Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
बोधिसत्त्वयोगाचारचतुःशतकटीका
- Tác giả
- चन्द्रकीर्ति
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अन्यत्वासम्भवाद् एव च रूपघटयोर् आधाराधेयकल्पनाया अपि नास्ति सिद्धिर् इति /
न विद्यते घटे रूपं न रूपे विद्यते घटः / ब्य्च्श्ट्_12.2च्द् [= सेरिअल्नो. 327च्द्]
रूपघटयोर् अन्यत्वे सति घटे रूपम् इति स्यात् कुण्ड इव दधि / रूपे ऽपि घट इति स्यात् कट इव देवदत्तः / न चैतत् सम्भवतीति नास्ति घटः स्वभावतः / यस्य च नास्ति स्वभाव उपलभ्यते च तद् अलातचक्रादिवत् स्वभावशून्यम् /
अपि च यथात्मा स्कन्धा न भवति कर्तुर् आत्मनः कर्मणश् चोपादानस्यैकत्वप्रसङ्गात् स्कन्धवच् चोदयव्ययभाक्त्वप्रसङ्गाद् आत्मबहुत्वप्रसङ्गाच् च / एवं घटो ऽपि रूपं न भवत्य् उपादानोपादात्रोर् एकत्वप्रसङ्गाच् चोपादानबहुत्वेन घटबहुत्वप्रसङ्गात् /
यथा चात्मा स्कन्धेभ्यो ऽन्यो न भवति पृथग्ग्रहणप्रसङ्गान् निर्हेतुकत्वप्रसङ्गाच् च / एवं घटो ऽपि रूपव्यतिरिक्तो न भवति पृथग्ग्रहणप्रसङ्गान् निर्हेतुकत्वप्रशङ्गाच् च /
यथा चात्मस्कन्धेभ्यस् तत्त्वान्यत्वकल्पनाभावात् स्कन्धवान् आत्मेति न व्यपदिश्यते / तद्वद् एव रूपघटयोस् तत्त्वान्यत्वकल्पनाभावाद् रूपवान् घट इति न व्यपदिश्यते /
यथा च स्कन्धेभ्यस् तत्त्वान्यत्वकल्पनाभावाद् आत्मनि स्कन्धाः स्कन्धेष्व् आत्मेति द्विधापि न युज्यते / एवं घटे रूपम् रूपे घट इत्य् अपि कल्पनाद्वयं नोपपद्यते /
यथा च रूपापेक्षया घटे कल्पनाचतुष्टयं न सम्भवत्य् एवं सर्वप्रज्ञप्तिकारणापेक्षं चतुष्टयं न सम्भवतीति / नास्ति स्वरूपतो घटः /
यथा च घटः स्वभावतो नास्ति तथा सर्वभावा अपि स्वभावतो मृग्यमाणा न सन्तीति सिद्धा भवत्य् अलातचक्रादिप्रख्यता भवस्य /
अत्राहुर् एके / यद्य् अपि रूपघटयोर् अन्यत्वं न सम्भवति तथापि भावघटयोर् अन्यत्वम् अस्ति / यस्माद् अन्य एव घटो ऽस्माकम् अन्यथैव च सत्ता / सत्ता हि नाम महासामान्यं घटश् च विशेषो द्रव्यं सत्तायोगात् सद् इति व्यपदिश्यत इति / तान् प्रत्युच्यते //
वैलक्षण्यं द्वयोर् दृष्ट्वा भावाद् अन्यो घटो यदि / घटाद् अन्यो न भावो ऽपि किम् एवं न भविष्यति // ब्य्च्श्ट्_14.3 [= सेरिअल्नो. 328]
घटादिद्रव्याणाम् अनुप्रवृत्तिलक्षणत्वात् सामान्यो भावः / व्यावृत्तिलक्षणत्वाच् च घटो विशेषलक्षण इति / यदि तयोर् वैलक्षण्यं भावघटयोर् दृष्ट्वा भावाद् अन्यो घटो भवत्य् एवम् एव वैलक्षण्याद् घटाद् अपि किम् अर्थं भावो ऽन्यो न भविष्यति / ततश् चान्यबुद्धिध्वनिप्रवृत्तिनिमित्तम् अन्यत्वम् अपरम् अनुप्रवृत्तिलक्षणं न कल्पयितव्यम् / वैलक्षण्याद् एवान्यबुद्धिध्वनिप्रवृत्तिसिद्धेः /
कल्प्यते चापरम् अन्यत्वम् इति नास्ति तर्हि भावघटयोर् वैलक्षण्यापेक्षम् अन्यत्वम् / ततश् च यद् उक्तं
वैलक्षण्यं द्वयोर् दृष्ट्वा भावाद् अन्यो घट ब्य्च्श्ट्_14.3अब् [= सेरिअल्नो. 328अब्]
इति तन् न /
यथा च भावो ऽनुप्रवृत्तिलक्षणत्वाद् घटाद् अन्य एवम् अन्यत्वम् अप्य् अनुप्रवृत्तिलक्षणत्वाद् घटाद् अन्यत् स्यात् / न च तस्यान्यत्वस्यापरम् अन्यत्वम् अन्यबुद्धिध्वनिप्रवृत्तिनिमित्तम् अस्ति / यदि स्याद् अन्यत्वानाम् अपर्यवसानदोषः स्यात् /
अथ विनैवान्यत्वेनान्यबुद्धिर् अन्यत्वे भवति / तद्वद् एवान्यत्रापि सम्भाव्यताम् इत्य् अलम् अन्यत्वेनाकिंचित्करेण परिकल्पितेन / असति चान्यत्वे नास्ति कुतश्चित् कस्यचिद् अन्यत्वम् इति सिद्धम् /
अपि चेदं चिन्त्यते किंभूतायाः सत्ताया अन्यत्वेन योगो ऽस्तु / किम् अन्यभूताया अनन्यभूताया वा / यद्य् अन्यभूतायास् तदा व्यर्थो ऽन्यत्वेन योगः / अथानन्यभूतायाः / एवम् अपि विरुद्धेनानन्यत्वेन योगाद् अन्यत्वेन योगो न प्राप्नोति / अन्यत्वाभावाच् च घटाद् अन्यो भाव इति न युज्यते / ततश् च लोके विपर्यासं प्रमानीकृत्य घटत्वरूपम् एव सद्बुद्धिध्वनिप्रवृत्तिनिमित्तत्वाद् भाव इति व्यवस्थाप्यते / तस्य च रूपाच् चतुर्धाविचार्यमाणस्य नास्ति स्वभाव इति / तत्त्वविदपेक्षयालातचक्रादिवत् स्वभावशून्यो घट इति सिद्धम् /
अत्राह / विद्यत एव घटो गुणाश्रयत्वात् / न ह्य् असद् गुणाश्रयो दृष्टः / भवति च गुणाश्रयो घट एको घटो द्वौ घटाव् इति / एकत्वादयो गुणपदार्थसंगृहीता घटश् च द्रव्यम् / द्रव्याश्रयित्वं च गुणानां सम्भवतीति / अतो गुणाश्रयत्वाद् अस्त्य् एव घट इति / अत्रोच्यते / त्वन्मतेन //
एको यदि घटो नेष्टो घटो ऽप्य् एको न जायते // ब्य्च्श्ट्_14.4अब् [= सेरिअल्नो. 329अब्]
पदार्थभेदाद् यद्य् एको घटो न भवतीति मन्यसे घटो ऽपि तर्ह्य् एको न भवति / यथैकत्वम् एकसंख्या घटो न भवत्य् एवं द्रव्यत्वेनैकसंख्यायाः पृथग्भूतत्वाद् घटो ऽप्य् एको न भवति / द्वित्वाद् इति भावः / अपि चास्य घटस्यैकरूपस्यैकसंख्या परिकल्पेतानेकरूपस्य वा / यद्य् एकरूपस्य तदा व्यर्थैवैकत्वकल्पना / अथानेकरूपस्य तदापि विरुद्धत्वाद् अयुक्तैव / तस्माल् लोके घटस्वरूपस्यैवासन्निहितार्थान्तरस्यैककल्पना विज्ञेया /
अथ द्रव्याश्रयिणो गुणा इति कृत्वैकत्वयोगाद् घट एवैको भवति न त्व् एकत्वं घटो भवति / अत्रोच्यते //
न चायं समयोर् योगस् तेनाप्य् एको न जायते // ब्य्च्श्ट्_14.4च्द् [= सेरिअल्नो. 329च्द्]
योगो नाम समयोर् एव भवति न विषमयोः /
तत्रैको गुणो दृष्टो घटश् च द्रव्यम् / द्रव्यगुणयोश् च समता यस्मान् न भवति तस्मात् तयोर् योग एव न भवति / योगाभावात् तत्र यद् इष्टम् एकत्ययोगाद् घट एवैको भवतीति तन् न / यदि चात्र योगो दृष्टस् तदैकेनापि घटस्य योगः स्याद् घटेनाप्य् एकस्य / स च नैवं भवतीति योग एवानयोर् नोपपद्यते / योगाभावाच् च नैवैको घटो भवतीति न घटो ऽप्य् एक इति / तद् अत्र पूर्वार्धेन कारिकाया योगम् अभ्युपेत्य दूषणम् उक्तम् / उत्तरार्धेन तु योगासम्भवे दूषणम् उक्तम् / अपिशब्दश् च दूषणकारणसमुच्चयार्थो द्रष्टव्यः /
अपि चेदम् अयुक्ततरं परसमये दृश्यते / यद् द्रव्याश्रयिणो गुणा व्यवस्थाप्यन्ते न गुणाश्रयिणो विशेषगुणाः / युज्यते च गुणानाम् अपि गुणाश्रयित्वम् / इह यत्परिमाणो घटस् तदाश्रयेणापि रूपेण तावतैव भवितव्यम् / ततश् च द्रव्यवद् रूपस्यापि महत्त्वं प्राप्नोतीति //
यावद् द्रव्यं यदा रूपं तदा रूपं महन् न किम् // ब्य्च्श्ट्_14.5अब् [= सेरिअल्नो. 330अब्]
यदा यावद् द्रव्यं यावान् द्रव्यस्यायामविस्तारात्मकः सन्निवेशस् तावद् रूपं रूपस्यापि तावान् एवायामविस्तारात्मकः सन्निवेश इति परेणाभ्युपगम्यते तदा नियतम् अणुमहति द्रव्ये रूपेणापि तत्राणुमहत्ता भवितव्यम् / तत् किं नु खल्व् अत्र कारणं यद् द्रव्यवद् रूपस्याणुमहत्त्वे नेष्येते /
अथ स्याद् रूपं गुणो ऽणुत्वं महत्त्वम् अपि च गुण एव न च गुणे गुणस्य सन्निवेशो भवतीति समय एषो ऽस्माकम् / ततश् च यद्य् अपि यावद् द्रव्यं रूपम् अपि तावद् एव तथापि सिद्धान्तविरोधभयाद् रूपस्याणुत्वमहत्त्वे न स्त इति / उच्यते //
समयो जायते वाच्यः प्रतिवाद्य् अपरो यदि // ब्य्च्श्ट्_14.5च्द् [= सेरिअल्नो. 330च्द्]
यदि हि तव स्वयूथ्य एव प्रतिवादी स्यात् तं निवर्तयितुं युक्तं तव सिद्धान्ताभिधानं तस्य तद् बाधितुम् असामर्थ्यात् / यदा तु प्रतिवादी परस् तं प्रति सिद्धान्तविरोधोद्भावनम् अकिंचित्करं सिद्धान्तनिराकरणप्रवृत्तत्वात् तस्य / युक्तिलोकविरोधोद्भावनं तु तं प्रति ज्यायः / तद्द्वारेण तस्य निवारयितुं शक्यत्वात् / तस्माद् अपरिहार एवायं यद् इदम् आगमविरोधोद्भावनम् इति स एवाविचलो दोष इति नास्ति भावघटयोर् अन्यत्वम् / तद् अत्र सत्तान्यत्वप्रतिषेधेनान्येषाम् अपि घटत्वादीनां सामान्यविशेषाणां प्रतिषेधो विज्ञेयः / संख्यावत् सामान्यगुणानां महत्त्ववद् विशेषाणाम् इति /
अत्राह / उक्तो भावस्य घटादिभ्यो ऽन्यत्वप्रतिषेधः / घटस्य तु स्वभावाप्रतिषेधाद् अस्त्य् एव स्वरूपतो घटाख्यो भाव इति / अत्रोच्यते //
लक्षणेनापि लक्ष्यस्य यत्र सिद्धिर् न विद्यते / संख्यादिव्यतिरेकेण तत्र भावो न विद्यते // ब्य्च्श्ट्_14.6 [= सेरिअल्नो. 331]
इह घटसत्त्वयोर् व्यावृत्त्यनुवृत्तिलक्षणं ब्रुवता घटस्य व्यावृत्तिलक्षणं व्यवस्थापितं परेण / तद् अमुना लक्षणेनापि लक्ष्यस्य नास्ति सिद्धिः / न हि व्याव्र्त्तिमात्रेण शक्यं वस्तुस्वरूपं निर्धारयितुं यल् लक्ष्यतया सेत्स्यति / एकस् तावद् गुणत्वाद् घटो न भवति / अणुर् महद् इति रूपादयश् च गुणत्वाद् एव घटाख्या न भवन्ति / सत्तापि द्रव्यगुणकर्मसु सामान्याद् घटो न भवति / तद् अयं संख्याणुमहद्रूपादिभ्यो व्यावर्तमान इत्थं स्वभाव इति न शक्यं व्यवस्थापयितुम् / तद् एवं यत्र परवादिपक्षे लक्षणेनापि लक्ष्यस्य घटस्वरूपस्य नास्ति सिद्धिस् तत्र पक्षे संख्यादिव्यतिरेकेण सिद्धस्वरूपेण घटाख्यो भावो न विद्यते / ततश् च स्वभावशून्यो घट इति सिद्धम् /
अथवा संख्यारूपादयो घटस्य लक्षणं तैर् लक्ष्यमाणत्वाद् घटो लक्ष्यः / तस्य लक्षणेनापि पृथक् स्वरूपसिद्धिर् अशक्या कर्तुम् / संख्यादिव्यतिरेकेण तत्स्वरूपस्यानुपलभ्यमानत्वात् /
यदि हि तल् लक्ष्यं स्वरूपं लभते तदा नियतं संख्यादिव्यतिरेकेण गृह्येतेदं तत् संख्याव्यतिरिक्तं घटस्वरूपम् इदं पुनर् अस्य संख्यादिकं लक्षणम् इति / न चैतद् एवम् इत्य् अतः /
लक्षणेनापि लक्ष्यस्य यत्र सिद्धिर् न विद्यते / संख्यादिव्यतिरेकेण तत्र भावो न विद्यते // ब्य्च्श्ट्_14.6 [= सेरिअल्नो. 331]
इति नास्ति स्वभावतो घटः /
उक्तस् तावल् लक्ष्यलक्षणयोर् अन्यत्वप्रतिषेधः / येषां तु रूपादिभिर् घटस्यैक्यम् इति सिद्धान्तस् तत्प्रतिषेधायेदम् उच्यते //
घटस्य न भवत्य् ऐक्यम् अपृथक्त्वाद् धि लक्षणैः / एकैकस्मिन् घटाभावे बहुत्वं नोपपद्यते // ब्य्च्श्ट्_14.7 [= सेरिअल्नो. 332]
रूपादीनि खलु नानालक्षणानि येषां तैर् अपृथक्त्वं घटस्येष्टं तेषां रूपादिभिर् लक्षणैर् अपृथक्त्वाद् घटस्यैक्यं नोपपद्यते बहुभिर् अनन्यत्वात् /
स्यात् तत्र मतं यदि घटस्यैक्यं न भवति हन्त बहुत्वं प्राप्तम् इति / अत्रोच्यते / यस्माद् रूपादिष्व् एकैकस्मिन् घटस्याभावो दृष्टस् तस्माद् बहुत्वम् अपि नास्तीति /
अत्राह / यदि रूपादिभिर् लक्षणैर् अपृथक्त्वाद् घटस्यैक्यं नास्ति तेषां परस्परसंयोगाद् घटस्यैक्यं भविष्यतीति / अत्रोच्यते //
न ह्य् अस्पर्शवतो नाम योगः स्पर्शवता सह / रूपादीनाम् अतो योगः सर्वथापि न युज्यते // ब्य्च्श्ट्_14.8 [= सेरिअल्नो. 333]
तत्र स्पृष्टिः स्पर्शः कायेन्द्रियग्राह्यता स्पर्शो ऽस्यास्तीति स्पर्शवत् / स्प्रष्टव्यम् एव कायेन्द्रियग्राह्यत्वात् स्पर्शवत् / तेन स्पर्शवता स्प्रष्टव्येन रूपगन्धरसानाम् अस्पर्शवतां योगः संयोगः संस्पर्शो न सम्भवति / यथा घटस्याकाशेन /
यत एतद् एवं रूपादीनाम् अतो योगः सर्वप्रकारं न सम्भवति / यदा च न सम्भवति तदान्योन्यसंस्पर्शकृताद् रूपादीनां विशेषात् समुदायनिबन्धनो घट इति यद् उक्तं तन् न युक्तम् /
अथ विनाप्य् अन्योन्यसंस्पर्शेन तत्समुदाय एव घट इति स्याद् / एतद् अपि नास्ति / यस्मात् //
घटस्यावयवो रूपं तेन तावन् न तद् घटः / यस्माद् अवयवी नास्ति तेन नावयवो ऽपि तत् // ब्य्च्श्ट्_14.9 [= सेरिअल्नो. 334]
रूपादिसमुदायरूपस्य घटस्य प्रत्येकं रूपादयो ऽवयवभूतत्वाद् घटव्यपदेशभाजो न भवन्ति / घटो ऽवयव्य् अवयवाश् च रूपादय इति रूपं तावद् अवयवत्वाद् घटो न प्राप्नोति / यथा च रूपम् एवं गन्धादयो वाच्याः /
ननु च रूपस्यावयवत्वाद् अस्ति तर्ह्य् असाव् अवयवी नाम कश्चित् / न ह्य् अवयविनिरपेक्षा अवयवा युज्यन्त इति / उच्यते / इह रूपादीनां प्रत्येकं घटत्वाभावे कुतः कश्चिद् अवयवी / न हि रूपादिव्यतिरेकेणावयवी नाम परिच्छेत्तुं पार्यते / न चापरिच्छिद्यमानस्वरूपस्य सत्त्वम् आस्थातुं शक्यम् इत्य् असन्न् अवयवी / यस्माच् चावयवी नास्ति तस्माद् रूपम् अवयवत्वेनापि न सम्भाव्यत इति न स्त एवावयवावयविनौ / इतश् च रूपादिसमुदायो न घटः / यस्मात्
सर्वेषाम् अपि रूपाणां रूपत्वम् अविलक्षणम् / एकस्य घटसद्भावो नान्येषां किं नु कारणम् // ब्य्च्श्ट्_14.10 [= सेरिअल्नो. 335]
सर्वेषाम् अपि रूपाणाम् इति रूपस्कन्धसंगृहीतत्वाद् रूपगन्धादयो रूपाणीत्य् उच्यन्ते / तानि रूपाणि घट इव पटादिष्व् अपि सन्ति / न च तानि घटादिभेदे ऽपि स्वलक्षणं व्यभिचरन्ति / सर्वत्रैव तुल्यलक्षणत्वात् / तत्र यथैकस्य रूपस्य घटत्वेनावस्थानं तथान्यस्यापि पटादिसम्बन्धिनो रूपस्य कस्माद् घटत्वेनावस्थानं नेष्यते / युज्यते तु तस्यापि घटत्वेनावस्थानं लक्षणाभेदात् / घटावस्थितरूपादिवत् / एवं त्व् अनभ्युपगमे कारणम् एव न सम्भवति / ततश् च सर्वेषाम् एव घटत्वं प्राप्नोति / यद् वा घटस्यापि घटत्वं न प्राप्नोति / यथा च घटादीनाम् अभेदप्रसङ्ग एवं रूपगन्धादीनाम् अप्य् अभेदः प्राप्नोति / एकस्माद् घटाद् अनन्यत्वात् /
अथ मन्यसे यद्य् अपि घटाद् अन्यत्वम् एषां नास्त्य् एव तथापि रूपस्य रसादिभ्यो भेदो ऽस्ति / तस्माद् अभेदप्रसङ्गाभाव इति / एतद् अप्य् अयुक्तम् इति प्रतिपादयन्न् आह //
रूपम् अन्यद् रसादिभ्यो न घटाद् इति ते मतम् / स्वयं यस् तैर् विना नास्ति सो ऽनन्यो रूपतः कथम् // ब्य्च्श्ट्_14.11 [= सेरिअल्नो. 336]
यदि भिन्नेन्द्रियग्राह्यत्वाद् रसादिभ्यो रूपम् अन्यद् व्यवस्थाप्यते / घटाद् अपि तद् रूपम् अन्यद् इति किं न व्यवस्थाप्यते /
रूपाद् अन्येभ्यो रसादिभ्यस् तस्याव्यतिरिक्तत्वाद् रसादिस्वात्मवद् रूपाद् अन्य एव प्राप्नोति / न चान्यत्वम् इष्यत इत्य् अयुक्तम् एतत् /
यदा चैवं रूपादीनां घटकारणत्वं न सम्भवति तदा नियतम् //
घटस्य कारणं नास्ति // ब्य्च्श्ट्_14.12अ [= सेरिअल्नो. 337अ]
न च कारणरहितस्य स्वत एव निर्हेतुकं कार्यत्वं सम्भवतीति /
स्वयं कार्यं न जायते // ब्य्च्श्ट्_14.12ब् [= सेरिअल्नो. 337ब्]
यत एव चास्य निर्हेतुकं कार्यत्वं न सम्भवति //
रूपादिभ्यः पृथक् कश्चिद् घटस् तस्मान् न विद्यते // ब्य्च्श्ट्_14.12च्द् [= सेरिअल्नो. 337च्द्]
रूपादिव्यतिरेकेण कार्यभूतस्य घटस्यानुपलभ्यमानत्वात् / नास्ति रूपादिव्यतिरिक्तो घट इति सिद्धम् /
अथ मन्यसे नैव हि रूपाद्युपादानो घटः / किं तर्हि / स्वावयवानि कपालानि कारणान्य् अपेक्ष्य घटस्य कार्यत्वं कपालानां च कारणत्वम् इति / एतद् अप्य् अयुक्तम् इत्य् उद्भावयन्न् आह //
घटः कारनतः सिद्धः सिद्धं कारणम् अन्यतः / सिद्धिर् यस्य स्वतो नास्ति तद् अन्यज् जनयेत् कथम् // ब्य्च्श्ट्_14.13 [= सेरिअल्नो. 338]
यदि घटकारणानि कपालानि प्रतीत्य घटः सिध्यति / तानीदानीं कपालानि किम् अपेक्ष्य सिध्यन्ति / न हि तावत् तानि स्वभावसिद्धानि निर्हेतुकत्वप्रसङ्गात् / अथ तेषाम् अप्य् अन्यत् कारणम् इष्यते / न तर्हि कपालानां स्वरूपसिद्धिर् अस्ति / तेषाम् अपि कारणान्तरशर्करिकापेक्षत्वात् / येषां च कपालानां स्वतः सिद्धिर् न भवति कथम् तान्य् अन्यत् स्वरूपतः साधयिष्यन्तीत्य् अतो ऽप्य् असन् घटः / यश् चायं घटप्रतिषेधको विधिर् एष एव सर्वकार्याणाम् असिद्धौ योज्यः /
अत्राह / समुदितानां रूपादीनां घटाभिधानान् न रूपादिबहुत्वे ऽपि घटबहुत्वप्रसङ्ग इति / तद् अप्य् अयुक्तम् / समूहस्यैवासत्त्वात् / तथा हि //
समवाये ऽपि रूपस्य गन्धत्वं नोपपद्यते / समूहस्यैकता तेन घटस्येव न युज्यते // ब्य्च्श्ट्_14.14 [= सेरिअल्नो. 339]
समुदिता अपि रूपादयो न समुदायावस्थाः स्वं स्वं लक्षणं विजहति / ततश् च समुदायावस्थायां रूपस्य स्वरूपापरित्यागाद् गन्धत्वं न सम्भवति / एवम् अनेकाश्रयस्य समूहस्यैकत्वं न सम्भाव्यते / स हि समुदायो रूपादिभ्यो न व्यतिरिक्तस् ते च रूपादयः परस्परतो भिद्यन्ते / रूपादिभ्यश् चाव्यतिरिक्तसमुदायः कथम् एकः स्यात् / दृष्टान्तम् आह / घटस्येवेति / यथा
घटस्य न भवत्य् ऐक्यम् अपृथक्त्वाद् धि लक्षणैर् ब्य्च्श्ट्_14.7अब् [= सेरिअल्नो. 332अब्]
इत्य् उक्तम् / तथेहापि
समूहस्यास्ति नैकत्वम् अपृथक्त्वाद् धि लक्षणैः /
इत्य् एवं
समूहस्यैकता तेन घटस्येव न युज्यते / ब्य्च्श्ट्_14.14च्द् [= सेरिअल्नो. 339च्द्]
ततश् च समूहस्यासम्भवाद् रूपादिसमूहे ऽपि घटकल्पना न युक्ता / यथोपवर्णितेन च विचारेण //
रूपादिव्यतिरेकेण यथा कुम्भो न विद्यते / वाय्वादिव्यतिरेकेण तथा रूपं न विद्यते // ब्य्च्श्ट्_14.15 [= सेरिअल्नो. 340]
रूपादिव्यतिरेकेण यथा कुम्भो न सिद्धः / एवं कुम्भप्रज्ञप्त्युपादाना अपि रूपादयो वाय्वादिमहाभूतचतुष्टयव्यतिरेकेण न युज्यन्ते / निर्हेतुकत्वप्रसङ्गात् /
यथा च वाय्वादिव्यतिरेकेण रूपगन्धादेर् असम्भवः / एवं महाभूतानाम् अन्योन्यव्यतिरेकेण सिद्ध्यभावात् रूपादिसिद्ध्यभावम् उद्भावयन्न् आह //
अग्निर् एव भवत्य् उष्णम् अनुष्णं दह्यते कथम् / नास्ति तेनेन्धनं नाम तदृते ऽग्निर् न विद्यते // ब्य्च्श्ट्_14.16 [= सेरिअल्नो. 341]
इहाग्निर् दग्धा भूतत्रयं दाह्यम् / तद् एतद् इन्धनाख्यं भूतत्रयम् अग्निर् एव दहति नान्यः / इन्धनम् एव च दह्यते नान्यत् / तत्रेन्धनं यद्य् अग्निर् उष्णं दहति तदाग्निर् एव तद् उष्णं भवति नेन्धनम् / अनुष्णस्यापि दाहासम्भवाद् अनुष्णम् अपि नेन्धनम् / तद् एवं सर्वथापि दाह्यस्यासम्भवान् नास्ति तेनेन्धनं नाम यद् भूतत्रयात्मकं स्यात् / यदा चैवम् अग्निव्यतिरेकेणेन्धनं नापरं सम्भवति तदेन्धनाभावे निर्हेतुको ऽप्य् अग्निर् न सम्भवतीति
तदृते ऽग्निर् न विद्यते / ब्य्च्श्ट्_14.16द् [= सेरिअल्नो. 341द्]
अत्राह / अनुष्णात्मकम् एवेन्धनं काठिन्यादिरूपत्वात् / तच् चोष्णस्वभावेनाग्निनाभिभवाद् उष्णं भवति / उष्णं च सद् दह्यत इति / एवम् अपि कल्प्यमान इन्धनाख्यो ऽर्थः //
अभिभूतो ऽपि यद्य् उष्णः सो ऽप्य् अग्निः किं न जायते // ब्य्च्श्ट्_14.17अब् [= सेरिअल्नो. 342अब्]
यद्य् अग्निनाभिभूत इन्धनाख्यो ऽर्थो ऽनुष्णस्वभावो ऽप्य् उष्णो भवतीति कल्प्यते / सो ऽप्य् अग्निर् अस्तूष्णरूपत्वात् / ततश् च स एवेन्धनाभावः //
अथानुष्णे परो ऽप्य् अग्नौ भावो ऽस्तीति न युज्यते // ब्य्च्श्ट्_14.17च्द् [= सेरिअल्नो. 342च्द्]
अथाभिभूतो ऽप्य् असाव् अर्थो ऽनुष्ण एवेष्यते / स तर्ह्य् अग्नेः परो ऽपि भाव इन्धनाख्यं भूतत्रयम् उष्णविरुद्धत्वाद् अनुष्णस्वभावम् अग्नाव् अस्तीति न युज्यते / ततश् च भूतत्रयरहितम् अग्निमात्रम् एव स्यात् / न चैषां महाभूतानाम् अन्योन्यं विना भावः / यदि स्यात् सिद्धान्तविरोधश् च स्यात् / अग्नौ चापरस्य पदार्थस्येन्धनाख्यस्याभावान् निर्हेतुकत्वं चाग्नेः स्याद् इत्य् अयुक्तम् एतत् /
अथ मन्यसे तेजोद्रव्यपरमाणौ भूतत्रयस्याभावाद् विनापीन्धनेनास्त्य् एवाग्निर् इति / उच्यते //
इन्धनं यद्य् अणोर् नास्ति तेनास्त्य् अग्निर् अनिन्धनः // ब्य्च्श्ट्_14.18अब् [= सेरिअल्नो. 343अब्]
ततश् च स एव निर्हेतुकदोषः / अत एव चाहेतुकदोषप्रसङ्गात् / वैशेषिकाणाम् इव स्वयूथ्यानाम् अयुक्तो द्रव्यपरमाण्वभ्युपगमः / वैशेषिकपरमाणुवादश् च नवम एव प्रकरणे निषिद्धत्वान् न पुनर् निषिध्यते /
यथाग्नेर् अहेतुकत्वप्रसङ्गभीत्यणव् इन्धनसद्भवः परिकल्प्येत //
अणुर् एकात्मको नास्ति स्यात् तस्यापीन्धनं यदि // ब्य्च्श्ट्_14.18च्द् [= सेरिअल्नो. 343च्द्]
यद्य् अणोर् इन्धनम् अस्तीति कल्प्यते न तर्हि तेजोद्रव्यपरमाणुर् एकरूपो ऽस्तीत्य् अभ्युपेयम् /
न च केवलं परमाणोर् एवैकात्मकस्याभावः / अष्टानां द्रव्याणां सहोत्पादनियमाद् अपि खलु तदन्यस्यापि पदार्थस्य //
तस्य तस्यैकता नास्ति यो यो भावः परीक्ष्यते // ब्य्च्श्ट्_14.19अब् [= सेरिअल्नो. 344अब्]
यथा भूतानाम् एकात्मकत्वं नास्ति तदितरस्मिन्न् इतरसद्भावाद् एवं भौतिकम् अपि केवलं नास्ति भूतैर् विनाहेतुकत्वप्रसङ्गात् / एवं चित्तेन विना चैत्ता न सम्भवन्ति / नापि चैत्तैर् विना चित्तम् / तथा लक्षणैर् जात्यादिभिर् विना लक्ष्यं रूपादिकं नास्ति / नापि लक्ष्येण विना निराश्रयं लक्षणं सम्भवति /
यतश् चैवम् एकस्य पदार्थस्य कस्यचित् सिद्धिर् नास्ति / तदैककानां समुदायाभावे सत्य् अनेकसिद्धिर् अपि दूरोत्सारितैवेत्य् आह //
न सन्ति तेनानेके ऽपि येनैको ऽपि न विद्यते // ब्य्च्श्ट्_14.19च्द् [= सेरिअल्नो. 344च्द्]
एकस्यासिद्धौ सत्यां समुदितानाम् अपि नास्ति सिद्धिः /
अथ स्यात् स्वयूथ्यं प्रत्य् एवैतद् दूषणम् उपपद्यते / सहोत्पादनियमाभ्युपगमात् / परं प्रति तु नेदं दूषणं नित्यानां पृथिव्यादिपरमाणूनां तदितरभावसद्भाववियुक्तानाम् अस्तित्वेनाभ्युपगमाद् इति / तत्राप्य् अयुक्तताम् उद्भावयन्न् आह //
भावास् त्रयो न सन्त्य् अन्ये तत्रैको ऽस्तीति चेन् मतम् // ब्य्च्श्ट्_14.20अब् [= सेरिअल्नो. 345अब्]
एतद् अप्य् असम्यक् / किं कारणम् //
त्रित्वं येनास्ति सर्वत्र तेनैकत्वं न विद्यते // ब्य्च्श्ट्_14.20च्द् [= सेरिअल्नो. 345च्द्]
परस्यापि हि न कश्चिद् एको नाम पदार्थो ऽस्ति / यस्मात् तत्रापि पृथिवीपरमाणौ द्रव्यत्वम् एकत्वं सत्त्वं चेत्य् एतत् त्रितयम् अस्ति / तथा गुणे गुणत्वं सत्त्वम् एकत्वं चेति / यस्मात् त्रितयम् अस्ति तस्मान् न कश्चिद् एको नाम पदार्थो ऽस्ति / तथा सांख्यस्य त्रिगुणात्मकं सर्वम् इत्य् एकः कश्चित् पदार्थो नास्तीति न कश्चिद् उक्तं दूषणम् अतिवर्तते /
अपि चायं दूषणमार्गः सर्वेषाम् एव वादिनां पक्षनिराकरणाय विदुषा प्रयोक्तव्य इति शिक्षयन्न् आचार्य आह //
सद् असत् सदसच् चेति सदसन् नेति च क्रमः / एस प्रयोज्यो विद्वद्भिर् एकत्वादिषु नित्यशः // ब्य्च्श्ट्_14.21 [= सेरिअल्नो. 346]
एकत्वम् अन्यत्वम् उभयं नोभयम् इत्य् एकत्वादयः / एतेष्व् एकत्वादिषु पक्षेषु वादिना व्यवस्थितेषु सदसत्त्वाद्युपलक्षितो दूषणक्रमः सुधिया यथाक्रमम् अवतार्यः / तत्र सत्कार्यवादिनः कार्यकारणयोर् एकत्वम् इति पक्षः / तस्य हि कारणात्मना तत् कार्यं व्यवस्थितम् एव सत् कार्यात्मना विपरिणमते / न ह्य् असच् छक्यं कर्तुम् / यदि ह्य् असन्न् उत्पद्येत तदा सर्वतः सर्वसम्भवः स्यात् / न च सर्वतः सर्वसम्भवो दृष्टः / क्षीरादेर् एव प्रतिनियतदध्यादिदर्शनात् / तद् अस्य वादिनः कार्यकारणयोर् एकत्वाभ्युपगमात् सद् एव कार्यम् उत्पद्यत इत्य् एवम् एकत्वपक्षः / तस्मिन्न् एकत्वपक्षे सत्कार्यवादपरामर्शेन नित्यं दूषणम् अभिधेयम् / तच् चोक्तम् /
स्तम्भादीनाम् अलङ्कारो गृहस्यार्थे निरर्थकः / सत्कार्यम् एव यस्येष्टम्
इत्य् अनेन / तथा
सम्भवः क्रियते यस्य प्राक् सो ऽस्तीति न युज्यते / सतो यदि भवेज् जन्म जातस्यापि भवेद् भवः //
धर्मो यद्य् अकृतो ऽप्य् अस्ति नियमो जायते वृथा / अथ स्वल्पो ऽपि कर्तव्यः सत्कार्यस्य न सम्भवः //
इत्य् उक्तम् / […] (ब्य्च्श्ट्_14)
chapter xv saṃskṛtārthapratiṣedha
[…]म्भवः /
जायमानो न तस्यास्ति स्यात् तस्याप्य् अन्तरं यतः // ब्य्च्श्ट्_15.18 [= सेरिअल्नो. 368]
यस्य वादिनो ऽन्तरेण विना मध्यं विनातीतानागतस्य द्वयस्य नास्ति सम्भवस् तस्य जायमानो नास्ति / कथं कृत्वा / स्यात् तस्याप्य् अन्तरं यतः / यथा जायमानस्यातीतानागतान्तर्वर्तित्वम् एवं तस्यापि जायमानस्य जाताजातरूपस्य मध्येन भवितव्यं यद् अपेक्ष्य जाताजातव्यवस्थानं स्यात् / तच् चैतद् अशक्यं जाताजातयोर् अन्तरा तृतीयं जायमानं नाम व्यवस्थापयितुम् / सर्वत्रैव जाताजातयोर् अन्तरा जायमानकल्पनानवस्थाप्रसरिगात् /
अत्राह / नैवार्धजातो जायमानो यतो यथोपवर्णितदोषप्रसङ्गः स्यात् / किं तर्हि / यस्य निरोधेन जातः पदार्थो भवति स जातेः प्रागवस्थारूपो ऽर्थो जायमान इत्य् उच्यत इति तद् एव प्रतिपादयन्न् आह //
जायमाननिरोधेन जात उत्पद्यते यतः / ततो ऽन्यस्यापि सद्भावो जायमानस्य दृश्यते // ब्य्च्श्ट्_15.19 [= सेरिअल्नो. 369]
यस्माज् जायमाननिरोधेन जातः पदार्थो भवति तस्माद् अर्धजातव्यतिरेकेणाप्य् अस्त्य् एव जायमानः पदार्थ इति /
अत्रोच्यते //
जातो यदा तदा नास्ति जायमानस्य सम्भवः / ब्य्च्श्ट्_15.20अब् [= सेरिअल्नो. 370अब्]
यदा तावद् अयं पदार्थो जात इत्य् उच्यते तदा जायमानो नास्ति / जायमानासम्भवाच् च जात इत्य् एव नास्ति / अतो जातेन जायमानो ऽनुमीयेत /
अथ जातो ऽपि जायमानः स्यात् / तस्य तर्ह्य् उत्पादासम्भवो जातत्वाद् इति प्रतिपादयन्न् आह //
जात उत्पद्यते कस्माज् जायमानो यदा तदा // ब्य्च्श्ट्_15.20च्द् [= सेरिअल्नो. 370च्द्]
यदा जात एवार्थो जायमान इत्य् उच्यते तदा स जायमानो ऽर्थः कस्माद् उत्पद्यत इति परिकल्प्यते / सिद्धत्वाद् उत्पादपरिकल्पो ऽस्य न युक्त इत्य् अभिप्रायः / ततश् च जायमानो जायत इति न युज्यते /
अत्राह / जन्माभिमुखत्वाद् अजातो ऽपि जायमानो जात इत्य् उच्यते / ततश् च जात एव जायमानो न चास्योत्पादवैयर्थ्यम् इति / एवम् अपि यदि //
अजातो जात इत्य् एव जायमानः कृतः किल // ब्य्च्श्ट्_15.21अब् [= सेरिअल्नो. 371अब्]
यद्य् अजात एव जायमानः पदार्थो जन्माभिमुख्यात् परेण जात इति कल्पितः / जाताजातयोर्
भेदाभावाद् घटो ऽभावस् तदा किं न विकल्प्यते // ब्य्च्श्ट्_15.21च्द् [= सेरिअल्नो. 371च्द्]
जातावस्थ एव हि पदार्थो घट इत्य् अभिधीयते / जाताजातयोश् चैक्यात् प्रागभावेन जातो ऽपि घटो ऽभाव एवेति स्यात् / न चैतत् सम्भवतीत्य् अयुक्तम् एतत् /
अथापि स्यात् / नैव जायमानाजातयोर् भेदाभावः / उत्पत्तिक्रिययाविश्यमानो हि पदार्थो जायमान इत्य् उच्यते / स च //
अनिष्पन्नो ऽप्य् अजातात् तु जायमानो बहिष्कृतः // ब्य्च्श्ट्_15.22अब् [= सेरिअल्नो. 372अब्]
यद्य् अप्य् अनागताद् अनिष्पन्नरूपो ऽपि पदार्थो जायमानो बहिर् व्यवस्थापितः /
तथापि जायते ऽजातो यतो जाताद् बहिष्कृतः // ब्य्च्श्ट्_15.22च्द् [= सेरिअल्नो. 372च्द्]
यथाजाताज् जायमानो बहिष्कृतः क्रियावेशाद् एवं जाताद् अपि बहिष्कृत एवानिष्पन्नरूपत्वात् / ततश् चाजात एव जायत इत्य् आपन्नम् इति नास्ति जायमानो नाम /
न च केवलं जाताद् बहिर्भूतत्वाद् अजात एव जायते / इतश् चाजात एव जायते / यस्मात् परस्य //
नासीत् प्राग् जायमानो ऽपि पश्चाच् च किल विद्यते / तेनापि जायते ऽजातः // ब्य्च्श्ट्_15.23अब्च् [= सेरिअल्नो. 373अब्च्]
आसीच् छब्दश् चिरानुक्रान्ताभिधायी नासीन् नाभूद् इत्यर्थः // यो ऽसाव् इदानीं जायमानत्वेन व्यपदिश्यते स नासीत् / प्राक् शब्दस् त्व् अवधिवचनः / वर्तमानावस्थायाः प्राग् अतीते काले स जायमानो ऽर्थो ऽविद्यमानो ऽपि पश्चात् किल जायमानो भवति / अतो ऽप्य् अजात एव जायमानो भवति जनिक्रियावेशकाले / ततश् चास्याजातत्वेनाभूतत्वम् / न चाभूतस्यालब्धात्मभावस्य निराश्रया जनिक्रिया प्रवर्तितुम् उत्सहते इत्य् आह //
नाभूतो नाम जायते // ब्य्च्श्ट्_15.23द् [= सेरिअल्नो. 373द्]
इति //
अपि च //
जायते ऽस्तीति निष्पन्नो नास्तीत्य् अकृत उच्यते // ब्य्च्श्ट्_15.24अब् [= सेरिअल्नो. 374अब्]
अस्तीत्य् अनेन निष्पन्न उच्यते / निष्पन्न एव हि पदार्थो ऽस्तीति जायते / अस्तीति भवतीत्यर्थः / नास्तीत्य् अनेनाप्य् अकृतो ऽनिष्पन्न उच्यते / तद् एतदवस्थाद्वयं विरहय्य //
जायमानो यदाभावस् तदा को नाम स स्मृतः // ब्य्च्श्ट्_15.24च्द् [= सेरिअल्नो. 374च्द्]
इत्थम् अयं पदार्थो भवतीति जायमानावस्थो भावो यदा न शक्यते व्यपदेष्टुं तदासाव् अनिर्धार्यमाणस्वरूपत्वाद् असन्न् एवेति युक्तम् अवसातुम् / तद् एवं यथोपवर्णितेन विचारेण जायमानस्यासम्भवात् //
कारणव्यतिरेकेण यदा कार्यं न विद्यते / प्रवृत्तिश् च निवृत्तिश् च तदा नैवोपपद्यते // ब्य्च्श्ट्_15.25 [= सेरिअल्नो. 375]
यदा कारणात् पृथग्भूतं कार्यं विचार्यमाणं न सम्भवति तदा निराश्रया प्रवृत्तिः कार्यस्योत्पादो निव्र्त्तिश् च कारणस्य विनाशश् च न विद्यते /
तद् एवं परीक्ष्यमाणा भावाः स्वभावसिद्धा न भवन्तीति सैव मायोपमतावसिष्यते भावानाम् / तद् एनां बाललापिनीं मायां व्यामूढजनसम्मोहनीम् अमूढजनविस्मयकरीम् अवेत्य विधूयेदंसत्याभिनिवेशसमुत्थां पदार्थतृष्णां सकलजगदनुग्रहाय महाकरुणाबोधिचित्ताद्वयज्ञानत्रयम् अनुत्तरज्ञानोदयबीजभूतम् अभिमुखीकृत्य यथावदवसितसंसारस्वभावः क्लेशदुःखाग्निज्वालावलीढभुवनत्रयागारमध्यगतम् अत्राणं जगद् ईक्षमाणः पिण्डीकृताशेषजगद्व्यसनसम्पातैः क्षणे क्षणे ऽन्यथा चान्यथा चासंसारम् अपि कायचेतसोर् उपनिपतद्भिर् अप्य् अकातरो युगपत्पिण्डीकृताशेषजगद्दुःखोपनिपातैर् आसंसारं समुत्साहितैकैकवीर्यक्षणः सकलस्य जगतः सर्वाकारज्ञताज्ञानरत्नधननिचयोदयकारणं विदुषो भवोत्पत्तिर् इत्य् अवेत्य सर्वाकारज्ञताज्ञानोदयेन सकलस्य जगतः संविभागं चिकीर्षता पुनर् अपि युक्तं भवम् उपात्तुम् इति //
बोधिसत्त्वयोगाचारे चतुःशतके संस्कृतार्थप्रतिषेधो नाम पञ्चदशं प्रकरणम् // (ब्य्च्श्ट्_15)
chapter xvi
समनुक्रान्तैः पञ्चदशभिः प्रकरणैः शास्त्रकार्यं परिसमाप्य शास्त्रारम्भप्रयोजनं कृत्वान्यशेषपरिहारं चोपदर्शयन् षोडशं प्रकरणम् आरभते //
केनचिद् धेतुना शून्यम् अशून्यम् इव दृश्यते / तस्य प्रकरणैः सर्वैः प्रतिषेधो विधीयते // ब्य्च्श्ट्_15.1 [= सेरिअल्नो. 376]
नानवधार्य यथार्थां शून्यतां कश्चिच् छक्तः संसारे सङ्गम् अवधूय निर्वाणस्पृहाम् उत्पादयितुम् / स च शून्यतार्थो जगताम् अतीवोत्त्रासकरत्वाद् अप्रियावेदननिपुणपुरुषेण राज्ञः प्रियभार्यामरणक्रमावेदनसौमनस्योत्पादनवत् कयापि युक्त्या विदुषावतार्यः / अहङ्कारममकारस्नेहविपर्यस्तो हि लोको ऽनित्य एव वस्तुनि क्षणभङ्गादर्शनात् संस्कारमात्रप्रवाहस्य सम्यगर्थानवसायाच् छून्यतादर्शनविबन्धभूतां नित्यताम् अवधार्य प्रत्यवतिष्ठमानो जगद् अशून्यम् एव प्रतिपन्नः / तद् अस्याशून्यताप्रतिषेधाय प्रथमप्रकरणप्रारम्भ इत्यादि योज्यम् / स्वभावविरहितार्थश् चात्र शून्यतार्थ इत्य् असकृद् आवेदितम् /
तद् एवं केनचिद् धेतुना स्वभावरहितम् अपि वस्त्व् एवाशून्यं येषां ख्याति तेषां तस्यासद्ग्राहहेतोः सर्वैः पञ्चदशभिर् अपि प्रकरणैः प्रतिषेधो विधीयते /
यद्य् एवमर्थम् एषां प्रकरणानाम् आरम्भो नन्व् अत एवाशून्यत्वं सिद्धं भावानाम् / तथा ह्य् एषां प्रकरणानां वक्ता तावद् भवान् अस्ति / प्रकरणानाम् अभिध्यो ऽर्थो ऽशून्यताहेतुव्यावर्तको हेतुर् अस्ति / वचनं चेदं प्रतिविशिष्टार्थकृतावधिध्वनिसमुदायरूपं पञ्चदशप्रकरणात्मकम् अस्तीति वक्तृवाच्यवचनानां सद्भावात् सिद्धम् अशून्यत्वं भावानाम् इति व्यर्थ एव भवतः सर्वप्रकरणप्रारम्भपरिश्रमायास इति प्रतिपादयन्न् आह //
यदा वक्तास्ति वाच्यञ् च न शून्य[…] / ब्य्च्श्ट्_15.2अ [= सेरिअल्नो. 377अ] (ब्य्च्श्ट्_16)
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
