Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
बोधिसत्त्वयोगाचारचतुःशतकटीका
- Tác giả
- चन्द्रकीर्ति
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
चन्द्रकीर्ति: बोधिसत्त्वयोगाचारचतुःशतकटीका
छप्तेर् इ नित्यविपर्यासप्रहाणोपायसन्दर्शन
[…] सहचारिणौ // ब्य्च्श्ट्_1.20
यस्य हि भवतो ऽन्यस्य वेष्टैर् योगः प्रियस् तस्य तैर् एव वियोगः कथम् अप्रियः / ननु यत्रैव सन्ताने योगस् तत्रैवावश्यम्भावी वियोगो ऽपीति योगवियोगौ चोभाव् अपि दृश्येते सहचारिणौ / तस्माद् योगार्थिना वियोग [.. .. .. .. .. .. .. ] […]
देवाराधनं कृतम् / श्रीर् मे स्याद् इति तेन वरो लब्धः / यथास्य गृहं प्रविष्टस्य श्रीर् गृहं प्रविष्टा तदनुलग्ना च कालकर्णी / स श्रियं पृच्छति स्म / कैषा / आह / कालकर्णीति / स आह / न पुनर् मयास्यार्थे वरो लब्धः / सा प्राह / यत्राहं तत्रैषावश्यम् इति / एवं यत्र संयोगः […].
दुःखम् / एवं सर्वसंयोगसुखं वियोगदुःखानुषक्तम् /
एवं यस्य बडिशामिषभक्षणम् इष्टं तस्यावश्यं बडिशवेधोद्धरणम् अपीति /
अत्राह / यद्य् अप्य् अन्ते वियोगो नियतस् तथाप्य् आदौ सम्प्रयोगमहत्त्वान् नासौ गण्यत इति //
अतिक्रान्तस्य नास्त्य् आदिर् अन्तो ऽनागतस्य च / केन ते दृ[…] ब्य्च्श्ट्_1.21
विप्रयोगप्रभावितः / अनागतस्याप्य् अविद्यावत एवान्ताभावे ऽसाव् अप्य् अप्राप्तत्वात् तदात्मकः / तद् अत्रानवराग्रजातिसंसारमहार्णवपतितस्य प्रतिक्षणं विनश्वरत्वात् संस्काराणां सर्वेषाम् अर्थेन यः संयोगः स क्षणिकः / तद् एवम् अतीतानागतसङ्गृहीतो विप्रयो[…]
स्यातिसूक्ष्मत्वात् संयोगदर्शने सति वियोगदर्शिना सदैव संवेगवता भाव्यम् /
अन्यभार्यापहरणविवादवत् / कश्चित् पुरुषो देशान्तरं गतस् तस्य प्रोषितस्य भार्यान्येन [.. .. .. .. .. .. .. .. .. ] ग्रामसमीपस्थेन श्रुतं श्रुत्वा च विटगृहं गत्वा तत्कालकृतेन […]
तात्कालिकवियोगेन तत् तं शोचितम् /
अत्राह / यद्य् अपि महान् वियोगस् तथाप्य् ऋतुसम्पदाक्षिप्तचित्तत्वान् नासौ चिन्त्यत इति / उच्यते /
शत्रुवद् यान्ति ते काला नियमेन क्षणादयः / सर्वथा तेन ते रागः शत्रुभूतेषु तेषु मा // ब्य्च्श्ट्_1.22
इह खलु यस्मात् तव जीवितं क्षणल[…]
महारिषु तेषु कालेषु भवतो रागो मा भवत्व् इति / मित्रमुखेनावस्थितारिपरिज्ञातृवत् तत्परिज्ञानकुशलेन भवितव्यम् अप्रमादचारिणा /
वृद्धदासीदुःखानुबन्धनवत् / यथा वृद्धदास्याः क्ष[.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ] परिभवदोषच् च स्वामिभिः[…]
शिशिरम् अभिलषति /
एवम् इतरेणे[.. .. .. .. ] कुतश्चित् सुखम् अस्ति / तद् एवम् एनां संस्कारधर्मताम् अभितःस्थिताम् अपि चानुचिन्तयता संविग्नमानसेन युक्तम् अनुरूपम् आचरितुम् //
किं[…]
उच्यते /
विप्रयोगभयाद् गेहान् न निर्गच्छसि दुर्मते / अवश्यं नाम कर्तव्यं कुर्याद् दण्डेन को बुधः // ब्य्च्श्ट्_1.23
इह बन्धुजनविप्रयोगः कष्ट इति तद्भयाद् गेहान् न निर्गच्छसि दुर्मते / तद् अपि यदा तदा च मृत्युवशान् निय[…]
देयं करं कृत्स्नं महद् दुःखम् अनुभूय पश्चाद् ददति ग्रामीणा नान्यथा / एवम् अवश्यं त्यक्तव्यं बन्धुजनं मृत्युना त्याज्यन्ते ऽबुधा नात्मना त्यजन्ति /
अत्राह / यद्य् अवश्यं बन्धुवर्गस् त्याज्यस् तथापि सुतम् उत्पाद्य पू[.. .. .. .. .. .. .. ]हे तस्मिन् गृहभारम् उत्सृज्येत कर्तव्यता परिसमाप्तं कृत्वा निर्गमि[…]
व मया वनं गन्तव्यं किं तु कर्तव्यशेषं किंचिद् अस्ति तत् कृत्वा यास्यामीति तद् एतद् यत् क्रियते यदर्थं च क्रियते तदुभयं कृत्वापि यदि पुनः परित्याज्यम् एव तेन तर्हि कृतेन को गुण इत्य् अकर्तव्यम् एवैतत् / तस्मान् न तदपेक्षया कालक्षेपो युक्त इति / कृत्याकृत्यविचार[…]
पतितम् आम्रफलं गृहीतं सो ऽन्येन पृष्टः किम् अनेन करिष्यसीति / स आह / प्रक्षाल्य परित्यक्ष्यामीति / एवं यदि विषयाः परित्याज्याः किं तैः पर्यन्विष्टैः / यथा हि कश्चित् सार्थिको गमन[.. .. .. ] पाषाणं निर्घर्षयितुम् आरब्धः स पृष्टः किं करोषीति तद् एव निदर्शयति स्म […]
ज्ञेयानि /
यद्य् अप्य् अर्थतो वनगमनं प्रधानं तथाप्य् आत्मात्मीयसङ्गवतो ऽस्माद् भयम् उत्पद्यत इति / उच्यते /
नियमाद् विद्यते यस्य मर्त्यो ऽहम् इति भावना / तस्य सङ्गपरित्यागान् मृत्योर् अपि भयं कुतः // ब्य्च्श्ट्_1.25
इह यस्य कस्यचित् प्राज्ञस्यागमानुसारेण मरणधर्मो ऽहम् इति भावना[…]
तावद् भयं नास्ति / कुत एव वनगमनात् पुत्रवियोगाद् वा भयं भविष्यतीति / अतो मरणानुस्मृतिभावनायाम् एव योगः करणीयः /
निर्विषीकरणाङ्गुलीयकरबन्धनवत् / सविषान्नपरित्यागवच् च / यथा हि निर्विषीकरणाङ्गुलीयकं करे बध्यते / तथा विद्वद्भिः क्लेशा[…]
परित्यागेन निःश्रेयसम् इति //
आचार्यार्यदेवीये बोधिसत्त्वयोगाचारे चतुःशतके नित्यविपर्यासप्रहाणोपायसन्दर्शनं प्रथमं प्रकरणं समाप्तम् // (ब्य्च्श्ट्_1)
छप्तेर् इइ
इ
उक्तस् तावत् प्रथमेन प्रकरणेनानित्ये नित्यम् इति विपर्यासस्य प्रहाणोपायः / […]
यस्मात् सति शरीरे ऽध्यात्मसमुत्थानि चतुरुत्तराणि चत्वारि व्याधिशतान्य् उत्पद्यन्ते धातुवैषम्यनिमित्तानि / बाह्यजानि च लोष्टदण्डशस्त्रशीतोष्णदंशमशकसरीसृपादिसंस्पर्शनिमित्तानि / तस्माद् अनेकदुःखोदयहेतु [.. .. .. ] […]
इइ
[…] तथा दुःखस्य पात्रं भवति /
अपि च सुखेन भावयितुम् अशक्यत्वात् तद्[.. .. .. .. .. .. .. ] गम्यते / तथाहि //
शरीरं सुचिरेणापि सुखस्य स्वं न जायते / परेणाभिभवो नाम स्वभावस्य न युज्यते // ब्य्च्श्ट्_2.7 [= सेरिअल्नो. 32]
सुचिरेणापि कालेन तैस् तैः सुखोपभोगनिमित्तैर् विषयैर् उपचर्यमाणम् अपि सुखस्य स्वं शरीरं न जायते / दुःखस्वभावत्वात् / यथा नाम कठिनस्वभावानां त्रपुसीसरजतसुवर्णादीनां यद्य् अप्य् अग्निसंयोगाद् द्रवत्वं भवति / तथापि तेषां द्रवत्वं स्वं नैव भवति / कठिनस्वभावत्वात् / तथा शरीरस्य दुःखस्वभावत्वात् / अनात्मीयेन सुखेन सुचिरेणापि न शक्यम् आत्मीयत्वं कर्तुम् इति दुःखम् एव शरीरम् //
कोकिलपोतवत् / यथा कोकिलपोतः काकेन संवर्धितः कोकिलस्यैव भवति न काकस्यैवं न सुखस्य शरीरम् / भवति चात्र /
दुःखात्मकं शरीरं सुखस्य किं स्वीकरोषि मोहान्ध / न हि जातु कृष्णलोहं सुचिराद् अपि हेमतां याति //
इति //
स्याद् एतत् सद् अपि दुःखं नासंविदितम् अनर्थायतनम् / तथा ह्य् एके जात्या प्रभृत्य् आमरणान्ता एकान्तसुखिनो दृश्यन्ते / अग्रसत्त्वाश् च महति पदे निवेशितास्थास् तद्व्यासङ्गान् न संवेदयन्ते / तत् कथं दुःखात्मकं शरीरम् इति / उच्यते /
अग्र्याणां मानसं दुःखम् इतरेसां शरीरजम् / दुःखद्वयेन लोको ऽयम् अहन्य् अहनि हन्यते // ब्य्च्श्ट्_2.8 [= सेरिअल्नो. 33]
द्विविधं खलु दुःखं शारीरं मानसं च / तत्र य एते सर्वसुखोपकरणसम्पन्ना अग्र्या अग्रकुलीना महाभोगास् तेषां स्थूलेच्छानां महतः पदस्याभीप्सितस्य दुरापत्वाद् ईर्ष्याबाहुल्येनेष्टालाभजं मानसं दुःखम् अनपायि तेषाम् / ये पुनर् एव नीचकुलीना अशनशयनशरणवसनविप्रहीणा अधमत्वात् ते शारीरेण दुःखेन हता एवेति / कुतः कस्यचित् सुखावकाश
इत्य् एवं सर्व एवायं लोको दुःखद्वयेनाहन्य् अहनि हन्यते / तस्माद् अत्र न कश्चित् स्वभावेन सुखी विद्यते //
अधिकृतहस्त्यारोपितदर्शनमन्युपरितोषणवत् / केनचिद् राज्ञा हस्तिनि दुर्दान्ते कश्चिद् आरोपितो वाहयेति / तेन च स हस्ती सम्यक् प्रेरितस् ततो राज्ञा परितुष्टेन सम्मानितः / तस्य पुरुषस्य सम्मानं दृष्ट्वा हस्त्यधिकृतः पुरुषो दुःखी संवृत्तः / ततो ऽस्य भयाद् दौर्मनस्यम् उत्पन्नम् / द्वितीयश् च हीनपुरुषस् तेन राज्ञा तस्मिन् हस्तिन्य् आरोपितो वाहयेति / तेन न शकितः / स राज्ञा शारीरेण दुःखेन योजितः / अधिकृतस्य च परितोष उत्पन्नः / तत्रैकस्य मानसं दुःखम् अभूद् द्वितीयस्य शारीरम् / तद्वन् महताम् अवमानान् मानसं दुःखम् उत्पद्यते / हीनानां तु ताडनाच् छारीरम् / भवति चात्र /
दुःखद्वयेन लोकं विहन्यमानं स्वभावदुःखार्तम् / दृष्ट्वा कस् तं ब्रूयात् सुखीति करुणात्मकः पुरुषः //
इति //
अत्राह / यद्य् अपि दुःखद्वयं विद्यते / तथापि तन् महता सुखेनाभिभूतं न ज्ञायत इति / उच्यते / कुतः सुखस्य महत्त्वं दुःखविधेयस्य कल्पनाख्यस्यापि धर्मस्य प्रतिबद्धवृत्तित्वात् / तथा हि //
कल्पनायाः सुखं वश्यं वश्या दुःखस्य कल्पना / अतो ऽस्ति किंचित् सर्वत्र न दुःखाद् बलवत्तरम् // ब्य्च्श्ट्_2.9 [= सेरिअल्नो. 34]
यदा खल्व् अयं पुरुष एवं कल्पयते दाताहम् ईश्वरो ऽहम् इष्टान् इन्द्रियार्थान् उपभुञ्जे ऽहम् इति / तदास्यैवं परिकल्पयतो मानसं सुखम् उत्पद्यते / सुखसमर्पिणाम् अपि परतस् तदपायम् आशङ्कमानानां भोगविच्छित्तिकल्पनया पुनस् तन् मानसं सुखं निवर्तत इत्य् एवं सुखस्योत्पादनिरोधयोः कल्पनाविधेयत्वात् कल्पनायाः सुखं वश्यं भवति / दुःखं तु नैवम् / न ह्य् अस्ति काचित् कल्पना या दुःखस्योपघातसामर्थ्यम् उपरुन्ध्याद् इत्य् अतः सुखवन् न दुःखं कल्पनावश्यम् /
यत् तु खल्व् इदम् इष्टविषयसम्भोगसुखं या च सुखोदयानुकूला कल्पना तद् उभयम् अपि दुःखम् उपजातम् उपहन्ति / तथा हीन्द्रियार्थम् उपभुञ्जानो ऽप्य् अयम् अन्यतमेन दुःखेनाभिभूतः सह कल्पनया तत् सर्वं सुखम् अपहाय दुःखम् एव प्रतिसंवित्ते / न सुखम् // तद् एवं सुखकल्पनाया दुःखविधेयत्वात् / दुःखम् एव बलवत्तरं न सुखम् /
सपत्नीपुत्रसत्कारदुःखितावत् / सपत्नीद्वयस्यैका मृतपुत्रा द्वितीया सपुत्रा / तत्र या मृतपुत्रा सा तं सपत्नीपुत्रं सत्क्रियमाणं दृष्ट्वातीव शोचति स्म / सा पृष्टा कस्मान् मृतम् अभीष्टं शोचसीति / सा प्राह / नाहं तं शोचामि / अपि त्व् एतम् अहं सपत्नीपुत्रो जीवतीति / सा परेण समयेन सपत्नीपुत्रे ग्लाने ग्रामान्तरं गता / कतिपयैर् अहोभिस् तं ग्रामम् उपश्लिष्टा मृतकश् च तस्मान् निह्रियते / तयैवं कल्पितं स एव सपत्नीपुत्रो मृत इति /
एवं चास्याः परिकल्प्यातीव सौमनस्यं जातम् / वृश्चिकेन चाङ्गावयवे दष्टा तद् अस्याः कल्पनावशेन सौमनस्यं जातं विषदुःखेनाभिभूतम् / अतो न दुःखाद् बलवत्तरं किंचित् क्वचिद् अस्ति / आह चात्र /
विपर्यासाद् यतो जातं सुखं तस्मात् सुदुर्लभम् / दुःखं तु भूतनिर्यातं तस्मात् तद् बलवत्तरम् //
इति /
अत्राह / यद्य् अपि सुखं दुर्लभं तथापि शरीरस्यापीडाकरत्वात् तद् आत्मीयं बह्व् अपि दुःखं पीडाकरत्वात् परम् एव भवतीति / उच्यते /
कालो यथा यथा याति दुःखवृद्धिस् तथा तथा / तस्मात् कडेवरस्यास्य परवद् दृश्यते सुखम् // ब्य्च्श्ट्_2.10 [= सेरिअल्नो. 35]
यस्य खलु शरीरकालो यथा यथा वर्धते बालकौमारयौवनस्थाविरेषु तथा तथा दुःखस्याभिवृद्धिर् दृष्टा न सुखस्य / यस्माच् चैवं विवर्धमानस्य शरीरस्य पृष्ठतः पृष्ठतः सुखम् अपसर्पति / तस्माद् अस्य शरीरस्य दुःखम् एवात्मीयं दृश्यते सुखं तु परभूतम् इति
दीर्घाध्वगवत् / यथा दीर्घाध्वगस्य दिने दिने तीव्रतरं श्रमदुःखं पथ्यदनपरिक्षयदुःखं च भवत्य् एवं सर्वबालपृथग्जना यथा यथा चिरं जीवन्ति तथा तथा जरादुःखम् अनुप्राप्नुवन्ति / मरणस्य चाभ्यासीभवन्ति / आह चात्र /
स्नेहाद् इवास्य दुःखं पुरतः पुरतः प्रयाति यन् नित्यम् / त्यजति च सुखं शारीरं परवत् तस्मात् परं भवति //
अत्राह / यद्य् अप्य् अस्य शरीरस्य दुःखं स्वभावस् तथापि सुखहेतुप्रतीकारो यस्माद् विद्यते तस्मान् नात्मशरीराद् उद्वेगः कार्य इति // उच्यते /
व्याधयो ऽन्ये च दृश्यन्ते यावन्तो दुःखहेतवः / तावन्तो न तु दृश्यन्ते नराणां सुखहेतवः // ब्य्च्श्ट्_2.11 [= सेरिअल्नो. 36]
इह शरीरस्य दुःखहेतवो यावन्तो दृश्यन्ते / अध्यात्मसमुत्थिता धातुवैषम्यहेतुका व्याधयः / अन्ये च बाह्याः शीतादिनिमित्ता अनिष्टसंस्पर्शाः / तावन्तो ऽध्यात्मबाह्यहेतुकाः सुखहेतवो ऽस्य शरीरस्य नैव दृश्यन्ते /
यस्य चाल्पाः सुखहेतवो ऽनेके च दुःखहेतवः शरीरस्य तस्मात् सुखहेतुसद्भावाद् दुःखान् नोद्वेगः करणीय इति / तन् न /
राजदुहितृस्वयंवराप्रार्थनावत् / वैश्रवणदुहितृहरणमान्धातृवच् च / ये राजदुहितरं स्वयंवरां प्रार्थयन्ते ते दुःखेन संयुज्यन्ते / एकस्यैव हि सा सुखहेतुर् भवति न सर्वेषाम् / बहवश् च प्रार्थयन्ते न चासादयन्ति ततो दुःखिनो भवन्ति / तथा सत्त्वानां बहवो दुःखहेतवो ऽल्पास् तु सुखहेतवः / तथा वैश्रवणदुहितृहरणे मान्धातृवद् अनेकदुःखहेतवो भवन्त्य् उभयोर् बलवत्त्वात् / न तु तथा सुखहेतवः / आह चात्र /
सुखम् उदबिन्दुप्रतिमं दुःखं तु समुद्रवारिसङ्काशम् / काये मत्वा विद्वांस् तत्र सुखं मन्यते नु कथम् //
अत्राह / यदि सुखं नाम न स्यान् नास्य वृद्धिर् दृश्येत / यस्माच् च सुखस्य दृश्यते वृद्धिस् तस्मात् सुखम् अस्तीति / उच्यते /
सुखस्य वर्धमानस्य यथा दृष्टो विपर्ययः / दुःखस्य वर्धमानस्य तथा नास्ति विपर्ययः // ब्य्च्श्ट्_2.12 [= सेरिअल्नो. 37]
सुखस्य हि यथा यथा वृद्धिर् भवति तथा तथा तस्य वर्धमानस्य विपर्ययो दृष्टः / यदि च स्वभावेन सुखं स्यान् न तद्विपर्ययः स्यात् / सुखस्य तु वर्धमानस्य तथाविपर्ययो ऽस्ति न दुःखस्य /
तथा हि सुखम् अभिवर्धमानं कालप्रकर्षेणावगीतम् अल्परसम् आजायते / दुःखं पुनर् अभिवर्धमानम् अधिकतरसंतापकर्कशं सुतरां शरीरं चेतश् चोपहन्ति / तद् एवं वृद्धौ विपर्ययाभावाद् दुःखस्वभावं शरीरं न सुखं स्वभावतो ऽस्ति /
मान्धातृपतनवत् / […] (ब्य्च्श्ट्_2)
छप्तेर् इइइ अशुचिचिन्ता
[…] कस्यचिद् राज्ञो नैमित्तिकेनावेदितं वर्षं पतिष्यति यस् तेनाम्भसा कृत्यं करिष्यति स उन्मादं गमिष्यतीति / अथ राज्ञा स्वार्थं कूपश् छादितस् तच् च वर्षं पतितम् / ततः स देशजनस् तेनाम्भसा कृत्यं कृत्वोन्मत्तो ऽपि सन्न् एकप्रकृतित्वाद् आत्मानम् एव स्वस्थं मन्यते / राजानम् उन्मत्तम् / ततो राज्ञा तद् अर्थम् उपलभ्य तद् एवाम्भ उपयुक्तं मा माम् उन्मत्त इति परिकल्प्यावहसेयुर् विनाशयेयुर् वेति //
एवं यद्य् एक एव मूत्री स्यात् स कुष्ठीव वर्ज्येत / यदा तु सर्व एव मूत्रिणस् तदा कुत्रैषाम् अशुचिसंज्ञा भविष्यति / क्वचिच् च देशे सर्वो जनो गलगण्डाभिभूतः परमविरूपस् तत्र चान्यो दर्शनीयो गतः स तैः परिवर्ज्यते परमविरूपो ऽङ्गविकल इति / आह चात्र /
यदि निर्दोषः स्याल् लोकः सर्वो ऽपि तत्र रज्येत / दोषस् तु विद्यते यस्मात् तस्मात् सन्तस् तम् उज्झन्ति //
अत्राह / यो नाम युवा भूत्वा सर्वोपकरणसम्पन्नं युवतिजनं तुष्ट्या नोपभुङ्क्ते स जीवलोके परमवञ्चितो भवति / तथा हि सुरभिगन्धामोदसंवासाद् अस्य तद् अशौचम् अपनुद्यते / तत्र शुचिं सेवमानानाम् अदोष इति // उच्यते //
प्रतिनासिकया तुष्टिः स्याद् धीनाङ्गस्य कस्यचित् / रागो ऽशुचिप्रतीकारे पुष्पादाव् इष्यते तथा // ब्य्च्श्ट्_3.23 [= सेरिअल्नो. 73]
यथा कश्चिद् अपनीतनासिको वहन् कृत्रिमां नासिकां सकलाङ्गम् आत्मानं मन्यते तुष्टिं च गच्छति / स हि बालजातीयतया ययैव स्वकायप्रतिनासिकया लज्जितव्यं तयैव तुष्टिं जनयति / तथैव कामेषु प्रकृत्या लोलजातीयस्य बालजनस्य मोहाद् अशुचिप्रतीकारेषु सुरभिकुसुमगन्धालङ्कारादिष्व् अशरीरस्वभावेष्व् अप्य् अतः संरागो भवति / प्रतिविधानेन शुचिम् आत्मानं परं च मन्यते / न हि कुसुमादयः समुद्वहन्तो ऽपि स्थायिनं गन्धातिशयम् अलम् एनं लशुनम् इव वासयितुम् //
घृतलिप्तबिडालनासिकास्वादनवत् / सुवर्णनासिकादर्शनतुष्टिवच् च / यथा बिडालस्य घृतेन नासिकां म्रक्षयित्वा रूक्षान्नपिण्डी दीयते / स तां स्नेहयुक्तां मन्यते / यथा च नासिकावियुक्तः प्रतिनासिकां सौवर्णीं कारयित्वा तां दृष्ट्वा तुष्टिम् उत्पादयति / एवं पुष्पादिभिर् अशुचिप्रतीकारं कृत्वा काये रागम् उत्पादयन्ति / आह चात्र /
व्रणोपमस्य कायस्य गन्धमाल्यांशुकादिषु / व्रणलेपनभूतेषु मोहात् संरज्यते जनः //
अत्राह / अस्ति रागस्य कारणं पुष्पादयः / यदि च न स्यात् कारनं न तैः कायेषु जनो रज्येतेति / उच्यते /
शुचि नाम न तद् युक्तं वैराग्यं यत्र जायते / न च सो ऽस्ति क्वचिद् भावो नियमाद् रागकारणम् // ब्य्च्श्ट्_3.24 [= सेरिअल्नो. 74]
स्वभावेन खलु शुचि नाम वस्तु न किंचिद् अस्ति / तत्र तावद् यद् अनुपहतदर्शनाः प्रक्षरितामेध्यबीजदर्शनं कायम् ईक्षमाणा विरज्यन्ते / तस्मात् तद्वैराग्यकारणत्वात् पुरीषपुञ्जवच् छरीरं शुचित्वेनानुपपन्नं पुष्पादयो ऽपि नियमाद् रागकारणत्वेनानुपपन्नास् तत्रापि वैराग्यस्य सद्भावात् / तथा हि कामवैराग्यलाभिनां तेष्व् अपि वैराग्यम् उपजायते /
अपि खलु स्वभावेन न हि किंचिच् छुचि नामास्ति यन् नियमेन रागकारणं स्यात् / तथा हि पुष्पादीनाम् अपि शुचिसंज्ञितानां पर्युषितानाम् अन्यथाभावात् प्रातिकूल्यम् उत्पद्यते / यदि तेषां स्वभावेन शुचित्वं स्यान् नान्यथाभावः स्यात् / तस्मान् न तेषु स्वभावेन शुचित्वम् अस्ति /
यदि च नियमात् पुष्पादयो भावा रागस्य कारणं स्युस् तत्र सर्वे ऽपि सर्वदापि रागं जनयेयुः / न चैतद् एवम् इति / न पुष्पादयो रागस्य कारणं युज्यन्ते /
एकस्येष्टानिष्टदुहितृदर्शनवत् / कश्चिद् वणिग् अभिजातायां दुहितरि प्रवासं गतः स कालान्तरेणागतः / सा चास्य दुहिता प्राप्तयौवना तस्याधिष्ठानस्य बहिर् उद्याने कन्याभिः सह क्रीडति स्म / तस्य तां दृष्ट्वा तीव्रो राग उत्पन्नो यदा तु श्रुतं दुहिता तवैषेति तदा विरक्तः / एवं न स कश्चिद् भावो ऽस्ति यो नियमेन रागाय भवति / यत्र च वैराग्यम् उत्पद्यते तद् अशुचिरवगन्तव्यम् / आह चात्र /
तत्रैव रज्यते यस्मात् तत्रैव च विरज्यते / तस्मान् नियमतः सिद्धं न रागस्यास्ति कारणम् //
तद् एवम् अशुचि शरीरं यथा दुःखम् अनित्यं च तद् विहितं पूर्वं प्रतिपादयिष्यत्य् अनात्मत्वम् / त एते चत्वारो ऽविपर्यासाः / इदं चिन्त्यते किम् एते चत्वारो ऽविपर्यासा एकस्मिन् पदार्थे सम्भवन्त्य् आहोस्विन् नेति / उच्यते /
अनित्यम् अशुभं दुःखम् अनात्मेति चतुष्टयम् / एकस्मिन्न् एव सर्वाणि सम्भवन्ति समासतः // ब्य्च्श्ट्_3.25 [= सेरिअल्नो. 75]
यत् खलु संस्कृतं प्रतीत्यसमुत्पन्नं तद् अनित्यं क्षणिकत्वात् / यच् चानित्यं तद् अशुभम् उद्वेगकरत्वात् / यच् चाशुभं तद् दुःखं पीडाकरत्वात् / दुःखं च यत् तद् अनात्मकम् अस्वतन्त्रत्वात् / तद् एवम् एकस्मिन्न् एव भावे समासतश् चत्वारो ऽविपर्यासाः सम्भवन्ति / न चैतत् संविद्यमानम् अपि बालैर् विपर्यस्तैः परिच्छिद्यते / परिकल्प्यते तु तद्विपरीतत्वं भावानाम् / तद् अर्हति प्राज्ञो यथास्थितम् अनित्यत्वादिकं भावानाम् अधीत्य नैःस्वाभाव्याधिगमे चेतः समुत्साहयितुम् /
पिशाचीस्वभावदर्शनभीतवत् / कस्यचित् पिशाची पत्नीरूपेण व्यवस्थिता / स तां पत्नीवद् उपचरति / यदा तु तेन तस्या दुःखोत्पादनेन बीभत्सतयाविधेयतयानात्यन्तिकत्वेन च स्वभावो दृष्टस् तदा भीतो नैषा मम पत्नी पिशाच्य् एषेति / तदा तस्यां विरज्यति / एवं संस्कृतस्वभावदर्शना विरज्यन्ति प्राज्ञाः / आह चात्र /
यत् संस्कृतं न तन् नित्यं यद् अनित्यं न तच् छुभम् / न सुखं तद् यद् अशुभं यद् दुःखं तद् अनात्मकम् //
चत्वारो विपर्यासा एकस्मिन्न् एव संस्कृते सम्भवन्ति यतस् तस्मात् सर्वे क्लेशा अवस्तुका
इति //
अशुचिचिन्ता नाम त्र्तीयं प्रकरणम् // (ब्य्च्श्ट्_3)
छप्तेर् इव् अहङ्कारविपर्यासप्रहाणोपाय
इ
अत्राह / उक्तस् त्रयाणां विपर्यासानां प्रहाणोपायः / चतुर्थस्य विपर्यासस्येदानीम् उच्यतां प्रहाणोपाय इति / उच्यते /
अहं ममेति वा दर्पः सतः कस्य भवेद् भवे / यस्मात् सर्वे ऽपि सामान्या विषयाः सर्वदेहिनाम् // ब्य्च्श्ट्_4.1 [= सेरिअल्नो. 76]
अहङ्कारममकारौ खल्व् अपि राजन्य् आधिक्येन वर्तेत इति / तयोः प्रतिषेधेन भूयसा राजैवानुशास्यते / तत्राहङ्कार आत्मन उत्कर्षविशेषपरिकल्पनाद् उपजायते / अहं प्रभुर् इति / ममकारस् तु स्वीकृतार्थवशित्वकल्पनायाम् उपजायते / ममेमे विषया इति / दर्पो दृप्तता गर्वो मद इत्यर्थः / भवः संसारः कर्मक्लेशपरायत्तस्य जन्ममरणपरम्परया गतिपञ्चकपर्यटनम् / तत्र वर्तमानस्य कस्य नाम विदुषो ऽहङ्कारममकाराभ्यां दर्प उत्पद्यते / यदि हि कस्यचित् क्वचिद् असाधारणम् ईशत्वं स्यात् तदा युज्येतास्य तदालम्बनो दर्पो ऽहम् एवैषां विषयाणां स्वामी ममैव चैते विषया इति वशित्वदर्शनात् / न चैतत् संसारपर्यापन्नस्य बालस्य सम्भवति / तथा हि सर्वसत्त्वसाधारणकर्मनिर्जाताः सर्वे रूपादयो विषयास् तद् एषु सर्वसत्त्वसाधारणपरिभोगेषु साधारणतरुषण्डमण्डपादिष्व् इव न युक्तो ऽहङ्कारममकारपरिग्रहाद् दर्पः /
राजनटवत् / यथा राजनटो मुहूर्तेन नटो मुहूर्तेन राजा मुहूर्तेनामात्यो मुहूर्तेन ब्राह्मणो गृहपतिर् दासश् च भवति / तथा राजानवस्थितः / पञ्चगतिरङ्गनाटनात् / भवति चात्र /
ऐश्वर्यं भोगसम्पद् वा यस्मात् पुण्येन लभ्यते / तस्मात् कर्मात्मके लोके न दर्पो युज्यते सतः //
अत्राह / यस्मात् सर्वारम्भो राजन्य् अधिकृतस् तस्माद् अधिकारनिमित्तस् तस्य दर्पो युज्यत इति / उच्यते /
गणदासस्य ते दर्पः सड्भागेन भृतस्य कः / जायते ऽधिकृते कार्यम् आयत्तं यत्र तत्र वा // ब्य्च्श्ट्_4.2 [= सेरिअल्नो. 77]
समुद्भूतादत्तादाने ऽपि प्राथमकल्पिके लोके क्षेत्रपरिरक्षार्थं प्रतिबलः पुरुषो महाजनेन धान्यषड्भागवेतनेन भृतः / कथं ना[…]
इइ
[…] हन्तुं तदाग्निना सर्वस्थानानि दग्धानि / तत्र बहूनि प्राणिसहस्राणि घातितानि तस्य तेन राज्ञानुमोदितम् / तद् एवं यत्र मौढ्यं तत्र दया न विद्यते / यत्र दया नास्ति तत्र कुतः पुण्यावाप्तिः / राज्ञां चैव सर्वम् अस्ति / अत एषां गोपायताम् अपि धर्मो न सम्भवति / आह च /
अहिंसा मूलं धर्मस्य यस्माद् आहुः कृपात्मकाः / तस्मान् न विद्यते धर्मो निर्दये तु नराधिपे //
अत्राह / ऋषिप्रणीतेन क्षत्रधर्मेण हिंसां कुर्वतो ऽपि राज्ञो नास्त्य् अधर्म इति / उच्यते /
ऋषीणां चेष्टितं सर्वं कुर्वीत न विचक्षणः / हीनमध्यविशिष्टत्वं यस्मात् तेष्व् अपि विद्यते // ब्य्च्श्ट्_4.14 [= सेरिअल्नो. 89]
ऋषीणाम् इह कायवाङ्मनसां विचेष्टितं सर्वम् एव पण्डितेन न कर्तव्यम् / यस्माद् ऋषिष्व् अपि हीनमध्यविशिष्टत्वं विद्यते / तत्र यस्य शास्त्रे हिंसा कारणवशाद् धर्मो भवति स हीनः / यस्य स्यान् न स्याद् इति संशयः स मध्यः / यस्य त्व् अधर्म एव हिंसेति स विशिष्टः / तस्मात् सर्वेषाम् ऋषीणां शास्त्रम् अप्रमाणम् / तत्र यद् इष्टम् ऋषिप्रणीतेन क्षत्रधर्मेण हिंसां कुर्वतो ऽपि राज्ञो नास्त्य् अधर्म इति तन् न /
विश्वामित्रवशिष्ठजामदग्न्यवत्/ विश्वामित्रवशिष्ठजामदग्न्यानां चौर्याभक्ष्यभक्षणागम्यगमनप्राणातिपातश्रवणात् / तत्र विश्वामित्रस्य चौर्यम् अभक्ष्यभक्षणं च श्रूयते / श्वपचेभ्यः किल श्वमांसम् अपजिहीर्षुणोक्तं तेन //
शक्यं तर्तुं जीवता कर्म पापम् / प्रायश्चित्तं ह्य् एतद् अस्मद्विशेषात् / मृतश् चाहं तर्तुं पापम् एतन् न शक्तः / तस्माद् ध्य् एतद् भक्षयिष्ये श्वमांसम् //
वशिष्ठो ऽक्षमालायां चण्डाल्यां विप्रतिपन्नः श्रूयते / ततः किल पुत्रा आजाता इति /
जामदग्न्येनापि वत्सापहरणकोपात् कार्तवीर्यस्यार्जुनस्य बाहुसहस्रं पातितम् / एवं ह्य् आह //
दान्तस्य क्षमिणो ऽपि दुर्जनजनैस् तैस् तैर् व्यलीकव्रणैः सामर्षं क्रियते बलाद् अपि मुनेर् व्युत्क्रान्तधैर्यं मनः / गोर् वत्सापनयेन दोहसमये हम्भारवैस् तत् कृतं यद् रामस्य सुनिर्मलस्य परशोर् धारां प्रविष्टा नृपाः //
तथा तेनैव मात्रा संचोदितेन त्रिःसप्तकृत्वः पृथिवी निःक्षत्रिया कृता / एवं च किल तस्य मात्रोक्तम् //
ऋजुना मृदुना तपस्विना शतशो मान्यतमेन चाहवे / न जगस्य विनाशकारणं न परैर् एकम् अपि व्यपेक्षितम् //
अपकारमयेन कर्मणा न नरस् तुष्टिम् उपैति शक्तिमान् / अधिकां कुरु विर यातनां द्विषतां मूलम् अशेषम् उद्धर //
इति // ततस् तस्य धनुर्निनादशब्दः श्रूयते //
प्राकारशृङ्गाण्य् अतिवर्तमानो गृहाणि भिन्दन्न् इव पार्थिवाणाम् / स जामदग्न्यस्य धनुर्निनादो जग्राह केशेष्व् इव कार्तवीर्यम् //
आह चात्र /
न तत् प्रमाणं कर्तव्यं शास्त्रम् आत्मार्थपण्डितैः / यस्यार्थं पुरुषाः कृत्वा व्रजेयुर् दुर्गतिं ध्रुवम् //
शास्त्रार्थं हि प्रमाणीकृत्य स्फीतां वसुमतीं सम्यक् परिपालितवन्तो यस्मात् पुरातना राजानस् तस्माद् अपि शास्त्रं प्रमाणम् इति / उच्यते //
पुत्रवत् पालितो लोकः पुरतः पार्थिवैः शुभैः / मृगारण्यीकृतः सो ऽद्य कलिधर्मसमाश्रितैः // ब्य्च्श्ट्_4.15 [= सेरिअल्नो. 90]
कलियुगात् पूर्वोत्पन्नैः पार्थिवैश् चक्रवर्त्यादिभिः शुभैर् युक्तायुक्तपरीक्षकैर् धर्मानुकूलं शास्त्रं प्रमाणीकृत्याधर्मानुकूलं परिवर्ज्य दशकुशलकर्मप्रतिष्ठितैः प्रियैकपुत्रकवज् जगत्प्रेमानुगतैः पालितो लोकः / साम्प्रतं तु कलियुगोत्पन्नैः पार्थिवैः स्वचित्तदौरात्म्यपरायत्तैर् अर्थमात्रतृष्णापरैर् अधर्मानुकूलं शास्त्रं प्रमाणीकृत्य धर्मानुकूलम् उत्सृज्य तथायं लोको निष्करुणैर् उद्वासितो यथा मृगारण्यीकृत इत्य् अतो ऽपि नाधर्मयुक्तं शास्त्रं प्रमाणम् इति /
अपरिसंजातेक्षुम्लेच्छपीडनवत् / यो हि दस्युर् मोहाद् अपरिसंजातम् इक्षुं पीडयति सो ऽनर्थम् एव करोति नार्थम् / तद्वद् राजा चेत् पालनीयां न पालयति / न तस्यैहिको ऽर्थो न पारत्रिकः / अपुण्यकरणात् / आह च /
स्वराष्ट्रपरराष्ट्रेषु न विभागकृतो ऽत्र यत् / प्रजा भवन्ति सुखिनस् तच् छास्त्रं संस्कृतं बुधैः //
अत्राह / राज्ञः खल्व् इह शत्रूंश् छिद्रेषु प्रहरतो नास्त्य् अधर्मः शास्त्रदृष्टित्वाद् इति / उच्यते //
छिद्रप्रहारिणः पापं यदि राज्ञो न विद्यते / अन्येषाम् अपि चौराणां तत् प्राग् एव न विद्यते // ब्य्च्श्ट्_4.16 [= सेरिअल्नो. 91]
यदि खलु शत्रून् अन्यान् वा छिद्रेषु प्रहरतो राज्ञः पापं न विद्यते / ननु राजतस्कराद् अन्येषाम् अपि चौराणां धनारक्षकाणां किंचिच् छिद्रं प्राप्य परधनम् अपहरतां छिद्रप्रहारित्वात् प्रथमं पापेन न भवितव्यम् / छिद्रप्रहारित्वेन तेषां ज्येष्ठभूतत्वात् / पश्चाद् राज्ञो न चैतद् एवम् इष्टम् इत्य् अतो यद् इष्टं राज्ञश् छिद्रेषु प्रहरतः पापं नास्तीति तन् न /
अजितसेनराजपुत्रवत् / केनचित् किल राज्ञामात्यः प्रोक्तो यदा मे मरणं भवति तदास्मद्भ्रातरम् अजितसेनं राजकुमारम् अभिषेक्ष्यसीति / ततस् तेनामात्येन तस्मिन् राजनि मृते छिद्रप्रहारिणा स राजकुमारो घातितः / आत्मना च तद्राज्यम् अवष्टब्धम् / तस्यातीवाकीर्तिर् लोके प्रतिष्ठिता पापाचार इति / परत्र चापुण्यम् / तद्वद् राज्ञां छिद्रप्रहारिणां कथम् अकीर्तिः पापं च न भविष्यतीति / आह चात्र /
यत् कृष्णं कर्म कृतं न तस्य संजायते फलं शुक्लम् / न हि पूतिवृक्षबीजाच् चम्पकबीजाङ्कुरो भवति //
अत्राह / राज्ञो रणमुखे शत्रूञ् जित्वा महान् परितोषो भवति / स्वशौर्यविक्रमार्जितां च धनसम्पदम् अनुपश्यतः / अथास्य रणे मृत्युर् भवति तदा ध्रुवम् अस्यात्मनः परित्यागात् स्वर्गगामित्वम्
इति / उच्यते //
सर्वस्वस्य परित्यागो मद्यादिषु न पूजितः / आत्मनो ऽपि परित्यागः किं मन्ये पूजितो रणे // ब्य्च्श्ट्_4.17 [= सेरिअल्नो. 92]
इह द्यूतमद्यवेश्याङ्गनासु विशदं सर्वस्वम् अपि परित्यजन्तः पुण्यभाजो न भवन्ति / व्यसनानुपदत्वात् तत्त्यागस्य न सज्जनमनांस्य् आराधयन्ति / एवम् आत्मभावपरित्यागो रणे न पूज्यते / तस्यापुण्यायतनत्वात् / कथं हि नाम युद्धे ससंरम्भम् अभिधावतः कृपाविप्रयोगात् परस्मिन् निष्ठुराशयस्य विनिपातनाय परशिरसि विनिविष्टदृष्टेः समुद्यतायुधस्य परेण विनिपातितस्य स्वर्गगमनं सम्भावयितुं युज्यते / तत्र यद् इष्टं रणमुखे ध्रुवं मृतस्य स्वर्गगमनम् इति तन् न /
आभीरीश्वशुरशरीरदानवत् / काचिद् आभीरी भर्तरि प्रोषिते श्वशुरम् अतीवावमन्यते स्म / अथ स वृद्धाभीरस् तस्मिन्न् आगते पुत्रे तम् अर्थम् आवेदितवान् /
एवं चाह / यदि ते पत्नी पुनर् अप्य् अस्माष्व् अवमानं करिष्यति / न ते गृहे वत्स्यामीति / स च न स्त्रिभीरुः पितृभक्तश् चातस् तां परिभाष्याह स / चेत् त्वं पितरम् अवमन्यसे न ते मम गृहे वासो ऽस्ति / दुष्करम् अप्य् अस्य कुरु दुर्देयं चास्मै प्रयच्छेति / तया तथैव प्रतिज्ञातम् /
अथ सा पुनः प्रोषिते भर्तरि चकितचकिता परेणादरेण श्वशुरस्य शुश्रूषां चकार / स्नानानुलेपनमाल्यदानान्नभोजनपानादिना प्रणीतेन दिवसम् उपस्थाय रात्राव् उष्णोदकेनास्य पादौ धावयित्वा तैलेन म्रक्षयित्वा वस्त्राण्य् अवमुच्य निर्वसना दुष्टयोगाहितेन क्रमेण शयनम् आरोढुम् आरब्धा /
वृद्धाभीर आह / पापे किम् इदम् आरब्धम् इति / आभीर्य् आह / भर्त्राहम् उक्ता दुष्करम् अपि त्वयास्य कार्यं दुर्देयम् अपि देयम् इति / न चास्माद् दुष्करतरम् अस्ति दुर्देयाच् च दुर्देयम् इति / वृद्धाभीरो ऽब्रवीत् / एष उपायो हीतो निर्गमनाय तुष्टा भव / न पुनर् इह गृहे स्थास्यामीत्य् उक्त्वा निर्गतः /
स चास्य पुत्र आगतः / पितरम् अपश्यन् पत्नीं पृच्छति / सावोचत् / स्वामिन् न मम किंचित् परिहीणं परेणादरेण स मयर्तुसुखेन स्नानानुलेपनभोजनादिनोपचरित इति सर्वं निवेदयति /
ततस् तेन स्वामिना निर्भर्त्स्य गृहान् निष्कासिता / पिता च प्रसाद्य स्वभवनं प्रवेशितः /
यथास्या आभीर्या दुष्टभावायाः शरीरप्रदानं न पूजितम् / एवं राज्ञां दुष्टचेतसां रणे जीवितपरित्यागो न पूजितः / लोके च दुष्टत्वाद् मद्यादिषु सर्वस्वपरित्यागो न पूजित इति / आह च /
रणे मृतस्य गमनं मेरुपृ[…]
इइइ
[…] कर्मणा / विप्रो ऽपि कर्मणा शूद्रः केन मन्ये न जायते // ब्य्च्श्ट्_4.23 [= सेरिअल्नो. 98]
यदि हीदानीम् अक्षत्रियो ऽपि क्षत्रियकर्म कुर्वन् क्षत्रियो भवति / शूद्रो ऽपि हि नाम ब्राह्मणकर्म कुर्वन् ब्राह्मणो भविष्यति / प्रतिगृह्णन्न् अधीयांश् च / तथाप्य् अन्यो ऽप्य् अन्यदीयं कर्म समाचरन् स एव स्यात् / तत्र यद् इष्टं कर्मणा क्षत्रियो भविष्यतीति तन् न /
नौपारगमनवत् / यथा नौः पारं गच्छत्य् आगच्छति / तत्र नद्या उभयकूलस्थितौ ब्रुवाते नौः पारं गता नौः पारं गतेति / न च किंचित् सिद्धं पारम् अस्ति / स एवासिद्धो ब्राह्मणः क्षत्रियो वा / यदि शूद्रः कर्मणा क्षत्रियो भवत्य् एवं विप्रो ऽपि कर्मणा शूद्रो भविष्यति / आह च /
सद्यः पतति मांसेन लाक्षया लवणेन च / त्र्यहेण शूद्रो भवति यो विप्रः क्षीरविक्रयी //
इत्यादि / आह चात्र /
कर्मणा यदि वर्णाः स्युर् जातिस् तत्र न कारणम् /
न च द्वाभ्यां भवन्त्य् एते जातिः प्राग् दूषिता यतः //
अत्राह / राज्यैश्वर्येण हि महता महतो जनस्य शक्नोत्य् ऐश्वर्यसंविभागं कर्तुं कालेन यतस् तस्माद् महद् ऐश्वर्यम् एष्टव्यं राज्ञेति / उच्यते //
पापस्यैश्वर्यवद् राजन् संविभागो न विद्यते / विद्वान् नाम परस्यार्थे कः कुर्याद् आयतीवधम् // ब्य्च्श्ट्_4.24 [= सेरिअल्नो. 99]
सत्यं राज्ञा महद् ऐश्वर्यं महता कालेनोपार्जितां शक्यं महाजनस्य संविभक्तुं तत् तु न विना महाजनपीडया शक्यं निष्पादयितुम् /
अवश्यं च महाजनपीडया महता पापेन भवितव्यम् / यथा चैश्वर्यं संविभज्यते नैवं तन्निमित्तम् अवद्यम् उपचितं संविभक्तुं पार्यते केवलम् एकाकिनैव तद् दुःखम् अनुभवितव्यम् / तत् को ऽयं पण्डितः परस्माय् अल्पोपकारार्थं संविभक्ष्यामीत्य् अनल्पानर्थप्रदानदक्षम् असाधारणम् अवद्यम् उपचिन्वन्न् आयत्यां वधम् आत्मनः कुर्यात् तद् इदं ह्रियः स्थानं न मदस्य /
महिषोपघातवत् / शूनिकदारकवच् च / यथा महिषः स्वपरार्थम् एकेन हन्यते बहुभिः परिभुज्यते / घातकस्यैव च पापम् / तथा राजा राज्यहेतोः पापं कर्म करोति बहवश् च परिभुञ्जते /
तथा च शूनिकदारको ऽधर्मभयान् न मारयति / स च स्वजनेनोच्यते मारय त्वं यस् तत्राधर्मो भविष्यति स सर्वेषाम् अस्माकं समतया भविष्यतीति / तेनोपायेनोक्तं महती मे शिरसि वेदना तां भाजयथेति / त ऊचुर् न शक्यत इति / स प्राह / तत् कथम् अपायवेदना समतया भविष्यतीति / आह चात्र /
अनिन्द्यम् इह लोके यत् परत्र च सुखावहम् / तत् कर्तव्यं मनुष्येण परत्र सुखम् इच्छता //
अत्रह / रज्ञः खल्व् इह महत्य् ऐश्वर्ये ऽवश्यम् एव महता मानेन भवितव्यम् इति / उच्यते //
दृष्ट्वा समान् विशिष्टांश् च पराञ् छक्तिसमन्वितान् / ऐश्वर्यजनितो मानः सताम् हृदि न तिष्ठति // ब्य्च्श्ट्_4.25 [= सेरिअल्नो. 100]
परत उत्कर्षम् आत्मनः पश्यतो मानः स्यात् / स चानवस्थितः परापेक्ष एवेति न विद्वांसो मन्यन्ते / तस्माद् अपहाय मानं जगते हितम् आधित्सुना गुरव इव स्वामिन इव परे नावमन्तव्याः / तद् एवं कुर्वाणाः स्युर् एव ते भाजनं सम्पदां जगदाराधनप्रवृत्तत्वात् /
वासुलपत्नीवत् / वासुलब्राह्मणस्य पत्नी कथयति स्म / न मत्सदृशी स्त्री काचित् स्त्रीरूपेण पृथिव्यां संविद्यते / न च त्वं माम् अनुरूपेण वस्त्रालङ्कारेणार्चयसीति / सा तेनोपायेन रुद्रनाम्नो राज्ञो ऽन्तःपुरं प्रवेशिता / तस्यास् तत्र परिचारिकां दृष्ट्वा रूपमदो नष्टः प्राग् एव राजपत्नीम् / तथा राज्ञात्मनः समान् विशिष्टांश् च दृष्ट्वा मदं चाहङ्कारं च युक्तं त्यक्तुम् / आह चात्र /
दीने राजनि तावन् मानो राज्ञो न युज्यते कर्तुम् / तुल्ये श्रेष्ठे च नृपे कुतो ऽवकाशो ऽस्ति मानस्य //
अहङ्कारविपर्यासप्रहाणोपायं नाम चतुर्थं प्रकरणम् / (ब्य्च्श्ट्_4)
छप्तेर् व्
अत्राह / कुतः पुनर् इमे सुभाषितरत्नविशेषा यथास्थितलौकिकार्थतत्त्वप्रतिपादका वैराग्यहेतवो लभ्यन्ते / उच्यते / बुद्धेभ्यो भगवद्भ्यः / कीदृशाः खलु ते बुद्धा भगवन्तः / महाकरुणावेशात् सर्वथानिन्द्याचिन्त्याशेषजगदर्थसम्पादनपराः / तथा हि //
न चेष्टा किल बुद्धानाम् अस्ति काचिद् अकारणा / निश्वासो ऽपि हितायैव प्राणिनां सम्प्रवर्तते // ब्य्च्श्ट्_5.1 [= सेरिअल्नो. 101]
बुद्धा भगवन्तः सर्वजगदनुग्रहाशयक्षिप्तकर्मनिर्मितत्वाद् यथाप्रत्ययं फलम् इति जगद्धिताधानोदयदक्षाभिः समीहाभिः सकलं जगद् अनुगृह्णन्ति / न हि सास्ति काचित् कायपरिस्पन्दलक्षणा चेष्टा या सत्त्वोपकारानुपयोगिनीति /
आस्तां ज्ञानपूर्विका तावच् चेष्टा / यो ऽप्य् अयं प्रेरकचेतनाविशेषाक्षेपनिरपेक्षः स्वरसवाही जन्मनः प्रभृत्य् आमरणाद् अहर्निशम् अनुवर्तते निश्वासः सो ऽपि नामैषां प्रवर्तते जन्मभृतां हितायैव / तथा ह्य् एषां बुद्धानां भगवतां निश्वासा विनिर्गत्योपरि नरकभाजनानां महान्तः कालमेघा विपरिणमन्ते कज्जलाञ्जनराशय इव नारकजनमनोहराः संछादिताशेषनरकभाजनमण्डलाः पटुमधुरनिरन्तरस्वनितैर् आह्लादयन्तो नारकान् स्वच्छस्वादुशीतोन्मुक्तवार्योघैर् निवारयन्तो नारकाग्निं तत्प्रत्ययम् अपेतदुःखानां नारकाणां कस्यानुभावाद् इदम् उपनतम् अस्माकम् इति मीमांसापरिगतहृदयाणां मनःप्रसादायतनतथागताचिन्त्यरूपकायसन्दर्शनेनावर्जितचित्तसन्तानानां बुद्धे भगवत्य् अभिप्रसादान्वयक्षयिताशेषाकुशलकर्मराशीनां तदन्वयम् एव च समाक्षिप्तमोक्षभागीयानाम् अत्यन्तोपकारान्
निश्वासो ऽपि हितायैव प्राणिनां सम्प्रवर्तते / ब्य्च्श्ट्_5.1च्द् [= सेरिअल्नो. 101च्द्]
एवम् अन्यत्रापि योज्यम् /
तद् एवं मतिमान् अवसितसंसारदोषस् तत्क्षयोद्युक्तः सर्वथा यथोपवर्णितसुभाषितरत्नाधारे त्रिभुवनगुरौ बुद्धे भगवति प्रसादपुरःसरम् अर्हति मनो निवेशयितुम् //
पाराशरकुलभिक्षुवत् / कश्चिद् भिक्षुः पाराशरकुलं गतः / स यन्त्राचार्यगृहं प्रविष्टस् तेन निमन्त्रितो मम गृहे त्वया वर्षा करणीया / अहं पिण्डपातं दास्यामीति / तेन तथैव कृतम् / तस्य च प्रासादस्याधस्ताद् बहूनि यन्त्रकार्यकरणे यन्त्राणि सन्ति / ततस् तेन स भिक्षुः प्रासादे स्थापितो ऽत्र त्वं यथेच्छसि तथा तिष्ठेति / स तस्मै निर्गताय चीवरमूल्यं दत्त्वा भृतकवेतनं ददाति स्म // भिक्षुर् आह / न ते मया किंचित् कर्म कृतं कस्माद् वेतनं ग्रहीष्यामीति / दानपतिर् आह / न त्वं मुहूर्तम् अप्य् अकर्मक इह गृहे केनचिद् ईर्यापथेन स्थितः / यन्त्राणि चास्य दर्शयति लाभं च तत्कृतम् / यथा तस्य भिक्षोर् न कश्चिद् ईर्यापथो ऽस्ति यो ऽस्य नोपकाराय भवेत् तद्यन्त्रवाहनेन / एवं भगवतो बुद्धस्य न काचित् कायवाङ्मनश्चेष्टास्ति याल्पा वानर्था वा स्यात् / आह च /
शरीरवाचोमनसां प्रवृत्तिः / स्वार्था मुनेर् नास्ति न चाप्य् अनर्था / महाकृपाविष्टविशुद्धबुद्धेः / परोदयायैव पुनः प्रवृत्तिः //
इति //
तं चोपासीनाः सर्वव्यसनान्य् अतिवर्तन्ते यावन् मरणभयम् इति / तथा हि /
यथा सर्वस्य लोकस्य मृत्युशब्दो भयङ्करः / ब्य्च्श्ट्_5.2अब् [= सेरिअल्नो. 102अब्]
प्रियजीवितवियोगकारकत्वात् /
तथायं सर्वविच्छब्दो मृत्योर् अपि भयङ्करः // ब्य्च्श्ट्_5.2च्द् [= सेरिअल्नो. 102च्द्]
यतस् तद्विषयसीमानम् अतिवर्तन्ते ताथागतस्य वर्त्मनः सम्यगनुष्ठातारस् तथानुष्ठानबीजानि च कुशलमूलानि तथागतनामधेयश्रवणाद् आधीयन्ते //
यथा चोक्तं भगवता /
ये मम नामधेयं श्रोष्यन्ति सर्वे ते त्रयाणां यानानाम् अन्यतमेन यानेन परिनिर्वास्यन्ति /
इति /
बन्धनमोक्षबन्धनाधिकृतज्वरवत् / कश्चिद् बन्धनाधिकृतः पुरुषो राजकुलेन स्थापितो यस्य सर्वबन्धनम् आयत्तम् / राज्ञा च पुत्रे जाते सर्वबन्धनमोक्षो घोषितस् तेन च शब्देन सर्वलोको हर्षितः / स चैवैको बन्धनाधिकृतो भीतो ज्वरितश् च तं बन्धनमोक्षशब्दं श्रुत्वा / एवं तथागत उत्पन्ने सर्वलोकः प्रीतो वर्जयित्वा मारम् / आह च /
अन्तशो बुद्ध इत्य् एव घोषो[…] (ब्य्च्श्ट्_5)
छप्तेर् विइ
[…] गीतानि चकार /
यथास्य राज्ञः स्नेहविपर्ययानवस्थानाच् चोन्मादस् तद्वत् पृथग्जनानां विद्वांसस् तस्मात् स्नेहविपर्यासाच् चित्तानवस्थानाद् अनुचिन्तयन्त्य् उन्मादम् / तथा ह्य् एषां यत्रैव विषये ऽतीवाभिष्वङ्गस् तत्रैवातीव परित्यागो दृश्यते / तत् को भवस्थं न ब्रूयाद् उन्मत्त इति / आह चात्र /
उन्मादात् कर्मैवानर्थं कुरुते नरस्य नोन्मादः / न ह्य् उन्मादश् चित्रं करोति पुरुषं यथाकर्म //
तद् एवं सूनास्थानसमत्वाद् उन्मादस्थानत्वाच् च पण्डितैः परिवर्जनीयो भवः / स च सर्वकर्मप्रवृत्तिनिरोधेन परिवर्जयितव्यः / अस्ति चास्य भवस्य परिवर्जनोपायः सर्वकर्मक्षयः / स कथं भवतीति तदुपायावेदनायाह //
हीयमानां रुजं दृष्ट्वा गमनादौ विपर्यये / सर्वकर्मक्षये तेन करोति मतिमान् मतिम् // ब्य्च्श्ट्_7.9 [= सेरिअल्नो. 159]
यथा गमनादिजनिता रुजश् चङ्क्रमणादिपरिवर्जनेषु पूर्वावेधपरिक्षयाद् अनुपूर्वं क्षीयन्ते तथा सर्वेण सर्वं रुजः सर्वकर्मोपच्छेदैः /
ततः सर्वकर्मोपच्छेदम् अर्थयमानः कुशलः पुरुषः सर्वकर्मक्षयाय यतते / तथान्यो ऽपि यतमानस् तां जातिं लप्स्यत इत्य् आस्थातव्यो यत्नः सर्वकर्मक्षयलभ्ये सर्ववेदयितृनिरोधरूपेण मतिमता निर्वाणे /
दीर्घाध्वगवत् / यथा दीर्घाध्वगो यथा यथा गच्छति तथा तथा दुःखी भवति श्रमदुःखेन पथ्यदनपरिक्षयदुःखेन च / तथा बालाः संसाराध्वनि वर्तमाना आश्रयदुःखेन शुभकर्मपरिक्षयदुःखेन च बाध्यन्ते / अथवा दीर्घाध्वगो गमनदुःखेन पीडितः स्थानम् आरभते / ततो ऽस्य गमनदुःखं निवर्तते / स्थानदुःखम् अपि निषद्यया निषद्यादुःखम् अपि स्थानेन / यदि पुनर् निषद्यादुःखपरिखिन्नस् तत्त्यागाद् अन्यदीर्यापथान्तरं नारभते तदास्येर्यापथिकदुःखनिवृत्तिर् अत्यन्तं सम्भाव्येत / एवं सर्वकर्मक्षये ऽपि वाच्यम् / तद् एवं सर्वकर्मक्षयः सर्वदुःखनिवृत्तिकारणम् इति सर्वकर्मक्षये मतिमता मतिः कार्येति / आह चात्र /
यथा सुखं चैतसिकं श्रेष्ठं कायसुखाद् अपि / तथा कर्मक्षयसुखं क्लेशक्षयसुखाद् इह //
इतश् च युक्तः संसारत्यागो धीमतां भयकारणत्वात् / तथा हि //
यदैकस्यापि कार्यस्य दृश्यते नादिकारणम् / तदा कस्य भयं न स्याद् दृष्ट्वैकस्यापि विस्तरम् // ब्य्च्श्ट्_7.10 [= सेरिअल्नो. 160]
इहैकस्यापि तावत् कार्यस्य भौतिकस्य वा वातिकस्य वा पैत्तिकस्य वा पूर्वं पारम्पर्येण परीक्ष्यमाणस्यादिकारणं यदा न दृश्यते / अनादिमत्त्वाज् जगत्प्रवृत्तेर् एवम् एवैकस्यापि कार्यस्यानन्त्यं सविस्तरं दृष्ट्वा तदा कस्येह पुरुषस्याधिगतभयस्य जगत्प्रवृत्तिदर्शने भयं न स्यात् / युक्तं त्व् अस्यापरिमितप्रबन्धगहनदुःसञ्चरतरायां संसाराटव्यां नित्यम् एवोद्विजितुं तदनुरूपं च योनिशःप्रधानं भावयितुम् /
घटवत् / यथा हि घटे ऽनेकप्रत्यया मृत्पिण्डदण्डचक्रसूत्रोदकपुरुषप्रयत्नादयो दृश्यन्ते घटकरणे तावत् प्राग् एवान्येषां गुरुतराणाम् अर्थानां निष्पादने / आह चात्र /
कालस्यानन्तत्वाद् आदिश् च न विद्यते यतो जगतः / तस्माज् जन्तोर् दुःखं पूर्वां कोटिं समाज्ञातुम् //
अपि च / यद् अयम् अभिलषंस् तृष्णया परिस्पन्दते तस्य यदि नियोगतः सिद्धिः स्याद् युक्तं स्पन्दितुम् / तस्य च /
सिद्धिः सर्वस्य कार्यस्य नियमेन न जायते / नियमेन कृतस्यान्तः किं तदर्थं विहन्यसे // ब्य्च्श्ट्_7.11 [= सेरिअल्नो. 161]
इह हि सर्वस्यैव कार्यस्य प्रारब्धस्य नियमेन सिद्धिर् भवति वा न वा / सिद्धस्य तु सर्वस्यैव कार्यस्य नियमाद् अवश्यम् एव विनाशो भवति / तत्र यस्य कृतस्य सुचिराद् अप्य् अवश्यम् एव नियमतो विनाशः किं तदर्थम् अयं बालो विहन्यत इति / अतो ऽवधूय जालिनीं तदुच्छेदाय यतितव्यम् /
कुम्भकारपाकवत् / यथा कुम्भकारपाके सिद्धिर् अनैकान्तिकी निष्पन्नानां च कुम्भकारभाजनानां नियमतो विनाशस् तथा सर्वेषां लौकिकानां कार्याणां सिद्धिर् अनैकान्तिकी / आह चात्र /
सर्वेषां भावानां कृतकत्वान् नास्ति नियमतः सिद्धिः / तस्माद् भाव्यस् तेषां नियमेनैव ध्रुवो नाशः //
यथा च कार्यस्य ध्रुवो विनाशस् तथा कर्मणो ऽपीति प्रतिपादयन्न् आह //
यत्नतः क्रियते कर्म कृतं नश्यत्य् अयत्नतः / विरागो ऽस्ति न ते कश्चिद् एवं सत्य् अपि कर्मणि // ब्य्च्श्ट्_7.12 [= सेरिअल्नो. 162]
इह खलु महता यत्नेन बहुभिः साधनोपायैः कर्म क्रियते / तत् तु महता प्रयत्नेन बहुभिर् अपि साधनैः कृतम् अयत्नाद् एव कार्यवद् विनश्यति / तद् एवम् अतिमहत् पुरुषकारसाधनम् अपार्थकम् इति कर्मणि कथं नाम न स्याद् वैराग्यं विदुषः / तव पुनः पुनस् तत्कर्माचरणाद् विरागाभावो जडताम् एव वेदयते / तत् क्रियतां वैराग्यावसरः / न हि निष्ठुरा वृत्तिर् उपकुर्वति शोभते /
पर्वतशिलारोपणवत् / यथा पर्वतमूर्धनि शिला यत्नेनारोप्यते ऽयत्नेन पतति तथा सर्वलौकिक्यः प्रवृत्तयः / आह चात्र /
हेतुप्रत्ययसामग्र्या कर्म संस्क्रियते यतः / तस्माद् यत् क्रियते यत्नात् तद् वैकल्याच् च नश्यति //
इति /
अत्राह / यद्य् अप्य् अप्रयत्नात् कार्यं नश्यति तथापि सुखहेतुत्वान् न तत्र वैराग्यं भवतीति / उच्यते //
अतीतस्य सुखं नास्ति नाप्य् अप्राप्तस्य विद्यते / वर्तमानो ऽपि यात्य् एव श्रमो ऽयं कस्य नाम ते // ब्य्च्श्ट्_7.13 [= सेरिअल्नो. 163]
अतीतस्य तावद् विज्ञानस्य सुखं नास्ति निरुद्धत्वात् / अनागतस्यापि सुखं नास्त्य् असम्प्राप्तत्वात् / वर्तमानस्यापि सुखं नास्ति स्थित्यभावात् /
तद् एवम् असति सुखे तेनानुग्रहाभावात् सुखसम्भोगलालसस्य यो ऽयं सुखहेतुकर्मोपार्जनश्रमो भवतः स कस्य कृते भवतु / विफल एव सर्वथा सुखहेतूपार्जनपरिश्रमोपायास इत्य् अभिप्रायः /
नदीतीरगृहकरणवत् / केनचिन् नदीतीरे गृहं कृतं स च प्रदेशः स्फुटितः / ततो ऽन्यद् अनु तीरम् एव कृतं सो ऽपि स्फुटित एवम् अनवस्था जाता / एवं तस्य गृहकर्तुर् महांश् च श्रमो न च श्रमफलावाप्तिः / तथा सर्वलौकिक्यः प्रवृत्तयः / आह चात्र /
चित्तक्षणचपलगतेः कस्यार्थे सञ्चिनोषि कर्माणि / कालत्रये ऽपि यस्मात् परीक्ष्यमाणं सुखं नास्ति //
अत्राह / यद्य् अप्य् एवं तथापि स्वर्गसुखार्थम् अवश्यम् एव कुशलं कर्म कर्तव्यम् इति / उच्यते //
स्वर्गो निरयतुल्यो ऽपि विदुषां स्याद् भयङ्करः / सर्वथा दुर्लभस् तेषां भवो यो न भयङ्करः // ब्य्च्श्ट्_7.14 [= सेरिअल्नो. 164]
तत्र विविधसंक्लेशायद्वारत्वात् तीव्रतरविषयसम्भूतक्लेशाग्निसन्दीपितत्वान् मोहभूयस्त्वाच् च स्वर्गम् अपि निरयवद् भयङ्करत्वात् परिवर्जयन्ति विद्वांसः /
ततश् च येषाम् अनवगीतसुखसम्भोगरमणीयाः स्वर्गसम्पत्तयो न जनयन्त्य् आस्थां तेषां तदन्यत्र भवे श्मशानभूमाव् इव कुतो रतिः // अपि शब्दश् चात्र भिन्नक्रमः स्वर्गशब्दानन्तरं द्रष्टव्यः / तिष्ठतु तावद् अन्यो भवः / स्वर्गो ऽपि विदुषां निरयतुल्य इति व्याख्येयम् /
बालबन्धनमोक्षणवत् / तद् यथा बालो नाम राजा बभूव क्रूरप्रकृतिर् अयस्तीक्ष्णशासनः / तस्य बन्धनागारे यः प्रवेश्यते स करचरणग्रीवासु पञ्चभिर् बन्धनैर् गाढं बध्यते / स यदा उपायेन कंचिन् मोचयति तदा रक्षापुरुषान् आज्ञापयति / अयं सर्वबन्धनेभ्यो मोक्तव्यः किं तु येनैकेनेर्यापथेनेच्छति यावद् आयुः स्थास्यते तेन सुगुप्ते स्थापयितव्य इति / एवं देवेति राज्ञ आज्ञां शिरसि कृत्वा नूनं कुर्वन्ति / तत्र यो बालराजबन्धनान् मुक्तो भवति तस्य बन्धनेन तुल्यं मोक्षणम् अपि भयङ्करम् एव दुःखविशेषात् / तथान्येषाम् अपि महात्मनां नरकतुल्यस् तेषां को ऽन्यो ऽस्ति भवस् तद्विशिष्टो यो न भयङ्करः स्यात् /
यथा बलिः सर्वलोकाधिपत्यं दत्त्वा बद्धः / किम् अयम् अन्यद् दत्त्वा मुक्तो दृश्यते / तथा येषां स्वर्गो ऽपि दुःखहेतुत्वान् निरयसमस् तेषां को ऽन्यो भवो ऽस्ति यो न भयङ्करः स्यात् /
अपि च / यथा खलु पण्डिताः संसारदोषप्रत्यवेक्षानिपुणा दुःखाग्निज्वालापरिगतम् एकान्तदुःखं संसारं यथावद् ईक्षन्ते / तथा खलु //
संसारदुःखं जानीयाद् यदि बालो ऽपि सर्वशः / गच्छेद् अत्यन्ततो नाशं सह चित्तेन तत्क्षणम् // ब्य्च्श्ट्_7.15 [= सेरिअल्नो. 165]
यद् दुःखम् आकारयन्त आर्याः संसाराद् उद्विजन्ते तद् यदि पृथग्जनः शक्नुयाद् अध्यक्षयितुं तदा तत्क्षणम् एवास्य शतधा विशीर्येत हृदयम् / अनवबोधात् त्व् अयम् अभिरमते संसारे / कृतज्ञतामहाकरुणाभ्यां तु सत्त्वोपकाराभिप्रायधैर्यावष्टब्धं संसारदुःखम् आर्याणां न तथोद्वेगकारणम् इति न तेषाम् अत्यन्तो नाशः शक्यः सम्भावयितुम् / पृथग्जनस् तु सत्कायदृष्ट्यनुगमात् प्रतिपक्षभावनावैकल्यात् परमाणुशो नियतं विशीर्येत यदि सर्वथा संसारदुःखं जानीयात् /
यक्षाभ्याहतवद् बालनायकवच् च // कश्चिद् यक्षेणाभ्याहतः / स च यक्षस् तेन न दृष्टस् तस्यैतद् अभवत् / अदृष्टे तावत् तस्मिन् यक्ष ईदृग् दुःखम् उत्पन्नं यदि दृष्टः स्यात् ततो मे तुषमुष्टिवत् कायो विशीर्णः स्याद् इति /
यथा च बालनायक आधिपत्यलोभाज् जीवितं परित्यज्य पुनर् नायकत्वाम् प्रतिगृह्णाति / एवं यदि बालो ऽपि संसारदुःखम् अधिगच्छेत् तद्भयात् सर्वभवपरित्यागाद् अत्यन्ततो नाशं गच्छेन् मोक्षम् इत्यर्थः / आह चात्र /
यथा बुद्धा विजानन्ति फलं पापस्य यादृशम् / तथा बालो विजानीयात् स भवेत् तत्क्षणं जिनः //
अपि च संसारे क्रियासु सामर्थ्यवतः समीहमानस्य सुखं स्यात् / स च निरूप्यमाणः //
अमानी दुर्लभः शक्तो मानी नास्ति घृणान्वितः / उक्तः सुदुर्लभस् तेन ज्योतिर्ज्योतिः परायणः // ब्य्च्श्ट्_7.16 [= सेरिअल्नो. 166]
शक्तस्यैव क्रियासु पुरुषकारेणोपात्तसुखवेदनीयविषयोपार्जनाद् उपात्तपरिरक्षणाच् चावश्यम् एव पुरुषस्य मान उपजायते / मानतश् चायम् आत्मानं विशेषतः परिकल्पयन्न् अधिकम् असहमानस् तदुपजिघांसया निर्दयो भवति / निर्दयस्य चास्यापायपर्यवसानतया कुत्र सम्पदो यतो ऽस्य सुखानुभवः सम्भाव्येत / अत एव भगवता ज्योतिर्ज्योतिःपरायणः पुद्गलो दुर्लभ इत्य् उक्तं कुलभोगैश्वर्यजातमानेन नियतम् अधःपतनात् /
जामदग्न्यवत् / यथा जामदग्न्येन शक्तेन मानित्वात् त्रिःसप्तकृत्वः पृथिवी निःक्षत्रिया कृता नैर्घृण्याद् अतिदुर्लभो यच् छक्तो ऽमानी स्यान् मानी च घृणान्वितः स्यात् / यत एवम् अतो ऽवोचद् भगवान् दुर्लभो ज्योतिर्ज्योतिःपरायण इति /
यद्य् एवं मानिनः पापाचरणाद् अपायनिष्ठा इति गर्हिता विपर्ययेण त्व् अमानिनः स्वर्गसुखसाधनधर्माचरणात् प्रशस्यास् ततश् च तैर् एकान्तेन न गर्हितः संसार इति / उच्यते / धर्मे ऽपि वैपरीत्याद् अयुक्तः सङ्गः / तथा हि //
निवृत्तविषयस्येह विषयः किल लभ्यते / केनापि हेतुना धर्मो विपरीतो ऽपि संस्मृतः // ब्य्च्श्ट्_7.17 [= सेरिअल्नो. 167]
यः किल विषयेष्व् अनास्थस् तान् विषयान् परित्यजति / ब्रह्मचर्याभ्युपगमात् तस्येह च्युतस्येश्वरकुले स्वर्गेषूपपन्नस् तेन लोकेनाङ्गीकृतश् चेति नात्राभिनिवेशो ज्यायान् /
मेषताडयितुम् एषवत् / यथा मेषताडयितुम् इच्छन् दूरतो ऽप्य् अनिवृत्तस् तथा विषयार्थी निवृत्तविषयः / एवं तावद् धर्मो विपरीतत्वात् त्याज्यः /
यद् अपि तद्धर्मफलम् ऐश्वर्यं तद् अपि वशित्वाभावाद् विविधव्यसनस्थानत्वाच् च नास्थेयं विदुषा / तथा हि //
पुण्यस्य फलम् ऐश्वर्यं तच् च रक्ष्यं सदान्यतः / कथं नाम तद् आत्मीयं यद् रक्ष्यं सर्वदान्यतः // ब्य्च्श्ट्_7.18 [= सेरिअल्नो. 168]
पूर्वकृतस्य हि कर्मणः फलम् ऐश्वर्यं तच् चात्मीयसंज्ञितं तच् चेह सदैव संरक्ष्यते प्रत्यर्थिभ्यः / यदि तद् आत्मीयं स्यान् नैव प्रत्यर्थिभ्यो रक्षणीयं स्यात् / यच् च परैर् आच्छेद्यत्वात् सततम् आधीयमानरक्षाविधानं कथं तद् आत्मीयम् इति शक्यं वक्तुम् / तद् अयं रक्षाविधाननिरन्तरः परमनिर्वृत्तः कदा नाम विषयरसम् आस्वादयेत् / तस्मात् फलम् अप्य् अस्य नानुग्रहाय पर्याप्तम् /
गुरुवत् / यथा गुरुर् नित्यम् एवानुवन्द्यो नित्यं चाप्रमत्तेन भवितव्यं गुरौ / तथैश्वर्यं पुण्यबलनिर्जातं तच् च राजादिभ्यो नित्यम् एव रक्ष्यम् / यच् च सर्वदा रक्ष्यं कथं तद् आत्मीयं भवति / अनवस्थितत्वाच् च लौकिकस्य धर्मस्य तत्रास्था न ज्यायसी / तथा हि /
या या लोकस्थितिस् तां तां धर्मः समनुवर्तते / धर्माद् अपि ततो लोको बलवान् इव दृश्यते // ब्य्च्श्ट्_7.19 [= सेरिअल्नो. 169]
लोको हि यां यां स्थितिं व्यवस्थापयति देशकुलगोत्राचारव्यवस्थया कन्यादानोद्वहनादिकां तां ताम् धर्मः समनुवर्तते / तस्यास् तस्याः स्थितेर् धर्म इति प्रसिद्धिगमनात् / न चैष स्वभावव्यवस्थितस्य न्यायो युज्यते यद् देशकालभेदयोर् अन्यथात्वाद् अन्यथा स्यात् / ततो नात्रात्यन्तादरो युक्तः /
दुहितृविवाहवत् / केनचित् पुरुषेण यवनेषु गतेन यवनः कश्चिद् अग्निं प्रज्वाल्य तस्माद् अग्नेर् विद्यया शब्दं निश्चारयन् दृष्टो दुहिता कल्पते भार्या भवत इति / स च पुरुषो ऽत्यन्तरागचरितो दुहिता च तस्य स्वदेशे रूपयौवनवती तिष्ठति / ततस् तेन पुरुषेण तस्य यवनस्य सकाशात् सा विद्या महता प्रयत्नेन द्रव्यप्रदानेन चार्थिता / स्वदेशं च गत्वा स्वां दुहितरं भार्यां कर्तुकामो ऽग्निम् इच्छति तम् अर्थं वाचयितुम् / तेनाग्निनोक्तम् अन्यथास्य देशस्थितिर् इति / एवं धर्माद् अपि लोको बलवान् इति /
अत्राह / अभिलषितविषयसमुत्पादम् अन्तरेण सुखवेदनानुभवो नास्ति / स च विषयोत्पादः कृतपुण्यानाम् एव यस्मात् सम्भवति तस्माद् विषयार्थिना कर्तव्य एव धर्म इति / उच्यते //
विषयश् च शुभेनेष्टो विषयः स च कुत्सितः / श्रेयान् यस्य परित्यागो निष्पन्नेनापि तेन किम् // ब्य्च्श्ट्_7.20 [= सेरिअल्नो. 170]
यो ऽयम् इहेष्टपञ्चकामगुणात्मको विषयो रूपशब्दगन्धरसस्प्रष्टव्यसंज्ञितः स शुभेन कर्मणा लभ्यते / स एव सत्त्वानां मोक्षकामानां कुत्सितो ऽमेध्यलिप्तगात्र इव श्वा / यस्य च श्रेयान् परित्यागो ऽनर्थमूलत्वाद् अनित्याशुच्यनात्मकत्वेनानिर्वृतिकरत्वाद् रागादिक्लेशोत्पादकत्वेन प्रमादस्थानत्वाच् च निष्पन्नेनापि तेन न किंचित् प्रयोजनम् इति व्यर्थ एव विषयफलधर्मोपार्जनश्रम इति त्यज्यताम् अधर्म इव धर्मे ऽपि सङ्ग इति /
कम्बोजभैक्षचरणवत् / कश्चिद् भिक्षुः कम्बोजेषु जनपदेषु भिक्षां गतः / स केनचिद् उक्तः शठेन स्वकार्यार्थं मा तावद् अत्र किंचिद् वक्ष्यसि पिण्डपातं चरन्न् अवहास्यो भविष्यसि / एषास्मिन् विषये मर्यादा / तेनर्जुना श्रद्धधानतया तथा कृतम् / ततस् तेन जनकायेन विज्ञातो ऽस्मत्स्पर्धिना यन्त्रम् एतत् तेन पुरुषेण कृत्वास्माकम् अनुप्रेषितम् इत्य् अहो ऽस्योन्मेषनिमेषादि पुरुषवद् उपपादितम् / एवं सर्वं प्रत्यङ्गानि वर्णयाम् आस / ततस् तैर् अपि तादृक्षाण्य् एव यन्त्राणि कृत्वा प्रेषितानि तस्य पुरुषस्य / ततस् तेन पुरुषेणोक्तं तस्य भिक्षोर् वाचम् इदानीं भाषस्व तत्सन्निरोधाद् इति / तेन तथा कृतम् आरोग्यादिवाग् निश्चारिता / ततस् ते विस्मयापन्ना एवम् ऊचुः / अशक्यम् एतद् अस्माकम् अनेन निर्जिता वयम् इति / स शठो भिक्षुप्रतिरूपः स्वरूपपरिज्ञानात् कुत्सित एव भवति तद्वद् एतद् इति /
अत्राह / यद्य् अपि विषयस्य कुत्सितत्वाद् विषयसाधनो धर्मो निष्प्रयोजनस् तथाप्य् आज्ञारसास्वादसुखगुरूणि राज्यानीति तदर्थं राज्ञाधिपत्येषु प्रवर्तितव्यम् इति / उच्यते / नैव हि सर्वेषाम् आज्ञया कार्यं सम्भवति / ततश् च //
कार्यं नास्त्य् आज्ञया यस्य तस्य धर्मो निरर्थकः / ब्य्च्श्ट्_7.21अब् [= सेरिअल्नो. 171अब्]
यस्य हि समीहितार्थसंसिद्धिर् अन्यथा न सम्भवति स […] (ब्य्च्श्ट्_7)
छप्तेर् विइइ पारिकर्मिक
इ
[…] तथा कस्यचिद् राज्ञः पुत्रो ऽतीवप्रियः स कदाचिद् व्युत्थितः स तेन राज्ञा संग्रामे निर्जित्य गृहीतः / तस्य च राज्ञस् तद्दोषदर्शित्वात् तस्मात् स्नेहो विगतः / एवं दोषज्ञे सर्वत्र रागो न तिष्ठतीति / न केवलं सर्वदोषदर्शित्वाच् चिरं नास्ति रागः / इतश् च तत्प्रहाणं सम्भाव्यते /
रागवस्त्वभावात् / तथा प्रतिपादयन्न् आह /
तत्रैव रज्यते कश्चित् कश्चित् तत्रैव दुष्यति / कश्चिन् मुह्यति तत्रैव तस्मात् कामो निरर्थकः // ब्य्च्श्ट्_8.2 [= सेरिअल्नो. 177]
रञ्जनीयवस्त्वायत्तोदयो हि रागः / तच् च रञ्जनीयं वस्तु स्वरूपासिद्धम् / यद् एव ह्य् एकस्य रञ्जनीयं तद् एवापरस्य द्वेषणीयं मोहनीयम् वोपलभ्यते / यदि च रञ्जनीयं वस्तु स्वरूपतः स्यात् तत् सर्वदा सर्वस्य च तथैव स्यात् / न त्व् एष नियमो दृष्टः / तथा हि / यत्रैको रज्यते तत्रैवापरो दुष्यति / तत्रैवापरो मुह्यति / तस्माद् विषयकामः स्वरूपासिद्धत्वाच् छून्यः / न चैवं रञ्जनीयवस्तुशून्यताभावनातत्परस्य योगिनो रागप्रहाणं न सम्भाव्यत इति विद्यत एव रागप्रहाणम् /
मातृपत्नीदासीवत् / कस्यचित् पुरुषस्य पत्नी द्वयं तत्रैका पुत्रेण सह तिष्ठति / द्वितीया तु विना पुत्रेण / तत्र यदासौ माता स्वपुत्रं पश्यति तदा तुष्टा भवति / तम् एव दृष्ट्वा सपत्नी दुःखिता भवति / दासी तु दृष्ट्वोदासीना भवतीति / नास्ति रागादीनाम् आलम्बनस्य स्वरूपसिद्धिः /
एवं तावद् आलम्बनासिद्ध्या रागाद्यसिद्धिं प्रतिपाद्य हेत्वसिद्ध्यापि रागाद्यसिद्धिं प्रतिपादयितुकाम आह //
विना कल्पनयास्तित्वं रागादीनां न विद्यते / भूतार्थः कल्पना चेति को ग्रहीष्यति बुद्धिमान् // ब्य्च्श्ट्_8.3 [= सेरिअल्नो. 178]
संकल्पप्रभवो रागो द्वेषो मोहश् च कथ्यते / म्म्क्. xxiii.1अब्
इति वचनात् / विषयेष्व् अयोनिशःकल्पना रागादिसिद्धिकारणम् / ततश् च येषां सत्याम् एव कल्पनायाम् अस्तित्वं ध्रुवं तेषां रज्जुकुण्डलके परिकल्पितसर्पवत् स्वरूपासिद्धिर् अवसीयते / यस् तु स्वरूपसिद्धिं रागादीनाम् अभ्युपैति नियतं तेन कल्पनापेक्ष्य जन्मत्वं स्वरूपसिद्धिविरुद्धं नाभ्युपेतव्यम् //
यदि ह्य् असौ भूतो ऽर्थः किमर्थं तदस्तित्वे कल्पनापेक्ष्यते / अथापेक्ष्यते कथम् असौ भूतार्थः / इत्य् एवं सोपपत्तिकागमालोकावभासितचित्तसन्तानत्वान् न विद्वांसः स्वरूपसिद्धस्य कल्पनाजनितत्वम् अङ्गीकुर्वन्ति / जडास् तु यथा कथंचिद् विपर्यासात् प्रवर्तन्ते /
ध्यायिशिरःकपालवत् / कश्चिद् ध्यायी चित्तविभ्रमम् अनुप्राप्तः कपालं मम शिरसि लग्नम् इति / तस्य केनचिद् अन्यत् कपालं पातितम् एतत् तव शिरसः पतितम् इति / स च तथेत्य् अवगम्य स्वस्थो जातः / कल्पनाविगमात् /
अत्राह / विद्यत एव रागादीनां स्वभावो बन्धनत्वात् / तथा हि स्त्री पुरुषविषयेण रागेण पुरुषेण सह बद्धा नातिक्रामति पुरुषम् / पुरुषश् च स्त्रीविषयेण रागेण स्त्रिया सह बद्धो न परित्यजति स्त्रियम् इति // उच्यते /
कस्यचित् केनचित् सार्धं बन्धो नाम न विद्यते // ब्य्च्श्ट्_8.4अब् [= सेरिअल्नो. 179अब्]
यथैव हि रागः कल्पनापेक्ष्यजन्मत्वात् स्वभावासिद्धस् तद्वत् स्त्रीपुरुषयोर् अपि स्वरूपासिद्धत्वात् कस्यचिद् अर्थस्य केनचिद् अर्थेन सह नास्ति स्वभावतो बन्ध इति / न बन्धकारणात्वाद् रागः स्वरूपतः सिध्यति /
अथाप्य् अवधूयेत्थं विचारं परेण सह परस्य बन्धः परिकल्प्यते / एवम् अपि /
परेण सह बन्धस्य विप्रयोगो न युज्यते // ब्य्च्श्ट्_8.4च्द् [= सेरिअल्नो. 179च्द्]
यदि हि परस्य स्वरूपतो बन्धनकारणत्वं स्यात् तदा स्वरूपस्यान्यथाभावाभावान् मुक्त्यभाव एव स्यात् / विप्रयोगो विमोक्षो विमुक्तिर् इत्य् अनर्थान्तरम् / अस्ति च मुक्तिर् इति नास्ति स्वरूपतो बन्धनकारणत्वं परस्य / असति च बन्धनकारणे कुतो बन्ध इति स्वभावशून्या एव रागादयः स्वभावशून्यतादर्शनात् प्रहीयन्त इति शक्यम् आस्थातुम् /
कृष्णावदातबलीवर्दसंयोजनवत् / यथा न कृष्णो बलीवर्दो ऽवदातस्य संयोजनाय नाप्य् अवदातः कृष्णस्यापि तु युगरन्ध्रम् / तथा नेन्द्रियाणि विषयाणां नापि विषया इन्द्रियाणाम् अपि तु यो ऽत्र छन्दरागस् तद् बन्धनम् इति /
यद्य् एवं विचारात् क्लेशा निवर्तन्ते तत् किम् इत्य् अजितक्लेशाः प्रायो दृश्यन्ते / गम्भीरधर्माधिमुक्तिविरहात् / तथा हि //
अस्मिन् धर्मे ऽल्पपुण्यस्य संदेहो ऽपि न जायते / भवः संदेहमात्रेण जायते जर्जरीकृतः // ब्य्च्श्ट्_8.5 [= सेरिअल्नो. 180]
अनादिसंसाराभ्यस्तविपर्यासदर्शनो ह्य् अविद्वान् प्रतिबिम्बोपमेषु पदार्थेष्व् इदंसत्याभिनिविष्टः स्वभावशून्यतोपदेशं प्रपातम् इव मन्यते / शून्यताधिमुक्तिहेतुकुशलविरहितचित्तसन्तानत्वात् / तथाविधस्य हि सत्त्वस्यास्मिञ् शून्यताधर्मे किम् एवं नैवम् इति संदेहो ऽपि न जायते ऽन्यत्र विपरीतनिश्चयात् / ततश् च मुक्तिहेतुविपर्यस्तत्वात् कुतो ऽस्य मोक्षः / यदि त्व् अयं केनापि हेतुना शून्यताधर्म उपदिश्यमाने संशयम् उत्पादयेत् / किम् अयं धर्म एवं नैवम् इति / नियतम् अस्यानेनापि संदेहमात्रेण जर्जर एव संसारो जायते / स हि यदैवम् इत्य् अवलम्बते तदा तत्क्रमेण क्लेशतस्करोच्छेदाय सम्पद्यते /
यद् वा संशयितो निश्चयेनार्थी सोपपत्तिकागमबलात् सम्यग्दर्शने निश्चितः क्लेशक्षयाय संसारोच्छेदं करिष्यतीति / संदेहकाले ऽपि जर्जर एवास्य संसारो लक्ष्यते / तद्भेदानुकूलावस्थावस्थितत्वात् /
राक्षसीगृहीतबालाहकाश्वराजपरिमोक्षितवत् /
यथा भग्नवहनः सार्थवाहो राक्षसीगृहीतः पतित्वेनोपचर्यमाणस् तदा दक्षिणस्या दिशो निवार्यमाणो न कदाचित् त्वया दक्षिणा दिग् गन्तव्येति / स संदिह्यमानः कस्माद् एषा मां वारयतीति गतस् तत्र बालाहकम् अश्वराजम् आगम्य तस्या राक्षस्या निर्मुक्तः / समुद्रपारं च सम्प्राप्तः / यदि चास्य संदेहो नाभविष्यन् न तस्या राक्षस्या वियुक्तो ऽभविष्यन् न च समुद्रपारं प्राप्तो ऽभविष्यत् /
यश् चायं स्वभावशून्यतालक्षणो धर्मो यस्मिन् संदेहो ऽपि भवस्य जर्जरत्वाय संवर्तते तस्य भगवता प्रथमक्षान्तिक्षणम् उपादाय यावन् मोक्षस् तावद् अपरिहाणिर् वृद्धिश् चोपवर्णिता / न त्व् एवं लौकिकानां धर्माणाम् / ते हि विपाकक्षयाद् अपि क्षीयन्ते प्रत्ययवैकल्याद् अपि न प्रवर्तन्ते / न हि प्रज्ञापारमितानधिष्ठिता दानादयः समर्था जात्यन्धा इव सर्वज्ञतानगरम् अनुप्राप्तुम् इत्य् उवाच शास्ता / तद् एवम् //
आ मोक्षाद् यस्य धर्मस्य वृद्धिम् एवोक्तवान् मुनिः / तत्र भक्तिर् न यस्यास्ति सुव्यक्तं बुद्धिमान् न सः // ब्य्च्श्ट्_8.6 [= सेरिअल्नो. 181]
यो ह्य् अत्यन्तोपकारिणि धर्मे वृद्धिप्रकर्षवति नोत्पादयति भक्तिं स क्षेमस्थाने भयदर्शित्वान् मूढताम् एवात्मनो जडः प्रकटयति / तद् इत्थं मूढता माभून् ममेति विद्वद्भिः स्वभावशून्यतादर्शने भक्तिर् आस्थेया /
शर्करामोदकवत् / शलाकामुद्रावच् च / यथा शर्करामोदकः सर्वत आस्वाद्यस् तथा / यथा कस्यचित् पुरुषस्य विद्याद्वयं सिद्धम् / तत्रैकया शलाकां परिजप्य सर्वं व्याध्युपशमनं करोति / द्वितीयया मुद्रां दत्त्वा / अथ तेन कस्यचित् स्निग्धस्योच्यते / गृहाण त्वम् एतद् विद्याद्वयम् उपकारस् ते भविष्यतीति / तेन न गृहीतम् / अथास्यास्मिन् मृते स्निग्धे महाव्याधिर् उत्पन्नः / स चाचिकित्स्यस् तेनैव कालगतः /
किं पुनर् इमे पदार्था अशून्या एव सन्तो वैराग्यार्थं शून्यवद् दृश्यन्ते / अथ प्रकृत्यैव शून्या इति व्यपदिश्यन्त इति / उच्यते //
नाशून्यं शून्यवद् दृष्टं निर्वाणं मे भवत्व् इति // ब्य्च्श्ट्_8.7अब् [= सेरिअल्नो. 182अब्]
किं कारणं यस्मात् /
मिथ्यादृष्टेर् न निर्वाणं वर्णयन्ति तथागताः // ब्य्च्श्ट्_8.7च्द् [= सेरिअल्नो. 182च्द्]
अन्यथावस्थितस्य वस्तुनो यद् अन्यथादर्शनं तन् मिथ्यादर्शनम् / यदि च स्वभावाशून्याः सन्तः पदार्थाः स्वभावशून्या इति दृश्येरंस् तदा मिथ्यादर्शनाद् एव निर्वाणाधिगमः स्यात् / न च मिथ्यादृष्टेः पुग्गलस्य निर्वाणाधिगमं बुद्धा भगवन्तो व्यवस्थापयन्ति / सम्यग्दृष्टिपुरःसरेणैव यथा निर्वाणप्राप्तिव्यवस्थापनात् /
ततश् च मायावत् प्रतीत्यसमुत्पन्नत्वात् स्वभावशून्या एव सन्तो भावाः शून्याः स्वभावेनेत्य् अधिगम्यन्ते यथास्थितपदार्थतत्त्वदर्शनावदातसन्तानैः शमारोपापवादान्तकल्पनामलामलिनैर् आर्यैः /
रात्र्यां वेल्लकपेयप्रेषणवत् / कश्चिद् वेल्लको गुरुणा रात्र्यां पेयस्यार्थम् अभीक्ष्णं प्रेष्यते / अथ कदाचित् स तेनोच्यते / नैतत् कल्पते भिक्षूणां कथं त्वं पिबसीति / स प्राह पानीयम् इति / तेनाप्य् अन्यस्मिन्न् अहनि पानीयम् एवानीतम् / स प्राह / कस्माद् अन्यद् एवम् आनीतम् इति / श्रामणेरः कथयति / यदा त्वं पानीयम् एवेतिकृत्वा पिबसि तत् को ऽत्र विशेष इति /
यदि खलु स्वभावशून्या एव पदार्थाः किम् अर्थम् अविद्यादिना क्रमेण सत्त्वभाजनलोकस्य प्रवृत्तिर् उपदिश्यते / ननु स्वभावपरमार्थत्वात् स्वभावशून्यतैव केवलम् उपदेष्टव्येति / नैतद् एवम् / नैव हि लौकिकं प्रवृत्त्यात्मकं परमार्थं पूर्वम् अनुपदिश्य शक्यं स्वभावशून्यतालक्षणं तत्त्वम् आदर्शयितुम् इति / तत्त्वावतारसोपानभूतत्वात् प्रवृत्त्युपदेशो पि कर्तव्यः / सर्वसङ्गपरित्यागेन निवृत्तिसुखावाप्तिनिमित्तं स्वभावशून्यतोपदेशो ऽपि कर्तव्यः / तद् अत्र ताथागते प्रवचने //
लौकिकी देशना यत्र प्रवृत्तिस् तत्र वर्ण्यते / परमार्थकथा यत्र निवृत्तिस् तत्र वर्ण्यते // ब्य्च्श्ट्_8.8 [= सेरिअल्नो. 183]
यत्र संसारप्रवृत्तिक्रमो ऽविद्यासंस्कारादिना क्रमेणाहेत्वेकहेतुविषमहेतुविनाशार्थं स्वसामान्यलक्षणसत्यत्वकल्पनया देश्यते / ज्ञातव्यं विदुषा प्रवृत्तिस् तत्र वर्ण्यत इति / यत्र तु प्रतीत्यसमुत्पादस्य स्वभावानुत्पादस्वभावशून्यतोपदिश्यते तत्र संसारप्रवृत्तेर् निव्र्त्तिर् वर्ण्यते / स्वभावशून्यतापरमार्थावगमात् सर्वत्रासङ्गवतो वेदनास्व् अतृष्णस्य तृष्णाप्रत्ययोपादानादिकारणनिरोधेन जातिजरामरणादेः सर्वथा निरोधात् /
विलप्रवेशवत् / यथा विलप्रवेशे या काचिद् उपकरणप्रवृत्तिः सर्वासाव् उच्छ्रष्टव्या न तया किंचित् प्रयोजनं क्रियते / तथा सर्वा लौकिक्यः प्रवृत्तयो निःसाराः परित्यक्तव्या विदुषा / यस्मात् प्रवृत्तिधर्म इति /
यद्य् एवं परमार्थकथायां न किंचिद् अस्ति शून्यत्वात् सर्वभावानां तदा सर्वाभावः प्रसज्यते / सर्वाभावाच् च न किंचित् कर्तव्यं स्यात् / कर्तृकर्मक्रियादीनां सर्वथाभावात् / अभावाच् च क्रियादीनां न स्यान् मोक्ष इत्य् अतः सर्वम् एवायुक्तम् इति / उच्यते //
किं करिष्याम्य् असत् सर्वम् इति ते जायते भयम् / विद्यते यदि कर्तव्यं नायं धर्मो निवर्तकः // ब्य्च्श्ट्_8.9 [= सेरिअल्नो. 184]
यत एव हि सर्वम् असद् अत एवायं परमार्थधर्मः प्रवृत्तिनिवर्तको युज्यते / तत् किम् इति निवृत्त्यर्थी सर्वाभावं क्रियाद्यनधिष्ठानं न समीहते / अथ हि नामात्रापि प्रवृत्ताव् इव कर्तव्यं स्यात् तदा क्रियाफलस्यापि पदार्थस्य प्रवृत्तेः सैव प्रवृत्तिर् इति कथम् अयं धर्मो निर्वाणवाहकः स्यात् /
मृगतृष्णावत् / यथा हि मृगतृष्णिका पानीयसंज्ञां जनयति न च तत् पानीयं भवति / यस्य तु तत्र परितर्षा जायते स तत्रैवानर्थं समापद्यते / तथा स्कन्धेष्व् आत्मसंज्ञा /
यतस् तु निवर्तके धर्मे न किंचित् कर्मास्ति तस्माच् छून्यपक्षः श्रेयान् इति / यस् तु शून्यतामार्गे रज्यति विपरीते सस्वभावपक्षे दुष्यति तम् उपालभते //
स्वपक्षे विद्यते रागः परपक्षस् तु ते ऽप्रियः / न गमिष्यसि निर्वाणं न शिवं द्वन्द्वचारिणः // ब्य्च्श्ट्_8.10 [= सेरिअल्नो. 185]
द्विविधो हि पक्षः समासतः स्वपक्षः परपक्षश् च / तत्र यदि स्वपक्षे ते रागो ऽस्ति शून्यपक्षः श्रेयान् इति परपक्षश् च ते मिथ्येतिकृत्वाप्रियः / न गमिष्यसि निर्वाणम् /
न ह्य् अनुनयप्रतिघहतस्य द्वन्द्वचारिणो निर्वाणम् अस्ति / सर्वत्र ह्य् उदासीनाः सङ्गच्छेदाद् अनपायसुखैकरसं शिवम् आप्नुवन्ति /
आचार्यसंघसेनबटुवत् / कश्चिद् बटुर् आचार्यसंघसेनाच् छास्त्रं शुश्रूषति / स कदाचित् तेनोक्तम् उपासको भवेति / सो ऽप्य् अन्यतमस्मिन्न् अहनि तम् आचार्यम् उवाचार्योपासको ऽहं संवृत्तः / किं कारणम् इति / ब्राह्मणान् दृष्ट्वा घातयितुम् इच्छामीति /
अत्राह / यद्य् अपि निर्वाणं परमसुखं सकलोपद्रवरहितत्वात् तथापि तद् अशक्यं प्राप्तुं तत्प्राप्त्युपायस्यातिदुष्करत्वात् / भवस् त्व् अयत्नसाध्यत्वाद् यस्मात् सुखेन प्राप्यते तस्मात् तत्र नः प्रवृत्तिर् इति / उच्यते // विपरीतम् अवधारितम् / यस्मात् /
अकुर्वाणस्य निर्वाणं कुर्वाणस्य पुनर्भवः / निश्चिन्तेन सुखं प्राप्तुं निर्वाणं तेन नेतरः // ब्य्च्श्ट्_8.11 [= सेरिअल्नो. 186]
कुशलादिक्रियासु निरस्तव्यापारेण निश्चिन्तेन निर्वाणम् अवाप्यते / तस्मात् सुखं प्राप्तुं निर्वाणम् / कुशलाकुशलादिप्रवृत्तिसाध्यत्वात् तु निर्वाणाद् इतरः पुनर्भवो न सुखेन प्राप्यते / न विदुषो ऽप्रयत्नलभ्यं निर्वाणम् अवधूय युक्तं विविधव्यापारपरिखेदलभ्यं पुनर्भवम् अर्थयितुम् /
आरोग्यबलसाधनवत् / बहवो ह्य् अरोगस्य बलसाधनाय दृश्यन्ते प्रत्ययाः / यदा तु नेच्छति किंचिद् अपि विशेषं तदा सर्वैः प्रत्ययैर् अनर्थी भवति /
यदि खल्व् अकुर्वाणस्य निर्वाणं तत् किम् अर्थं त्वयात्र शास्त्रे ऽनित्याद्यर्थप्रतिपादनं क्रियत इति / उच्यते / संसारभुक्तं जगत् संसाराद् उद्वेजनार्थम् / तथा हि //
उद्वेगो यस्य नास्तीह भक्तिस् तस्य कुतः शिवे / निर्गमश् च भवाद् अस्मात् स्वगृहाद् इव दुष्करः // ब्य्च्श्ट्_8.12 [= सेरिअल्नो. 187]
संसाराद् उद्विग्नचेतास् तन्निःसरणाय निर्वाणं भजते / यस्य तु नास्त्य् उद्वेगः स किम् इति तद् अर्थयते / तद् उद्वेगाभावाद् एव च भवान् निर्गन्तुम् अल्पबुद्धयो नोत्सहन्ते / यथा स्वग्र्हम् अल्पसारम् अपि व्यासङ्गपरिच्छेदस्य दुष्करत्वान् न त्यक्तुं पार्यते / तादृशम् एतत् /
वध्यपानप्रार्थनवत् / वध्यः कश्चिद् वधायोत्सृष्टः सद्यो हन्तव्य इति / स च पानं प्रार्थयते स्म / एवम् अत्र भवगतानाम् अपीच्छा न निर्वर्तते /
अपि तु / विषयसुखसम्भोगसुलभानि गृहाणि त्यक्तुम् आढ्यानां मा भूत् तत्सामर्थ्यान् निर्वाणं च गन्तुम् / येषां तु व्याधिदारिद्र्यादीनां दुःखहेतूनां प्रतिविधानासम्भवस् तेषां युक्त एव संसारपरित्यागः / तथा हि //
दुःखाभिभूता दृश्यन्ते केचिन् मरणकाङ्क्षिणः / ते तदा केवलं मोहान् न गच्छन्ति परं पदम् // ब्य्च्श्ट्_8.13 [= सेरिअल्नो. 188]
व्याधिविप्रयोगदुःखान्विताः केचिद् आत्मस्नेहम् अपास्य तटाद् अप्य् आत्मानम् उत्स्र्जन्ति / तथैव यदि संसारं दुःखतो निर्धार्यात्मस्नेहम् अत्यन्तायोद्धरेयुर् अदूरे निर्वृतिसुखस्य वर्तेरन् / विपर्यासितदर्शनास् तु मोहात् तथा न प्रवर्तन्ते ये निर्वाणं नासादयन्ति /
पेयापीतशयितवत् / पेयौषधसन्देहवच् च / कश्चित् पेयान् पीत्वा शयितः स भूयस्या मात्रया दुःखी संवृत्तः / तथा बाला यथा यथा सुखं प्रार्थयन्ते तथा तथा दुःखिततमा भवन्ति / यथा कश्चिद् औषधं पास्यामीत्य् उपस्निग्धः स चोपस्नेहात् सन्दिग्धो जातः किम् औषधं पेयं कतमद् वा पेयम् इति स व्याधेर् न मुक्तः / तथा सर्वबालपृथग्जना दुःखोपद्रवस्नेहद्रवीकृतक्लेशा अपि सन्तो ऽज्ञानव्याधिविनाशाय विरागौषधपानसन्दिग्धाः क्लेशौषधम् अपीत्वा सर्वक्लेशव्याधिनिर्मोक्षात् परं पदं नाधिगच्छन्ति /
अत्राह / यद्य् एवं सर्वपरित्यागेन निर्वाणम् एवार्थनीयम् / तत्प्राप्तये भावनाकथैवास्तु / तत् किम् अर्थं भगवता दानशीलकथे ऽपि विहित इति / उच्यते // त्रिविधो हि सत्त्वधातुर् हीनमध्यमोत्तमभेदात् / तद्भेदार्थं भगवतो देशनावैचित्र्यम् / […]
इइ
[…]स्य विधेयः //
बालदारकवत् / यथा बालदारको नान्यया भाषया शक्यते बोधयितुं तथा पृथग्जनो लोकः / अत एव लोकावतारोपायत्वात् सदसदादिदेशनानां भगवता //
सद् असत् सदसच् चेति नोभयं चेति कथ्यते // ब्य्च्श्ट्_8.20अब् [= सेरिअल्नो. 195अब्]
सर्वाभावदर्शनमलक्षालनाय सद् इति कथितम् / भावाभिनिवेशप्रहाणायासद् इति कथितम् / उभयाकारदर्शनत्यागाय सदसद् इत्य् आवेदितम् / सर्वाकारप्रपञ्चोच्छेदाय नोभयम् इति प्रकाशितम् /
अपि च त्वम् एव तावद् विचारय //
ननु व्याधिवशात् पथ्यम् औषधं नाम जायते // ब्य्च्श्ट्_8.20च्द् [= सेरिअल्नो. 195च्द्]
व्याधयः प्रतिविधातव्याः / तेषां च निदानभेदाद् अनेकम् औषधं नैकम् एव सर्वत्रोपयुज्यते / ताडृशम् एतत् /
यक्षप्रेतप्रव्रजितधर्मपानीयदानवत् / यक्षप्रत्यवस्थितदर्शनवच् च / यथा त्रयो भ्रातरः / तत्रैकः प्रव्रजितः / द्वितीयो यक्षः संवृत्तो महर्द्धिकः / तृतीयः प्रेतः संजात उल्कामुखः / ताव् उभाव् अपि तस्य भिक्षोः सकाशं गतौ / ततस् तेन भिक्षुणा तस्य यक्षस्य मदहेतुज्ञापनार्थं दौःशील्यदोष उद्भावित /
प्रेतस्य तु पानीयप्रदानेन ज्वलनदुःसहदुःखम् उपशमय दुःखहेतुज्ञापनार्थं मात्सर्यदोषो ज्ञापितः / एवं सत्त्वाशयवैचित्र्याद् धर्मदेशनावैचित्र्यं भवति /
यथा कस्यचित् पित्रा कन्यका देशान्तरे याचिता / स चास्य पिता कालगतः स मात्रोच्यते / गच्छ तां कन्यकाम् अवलोकयितुं तव पितृवयस्यो यक्ष एवं नामा तम् अर्थयस्वेति / तेन तथाकृतम् / अथ स यक्षस् तं विमानेन वैहायसं गृहीत्वा गतः / पुरुषश् चाभ्यागच्छति / स तेन यक्षेण पुत्र उक्तो गच्छैनं त्रासयस्वेति / तेन तथाकृतम् / आगत्यैनं पृच्छति / किम् अर्थं चैष पुरुषस् त्रासित इति / स प्राह / एष प्रव्रजितो नाहम् अस्य तेजः सहे / अथ तेन तं नगरं नीत्वा स पुत्र एकान्ते स्थापितः / तत्कन्यान्वेषणार्थं नगरं प्रविष्टः / तस्य च यक्षस्य तां कन्यकां दृष्ट्वा रागः समुत्पन्नः / सा तेन गृहीता / स च पुत्रश् चिरम् असौ किं करोतीति स्वयं गतो यावत् तेनैव गृहीतां दृष्ट्वा स तेनैव विज्ञप्यते / मुञ्चैनां कन्यकां स्नुषा ते भवतीति / धर्मदेशनापि तद्वज् ज्ञेया /
आसां च सदसदादिदेशनानाम् अध्यात्मचिन्ताप्रवृत्तत्वात् / यैषा नोभयदेशनैषा परमार्थदेशना / तस्मिंश् च परमार्थे //
सम्यग्दृष्टे परं स्थानं किंचिद् दृष्टे शुभा गतिः / तस्माद् अध्यात्मचिन्तायां कार्या नित्यं मतिर् बुधैः // ब्य्च्श्ट्_8.21 [= सेरिअल्नो. 196]
परमार्थज्ञानेन खलु सम्यग्दृष्टे परमार्थे परं स्थानं प्राप्यते निर्वाणम् / ईषत् किंचिद् दृष्टे शुभा देवमनुष्यगतिर् भवति / यस्माच् च सम्पूर्णज्ञानदर्शने निर्वाणं प्राप्यते / असमाप्ते च शुभा गतिः / तस्माद् अध्यात्मचिन्तायां विदुषा नित्यम् एव बुद्धिः कर्तव्येति /
इभ्यकुलचौरासद्धर्मनिमन्त्रणवत् / कश्चिच् चौरो ऽभीक्ष्णं विहारं गच्छति स्म / स केनचिद् भिक्षुणोक्तः प्राभृतम् अस्मद्भ्यः प्रतिगृहाणेति / स प्राह / कीदृशं प्राभृतम् / भिक्षुर् उवाच / धर्मप्राभृतं शिक्षापदं गृहाणेति / स प्राह / प्राणातिपातादत्तादानमृषावादेभ्यो विरक्तुं न शक्यं किं तु काममिथ्याचाराद् विरमामीति / स ततो विरम्य राजकुलं चौर्याय प्रविष्टः / तत्र चासद्धर्मेण निमन्त्रितो न च तेनेष्टं स चार्थो राज्ञोपलब्धः / तेन सर्वालंकारविभूषिता स्त्री तस्माय् अनुप्रदत्ता सम्मानितश् च / एवम् एवास्याम् अध्यात्मचिन्तायां नियतं फलं निर्वाणं व्यवस्थाप्यते /
अथ कुतश्चित् प्रत्ययवैकल्यात् //
इह यद्य् अपि तत्त्वज्ञो निर्वाणं नाधिगच्छति / प्राप्नोत्य् अयत्नतो ऽवश्यं पुनर्जन्मनि कर्मवत् / ब्य्च्श्ट्_8.22 [= सेरिअल्नो. 197]
यद्य् अपीह जन्मनि तत्त्वदर्शनाभियुक्तो विरागावसानं न लभते / परमार्थज्ञाननिष्यन्दाद् अप्रयत्नाद् अवश्यम् एव पुनर्जन्मनि स निर्वाणं प्राप्नोति कर्मवत् / यथा नामेह कृतस्य नियतस्य कर्मणः फलं यद्य् अप्य् अस्मिञ् जन्मनि नास्ति / तस्य त्व् अवश्यम् एवान्यजन्मनि फलं भवति /
आम्रभक्षणरोपणवत् / यो ह्य् आम्रभक्षणं कृत्वा बीजम् अविनाश्य रोपयति / स यद्य् अपि सद्यः फलं नासादयति बीजास्वादनकृतं तथापि कालान्तरे महान्तम् अर्थम् आसादयति //
यद्य् एवं तत्त्वज्ञानम् अस्ति किम् अर्थं मुक्ता न दृश्यन्ते / दृश्यन्त एव च केचित् / अपि खलु //
सर्वकार्येषु निष्पत्तिश् चिन्त्यमाना सुदुर्लभा / न च नास्तीह निर्वाणं युक्ता मुक्ताश् च दुर्लभाः // ब्य्च्श्ट्_8.23 [= सेरिअल्नो. 198]
न च केवलं विराग एव दुर्लभदर्शनो ऽपि खलु सर्वारम्भा दुरवसेयफलोदयाः / न हि चिन्तैव फलसाधिका / किं तर्हि / हेतुप्रत्ययसामग्री समीहितफलनिष्पादिका / सा च हेतुप्रत्ययसामग्री दुर्लभा / तस्माद् इह चिन्तया सर्वकार्येषु सुदुर्लभा निष्पत्तिः / तद्वद् इह शासने यद्य् अपि निर्वाणम् अस्ति तथापि कल्याणमित्रवैकल्याद् अध्यात्मं च योनिशो विकल्पाभावाद् युक्ताः सुदुर्लभाः / यस्मात् ततो मुक्ता अपि दुर्लभा भवन्ति / अस्मान् न शक्यं मुक्तादर्शनात् तत्वदर्शनाभावः प्रतिपत्तुम् /
चाण्डालीफालालेहनवत् / यथा चाण्डाली चौर्येणाभियुक्ता तद्दोषविमुक्तापि सती नोत्सहते फालालेहनं कर्तुं कथम् अहं चण्डालत्वेनाशुचिस्वभावा देवसन्निधौ फालालेहनं करिष्यामीति / यदि पुनः कुर्यान् मुच्येत ततो ऽभियोगात् / एवं केचिद् बाला हीनम् आत्मानं मन्यमाना नोत्सहन्ते बुद्धत्वाय घटयितुम् /
यदि पुनर् न्यायेन घटेरल् लभेरन् बुद्धत्वम् अवश्यम् / कथं पुनर् एतद् अवसातुं शक्यं यद् एवं चिरकालप्रवृत्तस्य क्लेशगणस्य क्षयो ऽस्तीति // उच्यते /
श्रुत्वा शरीरनैर्गुण्यं क्षणं रागो न तिष्ठति / प्राप्तस् तेनैव मार्गेण सर्वस्यापि ननु क्षयः // ब्य्च्श्ट्_8.24 [= सेरिअल्नो. 199]
यथेह चिरकालं ममत्वाभिरक्षितस्य शरीरस्य विचित्रैर् भोगैर् उपलालितस्यापि विनाशधर्मिणो ऽकृतज्ञस्य नैर्गुण्यं श्रुत्वा पण्डितस्य तत्क्षणं रागो न जायते / तथा तेनैव मार्गेण वैराग्यजनने सुभावितेन चिरकालप्रवृत्तस्यापि रागस्य सर्वस्यैवात्यन्तशो ननु क्षयः प्राप्तः / ततश् च सर्वस्यैव बाह्यस्य चाध्यात्मिकस्य च वस्तुनः स्वभावशून्यतयासारत्वदर्शनान् निरवशेषरागबन्धनच्छेदान् मुक्तिः /
चाणक्यसौवर्णपरित्यागवत् / शक्याम्य् अहम् अनेनोपायेन बह्व् अपि सुवर्णं कर्तुम् इत्य् एवं योगाचारः शरीरनैर्गुण्यश्रवणमात्रकेण क्षणमात्रं रागस्यानवस्थानं दृष्ट्वा तम् एव मार्गम् अभ्यस्यति / शक्याम्य् अहम् अनेनोपायेन मार्गेणात्यन्तं रागनिवर्तनं कर्तुम् इति /
अत्राह / अनादिकालप्रवृत्तस्यास्य जन्मसन्तानस्य कथम् अन्तो भविष्यतीति / उच्यते //
यथा बीजस्य दृष्टो ऽन्तो न चादिस् तस्य विद्यते / तथा कारणवैकल्याज् जन्मनो ऽपि न सम्भवः // ब्य्च्श्ट्_8.25 [= सेरिअल्नो. 200]
यथा नाम चिरकालप्रवृत्तस्यास्य हेतुफलपरम्परया प्रवर्तमानस्य बीजसन्तानस्यानादिमतो ऽन्तो दृष्टो ऽग्निदाहात् तथानादिकालप्रवृत्तस्य परम्परया हेतुतः प्रवर्तमानस्यानादिमतो ऽपि विज्ञानबीजजन्मनः कारणवैकल्यात् पुनः सम्भवो नास्ति /
क्लेशापेक्षं हि कर्म जन्माक्षेप्तुं पर्याप्तम् / ते च क्लेशा ज्ञानतेजःस्पर्शाद् अभावं गतास् तद् अयम् असमर्थं कर्म सहायाभावाज् जन्माक्षेप्तुम् / एवम् अयम् अवसितजन्मा शीतीभवति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
