Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
भिक्षुणीविनय
- Thông tin
- GRETIL — Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
178. भगवान् श्रावस्तीयम् विहरति । अपराय दानि भिक्षुणीय पुराणसंघाटी ओमलिनमलिना धोवित्वा निःसीवित्वा आतपे दत्त्वा वातो च प्रवापितो । अग्निश् च उत्थितः । संघाटी दग्धा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति । पेयालं यावद् भगवान् आह । एवन् नाम त्वं पुराणसंघाटीं निःसीवित्वा न प्रतिसंधैसि न प्रतिसन्धापयसि । तेन हि प्रतिसन्धेतव्यं प्रतिसन्धापेतव्यं ।
एषा चार्थोत्पत्तिः । ता दानि भिक्षुणीयो शाकियकन्यायो मल्लकन्यायो लेच्छवि कन्यायो सुकुमारायो भारिकां संघाटिं धोवन्तीयो किलम्यन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचेति । यावद् भगवान् आह । तेन हि अनुजानामि षट्पञ्चरात्रं । अथ खलु भगवान् महाप्रजापतीम् गौतमीम् आमन्त्रयति । यावद् भगवान् आह ।
या पुन भिक्षुणी पुराणसंघाटिं निःसीवित्वा निःसिवापेत्वा वा उत्तरि षट्पञ्चरात्रम् अगिलाना न प्रतिसन्धाये न प्रतिसन्धापयेन निःसर्गिकपाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । पुराणसंघाटीति पुराणचीवरं । संघाटीति द्विपुटा । निःसीवित्वा ति स्वयं । निःसीवापेत्वा ति परेण । उत्तरीति षट्पञ्चरात्रम् इति न दानि षट्पञ्च च । अथ खलु परमं षट्रात्रन् न प्रतिसन्धेयैति स्वयं न प्रतिसन्धापेया ति परेण । न प्रतिसन्धापेयन् निस्सर्गिकपाचत्तिकं । पेयालं । यावत् प्रज्ञप्तिः ।
एषा दानि भिक्षुणीये संघाटी मलिना भवति । यदि ताव लहुका भोति तथा येव धोवितव्या । न क्षमति निःसीवयितुं । अथ दानि सारिका भोति निःसीवेत्वा निःसीवित्वा धोवितव्या । प्रत्यर्गलकानि दत्त्वा आतपे दातव्या । साहरित्वा गोपिटके वा कुण्डके वा पटलके वा स्थापयित्वा काष्ठखण्डेन वा उपलखण्डेन वा आक्रमितव्या । न क्षमति प्रकीर्णम् ओसारयितुं । अथ दानि भाजनन् न भवति एकस्थाने आक्रमिय इष्टकेन वा उपलखण्डेन वा स्थापयितव्या । पश्चाद् अन्तेवासिणीय वा समानोपाध्यायिनीया वा भिक्षुणीय प्रतिसन्धापयितव्या स्वयम् वा प्रतिसन्धेतव्या । अथ दानि जरादुर्बला व्याधिदुर्बला वा भवति किञ्चापि चिरेण प्रतिसन्धेति अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी पुराणसंघाटीन् निःसीवित्वा वा निःसीवापेत्वा वा उत्तरि षट्पञ्चरात्रं अग्लाना न प्रतिसन्धे वा न प्रतिसन्धापेय वा निःसर्गिकपाचत्तिकं ।
निःसर्गिकपाचत्तिकधर्म 18
उक्त्वा शिक्षमाणां
179. भगवान् श्रावस्तीयम् विहरति । अपरा दानि शिक्षमाना उपसम्पाद्या । सा दानि स्थूलनन्दां भिक्षुणीम् आह । आर्ये नन्दे उपसम्पादय मां । सा आह । यदि चीवरम् देसि ततो हम् उपसम्पादेमि । ताय दानि तस्याश् चीवरं दत्तं । सा दान् आह । आर्ये उपसम्पादय मां । सा विलक्षेति । सा भिक्षुणीनाम् आह । एवम् एव याव सा विलक्षेति नोपसम्पादेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह ।
या पुन भिक्षुणी शिक्षमाणाम् एवम् उक्त्वा यदि मे चीवरं देसि ततो हम् उपसम्पादयिष्यामीति ताये चीवरं गृह्य नोपसम्पादयेन् निःसर्गिकपाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । शिक्षमाणा ति देशितशिक्षा । यदि मे चीवरं देसि ततो हम् उपसम्पादयिष्यन् ति । चीवरन् ति चीवरं नाम कम्बलं कर्पासं यावत् संकक्षिका । उपस्थापयिष्यन् ति उपसंपादयिष्यं । सा तं चीवरं गृह्णित्वा ति यथा स्थूलनन्दा भिक्षुणी न उपसम्पादयेद् इति स्वयन् न उपसम्पादयेत् निःसर्गिकपाचत्तिकं । यावत् प्रज्ञप्तिः । एषा ताव भिक्षुणी शिक्ष्यमाणाया चीवरं गृह्णाति । अहन् ते उपसम्पादयिष्यामीति । ताय उपसंस्थापयितव्या । अथ दानि अप्रतिबला भवति जरादुर्बला व्याधिदुर्बला वा अन्या अध्येषितव्या । वक्तव्या एतस्या मया चीवरं गृहीत्वा इमाम् उपस्थापेहि । अथ सा नेच्छति तं चीवरं प्रतिदातव्यं । गच्छ यत्रेच्छसि तत्र उपसंपद्याहीति । सा एषा भिक्षुणी चीवरं गृहीत्वा न उपस्थापेति न चीवरं प्रतिददाति निःसर्गिकपाचत्तिकं । भिक्षुर् अपि विनयातिक्रमः । तेन भगवान् आह ।
या पुन भिक्षुणी शिक्षमानाम् एवं वदित्वा यदि मे चीवररं देसि ततो हम् उपसंपादयिष्यन् ति तस्याश् चीवरं प्रतिगृह्णीत्वा न उपसंपादयेन् निःसर्गिकपाचत्तिकं ।
निःसर्गिकपाचत्तिकधर्म 19
गुरुप्रावरणं
180. भगवान् वैशालीयम् विहरति । अपरो दानि वाणिजको शतसहस्रमूल्यं कम्बलरतनम् आदाय उत्तरा पथातो आगतो । सो दानि अपरेहि पृच्छितो किम् अस्य मूल्यं । आह । शतसहस्रमूल्यन् ति । नैव राजा क्रीणाति न राजपुत्राः न वणिजाः न सार्थवाहाः । सो दानि वाणिजको वीथीम् अभिरुहित्वा चिन्तासागरम् अनुप्रविष्टो आसति । इमं महार्घं मूल्यं भाण्डं बहुशुल्कं न विक्रायति । अपरो दानि पृच्छति । विक्रीतं ते भाण्डं । आह । नहि इच्छसि विक्रीणितुं । आह । इच्छामि । आह । गच्छ एषा भद्रा नाम श्रमणिका सा क्रीणीष्यति । सो दानि तं चेटकस्य स्कन्धे आरोपयित्वा भिक्षुणी विहारं गत्वा पृच्छति । कतमं आर्याये भद्राये परिवेणं । अपराहि भिक्षुणीहि आख्यातं । सो दानि प्रविश्य आह । वन्दाम्य् आर्ये आर्या भद्रानाम आह । बाढं । किं कर्तव्यं । आह । इमं कम्बलरतनं विक्रेयं विक्रीणामि । आह । किम् एतस्य मूल्यं । आह । शतसहस्रं । सा दानि न पणेति न पणापेति । अन्तेवासिनीये आह । गच्छ सालोहितं जल्पाहि इमस्य शतसहस्रं वीथीकातो दापेहीति । सो दानि अपरेहि पृच्छितो । विक्रीतं ते भाण्डं । आह । विक्रीतं । आह । केन क्रीतं । आह । एषा भद्रा नाम श्रमणिका । ताय क्रीतं । ते दानि ओज्झायन्ति । अद्याप्य् एषा प्रव्रजिता पि महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचेति । भगवान् आह । शब्दापयथ भद्रां । सा दानि शब्दापिता । तद् एव सर्वं यावद् आम् भगवन् । भगवान् आह । ननु भद्रे पश्चिमा पि नाम जनता अवलोकयितव्या । तेन हि न क्षमति उत्तरि चतुष्कर्षेण गुरुप्रावरणं चेतापयितुं । यावद् भगवान् आह ।
या पुन भिक्षुणी उत्तरि चतुष्कर्षेण गुरुप्रावरणं चेतापयति ङिस्सर्गिकपाचत्तिकं ।
उत्तरि चतुष्कर्षेणेति कर्षो नाम चत्वारः पुराणाः । चत्वारः कार्षाः षोडषकार्षापणाः । गुरुप्रावरणम् इति कम्बलरत्नं । चेतापयेद् इति जानापयेत् । तद् उत्तरिं परं षोडषेहि पुराणेहि चेतापयति निःसर्गिकपाचत्तिकं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी गुरुप्रावरणं चेतापयितुकामा भवति चतुष्कर्षमूल्यं जानापयितव्यं । प्रत्यवरो वा तद् उत्तरिं न क्षमति ।
अथ दानि कोचिद् अयाचितो अविज्ञप्तो महार्घमूल्यं पि ददाति प्रतिगृह्णात्य् अनापत्तिः । तद् एवं भिक्षुणीये परिमाणबद्धं । किञ्चापि भिक्षुर् महार्घमूल्यं पि जानापयित्वा परिभुञ्जात्य् अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी उत्तरि चतुष्कर्षमूल्यातो गुरुप्रावरणं चेतापयेन् निःसर्गिकपाचत्तिकं ।
निःसर्गिकपाचत्तिकधर्म 20
सुखुमं
181. भगवान् वैशालीयं विहरति । अपरो दानि वाणिजको दक्षिणपथातो आगतो । दशसहस्रमूल्यं हंसलक्षणपटम् आदाय । सो दानि अपरेहि पृच्छितो । किं मूल्यं । आह । दशपुराणसहस्राणि । नैव राजा क्रीणाति । पेयालं । यावद् अत्र भद्रा नाम श्रमणिका । सा क्रीणिष्यति । सो दानि तम् आदाय भिक्षुणीविहारं गतो । पृच्छति । कतमं आर्याये भद्राये परिवेणं । अपराहि आख्यातं । सो दानि प्रविश्य आह । वन्दाम्य् आर्ये आर्या भद्रा नाम । आह । बाढं । किं कर्तव्यं । आह । अयं हंसलक्षणो पटो विक्रायति । आह । किम् एतस्य मूल्यम् । आह दशपुराण सहस्राणि । सा न स्वयं पणेति न पणापेति । अन्तेवासिनीम् आह । गच्छ सालोहितं जल्पाहि इमस्य पीठिकातो दशपुराणसहस्राणि देहीति । सो दानि अपरेहि पृच्छितो विक्रीतं ते भाण्डं । आह । विक्रीतं । आह । केन क्रीतं । एषा तु भद्रा नाम श्रमणिका । ताय क्रीतं । ते दानि ओज्झायन्ति । अद्याप्य् एषा प्रव्रजिता पि महच्छन्दा ।
एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचयति । यावद् भगवान् आह । ननु भद्रे पश्चिमा पि नाम जनता अवलोकयितव्या । तेन हि न क्षमति उत्तरि अड्ढातिय कर्षमूल्यातो सुखुमं चीवरं चेतापयितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी उत्तरि अड्ढातियकर्षमूल्यातो सूक्ष्मं चीवरं चेतापयेन् निस्सर्गिकपाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । उत्तरिन् ति अतिरेक । अड्ढातियकर्षन् ति । कर्षो नाम चत्वारः पुराणाः । चतापयेद् इति जानापयेन् । निःसर्गिक पाचत्तिकं यावत् या पुन भिक्षुणी सुखुमं चीवरं जानापयति दशपुराणमूल्यं जानापयितव्यं । प्रत्य् अवरं वा । एतं भिक्षुणीये परिमाणबद्धं । अथ दानी कोचिद् अयाचितो अविज्ञप्तो महार्घमूल्यं पि ददाति शतिकम् वा साहस्रिकम् वा यदि किञ्चापि परिभुञ्जाति अनापत्तिः । किञ्चापि भिक्षु शतसहस्रमूल्यं पि जानापयत्य् अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी उत्तरि अड्ढातियकर्षमूल्यातो सुखुमं चीवरं चेतापयेन् निःसर्गिकपाचत्तिकं । उद्दानं ।
शय्यासनस्यार्थाय [11] । अन्योद्देशिको [12] । अन्येषां [13] । पात्राणां सन्निचयो [14] । ऽथ चीवरं [15] । निःशृजाति [16] । निःसीवेति [17] उक्त्वा शिक्षमाणां [18] । गुरुप्रावरणं [19] । सुखुमं [20] ॥
द्वितीयो वर्गः ।
निःसर्गिकपाचत्तिकधर्म 29 परोपगतं
182. भगवान् श्रावस्तीयं विहरति । अपरो दानि मनुष्यो काष्ठवाणिज्यां करोति । सो दानि काष्ठवाहम् आदाय अन्तरापणम् ओकस्तो । आपणिको आह । किं काष्ठवाहस्य मूल्यं । आह । कार्षापणं गच्छ गृहद्वारे अवतारिया गच्छाहि । इतो येव कार्षापणं गृहीत्वा यास्यसीति । भवति च शेषं व्यवहारकाले । सो दानि काष्ठवाहम् आदाय गच्छति । स्थूलनन्दा नाम भिक्षुणी उपाश्रयातो निःक्रमति । तया च दृष्टो । आह । दीर्घायु विक्रयो काष्ठवाहो । आह । विक्रीतो । आह । कथं विक्रीतो । आह । कार्षापणेन । अहं द्वौ कार्षापणा दास्यामि । सो दानि मनुष्य पश्यति यद्य् अहं द्वौ कार्षापणा लभामि मह्ऽअर्घम् मया विक्रीतं भविष्यति । सो तं अधिकरित्वा काष्ठवाहमूल्यं गृह्णिय शकटम् आरुहित्वा तस्यापणिकस्याग्रतेनोपयाति । सो दान् आह । आगच्छ कार्षापणं गृह्णाहि । सो दान् आह । मया अन्यंहि विक्रीतो । सो दान् आह । कथं । विक्रीतो । आह । द्वाभ्यां कार्षापणाभ्यां । केन क्रीतो । आह । एषात्र नन्दा नाम श्रमणिका । तया क्रीतो । सो दानि ओज्झायति । कियन्तो ताये श्रमणिकाये कार्षापनाः । मया कार्षापणेन पणितं । सा द्विहि कार्षापणेहि पणेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति यावद् भगवान् आह ।
या पुन भिक्षुणी जानन्ती परोपगतं चेतापयेन् निःसर्गिकपाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन आकारवन्तेन श्रमणेन । परोपगतं ति परेण गृहीतं । चेतापयेद् इति जानापयेत् । निस्सर्गिकपाचतिकं । पेयालं । एतं दानि आपणिकस्य वा प्रावरिकस्य वा किञ्चिद् भाण्डम् उपगतम् भवति । तेन च भिक्षुणी अर्थीका भवति न दानि क्षमति तहिं अन्तराययितुं । यतति निस्सर्गिकं भवति । अथ खु एका श्च स्थित्वा प्रतिपालयितव्यं । यदानेन प्रतिमुक्तं । भवति ततो सो पृच्छितव्यो वक्तव्यो । किं त्वया मुक्तो । यदि तावद् आह । परिमण्डाम्य् अहं मे भन्ते । न क्षमति जानापयितुं । अथ दान् आह । जानापयतु आर्ये नाहम् अर्थिको एतेनेति । जानापयति अनापतिः । अथ दानि भिक्षुणीये किञ्चिद् उपक्रेयम् भवति पात्रम् वा चीवरम् वा न क्षमति अन्तरा यतितुं । यतति विनयातिक्रमः । अथ दानि संघमध्ये वड्ढो वड्ढिकाय जानापयति अनापत्तिः । भिक्षुर् अपि परोपगतं चेतापयति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी जानन्ती परोपगतं चेतापयेन् निस्सर्गिकपाचत्तिकं ।
शेषा साधारणा । उद्दानं ।
पात्र [21] । बन्धन] [22] । भैषज्यं [23] । आच्छेदो [24] । विकृति [25] । सूत्रेण । तन्त्र वायेन] द्वे [26, 27] । द] शाहानागतं [28] । पर] [29] । परिणामनेन [30] ॥
तृतीयो वर्गः ।
तत्र त्रयो न मत वर्गात् । स्वहस्तं क्रयविक्रयो विकृतिश् च ।
वर्गावशेषाः । चतुर्थं च भिक्षुणीनां प्रतिग्रहं उद्धरित्वा न जातरूपं समोदहेत् । धोवनाम् उद्धरित्वा न क्रयविक्रयं । तत्र निर्दिष्टं । शाटिकाम् उद्धरित्वा न विकृतिं । विज्ञः समोदहे । तत्र उत्क्षिप्य अरण्यवासं न परोपगतं ।
तत्र निर्दिष्टा त्रिंशद् दश च अनूनाः कारणे समुत्पन्ने नैःसर्गिक भगवता निर्दिष्टा भिक्षुणीसूत्रे ॥
समाप्ता त्रिंशन् नैस्सर्गिकाः ॥
पाचत्तिका धर्मा 170
183. इमे खो पुनर् आर्येमिश्रिकायो एकचत्तालं शतं शुद्धपाचत्तिका धर्माः । अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् उद्दानं ।
मृष [1] । उष्ट्रस्य [2] । पैशुन्यम् [3] । उद्घाटनं [4] । संचिन्त्य तिर्यग्योनि [5] । पदशो [6] । उत्तरि मनुधर्मे [7] । आरोचनाय [8] । यथासंस्तुत [9] विगर्हणाय च [10] ॥
प्रथमो वर्गः ।
उद्दानं । बीजं [11] अन्यवादम् [12] । ओध्यापन [13] । मञ्च [14] शय्या [15] निकड्ढनं [16] । पूर्वोपगतं [17] । वैहायसं [18] । उदके [19] । कौकृत्येन [20] ॥
द्वितीयो वर्गः ॥
उद्दानं । अवसथो [21] । परंपर [22] । प्रावरणा [24] । अप्रत्युद्धारम् [23] । अदिन्नं [25] । विकालो [26] । सन्निधि [27] । मच्छा (मन्थ) [28] । अपनिहे [29] । गणभोजनेन [30] ॥
तृतीयो वर्गः ॥
उद्दानं ।
ज्योतिः [31] । सहकार (सहगार) [32] । च्छन्दम् [33] । उद्योजना [34] । त्रयो न्तरायिका [35] । [36] । [37] । [अ]कृतकल्प [38] । रतन [39] । भीषनेन [40] ॥
चतुर्थो वर्गः ॥
उद्दानं । सप्राणकम् [41] । अचेलके [42] । अनुपखज्ज [43] । प्रतिच्छन्नासनं [44] । त्रयो सेनायां [45] । [46] । [47] । प्रहरति [48] । तलशक्तिका [49] । उदकहास्येन [50] ॥
पञ्चमो वर्गः ॥
उद्दानं । अङ्गुलिप्रतोद [51] । स्तेयसार्थो [52] । पृथिवी [53] । प्रवारणा [54] । न शिक्षिष्यं [55] । मद्यपानं [56] । नादर्य [57] । उपश्रोत्र [58] । विनिश्चय [59] । संमोहेन [60] ॥
षष्ठो वर्गः ॥
उद्दानं । सभक्तो [61] । राज्ञः [62] । सूचीगृहं [63] । मञ्च [64] । तूल [65] । निषीदनं [66] । कण्डुप्रतिच्छादनं [67] । सुगतचीवरं [68] । अभ्याख्यानं [69] । परिणामनेन [70] ॥
सप्तमो वर्गः ॥
एते सप्त वर्गाः साधारणाः । यथा येव भिक्षुणा तथा येव कर्तव्याः ।
पाचत्तिकधर्म 71
संक्रमणं
184. भगवान् वैशालीयं विहरति । अथ भद्रा कापिलेयी अन्तेवासिनीये अप्रतिसंविदिता संघाटिं प्रावरित्वा ज्ञातिकुलं गता । भिक्षुणीयो गोचरं प्रस्थितायो । ता दान् आहंसुः । एह्य् आर्ये पिण्डपातं गच्छामः । आह । यावत् संघाटीं गृह्णामि । सा दानि मार्गयति आत्मनः संघाटिन् न पश्यति । ताये दानि भवति अवश्यम् आर्याय संघाटी प्रावरिता । अर्हति आर्या मम संघाटीं प्रावरित्वा गन्तुं । सा दान् आह । गच्छथ यूयं आर्यमिश्रिकायो नाहं गच्छामि किम् अर्थं । आर्या संघाटीं प्रावरित्वा गता । ता दान् आहंसुः । आर्याये संघाटीं प्रावरित्वा आगच्छाहीति । सा दान् आह । नोत्सहामि आर्या मम गुरुवरभावनीया चेति । न गता । सा छिन्नभक्ता संवृता । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवत आरोचयेत् । यावद् भगवान् आह । शब्दापयथ भद्रां । सा दानि शब्दपिता यावत् सत्यं भद्रेति । एतद् एव सर्वं । भगवान् विस्तरेण पृच्छति । यावद् एवन् नाम त्वं चीवरसंक्रमणं करोषि । दुष्कृतन् ते भद्रे । तेन हि न क्षमति चीवरसंक्रमणं कर्तुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । पेयालं । यावत् ।
या पुन भिक्षुणी चीवरसंक्रमणं कुर्यात् पाचत्तिकं ।
या पुन भिक्षुणीति । पेयालं चीवरन् ति चीवरं नाम संघाटि यावत् दकशाटिका । संक्रमणन् ति अन्या अन्याय । पाचत्तिकं यावत् प्रज्ञप्तिः । न दानि क्षमति अन्तेवासिनीये अप्रतिसंविदिता संघाटीं प्रावरितुं । अथ दानि प्रावरति वक्तव्या इयम् मया संघाटी प्रावरिता । यदि प्रविशेषि मम संघाटीं प्रावरित्वा प्रविशेसि । अथातिरेकं चीवरम् भवति वक्तव्या । इयम् मया तव संघाटी प्रावरिता । यदि प्रविशेसि इमिना चीवरेण प्रविशेसीति ।
अथ दानि भिक्षुणी संघाटिं धोवेति वा सीवेति वा रञ्जेति वा । यदि प्रतिबला भवति तस्या अपि संविभागं कर्तव्यं । वक्तव्या । तिष्ठ त्वं इहेव अहन् तव पिण्डपातसंविभागं करिष्यामीति । भिक्षुणाप्य् एवं वक्तव्यं । न वदति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी चीवरसंक्रमणं कुर्यात् पाचत्तिकं ।
पाचत्तिकधर्म 72
श्रमणचीवरं
185. भगवान् श्रावस्तीयं विहरति । राष्ट्रपाला भागिनेय । यस्यार्थोत्पत्ति विस्तरेण कर्तव्या ।
एषा एवार्थोत्पत्तिः । भगवान् श्रावस्तीयम् विहरति । गर्तोदरो च गर्तोदरमाता च गर्तोदरपिता च आगरस्यानागरियं प्रव्रजिताः । गर्तोदरपिता गर्तोदरमाता च शाक्येहि प्रव्रजिता गर्तोदरो तीर्थिकेहि । सो दानि हस्तकम्बलेन प्रावृतो शीतेन खणखणायन्तो दन्तवीणिकां वादयन्तो विहारम् आगतो । स्नेहचरितो मातृग्रामो । सो दान् आह । पुत्र गर्तोदर शीत कितो सि । सो दान् आह । आम । ताय तस्य उत्तरासङ्गो सुरभो सुफोषितो दिन्नो प्रावरणाय । सो दानि प्रावरित्वा पानागारं गत्वा पिबन्तो आसति । जनो दनि ओज्झायति किम् एषां मिथ्यादृष्टिकानां विनिपतितानां यानगर्दभानां सुराभ्रष्टानां ऋषिध्वजनेन दिन्नेन भिक्षुणीहि श्रुतं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । शब्दापयथ गर्तोदरमातां । सा दानि शब्दापिता । तद् एव सर्वं । भगवान् विस्तरेण पृच्छति । यावद् आम् भगवन् । भगवान् आह दुष्कृतं ते गर्तोदरमाते । तेन हि न क्षमति आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं दातुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । पेयालं यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं प्रमाणचीवरं दद्यात् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । आगारिकस्येति गृहिणः । परिव्राजकस्येति गौतमजटिलकपर्यन्तं कृत्वा । स्वहस्तन् ति हस्तेन हस्तं । श्रमणचीवरन् ति ऋषिध्वजं । दद्यात् पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं दातुं । अथ दानि भिक्षुणी भवति कृतपुण्या स्त्रियो दानि मङ्गलार्थाय दारकस्य दारिकाये वा काषाय खण्डं याचन्ति । न क्षमति स्वहस्तं दातुं कल्पियकारिकाय दातव्यं । भिक्षुर् अपि आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं देति विनयातिक्रमम् आसादयति । अथ दानि भिक्षुः कृतपुण्यो भवति यावत् कल्पियकारकेण दातव्यं । न क्षमति महान्तं पटं दातुं । अथ खु पोत्तिखण्डं दातव्यं । तेन भगवान् आह ।
या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं दद्यात् पाचत्तिकं ।
186. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि कुमारीनिवस्तं निवासेन्ति । जनो दानि ओज्झायति । एतं प्रकरणं भिक्षुणीहि श्रुतं । भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । तेन हि न क्षमति कुमारीनिवस्तेन अन्तरगृहं प्रविशितुं । भगवता दानि अन्तरवासो ऽनुज्ञातो । भिक्षुणीयो दानि यथागतान् पटान् नवान् तन्त्रोद्गतान् पुष्पदशान् अन्तरवासं कुर्वन्ति । भगवान् आह । प्रामाणिको कर्तव्यो । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपात्य गौतमीये यावत् ।
अन्तर्वासं भिक्षुणीय कारापयन्तीय प्रामाणिको कारापयितव्यो तत्रेदं प्रमाणं दीर्घसो चत्वारि वितस्तियो । सुगत वितस्तिना । तिर्यग् द्वे तद् उत्तरिं कारापेय च्छेदनपाचत्तिकं ।
पाचत्तिकधर्म 73, 74
अन्तर्वासन् ति यत् तद् भगवतानुज्ञातं । भिक्षुणीय कारापयन्तीयेति स्वयं वा कुर्यात् परेण वा कारापयेत् । तत्रेदं प्रमाणं दीर्घशो ति आयामो । विस्तरो ति तिर्यग् चत्वारि वितस्तियो । सुगतवितस्तिना ति तथागतो ऽर्हन् सम्यक्सम्बुद्धो तस्य यो वितस्ति सो द्व्यर्धो मञ्चकपादो तद् उत्तरिम् कारापयेद् इति परं प्रमाणतो च्छेदनपाचत्तिकं । यावत् प्रज्ञप्तिः ।
सा एषा भिक्षुणी दीर्घशो करोति प्रामाणिकं तिर्यक् करोति अतिरेकं । एवं करोति कारापेति निष्ठापनान्तिकं आपत्तिः । कृतं लभति परिभोगान्तिकं विनयातिक्रमम् आसादयति । एवं तिर्यक् करोति प्रामाणिकं दीर्घशो करोति अतिरेकं । अन्ते करोति प्रामाणिकं मध्ये करोति अतिरेकं । मध्ये करोति प्रामाणिकं अन्ते करोति अतिरेकं । द्विगुणं मापेति उदकेन संकुचति संकुचितं मापेति उदकेन फोषेति शुष्कं वड्ढिष्यतीति पाचत्तिकम् आसादयति । तेन भगवान् आह ।
अन्तर्वासं भिक्षुणीय कारापयन्तीय प्रामाणिकं कारापयितव्यं तत्रेदं प्रमाणं । दीर्घशो चत्वारि वितस्तियो । सुगतवितस्तिना । तिर्यग् द्वे तद् उत्तरिं कारापेय च्छेदनपाचत्तिकं ॥
पाचत्तिकधर्म 74
संकक्षिका
187. भगवान् श्रावस्तीयं विहरति । अपरा दानि भिक्षुणी प्रासादिका दर्शनीया । ताये दानि पीनेहि स्तनेहि चीवरम् उत्क्षिप्तं । सा मनुष्येहि उच्चग्घीयति । पश्यथ भणे श्रमणिकाय कीदृशं चीवरम् उत्क्षिप्तं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । तेन हि संकक्षिका नाम कर्तव्या । भगवता दानि संकक्षिका अनुज्ञाता । भिक्षुणीयो तथागतान् पटान् पुष्पदशान् संकक्षिकां कुर्वन्ति । यावत् तेन हि न क्षमति तथागतान् पटान् पुष्पदशान् संकक्षिकां कर्तुं । यावत् तेन हि प्रामाणिका कर्तव्या । यथान्तर्वासे तथैव कर्तव्यं । यावत् तेन भगवान् आह ।
संकक्षिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या तत्रेदं प्रमाणं । दीर्घशो चत्वारि वितस्तियो । सुगतवितस्तिना । तिर्यग् द्वे । तद् उत्तरिं कारापेय च्छेदनपाचत्तिकं । ण्क ॥
दकशाटिका
188. वैशाल्यां निदानं । भद्रा दानि कापिलेयी सर्पिणिकां नदीं स्नानाय गता । चीवरन् निक्षिपित्वा अवतीर्णा स्नानाय । पञ्च लिच्छविकुमाराः ताये प्रतिबद्धचित्ताः नदीतीरे स्थिताः । भद्राये अङ्गयष्टिं पश्यितुकामाः । सा दान् आह दीर्घायुः गच्छथ गच्छथ यावद् अहम् उत्तरामि । ता दान् आहंसुः । नहि । आर्याये वयम् अङ्गयष्टिं पश्यितुकामाः । सा दान् आह । दिर्घायुः किम् अनेन पूतिकायेन नवद्वारेणाशुचिप्रघरन्तेन दृष्टेन । प्रक्रमथ यावद् अहम् उत्तरामि । ते दान् आहंसुः । नहि नहि । आर्याये वयम् अङ्गयष्टिं पश्यितुकामाः । ते दानि यदा न गच्छन्ति चिरञ् च भवति । सा दानि अन्धो बालजनो ति कृत्वा एकं हस्तम् अग्रतो कृत्वा अपरं पृष्ठतः कृत्वा उत्तीर्णा । ते तां विवसनां दृष्ट्वा मूर्च्छिताः पतिताः । उष्णं शोणितम् मुखाद् आगतं । कालगतं कालगताः । एतं प्रकरणं । पेयालं । यावद् भिक्षुणीयो भगवन्तम् आहंसुः । पश्य भगवन् कथम् इय पञ्च लिच्छविकुमाराः प्रतिबद्धचित्ताः भद्रायां मूर्च्छिताः पतिताः । भगवान् आह । नैतर्हि येव एते भद्रायां प्रतिबद्धचित्ताः मूर्च्छिताः पतिताः । अन्यदाप्य् एते भद्रायां प्रतिबद्धचित्ताः अन्यदापि भगवन् अन्यदापि भिक्षुणीयो ।
भूतपूर्वं भिक्षुणीयो अतीतम् अध्वानं यावत् त्रिंशभवने । अन्यतरस्मिं भवने भरणी नाम अप्सरा उपपन्ना । प्रासादिका दर्शनीया अतिरिवान्यासाम् अप्सराणां अभिभूय भासते । अतिरिवान्यासाम् अप्सराणां अभिभूय भासते तपति विराजते । तस्याः पञ्च देवपुत्राः प्रतिबद्धचित्ताः । शक्रश् च नाम देवानाम् इन्द्रः । मातलिसंग्राहको । जयो । विजयो । खाणु देवपुत्रो पञ्चमः । ते दान् आहंसुः । न तावद् एषा शक्या अस्माभिः पञ्चधा कर्तुं । एष गाथां कुर्मः । यो ऽत्र सर्वसुष्ठु अध्यवसितो भविष्यति स ग्रहीष्यतीति ।
शक्रो देवानाम् इन्द्रो गाथां भाषते । उत्थितो वा निषण्णो वा आसने न लभते सुखं । शयितो च सुखं लभे यदा कामा जहन्ति मा ॥ [1] ॥
मातलि संग्राहको गाथां भाषयति । सुखं त्वम् असि देवेन्द्र यं सुप्तो लभसे सुखं । भेर्या संग्रामशीर्षे वा सदा कामा हनन्ति मां ॥ [2] ॥
जयो देवपुत्रो गाथां भषते । भेर्यास् तु हन्यमानाया भवेद् वीची मुहुर् मुहुः । काष्ठस्रोता उपपन्नं वा सदा कामा हनन्ति मे ॥ [3] ॥
विजयो देवपुत्रो गाथां भाषते । काष्ठस्य वुह्यमानस्य भोति संगोजातु तहिं । पतङ्गस्येव अक्षीणि नित्यम् उन्मिलिता मम ॥ [4] ॥
खाणु देवपुत्रो गाथां भाषते । सर्वे भवन्तो सुखिता येषां गाथा प्रतिभान्ति । अहं खलु न जानामि किं जीवामि मरामि वा ॥ [5] ॥
ते देवपुत्रा आहंसुः । त्वं सुष्ठु अध्यवसितो तथैव एषा भरणी । युष्माकं भवतु देवी या सर्वअङ्गशोभना ॥ [6] ॥
भगवान् आह । स्याद् वो भिक्षुणियो युष्माकम् एवम् अस्याद् अन्या सा भरणी नाम अप्सरा अभूषि । नैतद् एवं द्रष्टव्यं । एषा सा भद्रा अप्सरा अभूषि । अन्ये ते देवपुत्राः एतद् एव ते पञ्च लिच्छविकुमाराः । तदाप्य् एते एताय प्रतिबद्धचित्ताः । एतर्ह्य् अप्य् एते एताय प्रतिबद्धचित्ताः । भिक्षुणीयो आहंसुः । कस्य भगवन् कर्मणो विपाकेन भद्रा प्रासादिका दर्शनीया महाकुलीना महेशाख्या महाभोगा क्षिप्राधिगमा च । अथ खलु भगवान् भद्रां कापिलेयीम् आमन्त्रयति । प्रतिभातु ते भद्रे भिक्षुणीनाम् आत्मोपनायिकां पूर्वेनिवासप्रतिसंयुक्तां कथां । अथ खलु भद्रा अनेकविधं पूर्वेनिवासम् अनुस्मरन्ती भिक्षुणीयो आमन्त्रेति ।
भूतपूर्वं भगिन्यः अतीतम् अध्वानं नगरं वाराणसी काशीजनपदो । तत्र दानि स्त्री अभूषि दरिद्रा । सा दानि अन्यतराय श्रेष्ठिभार्याय शब्दापिता केशान् प्रसाधनाय । सा ताये श्रेष्ठिभार्याये केशान् प्रसाधयति ।
बुद्धानां भगवताम् अनुत्पादात् प्रत्येकबुद्धा उत्पद्यन्ते ।
अथ शुण्ठीक नाम प्रत्येकबुद्धो पिण्डपाताय चरन्तो तस्मिन् गृहे पिण्डाय प्रविष्टो । प्रत्येकबुद्धस् तूष्णीम् एव तिष्ठति । न कोचिद् आलापिय देति । सा दानि स्त्री तां श्रेष्ठिभार्यां आह । देहि एतस्य भिक्षां । सा श्रेष्ठिभार्या ऊर्ध्वम् अवलोकयित्वा आह । का इमस्यैवं दुर्वर्णस्य अल्पेशाख्यस्य भिक्षान् दास्यति । सा जल्पति । न एते कायप्रासादिका इच्छीयन्ति । चित्तप्रासादिका एते इच्छीयन्ति । सा दान् आह । नो तस्य देमि । सा दानि दरिद्रा स्त्री आह । आर्यधीते देहि मे यन् ममाद्यभक्तं त्वया दातव्यम् तम् अहम् इमस्य ददामि । ताय दानि आज्ञप्तं । यन् तवाद्यभक्तं प्रापुणति तं गृहीत्वा उदके प्रक्षिपाहि एतस्य वा देहीति । ताय तं भक्तं प्रतिलद्भं । हस्तस्यैवं कृत्वा प्रसादेन तस्य प्रत्येकबुद्धस्य दत्तं । स प्रत्येकबुद्धस् वत एव वैहायसे प्रक्रान्तः । सा दानि दृष्ट्वा तुष्टा उदग्रा आत्तमना गृहं प्रविष्टा । श्रेष्ठिना च दृष्टो गृहातो ऋषी वैहायसेन प्रक्रान्तो । ततः श्रेष्ठि गृहं प्रविष्टो पृच्छति । कोचिद् इह ऋषिः प्रविष्टः । आह । प्रविष्टो । आह । किञ्चित् तस्य दत्तं । आह । नहि । इमाय दरिद्रस्त्रियाय दत्तं श्रेष्ठी उत्कण्ठितो ईदृशो दक्षिणीयो मम गृहं प्रविष्टो न च संमानितो । सो दानि श्रेष्ठी तां स्त्रियम् आह । देहि मे एतं पुण्यं यं त्वया अद्य सञ्चितं । ददामि ते प्रभूतं हिरण्यं सुवर्णं । सा दान् आह ।
क्षीयति सर्वं धनधान्यं जातरूपं रजतं च । न क्षीयन्ते पुण्येफलं दत्तं मुनीनां सर्वथा । [7] ॥
यद् अहम् एवं दरिद्रा पर वक्तव्या अन्यथा । एतादृशानाम् अदर्शनात् असंविभागाच् च भोगानां । [8] । दुर्वर्णताय मुच्ये हं अवैकल्यता च भोगेहि । मा परदत्तजीविनी आवशा परकुलेहि । [9] ॥
एवं चङ्क्रमेयं न भे यथा चङ्क्रमसे वीर । एवं सीया वीतरागा भवबन्धनविमुक्ता । [10] ॥
पारत्रिकं सुनिहितं अवैकल्यता हृष्टा । भवामि मुदिता [ः ः] दत्त्वा ऋषिस्य आहारं । [11] ॥
इतो च्यवित्वा उपपद्यिष्यं नन्दने रम्ये तत्र प्रविचारिष्यं देवगणसमाकुले । ॥
भक्तं समये दानं दत्तं मया सुविहितस्य दुःखप्रहाणाय ॥ [12] ॥
अथ श्रेष्ठिना सा भार्या अवसादिता । सा दरिद्रा स्त्री भट्टारिका स्थापिता ।
स्याद् वो भगिन्यः अन्या सा दरिद्रा स्त्री नैतद् एवं द्रष्टव्यं । अहम् एव सा दरिद्रा स्त्री । यं सो मया प्रत्येकबुद्धो पिण्डपातेन प्रतिमानितो प्रसन्नचित्ताय तस्य कर्मणो विपाकेनाहं प्रासादिका । पेयालं । अपि तु भगिन्यः नैतद् एवं मया कुशलमूलम् अवरोपितं येनाहं प्रासादिका दर्शनीया । क्षिप्राधिगमा च । अन्यदा पि मया कुशलमूलं अवरोपितं । 189. भूतपूर्वं भगिन्यो ऽतीते ऽध्वनि वाराणसीयं नगरे कायचि स्त्रियाय लोहचक्रं पटलके कृत्वा पुष्पेहि ओकिरित्वा काशिकेन वस्त्रेण प्रतिच्छादेयित्वा भगवतो काश्यपस्य दत्तं । दत्त्वा च प्रणिधानम् अकार्षीत् । रथस्य चक्रं सनाभिनेमिकं वस्त्रोत्तमेन प्रतिच्छादयित्वा ये मुनिवरसाक्षिकृता हि धर्मा अहम् अपि तं साक्षिकरोमि धर्मं । सा दानि केनचित् कार्येण अपराधिनी स्वामिना अवसादिता । सा दानि उत्कण्ठिता । आह । धिग् अस्तु स्त्रीभावः । परिभूतो मातृग्रामः । गच्छामि उद्बन्धिष्यं । सा रज्जुम् आदाय निर्गता । तत्र च नातिदूरे भगवतो काश्यपस्य स्तूपं दृष्ट्वा प्रसादजाता । अलङ्कारविभूषिता काशिकवस्त्रप्रावृता चन्दानुलिप्तगात्रा सा चिन्तयति । अहं मरिष्यं । भगवतो काश्यपस्य स्तूपे पूजां करिष्यं । सा प्रसन्नचित्ता तानि अलङ्काराणि मुञ्चित्वा स्तूपे अवकिरित्वा काशिकेन वस्त्रेणाच्छादयित्वा चन्दनेनानुलिम्पित्वा प्रणिधानं अकार्षीत् । अनागते ऽध्वनि एवम्विधं शास्तारम् आरागीयेयं । स च मे धर्मन् देशेय तस्याहं धर्मन् देशितम् आजानेयन् ति । सा तहिम् उद्बन्धित्वा कालगता । तावत्त्रिंशभवने उपपन्ना । अप्सरसहस्रपरिवृता सा तहिं यावदायुः स्थित्वा ततश् च्यवित्वा मनुष्येषूपपन्नाः । वैशलीयं कापिलस्य गोत्रस्य
ब्राह्मणकुले उपपन्ना । ताये दानि ज्ञातिकेहि भद्रेति नाम कृतं । अनर्थिका कामगुणेहि पञ्चहि या निष्क्रमित्वा प्रव्रजिता सर्वास्रवक्षयम् अकार्षीत् । काशिकानि वस्त्राणि प्रत्यग्रं चानुलेपनं भगवतो काश्यपस्य या प्रसन्नाभिरोपयेत् । सा कापिलेयी भगवतो पादां वन्दति शास्तुनो । यावद् भगवान् आह । तेन हि दकशाटिका नाम कर्तव्या । भिक्षुणीयो आहंसुः । पश्य भगवन् कथम् इयं भद्रा स्थविरमहाकाश्यपेन सार्धं प्रव्रजिता । भगवान् आह । न एतर्हि येव एते उभये प्रव्रजिता । अन्यदाप्य् एते उभये प्रव्रजिताः । अन्यदापि भगवन् अन्यदापि भिक्षुणीयो ।
भूतपूर्वं भिक्षुणीयो अतीतम् अध्वानं चत्वारो राजऋषयः कुम्भकारकुले वासम् उपगताः ।
खाणुवर्णः कलिङ्गानां गन्धारानाञ् च भार्गवो । निमी राजा विदेहानां उग्रसेनश् च क्षत्रियः ॥ [13] ॥
एते चत्वारो राजऋषयः उग्रतेजा महाबला कुम्भकारकुले वास एकरात्रम् उपागमत् । कुम्भकारम् उपसम्क्रम्य तान् एव परिपृच्छति । किं दृष्ट्वा श्रुत्वा वा प्रव्रज्याम् आरोचथ ।
खाणुवर्णः महाराजा कलिङ्गानां नरऋषभः । पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत् ॥ [14] ॥
शङ्खां सुवर्णोत्तरनिष्ठितान् नारि । पिनन्धन पिनन्धति शब्द द्वितीया तु समागता यतो रमागता यतो संसर्गदोषं दृष्ट्वा श्रुत्वा च भिक्षुचर्याञ् चरामि ॥ [15] ॥
भार्गवो पि महाराजा गन्धाराणां नरर्षभः । पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत् ॥ [16] ॥
द्विजा तु कुणपस्य कारणा । एकस्यास्ति बहुका पतन्ति । आहारहेतोः परिधावन्ति । तां दृष्ट्वा भिक्षुचर्याञ् चरामि ॥ [17] ॥
निमी अपि महाराजा वैदेहो मिथिलाधिपः । पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत् ॥ [18] ॥
अह् अदृशी मेघसमानवर्णां । तेलापकांश च्छुरितान् समानान् । ताम् एव फलहेतोर् विभग्नगतां दृष्ट्वा संविग्नो भिक्षुचर्याञ् चरामि ॥ [19] ॥
उग्रसेनो पि महाराजा क्षत्रियाणां नरर्षभो । पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत् ॥ [20] ॥
र्षभस् तादृशाय शोभाय मध्ये । चलत्ककुदवर्णेन वपुषा उपेतो । तम् अदृशासि कामहेतोर् विभग्न । भग्नं तं दृष्ट्वा भिक्षुचर्याम् चरामि ॥ [21] ॥
सर्वे इमे देवसमा समागताः । अग्निर् यथा प्रज्वलितो निशाय । अहं अपि प्रव्रजिष्यं ..... । अपहाय कामानि मनोरमाणि ॥ [22] ॥
कुम्भकारभार्या कथयति । अयम् एव कालो नहि अन्यद् अस्ति । अनुशासको नास्ति इतो बहिर्धा । अहं अपि प्रव्रजिष्यं । पुत्रका मह्यं कहिं गमिष्यन्ति ॥ [23] ॥
आमं पक्वन् न जानन्ति अथ लोणम् अलोणकं । शकुनीव मुक्ता पुरुषस्य हस्तात् । अजातपक्षा बाला पुत्रका अजानकाः ॥ [24] ॥
प्रव्रजितम् अनुप्रव्रजामि चरन्तम् अनुचराम्य् अहं ॥ [25] ॥
निमी राजा बोधिसत्त्वः कलिङ्ग पि शारिसुतः । उग्रसेनश् च मौद्गल्यो आनन्दो आसि भार्गवो । कुम्भकारः काश्यपो आसि भद्रा सा कुम्भकारिका ॥ [26] ॥
तदाप्य् एते उभये प्रव्रजिताः । एतर्ह्य् अप्य् एते उभय प्रव्रजिताः ॥ [27] ॥
भगवता दानि भिक्षुणीनाम् उदकशाटिका अनुज्ञाता । भिक्षुणीयो दानि तथागतान् पटान् दकशाटिकां कुर्वन्ति । भगवान् आह । तेन हि न क्षमति यथागतं पटं दकशाटिकां कर्तुं । यावच् छिक्षापदं प्रज्ञप्तं ।
दकेशाटिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या । तत्रेदं प्रमाणन् । दीर्घशो चत्वारि वितस्तियो । सुगतवितस्तिना । तिर्यग् द्वे तद् उत्तरिं कारापये च्छेदनपाचत्तिकं ।
दकशाटिका ति या सा भगवता अनुज्ञाता । कारापयन्तीये ति स्वयं कुर्यात् परेण वा कारापये । प्रामाणिकन् ति तत्रेदं प्रमाणं चत्वारि वितस्तियो । सुगतवितस्तिना ति सुगतो नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धो तस्य यो वितस्ति सो द्व्य् अर्धो मञ्चकपादो तिर्यग् द्वे तद् उत्तरिं कारापये पाचत्तिकं । अथ दानि एकान्ते निकुञ्जे प्रदेशे स्नायन्ति विना दकशाटिकाय अनापत्तिः । भिक्षुर् अपि विना दकशाटिकाय स्नायति विनयातिक्रमम् आसादयति । अथ निकुञ्जप्रदेशे स्नायति विना दकशाटिकाय अनापत्तिः । तेन भगवान् आह ।
दकशाटिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या । तत्रेदं प्रमाणं । दीर्घशो चत्वारि वितस्तियो । सुगतवितस्तिना । तिर्यग् द्वे । तद् उत्तरिम् कारापये च्छेदनपाचत्तिकं ॥
पाचत्तिकधर्म 76
कठिन
190. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी भिक्षुणीसंघेन अध्येष्टा । शक्यसि आर्ये संघस्य कृतेन पटान् याचितुं । सा दान् आह । शक्यं । सा दानि दुर्बलकुलेषु गत्वा आह । महापुण्यो शक्यसि संघस्य पटं दातुं । आहंसुः । आर्ये आज्ञास्यामः पुनर् अप्य् आगमिष्यसि । सा पुनः पुनर् आगच्छति । आहंसुः । ज्ञास्यामः ज्ञास्याम इति । सा दानि जल्पति । यदि यूयं दातुकामा ददथ । अयं संघस्य चीवरकालो अतिक्रमति । किं ज्ञास्याम इति वदथ । तेहि दानि न दत्तं । चीवरकालो ऽतिक्रान्तो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः यावद् भगवान् आह ।
या पुन भिक्षुणी दुर्बलाय चीवरप्रत्याशाय संघस्य कठिनास्तारं व्यतिनामयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । दुर्बलायेति अप्रतिबलाय । चीवरप्रत्याशायेति चीवरं नाम कालं यावत् क्षौमुनिका । संघस्य कठिनास्तारिकं । व्यतिनामयेद् इति अतिक्रामयेत् पाचत्तिकं यावत् प्रज्ञप्तिः । एषा दानि भिक्षुणी उत्साहीयति । आर्ये शक्ष्यसि संघस्य कठिनं याचितुं । यदि प्रतिबला भवति उत्सहितव्यं । उत्सहित्वा न दुर्बलकुलानि याचितव्यानि । अथ खलु ये प्रतिबलाः पिता पुत्रा वा भ्रातरौ वा भगिनीयो वा ज्ञातिसम्बन्धा वा गोत्रसम्बन्धा वा ते याचितव्या । ते प्रतिबला दातुं ते याचित्वारोचयितव्याः । अथ दान् आहंसुः ज्ञास्याम ज्ञास्याम इति वक्तव्या । देथ वा प्रत्याख्याथ वा चीवरकालो ऽतिक्रमति । अथ दानि अप्रतिबला भवति उत्साहयितव्या सा एषा भिक्षुणी संघस्य कठिनविवरार्थाय । उत्सहयित्वा नैव याचति नैव यावयेति न भिक्षुणीसंघस्यारोचयति न लभ्यतीति पाचत्तिकम् आसादयति । फु । भिक्षुर् अपि दुर्बलाय चीवरप्रत्याशाय संघस्य कठिनास्तारं व्यतिनामयेति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी दुर्बलाय चीवरप्रत्याशाय संघस्य कठिनास्तारं व्यतिनामयेत् पाचत्तिकं । फु ॥
पाचत्तिकधर्म 77
चीवरपारिहारिकं
191. भगवान् श्रावस्तीयं विहरति । ता दानि भिक्षुणीयो सान्तररोत्तरेण प्रावृता भगवतो पादवन्दिका आगता तासां निर्गतानां अग्निदाह उत्पन्नः । तासां दग्धानि चीवराणि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् आम भगवन् । भगवान् आह । एतं व त दानि यूयं पारिहारिकं चीवरं न परिहरथ । तेन हि पारिहारिकं चीवरं परिहरितव्यं ।
एषा येवार्थोत्पत्तिः । भगवान् श्रावस्तीयं विहरति । ता दानि भिक्षुणीयो शाकीयकन्यायो च मल्लकन्यायो च कोलितकन्यायो च सुकुमारप्रव्रजिता च । भारिकां संघाटिं परिहरन्तीयो किलम्यन्ती । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । तेन हि अनुजानामि ग्लानाये । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि । पेयालं । यावत् ।
या पुन भिक्षुणी अगिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । पारिहारिकं चीवरन् ति संघाटी यावत् दकशाटिका । परिहरतीति येन गच्छेय तहिं नेतव्या । अगिलाना ति प्रत्युद्धृतं पदं भगवता अनापत्तिः गिलानाय । सा एषा भिक्षुणी अगिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकम् आसादयति । अथ दानि चेतियं वन्दति चङ्क्रमति वा अन्तो सीमम् वा गच्छति अनापत्तिः । भिक्षुर् अपि पारिहारिकं चीवरं न परिहरति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी अगिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकं ।
पाचत्तिकधर्म 78
पचति
192. भगवान् वैशालीयं विहरति । भद्राये दानि कापिलेयीये ज्ञातिकुलातो देवसिकं भक्तम् आनीयति । सा तं विहारके पचित्वा खादति । ताये दानि पुत्रभ्रातृका आगताः । भद्राये अवलोकनाय गताः । सान्येषाम् आह भुञ्जिष्यथ । ते दान् आहंसुः भुञ्जिष्यं । ताये ततो दिन्नं । आह । मृष्टं खल्व् इमं । कुतो इमं । सा दान् आह । युष्माकं गृहातो आनीतं । आहंसुः । अस्माकं गृहे न एवं मृष्टं पच्यति । आह । किं युष्माकं भद्रायिणीयो चेटियो जानिष्यन्ति । कथं परितव्यन् ति । एवम् एवोपकरणानि अस्फातिका कुर्वन्ति । ते दानि गृहं गत्वा ता दासीयो दण्डकशाहतायो कृतायो । इतिकितिकाये धीतरो एवम् एत्तकम् उपकरणं ददामो यूयम् अस्फातिकं करोथ । ता रोदमाना आहंसुः । आर्यधीता अस्माकं हनायेति । भिक्षुणीहि श्रुतं । एतं प्रकरणं । पेयालं । यावद् भगवान् आह । दुष्कृतं ते भद्रे । तेन हि न क्षमति पराहृतं खादनीयम् वा भोजनीयम् वा पचितुम् वा पचायितुम् वा भृज्जितुम् वा भृज्जापयितुम् वा ।
एषा एवार्थोत्पत्तिः । भगवां च्छ्रावस्तीयम् विहरति । ता दानि भिक्षुणीयो शाकियकन्यायो च कोलितकन्यायो च पिण्डाय चरन्तीयो । पर्युपासितं भोजनं लभन्ति । पर्युपासितं ओदनम् । पर्युपासितं सूपं । पर्युपासितं शाकं । पर्युपासितं कुल्माषं । तायो भुक्त्वा भुक्त्वा वमन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावत् लभ्यं भगवन् भिक्षुणीय तूष्णीं कृत्वा भोक्तुं । भगवान् आह लभ्यं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी पराहृतं खादनीयं वा भोजनीयम् वा पुनो पुनो पचित्वा वा पचापेत्वा वा भृज्जित्वा वा भृज्जापेत्वा वा कठित्वा वा कठापेत्वा वा अगिलाना खादये वा भुञ्जेय वा पाचत्तिकं ॥
या पुन भिक्षुणीति । पेयालं । पराहृतन् ति ग्रामतो वा आनीतं नगरतो वा आनीतं । खादनीयन् ति खादनीयं भोजनीयन् ति भोजनीयं । पचित्वा ति स्वयं । पचापयित्वा ति परेहि । भृज्जित्वा ति स्वयं । भृज्जापयित्वा ति परेहि । कठित्वा ति स्वयं । कठापयित्वा ति परेहि । अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्तिर् गिलानाये । किन् दानि अत्र गैलान्यम् अभिप्रेतं । जरादुर्बला वा भोति व्याधिदुर्बला वा भुक्त्वा वा वमति । अफासुं वा भोति इदम् अत्र गैलान्यम् अभिप्रेतं । सा एषा भिक्षुणी रसगृध्या पराहृतं पिण्डपातं पुनो पुनो पचेय वा पचापेय वा पाचात्तिकम् आसादयति । अथ दानि शीतलम् भवति लभ्या उष्णीकर्तुं । न दानि थालिकाय वा पिठरिकाय वा । अथ खलु ताम्रपात्रेण वा कुपात्रेण वा कांसिकाय वा उष्णीकर्तव्यं । भिक्षुर् अपि स्वयं पचति विनयातिक्रमम् आसादयति । अथ दानि कल्पियकारेण पचापेति अनापत्तिः । अथ दानि शीतलो भवति पिण्डपातो उष्णीकरोति अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी पराहृतं खादनीयम् वा भोजनीयम् व पुनो पचित्वा वा पचापेत्व वा भृज्जित्वा वा भृज्जापयित्वा वा कठित्वा वा कठापयित्वा वा अगिलाना खादेय वा भुञ्जेय वा पाचत्तिकं । ह्रा ॥
पाचत्तिकधर्म 79
दकविजनेन
193. भगवान् श्रावस्तीयम् विहरति । गर्तोदरो च गर्तोदरमाता च गर्तोदरपिता च अगारस्यानगारियं प्रव्रजिताः । गर्तोदरपिता च गर्तोदरमाता च शाक्येहि प्रव्रजिता गर्तोदर तिर्थकेषु । गतोदरपिता भुञ्जति गर्तोदरमाता वीजयन्ती अग्रतो तिष्ठति पानीयमल्लकं धारेति । सो दानि ताये कानिचित् कानिचित् पूर्वचरितानि जल्पति । यानि ताये अमनआपानि । ताय तस्य पानीयमल्लकं मस्तके आपिट्टितं । वीजनदण्डेन च मस्तके आहतो । अखल्लमहल्लअकुशलअप्रकृतिज्ञः । अद्यापि त्वं अजल्पितव्यानि जल्पसि । सा भिक्षुणीहि दृष्टा । ता दान् आहंसुः । मा आर्ये एवं करोहि । अग्रपरिषा एषा न लभ्या एवं कर्तुं । सा दान् आह । अयं खलु अखल्ल अकुशलो अप्रकृतिज्ञो अद्यापि यानि तानि अजल्पितव्यानि जल्पति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । दुष्कृतं ते गर्तोदरमाते । नैष धर्मो नैष विनयो । एवं च दानि भिक्षुं भुञ्जन्तं दकवीजनेन उपस्थिहसि । तेन हि न क्षमति दकवीजनेन उपस्थिहितुं । यावद् भगवान् आह ।
या पुन भिक्षुणी भिक्षुं भुञ्जन्तं दकवीजनेन उपस्थिहेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । पेयालं । भिक्षुन् ति उपसम्पन्नं । पे । भुञ्जन्तं ति पञ्चजातकम् वा पञ्चजातकसंसृष्तम् वा यद् वा किञ्चित् खाद्यं भोज्यं । दकवीजनेन उपस्थिहेया ति पानीयमल्लकं धारयेत् । वीजनवातम् वा दद्यात् पाचत्तिकं । यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी उदकमल्लकन् धारयति नीवीजनं विनयातिक्रमम् आसादयति । वीजयति न उदकमल्लकन् धारेति विनयातिक्रमम् आसादयति । उभयं करोति पाचत्तिकं । नोभयं अनापत्तिः । सा एषा आपत्तिः एकस्य भिक्षुस्य एकभिक्षुणीये । अथ दानि संबहुला भिक्षू भवन्ति अनापत्तिः । अथ दानि भिक्षुणीये पिता वा भ्राता वा भिक्षुर् भवति किञ्चापि वीजयत्य् अनापत्तिः । तेन भगवान् आह । या पुन भिक्षुणी भिक्षुं भुञ्जन्तं दकवीजनेन उपस्थिहेय पाचत्तिकं ॥ 0 ॥ पाचत्तिकधर्म 80
लशुनञ् च खादति
194. भगवान् राजगृहे विहरति । मेघीयो नाम लशुनवाणिजको । तेन भिक्षुणीसंघो लशुनेन उपनिमन्त्रितो । ता दानि षड्वर्गिणीयो खादन्ति पि मर्देन्ति पि उज्झेन्ति पि विश्राणेन्ति पि आदाय पि गच्छन्ति । सो दानि कदाचित् वाटं प्रत्यवेक्षितुङ् गतः । तेन दानि सो दृष्टो वाटो विध्वस्तो । सो दान् आह । केनायं वाटो विध्वस्तो । आह त्वया आर्यमिश्रिका उपनिमन्त्रिताः । लशुनेन तायो दानि खादन्ति मर्देन्ति पि उज्झेन्ति पि विश्राणेन्ति पि आदाय पि गच्छन्ति । तस्य दानि अप्रसादो जातो । आह । यदि खादन्ति किम् मर्देन्ति । पेयालं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह ।
या पुन भिक्षुणी लशुनं खादेय पाचत्तिकं ॥ लशुनन् ति लशुनं नाम जातिमं सेविमं नागरं कच्छरुहं पार्वतेयं ब्रह्मदेयं आवरन्तकं मागधकं कोसलकं । यं चा पुनर् अन्य पि किञ्चिल् लशुनं सर्वं लशुनं न क्षमति । आमन् न क्षमति पक्वन् न क्षमति । यकृन् न क्षमति । कापि कापि न क्षमति अभ्यन्तरपरिभोगाय ।
अथ दानि भिक्षुणीय गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति लभ्यन् तं म्रक्षितुं । म्रक्षयित्वा न क्षमति अभ्यागमे प्रदेशे स्थातुं । अथ खु प्रतिगुप्ते प्रदेशे स्थातव्यं यावद् वर्त्ता भवति । +++++ धोविय निष्क्रमितव्यं । तेन भगवान् आह । या पुन भिक्षुणी लशुनं खादेय पाचत्तिकं ॥ 1 ॥ उद्दानं । संक्रमणं [71] श्रमणचीवरम् [72] । अन्तर्वासं [73] । संकक्षिका [74] । दकशाटिका [75] कठिन [76] । चीवरपारिहारिकं [77] । पचति [78] । दकवीजनेन [79] । लशुनञ् च खादति [80] । अष्टमो वर्गः ॥
पाचत्तिकधर्म 81
देति
195. भगवान् श्रावस्तीयं विहरति । राष्ट्रपालाय भिक्षुणीय भगिनी कालगता । सा दानि तासां भागिनेयकानां नानाप्रकारं खज्जं भोज्जं भक्षयित्वा देति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणिका श्रद्धादेयं गृहिणान् ददाति । एतम् प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच् छब्दापयथ राष्त्रपालां । सा दानि शब्दापिता । तद् एव सर्वं भगवान् विस्तरेण पृच्छति । आह । आम् भगवन् । भगवान् आह । तेन हि न क्षमति आगारिकस्य स्वहस्तं खादनीयं भोजनीयं दातुं ।
एषा एवार्थोत्पत्तिः । गर्तोदरो च गर्तोदरपिता च गर्तोदरमाता च अगारस्यानगारियं प्रव्रजिता । गर्तोदरपिता गर्तोदरमाता च शाक्येहि प्रव्रजिताः । गर्तोदर तीर्थिकेहि प्रव्रजितः । यावत् स गर्तोदरमातुः सकाशम् उपसंक्रान्तो ताय गर्तोदरमाताय तस्य नानाप्रकारस्य खज्जकस्य पूरं पात्रं दिन्नं । सो दानि तं गृह्य पानागारं गत्वा आत्मना च खादति पारांश् च छन्देति । ते दान् आहंसुः । कहिं त्वया इमं लब्धं । सो दान् आह । मा शब्दं । शाकियायिनानां श्रमणीयो दक्षिणीयायो । तासां पि वयं दक्षिणीयायो । तासां पि वयं दक्षिणीयाः । जनो दानि ओज्झायति । भिक्षुणीहि श्रुतं । एतं प्रकरणं । पेयालं । यावद् भगवान् आह । दुष्कृतन् ते गर्तोदरमाते । तेन हि न क्षमति आगारिकस्य वा परिव्राजकस्य वा खादनीयम् वा भोजनीयम् वा दातुं । अथ खलु भगवान् । पेयालं । यावत् ।
या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं खादनीयम् वा भोजनीयम् वा दद्यात् पाचत्तिकं । या पुन भिक्षुणीति उपसम्पन्ना । आगारिकस्येति गृहिणः । परिव्राजकस्येति गौतमजटिलकपर्यन्तस्य । स्वहस्तन् ति हस्तेन हस्तं । भाजनेन वा भाजनं । खादनीयन् ति यं खादनीयं । भोजनीयन् ति यं भोजनीयं । दद्यात् पाचत्तिकं । एष दानि भिक्षुणीय कोचिद् आगच्छति । सालोहितो वा भ्राता वा । यदि तावद् अस्य किञ्चिद् दातुं भवति न क्षमति स्वहस्तं दातुं । कल्पियकारिकाय दातव्यं । अथ दानि कल्पियकारी न भवति वक्तव्यं । अतो स्वयं गृह्णीय खादथ । अथ दानि पश्यति । रसगृद्धी य एषो सर्वं खादतीति । यत्तकं परित्यक्तं तत्तकं प्रतिग्राहयित्वा शेषं । वक्तव्यो । गोपेहीति । ततो भूमीयन् निक्षिपिय वक्तव्यो । गृह्णीय खादथ । अथ दानि प्रव्रजितको आगच्छति न क्षमति स्वहस्तं खादनीयम् वा भोजनीयम् वा दातुं । कल्पियकारीय दातव्यं । अथ दानि कल्पियकारी न भवति अतो येव गृह्णीय खादाहीति । अथ दान् आह । सालोहिते किम् अस्माकं चण्डालेहि विय प्रवर्तसि । वक्तव्यं । तथा यूयं दुराख्याते प्रवचने प्रव्रजिताः । अथ दानि ग्रामान्तरं गच्छति लभ्यन् तेन कल्पियकृत्यं कारापयितुं । अतो आत्मा च खादथ अस्माकञ् च प्रतिग्राहथ । अथ दानि जानाति । रसगृध्रा इति शेषं पूर्ववत् । तेन भगवान् आह ।
या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं खादनीयम् वा भोजनीयम् वा दद्यात् पाचत्तिकं ॥
पाचत्तिकधर्म82, 83
चिकितसति
196. भगवान् कौशाम्बीयं विहरति । छन्दकमाता भिक्षुणी राज्ञो ऽनतःपुरं प्रविशति । कुशला मूलभैषज्यानां पत्रभैषज्यानां फलभैषज्यानां । सा दानि राजकुलेहि अमात्यकुलेहि आपणिककुलेहि श्रेष्ठिकुलेहि स्त्रीणां बस्तिं स्थपेति । मूढग्रभां चिकित्सति । अञ्जनं प्रत्यञ्जनं वमनं विरेचनं स्वेदकर्म नस्तकर्म शस्त्रकर्म भैषज्याम् अनुप्रयच्छति । सा उपसर्पणं भवति खज्जं भोज्जं लभति । ता दानि भिक्षुणीयो ओज्झायन्ति । नेयं प्रव्रज्या वैद्यिका इयं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । शब्दापयथ छन्दकमातां । सा दानि शद्बापिता । भगवान् आह । सत्यं छन्दकमाते चिकित्सितविद्यया जीविकां कल्पयसि । आम् भगवन् । भगवान् आह । दुष्कृतं छन्दकमाते । तेन हि न क्षमति चिकित्सितविद्यया जीविकां कल्पयितुं । अथ खलु भगवान् । पेयालं । यावत् ।
या पुन भिक्षुणी चिकित्सितविद्यया जीविकां कल्पयेत् पाचत्तिकं ।
चिकित्सितविद्या नाम अहिविद्या विषविद्या यावद् ग्रहचरितं । तेन जीविकां कल्पयति पाचत्तिकं । यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीय चिकित्सितुं । लभ्यम् उपदिशितुं । भिक्षुर् अपि चिकित्सितविद्यया जीविकां कल्पयति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी चिकित्सितविद्यया जीविकां कल्पयेत् पाचत्तिकं ॥
पाचत्तिकधर्म 83
वाचयति
197. भगवान् कौशाम्बीयं विहरति । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति चिकित्सितुन् ति । छन्दकमाता न भूयो चिकित्सति । जनो दानि आगच्छति । साध्व् आर्ये चिकित्साहि । सा दान् आह । न क्षमति चिकित्सितुं भगवता शिक्षापदं प्रज्ञप्तं । अपि तु एष देथ मम किञ्चिद् वाचिष्यं । सा आगारिकांश् च परिव्राजकांश् च चिकित्सितविद्यां वाचयति । भिक्षुणीयो दानि ओज्झायन्ति । नेयं किञ्चित् प्रव्रज्या वैद्यकवाचिका इयं । यावद् भगवान् आह ।
या पुन भिक्षुणी आगारिकम् वा परिव्राजकम् वा चिकित्सितविद्यां वाचयेत् पाचत्तिकं ।
या पुन भिक्षुणीति । पे । आगारिक इति गृहिणः । परिव्राजक इति गौतमजटिलकपर्यन्तं कृत्वा । चिकित्सितविद्याम् इति अहिविद्या विषविद्या यावद् ग्रहचरितं । कायं चिकित्सितं वाचयेद् इति उद्दिशेत् । यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीये आगारिकम् वा परिव्राजकम् वा चिकित्सितविद्यां वाचयितुं । लभ्यं उपदिशितुं । भिक्षुर् अपि चिकित्सितविद्यां वाचयति विनयातिक्रमम् आसाद्यति । तेन भगवान् आह ।
या पुन भिक्षुणी आगारिकम् वा परिव्राजकम् वा चिकित्सितविद्यां वाचयेत् पाचत्तिकं ॥
पाचत्तिकधर्म 84
गृहिवैयापृत्यं
198. भगवान् श्रावस्तीयम् विहरति । विशाखाय दानि मृगारमाताय उभयतो संघो भक्तेनोपनिमन्त्रितो । ता दानि भिक्षुणीयो कल्यतो येवागत्वा आहंसुः । उपासिके यं दानि त्वया उभयतो संघो भक्तेनोपनिमन्त्रितो किन् दानि वयम् उपासिकाय उपकारं करोम । सा दान् आह । किम् आर्यमिश्रिका उपकारं करिष्यन्ति । उद्दिशथ स्वाध्यायथ । योनिशो मनसि करोथ । एवं ममोपकारो कृतो भविष्यति । एवम् एतद् अपि तु उपकारं करिष्यामः । तायो दानि तलकम् अभिरुहित्वा कर्पासं गृहीत्वा अन्याहि चिकित्सितं । अन्याहि विलोपितं । अन्याहि पिञ्जितं । अन्याहि विहतं । अन्याहि कर्तितं । तायो सूत्रपिण्डकं गृह्णीय उपासिकाम् उपसंक्रान्ताः । उपासिके उपकारः कृतः । आह । नैष मम उपकारो यं ममार्यमिश्रिका पिञ्जेयुर् वा लोढेयुर् वा विकड्ढेयुर् वा कर्तेयुर् वा । एषो ममोपकारो यम् आर्यमिश्रिका मत्सकाशाद् भुक्त्वा उद्दिशथ स्वाध्यायेथ यावद् बुद्धानां शासने योगम् आपद्येथ । यत् ताय उपासिकाय अवध्यापितं तं दानि भिक्षुणीहि श्रुतं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । दुष्कृतं वो भिक्षुणीयो । तेन हि न क्षमति गृहिवैयापृत्यं कर्तुं । यावत् ।
या पुन भिक्षुणी गृहिवैयापृत्यं कुर्यात् पाचत्तिकं । या पुन भिक्षुणीति उपसम्पन्ना । गृहीति आगारिको । वैयापृत्यम् इति कर्तेय वा पिञ्जेय वा यावत् । ओहनेय वा पीषेय वा पचेय वा सीवेय वा । या पुनर् अन्य पि किञ्चिद् गृहिवैयापृत्यम् कुर्यात् पाचत्तिकं । यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीय गृहिवैयापृत्यं कर्तुं । अथ दानि माल्योपहारो भवति । गन्धारोपणं वा । सा आह । आर्यमिश्रिकाहि साहाय्यं कर्तव्यम् इति किञ्चापि गन्धम् वा पीषयति । सुमनां वा ग्रन्थयति अनापत्तिः । भिक्षुर् अपि गृहिवैयापृत्यं करोति विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी गृहिवैयापृत्यं कुर्यात् पाचत्तिकं ॥ 4 ॥ पाचत्तिकधर्म 85
संभोजनीयं
199. भगवां च्छ्रावस्तीयं विहरति । स्थूलनन्दा नाम भिक्षुणी मध्याह्ने विघने अपरं कुलम् उपसंक्रान्ता । तहिन् दानि द्वे भार्यापतिका क्लेषोत्पीडिता रहो संज्ञिनो मैथुनं प्रतिषेतुकामाः । सा दानि अप्रतिसंविदिता सहसा तहिं प्रविष्टा । सो दानि मनुष्यो उद्धावितो उत्कण्ठितो कर्मण्य् एनां राजा तेन परिवातेति । इमान् तावद् इतिकितिकाय धीतां श्रमणिकां विट्टालयिष्यन् ति । सा दानि भीता । प्रपलाना भिक्षुणीनां कथयति । मनास्मि आर्यमिश्रिकायो ब्रह्मचर्यातो च्याविता यावद् एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । दुष्कृतं ते नन्दे एवन् नाम त्वं जानन्ती सम्भोजनीयं कुलन् दिवा पूर्वे अप्रतिसंविचिता उपसंक्रामसि । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो । पेयालं । यावत् ।
या पुन भिक्षुणी जानन्ती संभोजनीयं कुलं दिवा पूर्वे अप्रतिसंविदिता उपसंक्रमेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय । कुलं ति ब्राह्मणादि कुलं । यहिं स्त्रीपुरुषकं स्थालीपिठरकं कण्टिकामुसलकं सूपेल्लकं यवप्रस्थकं इमं पश्चिमकं कुलं । सम्भोजनीयन् ति स्त्री पुरुषस्य भोजनं पुरुषस्यापि स्त्री भोजनं । यदि विगते मध्याह्ने पूर्वे अप्रतिसंविदिता ति अशब्दकर्णिकाय । अनाहूता उपसंक्रमेया ति प्रविशेत् पाचत्तिकं यावत् प्रज्ञप्तिः । यं दानि ज्ञायते एतं संभोजनीयं कुलन् ति नहि क्षमति तहिं पूर्वे अप्रतिसंविदितं अनाहूताय उपसंक्रमितुं । यदि ताव दौवारिको भवति वक्तव्यं । प्रविशामीति । यद्य् आह । मा प्रविशेहीति न प्रविशितव्यं । अथ दान् आह । प्रतिपालेहि तावत् यावत् प्रतिसंविदायामीति । यदि प्रविशित्वा न निष्क्रामति न क्षमति प्रविशितुं । अथ दानि तुणुतुणा शब्दो भवति अच्छटिका दातव्या उत्काशितव्यं वा । यदि ताव तूष्णीका भवति न क्षमति प्रविशितुं । अथ दानि प्रत्युद्गच्छन्ति स्वागतम् आर्यायेति प्रविशेति प्रवेष्टव्यं । भिक्षुर् अपि संविदितो उपसम्क्रमति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी जानन्ती संभोजनीये कुले दिवा उपसंक्रमेय पूर्वे अप्रतिसंविदिता अनाहूता पाचत्तिकं ॥
पाचत्तिकधर्म 86
संसर्गो
200. भगवान् वैशालीयम् विहरति । या दानि सा कालीयन् त्रियन्तरा लिच्छविधीता प्रव्राजिता । सा दानि आगारिकेहि च प्राव्राजकेहि च सार्धं संसृष्टा विहरति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । दुष्कृतं ते कालि । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो । पेयालं ।
या पुन भिक्षुणी आरामिकैर् वा परिव्राजिकैर् वा संसृष्टा विहरेय दिवसं वा मुहूर्तं वा अन्तमसतो आरामिकश्रमणोद्देशेहि पाचत्तिकम् ॥
या पुन भिक्षुणीति उपसम्पन्ना । पेयालं । यावत् । आगारिकेहीत् । गृहीभिः । परिव्राजिकेहीति गौतमजटिलकपर्यन्तेहि तीर्थिकेहि । संसृष्टा विहरेद् इति कायिकेन संसर्गेण वाचिकेन संसर्गेण । कायिकवाचिकेन संसर्गेण । दिवसम् वा मुहूर्तम् वा अन्तमसतो तत्क्षणन्तल्लवं तन्मुहूर्तम् वा अन्तमसतो । आरामिकश्रमणोद्देशेहीति । आरामिकाः संघोपस्थायकाः । श्रमण्ऽउद्देशा इति पञ्चदशवर्षान् उपादाय यावत् सप्ततिकाः । सा एषा भिक्षुणी आरामिकेहि वा परिव्राजकेहि वा संसृष्टा विहरति पाचत्तिकं । अथ दानि भिक्षुणीयो अन्यमन्यं संसृष्टा विहरन्ति विहरन्त्य् अभिरता विवेचयितव्याः । वीचीकारापयितव्याः । त्रिर् अपि भिक्षुणा सार्धं संसृष्टा विहरति विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी आरामिकैर् वा परिव्राजिकैर् वा सार्धं संसृष्टा विहरेत् दिवसम् वा मुहूर्तम् वा अन्तमसतो आरामिकश्रमण्ऽउद्देशकैः सार्धं पाचत्तिकं ॥ 6 ॥ पाचत्तिकधर्म 87
उपशपति
201. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी भिक्षुणीहि सार्धं कलहं करोति । सा दानि यादा पराजीता भवति तदा उपसम्पति । नमो भगवतो भगवतः पादेहि शपामि । काषायेहि शपामि । दुःखस्यान्तेन शपामि । यद्य् अहम् एवं ब्रवीमि । मा काषायेहि कालं करोमि । मा दुःखस्यान्तं करोमि । मातृघातिकस्य गतिङ् गच्छामि । पिट्र्घातिकस्य गतिङ् गच्छामि । अर्हन्तघातिकस्य गतिङ् गच्छामि । यावद् अकृतज्ञस्य गतिङ् गच्छामि । मित्रद्रोहस्य गतिङ् गच्छामि । आर्यापवादकस्य गतिङ् गच्छामि । नैरयिकीभवामि । तिर्यग्योनिगतिं गच्छामि । प्रेती भवामि । या पि भद्रायणी माम् एवम् आह सा प्य् एवम् भवतु । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत् शब्दापयथ नन्दां । एतद् एव सर्वं भगवां विस्तरेणाचोचयति । यावत् आम भगवन् । भगवान् आह । दुष्कृतं ते नन्दे यावद् भगवान् आह ।
या पुन भिक्षुणी उपशपन्ती विहरेत् आत्मानं सन्धाय पराम् वा सन्धाय पाचत्तिकं । या पुन भिक्षुणीति उपसम्पन्ना । पे । उपशपन्ती विहरेया ति शपथं कुर्यात् । नम भगवतो भगवतः पादेहि शपामि । सर्वं पूर्ववत् । यावत् सा एषा भिक्षुणी आत्मानं सन्धाय परम् वा उपशपति पाचत्तिकम् । भिक्षुर् अपि उपशपति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी उपशपन्ती विहरेद् आत्मानं वा सन्धाय परं वा पाचत्तिकं ॥
पाचत्तिकधर्म 88
रोदति
202. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी भिक्षुणीहि सार्धं कलहं करोति । सा यदा पराजिता भवति तदा आत्मानं खटचपेटमुस्तकेहि पिट्टायति । उदरम् आहनयति । बलबलाय रोदति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । सत्यं त्वं नन्दे एवं नाम भिक्षुणीहि सार्धं कलहं करोषि । पेयालं । यावद् बलबलाय रोदसि । आम भगवन् । भगवान् आह । दुष्कृतं ते नन्दे नैष धर्मो यावत् तेन हि न क्षमति आत्मानं हनित्वा रोदितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी आत्मानं हनित्वा रोदेय पाचत्तिकं ॥ या पुन भिक्षुणीति । पेयालं । आत्मानं हनित्वा ति खटेहि वा पाषाणेहि वा यावद् अन्येन वा केनचित् । रोदेया ति अश्रुणि वा प्रवर्तयेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी आत्मानं हन्ति न रोदयति विनयातिक्रमम् आसादयति । रोदति न हनति विनयातिक्रमम् आसादयति । हनति च रोदति च पाचत्तिकम् आसादयति । नैव हनति न रोदति अनापत्तिः । भिक्षुर् अपि आत्मानं हनित्वा रोदति विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी आत्मानं हनित्वा रोदेय पाचत्तिकं ॥ 8 ॥ पाचत्तिकधर्म 89
क्षियति
203. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दाय दानि भिक्षूणीय जेता भिक्षुणी कुलेहि संवर्णिता । सा जेता भिक्षुणी भद्रिका कुलान्य् उपसंक्रमति प्रासादिकेनातिक्रान्तेन प्रतिक्रान्तेनावलोकितेन व्यवलोकितेन संमिञ्जितेन प्रसारितेन संघाटीपात्रचीवरधारणेन अनुद्धता अनुन्नडा अचपला अमुखरा अप्रकीर्णा वाचा । सा प्रासादिका ति प्रसन्ना देवमनुष्याः । ते तेहिं कारा कुर्वन्ति । प्रत्यालपन्ति प्रत्युत्थिहिन्ति । निमन्त्रयन्ति पात्रेण चीवरेण ग्लानप्रत्ययभैषज्यपरिष्कारेहि । स्थूलनन्दा भिक्षुणी अनाकल्पसम्पन्ना अनीर्यापथसम्पन्ना ओमलिनमलिनेहि चीवरेहि पाटितविपटितेहि वड्डडिङ्गरपुष्टालंबेहि स्तनेहि वड्डेहि स्फिचकेहि उद्धता उन्नडा चपला मुखरा प्रकीर्णा वाचा । ते तस्या न गौरवं कुर्वन्ति न निमन्त्रयन्ति ।
सा दानि भिक्षुणीनाम् आह । पश्यथ आर्यमिश्रिकायो ममैवार्या जेता कुलेहि संवर्णिता मह्य्ऽएवावर्णं ब्रवीति । सा दान् आह । नास्त्य् एतं आर्ये । नाहम् आर्याये अवर्णं भाषामि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह ।दुष्कृतं ते नन्दे । पेयालं । यावद् एव नाम त्वं दुःश्रुतेन दुरवधारितेन क्षियाधर्मम् आपद्यसि । तेन हि न क्षमति दुःश्रुतेन दुरवधारितेन क्षियाधर्मम् आपद्यसि । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातये गौतमि यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी भिक्षूणीनाम् एवं वदेय । यदाहम् आर्ये अमुकं कुलम् उपसंक्रामि । ततो इत्थन्नामाये भिक्षुणीये भगवत्य् आघातो अप्रत्यय इति दुःश्रुतेन दुरवधारितेन क्षियाधर्मम् आपद्येय पाचत्तिकं ॥
या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीनां एवम् वदेया ति यथा स्थूलनन्दा भिक्षुणी यावद् आहम् आर्ये अमुकं कुलन् ति कुलन् नाम क्षत्रियकुलं कुलन् नाम क्षत्रियकुलं ब्राह्मणकुलं राजन्यकुलं यानि च पुनर् अन्यानि कुलानि । ततो इत्थन्नामाये ति यथा जेता पि भिक्षुणीये । भगवत्य् आघात इति न च आघातवस्तूनि अस्थानप्रकोपदशमानि । अप्रत्यय इति दुःश्रुतेन दुरवधारितेनेति न आकारवन्तेन दर्शनेन न आकारवन्तेन श्रमणेन क्षियाधर्मम् आपद्येया ति अवध्यापेय पाचत्तिकं । यावत् प्रज्ञप्तिः न क्षमति भिक्षुणीये दुःश्रुतेन दुरवधारितेन क्षियाधर्मम् आपद्यितुं । आपद्यति पाचत्तिकम् आसादयति । भिक्षुर् अपि दुःश्रुतेन दुर् अवधारितेन क्षियाधर्मम् आपद्यति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी भिक्षुणीनाम् एवम् वदेय यदाहम् आर्ये अमुकं कुलं उपसम्क्रमामि । ततो इत्थन्नामाये भिक्षुणीये भगवत्य् आघातो ऽप्रत्यय इति दुःश्रुतेन दुरवधारितेन क्षियाधर्मम् आपद्येय पाचत्तिकं ॥ 9 ॥
पाचत्तिकधर्म 90
कुलमात्सर्येण
204. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी कालस्यैव निवासयित्वा पात्रचीवरम् आदाय महात्मेहि कुलेहि द्वारकोष्ठकेहि तिष्ठति । भिक्षूणां प्रविशन्तानाम् आह । प्रविशन्तु आर्याः प्रविशन्तु आर्यमिश्राः अस्माकं कृतेन सिध्यति । अग्रपिण्डन् तावद् दत्त्वा युष्माकं प्रथमानाम् एव पश्चाद् आत्मना परिभुञ्जिष्यन् ति । मा अन्यानि कुलानि उपसंक्रमथ । नहि अन्येहि सिध्यति । ते दानि व्रीडिताः प्रत्योसक्षन्ति । भिक्षुणीनाम् अप्य् एवं कर्तव्यं । एवं चरकपरिव्राजकाजीवकनिर्ग्रन्थाः यावद् धर्मचिन्तकाः प्रविशन्ति । सा दानि तेषां प्रविशन्तानाम् आक्रोशति । चण्डायू नष्टाशा भग्नाशाः । सुराभ्रस्ता याना गर्दभाः नग्नाः अह्रीकाः अनोत्रापिणो मिथ्यादृष्टिकाः विनिपतिताः प्रविशथ युष्माकं कृतेन सिध्यति । युष्माकम् अग्रपिण्डन् तावद् दत्त्वा प्रथमानाम् एव पश्चाद् आत्मानं परिभोक्ष्यन् ति । मा अन्यानि कुलान्य् उपसंक्रमथ । नहि अन्येहि क्लेशेहि सिध्यति । ते दानि व्रीडिताः प्रत्योसक्षन्ति । एवं सर्वभिक्षाचरणाम् आवरणं करोति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । शब्दापयथ नन्दां । सा दानि शब्दापिता । तद् एव सर्वं । भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । दुष्कृतन् ते नन्दे यावद् एवन् नाम त्वं कुलमात्सर्यं करोषि । तेन हि न क्षमति कुलमात्सर्यं करोषि । तेन हि न क्षमति कुलमात्सर्यं कर्तुं । अथ खलु भगवान् माहाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि । पेयालं । यावत् ।
या पुन भिक्षुणी कुलमात्सर्यं कुर्यात् पाचत्तिकं । या पुन भिक्षुणीति उपसम्पन्ना । कुलमात्सर्यन् ति आवरणं कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीय कुलमात्सर्यं कर्तुं । करोति पाचत्तिकम् आसादयति । यदि तावद् भिक्षुर् वा भिक्षुणी वा पृच्छति भूतो गुणो वक्तव्यो । अथ दानि अन्यतीर्थिका पृच्छन्ति मा एते मिथ्यादृष्टिं ग्राहयिष्यन्तीति भृकुटिं करोति अनापत्तिः । भिक्षुर् अपि कुलमात्सर्यं करोति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी कुलमात्सर्यं कुर्यात् पाचत्तिकं । ऌं ॥ उद्दानं ।
देति [81] । चिकित्सिति [82] । वाचयति [83] । गृहिवैयावृत्तः [84] । सम्भोजनीयं [85] । संसर्गो [86] । उपशपति [87] । रोदति [88] । क्षियति [89] । कुलमात्सर्येण [90] ॥
पूर्यते नवमो वर्गः ।
पाचत्तिकधर्म 91
सम्मुखं
205. भगवान् श्रावस्तीयम् विहरति । गर्तोदरो च गर्तोदरमाता च गर्तोदरपिता च आगारस्यानगारियं प्रव्रजिताह् । पे । यावत् सो महल्लको भुञ्जाति । सा गर्तोदरमाता परिविषति । सो दानि ताये कानिचित् पूर्वचरितानि जल्पति स्त्रीउत्सददौष्ठुल्यानि यानि तस्या अमनआपानि । सा दान् आह । चण्डायुः । अखल्लमहल्लः । अव्यक्तअकुशलअप्रक्र्तिज्ञ । अद्यापि त्वम् अजल्पितव्यानि जल्पसि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते गर्तोदरमाते । पेयालं । तेन हि न क्षमति भिक्षुं सम्मुखम् आक्रोशितुं परिभाषितुं । अथ भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी भिक्षुणीभिक्षुं सम्मुखम् आक्रोशयेद् रोषयेद् परिभाषयेत् पाचत्तिकं । या पुन भिक्षुणीति उपसम्पन्ना । सम्मुखन् ति चातुरक्षं । आक्रोशयेद् इति अकारशकारएकारैः रोषयेत् परिभाषयेत् चण्डालु । अखल्लमहल्लअकुशलअप्रकृतिज्ञ ति पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीये भिक्षुणीय भिक्षुं सम्मुखम् आक्रोशितुं रोषितुं परिभाषितुम् । आक्रोशति रोषति परिभाषति पाचत्तिकं । अथ भिक्षुण्या पिता वा भ्राता ज्ञातिको वा प्रव्रजितको भवति । सो च भवति उद्धतो उन्नडो असमाहितो लभ्या दानि सो वक्तुं । न दानि क्षमति धर्षिय वक्तुं । अथ खलु प्रज्ञया सम्ज्ञापयितव्यो । यदि तावत् तरुणको भवति वक्तव्यो । सालोहित इदानीं त्वं न शिक्षसि कदा त्वं शिक्षिष्यसि । यदा जीर्णो वृद्धो भविष्यसि । अथ दानि महल्लको भवति वक्तव्यो । इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि यदा मण्डलद्वारम् अनुप्राप्तो भविष्यसि । भिक्षुणापि भिक्षुणीयो न क्षमति सम्मुखम् आक्रोशितुं मुण्डस्त्री वेश्यस्त्री ति । पे । सा एषा भिक्षुणी भिक्षुं समुखम् आक्रोशति पाचत्तिकं ॥1 ॥
पाचत्तिकधर्म 92
ऊनद्वादशवर्षा
206. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि एकवर्षा द्विवर्षा यावत् षट्वर्षा उपस्थापेन्ति । ते नैव ओवदन्ति नानुशासन्ति । ता इन्द्रगवा इव वर्धन्ति शिवच्छगला विय वर्धन्ति । अनाकल्पसम्पन्ना अनीर्यपथसम्पन्ना न जानन्ति कथम् उपाध्यायिनीये प्रतिपत्तव्यं । कथम् आचार्याये प्रतिपत्तव्यं । कथं वृद्धातरकाणां भिक्षुणीनां प्रतिपत्तव्यं । कथं ग्रामे । कथम् अरण्ये । कथं संघमध्ये । कथं संघाटीपात्रचीवरधारणे प्रतिपत्तव्यं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् भगवान् आह । शब्दापयथ तायो भिक्षुणीयो । ता दानि शब्दापिताः । एतद् एव सर्वं भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति ऊनद्वादशोदकवर्षाय उपस्थापयितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी ऊनद्वादशवर्षा उपस्थापयेत् पाचत्तिकं ॥
या पुन भिक्षुणीति उपसम्पन्ना । ऊनद्वादशवर्षा ति ऊनद्वादशवर्षा नाम ऊनद्वादशोदकवर्षो ऊनद्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी ।
ऊनद्वादशोदकवर्षो पूरद्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी ।
ऊनद्वादशोदकवर्षो अतिरेको द्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी ।
हेमन्ते उपसम्पन्ना तेन द्वादशमेन उपसम्पादिति । अकृतायां प्रवारणायां ऊनद्वादशवर्षा भिक्षुणी । एवं ग्रीष्मे वर्षासु उपसम्पन्ना ।
एवं पुरिमिकायां वर्षोपनायिकायां उपसम्पन्ना । अकृतायां प्रवारणायां उपसम्पादेति । पश्चिमिकायां वर्षोपनायिकायां उपसम्पन्ना । अकृताहि द्विहि प्रवारणाहि उपसम्पादेति ऊनद्वादशवर्षा भिक्षुणी ।
पूरद्वादशोदकवर्षो ऊनद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी ।
पूरद्वादशोदकवर्षो पूरद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी ।
पूरद्वादशोदकवर्षो अतिरेकद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी ।
हेमन्ते उपसम्पन्ना तेन द्वादशमेन उपसम्पादेति कृतायां प्रवारणायां पूरद्वादशवर्षा भिक्षुणी ।
एवं ग्रीष्मे वर्षासु उपसम्पन्ना ।
एवं पुरिमिकायां वर्षोपनायिकायां उपसम्पन्ना कृतायां प्रवारणायाम् उपसम्पादेति पूरद्वादशवर्षा भिक्षुणी । पश्चिमिकायां वर्षोपनायिकायां उपसम्पन्ना तेन द्वादशमेन उपसम्पादेति कृताहि द्विहि प्रवारणाहि पूरद्वादशवर्षा भिक्षुणी ।
ऊनद्वादशवर्षा उपसम्पादयेत् पाचत्तिकं । सा एषा भिक्षुणी ऊनद्वादशवर्षा उपस्थापयति पाचत्तिकं प्रव्राजयति विनयातिक्रमम् आसादयति । भिक्षुर् अपि ऊनद्वादशवर्षो उपसम्पादयति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी ऊनद्वादशवर्षा उपस्थापयेत् पाचत्तिकं ॥
पाचत्तिकधर्म 93
अनङ्गोपेता
207. भगवान् श्रावस्तीयम् विहरति । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति ऊनद्वादशवर्षाय उपस्थापयितुं । तेन दानि कालेन तेन समयेन षड्वर्गिणीयो भिक्षुणीयो पूरद्वादशवर्षा भवन्ति । तायो दानि प्रव्राजेन्ति उपस्थापेन्ति । ता नैव त्-ओवदन्ति नानुशासन्ति । पेयालं । यावत् कथं संघाटीपात्रधारणे प्रतिपत्तव्यं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावच् छब्दापिता । तद् एव सर्वं भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति अनङ्गोपेताय उपस्थापयितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । यावत् पर्यवदातानि भविष्यन्ति ।
पूरद्वादशवर्षा पि च भवति सा च अनङ्गोपेता उपस्थापयेत् पाचत्तिकं ।
पूरद्वादशवर्षा ति यथा प्रथमके शिक्षापदे ।
सा च अनङ्गोपेता इति अङ्गोपेता नाम यस्या दशाङ्गानि सम्विद्यन्ते संयथईदं ।
प्रातिमोक्षसम्वरसंवृता भवति ॥ [1] ॥ बहुश्रुता भवत्य् अभिधर्मे ॥ 2 ॥ बहुश्रुता भवत्य् अभिविनये ॥ 3 ॥ प्रतिबला भवत्य् अधिशीलशिक्षायां निवेशयितुं ॥ 4 ॥ प्रतिबला भवत्य् अधिचित्तशिक्षायान् निवेशयितुं ॥ 5 ॥ प्रतिबला भवत्य् अधिप्रज्ञशिक्षायां निवेशयितुं ॥ 6 ॥ प्रतिबला भवत्य् आपत्तिम् आपन्नां व्युत्थापयितुम् वा व्युत्थापाययितुम् वा ॥ 7 ॥ प्रतिबला भवत्य् आपदासु व्युपकर्षयितुं वा व्युपकर्षापयितुम् वा ॥ 8 ॥ प्रतिबला भवति गिलानम् उपस्थिहितुम् वा उपस्थापयितुम् वा ॥ 0 ॥ द्वादशवर्षा भवति सातिरेकद्वादशवर्षा वा ॥ ऌं ॥
यस्या इमानि दशाङ्गानि सम्विद्यन्ते इयम् उच्यते अङ्गोपेता । विपर्ययाद् अनङ्गोपेता । सा एषा अनङ्गोपेता उपस्थापयेत् पाचत्तिकं । पेयालं । यावत् प्रज्ञप्तिः । सा एषा अनङ्गोपेता प्रव्राजयति विनयातिक्रमम् आसादयति । उपसम्पादयति पाचत्तिकं । भिक्षुर् अपि अनङ्गोपेतो प्रव्राजयति उपसम्पादयति विनयातिक्रमम् आसादयति । तेन भगवान् आह । पूरद्वादशवर्षा पि च भवति सा च अनङ्गोपेता उपस्थापयेत् पाचत्तिकं ॥ 3 ॥ पाचत्तिकधर्म 94
असंमता
208. भगवान् श्रावस्तीयम् विहरति । भगवता शिक्षापदं प्रज्ञप्तं । द्वादशवर्षाये अङ्गोपेताय उपस्थापयितव्येति । ता दानि भिक्षुणीयो द्वादशवर्षा अङ्गोपेतायो उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । अस्त्य् एषा द्वादशवर्षा न पुनर् ज्ञायते । अङ्गोपेता वा अनङ्गोपेता वा ति । एतत् प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयंसुः । यावद् भगवान् आह । उपस्थापनासंमुती ताय याचितव्या ।
कर्मकारिकाय कर्म कर्तव्यं । शृणोतु मे आर्या संघो । यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा भिक्षुनी द्वादशवर्षा अङ्गोपेता । सा संघं उपस्थापना संमुतिं याचेया । यचिष्यति आर्यमिश्रिका इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता उपस्थापनासंमुतिं संघं । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि ।
ताय दानि याचितव्यं । वन्दाम्य् आर्या संघं । अहम् इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता । साहं संघम् उपस्थापनासंमुतिं यचामि । साधु बत मे आर्या संघो उपस्थापनासम्मुतिन् देतु । एवम् भिक्षुत्तो याचयितव्यं ॥
कर्म । शृणोतु मे आर्या संघो । इयम् इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता । सा संघम् उपस्थापनासंमुतिं याचति । यदि संघस्य प्राप्तकालं संघो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासंमुतिं दद्यात् । ओवयिका एषा ज्ञप्तिः ।
शृणोतु मे आर्या संघो । इयं इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता । सा संघम् उपस्थापनासंमुतिं याचति । ताये संघो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासंमुतिन् देति । यासाम् आर्यमिश्रिकाणां क्षमति इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासम्मुतिन् दीयमानां संघेन । सा तूष्णीम् अस्य । यस्या न क्षमति सा भाषतु । इयम् प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचनेति । दिन्ना अर्यमिश्रिकायो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासम्मुति संघेन । क्षमति तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
पूरद्वादशवर्षा पि च भवति अङ्गोपेता सा च असम्मता उपस्थापयेत् पाचत्तिकं ।
अङ्गोपेता इति दशभिर् अङ्गेहि भिक्षुणी अङ्गोपेता भवति । शेषं पूर्ववत् । असम्मता इति असम्मता एव असम्मता । अनङ्गोपेता च असम्मता तम् च से कर्म कुर्वन्ति ज्ञप्तिविपन्नं गणविपन्नं अनुश्रावणाविपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं एवम् एषा असम्मता । उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं । सा एष भिक्षुणी असम्मता उपस्थापयति पाचत्तिकं । प्रव्राजयति विनयातिक्रमम् आसादयति । तेन भगवान् आह । पूर द्वादशवर्षा पि च भवति अङ्गोपेतासा च असम्मता उपस्थापयेत् पाचत्तिकं ॥4 ॥ पाचत्तिकधर्म 95
दुःशिला
209. भगवान् वैशालीयम् विहरति । या सा कालीय भिक्षुणीय त्रियन्तरा लेच्छविधीता प्रव्राजिता । सा देशितशिक्षा । प्रतितालकेहि प्रतिकुञ्चिकाहि च परविहारान् उद्घाटिय आगारिकेहि परिव्राजकेहि च सह तिष्थति । सा ताय उपसंपादिता । भिक्षुणीयो दानि ओज्झायन्ति । किम् इमाय दुःशीलाय प्रतितालकिनीय पुरुषसहायिकाय उपस्थापिताय । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत् शब्दापयथ कालीं । सा दानि शब्दापिता । भगवान् विस्तरेण पृच्छति यावद् आम भगवन् । भगवान् आह । दुष्कृतन् ते कालि । नैष कालि धर्मो यावद् एव नामा त्वं दुःशीलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयसि । तेन हि न क्षमति जानन्ती दुःशीलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी जानन्ती दुःशीलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय । दुःशीलेति शीलविपन्ना शीलातिक्रान्ता । प्रतितालकिनीति प्रतितालकेहि प्रतिकुञ्चिकाहि च अन्यातकान् विहारकान् उद्घाटयति । पुरुषसहायिनीति । आगारिकेहि च परिव्राजकेहि च सार्धं संसृष्टा विहरति । उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं यावत् प्रज्ञप्तिः या दानि एषा आगारिकेहि परिव्राजकेहि च सार्धं संसृष्टा विहरति सा न क्षमति उपस्थापयितुं । अथ दानि शक्नोति ब्रह्मचर्यं संपादयितुं लभ्या ततो संसर्गातो विवेचयित्वा उपस्थापयितुं । भिक्षुर् अपि जानन् दुःशीलं श्रामणेरं स्त्रीसंसृष्टं अप्रत्योसारायेत्वा उपसम्पादेति विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी जानन्ती दुःशिलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयेत् पाचत्तिकं ॥5 ॥ पाचत्तिकधर्म 96
ऊनविंशतिवर्षा कुमारिभूता
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
