Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

भिक्षुणीविनय

Thông tin
GRETIL — Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

210. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि दशद्वादशवर्षां कुमारीभूताम् उपसम्पादयन्ति । अप्रतिसंख्यानवर्तिन्यो भवन्ति अनाकल्पसम्पन्ना । न जानन्ति कथम् उपाध्यायीये प्रतिपद्यितव्यं यावत् संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । शब्दापयथ ता भिक्षुणीयो । ता दानि शब्दापिताः । तद् एव सर्वं भगवान् विस्तरेण पृच्छति यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति ऊनविंअतिवर्षां कुमारीभूताम् उपस्थापयितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी ऊनविंशतिवर्षां कुमारीभूतां उपस्थापयेत् पाचतिकं ।

ऊनविंशतिवर्षा ति ऊनविंशोदकवर्षो ऊनविंशो सम्वत्सरो ऊनविंशतिवर्षा ।

ऊनविंशोदकवर्षो पूरविंशो सम्वत्सरो ऊनविंशतिवर्षा ।

ऊनविंशोदकवर्षो अतिरेकविंशो सम्वत्सरो ऊनविंशतिवर्षा ।

हेमन्ते जाता तेन विंशेन उपसंपादेति अकृतायां प्रवारणायां ऊनविंशतिवर्षा । एवं ग्रीष्मे जाता ।

एवं पुरिमिकायां वर्षोपनायिकायां जाता तेन विंशेन उपसंपादेति ऊनविंशतिवर्षा ।

पश्चिमिकायां वर्षोपनायिकायां जाता तेन विंशेन उपसंपादेति । अकृताहि द्विहि प्रवारणाहि । ऊनविंशतिवर्षा ।

कुमारीभूताम् एताम् ऊनविंशतिवर्षां सर्वा ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति सर्वायो पाचत्तिकम् आसादयन्ति ।

सा च अनुपसम्पन्ना । ताम् एताम् ऊनविंशतिवर्षां कुमारीभूतां एक ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति एका पूरसम्ज्ञिनीयो । या ऊनसंज्ञिनीयो उपसम्पादेन्ति तायो पाचत्तिकम् आसादयन्ति । पूरसंज्ञिनाम् अनापत्तिः । सा चानुपसम्पन्ना । ऊनविंशतिवर्षां सर्वायो ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति सर्वासाम् अनापत्तिः । सा च सूपसम्पन्ना ।

पूरविंशतिवर्षां सर्वायो ऊनविंशतिवर्षसंज्ञिनीयो उपसम्पादेन्ति सर्वा विनयातिक्रमम् आसादयन्ति । सा च सूपसम्पन्ना ।

पूरविंशतिवर्षाम् एका ऊनविंशतिवर्षसंज्ञिनीयो एका पूरविंशतिवर्षसंज्ञिनीयो उपसम्पादेन्ति । या ऊनविंशतिवर्षसंज्ञिनीयो ता विनयातिक्रमम् आसादयन्ति । या पूरविंशतिवर्षसंज्ञिनीयो तासाम् अनापत्तिः । सा च सूपसम्पन्ना ।

पूरविंशतिवर्षां सर्वा पूरसंज्ञिनीयो उपसम्पादेन्ति सर्वासाम् अनापत्तिः । सा च सूपसम्पन्ना ।

कुमारीभूता ति कुमारीभूता अविकोपितब्रह्मचर्या । उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं । पे । यावत् प्रज्ञप्तिः ।

या एषा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसम्पदं सा दानि समनुग्रहितव्या । कदा त्वं जाता । अथ न जानाति जन्मपद्धिका निशामयितव्या । जन्मपद्धिका न भवन्ति मातापितरौ पृच्छितव्यौ । अथ दानि ते पि न जानन्ति पृच्छितव्या । कतरस्मिं राज्ये जाता । केत्तिका वा तदा त्वं अभूषि । सुदृष्टिर् दुर्दृष्टिर् वा । पृच्छितव्या । न उद्धिकस्य वा चित्रिकस्य वा वशेन गन्तव्यं । अथ खु हस्तपादा निशामेतव्याः । तेन भगवान् आह । या पुन भिक्षुणी ऊनविंशतिवर्षां कुमारीभूतां उपस्थापयेत् पाचत्तिकं ॥6 ॥ पाचत्तिकधर्म 97

अदेशितशिक्षा

211. भगवान् श्रावस्तीयम् विहरति । भगवता दानि शिक्षापदम् प्रज्ञप्तं । न क्षमति ऊनविंशतिवर्षां कुमारीभूताम् उपस्थापयितुन् ति । ता दानि भिक्षुणीयो पूरविंशतिवर्षां कुमारीभूताम् अदेशितशिक्षाम् उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । को जानाति पूरविंशतिवर्षा वा एषा न वा ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । या एषा कुमारीभूता आकाङ्क्षति । तथागतप्रवेदिते धर्मविनये उपसंपदां भिक्षुणीभावं । ताय संघो द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचितव्यो । कर्मकारिकाय कर्म कर्तव्यं । शृणोतु आर्या संघो । इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा संघं द्वेवर्षाणि शिक्षादेशनासम्मुतिं याचेय्या । याचिष्यति आर्यमिश्रिका अष्टादशवर्षा कुमारीभूता द्वेवर्षाणि शिक्षादेशनासम्मुतिं संघं । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि । ताय दानि याचितव्यं । वन्दाम्य् आर्या संघं । अहम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । साहं द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचामि । साधु वत मे आर्या संघो द्वे वर्षाणि शिक्षापदानि सम्मुतिं देतु । एवं त्रिख्हत्तो याचितव्यं ।

कर्म । शृणोतु मे आर्या संघो । इयम् इत्थन्नमा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । सा संघं द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचति । यदि संघस्य प्राप्तकालं संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिं दद्यात् । ओवयिका एषा ज्ञप्तिः ।

शृणोतु मे आर्या संघो । इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । सा संघं द्वे वर्षाणी शिक्षादेशनासम्मुतिं याचति । तस्याः संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्साणी शिक्षादेशनासम्मुतिं देति । यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिं दीयमानां संघेन । सा तूष्णीम् अस्य । यस्या न क्षमति सा भाषितु । इयं प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचनेति । दिन्ना आर्यमिश्रिकायो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिः सम्घेन । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमान्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।

पूरविंशतिवर्षा पि च भवति कुमारीभूता । तां चादेशितशिक्षाम् उपस्थापयेत् पाचत्तिकं ।

पूरविंशतिवर्षा ति पूरविंशोदकवर्षा । पूरविंशो सम्वत्सरो । पूरविंशो सम्वत्सरो । पूरविंशतिवर्षा । कुमारीभूता ति अविरोपितब्रह्मचर्या । अदेशितशिक्षा ति अदेशितशिक्षैव अदेशितशिक्षा । तं च से कर्म कुर्वन्ति ज्ञप्तिविपन्नं गणविपन्नं अनुश्रावणाविपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं । एवम् अप्य् एषा अदेशितशिक्षा । उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । तेन भगवान् आह ।

पूरविंशतिवर्षा पि च भवति कुमारीभूता । तञ् चादेशितशिक्षाम् उपस्थापयेत् पाचत्तिकं ॥7 ॥

पाचत्तिकधर्म 98

अपरिपूरशिक्षा

212. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि देशित शिक्षाम् उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । अस्त्य् एषा देशितशिक्षा न ज्ञायते परिपूरशिक्षा वा न वेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि न क्षमति देशितशिक्षाम् अपि अपरिपूरशिक्षाम् उपस्थापयितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । यावत् पर्यवदातानि भविष्यन्ति ।

देशितशिक्षा पि च भवति कुमारीभूता तां चापरिपूरशिक्षाम् उपस्थापयेत् पाचत्तिकं ।

देशितशिक्षा ति देशितशिक्षैव देशितशिक्षा अनङ्गोपेताये । देशितशिक्षा तञ् च से कर्म कुर्वन्ति । ज्ञप्तिसम्पन्नं गणसम्पन्नं अनुश्रावणासम्पन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन अनुपक्लिष्टं । एवम् एषा देशितशिक्षा ।

अपरिपूरशिक्षा ति अष्टादशहि वर्त्तेहि द्वे वर्षाणि अशिक्षितशिक्षा । कतमेहि अष्टादशहि सर्वभिक्षुणीनां नविकेत्य् आदि पूर्ववत् यथा गुरुधर्मेषु । न च ताये क्षमति एकाकिनीय ग्रामं पिण्डाय प्रविशितुं । अथ खु भिक्षुणीय वा श्रमणेरीय वा सह पिण्डाय प्रविशितव्यं । न क्षमति एकाकिनीय अध्वानं गन्तुं । यदि सा अष्टानाम् अन्यतरान्यरापत्तिम् आपद्यति पुनः शिक्षा देशितव्या । एकान्नविंशतिम् आरभ्य सर्वं दुष्कृतेन कारापयितव्या यानि ऊनकानि द्वे वर्षाणि शिक्षति सापरिपूरशिक्षा । उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं । तेन भगवान् आह ।

देशितशिक्षा पि च भवति कुमारीभूता । तां चापरिपूरशिक्षाम् उपस्थापयेत् पाचत्तिकं ॥8 ॥

पाचत्तिकधर्म 99

असंमता

213. भगवान् श्रावस्तीयम् विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तं । न क्षमति अपरिपूरशिक्षाम् उपस्थापयितुं । ता दानि भिक्षुणीयो विंशतिवर्षां कुमारीभूतां देषितशिक्षां परिपूरशिक्षाम् उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । अस्त्य् एषा देशितशिक्षा । नो तु जानाम परिपूरशिक्षा वा न वा ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । तेन हि या एषा विंशतिवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये भिक्षुणीभावं ताय संघो उपथापनासम्मुतिं याचितव्यो ।

शृणोतु मे आर्य संघो । इयम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा संघं उपस्थापनासम्मुतिं याचेय्या । याचिष्यति आर्या संघो इयम् इत्थन्नामा संघं उपस्थापनासम्मुतिं । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि । ताय दानि याचितव्यं । वन्दाम्य् आर्या संघं । अहम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देसितशिक्षा परिपूरशिक्षा आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । साहं संघम् उपस्थापनासम्मुतिं याचामि । साधु वत मे आर्या संघो उपस्थापनासम्मुतिं देतु । एवं द्विर् अपि त्रिर् अपि याचितव्यं ।

कर्म । शृणोतु मे आर्या संघो । इयम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा परिपूरशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । सा संघम् उपस्थापनासम्मुतिं याचति । यदि संघस्य प्राप्तकालं सम्घो इत्थन्नामाये उपस्थापनासम्मुतिं दद्यात् । ओवयिका एषा ज्ञप्तिः ।

शृणोतु मे आर्या संघो । इयम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा परिपूरशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । सा संघम् उपस्थापनासम्मुतिं याचति । तस्या सम्घो इत्थन्नामाये उपस्थापनासम्मुतिं देति । यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये विंशतिवर्षाये उपस्थापनासम्मुतिं दीयमानां संघेन । सा तूष्णीम् अस्य । यस्या न क्षमति सा भाषतु । एवं द्वितीया तृतीया कर्मवाचना । दिन्ना आर्यमिश्रिकायो इत्थन्नामाये विंशतिवर्षाये कुमारीभूताये देशितशिक्षाये परिपूर्णशिक्षाय उपस्थापनासम्मुतिः संघेन । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति । [1] परिपूरशिक्षा पि च भवति तां चासंमताम् उपस्थापयेत् पाचत्तिकं ।

परिपूरशिक्षा पि च भवतीति अष्टादशवर्त्तेहि द्वे वर्षाणि देशितशिक्षा । तां चासंमताम् इति असंमता एवम् असंमता अपरिपूरशिक्षा पि असंमता तम् च से कर्म करोन्ति प्रज्ञप्तिविपन्नं गणविपन्नं अनुश्रावणाविपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं । एवं पि एषा असंमता । उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । तेन भगवान् आह ।

। [2] पूरविंशतिवर्षा पि च भवति कुमारीभूता देशितशिक्षा च परिपूरशिक्षा च । तां चासंमताम् उपस्थापयेत् पाचत्तिकं ॥9 ॥

पाचत्तिकधर्म 100

ऊनद्वादशवर्षा गृहिचरिता

214. भगवान् श्रावस्तीयम् विहरति । ता दानि शाकियकन्यायो मल्लकन्यायो कोलीयकन्यायो गृहिचरितायो प्रव्रजितायो पटु कायो उच्चक्षुकायो क्षिप्रनिशान्तिकायो । महाप्रजापती गौतमी भगवन्तं पृच्छति । लभ्या दानि भगवन् ऊनविंशतिवर्षां गृहिचरिताम् उपस्थापयितुं । भगवान् आह । लभ्या । तायो अष्टवर्षाम् नववर्षां गृहिचरिताम् उपस्थापयन्ति । ता अप्रतिसंख्यानवर्तिन्यो भवन्ति । यथा ऊनविंशतिवर्षाः । यावद् भगवान् आह । न क्षमति ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयेत् पाचत्तिकं ।

गृहिचरिता ति विकोपितब्रह्मचर्या । उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । या एषा गृहिचरिता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं सा ताय अनुग्राहितव्या । पेयालं । यावत् हस्तपादा निवासयितव्याः । तेन भगवान् आह । या पुन भिक्षुणी ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयेत् पाचत्तिकं ॥10 ॥ उद्दानं । सम्मुखम् [91] । ऊनद्वादशवर्षा [92] । अनङ्गोपेता [93] । असम्मता [94] । दुःशीला [95] । ऊनविंशतिवर्षा कुमारीभूता [96] । अदेशितशिक्षा [97] । अपरिपूरशिक्षा [98] । असम्मता [99] । ऊनद्वादशवर्षा गृहिचरिताय [100] पूर्यते दशमो वर्गः ॥

पाचत्तिकधर्म 101

अदेशितशिक्षा

215. भगवान् श्रावस्तीयम् विहरति । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयितुन् ति । तायो दानि भिक्षुणीयो पूरद्वादशवर्षां गृहिचरिताम् उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । को जानाति पूरद्वादशवर्षा वा न वेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यथा कुमारिभूताय अष्टादशवर्षाय द्वे वर्षाणि शिक्षादेशनासम्मुतिर् याचितव्या । विस्तरेण । तेन भगवान् आह । पूरद्वादशवर्षा पि च भवति गृहिचरिता तां चादेशितशिक्षाम् उपस्थापयेत् पाचत्तिकं ॥1 ॥ पाचत्तिकधर्म 102

अपरिपूरशिक्षा

216. भगवान् श्रावस्तीयम् विहरति । सुदिन्ना नाम अभटगणकभार्या प्रव्रजिता । ताय कल्याये शिक्षा देशिता । ताय दानि गृहिभूताय कुक्षि प्रतिलब्धो । सो पि वृद्धो । भिक्षुणीयो दानि ओज्झायन्ति । इयन् ताव देशितशिक्षा । इयं च कुक्षिवती । स निर्वेठेति । आर्यमिश्रिकायो यतो हं प्रव्रजिता नामभिजानाम्य् अहं एतद् धर्मम् प्रतिषेवितुं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं यावद् भगवान् आह । यतो दानि एषा प्रव्रजिता । न एषा जानात्य् एतं धर्म प्रतिषेवितुं । गृहिभूताय एताय कुक्षिः प्रतिलब्धो । या दानि एषा ईदृशी भवति न क्षमति उपस्थापयितुं । अथ खलु यदि तावद् दारिकां जनयति यदा स्तनिका गृहान् निर्गता भवति ततो उपस्थापयितव्या । अथ दारकं जनयति यदा अयं स्तनीभूतो भवति ततो उपस्थापयितव्या । अथ दानि ताये सालोहितो भवति ज्ञातिको वा आहंसुः । वयं एतन् दारकम् उपस्थास्याम इति उपसंपादयितव्या । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । तथैव कर्तव्यं यथा कुमारीभूताये । तेन भगवान् आह । देशितशिक्षा पि च भवति गृहिचरिता नां अपरिपूरशिक्षाम् उपस्थापयेत् पाचत्तिकं ॥2 ॥ पाचत्तिकधर्म 103

असम्मता

217. भगवान् श्रावस्तीयम् विहरति । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति ऊनद्वादशवर्षाम् गृहिचरिताम् उपस्थापयितुन् ति । ता दानि भिक्षुणीयो पूरद्वादशवर्षां गृहिचरितां देशितशिक्षाम् उपस्थापयन्ति । ता दानि भिक्षुणीयो ओज्झायन्ति । अस्त्य् एषा देशितशिक्षा न तु जानाम परिपूरशिक्ष वा न वेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यथा कुमारीभूताये यावत् तेन भगवान् आह ।

परिपूरशिक्षा पि च भवति गृहिचरिता । तां चासम्मताम् उपस्थापयेत् पाचत्तिकं ॥3 ॥

पाचत्तिकधर्म 104

नानुशासेत्

218. भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो उपस्थापिय उपस्थापिय नाववदन्ति नानुशासन्ति । तायो दानि इन्द्रगवा इव वर्धन्ति यावत् कथं संघाटीपात्रचीवरधारणे प्रतिपत्तव्यं । पेयालं । यावद् भगवान् आह । दुष्कृतं वो भिक्षुणीयो एवञ् च नामा यूयं उपस्थापयित्वा नाववदथ नानुशासथ । तेन हि द्वे वर्षाणि ओवदितव्या अनुशासितव्या ।

अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी उपस्थायिका उपस्थापितां द्वे वर्षाणि नाववदेय नानुशासयेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । पेयालं । उपस्थायिका ति उपाध्यायिनी । उपस्थापितान् ति सार्धं विहारिणी । द्वे वर्षाणीति द्वे दकवर्षाणि । नाववदेद् इति अभिधर्मे वा अभिविनये वा । अभिधर्मो नाम नवविधः सूत्रान्तः ।

अभिविनयो नाम प्रातिमोक्षः विस्तरप्रभेदेन । नानुशासेद् इति आचारम् अकुर्वन्तीम् अनाचारं कुर्वन्तीं न निर्द्धमेया न दण्डकर्म दद्यात् पाचत्तिकं । अथ दानि सा उपस्थापिता दुर्वचा भवति शैथिलिका वा बाहुलिका वा अशिक्षाकामा निर्द्धमितव्या । भिक्षुर् अपि सार्धं विहारिनं नावावदति नानुशासति विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी उपस्थायिका उपस्थापितां द्वे वर्षाणि नाववदेन् नानुशासेत् पाचत्तिकं ॥4 ॥ पाचत्तिकधर्म 105

नोपस्थिहेत्

219. भगवान् श्रावस्तीयम् विहरति । ता दानि भिक्षुणीयो उपस्थापिताः अन्येन गच्छन्ति । ता दानि उपाध्यायिनीयो ओज्झायन्ति । अस्माकं भगवता दण्डकर्म प्रज्ञप्तं । इमा सामोक्तिका । या दानि उपस्थापिता अन्येन गच्छन्ति । कथम् इमाः अस्माभिर् अववदितव्यायो अनुशासितव्यायो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावच् छब्दापिता । तद् एव सर्वं पृच्छीयन्ति । आम भगवन् । भगवान् आह । दुष्कृतं वो भिक्षुणीयो एवं नाम यूयम् उपस्थापिताः अन्येन गच्छथ । तेन हि उपस्थापिताय उपस्थायिका द्वे वर्षाणि अनुबन्धितव्या । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी उपस्थापिता उपस्थायिकां द्वे वर्षाणि नोपस्थिहेन् नानुबन्धेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । उपस्थापितेति सार्धविहारिणी । उपस्थायिकाम् इति उपाध्यायिनी । द्वे वर्षाणीति द्वे वर्षाणी । नोपस्थिहेद् इति कायपरिचर्यां कुर्यात् । नानुबन्धेद् इति येन गच्छति तेन न गच्छति पाचत्तिकं । यावत् प्रज्ञप्तिः । अथ दानि सा उपस्थायिका अशिक्षाकामा भवति शैथिलिका वा बाहुलिका वा । भिक्षुणी पश्यति । सा मे ब्रह्मचर्यान्तरायो भवेय दृष्ट्वानुकृतिम् आपद्यन्तीयेति अन्येन गच्छति अनापत्तिः । भिक्षुणी उपस्थायिकां नोपस्थिहति नानुबन्धति पाचत्तिकं । भिक्षुर् अपि उपाध्यायं द्वे वर्षान् नोपस्थिहति नानुबन्धति विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी उपस्थापिता उपस्थायिकां द्वे वर्षाणी नोपस्थिहेन् नानुबन्धेत् पाचत्तिकं ॥5 ॥ पाचत्तिकधर्म 106

अनुवर्षम्

220. भगवान् श्रावस्तीयम् विहरति । ता दानि भिक्षुणीयो अनुवर्षम् उपस्थापयन्ति । तासां दानि कौकृत्यं । किन् नु खल्व् एतं लभ्यं कर्तुं । उताहो न लभ्यं । पेयालं । यावद् भगवान् आह । तेन हि न क्षमति अनुवर्षम् उपस्थापयितुं । अथ खलु वीचिः कर्तव्या ।

या पुन भिक्षुणी अनुवर्षम् उपस्थापयेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । अनुवर्षन् ति अनुसम्वत्सरं । उपस्थापयेद् इति उपस्थापयेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी अनुवर्षम् उपस्थापयेति पाचत्तिकं । एकं वर्षम् उपस्थापयितव्यं । अपरवर्षे वीचिः कर्तव्या । अथ दानि भिक्षुणी कृतपुण्या भवति एकं वर्षं शिक्षा देशयितव्या । अपरं वर्षम् उपस्थापयितव्या । किञ्चापि भिक्षुः अनुवर्षम् उपस्थापयेद् अनापत्तिः । तेन भगवान् आह । या पुन भिक्षुणी अनुवर्षम् उपस्थापयेत् पाचत्तिकम् ॥6 ॥ पाचत्तिकधर्म 107

एकतो विशुद्धां

221. भगवान् राजगृहे विहरति । तहिं दानि जेता नाम भिक्षुणी । सा अन्तेवासिनीं भिक्षुणीहि उपसंपादीयान स्थूलनन्दां भिक्षुणीम् आह । आर्ये मम अन्तेवासिनी उपसम्पाद्या साधु आर्ये आर्यमिश्रिकानां गणं पर्येषेहि । ताय गत्वा षद्वर्गिका भिक्षू आनीता । सा दान् आह । नाहम् एतेहि उपसंपादयेयं । ताय दानि अपरं दिवसं भद्रकाणां भिक्षुणां गणं समुदानयित्वा उपसंपादयित्वा । एतं प्रकरणं भिक्षुणीयो मजाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । दुष्कृतं ते जेते एवन् नाम त्वं एकतो विशुद्धां परिवासिकिनीम् उपस्थापयसि । एवन् नाम त्वं गणम् अवजानासि । तेन हि न क्षमति गणम् अवजानितुं । पेयालं । यावद् भगवान् आह ।

या पुन भिक्षुणी एकतो विशुद्धां परिवासिकिनीम् उपस्थापयेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । एकतो विशुद्धाम् इति भिक्षुणीगणेनोपसम्पन्नां । पारिवासिकिनीम् इति परिवसितरात्रिं । उपस्थापयेद् इति उपसम्पादयेन् न भिक्षुगणेन पाराजिकं । यावत् प्रज्ञप्तिः । न क्षमति एकतो पारिवासिकिनीम् उपस्थापयितुं । नापि क्षमति अपरिशुद्धेन उपसंपादयितुं । अथ खलु प्रतिकृत्य् एव ताव भद्रकाणां भिक्षूणां गणो समुदानयितव्यो । अथ दानि अन्ये भद्रकाः अन्ये अभद्रकाः तथा कर्तव्यं यथा भद्रोत्तराणि कर्माणि भवन्ति । भिक्षुणा पि भद्रोत्तराणि कर्माणि कर्तव्यानि । अथ दानि गणम् अवजानाति विनयातिक्रमम् आसादयति । अथ दानि सेनाभयं वा भवति परचक्रभयं वा नगरोपरोधो वा किञ्चापि पारिवासिकिनीम् उपस्थापयेत्य् अनापत्तिः । तेन भगवान् आह । या पुन भिक्षुणी एकतो विशुद्धां पारिवासिकीनीम् उपस्थापयेत् पाचत्तिकं ॥7 ॥ पाचत्तिकधर्म 108

षट्पञ्च योजना

222. भगवान् वैशालीयम् विहरति । या सा कालीय त्रियन्तरा लेच्छविधीता उपस्थापिता । सा दानि आगारिकेहि च सार्धं संसृष्टा विहरति । सा भिक्षुणीहि वुच्चति । आर्ये कालि या दानि उपस्थापिता त्वं जानासि आगारिकेहि च परिव्राजकेहि च संषृष्टां । किम् अर्थं न व्यपकर्षसि न व्यपकर्षापयसि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । दुष्कृतं ते कालि यावत् पर्यवदातानि भविष्यन्ति

या पुन भिक्षुणी उपस्थायिका उपस्थापितां तथारूपासु आपदासु न व्यपकर्षेन् न व्यपकर्षापयेद् अन्तशः षट्पञ्च योजना ति पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । उपस्थायिका ति उपाध्यायिनी । उपस्थापिता ति सार्धेविहारिणी । तथारूपासु आपदासू ति स्वयम् वा प्रत्योधावितुकामा ज्ञातिका वा प्रत्योधावयितुकामा अन्येहि वा संसृष्टा भवति । न व्युपकर्षतीति स्वयं न व्युपकर्षापयतीति परेहि । अन्तमसतो षट्पञ्च योजना ति न दानि षट्पञ्च च परमं । षड् एव पाचत्तिकं । यावत् प्रज्ञप्तिः । एषा दानि भिक्षुणीये सार्धम् विहारिणी वा अन्तेवासिनी वा संसृष्टा भवति व्यपकर्षितव्या वा व्यपकर्षापयितव्या वा चारिकाय वर्णो भाषितव्यः । अथ दानि जरादुर्बलावा व्याधिदुर्बला वा भोति अन्याहि भिक्षुणीहि व्यक्पकर्षयितव्या । वक्तव्या । चेतीय वन्दना भविष्यति । भिक्षुदर्शनम् भविष्यति । यदा वयं तरुणीयो आसि एवम् अस्माभिर् अटितं ।

भिक्षुर् अपि सार्धं विहारिं उत्कण्ठितन् न व्यपकर्षयति न व्यपकर्षापयति विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी उपस्थायिका उपस्थापितां तथारूपास्व् आपदासु न व्यपकर्षयेत् न व्यपकर्षापयेत् अन्तमसतो षट्पञ्च योजना ति पाचत्तिकं ॥81 ॥ पाचत्तिकधर्म 109

किं पुनः

223. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी अनङ्गोपेता उपस्थापयति । सा नाववदति नानुशासति । ता इन्द्रगवा विय वर्धन्ति शिवच्छगला विय वर्धन्ति । पेयालं । यावत् कथं संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं । सा दानि भिक्षुणीहि वुच्चति किम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेन यं आर्यामेवं वक्तव्या अनुशासितव्या । सा दान् आह । किं भद्रायिणीयो इर्ष्यापथा मम पर्षाम् उपस्थापयन्तीयो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । दुष्कृतं ते नन्दे एवन् नाम त्वं क्षियाधर्मम् आपद्येसि । तेन हि न क्षमति क्षियाधर्मम् आपद्यितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि । यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी भिक्षुणीहि एवम् उच्यमाना । हिम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेन । यं आर्या एवम् वक्तव्या अनुशासितव्येत्य् उक्ता समाना क्षियाधर्मम् आपद्येय पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन । किम् पुनर् आर्याये अनङ्गोपेताये ति दशहि अङ्गेहि समन्वागता अङ्गोपेता । प्रातिमोक्षसम्वरसम्वृता भवति [1] । बहुश्रुता भवत्य् अभिधर्मे [2] । बहुश्रुता भवत्य् अभिविनये [3] । यावत् । द्वादश वर्षा च भवति [10] । यस्या इमानि दशाङ्गानि न सम्विद्यन्ते सा भवति अनङ्गोपेता । क्षियाधर्मम् आपद्येय ति विवाचयेत् पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी भिक्षुणीहि युच्यमाना किम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेनेति क्षियाधर्मम् आपद्येय पाचत्तिकं । भिक्षुर् अपि भिक्षूहि वुच्यमानो किम् पुनर् आयुष्मतो अनङ्गोपेतस्य उपस्थापितेनेति क्षियाधर्मम् आपद्येय विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी भिक्षुणीहि एवं वुच्यमाना किम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेनेति उक्ता क्षियाधर्मम् आपद्येय पाचत्तिकं ॥9 ॥ पाचत्तिकधर्म 110

न विसर्जयेत्

224. भगवान् वैशालीयम् विहरति । अपरा दानि शिक्षमाणा स्थूलनन्दाम् आह । साधु मे आर्ये नन्दे उपसंपादय मां । सा दान् आह । बाढं अहं ते उपसंपादयिष्यन् ति । सा विलक्षेति । नैवोपसंपादेति न विसर्जयति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावत् शब्दापयथ नन्दां । सा दानि शब्दापिता । तद् एव सर्वं पृच्छीयति । यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते नन्दे ।

या पुन भिक्षुणी शिक्षमाणाम् एवं वादेत् । यदा पूरशिक्षा भविष्यसि ततो हम् उपस्थापयिष्यन् ति वदित्वा नैवोपसंपादयेन् न विसर्जयेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । पेयालं । शिक्षमाणेति अष्टादशेहि वर्त्तेहि द्वे वर्षाणि देश्तितशिक्षा । एवम् वदेया ति यथा स्थूलनन्दा भिक्षुणी । अहन् ते उपस्थापयिष्यन् ति उपस्थापयितव्या । अथ दानि न प्रतिबला भवति अन्या अध्येषितव्या । अथ दानि नैवात्मना उपस्थापयति नाप्य् अन्यां अध्येषयति न विसर्जयति । गच्छ यत्रेच्छसि तहिं उपसम्पद्याहीति । सा एषा भिक्षुणी शिक्षमाणाम् उक्त्वा अहन् ते उपस्थापयिष्यन् ति पश्चान् नोपसम्पादयेन् न विसर्जयेत् पाचत्तिकं ॥10 ॥

पाचत्तिकधर्म 111

यानम्

225. भगवान् वैशालीयम् विहरति । अथ भद्रा कापिलेयी चतुर्युक्तं यानम् अभिरुहित्वा ज्ञातिकुलं गच्छति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणिका महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी यानम् अभिरुह्येत् पाचत्तिकं । एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयम् विहरति । ता दानि शाकीयकन्याः कोलीयकन्याः लेच्छविकन्याश् च प्रकृतिसुकुमाराः प्रव्रजिताः । पादेहि गच्छन्तीयो किलम्यन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि अनुजानामि गिलानाये । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति यावत् ।

या पुन भिक्षुणी अगिलाना यानम् अभिरुहेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्तिः गिलानाये । ग्लान्यं नाम जरादुर्बला वा व्याधिदुर्बला वा प्रकृतिसुकुमारा वा न शक्नोति पद आगच्छन्तु इदम् अत्र गैलान्यम् अभिप्रेतं । यानन् नाम हस्तियानं अश्वयानम् उष्ट्रयानं गोयानं गर्दभयानं नावायानं शिविकायानं यानयानम् एव अष्टमं । अभिरुह्येत् पाचत्तिकं । न क्षमति भिक्षुण्या यानम् अभिरुहितुं । यत्र उष्ट्रा वा गोणा वा युक्ता भवन्ति । अथ खलु स्त्रीयानम् अभिरुहितव्यं । यहिं उष्ट्रीयो वा गोणीयो वा युक्ता भवन्ति तहिं आरुहितव्यं । अथ दानि असंज्ञिका भवति न स्त्रीं न पुरुषं जानाति अनापत्तिः । अथ दानि नावाय अपरात् परम् उत्तरत्य् अनापत्तिः । ऊर्ध्वङ्गामिनीयम् वा अधोगामिनीयम् वा प्रत्ययो अधिष्ठिहितव्यो मा मरिष्यामीति । भिक्षुर् अपि अगिलानो यानमभिरुहति विनयातिक्रमम् आसादयति । प्रत्ययम् अधिष्ठिहति अनापत्तिः । तेन भगवान् आह ।

या पुन भिक्षुणी अगिलाना यानम् अभिरुहेत् पाचत्तिकं ।रा ॥

पाचत्तिकधर्म 112

छत्र

226. भगवान् वैशालीयम् विहरति । भद्रा कापिलेयी छत्रेण गृहीतेन उपानहाभ्याम् आबद्धाभ्यां ज्ञातिकुलं गच्छति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणिका अद्यापीयं प्रव्रजिता पि महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि न क्षमति छत्रोपानहं ।

एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयम् विहरति । ता दानि शाकीयकन्याः लेच्छविकुमाराः प्रव्रजिता गच्छन्तीयो आतपेन दह्यन्ते । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं यावद् भगवान् आह । तेन हि अनुजानामि गिलानाये । यावात् ।

या पुन भिक्षुणी अगिलाना छत्रोपानहं धारयेत् पाचत्तिकं ।

या पुन भिक्षुणी ति उपसम्पन्ना । अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्तिर् गिलानाये । किन् तावद् अत्र गैलान्यम् अभिप्रेतं । जरादुर्बला वा व्याधिदुर्बला व प्रकृतिसुकुमारा वा । शक्नोति गन्तुं आतपेन दह्यते । छत्रोपानह इति छत्रन् नाम भूर्जछत्रं तालछत्रं वेणुछत्रं पर्णछत्रं चैलछत्रम् । उपानहा नाम एकपलासिका संपुटा वा । धारयेद् इति परिभुञ्जेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी अगिलाना छत्रन् धारेति न उपानहां विनयातिक्रमम् आसादयति । उपानहान् धारेय न छत्रं विनयातिक्रमम् आसादयति । उभयन् धारेति पाचत्तिकं । नोभयं अनापत्तिः । भिक्षुर् अपि पिचुमस्तकादि छत्रं धारेति संपुटाम् वा अनिर्मोकां विनयातिक्रमम् आसादयति । तेन भगवान् आह ।

या पुन भिक्षुणी अगिलाना छत्रोपानहं धारयेत् पाचत्तिकं ।

पाचत्तिकधर्म 113

मञ्च

227. भगवान् वैशालीयम् विहरति । भद्रा दानि कापिलेयी ज्ञातिकुलं गच्छति । तेषां शय्या आस्तृतप्रत्यास्तृता द्विकडेवर त्रिकडेवरेहि निश्रेणीय आरुह्यति । चरकपरिव्राजका भिक्षुणीयो च भिक्षार्थं प्रविशन्ति । ते तां दृष्ट्वा ओज्झायन्ति । पश्यथ भणे श्रमणिका अद्यापीयं महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच् छब्दापयथ भद्रां । सा दानि शब्दापिता । तद् एव सर्वं भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । एवं नाम त्वं अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदसि अभिनिपद्यसि । तेन हि न क्षमति अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदितुं वा अभिनिपद्यितुम् वा । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । अतिरेकप्रामाणिके इति सुगताष्टाङ्गुलप्रमाणतो उत्तरि । मञ्चे वा पीठे वा ति चतुर्दश मञ्चाः चतुर्दश पीठाः । अभिनिषीदेय वा ति आसेय । अभिनिपद्येय वा ति शय्यां कल्पयेत् पाचतिकं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी सकृन् निषण्णा दिवसं पि निषीदति एकं पाचत्तिकम् आसादयति । अथ पुनो पुनो निषीदति तावत्यः पाचत्तिकाः । अतिरेकप्रमाणं भूमौ निखनित्वा उपविशति वा निपद्यति वा अनापत्तिः । भिक्षुर् अपि अतिरेकप्रामाणिके मञ्चे वा पीठे वा निषीदति वा अभिनिपद्यति वा विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकं ॥2 ॥ पाचत्तिकधर्म 114

एकास्तरणा

228. भगवान् श्रावस्तीयम् विहरति । ता दानि षड्वर्गिणीयो भिक्षुणीयो एकास्तरणप्रावरणां शय्यां कल्पयन्ति । तायो मञ्चां भञ्जन्ति बिशिकां पाटेन्ति चतुरस्रकां पाटेन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत् ता दानि शब्दापिताः पृच्छीयन्ति । यावद् आम भगवन् । भगवान् आह । दुष्कृतं वो भिक्षुणीयो यावत् ।

या पुन भिक्षुणी एकास्तरणप्रावरणां सहशय्यां कल्पयेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । एकास्तरणा ति एकमञ्चास्तरणा । एकप्रावरणा ति एकचेला । शेय्या ति पङ्गुलमञ्चो पङ्गुलपीठो यावत् कटकिलञ्जादयो । कल्पयेद् इति कुर्यात् । पाचत्तिकम् यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीये सहशय्यां कल्पयितुं । अथ खलु मञ्चे एकाकिनीय शयितव्यं । त्रिहि पीठेहि द्विहि जनाहीति पादां प्रासारयन्तीहि तथा प्रसारयितव्याः यथा अन्यमन्यस्य जानुका नाक्रमेयुः । बिस्याम् एकाकिन्या शयितव्या । तिर्यक् प्रज्ञप्ताया तृहि जनेहि शयितव्यं पाटियकपाटियकेहि प्रत्यास्तरणेहि यथा चतुरस्रके यथा पीठे । अथ दानि तृणादि संस्तरो भवति न क्षमति अतिबहुं आक्रमितुं । अथ खु निर्मुष्टिकं समं प्रज्ञापयितव्यं पाटियकपाटियकेहि प्रत्यास्तरणेहि । अथ दानि शीतम् भवति स्वकस्वकान्य् अन्तरीकरणानि कृत्वा एकं संचेली कर्तव्या । भिक्षुर् अपि सहशय्यां कल्पयति विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी सहशय्यां कल्पयेत् पाचत्तिकं ॥3 ॥ पाचत्तिकधर्म 115

प्रक्रमति

229. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी सांघिके विहारे शय्यासनं रुन्धित्वा चारिकां प्रक्रान्ता । भिक्षुणीयो आगन्तुकायो आगतायो । तायो भिक्षुणीयो यथावृद्धिकाय उत्थापीयन्ति तस्मिन् विहारे सांघिकं शय्यासनं । ता भिक्षुणीयो दानि ओज्झायन्ति । किम् अस्य दानि सांघिकं शयनासनं निरुन्धिय चारिकां प्रक्रमीयति । न शयनासनम् अनिःसरित्वा गन्तव्यं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच् छब्दापयथ नन्दां । सा दानि शब्दापिता । एतद् एव पृच्छियति यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते नन्दे एवं च नाम त्वं सांघिकं शयनासनं अनिःसरित्वा चारिकां प्रकरमसि । तेन हि न क्षमति सांघिकं शयनासनम् अनिःसरिव्ता चारिकां प्रक्रमितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रामेय पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । सांघिकं शयनासनन् ति मञ्चम् वा पीठम् वा बिसिकाम् वा चतुरस्रकाम् वा कुच्चम् वा बिम्बोहनम् वा । अनिःसरित्वा ति अनिर्यातयित्वा । चारिकां प्रक्रमेया ति अन्यत्र गच्छेत् पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीये सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रमितुं । प्रक्रमन्तीय वक्तव्यं यथा पलिगुद्धं शयनासनं निःसरामीति । अनिःसरित्वा प्रक्रामति पाचत्तिकम् आसादयति । अथ दानि एकवस्तुको संघारामो भवति अनिःसरित्वा चारिकां प्रक्रमति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।

या पुन भिक्षुणी सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रमेय पाचत्तिकं ।ण्àüक ॥

पाचत्तिकधर्म 116

प्रविशति

230. भगवान् श्रावस्तीयम् विहरति । सो दानि गर्तोदरपिता स्वविहारे स्नापयति । गर्तोदरमाता अप्रतिसम्विदिता विहारं गच्छति । प्रविशित्वा पृष्ठिम् अस्य मर्दति । तेनावलोकिता । सो दान् आह । अये हि स्त्री ति । सा दान् आह । अपापा गर्तोदरपिता । कस् तावद् अत्र दोषो ऽयं दानि अहं अन्यदापि अन्यदापि स्नापयामि । सो दान् आह । अन्यदाहम् गृही आसि इदानीं प्रव्रजितो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच् छब्दापयथ गर्तोदरमातां । सा दानि शब्दापिता तद् एव सर्वं । भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । अन्यदापि स्नापयामि । सो दान् आह । दुष्कृतन् ते गर्तोदरमाते यावद् एवन् नाम त्वं जानन्ती पूर्वे अप्रतिसम्विदिता अनाहूता उपसम्क्रमसि । तेन हि न क्षमति यावद् भगवान् आह ।

या पुन भिक्षुणी जानन्ती सभिक्षुकं संघारामं पूर्वे अप्रतिसम्विदिता अनाहूता उपसम्क्रमेय पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । सभिक्षुकन् ति अन्तमसतो यहिं एकभिक्षुर् अपि भवति । संघारामन् ति आरण्यकम् वा ग्राम्ऽअन्तिकम् वा । पूर्वे अप्रतिसम्विदिता ति अनिवेदिता । अनाहूता ति अशब्दापिता । उपसम्क्रमेया ति प्रविशेय । यथा गर्तोदरमाता भिक्षुणी । पाचत्तिकं पेयालं यावत् प्रज्ञप्तिः ।

एता दानि यो भिक्षुणीयो परिवेणं गच्छन्ति द्वारकोष्ठके स्थित्वा निवेदयितव्यं । वन्दाम्य् आर्य प्रविशामः । तेनापि दानि भिक्षुणा भिक्षवो जानापयितव्या मा दानि भिक्षू विप्रकटा भवेंसू ति । यदि विप्रकटा भोन्ति मृत्तिकाकर्मेण वा इष्टकाकर्मेण वा । अपलिगुद्धा भवन्ति वक्तव्यं । आगमेथ तावद् भगिनीयो । तेन ते भिक्षू उपसंक्रामित्वा वक्तव्याः । आयुष्मन्तो निवासेथ प्रावरथ भिक्षुणीयो प्रविशन्ति । न च अकुशलेन अप्रकृतिज्ञेन वक्तव्यं । सहसा मा प्रविशथेति । अथ खलु वक्तव्यं । विप्रकटा भिक्षवो मा प्रविशथ । अथ दानि अप्रतिसंविदिता प्रविशन्ति पाचत्तिकं । एकं पादं प्रवेशयति विनयातिक्रमम् आसादयति । द्वितीयपादं प्रवेशयति पाचत्तिकं । तत एव प्रत्योशक्कति विनयातिक्रमम् आसादयति । भिक्षुर् अपि अप्रतिसंविदितो भिक्षुनीउपाश्रयं प्रविशति विनयातिक्रमम् आसादयति । अथ खु द्वारकोष्ठके स्थित्वा अच्छटिका कर्तव्या । तेन भगवान् आह ।

या पुन भिक्षुणी जानन्ती सभिक्षुकं संघारामं पूर्वे अप्रतिसंविदिता अनाहूता उपसंक्रमेय पाचत्तिकं ॥तृ ॥

पाचत्तिकधर्म 117

समनुष्य

231. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि कोशलेहि जनपदेहि चारिकां चरन्तीयो ग्रामवासके वासम् उपगताः । तेहि दानि अपरा स्त्री विप्रवस्तपतिका उक्ता । प्रजापति देहि अस्माकं प्रतिश्रयं । सा दान् आह । आर्ये कुटुम्बिको मम विप्रवुस्तो । मा सहसा आगमिष्यति । ता दान् आहंसुः । कः पुनर् एवं ज्ञास्यति आगमिष्यति वा न वेति । ताय दिन्नो प्रतिश्रयो तासान् दानि भिक्षुणीनां प्रतिक्रान्तानां । सो पुरुषो विकाले आगतो । सो दानि खादित्वा पिबित्वा क्लेशे पीडितो भार्याय सार्धं म्श्रीभूतो । ता दानि भिक्षुणीयो तेन शब्देन प्रतिबुद्धाः । या दानि अविगतरागाः तासाम् अस्पर्शसंज्ञा उत्पन्ना ।

एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् भगवान् आह । शब्दापयथ तायो दानि भिक्षुणीयो । तायो शब्दापितायो तद् एव सर्वं । भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । एवं च नाम यूयं जानन्तीयो संभोजनीये कुले अनुपखज्जासनं शय्यां कल्पयथ । तेन हि न क्षमति ।

एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि कोशलेहि जनपदेहि चारिकां चरन्तीयो अन्यतरस्मिं ग्रामवासके वासम् उपगताः । तायो दानि सर्वग्रामम् अण्विताः न कहिञ्चिद् अपुरुषं गृहं लभन्ति । ता दानि रथ्यायां प्रतिक्रान्ताः रात्रौ वातवृष्टिर् उत्थिताः । विहेठिता दुःखिताः संवृत्ताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि अनुजानामि वातसमये वृष्टिसमये ।

एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयम् विहरति । यावत् रथ्यायाम् वा सोपगता भिक्षुणीयो । स्त्रियो आरोचयेंसुः । इमं गृहंसुः इमं गृहं प्रविशथ धूर्तकानाम् इह भयं । भिक्षुणीयो आहंसुः । नहि । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति सपुरुषके गृहे शय्यां कारयितुं । तायो तहिं रात्रौ धूर्तकेहि विहेठिताः तत्रान्यतरा ब्रह्मचर्यातो च्याविताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि अनुजानामि पुरुषाशङ्कितसमयं यावत् ।

या पुन भिक्षुनी जानन्ती संभोजनीये कुले अनुपखज्जेशय्यां कल्पयेद् अन्यत्र समये पाचत्तिकं ।

तत्रायं समयो वातसमयो वृष्टिसमयो पुरुषाशङ्कितसमयो अयम् अत्र समयो ॥

या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय । संभोजनीयन् ति स्त्रीया पुरुषो भोजनं पुरुषस्यापि स्त्री भोजनं । कुलन् ति ब्राह्मकुलं यावद् राजकुलं यानि वा पुनर् अन्यान्य् अपि काञ्चित् कुलानि । अनुपखज्ज नाम वासवस्तु यहिं भार्यापतिका प्रतिक्रमन्ति । शय्यां कल्पयन् ति पार्श्वन् दद्यात् । अन्यत्र समय इति प्रत्युद्धृतं भगवता पदम् अनापत्तिः । समयो वातसमयो वृष्टिसमयो पुरुषाशङ्कितसमयो । तत्र वातसमयो नातीतो नानागतो । अथ खु वर्तमानो येव । एवं वृष्टिसमयो । पुरुषाशङ्कितसमयो नाम मा ब्रह्मचर्यान्तरायो भविष्यतीति । सो एषो पुरुषाशङ्कितसमयो नातीतो नानागतो । अथ खु वर्तमानो येव । पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीये जानन्तीये संभोजनीये कुले अनुपखज्जे शय्यां कल्पयितुं ।

अथ दानि ज्ञायते अयं मनुष्यः श्राद्धो आलप्तको वा किञ्चापि अनुपखज्जो शय्यां कल्पयन्ति अनापखज्जो शय्यां कल्पयति अनापत्तिः । तेन भगवान् आह ।

या पुन भिक्षुणी जानन्ती संभोजनीये कुले अनुपखज्जे शय्यां कल्पयेद् अन्यत्र समये पाचत्तिकं । तत्रायं समयो वातसमयो वृष्तिसमयो पुरुषाशङ्कितसमयो । अयम् अत्र समयो ।रा ॥

पाचत्तिकधर्म 118

अध्वानं

232. भगवान् श्रावस्तीयम् विहरति । भिक्षू दानि वैशालीयं वर्षोषिताः श्रावस्तीं प्रस्थिताः भगवतो पादावन्दाः । भिक्षुणीहि श्रुतं भिक्षू किल भगवतो पादवन्दा गमिष्यन्तीति । तायो परिवेणं गत्वा आहंसुः । वन्दाम्य् आर्य श्रुणोमः आर्यमिश्राः श्रावस्तीयं गमिष्यन्ति भगवतः पादवन्दा । आहंसुः । आम किङ् कर्तव्यं । आहंसुः । वयम् अपि गमिष्यामः । आहंसुः । भगवता शिक्षापदं प्रज्ञप्तं न क्षमति भिक्षुणीये सह अध्वानमार्गं प्रतिपद्यितुम् । तायो दानि आहंसुः । कदा पुनर् आर्यमिश्रा गमिष्यन्ति । आहंसुः । अमुकं दिवसं । तायो एकद्विकाय दिवसानि गणयन्ति तदहो गमिष्यन्तीति । तायो दानि प्रकृत्येव कृतभक्तकृत्याः निवासयित्वा प्रावरित्वा पात्रचीवरम् आदाय मार्गे स्थिताः । ते च भिक्षवो तां वेलां प्रस्थिताः । ते तां दृष्ट्वा आहंसुः । आयुष्मन्तो इमायो तायो भगिनीयो शीघ्रशीघ्रं गच्छन्ति । ता अपि भिक्षुणीयो शीघ्रशीघ्रं गच्छन्ति । ते दानि भिक्षू प्रधाविताः । ता अपि भिक्षुणीयो प्रधावितायो । तहिं दानि या भिक्षुणीयो तरुणीयो बलवन्तीयो ताहि ते भिक्षू अनुजविताः । या तंहि जरादुर्बलायो व्याधिदुर्बलायो प्रकृतिसुकुमारायो तायो चे एहि मुषिताः परिपिट्टिताश् च । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । एवं च नाम तवे तिरोराज्यन् तिरोजनपदं असार्थिका प्रक्रमथ । तेन हि न क्षमति तिरोराज्यां तिरोजनपदम् असार्थिका चारिकां प्रक्रमितुं । यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी तिरोराज्यं तिरोजनपदं असार्थिका चारिकां प्रक्रमेय पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । तिरोराज्यन् ति परराज्यं । तिरोजनपदन् ति परजनपदं । असार्थिका ति सालो नाम गृहि सार्थो वा प्रव्रजितसार्थो वा शकटसार्थो वा पर्येषितव्यो । चारिका ति अन्यत्र प्रक्रमति । पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी असार्थिका चारिकां प्रक्रमति । यदा मार्गो निस्तीर्णो भवति पाचत्तिकं । अथ दानि सार्थेण सार्धं गच्छन्ति । समं प्रस्थिताः विषमं प्रविशन्ति विनयातिक्रमम् आसादयन्ति । विषमं प्रस्थिताः समं प्रविशन्ति विनयातिक्रमम् आसादयन्ति । समं प्रस्थिताः समं प्रविशन्ति अनापत्तिः । विषमं प्रस्थिताः विषमं प्रविशन्ति पाचत्तिकम् आसादयन्ति ।

भिक्षुर् अपि असार्थिको सभयं सप्रतिभयं साशङ्कसम्मतं मार्ग प्रतिपद्यति विनयातिक्रमम् आसादयति । तेन भगावन् आह ।

या पुन भिक्षुणी तिरोराज्यन् तिरोजनपदम् असार्थिका चारिकां प्रक्रमेय पाचत्तिकं ॥ ग्रा ॥

पाचत्तिकधर्म 119

उद्यानं

233. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि स्त्रीभिः सह उद्यानभूमिं निर्गताः । स्त्रियो खादन्ति च पिबन्ति च । तत्र भिक्षुण्यः स्त्रीवेषेण चङ्क्रमन्ति आरामगृहकानि वनगृहकानि चित्रगृहकानि नीरीक्षन्तीयो । तायो दानि गूढे प्रदेशे पुरुषेहि विहेठिताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह ।

अन्तोराज्यं कं पि च भवति अन्तोराष्ट्रं । तत्र च भिक्षुणी आरामगृहकानि वा वनगृहकानि वा चित्रगृहकानि वा दर्शनाय गच्छेत् पाचत्तिकं ।

अन्तोराज्यं कंपि भवतीति स्वराज्यं । अन्तोराष्ट्रकम् अपीति स्वराष्ट्रं । तत्र च भिक्षुणी आरामगृहकानीति एते दानि भवन्ति । चंपकारामा वा पनसारामा वा अतिमुक्तकारामा वा । वनगृहकानीति एते भवन्ति । न्यग्रोधवना वा द्राक्षावना वा कदलीवना वा दाडिमवना वा मातुलुङ्गवना वा । चित्रगृहकानीति एते भवन्ति सभा वा कूटागारा वा । दर्शनाय गच्छेद् इति प्रेक्षणाय । पाचत्तिकं । यावत् प्राज्ञप्तिः । न क्षमति आरामगृहं वा वनगृहं वा चित्रगृहं वा दर्शनाय गन्तुं । गच्छति विनयातिक्रमम् आसादयति । यदागता भवति तदा पाचत्तिकम् आसादयति । अथ दानि तत्रैव स्त्रीभिः सह चञ्चूर्यते अनापत्तिः । भिक्षुर् अपि आरामगृहं वा वनगृहं वा चित्रगृहं वा दर्शनाय गच्छति यत्र कामोपभोगिनः क्रीडन्ति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।

अन्तोराज्यं कंपि च भवति अन्तोराष्ट्रं पि । तत्र च भिक्षुणी आरामगृहकानि वा वनगृहकानि वा चित्रगृहकानि वा दर्शनाय गच्छेत् पाचत्तिकं ॥8 ॥

पाचत्तिकधर्म 120

रहो

234. भगवान् वैशालीयम् विहरति । सुजाता नाम भिक्षुणी आयुष्मतो उदायिष्य पुराणद्वितीया । ताय दानि तस्य दूतेन प्रेषितो । एहि त्वं मम ओहेय्यकवारो भविष्यति । सहितका आसिष्यामः । यदा तायो भिक्षुणीयो गोचरं प्रविष्टाः तदायुष्मान् उदायी कालस्यैव निवासयित्वा प्रावरित्वा पात्रचीवरम् आदाय तहिं प्रविष्टो । ते दानि विहारस्य पश्चात् वस्तुके अम्बरीयकेण निषण्णा रक्तचित्ता कर्मण्येनाङ्गजातेन अन्यमन्यस्य अङ्गजातानि निध्यायत्ता आसन्ति । अपरा दानि भिक्षुणी महल्लिका उच्चारकर्माय वा प्रस्रावकर्माय वा पश्चाद् वस्तुकं गता । ताय दृष्टो । सा दानि व्रीडिता प्रत्योसक्किता । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् आम भगवन् । भगवान् आह । दुष्कृतन् ते सुजातिके यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी भिक्षुणा सार्धं एका एकेन रहो निषद्यां कल्पयेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । एका एकेनेति सा च भवति अन्यो च तत्र भोति । सुप्तो मत्तो उन्मत्तोत्क्षिप्तचित्तो वेदनाभिन्नो उत्तानशय्याको अमानुषो तिर्यग्योनिगतो । एवम् अप्य् एषा एका एकेन । रहो ति मिथो । निषद्यां कल्पयति । सहितका आसेयुः । पाचत्तिकं । पेयालं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी भिक्षुणा सार्धं सकृन् निसण्णा दिवसम् पि निषीदति एकं पाचत्तिकम् आसादयति । अथ दानि पुनो पुनो उच्छति च निषीदति च तत्तिका पाचत्तिकम् आसादयति । अथ दानि द्वे जना भवन्ति एको विहारं प्रविशति कस्यचिद् अर्थाय भिक्षुणीय शीघ्रम् उत्थिहितव्यं । नापि दानि सहस्राम् आजानेय मां एषा विहेठयितुकामा ति । अथ खु प्रतिसंवेदितव्यं । उत्थास्याम्य् अहं । आह । कस्यार्थाय । वक्तव्यं । एकाये एकेन स्थातुं । सो एषो ऊनसप्तवर्षो चेल्लको भवति । सो आसादनाय न मोचनाय केत्तावता अन्तरेणापत्तिर् भवति । येनान्तरेणानभिसंस्कृता भिक्षा दीयते । अथ दानि आकीर्णजनमनुष्यो भिक्षुणी उपाश्रयो भवति निष्क्रमन्ति च प्रविशन्ति च स्थपतिवर्धकिचित्रकराः किञ्चापि तेहि कल्पियकारेहि आसति अनापत्तिः । अथ दानि रथ्यामुखं द्वारं भवति अवीचिः स्त्रियो च पुरुषा च गच्छन्ति अकिञ्चापि तेहि कल्पियकारेहि आसति अनापत्तिः । अथ दानि अन्तरावीचिः छिन्ना भवति पाचत्तिकं । कल्पियकारो प्रवलायति अच्छटिकाय बोधयितव्यो । अथ दानि द्वे भूमके कल्पियकारो तिष्ठति त्रयाणाम् अन्यतमान्यतरं पश्यत्य् अनापत्तिः । तत्र वायो वा वेमान्तरेण त्रयाणाम् अन्यतमान्यतरं पश्यत्य् अनापत्तिः । अस्ति दर्शनोपविचारो न श्रमणोपविचारो । अस्ति श्रमणोपविचारो न दर्शनोपिविचारो । अस्ति दर्शनोपविचारो च श्रमणोपविचारो च । अस्ति नैव दर्शनोपविचारो न श्रमणोपविचारः । किन् ति दानि अस्ति दर्शनोपविचारो न श्रमणोपविचारः । प्राकृतेन चक्षुषा पश्यति भिक्षुर् एषो आसति भिक्षुणी वेति नो तु प्राकृतेन श्रोत्रेण तयोर् आयं शृणोति । एवं चतुष्को योजयितव्यः । यावद् एषा आपत्तिः । ग्रामे वारण्ये वा रात्रौ वा दिवा वा छन्ने वा अभ्यवकशे वा एकस्य न महाजने सन्तिके न दूरे । तेन भगवान् आह । या पुन भिक्षुणी भिक्षुणा सार्धं एका एकेन रहो निषद्यां कल्पयेत् पाचत्तिकं ॥0 ॥ पाचत्तिकधर्म 121

पुरुष

235. भगवान् श्रावस्तीयम् विहरति । भद्रा दानि कापिलेयी ज्ञातिकुलं गता भ्रातृकेहि भ्रातृपुत्रकेहि मातुलेहि मातुलपुत्रकेहि सार्धं एका एकेन सह तिष्ठति । भिक्षुणीयो दानि पिण्डपातं अण्वन्तीयो दृष्ट्वा ओज्झायन्ति । किन् तावद् इमाये प्रव्रजिताये पुरुषेण सार्धं एकाय एकेन रहो निषीदितुं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आहंसुः । यावद् भगवान् आह । शब्दापयथ भद्रां । सा दानि शब्दापिता । तद् एव सर्वं पृच्छीयति । यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति । एकाये एकेन पुरुषेण सार्धं रहो निषीदितुं यावद् भगवान् अह ।

या पुन भिक्षुणी पुरुषेण सार्धं एका एकेन रहो निषद्यां कल्पेय पाचत्तिकं ।

या पुन भिक्षुणी उपसम्पन्ना । पुरुषेण सार्धं एका एकेनेति सा च भवति यावद् एवम् अप्य् एषा एका एकेन । रहो ति मिथ्या । निषद्यां कल्पेया ति सहितका आसेयुः । पाचत्तिकं यावत् प्रज्ञप्तिः सा एषा भिक्षुणी पुरुषेण सार्धं सन्निषण्णा दिवसन् निषीदति एकं पाचत्तिकम् आसादयति । एवं विस्तरेण यथैव भिक्षुणा । तेन भगवान् आह ।

या पुन भिक्षुणी पुरुषेण सार्धं एका एकेन रहो निषद्यां कल्पेय पाचत्तिकं ॥लृं ॥

पाचत्तिकधर्म 122

उपकर्णकेन

236. भगवान् श्रावस्तीयम् विहरति । अथ भद्रा दानि कापिलेयी ज्ञातिकुलं गता । भ्रातृदुहितृपुत्रेहि मातुलपुत्रेहि सह अन्तो हस्तपाशस्य तिष्ठति संलपति उपकर्णकं जल्पति । भिक्षुणीयो दानि ओज्झायन्ति । किन् तावद् इमाये प्रव्रजिताये उपकर्णकं जल्पितेन ।

अवश्यम् एषा अस्माकम् अर्थाय जल्पति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आहंसुः यावत् ।

या पुन भिक्षुणी पुरुषेन सार्धं अन्तो हस्तपाशस्य संतिष्ठेय वा संलपेय वा उपकर्णम् वा जल्पेय पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । पुरुषेण सार्धम् इति गृहस्थेन वा प्रव्राजितेन वा । अन्तो हस्तपाशं ति व्यायामाभ्यन्तरे तिष्ठेय । संलपतीति किञ्चि जल्पेय । उपकर्णकं जल्पेया ति कर्णकल्पिकम् जल्पेय । पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीय पुरुषेण सार्धं अन्तो हस्तपाशस्य तिष्ठतुम् वा सम्लपितुम् वा उपकर्णकम् वा जल्पितुम् वा । अथ दानि किं जल्पितव्यं भवति । परं हस्तपादा स्थिताय जल्पयितव्यं । अथ दानि गुह्यं जल्पितव्यं भवति भित्तिम् वा कुड्यम् वा स्तम्भम् वा वृक्षम् वा यमनिकाम् वा अन्तरीकृत्वा जल्पयितव्यं । सा एषा भिक्षुणी पुरुषेण सार्धम् अन्तो हस्तपाशस्य तिष्ठति वा संलपति वा उपकर्णकम् वा जल्पति पाचत्तिकं । भिक्षुर् अपि स्त्रिया सार्धं अन्तो हस्तपाशस्य तिष्ठति वा संलपति वा उपकर्णम् वा जल्पति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।

या पुन भिक्षुणीपुरुषेण सार्धं अन्तो हस्तपाशस्य सन्तिष्ठेय वा संलपेय वा उपकर्णं वा जल्पेय पाचत्तिकं ॥1 ॥ उद्दानं ।

छत्र [1(112)], मञ्च [2(113)], एकास्तरणा [3(114)] । प्रक्रमति [4(115)], प्रविशति [5(116)] । समनुष्य [6(117)], अध्वानं [7(118)], उद्यानम् [8(119)] । रहो [9(120)], पुरुष [10(121)], उपकर्णकेन [11(122)] ॥ द्वादशमो मा (व)र्गः ॥

पाचत्तिकधर्म 123

उपसंक्रमति

237. भगवान् वैशालीयम् विहरति । अथ भद्रा दानि कापिलेयी ज्ञातिकुलं गत्वा पुत्रभ्रातृभागिनेयानां रहो गतानां अन्धकारे अप्रतिसम्विदिता सहसा छत्ति प्रविशति । ते दानि तहिं वेडा भवन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गुअतमीये आरोचयेंसुः । पेयालं । यावद् आम भगवन् । भगवान् आह । एवं नाम त्वं जानन्ती सपुरुषम् आवासं अन्धकारे अप्रदीपिका उपसंक्रमसि । तेन हि न क्षमति एतद् एव यावत् पर्यवदातानि भविष्यन्ति

या पुन भिक्षुणी जानन्ती सपुरुषम् आवासम् अन्धकारे अप्रदीपिका उपसंक्रमेय पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय । सपुरुषो ति यहिं पुरुसो ति यहिं पुरुषो भवेय अन्धकारे अप्रदीपिकेति यहिन् न स्यात् तैलप्रदीपो वा कण्डोल्का वा । उपसंक्रमेय ति प्रविशेत पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीय सपुरुषम् आवासम् अन्धकारे अप्रदीपिकाय उपसंक्रमितुं । अथ दानि किञ्चित् कार्यं भवति यदि तहिं उच्चशब्दो भवति प्रविशत्य् अनापत्तिः । अथ दानि अग्निर् न भवति प्रतिसंवेदयितव्यो । अच्छटिका वा कर्तव्या उक्कासितव्यम् वा । यद्य् आह प्रविशेति प्रविशितव्यं । स एषा भिक्षुणी नैव प्रतिसंवेदयति नाच्छटिकां करोति उपसंक्रमति पाचत्तिकम् आसादयति ।

भिक्षुर् अपि सस्त्रीकम् आवासम् अन्धकारे अप्रतिसंविदितो उपसंक्रमति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।

या पुन भिक्षुणी जानन्ती सपुरुषम् आवासम् अन्धकारे अप्रदीपिका उपसंक्रमेय पाचत्तिकं ॥

पाचत्तिकधर्म 124 विशोको

238. भगवान् राजगृहे विहरति । तायो दानि षड्वर्गिणो भिक्षुणीयो गिर्यग्रसमाजं गच्छन्ति । ता दानि तहिं गत्वा पृथग् मञ्च गृह्णन्ति नटो नाटयति सप्रहासं वस्तुपदा नाटितम् भवति । सर्वो जनो हसति । तायो दानि तूष्णीकास् तिष्ठन्ति योगाचरा इव । यदा प्रशान्तम् भवति नाटकम् अवतारितं भवति । ततो तायो अट्टहासं मुञ्चन्ति । सर्वो जनो ततो सुखो भोति । जनो दानि ओज्झायति । अतिहास्यं इमासां श्रमणिकानां । ते दानि विचक्षु कृता नेलाटिकं न प्रयच्छन्ति । ओज्झायन्ति । इमासाम् श्रमणिकानां बाहनेलाटिकं न लभामः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् आम भगवन् भगवान् आह । तेन हि न क्षमति विशोकदर्शनाय गन्तुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।

या पुनर् भिक्षुणी विशोकदर्शनाय गच्छेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । विशोकम् इति नटनर्तनकसल्लमल्लपाणिस्वरिकाः कुम्भभूमीराः अन्तमसतो यहिं चत्वारो पि जनाः सन्निपतन्ति क्रीड्यार्थं तहिं दर्शनाय गच्छन्ति । पाचत्तिकं यावत् प्रज्ञप्तिः । न दानि क्षमति विशोकदर्शनाय गन्तुं । अथ दानि भिक्षुणी पिण्डचारम् अण्वति पश्यति देवयानं निष्क्रमन्तं राज्ञो ऽन्तःपुरं निष्क्रान्तं दानि शक्यम् अक्षीणि निमीलयितुं किञ्चापि पश्यति अनापत्तिः । अथ दानि आभोगं करोति इमे पश्यामि इतो पश्यामीति पाचत्तिकं । अथ दानि भगवतो माल्यारोपणं भवति उपासकोपासिका आहंसुः । आर्यमिश्रिकाहि शोभा भावयितव्यं । सामग्री दातव्येति लभ्या सामग्री दातुं । अथ दानि तहिं कोचिच् चित्तस्य विकारो भवति न क्षमति स्थातुं । भिक्षुर् अपि विशोकदर्शनाय गच्छति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।

या पुन भिक्षुणी विशोकदर्शनाय गच्छेत् पाचत्तिकं ॥

पाचत्तिकधर्म 125

कलहो

239. भगवान् श्रावस्तीयम् विहरति । अथ खलु महाप्रजापती गौतमी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां विहरन्तीनां वृषभी समाना अधिकरणानि न व्युपशमयति न व्युपशमापयति न व्युपशमनायौत्सुक्यं करोति । एतं प्रकरणं भिक्षुणीयो भगवतो आरोचयेम्सुः । यावद् भगवान् सर्वं पृच्छति । यावद् आम भगवन् । भगवान् आह । एवं नाम त्वं भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां वृषभी समाना अधिकरणानि न व्युपसमयसि न व्युपसमापयसि न व्युपसमनायौत्सुक्यं करोसि । तेन हि न क्षमति । अथ खलु यावत् पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां विहरन्तीनां वृषभी समना अधिकरणानि न व्युपशमयेन् न व्युपसमापयेन् न व्युपसमनायौत्सुख्यं कुर्यात् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । कलहजातानाम् इति वाचाकलहं कुर्वन्तीनां वातयुक्तं मम युक्तम् इत्य् आदि । भण्डनजातानाम् इति अन्यमन्यं मम घटनं कुर्वन्तीनां । विग्रहविवादम् आपन्नानां विहरन्तीनाम् इति तद्यथा । धर्मो अधर्मो विनयो अविनयो । आपत्तिर् अनापत्तिः । गुरुका लघुका सप्रतिकर्मा अप्रतिकर्मा सावशेषा निरवशेषा । धर्मकर्म अधर्मकर्म समग्रकर्म व्यग्रकर्म यावत् स्थानार्हं कर्म इति विहरन्तीनां । वृषभी समाना ति प्रभू समाना । अधिकरणानि न व्युपसमयेद् इति स्वयन् । न व्युपसमापयेद् इति परेहि । न व्युपसमानायौत्सुक्यं कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः । एता दानि भिक्षुणीयो कलहजाता भण्डनजाता विग्रहविवादम् आपन्ना विहरन्ति न दानि क्षमति तायो अद्युपेक्षितुं । अथ खु व्युपसमितव्याः व्युपसमापयितव्याः । औत्सुक्यं कर्तव्यं उपसमनाय प्रत्याशंसितव्यं परस्परं क्षमापयितव्याः प्राप्तकालं यथारूपं परिभाषयितव्याः समग्रीकर्त्व्याः । अथ दानि न शक्नोति अन्या भिक्षुणी अध्येसितव्या उद्योजयितव्या उपासकोपासिकायो भिक्षुभिक्षुणीयो । अथ तान्य् अधिकरणानि कर्क्कशानि भवन्ति दुर्व्युपसमानि तेषाम् एव अधिकरणानां कालम् आगमयति समयम् आगमयति परिपाकम् आगमयति । कालं च समयम् च परिपाकं चागम्य व्युपशमयत्य् अनापत्तिः भिक्षुर् अपि भिक्षूणां कलहजातानां भण्डणजातानां विग्रहविवादम् आपन्नानाम् विहरन्तानां वृषभो समानो अधिकरणानि न व्युपशमयति न व्युपसमापयति न व्युपसमानायौत्सुक्यं करोति विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां विहरन्तीनां वृषभी समाना अधिकरणानि न व्युपसमयेन् न व्युपसमापयेन् न व्युपसमानायौत्सुक्यं कुर्यात् पाचत्तिकं ॥3 ॥

पाचत्तिकधर्म 126

उद्वर्तनं

240. भगवान् वैशालीयम् विहरति । भद्रा दानि कापिलेयी ज्ञातिकुलं नीयते उद्वर्तनाय स्नापनाय गृहपतिनीहि नीयते । वयम् आर्याम् उद्वर्तयामः स्नापयिष्यामः अस्माकं पुण्यं भविष्यति । केचित् प्रसादेन केचिद् अङ्गयष्टिं पश्यितुकामाः । सा दानि प्रासादिका दर्शनीया । कौतूहलजातिको मातृग्रामः । वर्णलोलां उद्वर्तयन्ति कालेयकेन तुङ्गेयकेन स्वङ्गकेन पद्मकेन गन्धचूर्णेहि । सा पि दानि अधिवासयति । भिक्षुणीयो दानि ओज्झायन्ति । पश्य्थार्यमिश्रिकायो अद्यापीयं प्रव्रजिता महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् आम भगवन् । भगवान् आह । एवन् नाम त्वं गृहिणीनाम् उद्वर्त्नपरिमर्दनस्नापनसम्मतेन उद्वर्तापयसि । तेन हि न क्षमति । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।

यानि खलु पुनर् इमानि गृहिणीनाम् उद्वर्तनपरिमर्दनस्नापनसम्मतानि तथारूपेहि भिक्षुणी अगिलाना उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ।

यानि खलु पुनर् इमानि गृहिणीनम् इति क्षत्रियकन्यकानां ब्राह्मणकन्यकानां गृहपतिकन्यकानां । उद्वर्तनपरिमर्दनस्नापनसम्मतानीति कालेयकम् वा तुङ्गेयकम् वा चिक्कसम् वा । यद्य् एको वा तेहि भिक्षुणीहि अगिलाना उद्वर्तापयेत् । किन् तावद् अत्र गैलान्यम् अभिप्रेतं जरादुर्बला वा व्याधिदुर्बला वा भवति उद्वर्तापयत्य् अनापत्तिः । उद्वर्तापयेद् इति परिमर्दापयेत् पाचत्तिकं । अथ दानि गण्डम् वा पिटकम् वा भवति लभ्या भैषज्येहि उद्वर्तापयितुं परिमर्दापयितुं । अथ दानि पित्तसंक्षोभो भवति लभ्या चिक्कसेनालिंपितुं । अथ दानि वातसंक्षोभो भवति लभ्या गोधूमचिक्कसेनालिंपितुं । अथ दानि सन्निपातो भवति संयुक्तेहि भैषज्येहि उद्वर्तापयितव्यं परिमर्दापयितव्यं आलिंपितव्यं । ताय पि दानि आलिंपिय न क्षमति अभ्यागमे प्रदेशे स्थातुं । अथ खलु प्रतिगुप्ते प्रदेशे स्थातव्यं । यदावर्त भवति तदा उद्वर्तयित्वा निष्क्रमितव्यं । भिक्षुर् अपि अगिलानो चिक्कसेनोद्वर्तापयेत् परिमर्दापयेद् विनयातिक्रमम् आसादयति । तेन भगवान् आह ।

या पुन भिक्षुणी गृहिणीनाम् उद्वर्तनपरिमर्दनस्नानसम्मतेहि उद्वर्तापयेत परिमर्दापयेत पाचत्तिकं ॥

पाचत्तिकधर्म 127

भिक्षुणी

241. भगवान् वैशालीयम् विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तं न क्षमति गृहिणीनाम् उद्वर्तनपरिमर्दनस्नानसम्मतेहि उद्वर्तापयितुं परिमर्दापयितुं । सा दानि भद्रा भिक्षुणीहि उद्वर्तापयति परिमर्दापयति । भिक्षुणीयो दानि ओज्झायन्ति । पेयालं । यावद् भगवान् आह ।

या पुन भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीयेति उपसम्पन्नाय । अगिलाना ति किन् तावद् अत्र गैलान्यम् अभिप्रेतं जरादुर्बला वा व्याधिदुर्बला वा भोति । प्रत्युद्धृतं भगवता अनापत्तिः गिलानाय । उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयति न परिमर्दापयति विनयातिक्रमः । परिमर्दापयति नोद्वर्तापयति विनयातिक्रमः । उभयं करोति पाचत्तिकं । नोभयम् अनापत्तिः । भिक्षुर् अपि अगिलानो भिक्षुणा उद्वर्तापयति परिमर्दापयति विनयातिक्रमः । तेन भगवान् आह ।

या पुन भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ॥ फु ॥

पाचत्तिकधर्म 128

श्रामणेरि

एवं एव श्रामणेर्या नास्ति नानाकरणं । तेन भगवान् आह । या पुन भिक्षुणी अगिलाना श्रामणेरीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ॥ फु ॥

पाचत्तिकधर्म 129

शिक्षमाणा

एतद् एव शिक्षमाणायाः । शिक्षमाणा नाम अष्टादशहि वर्तेहि द्वे वर्षाणि शिक्षमाणा यावत् । तेन भगवान् आह ।

या पुन भिक्षुणी अगिलाना शिक्षमाणाय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ॥ग्रा ॥

पाचत्तिकधर्म 130

गृहिणी

एतद् एव गृहिणीय । नास्ति नानाकरणं । गृहिणीति गृहस्था । तेन भगवान् आह ।

या पुन भिक्षुणी अगिलाना गृहिणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ॥ ह्रा ॥

पाचत्तिकधर्म 131

विशुद्धिसंवासेन

242. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि सन्निपतिताः पोषध कर्माय । जेता नाम भिक्षुणी । सा नागच्छति । ताये दूतो ऽनुप्रेषितो । आर्ये आगच्छाहि भिक्षुणीयो सन्निपतिताः पोषधकर्माय । सा दान् आह । भगवता विशुद्धस्य विशुद्धिपोषधः प्रज्ञप्तः । यावतिका का विशुद्धा अहन् तासाम् अन्यतमासां तत्र नागच्छामि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते जेते । त्वञ् च नाम पोषधन् न सत्करोषि । का अन्या सत्करिष्यति को च पोषधस्य सत्कारो । अगिलानाय उपसंक्रमितव्यं । गिलानाय छन्दो दातव्यो । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी अन्वर्धमासंअगिलाना विशुद्धिसंवासं न सत्करेय पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । अन्वर्धमासं विशुद्धिसंवासं ति चातुर्दशिकेन वा चातुर्दशिकं पाञ्चदशिकेन वा पाञ्चदशिकं । अगिलाना पोषधन् न सत्कारोति । किन् दानि अत्र गैलान्यम् अभिप्रेतं । एषा भवति जरादुर्बला वा व्याधिदुर्बला वा शिराविद्धिका वा भवति असुखा भैषज्यं वा पीतम् भवति । घृतं वा पीतम् भवति । छन्दो दातव्यो ।

सा एषा भिक्षुणी अगिलाना पोषधन् न गच्छति । गिलाना वा छन्दन् न देति पाचत्तिकं ।

भिक्षुर् अपि अगिलानो नैव पोषधं गच्छति न च्छन्दन् देति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।

या पुन भिक्षुणी अन्वर्धमासं अगिलाना विशुद्धिसंवासन् न सत्करेय पाचत्तिकं ।

उद्दानं ।

उपसंक्रमति [1(123)] । कलहो [3(124)] । विशोको [2(125)] । उद्वर्तनं [4(126)] । भिक्षुणी [5(127)] । श्रामणेरी [6(128)] । शिक्षमाणा [7(129)] । गृहिणीय [8(130)] । विशुद्धिसंवासेन [9(131)] ॥

पूर्यते त्रयोदशमो वर्गः ॥

पाचत्तिकधर्म 132

ओवादोपसंक्रमणं विशुद्धिपोषधं

243. भगवान् श्रावस्तीयम् विहरति । थेरभिक्षू पर्यायेण भिक्षुणीयो ओवदन्ति । ते दानि आयुष्मन्तो षड्वर्गिकाः ओवादकवारं न लभन्ति । ते दान् आहंसुः । न एते युष्माकं ओवादकवारं दास्यन्ति । कस्य दानि वयम् ओवादकवारं गच्छामः । ते दान् आहंसुः । आयुष्मां च्छारिपुत्रः स खिलो च मृदुको च । विस्तारेण यावद् भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति असम्मतेन भिक्षुणा भिक्षुणीयो ओवदितुं । एष निःसीमं गत्वा परस्परं सम्मन्यामः । ते दानि निःसीमं गत्वा अन्यमन्यं संमन्यित्वा कल्यतो येव निवासयित्वा प्रावरित्वा च भिक्षुणी उपाश्रयं गत्वा आहंसुः । सन्निपतथ भगिनीयो ओवादो भविष्यति । यायो षड्वर्गिणीयो तायो ऽच्छन्ति सन्निपतिताः । यायो योगाचारायो भिक्षुणीयो तायो न सन्निपतन्ति । आहंसुः । किम् अर्थम् वयम् एषाम् अविनीतानाम् अववादं गमिष्यामः । ते दानि ताहि सह मुहूर्तम् अन्तरं काकवंहा भञ्जित्वा गताः । आयुष्मान् दानि शारिपुत्रो कालस्यैव निवासयित्वा पात्रचीवरम् आदाय आयुष्मता आनन्देन पश्चाच् छ्रमणेन सार्धं विस्तरेण । यावद् आह । सन्निपतथ भगिनीयो ओवादो भविष्यति । यायो भिक्षुणीयो योगाचाराः तायो ऽच्छन्ति सन्निपतितायो । षड्वर्गिणीयो भिक्षुणीयो नागच्छन्ति । थेरो पृच्छति । समग्रो हि भिक्षुणीसंघो । आहंसुः । नहि को नागच्छति । आहंसुः षड्वर्गिणीयो । तासान् दूतः प्रेषितो । आगच्छथ भगिनीयो ओवादो भविष्यति । ता दान् आहंसुः । न वयम् आगमिष्यामः । ओवदिता वयम् आर्यमिश्रकेहि षड्वर्गिकेहि अन्यविहितकेन ओवादेन । अथायुष्मान् शारिपुत्रो व्यग्रो भिक्षुणीसंघो ति कृत्वा उत्थायासनातो प्रक्रान्तो । भगवान् जानन्तो येव पृच्छति किन् दानि गौतमी माता

शीघ्रम् आगतो सि । ओवदिता भिक्षुणीयो । आह । अहं भगवन् कालस्यैव निवासयित्वा यावद् भिक्षुणीउपाश्रयं प्रविष्टो ओवदितुं मयोक्तं सन्निपतथ भगिनीयो ओवादो भविष्यति । यायो योगाचारायो भिक्षुणीयो तायो ऽच्छन्ति सन्निपतितायो । यायो षड्वर्गिणीयो भिक्षुणीयो ता न सन्निपतन्ति । अहं जल्पामि समग्रो भिक्षुणीसंघो । आहंसुः । नहि । को नागच्छति । आहंसुः षड्वर्गिणीयो । तासान् दूतः प्रेषितः । आगच्छथ भगिनियो ओवादो भविष्यति । आहंसुः । न वयम् आगमिष्यामः ओवदिता वयम् आर्यमिश्रिकेहि षड्वर्गिकेहि अन्यविहितकेन ओवादेन । अहं पि भगवन् व्यग्रो भिक्षुणीसंघो ति कृत्वा उत्थायासनातो सन्निर्गतो । भगवान् आह । शब्दापयथ षड्वर्गिणीयो भिक्षुणीयो । ता दानि शब्दापिताः । तद् एव सर्वं भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । दुष्कृतं वो षड्वर्गिणीयो यावत् पर्यवदातानि भवन्ति ।

या पुन भिक्षुणी अन्वर्ध मासं भिक्षुसंघे ओवादोपसंक्रमणं न सत्करेय पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । अन्वर्धमासन् ति चातुर्दशिकेन वा चातुर्दशिकं । पाञ्चदशिकेन वा पाञ्चदशिकं । भिक्षुसंघे ओवदोपसंक्रमणं न सत्करेय पाचत्तिकं यावत् प्रज्ञप्तिः । अथ दानि जरादुर्बला वा व्याधिदुर्बला वा घृतपीतिका वा भवति वक्तव्यं । ओवादस्य छन्दन् देमि त्रिक्खत्तो । सा एषा भिक्षुणी अगिलाना ओवादोपसंक्रमणं न गच्छति गिलाना वा छन्दन् न देति पाचत्तिकम् आसादयति । यदा पोषधो भवति तदा च्छन्दहारिकाहि भिक्षुविहारङ् गत्वा वक्तव्यं । समग्रो भिक्षुणीसंघो समग्रस्य भिक्षुसंघस्य पादां च्छिरसा वन्दति पोषधञ् च प्रतीच्छति अववादं च याचति एवं त्रिक्खत्तो याचितव्यं । यदि तावत् कोचिद् भिक्षुणीओवादको भवति वक्तव्यं । एष भगिनीयो ओवादको आगमिष्यति । अथ न कोचिद् भवति यो तंहि अङ्गोपेतो भवति सो संमन्यितव्यो । अथ न कोचिद् वक्तव्यं । नास्ति भगिनीयो भिक्षुणीओवादको अप्रमादेन संपादेथ आपत्तिञ् च पोषधं प्रतिजाग्रथ सगौरवा च भवथ स्थविरेहि भिक्षूहि मध्येहि नवकेहीति । तेन भगवान् आह ।

या पुन भिक्षुणी अन्वर्धमासं विशुद्धिपोषधं न सत्करेय पाचत्तिकं ॥

पाचत्तिकधर्म 133

गण्डम् वा पिटकम् वा

244. भगवान् राजगृहे विहरति । जेताये भिक्षुणीये संबाधे प्रदेशे गण्डम् उत्पन्नं । ताये अन्तेवासिनीयो गोचरञ् गतायो । हिण्डिकवैद्यो आगतो । सा दान् आह । दीर्घायुः शक्यसि मम शस्त्रकर्म कर्तुं । सो दान् आह । बाढं । सो दानि पाटयित्वा धोवायित्वा उपनाहयित्वा गतो । तायो भिक्षुणीयो आगतायो । ताहि दानि सो प्रदेशो दृष्टो पूयम्रक्षितो । ता दान् आहंसुः । आर्ये किम् इदं । आह । शस्त्रकर्म कारितं । आहंसुः । साहसम् आर्याय कृतं संबाधे प्रदेशे शस्त्रकर्म कारयन्तीय । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् आम भगवन् । भगवान् आह । एवं च नाम त्वं उपरि जानुमण्डलाभ्यां अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यं अनवलोकयित्वा संघं शस्त्रकर्म कारापयसि । तेन हि न क्षमति । पेयालं । यावत् ।

या पुन भिक्षुणी उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यं अनवलोकयित्वा संघं पुरुषेण पातापयेद् वा धोवापयेद् वा उपनाहापयेद् वा पाचत्तिकं ॥

या पुन भिक्षुणीति उपसम्पन्ना । उपरि जानुमण्डलाभ्याम् इति ऊरुनाभिभ्यां । अधो कक्षाभ्याम् इति स्तनोदरस्य । गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यन् ति भिक्षुणी वक्तव्यो शस्त्रकर्म कारापयिष्यन् ति ।

अनवलोकयित्वा संघा ति संघमध्ये अवलोकना कर्तव्या । शृणोतु मे आर्या संघो यदि संघस्य प्राप्तकालं इत्थन्नामा भिक्षुणी शस्त्रकर्म कारापेय । कारापयिष्यति आर्या संघो इत्थन्नामा भिक्षुणी शस्त्रकर्म । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।

पुरुषेणेति गृहस्थेन वा प्रव्रजितेन वा पाटापयेद् वा धोवापयेद् वा उपनाहापेय वा ति यथा जेता भिक्षुणीति पाचत्तिकं यावत् प्रज्ञप्तिः । अथ दानि संबाधे प्रदेशे गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति अन्तेवासिनीये वा समानोपाध्यायिनीये वा समानाचार्याये वा यस्या विश्वासो ताय आख्यातव्यं । कण्टकेन वा नखेन वा भेदापयितव्यं भैषज्येन वा आलिम्पापेयतव्यं अथ दानि अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् भवति गण्डम् वा पिटकम् वा क्षतम् वा पुरुषेण पाटापयति वा धोवापयति वा उपनाहापयति वा एवम् शिराम् वा वेधापयति नेलाटिकम् वा बाहुशिराम् वा गुल्फशिराम् वा अपराय भिक्षुणीय आक्रमितव्या तेन भगवान् आह ।

या पुन भिक्षुणी उपरि जानुमण्डलाभ्यां अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यं अनवलोकयित्वा संघं पुरुषेण पाटापयेद् वा धोवापयेद् वा उपनाहापयेद् वा पाचत्तिकं ॥

पाचत्तिकधर्म 134

वर्षोपगता

245. भगवान् श्रावस्तीयम् विहरति । अथ काली नाम भिक्षुणी वर्षोपगता सांघिकं विहारं बन्धित्वा चारिकां प्रक्रान्ताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् आम भगवन् । भगवान् आह । दुष्कृतम् ते कालि एवन् नाम त्वं वर्षोपगतानां चारिकां प्रक्रमसि । तेन हि न क्षमति वर्षोपगताय चारिकां प्रक्रमितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी वर्षोपगता चारिकां प्रक्रामेय पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । वर्षा ति वर्षारात्रं । उपगता ति पुरिमिकां पश्चिमिकाम् वा वर्षोपनामयिकां उपगता । चारिकां प्रक्रामेया ति अन्यत्र गच्छेय ग्रामान्तरं पि पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी एकरात्रम् पि विप्रवसति पाचत्तिकं । अथ दानि राजभयम् वा सेनाभयम् वा परचक्रभयम् वा जीवितान्तरायो वा ब्रह्मचर्यान्तरायो वा भवेय किञ्चापि गच्छति अनापत्तिः । नास्ति भिक्षुण्या अवलोकनाकर्म सप्ताहं वा किञ्चापि भिकुः अवलोकनाकर्म कृत्वा सप्ताहं वा अधिष्ठिहेय गच्छत्य् अनापत्तिः । तेन भगवान् आह । या पुन भिक्षुणी वर्षोपगता चारिकां प्रक्रमेय पाचत्तिकं ॥3 ॥ पाचत्तिकधर्म 135

वर्षावुस्ता

246. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि श्रावस्तीयं वर्षोषिताः वैशालीम् आगताः । तायो भद्राये कापिलेयीये ज्ञातिकुलं प्रविष्टाः । ता स्त्रियो आहंसुः । कहिं आर्यमिश्रिका वर्षोषिताः । ता दान् आहंसुः । श्रावस्तीयं । आहंसुः । कीदृशी श्रावस्ती । आहंसुः । इदृशी च इदृशी च एवम् आरामरमणीया । एवं । जेतवनं । एवं गन्धकुटी । एवम् भगवान् विहरति । एवम् आर्यमिश्रिका शारिपुत्रमौद्गल्यायनाः । यदि प्रव्रज्या एषा प्रव्रज्या इयं पुनर् अस्माकम् आर्यधीता इहैव जाता । इहैव सम्वृद्धा । नैव कहिञ्चि गच्छति कूपमण्डूक इव तिष्ठति अनिःक्रमा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि वर्षावुस्ताया भिक्षुणीय चारिका प्रक्रमितव्या । यावद् भगवान् आह ।

या पुन भिक्षुणी वर्षावुस्ता चारिकां न प्रक्रमेय पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । वर्षोषितेति वार्षिकां त्रयो मासान् चारिकां न प्रक्रमेया ति अन्तमसतो ग्रामान्तरं पि वा पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी एवं रात्रं पि प्रक्रमति पाचत्तिकं । अथ दानि जरादुर्बला वा व्याधिदुर्बला वा भोति न प्रतिबला गन्तुं किञ्चापि गच्छति अनापत्तिः । भिक्षुर् अपि वर्षावुस्तो चारिकां न प्रक्रमति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।

या पुन भिक्षुणी वर्षावुस्ता चारिकां न प्रक्रमेय पाचत्तिकं ॥ ण्क ॥

पाचत्तिकधर्म 136

उद्वहेय

247. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दाय भिक्षुणीय जेता भिक्षुणी राजगृहं गच्छमानी निवारिता । इहार्याय वर्षा वसितव्या ताय सा कुलेहि सम्वर्णिता । आर्या जेता भद्रिका गुणवती अनुबद्धा ता संवृता च । एताय अधिकारं करोथ सा दानि कुलानि उपसंक्रमति प्रासादिकेन अतिक्रान्तेन प्रतिक्रान्तेन अवलोकितेन व्यवलोकितेन सम्मिञ्जितप्रसारितेन संघाटीपात्रचीवरधारणेन अनुबद्धा अनुन्नडा अचपला अमुखरा अप्रकीर्णवाचा । सा प्रासादिका ति प्रसन्ना देवमनुष्याः । ते तंहि कारां कुर्वन्ति । प्रत्यालपन्ति प्रत्युत्थिहेन्ति निमन्त्रयन्ति पात्रेण चीवरेण ग्लानप्रत्ययभैषज्य परिष्कारेहि । स्थूलनन्दा भिक्षुणि अनाकल्पसंपन्ना अनीर्यापथसम्पन्ना ओमलिनमलिनेहि चीवरेहि पाटितविपाटितेहि वड्डडिङ्गरपुष्टालंबेहि स्तनेहि वड्ढेहि स्फिचकेहि उद्धता उन्नडा चपला मुखरा प्रकीर्णवाचा । ते तस्या न गौरवं कुर्वन्ति न निमन्त्रयन्ति । सा दानि तां उद्वहति कायेन वाचा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । शब्दापयथ नन्दां सा दानि शब्दापिता तद् एव सर्वं पृच्छीयतीति यावद् आम भगवन् । भगवान् आह दुष्कृतं ते नन्दे यावत् ।

या पुन भिक्षुणी भिक्षुणीम् एवम् उक्त्वा इहार्ये वर्षं वसितव्यं इत्य् उक्त्वा पश्चाद् उद्वहेय वा उद्वहापेय वा पाचत्तिकं ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.