Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

भिक्षुणीविनय

Thông tin
GRETIL — Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीम् एवम् वदे इहार्ये वर्षां वसितव्यम् इति त्रयो मासां उक्त्वेति निवारयित्वा पश्चाद् उद्वहेय वा ति कायेन वा वाचा वा स्वयं उद्वहति । उद्वाहापेय वा ति परेण कायेन वा वाचाय पाचत्तिकं । यावत् प्रज्ञप्तिः । न क्षमति निवारयित्वा पश्चाद् उद्वहितुं अथ भवति शिथिलिका वा बाहुलिका वा अशिक्षाकामा वा कलहकारिका वा पश्यति यदीह वशिष्यति आश्रयम् उत्पादयिष्यतीति । किञ्चापि उद्वहति अनापत्तिः । सा एषा भिक्षुणी भिक्षुणीम् उद्वहति पाचत्तिकं । श्रामणेरीम् वा शिक्षमाणां वा उद्वहति विनयातिक्रमः । अन्तमसतो गृहिणी पि उद्वहति सम्वरगामीविनयातिक्रमम् आसादयति ।

या पुन भिक्षुणी येवम् वदित्वा इहार्ये वर्षम् वसितव्यन् ति उक्त्वा पश्चाद् उद्वहेय वा उद्वहापेय वा पाचत्तिकं ॥ तृ ॥

पाचत्तिकधर्म 137

पूर्वोपगतं

248. भगवान् श्रावस्तीयम् विहरति । अथ काली नाम भिक्षुणी । सा उपगच्छति । ता कालं ग्रामान्तरं गता । सा भिक्षुणीहि उपगताहि आगता । तत्र च भिक्षुणीहि विहारोद्देशः शयनासनोद्देशः कृतः । सा दान् आह । आर्ये मह्यं विहारं देथ । सा विहारं न लभति । आहंसुः । कहिं आर्या वर्षोपनायिका कालङ् गता । सा कलहं करोति । अपरा दानि भिक्षुणी योगाचारा । सा दान् आह । आर्ये अयं मम विहारो । अत्र मञ्चकं प्रवेशेहि सहितिका वसिष्यामः । तया तहिं मञ्चको प्रवेशितो । सा काष्ठखण्डा ति यत्र शाखानि प्रवेशयति । सा दान् आह । आर्ये मा विहारे ओविलयं करेहि । सा दान् आह । भद्रायणि किन् त्वया विहारो कृतो किम् विक्रीतो । सांघिको विहारो किम् अर्थं न प्रवेशयिष्यम् । सा उद्वहति कायेनापि वाचाये पि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत् शब्दापयथ कालिं सा दानि शब्दापिता । एतद् एव सर्वं पृच्छीयति । यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते कालि ।

या पुन भिक्षुणी जानन्ती भिक्षुणीं पूर्वोपगतां पश्चाद् आगत्वा उद्वहेय वा उद्वहापेय वा कायेन वा वाचाय वा पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय । भिक्षुणीम् पूर्वोपगताम् इति पुरिमिकायां वर्षोपनायिकायां । पश्चाद् आगत्वेति पश्चिमिकायां । उद्वहेय वा ति स्वयं । उद्वहापेय । वा ति परेण कायेण वा वाचा वा पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणीम् उद्वहति पाचत्तिकं । श्रामणेरीम् वा शिक्षमाणाम् वा उद्वहति देशनागामिविनयातिक्रमम् आसादयति । अन्तमसतो गृहिणीं पि उद्वहति सम्वरगामिविनयातिक्रमः । तेन भगवान् आह ।

या पुन भिक्षुणी जानन्ती भिक्षुणीं पूर्वोपगतां पश्चाद् आगत्वा उद्वहेय वा उद्वहापेय वा कायेन वा वाचा वा पाचत्तिकं ॥ फु ॥

पाचत्तिकधर्म 138

विघसं

249. भगवान् काशिषु विहरति । अपराय दानि भिक्षुणीय उच्चारमल्लकं अप्रत्यवेक्षित्वा रथ्यायां छोरितं । तहिं दानि अपरो ब्राह्मणो शीर्षस्नातो आहतवस्त्रनिवस्त्रो ताय रथ्याय अतिक्रमति । उच्चारमल्लकं तस्य शीर्षे पतितं । तस्य शीर्षं वस्त्राणि च विनाशितानि । जनेन चोपहासितं ब्राह्मण सुस्नातः सुविलिप्तस् त्वम् इति । सो दानि ताम् आक्रोशति । आह । इतिकितिकाय धीते श्रमणिके न पश्यसि मम शीर्षं वस्त्राणि च विष्ठेन विनाशितानि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् आम भगवन् । भगवान् आह । दुस्कृतन् ते एवन् नाम त्वम् अप्रत्यवेक्षिय छोरेसि । तेन हि न क्षमति अप्रत्यवेक्षिय छोरयितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी तिरोकुड्यं उच्चारम् वा प्रास्रावम् वा खेटकम् वा सिंघाणकम् वा विघसम् वा संकारम् वा अप्रत्यवेक्षित्वा छोरयेत् पाचत्तिकं ।

या पुन भिक्षुणीति उपसम्पन्ना । तिरोकुड्यन् ति तिरःप्रकारम् उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा विघसम् वा संकारम् वा वस्त्रधोवनम् वा भाण्डधोवनम् वा केशान् वा नखान् वा । अप्रत्यवेक्षित्वेति अनिरीक्ष्य । छोरेया ति उज्झेय । पाचत्तिकं यावत् प्रज्ञप्तिः । यदि किञ्चित् उज्झितुकामो भवति प्रत्यवेक्षितव्यं । यदि तावद् आकीर्णबहुजनमनुष्या रथ्या भवन्ति आरामयितव्यं । अथ दानि अनाकीर्णा भवन्ति किञ्चापि छोरयत्य् अनापत्तिः । तं पि दानि न क्षमति अशब्दकर्णिकाये छोरयितुं अपि तु अच्छटिका दातव्या उक्कासितव्यम् वा । सा एषा भिक्षुणी नैव प्रत्यवेक्षति नापि अच्छटिकां दत्त्वा छोरयति पाचत्तिकम् आसादयति । भिक्षुर् अपि अप्रत्यवेक्ष्य अच्छटिकाम् अकृत्वा छोरयति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।

या पुन भिक्षुणी तिरोकुड्यं उच्चारम् वा प्रस्रावम् वा खेटं वा सिंघाणकम् वा विघसम् वा संकारम् वा अप्रत्यवेक्ष्य छोरेय पाचत्तिकं ॥ ग्रा ॥

पाचत्तिकधर्म 139, 140

हरित तृणे

उदक 250. भगवान् श्रावस्तीयं विहरति । राज्ञो दानि प्रसेनजितस्य कोशलस्य पूर्वकोष्ठकं नाम उद्यानम् पुष्किरिणीसम्पन्नं । अनावृतं भिक्षूनां भिक्षुणीनां आवृतं इतराये जनताये । राजा दानि आरामिकस्याह । हो भणे आरामिक पूर्वकोष्ठकम् उद्यानं सिक्तसंसृष्टं करेहि । श्वो हं सान्तःपुरो निर्यास्यं । तं दानि षड्वर्गिणीहि श्रुतं । श्वो राजा सान्तःपुरो उद्यानभूमिन् निर्यास्यतीति । तायो दानि प्रतिकृत्य् एव गत्वा तहिं हरितशाद्वलोपस्तराणायां पक्वखेटेन च पक्वसिंघाणकेन च विनाशयित्वा पदुमपत्रेहि उच्चारस्य पुटकानि बन्धित्वा पुष्किरिणीयं प्रवाहयेंसुः । तायो दानि दिवसं तहिं काकावाहां भञ्जिय सायाह्नसमये नगरं प्रविष्टाः राजा दानि प्रसेनजित कोशलो अपरेज्जुकातो निरगतो सान्तःपुरो । तायो दानि अन्तःपुरिकायो कथञ्चिद् एव सम्रोधाद् अवमुक्ता रन्धनमोक्षम् इव मन्यमानाः चञ्चूर्यन्ते । काश्चिन् निषण्णाः काश्चिन् निपन्नाः । काश्चिद् इतो च इतो च धावन्ति अवकाशं गृह्णन्ति शाद्वलोपस्तरणे परिभ्रामन्ति । तासां दानि पक्वखेटेन पक्वसिंघाणकेन वस्त्राणि विनाशितानि । पुष्किरिणीं ओतीर्णाः स्नानाय । तायो पश्यन्ति पुटकान् प्लवमानान् । तासां भवति कुलपुत्रकेहि श्रुतं श्वो राजा सान्तःपुरो उद्यानं प्रवेक्ष्यतीति तेहि एते गन्धपुटकाः प्रवाहिता इति कृत्वा तायो गृह्णन्ति । ते उदकेन क्लिन्ना उच्चारेण चा खादिताः प्रकृतिसुकुमारं च पद्मपत्रं । गृहीतमात्रम् एव विलीनं । ही ही विष्ठं ता दानि राज्ञो उपसंक्रान्ता आहंसु । महाराज एष तावद् ईदृशी अवस्था राजा आह शब्दापयथ आरामिकं । सो दानि शब्दापितो । राजा आह । हो भणे आरामिक केन उद्यानं विट्टालितं । आह षड्वर्गिणीयो श्रमणीयो एव दिवसं काकवाहा भञ्जित्वा गताः । राजा हसित्वा आह । तासाम् अविनीतानां कर्म भविष्यति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचयेत् । यावद्

या पुन भिक्षुणी हरिते तृणे उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ॥

या पुन भिक्षुणी उदके उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ॥

या पुन भिक्षुणीति उपसम्पन्ना । उच्चारन् ति गूथं । प्रस्रावन् ति मूत्रं । खेटम् इति श्लेष्मा । सिंघाणकन् ति पक्वसिंघाणकं । हरिते तृणे इति शाद्वले अच्छिन्नालूनस्मिं उदन् ति उदकानि नाम दश । नादिकं ताडागं औदुपानिकं श्वभ्रोदकं प्रघारिमं वृष्टिस्थितं उच्छोदकं अन्तरीक्षपानीयं हिमविलीनं सामुद्रम् वा उच्चारम् वा प्रस्रावं वा कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः । अथ दानि प्रावृषेण्या से सर्वभुमिः शाद्वलोपस्तरेणा भवति यहिं प्रदेशे स्वल्पहरितम् भवति तहिं कर्तव्यं । अथ दानि अल्पहरितं न भवति कटाहके वा इष्टकायम् वा उपले वा शुष्कतृणे वा काष्ठखण्डे वा यत्र वा अन्येन उच्चारो कृतो भवति बलीवर्देन वा । यत्र वा अन्येन मनुष्येन कृतो तहिं कर्तव्यं अथ दानि एवं न भवति अन्तमसतो कनीयसिं पि अङ्गुलिं उपद्राहयित्वा कर्तव्यं । तथा कर्तव्यं यथा तहिम् प्रथमम् निपतति । अथ दानि चङ्क्रमति न क्षमति हरितशाद्वले श्लेष्मं छोरयितुं । अथ खु कटे वा पत्रपुटिकायां वा छोरयितव्यं । तेन भगवान् आह ।

या पुन भिक्षुणी हरिते तृणे उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ।

या पुन भिक्षुणी उदके उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ॥

पाचत्तिकधर्म 141

गणलाभ

251. भगवान् श्रावस्तीयम् विहरति । तायो दानि षड्वर्गिणीयो छन्दकं अण्वन्ति । आहंसुः । प्रजापति देथ च्छन्दकं आर्यमिश्रिकाणां भक्तं करिष्यामः । ता दानि स्त्रियो प्रयच्छन्ति । ता दान् आहंसुः आर्या यं दिवसं संघभक्तं करिष्यथ तदास्माकम् अपि आरोचयेथ । वयम् अपि परिवेषका आगमिष्यामो ति । ताहि दानि निमन्त्रिताः । आयुष्मन्तो शारिपुत्रमौद्गल्यायनौ अनिरुद्धो रेवतः कप्फिणो श्रोणकोटीविंश उपवानो आयुष्मान् राहुलो षड्वर्गिकाश् च । ताहि दानि द्वेआसनप्रज्ञप्ती कृता । एका स्थविराणां अपरा षड्वर्गिकाणां । तहिं दानि भिक्षू कालस्यैव निवासयित्वा प्रावरित्वा च प्रविष्टाः । ततो आयुष्मतो शारिपुत्रस्य दातुं शालिनामोदनं मुद्गानां सूपो घृतं दधि च । आयुष्मतो मौद्गल्यायनस्य यवकोदनो माषसूपो तैलं च । अपरेषाम् षष्टिकोदनो सूपो च । अपरेषां कोद्रवोदनो । अपरेषां व्यञ्जनानि दिन्नानि ओदनो न दीयते । अपरेषां शाकं दिन्नं ओदनो न दीयते । अपरेषां वाटिकोदनो व्यञ्जनं न दीयते । आयुष्मतो राहुलस्य पि श्याकशाकं

ता दानि स्त्रियो भक्ष्यभोज्यम् आदाय गताः पृच्छन्ति । कहिन् ते आर्यमिश्रिकाः । तायो दानि स्थविरान् भिक्षून् आवरित्वा षड्वर्गिकान् दर्शेन्ति । ततस् तेषान् दीयते शालिना मोदनं मुद्गानां सूपो घृतं । नवनीतं अम्बु मधुराणि गौडन् दधि श्वेतं दधि क्षीरं समितासमितं यस्यार्थं याव् अर्थं दीयति । यत् किञ्चित् प्रणीतसम्मतं भक्ष्यभोज्यं पेयं चोष्मं तं षड्वर्गिकाणान् दापयन्ति । इमे ते आर्यमिश्रिकाः भिक्षू पि भुक्तविभुक्तकाः उत्थायोत्थाय भगवतः पादवन्दा उपसंक्रान्ता । भगवान् जानन्तो येव पृच्छति । अपि तु शारिपुत्र शोभने मासि मृष्टम् वा प्रणीतम् वा प्रभूतम् वा । स्थविरो आह । कृतं भगवन् आहारेणाहारकृत्यं । द्वितीयम् पि तृतीयम् पि । भगवान् आह । थेरो आह । लब्धो भगवन् शालिनामोदनं मुद्गानां सूपो नवनीतं अम्बु मधुराणि व्यञ्जननि गौडन् दधि क्षीरं यस्यार्थं यावद् अर्थं दीयति यथापीदं भगिनीनां श्रद्धाप्रसन्नानां परिग्रहे । भगवान् आह । के तहिं संघस्थविरो भूत । आयुष्मां च्छारिपुत्रो । भगवान् आह । सत्यं शारिपुत्र आह । आम भगवन् । भगवान् आह । दुर्भुक्तं ते शारिपुत्र एवं च नाम त्वं भिक्षुसंघं विहेठयन्तं अध्युपेक्षसि । यस्य भगवान् दुर्भुक्तम् इत्य् आह तस्य तं कल्पम् वा कल्पावशेषम् वा तिष्ठेय नैव जरा गच्छेय । स्थविरेण काकपोटं दत्त्वा सर्व दरदराय वान्तं । भगवान् आह । शब्दापयथ भिक्षुणीयो तायो शब्दापिताः । एतद् एव पृच्छीयन्ति । आहंसुः । आम भगवन् । भगवान् आह दुष्कृतं वो भिक्षुणीयो एवम् च नाम यूयं जानन्तीयो गणलाभं गणस्य परिणामयथ । तेन हि न क्षमति । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी जानन्ती गणलाभं गणस्य परिणतं गणस्य परिणामयेत् पाचत्तिकम् ।

या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय । गणलाभम् इति भिक्षुगणस्य भिक्षुणीगणस्य । लाभम् इति अष्ट लाभाः यावत् कालिको यामयामिको यावत् कल्पिकाकल्पिको परिणतन् ति परिनिष्पन्नं । गणस्य परिणामयेत् पाचत्तिकं यावत् प्रज्ञप्तिः । एष दानि कोचिद् आगच्छति देयधर्मं दातुकामो । आह । आर्ये इच्छामि परिगृह्यमाणन् ति परिगृह्णीतव्यं ।

प्रातिदेशनिका धर्मा 18

सर्पिस् तैलं एत्च्

252. ति । ते दानि भिक्षू षड्वर्गिकाः सर्पिकेहि सर्पि तैलकेहि तैलं गौडकेहि गुडं माधुकेहि मधुं मात्सिकेहि मत्स्यं मांसिकेहि मांसं दुग्धिकेहि दुग्धं दोधिकेहि दधिं विज्ञपिय खादन्ति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणो गौतमो ऽनेकपर्यायेणाल्पेच्छताय वर्णवादी यावच् छिक्षापदं प्रज्ञप्तं । तस्माद् इह गौतमि भिक्षुणीभिर् अवि अत्रैव शिक्षितव्यं ।

एषैवार्थोत्पत्तिः । एकम् इदम् गौतमि समयं तथागतो शाक्येषु विहरति । यावद् भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।

या पुन भिक्षुणी आत्मार्थाय अगिलाना कुलेहि सर्पिं विज्ञापेत्वा वा विज्ञापायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय असंप्रेयम् मे आर्यमिश्रिका प्रातिदेशनिकं धर्मम् आपन्ना तन् धर्मं प्रतिदेशयामि । अयन् धर्मो प्रातिदेशनिको ।

एवम् सर्पिस् [1] । तैलं [2] । मधु [3] । फाणितं [4] । दुग्धं [5] । दधि [6] । मत्स्यं [7] । मांसं [8] ।

या पुन भिक्षुणीति उपसम्पन्ना । आत्मार्थायेति आत्मानं सन्धाय आत्मानम् उपनिध्याय । अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्ति गिलानाय । किन् तावद् अत्र गैलान्यम् अभिप्रेतम् । जरादुर्बला वा व्याधिदुर्बला ता विरेचनपीता वा शिराविद्धा वा श्लेष्मा वा सन्निपाता वा । कुलेहीति क्षत्रियकुलानि वा ब्राह्मणकुलानि वा यानि वा पुनर् अन्यान्य् अपि कानिचित् कुलानि । सर्पीति सर्पिन् नाम गाविय माहिषीये अजाये एडकाय उष्ट्रीय । विज्ञपेत्वा ति स्वयं विज्ञापेत्वा । विज्ञपायेत्वा ति परेण विज्ञपायेत्वा । खादेया ती यं खादनीयं । भोजनीयन् ति यं भोजनीयं । प्रतिदेशयितव्यं ताय भिक्षुणीय यावद् अयम् धर्मो प्रातिदेशनिको ।

अथ दानि पित्तसंक्षोभो भवति लभ्या सर्पि विज्ञापेतुं पेयालं । अथ दानि पिण्डपातम् अण्वन्ति पश्यति घृतं विक्रायन्तं न दानि वक्तव्यं । "दिर्घायुः लाभो लभ्यतु बहुञ् च भवतु ।" लब्धो च स्थावरो भवतु । अथ दान् आह । केनार्थो आर्याये । वक्तव्यं पिण्डचारं अण्वामि । अथ दान् आह । अर्थो आर्याय सर्पिणा यद्य् अर्थिका भोति । वक्तव्यम् अर्थो । यदि पूरं पि पात्रं लभति अनापत्तिः । अथ दानि अपरा पि काचिद् भवति लभ्या प्रत्युत्पन्नप्रायेण (!) वक्तुं इमाये पि देहीति ।

एवं तैलं । यदि वातविकारो भवति लभ्या तैलं विज्ञपयितुं तं पि दानि न तैलपीडकानां तेन विज्ञपयितव्यं । अथ दानि पिण्डचारम् अण्वन्ति पश्यति तैलं मापियन्तं यावत् पूरं पि पात्रं लभति अनापत्तिः । यावत् लभ्या प्रत्युत्पन्नप्रयोगेण वक्तुं इमाये पि देहीति ।

एवं मधु । यदि श्लेष्मविकारो भवति लभ्यं मधु विज्ञपयितुं । तं पि दानि ना क्षमति मधुघातकानां तेन विज्ञपयितुं ।

एवं फाणितं । यदि गिलाना भवति वैद्यो आह आर्ये गुडप्रयोगं करोहीति लभ्यं गुडं विज्ञपयितुं ।

एवम् दुग्धं । लभ्यं दुग्धं पिययितुं । अथ दानि पिण्डचारम् अण्वति पश्यति यो कुलेहि गावो दुह्यन्तां न दानि वक्तव्यं । बहुलाभो लभ्यतु क्षेमेण गावो चरन्तु । आहंसुः । केन आर्याये अर्थो । वक्तव्यं । पिण्डचारम् अण्वामि । आहंसुः । अर्थो आर्याये दुग्धेनापूरम् पि पात्रं प्रतीच्छत्य् अनापत्तिः यावत् प्रत्युत्पन्नप्रयोगेन लभ्या वक्तुं इमाय पि देहीति । अथ दानि श्वेतमयं सिक्षति । नास्ति श्वेतमयं । इच्छसि दुग्धं । आह । इच्छामि । पूरम् पि पात्रं लभति अनापत्तिः ।

अथ दानि प्रतिश्यायो भवति । वैद्यो आह दधिकृत्यं करोहीति लभ्यं दधि विज्ञपयितुं । अथ दानि पिण्डचारम् अण्वति पश्यति दधि मापीयमानं लभ्या मस्तु विज्ञपयितुं । अथ दान् आह । नास्ति मस्तु इच्छसि दधिं । आह इच्छामि । पूरं पि पात्रं प्रतिगृह्णाति अनापत्तिः ।

अथ दानि भिक्षुणी वमनं विरेचनं वा कर्तुकामा भवति वैद्यो जल्पति आर्ये अभिष्यन्देहि मत्स्यरसेहीति । यावन् न क्षमति कैवर्तानां विज्ञपयितुं । अथ दानि पिण्डचारम् अण्वति लभ्यं आम्बूकाञ्जिकं विज्ञपयितुं ।

अथ दानि सिराविद्धिका भवति । विरेचनपीतिका भवति । वैद्यो आह । आर्ये मांसरसं प्रतिसेवाहि । लभ्यं मांसरसं विज्ञपयितुं । न क्षमति ओरोभ्रिकानां तेन । अथ दानि पिण्डचारम् अण्वति लभ्यं शाकरसं विज्ञपयितुं । अथ दान् आह । नास्ति आर्ये शाकरसो इच्छसि मांसरसं । आह । इच्छामि । पूरं पि पात्रं लभति अनापत्तिः ।

अथ दानि जानाति अमुकस्मिं काले कदाचिद् गैलान्यं भविष्यति इमानि भैषज्यानि दुर्लभानि भविष्यन्तीति प्रतिकृत्य् एव याचति अनापत्तिः । ग्लाना विज्ञपिय अगिलाना खादति विनयातिक्रमः । अगिलाना विज्ञपिय ग्लाना खादति अनापत्तिः । अग्लाना विज्ञापिय अग्लाना खादति प्रतिदेशयितव्यं ।

असंप्रेयं सिद्धं संप्रेयं खादति अनापत्तिः । संप्रेयं सिद्धं । असंप्रेयं सिद्धं । असंप्रेयं खादति विनयातिक्रमः । संप्रेयं सिद्धं संप्रेयं खादति अनापत्तिः । परप्रतिबद्धाय जीविकाय अनापत्तिः । तेन भगवान् आह ।

यानि खो पुनर् इमानि प्रणीतसम्मतानि भोजनानि भवन्ति सय्यथ्ऽ ईदं सर्पिः एवंरूपं तं भिक्षुणी अगिलाना कुलेहि विज्ञपेत्वा वा विज्ञापायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय । असंप्रेयम् मे आर्ये गार्ह्यं प्रातिदेशनिकं धर्मम् आपन्ना तं धर्मं प्रतिदेशयामि । अयं धर्मो प्रातिदेशनिको ।

एवं तैलेन कर्तव्यं । मधुफाणितं दुग्धं दधि मत्स्यं मांसं ।

यानि खो पुनर् इमानि प्रणीतसम्मतानि भोजनानि भवन्ति सय्यथ्ऽ ईदं मांसं एवंरूपं भिक्षुणी अगिलाना कुलेहि विज्ञपेत्वा वा विज्ञपायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय । असंप्रेयम् मे आर्ये गार्ह्यं प्रातिदेशनिकं धर्मपर्यायं वा तन् धर्मं प्रतिदेशयामि । अयं पि धर्मो प्रातिदेशनिको ॥

उद्दानं ।

सरिपिस् [1] । तैलं [2] । मधु [3] । फाणितं [4] । दुग्धम् [5] दधि [6] । मत्स्य [7] । मांसं [8] । इदम् अष्टमं । भिक्षुणीनां प्रातिदेशनिकां ॥

शैक्षा धर्मा 166

253. शैक्षा विस्तरेण कर्तव्या यथा भिक्षुणां सर्वे षड्वर्गाह् स्थापयित्वा हरितोदके ।

उद्दानम् ।

निवासनं [1] । प्रावरणं [2] । सुसंवृतं [3] । चक्षुः [4] । शब्दं [5] । नोच्चग्घिका [6] । नोगुण्ठिका [7] । नोत्क्षिप्तिका [8] । न उत्कुटुके [9] । न खम्भ [10] । न काय [11] । न शीर्ष [12] । न बाहुकेन [13] ॥ प्रथमो वर्गः ॥

उद्दानं ।

सुसंवृता [14] । चक्षुः [15] । न शब्द [16] । उच्चग्घयिका [17] । न ओगुण्ठिका [18] । नोत्क्षिप्तिका [19] । न ओसक्तिका [20] । न पल्लत्थिका [21] । न खम्भ [22] । न हस्तपादकौकृत्येन [23] । द्वितीयो वर्गः ॥

उद्दानं ।

द्वे सत्कृत्य [24, 25] । समसूप [26] । न स्तूप [27] । नावकीर्ण [28] । नावगण्ड [29] । न जिह्वा [30] । नातिमहन्त [31] । नानागत [32] । न कवडोत्क्षेपक [33] । न कवडच्छेदक [34] । न सकवडेन [35] । तृतीयो वर्गः ॥

उद्दानं ॥

त्रयो निर्लेहा [36, 37, 38] । चुच्चु [39] । सुरुसुरु [40] । गुलुगुलु [41] । न हस्त [42] । न सित्थ [43] । नोध्यायन [44] । पात्रसंज्ञी [45] । विज्ञप्ति [46] । छादयति [47] । न पात्रोदके [48] । न ससित्थेन [49] । चतुर्थो वर्गः ॥

उद्दानं ।

न स्थिता [50] । न निषण्णा [51] । न उच्चासना [52] । उपनह [53] । न पादुका [54] । न ओगुण्ठिका [55] । न संमुख [56] । न ओसक्तिका [57] । न पल्लत्थिका [58] । पूर्यते पञ्चमो वर्गः ॥

उद्दानं ।

न शस्त्रायुध [59, 60] । दण्ड [61] । छत्र [62] । उत्पथ [63] । पृष्ठतो [64] । यान [65] । स्थितकेन [66] । षष्ठो वर्गः ॥

सप्त अधिकरणसमथा धर्मा धर्मा अनुधर्मा

254. सप्ताधिकरणसमथा धर्मा यथा भिक्षूणां । सम्मुख [1] । स्मृति [2] । अमूढ [3] । प्रतिज्ञा [4] । तस्य पापेयशिक [5] । यो भुयसिक [6] । तृणप्रस्तारको [7] च सप्तमः ॥

धर्मश् चानुधर्मश् च यथा भिक्षूणां । समाप्तो भिक्षुणीनां प्रातिमोक्षविभङ्गः ॥

भिक्षुणी प्रकीर्णक 1

निषद्याप्रतिसंयुक्तं

255. आर्यमहासांघिकानां लोकोत्तरवादिनां भिक्षुणीप्रकीर्णकस्यादिः ।

भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो पश्चिमं प्रहाणं स्वस्तिकपर्यङ्केन निषीदन्ति । अथापराये दानि भिक्षुणीये व्रणमुखेन दीर्घको ऽनुस्रोतेन प्रविष्टो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवतो आरोचयेत् । भगवान् आह । गच्छथ ताये अमुकं भैषज्यं देथ ततो सो दीर्घको निष्क्रमिष्यति । ताये दानि तं भैषज्यं दिन्नं पिबनाये । सो दीर्घको अनुस्रोतम् आगतो न च मृतो । भगवान् आह । एवं च नामा यूयं स्वस्तिकपर्यङ्केन निषीदथ । तेन हि न क्षमति स्वस्तिकपर्यङ्केन निषीदितुं । निषद्याप्रतिसंयुक्तं । न क्षमति भिक्षुणीये पर्यङ्केन निषीदितुं । अथ खल्व् एकिना पदेन पर्यङ्को बद्धव्यः । अपराय पार्ष्णिकाय व्रणमुखं पिथयितव्यं । सा एषा भिक्षुणी स्वस्तिकपर्यङ्केन निषीदति विनयातिक्रमम् आसादयति । इदम् उच्यते निषद्याप्रतिसंयुक्तं ॥

भिक्षुणीप्रकिर्णक 2

कठिनप्रतिसंयुक्तं

256. भगवान् श्रावस्तीयम् विहरति । ता दानि भिक्षुणीयो कठिने चीवरं निक्षिपिय सीवन्ति । अपराये भिक्षुणीये वंसविदलिकाय व्रणमुखेन कृतं रुधिरम् उत्पादितं । एतं प्रकरणं । पेयालं । भगवान् आह । तेन हि न क्षमति कठिने निषीदितुं । कठिनप्रतिसंयुक्तं । एता दानि भिक्षुणीयो चीवर निषीदितुकामा भवन्ति । न क्षमति कठिने निषीदितुं । अथ खु उपस्थानशालायाम् वा प्रासादे वा प्रहाणशालायाम् वा आकार्षान् दत्त्वा चीवरकं प्रज्ञपिय सीवितव्यं । अथ एवं पि न भवति । पीठस्य वा मञ्चस्य वा उपरि प्रज्ञपयित्वा सीवितव्यं । अथैवं पि न भवति जानुकानाम् उपरि स्थापय्यित्वा सीवितव्यं । सा एषा भिक्षुणी कठिने निषीदति विनयातिक्रमम् आसादयति । इदम् उच्यते कठिनप्रतिसंयुक्तं ॥2 ॥

भिक्षुणीप्रकीर्णक 3

वेठकप्रतिसंयुक्तं

257. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा दानि भिक्षुणी संबहुलानि स्त्रीहि सार्धं नदीम् अजिरावतीङ् गत्वा एकान्ते चीवरकाणी निक्षिपिय स्नानायावतीर्णा । सा दानि प्रतिकृत्येवोत्तरित्वा वेठकेन कायं वेठयित्वा स्त्रीणाम् आह । प्रजापति निध्यापयथ मां । किम् अहं शोभामि न शोभामीति । ता दान् आहंसुः । किम् पुनर् आर्याय मुण्डाय पिण्डिलिकाय एतेन कार्यं । वयं कामोपभोगनीया मानार्थाय एवं करोमः । कुटुम्बिकानां प्रियतरिका भविष्यामो ति । आर्ये किम् एतेन । यं ताहि स्त्रीहि अवध्यापितं तं दानि भिक्षुणीहि श्रुतं । एतं प्रकरणं । पे । यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते नन्दे यावत् तेन हि न क्षमति वेठकेन कायं वेठयितुं । वेठकप्रतिसंयुक्तं । सा एषा भिक्षुणी वेठकेन पट्टकेन वा कायं वेठयति विनयातिक्रमम् आसादयति । अथ दानि पट्टिकाय वा लोहकेन वा कायं वेठयति । न क्षमति द्विर् अपि वेल्लकं त्रिर् अपि वेल्लकं वेठयितुं । अथ खु एक परिवेल्लकं वेठयितव्यं । अथ दानि वातेन पार्श्वं गृहीतं भवति । गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति किञ्चापि पट्टकेन कायं वेठयत्य् अनापत्तिः । इदम् उच्यते वेठकप्रतिसंयुक्तं ॥3 ॥

भिक्षुणी प्रकीर्णक 4

श्रोणिभण्डकप्रतिसंयुक्तं

258. भगवान् श्रावस्तीयम् विहरति । यथैव वेठकस्य एवम् एवार्थोत्पत्तिः कर्तव्या । सा प्रतिकृत्य्ऽ एव उत्तरित्वा श्रोणीभण्डकम् आबन्धित्वा आह । प्रजापती प्रजापति निध्यायथ मां किम् अहम् शोभामि न शोभामीति । ता दान् आहंसुः । किम् आर्याय । पेयालम् । यावद् आम भगवन् । भगवान् आह तेन हि न क्षमति श्रोणीभण्डं । श्रोणीभण्डकप्रतिसंयुक्तं । श्रोणीभण्डकन् नाम एते भवन्ति । शङ्खावर्त्तका वा शिरिका वा पीलुका वा विद्रुमा वा अक्षरक्षा वा सुवर्णरूप्यमया वा मणिमया वा प्रकालका वा अन्तमसतो सूत्रमणिका वा बन्धति । तेन च श्रोणीभण्डकछन्दं विनोदयति विनयातिक्रमम् आसादयति । इदम् उच्यते श्रोणीभण्डकप्रतिसंयुक्तं ॥ ण्क ॥

भिक्षुणीप्रकिर्णक 5 गृहिणिभण्डकप्रतिसंयुक्तं

259. भगवान् श्रावस्तीयम् विहरति । एषैवार्थोत्पत्तिः यावद् गृहिणीभण्डकम् आबन्धित्वा यावद् भगवान् आह । तेन हि न क्षमति गृहिणीभण्डकं । गृहिणीभाण्डकन् नाम एते भवन्ति । मूर्धापिधानका वा । वलया वा । कर्णिका वा । टिक्का वा । वेठका वा । हर्षका वा । हारा वा । अर्धहारा वा अपरञ्जग वा । कटका वा । शङ्खका वा । नूपुरा वा । अङ्गुलीयका वा । यद् वा पुनर् अन्यद् अपि किञ्चिद् गृहिणीभाण्डं सर्वन् न क्षमति । सा एषा भिक्षुणी गृहिणीभण्डकम् आबन्धयति विनयातिक्रमम् आसादयति । अथ दानि भैषज्यभण्डकम् आबन्धति ज्वरसूत्रकम् वा अनापत्तिः । इदम् उच्यते गृहिणीभाण्डकप्रतिसंयुक्तं ॥ तृ ॥

भिक्षूणीप्रकिर्णक 6

गृहिणीअलङ्कारप्रतिसंयुक्तं

260. भगवान् श्रावस्तीयम् विहरति । तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो महान्तेहि कुलेहि प्रव्रजिता अलङ्कारिकान्य् आदाय । कुमारिकानां वुह्यन्तीनां उत्सवसमये तिथि पर्वण्या देवयात्रादिषु कृतकानि भाण्डकानि ददन्ती । जनो दानि ओज्झायति । नेयं प्रव्रज्या वाणिजेयं । एतं प्रकरणं । पेयालं यावद् भगवान् आह । तेन हि न क्षमति गृहिणीअलङ्कारं धारयितुं । यदि काचिद् गृहिणी प्रव्रजति यदि ताय किञ्चिद् अलङ्कारं भवति वक्तव्या विसर्जेहि । अथ दानि पश्यति दुर्भिक्ष वा भवेय पिण्डपातो वा न लभ्येत जरादुर्बला वा भवति व्याधिदुर्बला वा गैलान्यम् वा किञ्चिद् भविष्यति अल्पलाभो मातृग्रामो मा विहन्येया ति । पिण्डं कारयित्वा पर्व्राजयितव्या । सा एषा भिक्षुणी अलङ्कारम् अपरित्याजयित्वा प्रव्रजेति विनयातिक्रमम् आसादयति । भिक्षोर् अप्य् एष एवं विधिर् । इदम् उच्यते गृहिणीअलङ्कारप्रतिसंयुक्तं ॥ फु ॥

भिक्षुणीप्रकिर्णक 7

वेश्याप्रतिसंयुक्तं

261. भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो शाकीयकन्यायो कोलियकन्यायो मल्लकन्यायो महाकुलेहि प्रव्रजिता चेटिकाम् आदाय प्रव्रजन्ति । तायो चेटिकायो प्रासादिकायो दर्शनीयायो वेश्यं (!) वाहयन्ति । जनो दनि ओज्झायति । नेयं प्रव्रज्या गणिका इमा । एतं प्रकरणं भिक्षुणीहि श्रुतं । यावद् आम भगवन् । भगवान् आह । एवं च नाम यूयं वेश्याम् उपस्थापयथ । तेन हि न क्षमति वेश्याम् (!) उपस्थापयितुं । सा एषा भिक्षुणी वेश्याम् उपस्थापयति तेन जीविकां कल्पयति विनयातिक्रमम् आसादयति । इदम् उच्यते वेश्याप्रतिसंयुक्तं ॥ ग्रा ॥

भिक्षुणीप्रकीर्णक 8

आरामिकिनिप्रतिसंयुक्तं

262.भगवान् श्रावस्तीयम् विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तं । न क्षमति वेश्याम् उपस्थापयितुं ति । तायो दानि शाकियकन्यायो मल्लकन्यायो कोलितकन्यायो महाकुलेहि प्रव्रजन्ति । तायो दानि पौद्गलिकाम् आरामिकिनीम् उपस्थापेन्ति । तायो दानि आरामिकिनीयो प्रासादिकायो जनो दानि ओज्झायति । नेयं प्रव्रज्या गणिका इयं । एतं प्रकरणं भिक्षुणीहि श्रुतं यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति पौदगलिकाम् आरामिकिनीम् उपस्थापयितुं । न क्षमति आरामिकिनी । ना क्षमति चेटी । न क्षमति कल्पियकारी । सा एषा भिक्षूणी या पौद्गलिकाम् आरामिकिनीम् उपस्थापयति विनयातिक्रमम् आसादयति । इदम् उच्यते आरामिकिनीप्रतिसंयुक्तम् ॥ ह्रा ॥

भिक्षूणीप्रकीर्णक 9

संकक्षिकाप्रतिसंयुक्तं

263. भगवान् श्रावस्तीयम् विहरति । अपरा दानि भिक्षुणी प्रासादिका दर्शनीया । ताये दानि पीनेहि स्तनेहि गच्छन्तीय चीवरम् उत्क्षिपीयति । सा दानि जनेन उच्चग्घीयति । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावद् आम भगवन् । भगवान् आह तेन संकक्षिका नाम कर्तव्या । सम्कक्षिकां प्रावरन्तीय तथा प्रावरितव्यं यथा दानि स्तनापीडिता भवन्ति । सा एषा भिक्षुणी संकक्षिकान् नोपस्थापयति विनयातिक्रमम् आसादयति । सन्ती न प्रावरयति विनयातिक्रमः इदम् उच्यते संकक्षिकाप्रतिसंयुक्तं ॥ 0 ॥

भिक्षुणीप्रकीर्णक 10

दकशाटिकाप्रतिसंयुक्तं

264. भगवान् वैशालीयम् विहरति । भद्राय दानि कापिलेय्या अर्थोत्पत्तिः कर्तव्या । यावद् भगवान् आह । तेन हि न क्षमति नग्निकाया स्नातुं । दकशाटिकाय स्नापितव्यं । दकशाटिकाप्रतिसंयुक्तं । न क्षमति नदीयम् वा ओघे वा पुष्किरिणीयम् वा तडागे वा नग्निकाय स्नापितुं । दकशाटिकाय स्नापितव्यं । नग्निका स्नायति विनयातिक्रमः । अथ दानि विहारे गुप्ते प्रदेशे नग्निका स्नायत्य् अनापत्तिः । इदम् उच्यते दकशाटिकाप्रतिसंयुक्तं ॥ ऌ ॥

॥ प्रथमो वर्गः ॥

भिक्षुणीप्रकीर्णक 11

तलघातप्रतिसंयुक्तं

265. भगवान् श्रावस्तीयं विहरति । भिक्षुणीविहारो च गृहिकुलं च कच्छान्तरिता । तायो दानि भिक्षुणीयो कामरागेण खज्जन्ति । तायो दानि हस्ततलेनाङ्गजातं प्रस्फोटयन्ति । सो मनुष्यो पुनो पुनो शब्दं शृणोति । सो दान् आह । किम् एतन् ति । सा दानि स्त्री आह । भवतु आर्यपुत्र अहम् एतं जानामि किन् तवानेन ज्ञानेन । आह । नहि आचिक्षाहि । आह । एता आर्यमिश्रिकायो ब्रह्मचारिणीयो कामरागेन खज्जन्तीयो हस्ततलेन आस्फोटयन्ति आङ्गजातं । तेन दानि मनुष्येण ओज्झापितं । एतं प्रकरणं भिक्षूणीहि श्रुतं । यावद् भगवान् अह । तेन हि न क्षमति तलघातकं । तलघातप्रतिसंयुक्तं । सा एषा भिक्षुणी हस्ततलेनाङ्गजातम् आस्फोटयति पात्रेण वा कुपात्रेण वा कंसिकाय वा विडल्लाय वा अन्येन वा पुन केनचित् तेन च कामरागं विनोदयति विनयातिक्रमम् आसादयति । इदम् उच्यते तलघातकप्रतिसंयुक्तं ॥ [1] ॥

भिक्षूणी प्रकीर्णक 12

जतुमट्ठकप्रतिसंयुक्तं

266. भगवान् श्रावस्तीयं विहरति । अपराय दानि भिक्षुणीय कामरागेण खज्जन्तीय जतुमट्ठकं मञ्चकं यन्त्रितं । अत्र विप्रतिपद्यिष्यन् ति । तद् अनन्तरम् अग्निर् उत्थितो । ताय दानि संभ्रान्ताय असमन्वाहरित्वा स मञ्चको बहिन् निष्कासितो । मनुष्यो दानि प्रत्यवेक्षमाणा अण्वन्ति । कहिं अग्निर् उत्थितो कस्य गृहाद् उत्थितो । तेहि दानि सो दृष्टो । ते दानि ओज्झायन्ति । एतं प्रकरणं भिक्षुणीहि श्रुतं । पे । यावद् भगवान् आह । तेन हि न क्षमति जतुमट्ठकं । जतुमट्ठकप्रतिसंयुक्तं । जतुमट्ठकं नाम जतुस्य वा लोहस्य वा त्रपुस्य वा नाग्रस्य वा हारकूटस्य वा दन्तस्य वा चोडकस्य वा मृत्तिकाय वा अङ्गजातकाकारं कृत्वा स्वे अङ्गजाते प्रवेशेति तेन च काम रागं विनोदेति थुल्ऽ-अच्चयम् आसादयति । इदम् उच्यते जतुमट्ठकप्रतिसंयुक्तं ॥ 2 ॥

भिक्षुणीप्रकीर्णक 13, 14

धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तं

267. भगवान् श्रावस्तीयम् विहरति । अथ खलु महाप्रजापती गौतमी येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि । एकान्तस्थिता महाप्रजापती गौतमी भगवन्तं याचति । भगवन्तं वन्दित्वा आह । मातृग्रामस्य भगवन् अङ्गजातं दुर्गन्धं उपवायति । लभ्यं । भगवन् धोवितुं । भगवान् आह । लभ्या । तायो दानि भिक्षुणीयो बाहिरबाहिरेण धोवन्ति तथैव दुर्गन्धं वायति । एतं प्रकरणं महाप्रजापती गौतमी भगवन्तं पृच्छति । लभ्या भगवन् प्रवेशिय धोवितुं । भगवान् आह । लभ्या धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तं । भिक्षुणीय धोवन्तीय एकम् अङ्गुलिवेठकं प्रवेशयित्वा धोवितव्यं । न क्षमति अतिदूरं प्रवेशयितुं । अतिदूरं प्रवेशेति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति । इदम् उच्यते धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तं ॥ ण्क ॥

भिक्षुणिप्रकीर्णक 15, 16, 17

आनिचोलकप्रतिसंयुक्तं

268. भगवान् श्रावस्तीयम् विहरति । तासान् दानि भिक्षुणीनाम् अनुमासं अनुमासं ऋतुर् आगच्छति । लोहितं शय्यासनं नाशीयति । एतं प्रकरणं महाप्रजापती गौतमी भगवतो आरोचेति । लभ्या भगवन् शयनासनगुप्त्यर्थं आनीचोलं धारयितुं । भगवान् आह । लभ्यं आनीचोलकप्रतिसंयुक्तं । यस्या एष ऋतुर् आगच्छति शोणितं स्रवति तया आनीचोलकं धारयितव्यं । लेण्टकखण्डानि । नापि क्षमति गाढं नापि क्षमति अतिदूरं प्रवेशयितुं यथा तेनैव कामरागम् विनोदयेत् । अथ खलु प्रशिथिलं व्रणमुखस्य प्रवेशयितव्यं । सा एषा भिक्षुणी अतिदूरम् वा प्रवेशेति गाढम् वा प्रवेशेति यथा तेनैव कामरागम् विन्दोदेति स्थूल्ऽ-अच्चयम् आसादयति । इदम् उच्यते आनीचोलकप्रतिसंयुक्तं ॥ तृ ॥

भिक्षुणीप्रकीर्णक 16

स्त्रीतीर्थप्रतिसंयुक्तं

269. भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो स्त्रीतीर्थे आनीचोलं धोवन्ति । स्त्रियो दानि ओज्झायन्ति । सर्वम् इदम् तीर्थं रुधिरेण विट्टालितं । एतं प्रकरणं । पेयालं । यावद् भगवान् आह । तेन हि न क्षमति स्त्रितीर्थे आनीचोलकं धोवितुं । स्त्रीतीर्थप्रतिसंयुक्तं । सा एषा भिक्षुणी आनीचोलकं स्त्रीतीर्थे धोवति विनयातिक्रमम् आसादयति । इदम् उच्यते स्त्रीतीर्थप्रतिसंयुक्तं ॥ फु ॥

भिक्षुणीप्रकीर्णक 17

पुरुषतीर्थप्रतिसंयुक्तं

270.भगवान् श्रावस्तीयम् विहरति । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति स्त्रीतीर्थे आनीचोलकं धोवितुं । तायो दानि भिक्षुणीयो पुरुषतीर्थे आनीचोलकं धोवन्ति । पेयालं । यावत् सा एषा भिक्षुणी आनीचोलकं पुरुषतीर्थे धोवति विनयातिक्रमम् आसादयति । इदम् उच्यते पुरुषतीर्थप्रतिसंयुक्तं ॥ ग्रा ॥

भिक्षुणीप्रकीर्णक 18

रजकतीर्थप्रतिसंयुक्तं

271. भगवान् श्रावस्तीयम् विहरति । एवम् एव रजकतीर्थे कर्तव्यं । भगवान् आह । तेन हि न क्षमति रजकतीर्थे धोवितुं । अथ खु कुण्डालके वा कटाहके वा मल्लके वा दकानके वा उदकं गृह्य एकान्ते धोवितव्यं । यहिं पर्यादानं गच्छेय । अथ दानि बाहिरोदकं भवति यहिं निर्वाहो तहिन् धोवितव्यं । तानि लेण्टकानि शोषयितव्यानि यदा पुनो ऋतु नागच्छति तदा पुनो दातव्यानि । सा एषा भिक्षुणी रजकतीर्थे आनीचोलं धोवति विनयातिक्रमम् आसादयति । इदम् उच्यते रजकतीर्थप्रतिसंयुक्तं ॥ ह्रा ॥

भिक्षुणीप्रकीर्णक 19

उदकधाराप्रतिसंयुक्तं

272. भगवान् श्रावस्तीयम् विहरति । अपराय दानि भिक्षुणीय रक्तचित्ताय अङ्गजातं उदके धारितं । तस्याशुचिर् मुक्तं । ताये दानि कौकृत्यं । कौकृत्येन भिक्षुणीनाम् आरोचयति । यावद् भगवान् आह । सा एषा भिक्षुणी उदकधारायाम् वा कुण्डिकधारायाम् वा उदकचोडेन वा आलुकवेण्टिकायाम् वा प्रणाल्याम् वा अङ्गजातं धारेति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति । अथ दानि स्नायति तडागे वा प्रस्रवणे वा प्रणालियम् वा न दानि अग्रतो उदकधारां कृत्वा स्नायितव्यं यथा पृष्ठीय वा शीर्षेण वा उदकधारां प्रतिच्छेय तथा स्नायितव्यं । सा एषा भिक्षुणी अग्रतो मुखां उदकधारां कृत्वा स्नायति ताय च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति । इदं उच्यते उदकधाराप्रतिसंयुक्तं ॥0 ॥

भिक्षुणिपरिकीर्णक 20

उदकस्रोतप्रतिसंयुक्तं

273. भगवान् श्रावस्तीयम् विहरति । अपराय दानि भिक्षुणीय रक्तचित्ताय उदकस्रोते अङ्गजातं धारितं । ताये अशुचिर् आगतो यथा उदकधाराय यावत् । तेन हि न क्षमति उदकस्रोते अङ्गजातं धारयितुं । उदकस्रोतप्रतिसंयुक्तं । या दानि तायो भवन्ति गिरिनदीयो शीघ्रस्रोतायो तहिं अङ्गजातं धारेति तेन च कामरागं विनोदेति थूल्ऽ-अच्च्यम् आसादयति । अथ दानि स्नायति न क्षमति अग्रतोमुखं स्रोतं कृत्वा स्नायितुं पृष्ठतोमुखं स्रोतं कृत्वा स्नायितव्यं । सा एषा भिक्षुणी अग्रतोमुखं स्रोतं कृत्वा स्नायति विनयातिक्रमम् आसादयति । इदम् उच्यते उदकस्रोतप्रतिसंयुक्तं ॥ ऌ ॥

॥ द्वितीयो वर्गः ॥

भिक्षुणीप्रकीर्णक 21

विकृतिप्रतिसंयुक्तं

274. भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो नानाप्रकारेहि मोचयन्ति मूलकेन पलाण्डूकेबुकाये सोभञ्जनकेन लतिकाय । एतं प्रकरणं यावद् भगवन् । भगवान् आह । तेन हि न क्षमति विकृतीहि मोचयितुं । विकृतिप्रतिसंयुक्तं । सा एषा भिक्षुणी मूलकेन वा पलाण्डूय वा केबुकाय वा सोभञ्जनकेन वा लतिकाय वा इल्लादुकाय वा त्रपुसेन वा अल्लाबूय वा कक्षारुकेन वा अन्येन वा पुन केनचिन् मोचयति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति । इदम् उच्यते विकृतिप्रतिसंयुक्तं ॥

भिक्षुणीप्रकीर्णक 22

कर्मप्रतिसंयुक्तं

275. भगवान् श्रावस्तीयम् विहरति । अपरस्य दानि भिक्षुस्य उत्क्षेपनीयं कर्म क्रियते । तहिं नास्ति कोचि परिकुशलो कर्मकारको । भिक्षुणीय कर्म कृतं । ताये दानि कौकृत्यं । किन् नु खलु लभ्या एतं कर्तुं उताहो न लभ्यं । कौकृत्येन भिक्षुणीनाम् आरोचयति । भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । अग्रपरिषा एषा । न क्षमति भिक्षुणीय भिक्षुस्य कर्म कर्तुं । कर्मप्रतिसंयुक्तं न क्षमति भिक्षुणीय भिक्षुस्य कर्म कर्तुं (!) । अथ दानि न कोचित् परिकुशलो कर्मकारको भवति लभ्यं भिक्षुणीये भिक्षुस्य उद्देशितुं । अथ दानि कर्मकरेन्तस्य विस्मरति लभ्या भिक्षुणीय अनुप्रदातुं । सा एषा भिक्षुणी भिक्षुस्य कर्म करोति विनयातिक्रमः । किञ्चापि भिक्षुः भिक्षुणीये कर्म करोति अनापत्तिः । इदम् उच्यते कर्मप्रतिसंयुक्तं ॥

भिक्षुणीप्रकीर्णक 23

कौशेयप्रतिसंयुक्तं

276. भगवान् श्रावस्तीयम् विहरति । भद्रा दानि कापिलेयी कौशेयचीवरेण प्रावृता ज्ञातिकुलं गच्छति स्थूलवृषितो देवो ओवृष्टो कौशेयचीवरमोवृष्टं कायेश्लिष्टं स्फटिकप्रत्युष्टो विय कायोदृश्यति जनो सन्निपातितो भद्राये अङ्गयष्टिं पश्यितुकामो । सा दानि उत्कुटुका उपविष्टा अन्तेवासिनीहि परिवृता । एतं प्रकरणं । यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति कौशेयं । कौशेयप्रतिसंयुक्तं । कौशेयन् नाम जातिमं कर्त्तिमं च । सा एषा भिक्षुणी जातिमं प्रावरति । देशनागामीविनयातिक्रमः । कर्त्तिमं प्रावरति सम्वरगामीविनयातिक्रमः किञ्चापि भिक्षुर् उभयं प्रावरति अनापत्तिः । इदम् उच्यते कौशेयप्रतिसंयुक्तं ॥3 ॥

भिक्षुणिप्रकीर्णक 24

गण्डप्रतिच्छादनप्रतिसंयुक्तं

277. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी विहारस्याकाशतलके एकसंकक्षिकाय चङ्क्रमति । ताये दानि । स्तनावड्डाश् चङ्क्रमन्तीय उत्पतन्ति । जनेन उच्चग्घायति पश्यथ भणे श्रमणिका अलाबुतुम्बकेन विय नदीं तरतीति । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावद् भगवान् आह । तेन हि गण्डप्रतिच्छादनन् नाम कर्तव्यं । गण्डप्रतिच्छादनप्रतिसंयुक्तं । संकक्षिकाये उपरिटो ओसारयितव्यो यथा गण्डा प्रतिच्छन्ना भवेंसुः सा एषा भिक्षुणी गण्डप्रतिच्छादनं पटं न प्रावरति विनयातिक्रमम् आसादयति । न दानि क्षमति प्राकटे प्रदेशे एकसंकक्षिकाय आसादयति । न दानि क्षमति प्राकते प्रदेशे एकसंकक्षिकाय चङ्क्रमितुं । अथ दानि विहारस्य गुप्ते प्रदेशे चङ्क्रमति एकसंकक्षिकाय अनापत्तिः । इदम् उच्यते गण्डप्रतिच्छादनप्रतिसंयुक्तं ॥

भिक्षुणीप्रकीर्णक 25

स्त्रीअलङ्कारप्रतिसंयुक्तं

278. भगवान् श्रावस्तीयम् विहरति । तायो दानि शाकियकन्यायो महाकुलेहि प्रव्रजिताः । अभिज्ञायो अलंकरितुं ।

या दानि कुमारियो वुह्यन्ति नववधुकायो वा आनीयन्ति तायो अलङ्करेन्ति गृहेण गृहन् नीयन्ति । अलङ्करितुं खज्जभोज्जं लभन्ति तेन वृत्तिं कल्पेन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या अलङ्कारिका एताः । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं यावद् भगवान् आह । तेन हि न क्षमति अलङ्कर्तुं । स्त्रीअलङ्कारप्रतिसंयुक्तं । सा एषा भिक्षुणी शीर्षम् वा प्रसाधेति अक्षिणी वा अञ्जेति चूर्णकेन वा मुखं ओचूर्णेति तेन च जीविकां कल्पेति विनयातिक्रमम् आसादयति । अथ दानि अक्षिणीदुःखम् ति शिरोवेदना वा भवति । अर्धावभेदका वा लभ्या अक्षिणी अञ्जयितुं शीर्षम् वा मार्जयितुं । इदम् उच्यते स्त्रीअलङ्कारप्रतिसंयुक्तं ॥तृ ॥

भिक्षुणी प्रकीर्णक 26

उत्पलवापकप्रतिसंयुक्तं

279. भगवान् श्रावस्तीयम् विहरति । तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो महाकुल प्रव्रजितायो उत्पलानि वापेन्ति विक्रीणन्ति च । तेन च जीविकां कल्पयन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या उत्पलवापिका इयं । एतम् प्रकरणं यावत् पेयालं । यावद् भगवान् आह । तेन हि न क्षमति उत्पलानि वापयितुं उत्पलवापकप्रतिसम्युक्तं । सा एषा भिक्षुणी वापेति विक्रीणाति च तेन च जीविकां कल्पेति विनयातिक्रमम् आसादयति । अथ दानि चैत्यार्थाय वापेति भगवतः पूजाकर्माय वापेति अनापत्तिः । इदम् उच्यते उत्पलवापकप्रतिसंयुक्तं ॥

भिक्षुणीप्रकीर्णक 27

सुमनावापनाप्रतिसंयुक्तं

280. भगवान् श्रावस्तीयम् विहरति । एवम् एव सुमनावापनाय कर्तव्यं यावत् इदम् उच्यते सुमनावापनाप्रतिसंयुक्तं ॥ग्रा ॥

भिक्षुणीप्रकीर्णक 28

उत्पलग्रन्थिका प्रतिसंयुक्तं

281. भगवान् श्रावस्तीयम् विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तं । न क्षमति सुमनां वापयितुम् ति । तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो लिच्छविकन्यायो उत्पलानि ग्रन्थयित्वा विक्रीणन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या कारिका इयं । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति उत्पलानि ग्रन्थयितुं । उत्पलग्रन्थिकाप्रतिसंयुक्तं । सा एषा भिक्षुणी उत्पलदामाम् वामल्लिकादामाम् वा आरङ्गणदामाम् वा कृत्वा विक्रीणन्ति । तेन च जीविकां कल्पयन्ति विनयातिक्रमः । अथ दानि माल्योपहारो भवति जातिमहा वा बोधिमहा वा धर्मचक्रमहा वा आनन्दमहा वा राहुलमहा वा पञ्चवार्षिका वा । महापञ्चवार्षिका । जनो दानि आह । आर्यमिश्रिकाहि शोभापयितव्यं । किञ्चापि भिक्षुणी मुत्पलमालाम् वा मल्लिकामालाम् वा आरङ्गणमालाम् वा ग्रन्थयत्य् अनापत्तिः । इदम् उच्यते उत्पलग्रन्थिकाप्रतिसंयुक्तं ॥ ह्र ॥

भिक्षुणी प्रकीर्णक 29

सुमनाग्रन्थिकाप्रतिसंयुक्तं

एवम् एव सुमनाग्रन्थिकाय नानाकरणं ग्रन्थिगुणं वा मालागुणम् वा पुष्पकञ्चुकम् वा कृत्वा विक्रीणाति । तेन जीविकां कल्पयति विनयातिक्रमः । इदम् उच्यते सुमनाग्रन्थिकाप्रतिसंयुक्तं ॥ 0 ॥

भिक्षुणीप्रकीर्णक 30

कर्तनाप्रतिसंयुक्तं

282. भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो शाकियकन्यायो यावन् महाकुलप्रव्रजितायो संज्ञिकाः सूत्रं कर्तयित्वा विक्रीणन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या पिचुकारिका इयं । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावद् भगवान् आह । तेन हि न क्षमति कर्तितुं । कर्तनाप्रतिसंयुक्तं । सा एषा भिक्षुणी कम्बलम् वा कर्पासम् वा क्षौमम् वा कौशेयम् वा शाणम् वा भङ्गम् वा अन्यम् वा कर्तयित्वा विक्रीणाति तेन जीविकां कल्पयति विनयातिक्रमम् आसादयति । अथ दानि भिक्षुणीये चीवरं परिश्रामणं वा क्षीनं वा भवति लभ्यं सी

भिक्षुणीप्रकीर्णक 31

आचारविकोपनाप्रतिसंयुक्तं

283. मनास्मि । ब्रह्मचर्यातो च्याविता । आह । केन । आह । सो मे देवरो परिपातेति । सो मे नयितुकामो । आह । उपविश माता याहि । वयं ते रक्षिष्यामः सा दान् आह गमिष्यामि आर्याये मूलं आर्या मे रक्षिष्यति । ताहि ताये नूपुराणि आबद्धानि कर्णिका आबद्धा वलयानि आविद्धानि अलङ्कृता रक्षोपरक्तेहि वस्त्रेहि परिहिता वावागुण्ठिता च । चतुहि पञ्चहि चेटिकाहि परिवृता । सो दानि मनुष्यो तान् द्वारे स्थित्वा अवलोकेति । यां वेलां निष्क्रमिष्यति ततो हं गृह्णीष्यामीति । तेन सा दृष्टा निष्क्रमन्ती । तस्य भवति अर्हति कुटुम्बिकभार्या एषा । न एषासा सा दानि भिक्षुणी । सा दानि भिक्षुणी उपाश्रयं गता भिक्षुणीहि दृष्टा । आहंसुः । आर्ये इयं सुदिन्ना प्रत्योधावित । आह । नाहं प्रत्योधाविता अपि तु मम देवरो प्रत्योधावयितुकामो । तस्य भयाद् आरक्षाभिप्राया एवं कृतं । पेयालं यावत् एतद् एव । भगवान् सर्वं पृच्छति । आम् भगवन् । भगवान् आह । एवञ् च नाम त्वं आचारं विकोपयसि । तेन हि न क्षमति आचारं विकोपयितुं । सा एषा भिक्षुणी त्यक्तमुक्तेन चित्तेन आचारं विकोपयति अभिक्षुणी भवति । अथ रक्षाभिप्राया आचारम् विकोपयति विनयातिक्रमः । न च अभिक्षुणी भवति । भिक्षुर् अपि अत्यक्तमुक्तेन चित्तेन रक्षार्थं आचारं विकोपयति अनापत्तिः । इदम् उच्यते आचारविकोपनाप्रतिसंयुक्तं ॥1 ॥

भिक्षुणीप्रकीर्णक 32

पात्रप्रतिच्छादनाप्रतिसंयुक्तं

284. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा भिक्षुणी पिण्डचारम् अण्वन्ती । सा दानि अपरं महान्तं कुलं पिण्डाय प्रविष्टा । तंहि स्त्रियाय लोलगर्भो दारको । सा दान् आह । आर्ये इमं दारकं उज्झेहि । आह । उज्झेतु आर्या । अहं आर्याये किञ्चिद् दास्यामि । आह । नाहम् एनम् उज्झामि । आह । आर्याय अहं एत्तकं चैत्तकं च दास्ये । ताय लुब्धाय उक्तं । इह पात्रे देहि । सा तं प्रतिच्छादयित्वा निष्क्रमति । थेरो दानि महाकाश्यपो पिण्डचारं प्रविष्टो । थेरस्यापि समदानं । या प्रथमा भिक्षा लक्षति तां भिक्षुस्य वा भिक्षुणीये वा प्रतिष्ठाये ति । थेरेण दानि सा दृष्टा । आह । आहर पात्रं । सा संकुसायति प्रतिच्छादेति न दर्शयेति । थेरो आह । आहर पात्रं । सा महेशाख्येन शास्तृकल्पेन थेरेणाभिगर्जिता । ताय दानि भीताय थरथरापन्तीय पात्रं प्रणामितं । थेरेण दृष्टं । आह । हि हीयाय धर्मो । एतं प्रकरणं आयुष्मान् महाकश्यपो भिक्षुणाम् आरोचयति । भिक्षू भगवतो आरोचयेंसुः । भगवान् आह । शब्दापयथ नन्दां । सा दानि शब्दापिता । एतद् एव पृच्छीयति । यावद् आम भगवन् । भगवान् आह । दुष्कृतन् ते नन्दे नैष धर्मो नैष विनयो यावत् । एवञ् च नाम त्वं पात्रं प्रतिच्छादेसि । तेन हि न क्षमति पात्रं प्रतिच्छादयितुं । पात्रप्रतिच्छादनाप्रतिसंयुक्तं । न क्षमति भिक्षुणीय प्राकटेन पात्रेण पिण्डाय अटितुं प्रतिच्छादयित्वा अटितव्यं । यदा भिक्षां प्रतिच्छति तदा उग्घाटिय प्रतिच्छितव्यं । यदि भिक्षुं रथ्यायां पश्यति उग्घाटिय उपदर्शयितव्यं । सा एषा भिक्षुणी प्राकटेन पात्रेण अटति विनयातिक्रमम् आसादयति । भिक्षुं दृष्ट्वा न उग्घाटिय दर्शेति विनयातिक्रमम् आसादयति । इदम् उच्यते पात्रप्रतिच्छादनाप्रतिसंयुक्तं ॥

भिक्षुणीप्रकीर्णक 33

वर्चकुटिप्रतिसंयुक्तं

285. भगवान् श्रावस्तीयं विहरति । ता दानि भिक्षुणीयो ओनद्धवर्चे वर्चकुटीये उपविशन्ति । वर्चकुटीये स्त्रियाय लोलगर्भो प्रतिक्षिप्तो । चण्डालाश् चित्रघटकेहि उच्चारं छोरयन्ति । तेहि सो दारको दृष्टो । ते तं दारकं एकायां बाहायां गृहीत्वा ओज्झायन्ति । श्रमणिका वर्चकुटीयं प्रसूता हि । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावत् तेन हि न क्षमति ओनद्धवर्चे उपविशितुं । वर्चकुटीप्रतिसंयुक्तं । न दानि क्षमति भिक्षुणीय ओनद्धवर्चकुटिं कारापयितुं । अथ खु विवृतपादका कारापयितव्या । न क्षमति आगतोदकं कारापयितुं । निःसीमा कारापयितवया । सा एषा भिक्षुणी ओनद्धवर्चकुटीयं आगतोदकायम् वा उपविशति विनयातिक्रमम् आसादयति । इदम् उच्यते वर्चकुटीप्रतिसंयुक्तं ॥

भिक्षुणीप्रकीर्णक 34

जेन्ताकप्रतिसंयुक्तं

286. भगवान् श्रावस्तीयम् विहरति । ताय दानि भिक्षुणीय शाकियकन्यायो लिच्छविकन्यायो मल्लकन्यायो जेन्ताके स्नायन्ति । कुलपुत्रकेहि अनुप्रविश्य ब्रह्मचर्यातो च्याविताः । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावत् तेन हि न क्षमति भिक्षुणीये जेन्ताके स्नायितुं । अथ दानि गिलाना भवति लभ्या विहारे स्वेदयित्वा तैलेन अङ्गानि म्रक्षयित्वा स्नायितुं । सा एसा भिक्षुणी जेन्ताके स्नायति विनयातिक्रमम् आसादयति । इदम् उच्यते जेन्ताकप्रतिसंयुक्तं ॥3 ॥

भिक्षुणीप्रकीर्णक 35

आरण्यकशयनासनप्रतिसंयुक्तं

287. भगवान् श्रावस्तीयम् विहरति । तेन कालेन तेन समयेन भिक्षुणीनाम् आरङ्यकानि शयनासनानि न प्रतिक्षिप्तानि ग्रामान्तिकानि च अकृतानि । तेन खलु पुनः समयेन पञ्चमात्राणि भिक्षुणीशतानि महाप्रजापतीप्रमुखानि राजकारामे विहरन्ति । तायो दानि शाकियकन्यायो लिच्छविकन्यायो कोलितकन्यायो प्रासादिकायो दर्शनीयायो । तायो दानि कुलपुत्रकेहि ओचरितायो । तायो पुरिमं यामं प्रहाणम् उपविष्टा । कुलपुत्रकाश् च अल्लीना ग्रहेष्यामो ति । ताः स्रत्ति वैहायसम् अभ्युद्गताः । ते कुलपुत्राः प्रत्योसक्किताः । तायो पुनो मध्यमयामं एवम् पश्चिमं यामं प्रहाणम् उपविष्टाः । कुलपुत्रकाश् च अल्लीना ग्रहेष्यामो ति । तंहि तदा नीयाः क्षिप्रसमापत्तिकाः । याहि च मिद्धम् अनोक्रान्तं ताः स्रत्ति वैहायसम् अभ्युद्गताः । यावन्त समापत्तिका याहि च मिद्धम् अवक्रान्तं तायो कुलपुत्रकेहि गृह्य विहेठिताः । एतं प्रकरणं । पेयालं । यावत् तेन हि न क्षमति आरण्यके शयनासने वस्तुं । अथ दानि चातुष्पथिका सर्वरात्रिका भवति उपासकोपासिका गच्छन्ति लभ्यं वस्तुं । तहिं पि न क्षमति प्रतिगुप्ते प्रदेशे वस्तुं । सा एषा भिक्षुणी आरण्यके शयनासने वासं उपगच्छति वर्षम् वा वसति विनयातिक्रमम् आसादयति । इदम् उच्यते आरण्यकशयनासनप्रतिसंयुक्तं ॥ तृ ॥

भिक्षुणीप्रकीर्णक 3641

भिक्षुणीप्रकीर्णक 36, 37

288. यो भिक्षूणाम् आस्तारो अनास्तारो सो भिक्षुणीनां । यो भिक्षुणीनां आस्तारो अनास्तारो सो भिक्षूणां ॥ ग्रा ॥

भिक्षुणीप्रकीर्णक 38, 39

यो भिक्षूणाम् उद्धारो अनुद्धारो सो भिक्षुणीनां । ग्रा । यो भिक्षुणीनाम् उद्धारो अनुद्धारो सो भिक्षूणां ॥ 0 ॥

भिक्षुणीप्रकीर्णक 40, 41

यो भिक्षूणाम् अभिहारो अनभिहारो सो भिक्षुणीनां ॥ ऌ ॥

यो भिक्षुणीनाम् अभिहारो अनभिहारो सो भिक्षूनां ॥ ऌ ॥

॥ चतुर्थो वर्गः ॥

भिक्षुणीप्रकीर्णक 4248

भिक्षुणीप्रकीर्णक 42, 43

289. यं भिक्षूणाम् आमिषं अकल्पियं । अकल्पियं तं भिक्षुणीनां ॥ यं भिक्षुणीनाम् आमिषं अकल्पियं कल्पियं तम् भिक्षूणां ॥ 2 ॥ भिक्षुणीप्रकीर्णक 44, 45 लभ्यं भिक्षुस्य भिक्षुणीय प्रतिग्रहयितुं स्थापयित्वा जतरूपरजतं अग्निकल्पियञ् च ॥ 3 ॥ लभ्यं भिक्षुणीये भिक्षूणा प्रतिग्राहापयितुं स्थापयित्वा जातरूपं रजतं अग्निकल्पियञ् च ॥ ण्क ॥

भिक्षुणीप्रकीर्णक 46

290. त्रीणि भिक्षुस्य अभिक्षुकरणानि । कतमानि त्रीणि । त्यक्तमुक्तेन चित्तेन शिक्षां प्रत्याख्याति [1] । संघो वासति वस्तुस्मिन् नाशेति [2] । स्त्रीलिङ्गम् वा सा प्रादुर्भवति [3] । इमानि त्रीणि भिक्षुष्य अभिक्षुकरणानि । तेन भिक्षुणा भिक्षुणीविहारं गन्तव्यं । न क्षमति भिक्षुणीनाम् एकपिटके एके पि विचारे वस्तुं । अथ खु च्छिन्नोपविचारे वस्तव्यं । यदास्य भूयो भिक्षु लिङ्गं प्रादुर्भवति तदा भिक्षुविहारम् आगन्तव्यं । सा एवास्योपसम्पदा तद् एव वर्षाग्रं ॥ तृ ॥

भिक्षुणीप्रकीर्ंअक 47

त्रीणि भिक्षुणीये अभिक्षुणीकरणानि । कतमानि त्रीणि । त्यक्तमुक्तेन चित्तेन आचारं विकोपयति । [1] । संघो वासति वस्तुस्मिन् नाशेति । [2] । पुरुषलिङ्गं वास्य प्रादुर्भवति [3] । इमानि त्रीणि भिक्षुणीये अभिक्षुणीकरणानि । तथैव यथा भिक्षोः ॥ फु ॥

भिक्षुणीप्रकीर्णक 48,

नास्ति भिक्षुणीये अतिरिक्तकर्म ॥ ग्र ॥

भिक्षुणीप्रकीर्णक 49

रतनप्रतिसंयुक्तं

291. भगवान् श्रावस्तीयम् विहरति । अपरं दानि कुलं राजकुलेन उपहतं । राजभटाः परिवारि वारिय रक्षन्ति । स्थूलनन्दा नाम भिक्षुणी पिण्डचारम् अन्वण्टी तंहि प्रविष्टा । सा स्त्री ताम् आह ॥ आर्ये इदं कुलं राजकुलेनोपहतं उत्कचप्रकचो । इमम् आर्ये निष्क्रामेतु यदि जीवन्तीयो मुच्चिष्यामो अस्माकं भविष्यति आर्याये वृत्तिं दास्यामो आर्याये एतं भविष्यति । ताय तस्याः पात्रं उपनामितं इमंहि देहीति । नानाकाराणां रत्नानां पात्रं पूरयित्वा दिन्नं मुक्तायाः मणीनां स्फोटिकस्य मुसारगल्वस्य लोहिकायाः । सा दानि प्रतिच्छादयित्वा निष्क्रमति । भटेहि च दृष्टा ते दान् आहंसुः । आहर किम् इदं । सा संकुसायति न दर्शेति । थरथरापन्तीय भीतभीताय दर्शितं । भिक्षुणीहि श्रुतं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् छब्दापिता । तद् एव पृच्छीयति । आह । आम भगवन् । भगवान् आह । तेन हि न क्षमति रतनं प्रतिच्छादयितुं । रतनप्रतिसंयुक्तं । एतं दानि महान्तं कुलं राजकुले नोफतम् भवति यावन् न लेख्यं कृतम् भवति । न सारज्यं कृतम् भवति । यदि किञ्चिद् ददन्ति लभ्यं निष्कासयितुं । अथ दानि लेख्यं कृतम् भवति रक्षा वा कृता भवति भटेहि परिवारितम् भवति । आह । इमं गृहं राजकुलेनोपहतं यदि तावज् जीवन्तीयो मुच्यामः अस्माकं भविष्यति आर्याया एव भविष्यतीति न क्षमति निष्कासयितुं । वक्तव्यं । भगवता शिक्षापदं प्रज्ञप्तं न क्षमति निष्कासयितुं । अथ दान् आह । चैत्यस्य देमः संघस्य वा देमः आर्याये एव देमो ति गृह्णीतव्यं । गृह्णीत्वा न क्षमति प्रतिच्छादयित्वा निष्कासयितुं । प्राकटं कृत्वा निष्कास्यितव्यं । अथ पृच्छीयति कस्येदन् ति चैत्यस्य संघस्य ममेति । यदि मुच्यते नन्दं भद्रं । अथाछिद्यति दातव्यं । सा एषा भिक्षुणी रतनपूर्णपात्रं प्रतिच्छादेति विनयातिक्रमम् आसादयति । इदम् उच्यते रतनप्रतिसंयुक्तं ॥ ह्रा ॥

भिक्षुणीप्रकीर्णक 50

यथावृद्धिकाय

292. भगवान् श्रावस्तीयम् विहरति । नदीये अजिरावतीये पारे उभयतो सांघिकं भक्तं । तहिं भिक्षवो गच्छन्ति नावाय । भिक्षुणीयो न लभन्ति अभिरुहितुं । भिक्षू आहंसुः । मा भगिनीयो अभिरुहथ । भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति भिक्षुस्य भिक्षुणीय सह एकनावाम् अभिरुहितुं ति । ते दानि भिक्षू ओसरन्तिकाय उत्तरन्ति । एकभिक्षुणापि नावा पलिगुद्धा भवति द्विहि त्रिहि एवं पलिगुद्धा भवति । यदा ते भिक्षू उत्तरिताः तदा भिक्षुणीयो एकनावापरिपूरकेन तारिताः । तासां वर्षाग्रं परिग्राहन्तीनां अकालिभूतं । अथ खो महाप्रजापती गौतमी सायाह्नसमये परिकिलन्तेहि महाभूतेहि भगवतो पादवन्दीकां उपसंक्रान्ता । भगवान् जानन्तो येव पृच्छति । केन भे गौतमि परिकिलन्तानि महाभूतानि । अथ महाप्रजापती गौतमी भगवतो तद् एव सर्वम् आरोचेति । भगवान् आह । तेन हि अष्टाहि भिक्षुणीहि यथावृद्धिकाय उपवेष्टव्यं । शिष्टाहि यथागतिकाय । एते दानि भवन्ति भक्ता वा तर्पणा वा यवागुपाना वा परं वार्षिका वा महापञ्चवार्षिका वा अष्टानां भिक्षुणीनां आसनानि स्थापयितव्यानि यथावृद्धिकाय । अष्ट वा निर्मुष्टिका हस्ताः प्रतिकृत्य्ऽ एव गन्तव्यं । ता एता भिक्षुणीयो अष्टानाम् आसनानि स्थापयित्वा निषीदन्ति विनयातिक्रमम् आसादयन्ति । तेन भगवान् आह । अष्टाभिर् भिक्षुणीभिर् यथावृद्धिकाय उपवेष्टव्यम् उ शिष्टाभि यथागतिकाय ॥ 0 ॥ ।पञ्चमो वर्गः ॥

भिक्षुणीप्रकीर्णक

(चोन्च्लुदिन्ग् सुप्प्लेमेन्त्)

293. परिवासो [1] । लशुनं [2] । छत्त्रं [3] । यानं [4] । तथैव शस्त्रकर्माणि [5] । उपानहो [6] । शय्या [7] । निषद्या [8] । नवमं प्रेक्षणं [9] । इमे नव पदा प्रकीर्णकातो समुद्धृताः ।

सर्वे अन्ये नव पदा अनूना प्रतिषितव्या पुन तहिं । यत्रासि परिवासो सत्त्वविकृतिन् तहिम् समोदहे । यत्रासि उपानहो वृक्षविकृतिम् तहिं समोदहेत् । यत्रासि लशुनं काष्ठविकृतिं तहिं समोदहे । यत्रासि शय्या निर्दिशेत् तहिं पुष्पविकृतिं । यत्रासि यानं फलविकृतिं निर्दिशेत् तहिं विज्ञः । यत्रासि सहनिषद्या एकोर्त्तकं तहिं समादिशेत् छत्रं । यत्रासि आपत्तिं तत्र निर्देशेद् विज्ञः । यत्रासि शस्त्रकर्म निर्दिशेत् तहिं अन्द् आपत्तिः । यत्रासि विशोकदर्शनं आपत्तिप्रतिकर्म तत्र निर्दिशेद् विज्ञः । एतावता उद्धाराः प्रकीर्णके ये च ओवृषाः वर्गं समुद्धरिय द्वादशमं । नव पदानि पुनर् एव भिक्षुणीनां प्रकीर्णके सर्वं प्रतिक्षिप्तं भिक्षुप्रकीर्णकतो वर्गास् त्रयोदश कार्याः । अन्ये च पञ्च वर्गायुतका यथा भिक्षुणीसूत्रे । आरण्यकं । जेन्ताकं वर्च कठिनं उद्धरित्वा अवशेषा तथैव कार्याः । अभिसमाचारिका धर्माः । तं सर्वं सङ्कले पुन वर्गा अष्टादश प्रकीर्णके स्वयंभुना निर्दिष्टा । भिक्षुणीसूत्रे उभेसूत्रे संकलेत्वान शिक्षापदसंग्रहो यथाभूतं । पञ्चशतानि अनूनानि अपरे च पदा चतुस्त्रिंशत् ।

समाप्तं भिक्षुणीप्रकीर्णकं आर्यमहासांघिकानां लोकोत्तरवादिनां ॥

भिक्षुप्रकीर्णक 1-23

294. प्रकीर्णकोद्दानं । तत्र उपसंपदा [1] । अनुपसम्पदा [2] । उपसम्पाद्यो [3] । अनुपसम्पाद्यो [4] । कर्म [5] । कर्मवस्तु [6] । तर्जनीयं [7] । निघर्षणीयं [8] प्रव्राजनीयं [9] । प्रतिसारणीयं [10] ॥

॥ प्रथमो वर्गः ॥

उद्दानं । उत्क्षेपनीयं कर्म [11] । परिवासदानं [12] । मानत्वदानं [12] । आह्वयनं [14] । स्थानार्हं कर्म [15] । अस्थानार्हं कर्म [16] । निषृतवर्तं [17] । स्थलस्थवर्तं [18] । नानासम्वासवर्तं [19] । पाराजिकाय आपत्तीये [20] । शिक्षाये [12] । दिन्नवर्तं [22] । तस्य पापेयसिक शमथ [23] । दिन्नवर्तं ॥

॥ द्वितीयो वर्गः ॥

भिक्षुप्रकिर्णक 24-54

उद्दानं । चोदनावस्तु [24] । कारणावस्तु [25] । नाशनावस्तु [26] । नानासम्वासवस्तु [27] । अर्थसामीची [28] । सम्मुतिप्रतिसंयुक्तं [29] । वस्तुप्रतिसंयुक्तं [30] । विहारवस्तुप्रतिसंयुक्तं [31] । नवकर्मिकप्रतिसंयुक्तं [32] । शय्यासनप्रतिसंयुक्तं [33] । सामीचीकर्मप्रतिसंयुक्तं [34] ॥

॥ तृतीयो वर्गः ॥

उद्दानं । पोषधप्रतिसंयुक्तं [35] । छन्ददानप्रतिसंयुक्तं [36] । पारिशुद्धिप्रतिसंयुक्तं [37] । वर्षोपनायिकाप्रतिसंयुक्तं [38] । प्रवारणाप्रतिसंयुक्तं [39] । अस्तारो अनस्तारो [40] । उद्धारो अनुद्धारो [41] चीवरप्रतिसंयुक्तं [42]

॥ चतुर्थो वर्गः ॥

उद्दानं । ग्लानप्रतिसंयुक्तं [43] । भैषज्यप्रतिसंयुक्तं [44] । उपाध्यायप्रतिसंयुक्तं [45] । सार्धेविहारिप्रतिसंयुक्तं [46] । आचार्यप्रतिसंयुक्तं [47] । अन्तेवासिप्रतिसंयुक्तं [48] । श्रामणेरप्रतिसंयुक्तं [49] । पात्रप्रतिसंयुक्तं [50] यवागुप्रतिसंयुक्तं [51] । यूषप्रतिसंयुक्तं [52] । पानकप्रतिसंयुक्तं [53] । सौवीरकप्रतिसंयुक्तं [54] ।

॥ पञ्चमो वर्गः ॥

भिक्षुप्रकीर्णक 55-84

295. उद्दानं । अकर्माणि विनीतानि [55] । अन्तरायिकप्रतिसंयुक्तं [56] । अनन्तरायिकप्रतिसंयुक्तं [57] । भिक्षुणीप्रतिसंयुक्तं [58] । अन्तोवुस्तं [59] । अन्तोपक्वं [60] । आमधान्यप्रतिग्रहप्रतिषेधः [61] । आममांसप्रतिग्रहप्रतिषेधः [62] । उद्गृहीतप्रतिगृहीतं [63] ॥

॥ षष्ठो वर्गः ॥

उद्दानं ॥ गुरुपरिष्कारो [64] । मृतपरिष्कारो [65] । उन्मत्तकसम्मुतिप्रतिसंयुक्तं [66] । दृष्ट्वा त्रिकर्मप्रतिसंयुक्तं [67] । श्रद्धादेयविनिपातनाप्रतिसंयुक्तं [68] । उपानहप्रतिसंयुक्तं [69] । पादुकप्रतिसंयुक्तं [70] । अष्टनप्रतिसंयुक्तं [71] । वृन्तप्रतिसंयुक्तं [72] । दण्डशिक्यप्रतिसंयुक्तं [73] ।

॥ सप्तमो वर्गः ॥

उद्दानं । लशुनप्रतिसंयुक्तं [74] । पात्रनिकुब्जना [75] । सम्मुतिप्रतिसंयुक्तं [76] । गन्ठीपाशकप्रतिसंयुक्तं [77] । कायबन्धनप्रतिसंयुक्तं [78] । वीडाप्रतिसंयुक्तं [79] । यानप्रतिसंयुक्तं [80] । सहशय्या [81] । सहनिषद्या [82] । सहभोजन [83] । भक्तोपधानप्रतिसंयुक्तं [84] ॥

॥ अष्टमो वर्गः ॥

भिक्षुप्रकिर्णक 85-121

उद्दानं । उद्दिश्य कृतप्रतिसंयुक्तं [85] । मानुषमांसप्रतिसंयुक्तं [86] । चर्मप्रतिसंयुक्तं [87] कतकप्रतिसंयुक्तं [88] । अञ्जनप्रतिसम्युक्तं [89] । अञ्जनीप्रतिसंयुक्तं [90] । अञ्जनिशलाकाप्रतिसंयुक्तं [91] । छत्रप्रतिसंयुक्तं [92] । व्यञ्जनप्रतिसंयुक्तं [93] । वालवीजनीप्रतिसंयुक्तं [94] ॥

॥ नवमो वर्गः ॥

उद्दानं । शस्त्रकर्म [95] । वस्तिकर्म [96] । मुण्डकर्म [97] । केशारोपणप्रतिसंयुक्तं [98] । नापितकुञ्चीरप्रतिसंयुक्तं [99] । संघभेदः संघसामग्री [100] । पञ्चशतानि नयसंगीतिः [101] । सप्तशतानि नयसंगीतिः [102] । विनयसमुत्कर्षो [103] ॥

॥ दशमो वर्गः ॥

296. उद्दानं । क्षेपनप्रतिसंयुक्तं [104] । महासमाजविहरणप्रतिसम्युक्तं [105] । गन्धमाल्यप्रतिसंयुक्तं [106] । आदर्शप्रतिसंयुक्तं [107] । वृक्षारोहणप्रतिसंयुक्तं [108] । ज्योतिः प्रतिसंयुक्तं [109] । कांसभाजनप्रतिसंयुक्तं [101] । कायप्रतिसंयुक्तं [111] । सम्मीलीप्रतिसंयुक्तं [112] । परिणामनाप्रतिसंयुक्तं [113] ॥

॥ एकादशमो वर्गः ॥

उद्दानं । सत्त्वविकृतिप्रतिसंयुक्तं [114] । वृक्षविकृतिप्रतिसंयुक्तं [115] । काष्ठविकृतिप्रतिसंयुक्तं [116] । पुष्पविकृति[प्रति]सम्युक्तं [117] । फलविकृतिप्रतिसंयुक्तं [118] । एकर्तुविकृति[प्रति]सम्युक्तं [119] । आपत्तिप्रतिसंयुक्तं [120] । अनापत्तिप्रतिसंयुक्तं [121] ॥

॥ द्वादशमो वर्गः ॥

भिक्षुप्रकीर्णक 122-141

उद्दानं । समथो [122] । शमथवस्तु [123] । दमथो [124] । दमथवस्तु [124] । अनुज्ञातप्रतिक्षिप्तप्रतिसंयुक्तं [126] । मुखतैलकप्रतिसंयुक्तं [127] । मुखचूर्णकप्रतिसंयुक्तं [128] । कुच्चप्रतिसंयुक्तं [129] । कङ्कत प्रतिसंयुक्तं [130] । वीजनीप्रतिसंयुक्तं [131] ।

॥ त्रयोदशमो वर्गः ॥

उद्दानं । स्तूपप्रतिसंयुक्तं [132] । स्तूपवस्तुप्रतिसंयुक्तं [133] । स्तूपगृहप्रतिसंयुक्तं [134] । स्तूपरामप्रतिसंयुक्तं [135] । स्तूपपुष्किरिणीप्रतिसंयुक्तं [136] । चेतियप्रतिसंयुक्तं [137] । चेतियालङ्कारप्रतिसंयुक्तं [138] । नटनर्तकप्रतिसंयुक्तं [139] । साहरणाप्रतिसंयुक्तं [140] । आपदाप्रतिसंयुक्तं [141] ॥

॥ चतुर्दशमो वर्गः ॥

भिक्षुप्रकिर्णक (एन्द्)

वर्गोद्दानं ।

उपसम्पदा [1] । वा उत्क्षेपश् [2] । चोदना च [3] । पोषधो [4] । ग्लानश् च [5] । अकर्माणि [6] । गुरुकं [7] । लशुनोद्दिश्य [8, 9] । शस्त्रकर्म [10] । च क्षेपः [11] । सत्त्व [12] । समथः [13] । स्तूपवर्गेण पूर्यते [14] ॥

समाप्तो भिक्षुप्रकीर्णकविनयः आर्यमहासांघिकानां लोकोत्तरवादिनां ॥

ये धर्मा हेतुप्रभवा । हेतुन् तेषान् तथागतो ह्य् अवदत् । तेषाञ् च यो निरोध । एवंवादी महाश्रमणः ॥

श्रीः ॥ श्रीः ॥ श्रीः ॥ .......थ ॥ थ ॥ थ........ ॥

'phagspa dge 'dunphalchen pai 'jig rtenlas 'dasparsmrabai dge sloṅgi 'dulba silbu rdzogsso ||

addenda 1 (p. iii) pācattika-dharma 141 zu bhi-vin (mā-l), 251

fol. 71b अथाह आर्ये कहिं दानन् दातव्यं । यहिंचित् तं प्रसीदति । अथाह । कहिं दानं दिन्नं महाफलं भवति । वक्तव्यं संघे दिन्नम् महाफलं । अथाह । कहिं दानि संघो शीलवान् गुणवान् भद्रको शिक्षाकामो वक्तव्यं । नास्ति संघो दुःशीलो नाम । अथ दान् आह । कहिं दानि अभियुक्ता भिक्षुभिक्षुणीयो वा क्रियायां वा । खण्डप्रलुग्गे वा उद्देशे स्वाध्याये योगे मनसिकारे कहिं वा शीघ्रं परिसमाप्येत् । चिरं च दृश्येत सम्पक्वो परिभुंज्येत । लभ्यं सम्यग्मती कर्म दातुं । अमुकंहि भिक्षू वा भिक्षुणीयो वा अभियुक्ता इत्य् आदि । सा एषा भिक्षुणी सांघिकं लाभं आत्मनो परिणामयेन् निःसर्गिक । सांघिकं लाभं पुद्गलस्य परिणामयेत् पाचत्तिकं ॥ गणलाभं गणस्य परिणामयेत् पाचत्तिकं । पर्षलाभं परिलाभं परिषाय परिणामयेत् पाचत्तिकं । पौद्गलिकं पुद्गलस्य परिणामयति विनयातिक्रमः । भिक्षुर् अपि गणलाभं गणस्य परिणामयति विनयातिक्रमः । तेन भगवान् आह ।

या पुन भिक्षुणी जानन्ती गणलाभं परिणतं गणस्य परिणामयेत् पाचत्तिकं ॥ लृ ॥

उद्दानम् ।

ओवादो [1(132)] गण्डञ् च [2(133)] । उपगतवुस्ता द्वे च [3(134), 4(135)] । उद्वाहो [5(136), 6(137)] । भित्ति (तिरो-कुड्यं) [7(138)] हरितम् उदकम् [8(139), 9(140)] गणस्य परिनामयेत् [10(141)]

चतुर्द्दशमो वर्गः ॥ ः ॥

अद्देन्द 1 (प्. इव्) वर्गावशेषाः देशना च विहारो च भिक्षुणीनाञ् च ये दश प्रणीतसम्मतम् मात्रं । यावत् वासादना इह छदना सहशय्या च । सम्विधानञ् च वुच्चति । निषद्या ऊनविंशो च । अरण्यायां च शाटिका द्वाविंशति शुद्धेकेहि उद्धारा भिक्षुणीनां प्रवुच्चति । देशनाम् उद्धरित्वान संचिन्त्यं समोदहे पुनो चात्र ॥

अथ पुनो विहारं उद्धरिय भणेय को कुच्चं । आसादनं । अपनेत्वा समोदहे चीवरं पुनो तत्र विज्ञप्तिम् उद्धरित्वान अपरिहता चतु निर्दिष्टा । अपकर्षिय स्नानं । भीषणां समोदहे । तत्र छादना उद्धरित्वान उदकहास्यं च निर्दिष्टं । उत्क्षिप्य ऊनविंशति निर्दिष्टं । अङ्गुलिप्रतोदो उद्धरिय अरण्यवासं । समोहो पुनो भवति तत्र एव तावता च ।

अद्देन्द 1 (प्. व्) उद्धारा ते भूषाः । पण्डितेन विज्ञेयाः । वर्गं समुद्धरित्वा सप्तमकं । यते ते भूषाः पुरिमा च सप्त वर्गाः । सप्तति शिक्सापदा समाख्याताः । अन्ये च सप्त वर्गाह् । युतं यन् भिक्षुणीसूत्रे तं सर्वम् संकलेत्वान शतं भवति । पिण्डेनैकचत्तालं पाचत्तिका निर्दिष्टाः भिक्षुणीसूत्रे ॥ उद्दिष्टा आर्यमिश्रिकायो एकचत्तालं शतं शुद्धपाचत्तिका धर्माः ।

तत्रार्यमिश्रिकायो पृच्छामि कच्चित् थ परिशुद्धाः । द्वितीयं पि तृतीयं पि पृच्छामि । कच्चित् थ परिशुद्धाः । परिशुद्धा अत्रार्यमिश्रिकायो । यस्मात् तूष्णीम् एवम् एतद् धारयामि ॥ ः ॥

252. भगवान् श्रावस्तीयम् विहरति । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रेति । एकम् इदं गौतमि समयं तथागतो इहैव श्रावस्तीयं विहरति ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.