिध्यते / अथोदयात् पूर्वापरयोर् अप्य् अवस्थयोर् अस्यास्तित्वं स्यात् तदास्य नित्यतैवापद्यते / अथानेनानित्यत्वम् अङ्गीक्रियते तदास्य //

अनित्ये सति सत्कार्यं कथं नाम […] ब्य्च्श्ट्_11.13अब् [= सेरिअल्नो. 263अब्] (ब्य्च्श्ट्_11)

chapter xii

[…] निवृत्त्या मोक्षावाप्तिर् इति निश्चयः / यदा चैवं सर्वत्यागेन सर्वपाषण्डिनां निर्वाणम् अभिमतं तदा न किंचिन् मयात्रापूर्वम् उपचरितं यद् वैमुख्यकारणं भवेत् / येषाम् एव हि पदार्थानां निर्वाणे पुनर् अप्रवृत्त्या निर्वृत्तिर् अभिसमीहिता तेषाम् एव मया नैःस्वाभाव्यप्रतिपादनपरेण शास्त्रेणासद्दर्शनकण्टकु[.. .. .. .. .. .. .. ] निर्वाणनगरगामिमार्गपरिशोधनम् अनुष्ठितम् / तत् किम् इति हृदि भयम् असद् आलिख्य भवान् बिभेति / आधीयतां मनःपरितोषः क्रियताम् आत्मसाद् अयं धर्मो निवेश्यतां चेतसि सांक्लेशिकवस्तुनिवारणकथा /

ननु च यदि सर्वपाषण्डिनाम् अप्य् अयम् एवाभिप्रायो यद् उत सर्वत्यागेन निर्वाणम् इति कः पुनर् भवतस् तीर्थिकानां च विशेषः / अयं विशेषो यत् तीर्थिकानां सर्वत्यागाभिप्रायमात्रं न तु पुनः सर्वत्यागोपायाख्यानम् / अनुपदिष्टे च सर्वत्यागोपाये //

किं करिष्यति स त्यागं त्यागोपायं न वेत्ति यः // ब्य्च्श्ट्_12.4अब् [= सेरिअल्नो. 279अब्]

सर्वत्यागाशये ऽपि स्थितस् तीर्थिकमतावलम्बी त्यागोपायानभिज्ञः किं त्यागं करिष्यति / यन् न जानाति सर्वधर्मस्वभावशून्यतालक्षणं सर्वत्यागोपायं परमार्थसत्यम् / अत एव //

शिवम् अन्यत्र नास्तीति नूनं तेनोक्तवान् मुनिः // ब्य्च्श्ट्_12.4च्द् [= सेरिअल्नो. 279च्द्]

इहैकः प्रथमश्रमण इह द्वितीयो यावच् चतुर्थः / शून्याः परप्रवादाः श्रमणैर् इत्य् अमुनैवाभिसंधिना मुनिनैवम् उक्तम् इति निश्चीयते / अस्माद् एव च सर्वत्यागोपायसमाख्यानात् सर्वत्रैव भगवतो बुद्धस्य ज्ञानप्रवृत्त्यव्याघातेन यथार्थशास्तृत्वं प्रतीयते /

तीर्थिकानां च सर्वत्यागोपायसमाख्यानसामर्थ्यवैकल्येनेतरत्रापि पदार्थजाते2 विपर्यस्तविज्ञानतासिद्धत्वान् न साध्या /

ननु च तवाप्य् अपर्यन्तत्वाज् ज्ञेयस्यातीन्द्रियेष्व् अर्थेषूपदिष्टेष्व् असमक्षत्वात् तेषां संशय एव जायते किम् असाव् अर्थो यथोपदिष्टस् तथैवाहो स्विद् अन्यथेति / न हि तद्विषयं निश्चयकारणम् अस्तीति / तत्राप्य् उच्यते //

बुद्धोक्तेषु परोऽक्षेषु जायते यस्य संशयः / इहैव प्रत्ययस् तेन कर्तव्यः शून्यतां प्रति // ब्य्च्श्ट्_12.5 [= सेरिअल्नो. 280]

न हि सर्वे भावाः प्रत्यक्षज्ञानगम्या अनुमानगम्या अपि विद्यन्ते / शक्यं चात्रानुमानं कर्तुं दृष्टान्तसद्भावात् / इह त्यागोपायः सर्वधर्मस्वभावशून्यता / सा चाशक्या केनचिद् अन्यथात्वम् आसादयितुम् / सूक्ष्मश् चायम् अर्थो नित्यसंनिहितो ऽपि सर्वजनासमक्षत्वात् / तस्य चोपपत्त्या सर्वधर्मस्वभावग्राहविनिवारणमुखेनोपपादिता यथावत्ता / अत्रैव तावद् आस्थीयतां निश्चयः / किम् एवम् एवैतद् उताहो ऽन्यथेति / अथात्रास्ति किंचिद् अनिश्चयकारणं तद् उपदिश्यतां यदि तन् न निराकृतम् उक्तवक्ष्यमाणप्रकरणप्रतिपादितविनिश्चयेन / न च शक्यम् अनेन स्वल्पम् अप्य् अनिश्चयकारणं किंचिद् अभिधातुम् इति सिद्ध एवायं दृष्टान्तः / ततश् चान्यद् अप्य् असमक्षार्थप्रतिपादकवचनं भगवतो यथार्थम् इति प्रतीयतां स्वनयेनैव तथागतोपदिष्टत्वात् स्वभावशून्यतार्थाभिधायकवचनवद् इति कुतो बुद्धोक्तेषु परोऽक्षेषु संशयावकाशः /

न च तथागतवत् तीर्थिकानाम् अपि शक्यम् अविपरीतार्थाभिधायित्वम् अवसातुं तेषां दृष्ट एव विपर्यस्तत्वात् / तथाह्य् अस्य लोकस्य तैर् नित्यकारणपूर्विका प्रवृत्तिर् उपदिश्यते / सा चाशक्यप्रतिपाद्या दृष्टविरुद्धा चोपपत्तिविरुद्धा चेत्य् एवम् //

लोको ऽयं येन दुर्दृष्टो मूढ एव परत्र सः // ब्य्च्श्ट्_12.6अब् [= सेरिअल्नो. 281अब्]

न हि सम्पूर्णे चन्द्रमसि व्याहतदर्शनसामर्थ्यो ध्रुवम् अरुन्धतीं वा पश्यतीति सम्भाव्यम् / तद्वद् अयं तीर्थिको लोकस्य सत्त्वभाजनाख्यस्य हेतुफलव्यामूढत्वात् स्थूलम् एवार्थं तावद् यदा न सम्यग् ईक्षते तदा कथम् अयम् अतिसूक्ष्मं विदूरदेशकालव्यवहितं सप्रभेदम् अर्थं ज्ञास्यतीति सम्भावयितुं शक्यम् / तद् इमं तीर्थिकं स्वयम् अत्यन्तविपर्यासितदर्शनं मृगतृष्णाजलवद् अनुपासनीयं तत्त्वदर्शनामलजलपिपासवः संसाराध्वपरिश्रमक्लमापनोदनाय

// वञ्चितास् ते भविष्यन्ति सुचिरं ये ऽनुयान्ति तम् // ब्य्च्श्ट्_12.6च्द् [= सेरिअल्नो. 281च्द्]

अपर्यवसानापरकोटिके संसारे ते वत वञ्चिता भविष्यन्ति ये यथार्थशास्तारं बुद्धं भगवन्तम् अवधूय दृष्टादृष्टपदार्थस्वभावव्यामूढं मोक्षकामतया तीर्थिकम् अनुयास्यन्ति /

कस्मात् पुनर् एते मोक्षकमास् तम् एव विपर्यस्तदर्शनं तीर्थिकम् अनुगच्छन्ति / स्वभावशून्यताधर्मोपदेशश्रवणभयात् / तद् भयं

नास्त्य् अहं न भविष्यामि न मे ऽस्ति न भविष्यति /

इत्य् आलम्ब्योत्त्रासात् / तत्रायं सुचिरम् अहङ्कारममकाराभ्यासात् / अत एव कल्याणमित्रपरिग्रहात् सुचिराभ्यस्तम् अपि भावस्वभावाभिनिवेशं मलवत् त्यक्त्वा //

स्वयं ये यान्ति निर्वाणं ते कुर्वन्ति सुदुष्करम् / ब्य्च्श्ट्_12.7अब् [= सेरिअल्नो. 282अब्]

बुद्धो भगवान् स्वयं भूत्वा स्वयम् एव निर्वाणपुरम् उपयाति / तस्येत्थं दुष्करकारिणः //

गन्तुं नोत्सहते नेतुः पृष्ठतो ऽप्य् असतो मनः // ब्य्च्श्ट्_12.7च्द् [= सेरिअल्नो. 282च्द्]

न केवलम् असताम् अहङ्करममकरव्यवस्थितानां स्वयम् एव निर्वाणं गन्तुं मनो नोत्सहते / अपि खलु यथोपवर्णितस्य नेतुः पृष्ठतो ऽप्य् अस्यासतो निर्वाणं गन्तुं मनो नोत्साहम् प्रवेदयते /

कस्मात् पुनर् अस्य नेतुः पृष्ठतो ऽप्य् असतः पुद्गलस्य निर्वाणं गन्तुं मनो नोत्सहते / शून्यतायां त्रासात् /

कस्य पुनर् अस्यां त्रासो भवतीति / यस्य भवति तं प्रति प्रतिपादयन्न् आह //

त्रासो नारभ्यते ऽदृष्टे दृष्टे ऽपैति स सर्वशः / नियमेनैव किंचिज्ज्ञे तेन त्रासो विधीयते // ब्य्च्श्ट्_12.8 [= सेरिअल्नो. 283]

अव्युत्पन्नशास्त्रसंकेता हि गोपालादयः / शतशो ऽप्य् उपदिश्यमानायां शून्यतायां सर्वथा तदनुप्रवेशाभावे सत्य् अदृष्टत्वाच् छून्यतार्थस्य तेषां त्रासो नोत्पद्यते / तस्मिन् क्षणभङ्ग इव तद्व्यामूढस्य नारकाग्नव् इव मिथ्यादर्शनोपस्तब्धसन्तानस्य /

द्र्ष्टे ऽपैति स सर्वशः // ब्य्च्श्ट्_12.8ब् [= सेरिअल्नो. 283ब्]

डृष्टे हि शून्यताख्ये धर्मे स संत्रासस् तत्पण्डितानां सर्वथापैति भयनिमित्तात्मात्मीयाभिनिवेशविगमात् /

रज्ज्वाम् उपजातसर्पविपर्यासस्य रज्जुदर्शने सति सर्पभयापगमवत् / यस् तु किंचिज् जानाति तस्य नियमेनावश्यम्भावितया त्रासो विधीयते / न हि सुशिक्षितो मत्तगजावाहको हस्तिन्य् उत्काल्यमानस् ततो बिभेति / नापि तद्वाहनोत्सुको ऽत्यन्तमूर्खो ग्रामीणः / स हि तत्पातादिदोषादर्शनाद् वाहनम् एव बहु मन्यमानो न ततो बिभेति / किंचिज्ज्ञस् त्व् अतितरां बिभेत्य् आत्मनस् तदासनापरिजयं मन्यमानः / अपि खलु सर्वकार्येष्व् एवं प्रवृत्तौ किंचिज्ज्ञस्य नियतं त्रासो भवति / न विदिततत्त्वस्य वैशारद्यात् / नाप्य् अत्यन्तानभिज्ञस्य मोहसंधारितत्वात् / किंचिज्ज्ञस् तु त्रस्यति किम् एतच् छक्यं न शक्यम् इति विमर्शोत्पादात् //

किम् अर्थं पुनर् अमी किंचिज्ज्ञा उत्तरं पदं न पर्येषन्ते यावतैषां ज्ञातव्यपरिसमाप्तिर् भवतीति / उच्यते / त्रासात् / किंपुनस् त्रासस्य कारणम् / आह / अनभ्यासः / तस्य पुनः किं कारणम् / विपरीताभ्यासस् तद् एव प्रतिपादयन्न् आह //

एकान्तेनैव बालानां धर्मे ऽभ्यासः प्रवर्तके / धर्मान् निवर्तकात् तेषाम् अनभ्यासतया भयम् // ब्य्च्श्ट्_12.9 [= सेरिअल्नो. 284]

संसारप्रवृत्त्यनुकूलो हि धर्मः प्रवर्तकः / पृथग्जनपर्यापन्नायां च भूमौ स्थितानां पृथग्जनानां प्रवर्तक एव धर्मे ऽभ्यासः / स्वभावशून्यता हि निवर्तको धर्मः संसारनिवृत्त्यनुकूलत्वात् तदभ्यासस्य परिपन्थ्य् आत्मस्नेहः / तदनुगतचित्तसन्तानत्वात् / पृथग्जनास् तद्व्यावर्तकाद् धर्मात् सुतरां बिभ्यति / स्वभावशून्यतां प्रपातम् इव मन्यमाना न तां यथावत् प्रतिपत्तुम् उत्सहन्ते /

तद् एवम् अविद्यासान्द्रान्धकारप्रच्छादितपदार्थतत्त्वे ऽनुपलभ्यमानापरकोटिके संसारमहाटवीकान्तारे प्रनष्टसन्मार्गस्य कस्यचिन् नाम पुद्गलस्य भवति स्वभावशून्यताकथायां चेद् भक्तिः स तदनुकूलप्रत्ययोपसिद्धिद्वारेण यथोपचीयमानप्रसादः शून्यतायां भवति तथा कार्यं करुणावता कृतज्ञेन च भगवति तथागते सद्धर्मान्तरायनिमित्तं च कर्मात्मनो महाप्रपातहेतुं परिजिहीर्षया संकटम् अप्य् अवगाह्य दुर्देयम् अपि दत्त्वा संग्रहवस्तुचतुष्टयेन संगृह्य सद्धर्मो ऽयं सद्धर्मभाजनेभ्य उपदेष्टव्यः /

यस् तु न केवलं यथोपदिष्टं न बहु मन्यते / अपि तु //

विघ्नं तत्त्वस्य यः कुर्याद् वृतो मोहेन केनचित् / कल्याणाधिगतिस् तस्य नास्ति मोक्षे तु का कथा // ब्य्च्श्ट्_12.10 [= सेरिअल्नो. 285]

मोहेन केनचिद् इतीर्ष्यामात्सर्यकौसीद्यभयश्रोतृविद्वेषादिना तत्त्वोपदेशभाजने जने यस् तत्त्वदेशनश्रवणादिविघातं करोति / तस्य सुगतेर् अपि तावद् देवमनुष्यात्मिकाया नास्ति सम्भवो नियतम् अपायगमनात् किम् उतास्य मोक्षकथावकाशः स्यात् / किं ह्य् अनेन स्वपरसन्तानयोर् नापकृतम् / तेन हि निःशेषाशामुखव्यापिनः स्फुटतरालोकस्याध्वत्रयाप्रतिहतप्रभावृत्तेः प्रतिदिनम् अविद्यान्धकारोपघातायोपचीयमानालोकनिचयस्याशेषजगदाशयावभासनसमर्थस्य प्रज्ञाप्रदीपस्य सन्तानेन समुपजायमानस्य विघातो ऽनुष्ठितः /

एवम् एव परात्मनोर् अत्यन्तापकारितां सम्पश्यता भगवता तथागतेनोक्तम् //

शीलाद् अपि वरं स्रंसो न तु दृष्टेः कथंचन // ब्य्च्श्ट्_12.11अब् [= सेरिअल्नो. 286अब्]

इति //

सूत्र उक्तम् /

वरं शीलविपन्नो न तु दृष्टिविपन्नः /

इति / तद् अस्य तथागतस्य वचसः सोपपत्तिकताम् उद्भावयन्न् आचार्य आह //

शीलेन गम्यते स्वर्गो दृष्ट्या याति परं पदम् ऽ// ब्य्च्श्ट्_12.11च्द् [= सेरिअल्नो. 286च्द्]

इति //

शीलविपत्तिर् हि सूपचीयमानमृदुमध्याधिमात्रक्रमाणां प्रेततिर्यङ्नरकोपपत्तिफला विपाकेयत्तापरिच्छेदेन प्रवर्तते / यद्य् आक्रान्तसम्यग्दर्शनेष्व् आर्येषु न व्यापद्यते / शीलविशुद्धिस् त्व् अनाक्रान्तसम्यग्दर्शनानां पृथग्जनानां प्रकर्षेण स्वर्गफला / दर्शनविपत्तिस् तु मृदुतरा चेत् साप्य् असंख्येयशतसहस्रैर् अपि शीलविपत्तीनाम् अशक्या विपाकमहत्तया समीकर्तुम् अपि प्राग् एव जेतुम् /

अथ चेद् अस्य पुद्गलस्य कथम् अपि प्रत्ययात् सम्यग्दर्शनसम्पत्तिर् आजायेद् आर्यमार्गोत्पादात् / तदायम् अवश्यम् अवधूयानादिसंसारप्रवृत्तम् अविद्यान्धकारम् अशेषसत्त्वधातुपुरस्कृतो निर्वाणम् उपयायाद् इत्य् एवम् अतिमहार्थताम् अस्य तत्त्वदर्शनस्यावेत्यैतदविघाताय विदुषा यतितव्यम् /

न चानेन तद्विघातभयदर्शिना सता सर्वत्रैवानवधार्य पात्रविशेषम् एतन् नैरात्म्यदर्शनम् उपदेष्टव्यम् अपात्रेषु / अपात्रे हि तदुपदेशो ऽनर्थायैव स्यात् / अत एव च //

अहङ्कारो ऽसतः श्रेयान् न तु नैरात्म्यदर्शनम् / ब्य्च्श्ट्_12.12अब् [= सेरिअल्नो. 287अब्]

नैरात्म्यधर्माधिमुक्तिविरहितो ह्य् आत्मग्राहाभिनिविष्टो ऽसद्धर्मसमाश्रयाद् दृष्टिगहनानुचार्य् असन्न् इत्य् उच्यते / तस्यासतो वरम् आत्मदेशना दुश्चरितनिवृत्त्यनुकूलत्वात् तस्याः / तथा ह्य् असाव् आत्मस्नेहानुगमाद् धितम् आत्मनो ऽभिवाञ्छन् दुश्चरितनिवृत्तिं बहु मन्यते / निवृत्तपापस्य चास्य सुगतिगमनं भवति सुलभम् / नैरात्म्योपदेशस् तस्य प्रतिक्षेपविपर्यासबोधाभ्यां कायचित्तसन्तानं नियतम् उपहन्ति // तद् एवम् //

अपायम् एव यात्य् एकः शिवम् एव तु नेतरः // ब्य्च्श्ट्_12.12च्द् [= सेरिअल्नो. 287च्द्]

नैरात्म्यदर्शनविप्रतिपन्नो ह्य् अविद्वान् अपायम् एव याति न शिवम् / यस् तु नेतरः स शिवम् एव याति नापायम् / इतरशब्दो ऽयम् अनुत्कृष्टवाची / कश् चानुत्कृष्टः / यो विपरीतं शून्यतार्थम् अधिगच्छति प्रतिक्षिपति वा / तत्प्रतिषेधेन नेतरः / नेतर इत्य् उत्कृष्ट इत्यर्थः / यत एव शून्यतोपदेशाद् इतरो ऽपायनिष्ठस् तत एव शून्यतोपदेशान् नेतरो निर्वाणनिष्ठो जायते / शून्यतादर्शनप्रत्ययेन सर्वत्र सङ्गपरित्यागान् निहतक्लेशकर्मगणो नियतं निर्वृत्तिम् उपयाति /

किं पुनर् इदं नैरात्म्यं नाम यद् असत्सु नोपदेष्टव्यं सत्सु चोपदेष्टव्यम् इति तत् प्रतिपादयन्न् आह //

अद्वितीयं शिवद्वारं कुदृष्टीनां भयङ्करम् / विषयः सर्वबुद्धानाम् इति नैरात्म्यम् उच्यते // ब्य्च्श्ट्_12.13 [= सेरिअल्नो. 288]

यद् अद्वितीयं शिवद्वारं तन् नैरात्म्यम् / यत् कुदृष्टीनां भयङ्करं तन् नैरात्म्यम् / यो विषयः सर्वबुद्धानां तन् नैरात्म्यम् इत्य् उच्यते / तत्रात्मा नाम भावानां यो ऽपरायत्तस्वरूपस्वभावः / तदभावो नैरात्म्यम् / तच् च धर्मपुद्गलभेदाद् द्वैतं प्रतिपद्यते / धर्मनैरात्म्यं पुद्गलनैरात्म्यं चेति / तत्र पुद्गलो नाम यः स्कन्धपञ्चकस्योपादानाख्यस्योपादाता स्कन्धान् उपादाय प्रज्ञप्यते / स च स्कन्धेषु पञ्चधा मृग्यमाणो न सम्भवति / धर्मास् तु स्कन्धायतनधातुसंशब्दिताः पदार्थाः / तद् एषां धर्माणां पुद्गलस्य च यथास्वं हेतुप्रत्ययाधीनजन्मत्वात् / उपादाय प्रज्ञप्यमानत्वाच् च / स्वायत्तम् अपरायत्तं निजम् अकृतकरूपं नास्तीति पुद्गलस्य धर्माणां च नैःस्वाभाव्यं व्यवस्थाप्यते /

यस्य चार्थस्य स्वरूपसिद्धिर् नास्ति तस्य केनान्येनात्मनास्तु सिद्धिर् इति / सर्वथासिद्धस्वलक्षणा एव पदार्था विसंवादकेनात्मना प्रतीत्य वोपादाय वा वर्तमाना मूढधियां सङ्गास्पदं सम्भवन्ति / यथास्वभावं तु सम्यग्दर्शनैः प्रतिभाव्यमाना धर्मपुद्गलयोः सङ्गपरिक्षयम् आवहन्ति / सङ्गपरिक्षयश् च निर्वाणावाप्तिकारणम् /

नैरात्म्यम् अद्वितीयम् शिवद्वारं भवति /निर्वाणपुरप्रवेशाय एकम् एवासहायम् एतद् द्वारम् / यद्य् अपि शून्यतानिमित्ताप्रणिहिताख्यानि त्रीणि विमोक्षमुखानि / तथापि नैरात्म्यदर्शनम् एव प्रधानम् / विदितनैरात्म्यस्य हि भावेषु परिक्षीणसङ्गस्य न क्वचित् काचित् प्रार्थना कुतो वा निमित्तोपलम्भ इत्य् अद्वितीयम् एव शिवद्वारम् एतन् नैरात्म्यम् /

तच् चैतत् कुदृष्टीनां भयङ्करम् / कुत्सिता दृष्टयः कुदृष्टयः / नैरात्म्ये हि वस्तुनः सर्वथानुपलम्भात् कुदृष्टीनां वस्तुस्वरूपपरिकल्पसमाश्रयणाद् अत्यन्तविनाशदर्शनाद् भयङ्करम् एतन् नैरात्म्यम् /

विषयः सर्वबुद्धानां नैरात्म्यम् / सर्वबुद्धानाम् इति श्रावकप्रत्येकबुद्धानुत्तरसम्यक्सम्बुद्धानाम् / ज्ञानविशेषविषयत्वेनावस्थानाद् विषयः सर्वबुद्धानाम् इत्य् उच्यते / धर्मशरीराव्यतिरेकवर्तितां वा सर्वेषां सम्यक्सम्बुद्धानाम् आवेदयन्न् आह विषयः सर्वबुद्धानाम् इति / विशेषणमालया नैरात्म्यम् उक्तम् आचार्येण /

एतच् च नैरात्म्यं सता मन्दधियो नोपदेष्टव्यम् / यस्मात् //

अस्य धर्मस्य नाम्नो ऽपि भयम् उत्पद्यते ऽसतः // ब्य्च्श्ट्_12.14अब् [= सेरिअल्नो. 289अब्]

असतो ह्य् अस्य धर्मस्यातिदुर्गाधगम्भीरत्वान् नैरात्म्यशब्दश्रवणाद् अपि भयम् उत्पद्यते / तथा हि //

बलवान् नाम को दृष्टः परस्य न भयङ्करः // ब्य्च्श्ट्_12.14च्द् [= सेरिअल्नो. 289च्द्]

बलवन् नैरात्म्यदर्शनं सर्वासद्दर्शनोन्मूलनसमर्थत्वात् / दुर्बलम् असद्दर्शनम् उन्मूलनीयत्वात् / नियतं चैतद् यद् अबलवान् सबलाद् बिभेतीति / तस्मान् न दुर्बलस्य कुदर्शनेनात्मीकृतचित्तसन्तानस्यायं धर्म उपदेष्टव्यो भयहेतुर् इति कृत्वा /

ननु चोपदेष्टव्य एवायं धर्मः सकलकुदर्शनप्रमाथित्वात् / तथा ह्य् अवश्यं परप्रवादिनः सह धर्मेण निग्रहीतव्याः / ततश् च वादार्थिना सता परमतविजिगीषुणायं धर्मो ऽपात्रेष्व् अप्य् उपदेष्टव्य इति / उच्यते / नैतद् एवम् / यस्मात् //

वादस्य कृतशो धर्मो नायम् उक्तस् तथागतैः / ब्य्च्श्ट्_12.15अब् [= सेरिअल्नो. 290अब्]

यदि चायं धर्मो वादस्य कृतेनोपदिष्टः स्यात् स्याद् एतद् एवम् / न त्व् अयं वादार्थम् उपदिष्टो विमोक्षमुखेनोपदेशात् / यद्य् अप्य् एवम् // […] (ब्य्च्श्ट्_12)

chapter xiii indriyārthapratiṣedha

[…] चक्षुः पश्येत् तद् रूपं पश्येद् विषयदेशं वा गत्वा पश्येद् अगत्वा वा / उभयथा च दोष इति प्रतिपादयन्न् आह //

पश्येच् चक्षुश् चिराद् दूरे गतिमद् यदि तद् भवेत् / अत्यभ्यासे च दुरे च रूपं व्यक्तं न तच् च किम् // ब्य्च्श्ट्_13.13 [= सेरिअल्नो. 313]

यदि चक्षुषः प्राप्तकारित्वाद् विषयदेशं गच्छेत् तदोन्मिषितमात्रेण न चन्द्रतारकादीन् अर्थान् गृह्णीयात् / गतिमतो ऽर्थस्य संनिहितविषयग्रहणं तुल्यकालं विप्रकृष्टविषयग्रहणम् अयुक्तं गतिकालस्य भिन्नत्वात् / पश्यति च चक्षुर् उन्मिषितमात्रेण समीपस्थवद् विदूरदेशस्थम् अपीत्य् अयुक्तम् एतत् / यदि च प्राप्तकारि चक्षुः स्यात् तदात्यभ्यासे ऽपि पश्येद् अक्षिस्थम् अञ्जनं शलाकां वा दुरे च व्यक्तदर्शनं स्यान् न चैतत् सम्भवतीत्य् अयुक्तम् एतत् /

अपि च यदि चक्षुर् गत्वा विषयं पश्यति तत् किं विषयं दृष्ट्वा विषयदेशं गच्छत्य् उतादृष्ट्वा / उभयथापि दोष इति प्रतिपादयन्न् आह //

गतेन न गुणः कश्चिद् रूपं दृष्ट्वाक्षि याति चेत् / द्रष्टव्यं नियमेनेष्टम् इति वा जायते वृथा // ब्य्च्श्ट्_13.14 [= सेरिअल्नो. 314]

यदि रूपं दृष्ट्वा रूपदेशं चक्षुर् यातीति कल्प्यते गतेन तेन गमनेन चक्षुषो न किंचित् प्रयोजनम् / विषयदर्शनार्थं हि चक्षुषो गमनम् / स च विषयः पूर्वम् एवेहस्थेन दृष्ट इति न किंचिद् गमनस्य प्रयोजनम् /

अथादृष्ट्वा गच्छति तदा दिदृक्षितविषयदर्शनं नियमेन न प्राप्नोति / अदृष्ट्वा ह्य् अन्धस्येवानभिलक्षितदेशगमनाद् द्रष्टव्यस्य नियमेन दर्शनं न प्राप्नोति /

अथैतद्दोषपरिजिहीर्षया यदि //

गृह्णीयाद् अगतञ् चक्षुः पश्येत् सर्वम् इदं जगत् / यस्य नास्ति गतिस् तस्य नास्ति दूरं न चावृतम् // ब्य्च्श्ट्_13.15 [= सेरिअल्नो. 315]

यो हि मन्यते

चक्षुःश्रोत्रमनो ऽप्राप्तविषयम्

इत्य् आगमाद् अप्राप्तविषयम् एव चक्षुर् इति तं प्रत्य् उच्यते / प्राप्तकारितामात्रप्रतिषेधपरत्वाद् आगमस्य तावद् अविरोधः / क्वचिद् विधेः प्राधान्यं यत्र तस्याविरोधः / क्वचित् प्रतिषेधस्य प्राधान्यं यत्र तदविरोधः / तद् अत्र विधेर् असम्भवात् प्राप्तकारिताप्रतिषेधमात्रेणाप्राप्तविषयत्वं व्यवस्थाप्यते /

विधिमुखेन त्व् अप्राप्तविषयत्वे कल्प्यमान इहस्थम् एव चक्षुः सर्वं जगत् पश्येत् / यस्य हि गतिर् नास्ति तस्य कुतो दूरम् / समीपस्थो ऽपि ह्य् अनेनार्थो ऽगत्वा द्रष्टव्यो विदूरस्थो ऽपीति दूरकृतो ऽपि विशेषो न स्यात् / यदा चागत्वा पश्यति तदेहस्थम् इव विदूरम् अपि पश्येत् / गतौ हि सत्याम् आवृते गतिविघाताद् आवृतं नेक्षत इति युक्तम् / यदा त्व् अगत्वा द्रष्टव्यं तदावृते गतिप्रतिबन्धाभावाद् अनावृत इव दर्शनं स्यात् /

यदि च दर्शनस्वभावं चक्षुः स्यात् तदा स्वभावस्य सर्वत्रैवाव्याघातात् स्वरूपम् अपि पश्येत् / तथा हि लोके //

स्वभावः सर्वभावानां पूर्वम् आत्मनि दृश्यते / ग्रहणं चक्षुषः केन चक्षुषैव न जायते // ब्य्च्श्ट्_13.16 [= सेरिअल्नो. 316]

यथा चम्पकमल्लिकादिषु सौगन्ध्यं पूर्वं स्वाश्रय एवोपलभ्यते पश्चात् तत्सम्पर्कात् तैलादिष्व् अपि /

यथा चाग्नेर् औष्ण्यं स्वतो व्यवस्थितं तद्योगात् परतो ऽप्य् उपलभ्यते / एवं यदि चक्षुषोर् दर्शनस्वाभाव्यं स्यात् तदा स्वात्मन्य् एव तावद् दर्शनं स्यात् / कस्मात् पुनश् चक्षुषो ग्रहणं चक्षुषैव न भवति / भावानां स्वभावस्य च स्वात्मन्य् एव प्रथमतरं विद्यमानत्वाच् चक्षुषैव चक्षुषो ग्रहणं न्याय्यम् / न चक्षुः स्वात्मानं पश्यतीति लोष्टादिवत् परदर्शनम् अप्य् अस्य न सम्भाव्यते /

यस् तु मन्यते न केवलस्य चक्षुषो रूपदर्शनसामर्थ्यम् अस्ति / अपि तु त्रयाणां चक्षूरूपचक्षुर्विज्ञानानां सामग्र्यां सत्यां रूपदर्शनं भवतीति / तद् अप्य् असारम् / यस्मात् //

चक्षुषो ऽस्ति न विज्ञानं विज्ञानस्य न दर्शनम् / उभयं नास्ति रूपस्य तै रूपम् दृश्यते कथम् // ब्य्च्श्ट्_13.17 [= सेरिअल्नो. 317]

चक्षुषस् तावद् विज्ञानं नास्ति / न हि चक्षुर् विषयं विजानात्य् अविज्ञानस्वरूपत्वात् / भौतिकं हि चक्षुस् तस्य जडत्वाद् विषयबोधो न सम्भाव्यत इत्य् एवं चक्षुषो ऽस्ति न विज्ञानम् /

नापि विज्ञानस्य दर्शनम् अस्ति / विज्ञानं हि विजानाति न तु पश्यति / यदि तु विज्ञानं पश्येत् तदा तस्यापि रूपदर्शनं स्याद् विज्ञानसद्भावात् /

रूपस्य तूभयम् अपि नास्ति / न विज्ञानम् अनवबोधस्वरूपत्वात् / नापि दर्शनं रूपालोचनाभावात् /

यदा चैवम् अन्योन्यार्थविकलानीन्द्रियविषयविज्ञानानि तदा तत्सामग्र्याम् अपि सत्यां नैव तै रूपं दृश्यत इति सम्भावयितुं शक्यम् / रूपदर्शनाङ्गविकलत्वाद् अन्धसमुदायवद् इत्य् अभिप्रायः / यदा चैवं रूपस्य दर्शनासम्भवस् तदा को नामार्हति तत्त्वविद् रूपं दृश्यत इति वक्तुं द्रष्टुं वा /

यथा च तत्त्वविन् नार्हति रूपं द्रष्टुम् एवं शब्दम् अपि श्रोतुं नार्हति / रूपदर्शनवच् छब्दश्रवणस्यासम्भवात् / इह यदि शब्दः श्रूयते स श्रवणदेशं सम्प्राप्तो वा श्रूयेतासम्प्राप्तो वा / यदि तावत् सम्प्राप्तः श्रूयते स श्रवणदेशं व्रजञ् छब्दं वा कुर्वाणो व्रजन् निःशब्दो वा / तत्र यदि पूर्वः कल्पस् तदा //

न वक्ता जायते केन शब्दो याति ब्रुवन् यदि / अथ यात्य् अब्रुवंस् तस्मिन् प्रत्ययः केन जायते // ब्य्च्श्ट्_13.18 [= सेरिअल्नो. 318]

ततश् च वक्तृत्वाद् देवदत्तवच् छब्दो ऽसौ न भवति / अथाब्रुवन् याति तदा तस्मिञ् छब्दे निःशब्दे व्रजति शब्दो ऽयम् इति कस्यावसायो भवेत् / न चागृहीतस्यास्यास्तित्वम् इति न युक्तम् एतत् /

किं चान्यत् //

प्राप्तश् चेद् गृह्यते शब्दस् तस्यादिः केन गृह्यते / न चैति केवलः शब्दो गृह्यते केवलः कथम् // ब्य्च्श्ट्_13.19 [= सेरिअल्नो. 319]

यदि श्रोत्रेन्द्रियस्थानं प्राप्तः शब्दो गृह्यते प्राप्तग्राहित्वाच् छ्रोत्रस्य शब्दस्यादेर् ग्रहणं नास्ति / न चान्यद् इन्द्रियं तस्य ग्राहकं सम्भवतीति नैव केनचिद् अस्यादिर् गृह्यते / ततश् चागृह्यमाणत्वाच् छब्द एवासौ न भवतीत्य् अभिप्रायः /

नवद्रव्यकत्वाच् च शब्दपरमाणोः / न चैति केवलः शब्दः / भवता च शब्दमात्रम् एव श्रोत्रेण गृह्यते न गन्धादय इति न युज्यते / यद् वा शब्दस्याग्रहणम् अस्तु यद् वा गन्धादयो ऽपि गृह्यन्ताम् / न चैतद् एवम् इति न प्राप्तविषयत्वं शब्दस्य /

अथ यद् एतद् उक्तं

प्राप्तश् चेद् गृह्यते शब्दस् तस्यादिः केन गृह्यते / ब्य्च्श्ट्_12.19अब् [= सेरिअल्नो. 319अब्]

इति यदि तस्यादिर् न गृहीतस् तदा को दोष इति / अयं दोषो यद् अस्य शब्दत्वम् एव विशीर्यते / तथा हि //

यावन् न श्रूयते शब्दस् तावच् छब्दो न जायते / अशब्दस्यापि शब्दत्वम् अन्ते तच् च न युज्यते // ब्य्च्श्ट्_13.20 [= सेरिअल्नो. 320]

यो न श्रूयते सो ऽश्रूयमाणत्वाद् गन्धादिवच् छब्द एव न भवति / अथ मन्यसे यदा श्रूयते तदा शब्दो भविष्यतीति / एतद् अप्य् असम्भाव्यम् / न हि गन्धादेः पश्चाच् छब्दत्वं दृष्टं तद्वद् एवास्याप्य् अशब्दस्य पश्चाच् छब्दत्वम् अयुक्तम् इति /

एवं तावद् इन्द्रियाणां विषयग्रहणासामर्थ्यम् उद्भाव्य मनसो ऽपि विषयग्रहणासामर्थ्यम् उद्भावयन्न् आह /

वियुक्तम् इन्द्रियैश् चित्तं किं गत्वापि करिष्यति // ब्य्च्श्ट्_12.21अब् [= सेरिअल्नो. 321अब्]

यदि चित्तं विषयदेशं गत्वा विषयं परिच्छिनत्तीति कल्प्यते तद् अयुक्तम् / इहेदं चित्तम् इन्द्रियसहितं वा विषयदेशं गच्छेत् केवलं वा / न तावद् इन्द्रियसहितं याति / इन्द्रियाणां देह एव सदा सन्निधानात् / गमने च सति देहस्य निरिन्द्रियत्वप्रसङ्गात् /

अथ केवलं गच्छति तदापि

वियुक्तम् इन्द्रियैश् चित्तं किं गत्वापि करिष्यति / ब्य्च्श्ट्_12.21अब् [= सेरिअल्नो. 321अब्]

न हि चक्षुरादीन्द्रियद्वारतिरस्कृतस्यास्य रूपादिदर्शनसामर्थ्यम् अस्ति / अन्धादीनाम् अपि दर्शनादिसद्भावप्रसङ्गात् /

अथापि कथंचिद् विषयदेशगमनेनार्थोपलब्धिर् अस्य परिकल्प्यते तदाप्य् अपर्यवसानत्वाद् अर्थबोधस्यानिव्र्त्तौ सत्याम् //

एवं सतीह जीवो ऽयम् अमनस्कः सदा न किम् // ब्य्च्श्ट्_12.21च्द् [= सेरिअल्नो. 321च्द्]

अचिन्तक एवात्मा सर्वकालं प्राप्नोति / न चाचिन्तकस्यात्मकत्वं सम्भावयितुं युक्तं स्तम्भादिवद् अचिन्तकत्वात् /

तद् एवं युक्त्या विचार्यमाणानाम् इन्द्रियविषयविज्ञानानां सद्रूपासम्भवात् स्वरूपसिद्धिर् असती / यदि ह्य् एषां स्वरूपसिद्धिः स्यात् तदोपपत्त्या विचार्यमाणा यथास्थितेन स्वरूपेण स्फुटतरम् उपलभ्येरन् / न चोपलभ्यन्ते / तस्मात् स्वभावशून्या इति सिद्धम् /

यदि तर्ह्य् एषं स्वभावो नाम नास्ति तत् कथम् एषां विशेषपरिच्छेदात्मिका संज्ञा पदार्थविशेषव्यवस्थाहेतुत्वेनोपदिश्यते / उच्यते / सत्सु पदार्थेषु तद्विशेषपरिच्छेदात्मिका संज्ञा स्यात् / तेषां च पदार्थानाम् असत्त्वं प्रतिपाद्यते तदा तद्द्वारा कुतः स्वरूपसिद्धिः स्यात् / किं खल्व् एष विषयपरिच्छेदः सर्वथा नास्ति / न नास्तीति / निःस्वभावभावस्य विद्यमानत्वात् / तथा हि //

मनसा गृह्यते यो ऽर्थः पूर्वदृष्टो मरीचिवत् / सर्वधर्मव्यवस्थासु स संज्ञास्कन्धसंज्ञकः // ब्य्च्श्ट्_13.22 [= सेरिअल्नो. 322]

इह चक्षुः प्रतीत्य रूपं च चक्षुर्विज्ञानम् उत्पद्य निरुध्यमानं सहेन्द्रियविषयैर् निरुध्यते / तस्मिन् निरुद्धे पूर्वदृष्टो यो ऽर्थः स एव पश्चान् मनसा गृह्यते /

कथं पुनर् असन्निहितस्य ग्रहणं सम्भाव्यत इत्य् आह / मरीचिवद् [.. .. .. .. .. .. .. ]कायां जलम् अस्ति / अपि च हेतुप्रत्ययवशात् प्रवर्तत एव जलाकारसंज्ञा / एवम् अविद्यमानस्वरूपे ऽपि पूर्वगृहीते ऽर्थे मरीच्याम् इव यद् विकल्पकं विज्ञानम् उत्पद्यते तत् सर्वधर्मव्यवस्थाकारणम् / सर्वधर्मव्यवस्थाकारणत्वाच् च स एव संज्ञास्कन्ध इत्य् उक्तः / तथाविधसंज्ञाविशेषसम्प्रयोगात् / संज्ञावशेन च सर्वधर्मव्यवस्था विज्ञातव्या / न पुनः पदार्थस्वरूपनिबन्धना / स्वभावस्य सर्वथायुज्यमानत्वात् /

यद्य् एवम् अस्ति तर्हि स्वभावतः संज्ञास्कन्धः / न हि तस्मिन्न् असति सर्वधर्मव्यवस्था शक्या कर्तुम् इति / उच्यते / सापि हि संज्ञा विज्ञानसम्प्रयुक्तत्वाद् विज्ञानव्यतिरेकेणासती / तद् अपि च विज्ञानं संज्ञाव्यतिरेकेणासिद्धत्वात् स्वरूपतो नास्ति / यस्माच्

चक्षुः प्रतीत्य रूपं च मायावज् जायते मनः // ब्य्च्श्ट्_12.23अब् [= सेरिअल्नो. 323अब्]

न हि तद् विज्ञानम् उत्पादात् प्राग् अस्ति यद् उत्पत्तिक्रियाश्रयत्वेन प्रवर्तेत / सत्स्व् अपि चक्षुरादिषु प्रत्ययेषु विज्ञानस्य स्वरूपासम्भवाद् उत्पत्तिक्रियाया अप्रवृत्तेर् उत्पादो न युज्यते /

उत्पद्यते चैतद् विज्ञानम् इत्य् अतः किं निश्चेतुं पार्यते ऽन्यत्र मायाधर्मतायाः /

उक्तं हि भगवता /

तद्यथा भिक्षवो मायाकारो वा मायाकारान्तेवासी चतुर्महापथे विविधं मायाकर्म विदर्शयेत् / तद्यथा हस्तिकायं रथकायं पत्तिकायं तं चक्षुष्मान् पुरुषः पश्येन् निध्यायेद् योनिशश् चोपपरीक्षेत / तस्य तं पश्यतो निध्यायतो योनिशश् चोपपरीक्षमाणस्यासतो ऽप्य् अस्य ख्यायाद् रिक्ततो ऽपि तुच्छतो ऽप्य् असारतो ऽपि /

तत् कस्य हेतोः / किम् अस्मिन् मायाकृते सारम् अस्तीति / एवम् एव यत् किंचिद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वौदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद् वा दूरे

यद् वान्तिके तद् भिक्षुः पश्येन् निध्यायेद् योनिशश् चोपपरीक्षेत / तस्य तत् पश्यतो निध्यायतो योनिशश् चोपपरीक्षमाणस्यासतो ऽप्य् अस्य ख्यायाद् रिक्ततो ऽपि तुच्छतो ऽप्य् असारतो ऽपि रोगतो ऽपि गण्डतो ऽपि शल्यतो ऽप्य् अघतो ऽप्य् अनित्यतो ऽपि दुःखतो ऽपि शून्यतो ऽप्य् अनात्मतो ऽप्य् अस्य ख्यायात् /

तत् कस्य हेतोः / किम् अस्मिन् विज्ञानस्कन्धे सारम् अस्तीति /

यथोपलभ्यते विचार्यमाणस्य तथा स्वरूपासम्भावान् मायायुवतिप्रख्यं विज्ञानम् इति सक्यम् अवसातुम् / ततश् च सूक्तम् एव तच्

चक्षुः प्रतीत्य रूपं च मायावज् जायते मन ब्य्च्श्ट्_12.23अब् [= सेरिअल्नो. 323अब्]

इति /

यदि पुनर् अस्य स्वरूपं स्यात् तदा स्वरूपतो

विद्यते यस्य सद्भावः स मायेति न युज्यते // ब्य्च्श्ट्_12.23च्द् [= सेरिअल्नो. 323च्द्]

न हि लोके स्वभावाशून्या सद्भूता स्त्री मायेति युज्यते / एवं विज्ञानम् अपि स्वरूपतो विद्यमानत्वान् मायोपमं न स्यात् / उपदिश्यते च मायोपमं विज्ञानम् / अतो निःस्वभावं विज्ञानम् / यदा च निःस्वभावं विज्ञानं तदा निःस्वभावविज्ञानसम्प्रयुक्ता संज्ञा निःस्वभावेति स्थितम् /

अत्राह / आश्चर्यम् एतत् / न चेन्द्रियाणां कथम् अपि विषयग्रहणं सम्भाव्यत उत्पद्यते चक्षुः प्रतीत्य रूपाणि च विज्ञानम् इति / उच्यते / किम् एतद् एवाश्चर्यं त्वया दृष्टम् / इदं किं नाश्चर्यं यन् न निरुद्धान् नानिरुद्धाद् बीजाद् अङ्कुरोदयो युज्यते / उत्पद्यते च बीजं प्रतीत्याङ्कुरः / तथा कृतस्योपचितस्य कर्मणो निरुद्धस्य न क्वचिद् अवस्थानं सम्भवति / कल्पशतसहस्रान्तरितनिरोधाद् अपि कर्मणः साक्षाद् उत्पद्यत एव फलम् / घटादयश् च स्वकारणात् तत्त्वान्यत्वेन विचार्यमाणा न सम्भवन्ति तथाप्य् उपादाय प्रज्ञप्त्या मधूदकादीनां सन्धारणाहरणादिक्रियानिष्पादनयोग्या भवन्ति / तद् एवम् //

यदा न किंचिद् आश्चर्यं विदुषां विद्यते भुवि / इन्द्रियाणां गताव् एवं तदा को नाम विस्मयः // ब्य्च्श्ट्_13.24 [= सेरिअल्नो. 324]

कार्यं हि स्वकारणम् अनुविदधद् दृश्यते / गोर् गौः / अश्वाद् अश्वः / शालेः शालिर् इत्यादीनाम् / भूतानां रूपशब्दादीनां च विधिर् एष न दृश्यते / तथा हि कायेन्द्रियग्राह्यत्वान् महाभूतान्य् अचाक्षुषान्य् अश्रावणानि / तेभ्यश् चाक्षुषं रूपं श्रावणः शब्द उत्पद्यत इति / परम् एतद् आश्चर्यम् / एवं घ्राणादिविषये चक्षुरादिषु च योज्यम् /

अथवा नैवेयम् इन्द्रियाणाम् अर्थगतिर् विस्मयकारणम् / यदि हीन्द्रियाणाम् एव केवलम् अर्थगताव् एतद् वैचित्र्यं स्यात् तदैतद् विस्मयस्थानम् / यदा तु सर्वम् एव यथोदितेन न्यायेन जगद् विदुषां विस्मयकरम् इन्द्रजालम् इव तदा नेदम् आश्चर्यम् / प्रदेशवृत्ति हि किंचिद् असम्भावनीयम् उपलभ्यमानं विस्मयकरं जायते न सर्वत्रैव तुल्यरूपम् / न ह्य् अग्नेर् औष्ण्यं विस्मयायेति /

अत एवानियतस्वरूपत्वाद् यथाप्रत्ययं तथा तथा विपरिवर्तमानत्वाद् विदुषाम् //

अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः / धूमिकान्तःप्रतिश्रुत्कामरीच्यभ्रैः समो भवः // ब्य्च्श्ट्_13.25 [= सेरिअल्नो. 325]

यथा सज्वलस्येन्धनस्याशुभ्राम्यमाणस्य तद्गतदर्शनविपर्यासनिबन्धनत्वाच् चक्राकारोपलब्धिर् भवति / न च तत्रास्ति चक्रस्वरूपलेशो ऽपि /

{यथा च निर्माणानि समाधिविशेषप्रत्ययसम्भूतानि विचित्रक्रियाविशेषनिष्पादनात् सद्भूतयोगिसंज्ञादर्शनमनोविपर्यासाद् उत्पादयन्ति / ते तु चित्तचैत्तेन्द्रियरहितत्वान् न सद्भूता योगिनाम् /}

यथा च मिद्धसम्प्रयुक्तविज्ञानसमायुक्तात्मभावप्रत्ययः स्वप्नात्मभावो जाग्रदात्मभाव इवात्मनि स्नेहविपर्यासनिबन्धनः / स चासद्भूतः प्रबुद्धस्य तथादर्शनाभावात् /

यथा च मायाकारयन्त्रनिबन्धना मायाकृतयुवतयस् तत्स्वरूपानभिज्ञानां चित्तमोहनपरा एव सद्भूतस्त्रीशून्या जायन्ते /

यथा च जलचन्द्रः सद्भूतचन्द्रशून्यः प्रतीत्यसमुत्पादबलात् तथोत्पद्यमानश् चन्द्रविपर्यासनिबन्धनो ह्हवति बालानाम् /

यथा च प्रतीत्यसमुत्पादबलाद् एव तथाविधकालदेशनिमित्तानि प्रतीत्य धूमिका जाता विदूरस्थानां सद्भूतधूमविपर्यासनिबन्धना भवति /

यथा च गिरिगह्वरोदरादीनाम् अन्तः प्रतिश्रुत्का प्रतीत्य जायमाना सद्भूतशब्दाभिमानं जनयत्य् अविदुषाम् /

यथा च मरीचिका देशकालविशेषसन्निहितादित्यरश्मिप्रत्यया जलस्वरूपविविक्ता विदूरस्थानां जलविपर्यासर्रि जनयति /

यथा चाभ्राणि विदूरतः पर्वताद्याकारं विपर्यासम् उपजनयन्ति / एवम् अविदुषां यथावत् प्रतीत्यसमुत्पादस्वभावाकुशलानाम् अविद्याविपर्यासाक्षिप्तकर्मप्रत्ययो विज्ञानादिजन्मसागरः स बाह्येन भाजनेन [.. .. ]यजा[.. .. .. .. .. .. .. .. .. .. .. ]ः मृषामोषधर्मकः स्वभावशून्य एव सन् बालजनविसंवादकः प्रातिभाति /

विदितधर्मस्वभावाश् च सर्वत्रैव सङ्गपरि[.. .. .. .. .. .. .. ] भवन्तीति स्थितम् एतद् अलातचक्रादिवन् निःस्वभावः संसर इति //

बोधिसत्त्वयोगचारे चतुःशतक इन्द्रियार्थप्रतिषेधो नाम त्रयोदशं प्रकरणं समाप्तम् // (ब्य्च्श्ट्_13)

chapter xiv

अत्राह / यदि प्रतीत्यसमुत्पन्नत्वाद् अलातचक्रादिवन् निःस्वभावो भवः कस्य तर्हीदानीं स्वभावो ऽस्तु / न कस्यचित् पदार्थस्य स्वभावः शक्यः कल्पयितुम् / तथाविधस्य पदार्थस्य सर्वथानुपलभ्यमानत्वात् / तथा हि //

आयत्तं यस्य भावस्य भवेन् नान्यत्र कुत्रचित् / सिध्येत् तस्यास्तिता नाम क्वचित् स च न विद्यते // ब्य्च्श्ट्_14.1 [= सेरिअल्नो. 326]

यदि हि कस्यचित् पदार्थस्य निष्पत्तौ क्वचित् किंचिद् आयत्तं न स्यात् तदास्यापरायत्तस्य स्वतन्त्रस्य स्वत एव व्यवस्थितत्वात् स्वभावतो ऽस्तित्वं कल्पयितुं युक्तम् / न त्व् एष सम्भवो ऽस्ति यद् धेतुप्रत्ययायत्तजन्मनां परायत्तता न स्याद् अहेतुको वा पदार्थः कश्चित् सम्भवेद् इति / यतश् चैवं निर्हेतुकत्वप्रसङ्गात् कस्यचित् पदार्थस्य क्वचित् स्वरूपं नास्ति तस्मान् नास्ति कस्यचित् स्वभावः / स्वभावाभावाच् चालातचक्रवन् नास्ति स्वभावसिद्धिर् इति स्थितम् /

यदि चामी पदार्था अलातचक्रादिवद् विसंवादका विसंवादकत्वाद् अवस्तुका न स्युस् तदा नियतम् उपपत्त्या विचार्यमाणा जातरूपादिवत् स्पष्टतरम् उपलभ्यमानस्वरूपाः स्युः / न चैते विचाराग्निसंतापिता विपर्यासनिबन्धनत्वात् स्वरूपाभावं नासादयन्ति / न हि वस्तूपपत्त्यापि युज्यते / सर्वथा तस्य विसंवादकत्वात् /

अत एवाचार्यो वस्त्वभिनिवेशशिथिलिकरणायातः परं यथा च घटादीनां स्वरूपं न सम्भवति तथोपपत्तिम् आह //

रूपम् एव घटो नैक्यं घटो नान्यो ऽस्ति रूपवान् / न विद्यते घटे रूपं न रूपे विद्यते घटः // ब्य्च्श्ट्_14.2 [= सेरिअल्नो. 327]

इह यदि घटो नाम कश्चित् पदार्थः स्यात् स दर्शनेन्द्रियग्राह्यत्वाद् रूपाद् भेदेन वा परिकल्प्येताभेदेन वा / तत्र तावद्

रूपम् एव घटो नैक्यम् / ब्य्च्श्ट्_14.2अ [= सेरिअल्नो. 327अ]

न यद् एव रूपं स एव घट इति रूपघटयोर् ऐक्यं सम्भवति / यदि हि रूपघटयोर् ऐक्यं स्यात् तदा यत्र यत्र रूपं तत्र तत्र घट इति सर्वत्रैव रूपे घटः स्यात् / पाकजगुणोत्पत्तौ रूपविनाशे घटविनाशः स्यात् / न चैतत् सम्भवतीति रूपम् एव घट इति नास्त्य् एकत्वम् /

अथैतद्दोषपरिजिहीर्षया रूपाद् अन्यो घटो रूपवान् परिकल्प्येत तद्यथार्थान्तरभूतैर् गोभिर् गोमान् देवदत्त इत्य् एतद् अप्य् अयुक्तम् इस् / यस्माद्

घटो नान्यो ऽस्ति रूपवान् / ब्य्च्श्ट्_14.2ब् [= सेरिअल्नो. 327ब्]

यदि रूपाद् अन्यो घटः स्यात् सो रूपनिरपेक्षो गृह्येत / न हि गोभ्यो व्यतिरिक्तो देवदत्तो गोव्यतिरेकेण न गृह्यते / तद्वद् घटो ऽपि रूपनिरपेक्षो गृह्येत / न च गृह्यत इत्य् अतो रूपव्यतिरिक्तो घटो नास्ति /

यदा च नास्ति तदा कथम् असंविद्यमानस् तद्वत्तया गृह्येत / न ह्य् अविद्यमानो वन्ध्यातनयो गोमान् इति व्यपदिश्यते / एवं रुपवान् घट इत्य् अपि न युज्यते /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.