Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
भिक्षुणीविनय
- Thông tin
- GRETIL — Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अथ भगवांस् तायो शाकियायिनीयो आमन्त्रयति । सचेन् मन्यथ भगिनीयो यद् इदं युष्माकं हस्तो च पादो च छिन्नो अपि तु ते वेदयन्ति वा न वा । नो हीदं भगवन् । अस्ति च तत्प्रत्यया दुःखा वेदना । एवं ह्य् एतद् भगवन् सचेन् मन्यथ भगिनीयो चक्षुः स्वभावं वेदयति । यावद् अस्ति च तत्प्रत्यया दुःखा वेदना । एवं ह्य् एतद् भगवन् । एवम् अशिष्टान्य् आयतनानि । एवं स्कन्धधातवः । एवं केशा रोमा नखा । एवं सर्वा अशुभपाली । एवं च पुनर् दुःखा वेदना पराधीना परप्रतिबद्धा प्रत्ययाधीना प्रत्ययप्रतिबद्धा इति विदित्वा द्वा त्रिंशतीहि आकारेहि प्रकृति भिन्नः । संस्कारपुञ्जः परिज्ञेयः । अतश् च भगिनीयो आर्य श्रावक इमेसां पञ्चोपादानस्कन्धानां नात्मानं समनुपश्यति । आत्मीयान् यावत् प्रत्यात्मम् एव परिनिर्वाति । इदम् अवोचत् भगवान् । यावत् तायो पट शाकियायिनीयो धीतां अनागामितां साक्षात् कुर्युः । पञ्चानाञ् च भिक्षुशतानम् अनुपादायास्रवेभ्यश् चित्तानि विमुच्येयुः । अनेकेषाञ् च देवताशतसहस्राणां धर्मेषु धर्मचक्षु विशुद्धं ।
156. अथायुष्मान् वागीशस् तस्याम् एव पर्षदि यावद् भगवान् आह । प्रतिभातु ते वागीश यावद् अध्याभाषि ।
प्रतीयं शत्कारगतं हि शून्यं यत्र विहन्यते विपरीतग्राही । अहं ममेति तथा हि मन्यमानो ते वर्धयन्ति कटसीं पुनः पुनः ॥ [1] ॥
शून्यम् असारम् कञ् च कायं विदित्वा निरोधक्षयधर्मकं तथा । संभूता विभूता च भवगतीती को भवगतीषु रमेत युक्तयोगी ॥ [2] ॥
इदञ् च दुःखं वेदयित्वा तस्य मूलं दृष्ट्वा च उत्पद्यति । दुःखमूले कायचित्तञ् च एतं अनुश्रोतगामिनं मुक्तञ् च चित्तं विहनेन्ति मारं ॥ [3] ॥
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । किं भगवन्न् इमाहि शाकियायिनीहि पुरा पापं कर्म कृतम् येन एतायो एवं दुःखाम् वेदनाम् वेदयन्ति । भगवान् आह । भूतपूर्वम् आनन्द एतायो शाकियायिनीयो इहैव श्रावस्त्यां षड् गणिकायो अभूवन् । इहैव श्रावस्तीयं कालो नाम प्रत्येकभुद्धो अभूषि । सो दानि पिण्डाय चरन्तो ताहि गणिकाहि उक्तो । अयं दानि श्रमणो स्वयं कामान् परिभुञ्जति । कामानां चावर्णं भाषति । ताहि हास्याभिप्रायाहि विहेठनाभिप्रायाहि अन्येहि दुरुक्तेहि वचनपथेहि ओभर्त्सितो अङ्गारमल्लकेहि चावकीर्णः । सो दानि आनन्द प्रत्येकबुद्धो दुःखाय वेदनाय स्पृष्टः खरां कटुकां वेदनां वेदयन्तो कायेन च जीवितेन च अर्दियन्तो तत्रैव विहाय समभ्युद्गम्य अनुपादाय परिनिवृतः । पूर्वाधिष्ठितेन च स्वकेन तेजोधातुना तस्य शरीरं व्यापिनं । तायो दानि गणिकायो भीतयो पापकम् अस्माभिः कर्मोपचितं । बहु अपुण्यं प्रसूतं । ईदृशो महाभागो ऋषिर् विहेठितः । तद् अस्माकं दुःखं वेदनीयं भविष्यति । ताहि दानि विप्रतिसारं जानाहि । तस्य शरीरं परिगृह्य स्तूपम् अकरेंसुः । छत्रध्वजपताकाहि च पूजयेंसुः । पुष्पधूपगन्धेहि च पूजयेंसुः । एवं च प्रणिधेंसुः । अनागतम् अध्वानम् वयम् एतादृशं शास्तारम् आरागयेमः । येषां पाञ्चधर्माणाम् अयं लाभी । तान् वयम् अपि लप्स्याम इति । तायो एतायो तेन पापेन कर्मेण कृतेन यावन् नरकेषूपपन्नायो एतायो तहिं बहूनि वर्षसहस्राणि दुःखम् अनुभवेंसुः । एताहि आनन्द बालपृथग्जनाहि हसन्तीहि पापकर्म कृतं । यस्य अश्रुमुखा पि पापकम् प्रतिसम्वेदयन्ति । यम् एताहि सा पूजा कृता विप्रतिसारश् चोत्पादितः । यं च प्रणिधानं अनागतम् अध्वानं एतादृशं शस्तारम् आरागयेमः । येषान् धर्माणाम् अयं लाभी । तान् वयम् अपि लप्स्याम इति । यावत् पञ्चानाम् अवरभागीयानां संयोजनानां यावत् तत्र परिनिर्वायिन्यः । को नामायं भगवन् धर्मपर्यायः । कथं चैनां धारयामि । भगवान् आह । तस्मात् त्वम् आनन्द इमं धर्मपर्यायं कारणवैपुल्यन् नाम धारय इदम् अवोचत् ।
157. भिक्षुणीयो दानि कपिलवस्तुनगरे रुद्धे विरूढकेन । काश्चिद् अन्तो नगरे निलीनाः काश्चिद् बहिर् निर्गताः । भिक्षुणीयो भिक्षुणीहि विप्रवुस्तायो । तासां कौर्कृत्यं । यावद् भगवान् आह । तेन हि अनापत्तिः अकामिकाये नगररुद्धाये ।
भगवां श्रावस्तीयं विहरति । भिक्षुणीयो अध्वानं गच्छन्ति । तत्र दानि भिक्षुणी जरादुर्बला । व्याधिदुर्बला । सार्थातो परिहीणा ति । भिक्षुणीयो अतिक्रान्तायो । तायो दानि कौकृत्यं । कौकृत्येन महाप्रजापतीये गौतमीये आरोचयेंसुः । महप्रजापती गौतमी भगवन्तम् आरोचयति । भगवान् आह । तेन हि अनापत्तिः । अकामिकाय । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी भिक्षुणीय विना एकरात्रम् पि विप्रवसेय अन्यत्रसमयेन । तत्रायं समयो ग्लाना भिक्षुणी भवति । नगरोपरोधे वा रुद्धा भवति । अयम् अत्र समयो ।
या पुन भिक्षुणीति उपसंपन्ना । भिक्षुणीभिर् विना ति अद्वितीयं । एकं रात्रम् पि विप्रवसेया ति अरुणमुदगमे च अन्यत्रसमये । तत्रायं समयो अकामिका भिक्षुणी भवति । जराबुर्बला वा व्याधिदुर्बला वा नगरोपरोधो वा । एतं ताव नगरं परचक्रेणोवरुद्धम् भवति । किञ्चापि भिक्षुणी अन्तो नगरतो बहिर्धा निर्धावति बहिर्धातो वा अन्तो नगरं प्रविशति । किञ्चापि प्रविशति अनापत्तिः । सा एषा भिक्षुणी ससूर्ये विना भूता भिक्षुणीहि विप्रवुस्ता अरुणमुद्घातेति संघातिशेषो । अस्तमिते सूर्ये विना भूता अरुणमुद्घातयति थूल्ऽ-अच्चयं । भिक्षुणीविहारे अन्यत्र वा सर्वाहि अन्तो हस्तपाशस्य प्रतिक्रमितव्यं । त्रिक्खत्तो रात्रीय अन्यमन्यसमवधानं दातव्यं । हस्तेन परामृषितव्यं । न खलु सकृद् एव ।
अथ खलु यामे यामे पुरिमे यामे समवधानं न देति विनयातिक्रमम् आसादयति । मध्यमे यामे न देति विनयातिक्रमम् आसादयति । पश्चिमे यामे न देति विनयातिक्रमम् आसादयति । सर्वत्र ददाति अनापत्तिः ।
अथ दानि द्विभूमकं भवति एका हेष्ठिमे प्रतिक्रमति अपरा उपरिमे । त्रिक्खत्तो रात्रौ अवतरितव्यं । तेन भगवान् आह ।
या पुनभिक्षुणी भिक्षुणीभि विना एकरात्रम् पि विप्रवसिय अन्यत्रसमये । तत्रायं समयो ग्लाना भिक्षुणी भवति । नगरो परोधे वा रुद्धा भवति अयम् अत्र समयो । अयं पि धर्मो प्रथमापत्तिको संघातिशेषो ।
संघातिशेषधर्म 7 अननुज्ञाता
158. भगवान् श्रावस्त्यां विहरति । राजगृहे दानि अपरस्य अभटगणस्य सुदिन्निका नाम भार्या तरुणी । प्रासादिका दर्शनीया । सो दानि कालगतो । सा स्त्री पुरुषेणार्थिका । स देवरो संकलेतुकामो । सा स्त्री स्त्रिणाम् आह । आर्यमिश्रिका अहं पुरुषेण अनर्थिका । अयं च देवरो मम संकलेतुकामो । अपरा स्त्री आह । इच्छसि मुच्चितुं । सा दान् आह । इच्छामि । सा आह । गच्छ श्रावस्तीं । तंहि दानि काली नाम भिक्षुणी प्रतिवसति । सा ते प्रव्राजयिष्यति । सा दानि निर्धाविता । श्रावस्तीं गता । सा भिक्षुणीविहारं गत्वा पृच्छति । कतमं आर्याये कालीये परिवेणं । अपराहि दर्षितः दर्शितः एषो ति । सा ताम् उपसंक्रमित्वा आह । इच्छामि आर्ये प्रव्रजितुं । सा ताय प्रव्रजिता उपसंपादिता । सो दानि मनुष्यो मार्गति संकलेष्यामीति । न लभति । सो दानि शृणोति । श्रावस्तीयं काली नाम श्रामणिका । ताये प्रव्राजितेति । सो दानि पुरुषो अनुपूर्वेण श्रावस्तीं गत्वा पृच्छति । कतमो ऽत्र भिक्षुणीविहारः । अपराहि दर्शित एषो ति । सो तहिं प्रविशेतिवा । पृच्छति यावाद् आह कतमा आर्या कालीति सा दान् आह । अहं । सो दान् आह । प्राप्तकालन् नाम आर्याये मम भार्याम् अनोत्सृष्टां प्रव्राजयितुं । सा दान् आह । कुतः पुनस् त्वं दीर्घायुः । सो दान् आह । राजगृहातो । सा दान् आह । चण्डायुषो नस् त्वं नगरं प्रविष्टः । सान्तेवासिनी नाम् आह । आनेथ संघाटिं यावद् इमं चण्डायुं धरे चाटिकं बन्धापयामि । सो दानि पुरुषो भीतः पश्यति । यावद् इयं श्रमणिका धृष्टा च मुखरा च बन्धापयेय इति । सो मनुष्यो ओज्झायति च ओसक्कति च यावद् बहिर् गत्वा भिक्षुणीनां महाजनकायस्यारोचयति । पश्यथ भणे श्रमणिका भार्याम् च मे अनोत्सृष्टां प्रव्राजयति मम च भन्धनेन सन्तर्जेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति । महाप्रजापती गौतमी भगवतो आरोचयति । भगवान् आह । शब्दापयथ कालिं । सा दानि शब्दापिता । एतद् एव सर्वं पृच्छीयति । यावद् आम् भगवन् । भगवान् आह । दुष्कृतं ते कालि । एवन् नाम त्वं अनुज्ञापकेहि अननुज्ञाताम् उपस्थापयसि । तेन हि न क्षमति अनुज्ञापकेहि अननुज्ञाताम् उपस्थापयितुं ।
भिक्षुणीयो आहंसुः । पश्य भगवन् कथम् इयं कालीय प्रत्युत्पन्नप्रतिभानताय मोचिता । स च पुरुषो भीतः प्रपलानः । भगवान् आह । न चेषा भिक्षुणीयो कालीय एतर्ह्य् एव प्रत्युत्पन्नप्रतिभानताय मोचिता । एष च पुरुषो भीतः प्रपलानः । अन्यदाप्य् एषा एताय प्रत्युत्पन्नप्रतिभानताय मोचिता । एष च पुरुषो भीतः प्रपलानः ।
भूतपूर्वं भिक्षुणीयो इयम् एव नगरी वाराणसी । इयं स्त्री रात्रौ दारिकां स्कन्धेनादाय गच्छति । सिंहो च पुरतः प्रत्युपस्थितो । सा दानि दारिका दृष्ट्वा रुदिता । ताय स्त्रियाय सा दारिका चपेटाय आहता । एको ते सिंहो खादितो एतम् पि खादितुकामासि । सिंहः पश्यति । यादृशी एषा स्त्री ध्वाङ्क्षा च मुखरा च खादत्य् । एषा ममायीति । भीतः प्रपलायति । पुरतो मर्कटः आगत्वा सिंहं पृच्छति । मृगराजपुत्र कहिं गमिष्यसि । सिंहो जल्पति । भयं मे उपतन्नं । वानरः पृच्छति । कीदृशं भयं । सिंहो विस्तरेणाचिक्षति । सो जल्पति । नैवं वक्तव्यं । सिंहस् त्वं मृगराज । कस् त्वां प्रहरिष्यति । आगच्छाहि निवर्ताहि । स नेच्छति । सिंहो वानरेण केशेहि गृहीतः । आगच्छाहीति । सा दारिका दृष्ट्वा प्ररुदिता । सा स्त्री जल्पति मा रोदाहि दारिके । एषो तव मातुः केनानीतो केशेहि गृहीत्वा । इदानिं यन् नं इच्छसि तं से खादाहीति । सिंहः पश्यति । मा हैवं संकेतकृतं भविष्यति । एवम् एवानीयानीय देति । एषापि खादति । यत् तावद् अहं एकं वारं प्रपलानः किं भूयो निवर्तितः । सो दानि तस्य मर्कटस्य अवधुनित्वा प्रपलानः । देवता गाथां भाषते ।
प्रत्युत्पन्ना इयं बुद्धिर् नेयं चिरसमुत्थिता । पश्य सिंहभयं जातं प्रतिभानान् निवर्तितं ॥
भगवान् आह । स्याद् भिक्षुणीयो युष्माकम् एवम् अस्याद् अन्या सा स्त्री अभूषि । नैतद् एवं द्रष्टव्यं । इयम् एव सा काली स्त्री अभूषि । स्याद् भिक्षुणीयो युष्माकम् एवम् अस्याद् अन्या सा दारिका ति । नैतद् एवं द्रष्टव्यं । इयम् एव सा सुदिन्निका दारिका अभूषि । स्याद् भिक्षुणीयो युष्माकम् एवम् अस्याद् अन्यो सो सिंहो अभूषीति । नैतद् एवं द्रष्टव्यं । एषो सो मनुष्यो सिंहो अभूषि । तदाप्य् एषा एताय प्रत्युत्पन्नप्रतिभानताय मोचिता । एष च पुरुषो भीतः प्रपलानः ।
159. अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी अनुज्ञापकेहि अननुज्ञाताम् उपस्थापयेद् अयं पि धर्मो प्रथमापत्तिको संघातिशेषो ।
या पुन भिक्षुणीति उपसंपन्ना । अनुज्ञापकेहि अननुज्ञाताम् इति अवूढाय दारिकाय मातापितरौ अनुज्ञापका । वूढाय श्वश्रुश्वशुरौ पतिदेवरौ । उपस्थापयेद् इति उपसंपादयेत् । सा एषा भिक्षुणी अनुज्ञापकेहि अननुज्ञाताम् प्रव्राजयति विनयातिक्रमम् आसाद्यति । शिक्षां देति थूल्ऽ-अच्चयम् आसादयति । उपसंपादेति संघातिशेषो एषा काचित् प्रव्रज्यापेक्षा आगच्छति प्रष्टव्या । अनुज्ञातासि अनुज्ञापकेहि । यदि तावद् आह नहीति । अवूढा वक्तव्या । मातापितरौ अनुजानापयित्वा आगच्छाहीति । वूढा वक्तव्या पतिदेवरौ श्वश्रुश्वशुराव् अनुजानापयित्वा आगच्छाहीति । तेन भगवान् आह ।
या पुन भिक्षुणी अनुज्ञापकेहि अननुज्ञाताम् उपस्थापयेद् अयं पि धर्मो प्रथमापत्तिको संघातिशेषो ।
संघातिशेषधर्म 8
वध्या 160. भगवान् श्रावस्तीयम् विहरति । मल्ला नामा मल्लकल्यो नाम निगमो । तंहि दानि अपरस्य मल्लस्य भार्या परपुरुषेण सार्धम् अभिचरति । सो दान् आह । असुके विरम । अतो दोषो । ऽतो मा ते अहम् एवञ् च एवञ् च असत् करिष्यं । सा दानि दुष्टा न विरमति । मरिष्याम्य् अहं । न पुनर् अहम् अतो दोषतो विरमिष्यं । तेन सा सहोढं गृहीत्वा आसने उपनामिता । इच्छेयम् अहं भवन्तो इमां स्वधर्मेण लम्भियमानां । कः पुनस् तेषां स्वधर्मः मल्लानां । या स्त्री अन्येन पुरुषेण सार्धं अभिचरति । सा सप्तदिवसानि दानविसर्गं कारपेत्वा उभयतो ज्ञातिसंघस्य पुरतो गोपाटिकाय पाटीयति । आसनिका आहंसुः । दिन्ना भवतु स्वधर्मे लभेहि । तेन दानि पुरुषेण गृहं नयित्वा उक्ता । इतिकितिकाय धीते दद यत् ते अस्ति च नास्ति च । सप्त दिवसानि अहं ते उभयतो ज्ञातिसंघस्य पुरतो गोपाटिकाय पाटयिष्यं । सा दानि उभयतो ज्ञातिसंघं सन्निपातेत्वा अन्नं पानं खाद्यं भोज्यं समुदानीय रोदति । स्त्रियो आहंसुः । किं रुदितेन त्वयैव तथा चेष्टितं येन त्वम् एवं दुःखम् अनुभविष्यसि । सा दान् आह । नाहं करोमि । मरिष्यन् ति । अपि तु उभयतो ज्ञातिसंघस्य पुरतो गोपाटिकाय पाटयिष्यन् ति । एवं रोदामि । अपरा आह । इच्छसि त्वं मुच्चितुं । सा दान् आह । इच्छामि । आह । गच्छ श्रावस्तीं । तहिं काली नाम भिक्षुणी । सा ते प्रव्राजयिष्यति । सा तस्या वचनं श्रुत्वा जनस्य खाद्यन्तस्य पिबन्तस्य प्रमत्तस्य यथा वा तथा वा निर्धावित्वा अनुपूर्वेण पृच्छपृच्छिकाय श्रावस्तीम् आगता । पृच्छति । कतमो ऽत्र भिक्षुणीविहारो । अपराहि दर्शितः । सा दानि प्रविशित्वा पृच्छति । कतमा
आर्यकाली । अपराहि आख्याता । एषा ति । सा ताम् उपसंक्रम्य आह । इच्छाम्य् आर्याय प्रव्राजीयमानां । सा दान् आह । अनुज्ञातासि अनुज्ञापकेहि । सा दान् आह । के पुन आर्ये अनुज्ञापकाः । आह । अवूढाये दारिकाये मातापितरौ । वूढाय श्वश्रुश्वशुरौ पतिदेवराः । आह । तदा एषाहम् अनुज्ञाता । यदाहं गोपाटिकाय निसृष्टा सुनिसृष्टा । आह । पुत्रिणि या त्वं निसृष्टा सुनिसृष्टा या त्वं गोपाटिकायां निसृष्टा । सा ताय प्रव्राजिता उपसंपादिता । सो मनुष्यो मार्गयति । गोपाटिकाय पाटिष्यामीति न लभसि । सो दानि शृणोति । श्रावस्तीयं काली नाम भिक्षुणी । ताय प्रव्राजिता । श्रावस्तीम् आगत्वा पृच्छति । कतमो ऽत्र भिक्षुणीविहारो । अपरेहि आख्यातो एषो ति यावत् । स तहिं प्रविशित्वा । आर्या काली नाम । आह । किम् कर्तव्यं । प्राप्तन् नामार्याय मम भार्याम् अनोत्सृष्टाम् प्रव्राजयितुं । सा दान् आह । कुतस् त्वं । आह । आमलककल्यतो । आह । चण्डायु चोरस् त्वम् ओचोरकस् त्वम् ओचरितुकामो त्वं श्रावस्तीयं प्रविष्टः । न त्वं जानासि नित्यविरुद्धाः श्रावस्तेयाः आमलककल्याश् च । सा दानि अन्तेवासिनीं शब्दापयति । आनेहि ताव समघाटिम् यावद् इमं चण्डायुं धरे चाटिकं राजकुले भन्धापेमि । सो मनुष्यो पश्यति । यादृशी इयं श्रमणिका धृष्टा च मुखरा च प्रगल्भा च । भन्धापेयंसि । एष सो दानि पुरुषो ओज्झायति च ओसक्कति च । सो दानि पुरुषो भिक्षुणी नां महाजनकायस्य च पुरो ओज्झायति । पश्यथ भणे श्रमणिका भार्याञ् च मे अनोत्सृष्टां प्रव्राजेति । मम च बन्धनेन तर्जयति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति । यावद् भगवान् आह ।
दुष्कृतं ते कालि । एवन् नाम त्वं जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्ताम् उपस्थापयसि । तेन हि न क्षमति जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्ताम् उपस्थापयितुं ।
161. एषैवार्थोत्पत्तिः । शाक्यानां शाक्यावानो नाम निगमः । एवम् एव विस्तरेण कर्तव्यं । यावद् अन्या ताव मया ईदृशी येव प्रव्राजिता । तत्र मया दण्डकर्म लद्भं । गच्छ नोत्सहामि प्रव्राजयितुं । सा दानि अपरापरासां भिक्षुणीनाम् अल्लीना न काचित् प्रव्राजेति । यावत् तीर्थिकेहि प्रव्राजिता । सो मनुष्यो मार्गति । गोपाटिकाय पाटिष्यन् ति । न लभति । तेन श्रुतं श्रावस्त्यां तीर्थिकेहि प्रव्राजिता । सो दान् आह । इदानीं सा इतिकितिकाय धीता सुमहता दृष्टधार्मिकेन च वधेन । यं उपासकधीता तिर्थिकेहि प्रव्राजिता । सो पुनर् न गवेषति न पृच्छति । सा पि दानि तेन तीर्थिकभावेन तीर्थिकभावेनार्तीयति । ते दानि तीर्थिका दुराख्याता अधर्माणाः । तण्डुलोदकञ् च पिबन्ति । स्थालीधोवनञ् च पिबन्ति । नग्ना अह्रीका अनोत्रापिणो इस्त्रिकामा पि दूषेन्ति । सा स्त्री भिक्षुणीनाम् आह । मोह भागिनी अस्माकं प्रव्रज्या गर्तस्मि पतिता । निरयस्मि पतिता । प्रपातस्मि पतिता । उत्तरयाथ मां । अनुकम्पयथ मां । उद्धरथ मां । अनुकम्पयथ मां । प्रव्राजेथ मां । ता दानि नेच्छन्ति । सा दानि महाप्रजापतीये गौतमीये अल्लीना । महाप्रजापती गौतमी च भगवतो आरोचेति । भगवान् आह । लभ्या । यस् तत्रावर्णः स तीर्थिकेषु गतः । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि तावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्ताम् उपस्थापयेद् अन्यत्र समये । तत्रायं समयः अन्यतीर्थिकपूर्वा भवति । अयम् पि धर्मो प्रथमापत्तिको संघातिशेषो ।
162. या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय । वध्याम् इति घात्यां । विदितान् ति उभयतो ज्ञातिसंघस्य मातृपक्षस्य पितृपक्षस्य च ।
ज्ञाति दण्डप्राप्तां ति । ज्ञातयो नाम क्षत्रियाङ् ब्राह्मणाः वैश्याः शूद्राः अम्बष्ठवैदेहाः भटनाः कुङ्कुमालाः । यावत् केषाञ्चित् गोपाटिकाय पाटीयति । केषाञ्चित् कीटेन वा कालिञ्जेन वा वेठयित्वा दह्यति । केषाञ्चित् वालुकाघटकं कण्ठे बध्वा उदके प्रवेशियति । केषाञ्चिच्छीर्षं प्रधमीयति । केषाञ्चित् कर्णनासा छिद्यन्ति । केषाञ्चित् तप्तं फालं व्रणमुखे अनुश्रोतं प्रक्षिपीयति ।
मल्लानां शाक्यानां च गोपाटिकाय पाटीयति । क्षत्रियाणां पलालेन शरेहि च वेठयित्वा दह्यति । अभीराणाम् वालुकाय घटं कण्ठे भध्वा उदके प्रक्षिपति । शकयवनानां शीर्षं प्रधमीयति । कर्णनासा वा छिद्यन्ति । तप्तम् वा फालं अनुश्रोते व्रणमुखे प्रक्षिपीयन्ति ।
उपस्थापयेद् इति प्रव्राजयेद् उपसम्पादयेद् । अन्यत्र समये ति प्रत्युद्धृतं भगवता पदं अनापत्तिः । अन्यत्र समये तत्रायं समयः ।
अन्यतीर्थिकपूर्वा भवति । अन्यतीर्थिका नाम । चरकपरिव्राजकनिर्ग्रन्थाजीवकत्रेदण्डिकाः माकन्दिकाः गुदुगुदुकाः गौतमधर्मचिन्तकाः वृद्धश्रावकः दकतृतीयकाः यावत् प्रज्ञप्तिः ।
सा एषा भिक्षुणी जानन्ती वध्यां विदितां ज्ञाति दण्डप्राप्तां प्रव्रजयति विनयातिक्रमम् आसादयति । शिक्षां देति थूल्ऽ-अच्चयम् आसादयति । उपसम्पादेति संघातिशेषा । तेन भगवान् आह । या पुन भिक्षुणी जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्ताम् उपस्थापयेत् । अन्यत्र समये । तत्रायं समयः । अन्यतीर्थिकपूर्वा भवति । अयं पि धर्मो प्रथमापत्तिको ।
संघातिशेषधर्म 9
एका नदिन् तरेय
163 भगवान् श्रावस्तीयम् विहरति । अथ संबहुला स्त्रियो नदीयम् अजिरावतीयं स्नायन्ति । स्थूलनन्दा भिक्षुणी तत्रैव स्थाय गता । सा तावद् एकान्ते चीवरकाणि निक्षिप्य बाहुभ्यां प्रतीर्णा । ता दानि स्त्रियो आहंसुः । एषा आर्या स्थूलनन्दा आगच्छतीति । सा कयधानके मुहूर्तम् विश्रमित्वा पुनर् एवागता । स्त्रियो आहंसुः । एषा आर्या स्थूलनन्दा आगता । अतिचापलम् आर्याय कृतं । कथं त्वम् बाहुभ्यां तरसि । ता दानि स्त्रियो ओज्झायिताः । एतं प्रकरणं भिक्षुणीहि श्रुतं । भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति । महाप्रजापती गौतमि भगवतो आरोचेति यावद् भगवान् आह । दुष्कृतं ते नन्दे । एवं च नाम त्वं एकाकिनी नदीं तरसि । तेन हि न क्षमति भिक्षुणीय विना नदीन् तरितुं ।
अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी भिक्षुणीय विना नदीन् तरे अयं पि धर्मो प्रथमापत्तिको ।
या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीय विना ति अद्वितीया । नदीति या बहिः सीमातो प्रवहन्ती बहिः सीमाम् उपेति । तरेया ति अपरात् पारं गच्छेय । अयं पि धर्मो प्रथमापत्तिको । यावता च एतायो भिक्षुणीयो नदीन् तरन्ति अन्तो हस्तपाशे तरितव्यं । परं हस्ते पाशे तरन्ति थूल्ऽ-अच्चयं । दूरेण दूरं भवन्ति संघातिशेषो । अथवैका मध्ये तिष्ठति अपरा तरन्ति थूल्ऽ-अच्चयं । यावद् एवम् अपरापरन्ति सर्वाः थूल्ऽ-अच्चयम् आसादयन्ति । एतायो भिक्षुणीयो नद्यां स्नायन्ति अन्ते हस्तपाशेन स्नातव्यं । परं हस्तपाशा स्नायन्ति विनयातिक्रमम् आसादयन्ति । तेन भगवान् आह ।
या पुन भिक्षुणी भिक्षुणीय विना नदीन् तरेय । अयं पि धर्मो प्रथमापत्तिको संघातिशेषो ॥
संघातिशेषधर्म 10
उत्क्षिप्तका
164. भगवान् श्रावस्तीयम् विहरति । तहिं काली नाम भिक्षुणी ग्रामचारिकां गता । तस्या गताय अन्तेवासिनीये भिक्षुणीसंघेन उत्क्षेपनीयकर्म कृतं । सा ग्रामचारिकां चरित्वा आगता । सा दान् आह । आर्ये संघेन उत्क्षेपनीयं कर्म कृतं । नैवम् एव धर्मसंभोगेन संभुञ्जन्ति नामिषसंभोगेन । सा दान् आह । तूष्णीका भव यावत् भिक्षुणीयो सन्निपातयन्ति । सा दान् आह । सन्निपातेथ आर्यमिश्रिकायो । सा दानि अन्यदा चान्यदा च यदा ग्रामचारिकां चरित्वा आगता भवति । ततो भिक्षुणीनां वैभङ्गिकं ददाति । तायो भिक्षुणीयो सन्निपतथेत्य् उक्ता शीघ्रं शीघ्रं सन्निपतिताः किञ्चिद् वैभङ्गिकं दास्यतीति । सा दान् आह । शृणोतु मे आर्यमिश्रिका संघो । इयं इत्थन्नामा भिक्षुणी । तस्याः संघेन उत्केषेपनीयं कर्म कृतं । यदि संघस्य प्राप्तकालं संघो इत्थन्नामां भिक्षुणीं प्रत्योसरेय । ओवयिका एषा ज्ञप्तिः । शृणोतु मे आर्यमिश्रिका संघो । इयम् इत्थन्नामा भिक्षुणी । तस्याः संघेन उत्क्षेपनीयं कर्म कृतं । संघो तां इत्थन्नामां भिक्षुणीं प्रत्योसारयति । यस्या आर्यमिश्रिकानां क्षमति इत्थन्नामां भिक्षुणीं प्रत्योसार्यमाणां संघेन सा तूष्णीम् अस्य यस्या न क्षमति सा भाषेतु । इयं प्रथमा कर्मवाचना । एवं त्रैवाचिकं प्रत्योसारिता आर्यमिश्रिका इयम् इत्थन्नामा भिक्षुणी । उत्क्षेपनीयं कर्म कृतम् संघेन । क्षमति तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि ।
अथ सा धृष्टा च मुखरा च प्रगल्भा चेति न काचित् प्रतिक्षिपति । अथ ता भिक्षुण्यो पीडिता आहुः । किन् तावद् इमन् ति । अपरा आहुः । वयम् अपि न जानीमः । एतं प्रकरणं भिक्षुण्यो महाप्रजापत्या गौतम्या आरोचयेयुः । महाप्रजापती गौतमी भगवतः आरोचयति । भगवान् आह । शब्दापयथ कालिं । यावद् एतम् एवार्थं पृच्छिता । आह । आम् भगवन् । भगवान् आह । दुष्कृतं ते कालि एवन् नाम त्वं जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्ताम् अप्रतिकृतां । अकृत्वा पूर्वकृत्यं । अनवलोकयित्वा भिक्षुणीसंघं प्रत्योसारयसि । तेन हि न क्षमति । पेयालं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तां अप्रतिकृतां । अकृत्वा पूर्वकृत्यं । अनवलोकयित्वा भिक्षुणीसंघं । स्वयम् एव प्रत्योसारयति । अयं पि धर्मो प्रथमापत्तिको ।
या पुन भिक्षुणीति उपसम्पन्ना यावद् उभयतः संघेन । सा एषा भिक्षुणी जानन्तीति । स्वयम् वा जाने परतो वा श्रुत्वा । भिक्षुणीं समग्रेण संघेनेति अव्यग्रेण । धर्मतो विनयतो ति । सति आपत्या अदर्शनेन । अप्रतिधर्मेण । त्रयाणां दृष्टीनां अप्रतिनिस्सर्गाय । उत्क्षिप्तम् ति असंभोगकृतं । अप्रतिकृतन् ति अप्रत्योसारितं । अकृत्वा पूर्वकृत्यं ति प्रकृतिस्था भिक्षुणीयो असंज्ञापयित्वा ।
अनवलोकयित्वा भिक्षुणीसंघं ति । संघमध्ये अवलोकनाम् अकृत्वा स्वयम् एव प्रत्योसारयेत् । अयम् अपि धर्मः यावत् प्रज्ञप्तिः ।
सा एषा भिक्षुणी जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तां । अप्रतिकृतां । अकृत्वा पूर्वकृत्यं । अनवलोकयित्वा भिक्षुणीसंघं स्वयम् एव प्रत्योसारयति । संघातिशेषम् आसादयति ।
सा एषा भिक्षुणी समग्रेण संघेन उत्क्षिप्ता भवति । या तस्या उपाध्यायी वा आचार्यायिणी वा च या प्रकृतिस्था भिक्षुण्याः ता संज्ञापयितव्याः ।
कस्यात्ययाः न विद्यन्ते को नरो नापराध्यति । को न गच्छति सम्मोहं कस्य बुद्धिर् ध्रुवा स्थिता ॥
एवं तया अज्ञानतया कृतं । न पुनर् एवं करिष्यति ।
यदा संज्ञप्ता भवन्ति तदावलोकना कर्तव्या । शृणोतु मे आर्यमिश्रिका संघः । इयम् इत्थन्नामा भिक्षुणी । तस्याः संघेन अमुकस्मिन् वस्तुनि उत्क्षेपनीयं कर्म कृतं । सा वर्तं वर्तयति । लोमं पातयति । निःसरणं प्रवर्तयति । यदि संघस्य प्राप्तकालं संघम् इत्थन्नामा प्रत्योसारणां याचेय । याचिष्यति इत्थन्नामा संघं प्रत्योसारणां । क्षमते तं संघस्य यस्मात् तूष्णीं । एवम् एतं धारयामि । ताय याचयितव्यं । पेयालं । अथ तत्र काचित् पृअतिहति कर्मक्रियमाणे प्रकृतिस्थाभिर् भिक्षुणीभिः संज्ञापयितव्याः । अस्माकं भणन्तीनां क्षमस्वेति ।
भिक्षुर् अपि जानन् भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तं स्वयम् एव प्रत्योसारयति स्थूलात्ययम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी जानन्ति भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तां अप्रतिकृतां अकृतां अकृत्वा पूर्वकृत्यं अनवलोकयित्वा भिक्षुणीसंघं स्वयम् एव प्रत्योसारयति । अयम् अपि धर्मो प्रथमापत्तिको संघातिशेषो ॥
संघातिशेषधर्म 11
अनवश्रुता अवश्रुता
165. भगवान् राजगृहे विहरति । तत्र जेता नाम भिक्षुणी । ताम् अपरः पुरुषो रक्तचित्तः । भक्तेनोपनिमन्त्रयति । पात्रचीवरेण भक्ष्यभोज्येन ग्लानप्रत्ययभैषज्यपरिष्कारैः । सो आह । जानासि आर्ये कस्य वयम् अर्थाय आर्याय ददामः । सा आह । जानामि । सो आह । कस्यार्थाय । सा आह । पुण्यं ते भविष्यति सो आह । एवम् एतत् पुण्यं भविष्यति । अयं त्व् अहम् आर्याय अर्थिकः आर्याय ददामि । सा तावद् विगतरागा । नैव प्रतिक्षिपति । नाधिवासयति । एतं प्रकरणं भिक्षुण्यो महप्रजापत्या गौतम्या आरोचयेयुः । महाप्रजापती गौतमी भगवतः आरोचयति । भगवान् आह । शब्दापयथ जेतां । सा शब्दापिता । एतद् एवं सर्वं पृच्छीयति । यावद् आम् भगवन् । भगवान् आह । दुष्कृतं ते जेते । ननु ते पश्चिमा नाम जनता अवलोकयितव्या । नैष धर्मो नैष विनयः ।
अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमी यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी जानन्ती अनवश्रुता अवश्रुतस्य पुरुषस्य प्रतिगृह्णीयात् पात्रं वा चीवरं वा भक्ष्यं वा भोज्यं वा ग्लानप्रत्ययभैषज्यपरिष्कारं वा अयम् अपि धर्मः ।
या पुन भिक्षुणीति यावद् उपसम्पन्ना उभयतः संघेन । एषा भिक्षुणी अनवश्रुता ति अरक्तचित्ता । अवश्रुतस्य पुरुषस्येति रक्तचित्तस्य । प्रतिगृह्णेया ति प्रतिच्छेय । पात्रम् इति ज्येष्ठं मध्यमं कन्यसम् वा । चीवरम् इति संघाटिउत्तरासङ्गमन्तर्वासकं कण्ठप्रतिच्छादनं उदकशाटिका । खाद्यम् इति खादनीयं । भोज्यम् इति भोजनीयं । अन्तशः ग्लानभैषज्यम् इति सप्ताहिकं वा यावज्जीविकम् वा । अयम् अपि धर्म । यावत् प्रज्ञप्तिः । एषो तावन् मनुष्यो भिक्षुणीय ददाति पात्रम् वा चीवरम् । भक्ष्यभोज्यम् वा । ग्लानभैषज्यम् वा । तां पुरुषो आह । आर्याय वयम् अर्थिका । आर्याय वयम् ददाम इति । न क्षमति प्रतीच्छितुं । स वक्तव्यः । तवैव भवतु दीर्घायुः लभिष्यामः वयम् अन्यतो पि । अथ प्रतीच्छति संघातिशेषं । अथ वाचं न भाषति हस्तविकारं वा पादविकारं वा अक्षिविकारं वा करोति । हष्तम् वा प्रस्फोटयति । अङ्गुलीं वा अक्षिं वा निपातयति । भूमिम् वा विलिखति विनमति वा । जानाति रक्तचित्तो ति । न क्षमति प्रतीच्छितुं । प्रतीच्छति स्थूलात्ययं ।
अथ खलु देनं देति प्रसन्नैर् इन्द्रियैः । अथ खलु तया भिक्षुण्या आशयेन प्रतीच्छितव्यं प्रतीच्छति अनापत्तिः ।
एवं भिक्षोर् अपि रक्तचित्ता स्त्री ददाति । न जानम् गृह्णाति स्थूलात्ययं । निमित्तं करोति । जानाति रक्तचित्ता इति । नं प्रतीच्छति विनयातिक्रमन् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य पात्रम् चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लानभैषज्यम् वा प्रतिगृह्णेय अयम् अपि धर्मो प्रथमापत्तिको ।
किं ते वदेति त्वं प्रतिगृह्ण
166. भगवान् राजगृहे विहरति । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति अवश्रुतस्य पुरुषस्य पात्रं वा यावत् प्रतिगृह्णातुं । सा जेता तस्य पुरुषस्य न प्रतिच्छति । स्थूलनन्दा भिक्षुणी आह । प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य । किं ते परो करिष्यति । अवश्रुतो वा अनवश्रुतो वा । यतो च त्वम् अनवश्रुता । दायकदानपतीनां सकाशात् प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि । सा भिक्षुणीभिर् उच्यते । मा आर्ये एतां भिक्षुणीम् एवं वद । प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य । किन् ते परो करिष्यति अवश्रुतो वा अनवश्रुतो वा । यतो च त्वम् अनवश्रुता । दायकदानपतीनां सकाशात् प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि । एवं सकृद् उक्ता न प्रतिक्रमति । द्वितीयम् तृतीयम् अप्य् उक्ता न प्रतिक्रमति । एतं प्रकरणं भिक्षुण्यो महाप्रजापत्या गौतम्या आरोचयन्ति । महाप्रजापती गौतमी भगवतः आरोचयति । भगवान् आह । शब्दापयथ नन्दां यावद् आम् भगवन् । भगवान् आह । दुष्कृतं ते नन्दे । नैष धर्मो नैष विनयः । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय यावत् पर्यवदातानि ।
या पुन भिक्षुणी भिक्षुणीं एवं वदेय । प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य । किं ते परः करिष्यति । अवश्रुतो वा अनवश्रुतो वा । या त्वम् अनवश्रुता । दायकदानपतीनां सकाशात् प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि । सा भिक्षुणी भिक्षुणीभिः उच्यमाना एतद् एव वस्तुं प्रतिगृह्य तिष्थेय न प्रतिनिस्सरेत् । सा भिक्षुणी भिक्षुणीभिर् यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय यावत् तृतीयकं समनुग्राह्यमाणा वा समनुभाष्यमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतत् कुशलं । नो च प्रतिनिःसरेय । अयम् अपि धर्मो यावत् तृतीयकः ।
या पुन भिक्षुणीति यथा स्थूलनन्दा भिक्षुणी । तां भिक्षुणीम् इति यथा तां जेतां । भिक्षुणीम् एवं वदेत् । सा भिक्षुणी भिक्षुणीभि एवम् अस्य वचनीया । पेयालं । एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तद् एवं वस्तुं समादाय प्रतिगृह्य तिष्ठेय । अयम् अपि धर्मो यावत् तृतीयकः यथा भिक्षुविनये । पेयालं । यावत् प्रज्ञप्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी भिक्षुणीम् एवं वदेय । प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य । किं ते परो करिष्यति अवश्रुतो वा अनवश्रुतो वा । या त्वम् अनवश्रुता । दायकदानपतीनां देयधर्मं प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि । सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया । मा आर्ये एतां भिक्षुणीम् एवं वदे । प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य । किन् ते परो करिष्यति अवश्रुतो वा अनवश्रुतो वा । या त्वम् अनवश्रुता । दायकदानपतीनां देयधर्मं परितिगृह्णित्वा यथाप्रत्ययं करोहि । एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय । न प्रतिनिःसरेय । सा भिक्षुणी भिक्षुणीभिर् यावत् तृतीयकं समनुग्राहितव्या समनुशासितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत् तृतीयकं समनुग्राह्यमाणा समनुभाष्यमाणा तम् वस्तुं प्रतिनिःसरेय इत्य् एतत् कुशलं । नो च प्रतिनिःसरेय तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय । अयन् धर्मो यावत् तृतीयकः ।
संघभेदःद्वेय भेदेन
167. भगवान् राजगृहे विहरति । द्वौ भेदेन तथैव कर्तव्यो यावत् तेन भगवान् आह ।
या पुन भिक्षुणी समग्रस्य संघस्य भेदाय पराक्रमेय भेदनसम्वर्तनीयं वा अधिकरणं समादाय प्रतिगृह्य तिष्ठेय । सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया । मा आर्ये समग्रस्य संघस्य भेदाय पराक्रमेय । भेदनसम्वर्तनीयम् वा अधिकरणं समादाय प्रतिगृह्य तिष्ठाहि । समेतु आर्या संघेन । समग्रो हि संघो सहितो सम्मोदयमान अविवदमानो । एक्ऽउद्देशो क्षीरोदकीभूतो शास्तुः शासनं दीपयमानः सुखञ् च फासुञ् च विहरति । एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय । न प्रतिनिःसरेय । सा भिक्षुणी भिक्षुणीभिर् यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत् तृतीयकं समनुग्राह्यमाणा वा समनुभाष्यमाणा वा तं वस्तुं न प्रतिनिःसरेय । अयम् अपि धर्मो यावत् तृतीयकः ।
संघातिशेषधर्म 14(3)
तद् अनुवर्तकाः
तस्याः खलु भिक्षुण्या भिक्षुण्यो भवन्ति सहायिका । एका वा द्वौ वा त्रयो वा संबहुला वा । वर्गवादिनीयो अनुवर्तिकाः समनुज्ञाः संघभेदाय । ता भिक्षुण्यः भिक्षुण्यो एवम् आहुः । मा आर्यमिश्रिकाः एतां भिक्षुणीं किञ्चिद् अववदित्थ । कल्याणं वा पापकं वा । धर्मवादिनी चैषा भिक्षुणी विनयवादिनी चैषा भिक्षुणी । अस्माकं चैषा भिक्षुणी छन्दञ् च रुचिं च समादाय प्रगृह्य व्यवहरति । यञ् चैतस्याः भिक्षुण्याः क्षमते च रोचते च अस्माकम् अपि तं क्षमते च रोचते च । जानन्ती चैषा भिक्षुणी भाषते नो अजानन्ति । ता भिक्षुण्यो भिक्षुणीभिर् एवम् अस्य वचनीयाः । मा आर्यमिश्रिकाय एवम् अवोचत् । नैषा भिक्षुणी धर्मवादिनी । नैषा भिक्षुणी विनयवादिनी । मार्यमिश्रिकाः संभेदं रोचयन्तु । संघसामग्रीम् एवार्यमिश्रिका रोचयन्तु । समग्रो हि संघो । सहितो सम्मोदयमानो अविवदमानो एक्ऽउद्देशो क्षीरोदकीभूतो शास्तुः शासनं दीपयमानः । सुखाञ् च फासुञ् च विहरति । एवञ् च ता भिक्षुण्यो भिक्षुणीभिः उच्यमाना तं वस्तुं प्रतिनिःसरेंसुः इत्य् एतत् कुशलं । नो चे प्रतिनिःसरेंसुः ता भिक्षुण्यो भिक्षुणीभिः यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत् तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेंसुः इत्य् एतत् कुशलं । नो च प्रतिनिःसरेंसुः । तद् एव वस्तुं समादाय प्रगृह्य तिष्ठेयुः । अयम् अपि धर्मो यावत्तृतीयकः ।
संघातिशेषधर्म 15(4) आक्रोशो
168. भगवान् श्रावस्तीयम् विहरति । तत्र स्थूलनन्दा नाम भिक्षुणी अधिकरणान्य् उत्पादयति । तस्या संघेन उत्क्षेपनीयं कर्म कृतं । सा संघं आक्रोशति संघम् अगतिगमनेन प्रापयति । छन्दगामी चार्या संघो । दोषगामी चार्या संघो । भयगामी चार्या संघो । मोहगामी चार्या संघो । छन्दन् निश्राय । दोषन् निश्राय । मोहन् निश्राय मम आक्रोषितव्यं । परिभाषितव्यम् मन्यति । भिक्षुणी भिक्षुणीभिर् उच्यते । मा आर्ये नन्दे संघम् अगतिगमनेन प्रापय । न संघो छन्दगामी । पेयालं । यावन् न मोहन् निश्राय यावद् आर्या एवं छन्दगामी । मा आर्ये छन्दन् निश्राय संघम् आक्रोषितव्यम् मन्यसि परिभाषितव्यम् मन्यसि । सा त्वम् एवम् उच्यमानी न प्रतिक्रमसि द्वितीयं तृतीयम् अध्युच्यमानि न प्रतिक्रमसि । एतं प्रकरणं यावद् भगवान् आह । तेन हि गच्छथ । त्रिष्कृत्वा कुवेगे । त्रिष्कृत्वा महाजने । तृष्कृत्वा संघमध्ये समनुग्राहथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय । सा कुवेगे उच्यते । सत्यं त्वम् आर्ये नन्दे संघम् अगतिगमनेन प्रापयसि । अलम् आर्ये नन्दे संघम् अगतिगमनेन प्रापयितुं । यावत् खलु ते आर्ये मित्राय करणीयं अर्थकामाय हितैषिणीय करोति । ते तन् मित्रा एकवाचा गच्छन्ति । द्वे वाचे अवशिष्टे । प्रतिनिःसर न प्रतिनिस्सरामीत्य् आह । एवम् महाजने संघमध्ये अवलोकना कर्तव्या । सत्यं त्वम् आर्ये नन्दे संघम् अगतिगमनेन प्रापयसि । पेयालं । याव आमो त्य् आह । सा ताव संघमध्ये पि वक्तव्या पेयालं । एतं प्रकरणं भिक्षुण्यो आरोचयेयुः । अनुभाष्टा भगवन् आर्या नन्दा त्रिष्कृत्वा कुवेगे त्रिष्कृत्वा महाजने त्रिष्कृत्वा संघमध्ये एतस्य वस्तुनः प्रतिनिःसर्गाय । न प्रतिनिःसरति । भगवान् आह शब्दापयथ नन्दां । पेयालं । यावद् एवं चैवञ् च पृष्टा । पेयालं । आम् भगवन् । भगवान् आह । दुष्कृतं ते नन्दे । नन्व् अहं नन्दे अनेकपर्यायेण दौर्वचस्यं विगर्हामि यावन् नैवं कुर्वतो वृद्धिर् भवति कूशलेषु धर्मेषु अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय । पेयालं । यावत् पर्यवदातानि भविष्यन्ति ।
भिक्षुणी खलु पुनः संघाक्रोशिका भवति । सा एवम् आह । छन्दगामी च संघो । दोषगामी च । भयगामी च । मोहगामी च । संघो छन्दन् निश्राय । दोषन् निश्राय । भयन् निश्राय । मोहन् निश्राय । समाक्रोशितव्यं परिभाषितव्यं मन्यति । सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया । मा आर्ये एवं वद । न संघो छन्दगामी । न संघो दोषगामी । न संघो भयगामी । न संघो मोहगामी । न च संघो छन्दन् निश्राय । दोषभयमोहन् निश्राय आक्रोशितव्यं । परिभाषितव्यं मन्यति । आर्ये च छन्दन् निश्राय दोषं भयं मोहन् निश्राय संघम् आक्रोशितव्यं मन्यति । एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमान तद् एव वस्तुं समादाय प्रगृह्य तिष्ठेय । सा भिक्षुणी भिक्षूणीभिः यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिस्सर्गाय । यावत्तृतीयकं समनुग्राहियमाना वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिस्सरेय इत्य् एतत् कुश्लं । नो च प्रतिनिस्सरेंसुः । अयम् अपि धर्मो यावत्तृतीयकः । पेयालं ।
यावद् एषा भिक्षुणी त्रिष्कृत्वा कुवेगे समनुग्राहियमाना समनुभाषियमाणा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति । वाचायाम् वाचायां विनयातिक्रमम् आसादयति । एवं महाजने संघमध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति । प्रथमायां वाचायां अव्यवरोपितायां विनयातिक्रमः । व्यवरोपितायां स्थूलात्ययः । एवम् द्वितीयातृतीयाम् वा वाचायां यावद् व्यवरोपितायां संघातिशेषं । यदा संघातिशेषाम् आपत्तिम् आपन्ना ।
ये च कुवेगे । ये च महाजने । ये च संघमध्ये विनयातिकरमाः । स्थूलात्ययाः सर्वे ते प्रतिप्रस्रभ्यन्ति स्थापयित्वा अष्टौ स्थूलात्ययाः । न संघम् अगतिगमनेन प्रापयन्ती । अन्तरा प्रतिनिःसरति यथास्थितासु आपत्तिषु कारयितव्या । कथं तावत् प्रतिनिः सर्गार्हं कथम् अप्रतिनिःसर्गार्हं । अभूषि मे संघम् अगतिगमनेन प्रापयिष्यन् ति प्रापयामि प्रापयिष्यामि चेति एवं प्रतिनिःसर्गार्हं । कथं प्रतिनिःसर्गार्हं । अभूषि मे संघम् अगतिगमनेन प्रापयिष्यन् ति प्रापितञ् च । न खल्व् इदानीं प्रापयामि न च प्रापयिष्यामीत्य् अप्रतिनिःसर्गार्हं । तेन भगवान् आह ।
भिक्षुणी खलु पुनः संघाक्रोशिका भवति । सा एवम् आह । छन्दगामी । चार्यमिश्रिकायो । संघो दोषगामी च भयगामी च संघो । मोहगामी च संघो । छन्दन् निश्राय दोषं भयं मोहं निश्राय समाक्रोशितव्याम् परिभाषितव्याम् मन्यति । सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया । मा आर्ये संघआक्रोशिका भवाहि । न संघो छन्दगामी । न संघो दोषगामी । न संघो भयगामी । न संघो मोहगामी । न च संघो छन्दन् निश्राय दोषं भयं मोहं निश्राय आर्याम् आक्रोशितव्याम् परिभाषितव्याम् मन्यति । आर्या एवं छन्दगामिनी दोषगामिनी भयगामिनी मोहगामिनी । आर्या एव छन्दन् निश्राय दोषं भयं मोहन् निश्राय संएघम् आक्रोशितव्यं रोषितव्यं परिभाषितव्यं मन्यति । विरमार्य संघाक्रोशनातो । एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तम् एवि वस्तुं समादाय प्रतिगृह्य तिष्ठेत् । न पर्तिनिःसरेय । सा भिक्षुण् भिक्षुनीभिर् यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राह्यमाना वा समनुभाषियमाना । तं वस्तुं प्रतिनिःसरेय इत्य् एतत् कुशलं । नो चेत् प्रतिनिःसरेय । अयम् अपि धर्मो यावत्तृतीयको ।
संघातिशेषधर्म 16(5) दौर्वचस्यंदुर्वचकजातियो
169. भगवान् कौशाम्बीयाम् विहरति । छन्दकमाता नाम भिक्षुणी । सा उद्देशपर्यवसानेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना । पेयालं । यथैव छन्दकस्य तथैवं विस्तरेण कर्तव्यं । तेन भगवान् आह ।
भिक्षुणी खलु पुनर् दुर्वचकजातीय भवति । सा उद्देशपर्यापन्नेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना आत्मानम् अवचनीयं करोति । सा एवम् आह । मा मे आर्यमिश्रिकायो किञ्चिद् वदथ कल्याणम् वा पापकं वा । अहम् अप्य् आर्यमिश्रिकाणान् न किञ्चिद् वक्ष्यामि कल्याणम् वा पापकम् वा । विरमन्त्व् आर्यमिश्रिकायो मम वचनाय । सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया । मा आर्ये उद्देशपर्यापन्नेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना आत्मानम् अवचनीयं करोहि । वचनीयम् एवार्यात्मानं करोतु । आर्या पि भिक्षुणीयो वदन्तु शिक्षायां सह धर्मेण सह विनयेन । आर्यम् अपि भिक्षुणीयो वक्ष्यन्ति शिक्षायां सह धर्मेण सह विनयेन । एवं संवृद्धा खलु पुनर् आर्ये तस्य भगवतस् तथागतस्य अर्हतः सम्यक्सम्बुद्धस्य पर्षा यद् इदम् अन्यमन्यवचनीया अन्यमन्यापत्तिव्युत्थापनीया । एवं च सा भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय । न प्रतिनिःसरेय । सा भिक्षुणी भिक्षुणीहि यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावात्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाण वा तम् वस्तुं प्रतिनिःसरेय इत्य् एवं कुशलं । नो च प्रतिनिःसरेय तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय । अयम् अपि धर्मो यावत् तृतीयको ।
द्वे संसृष्टा विहरन्ति
170. भगवां च्छ्रावस्त्यां विहरति । एता दानि भिक्षुणीयो नन्दा च शाक्यकन्या उत्तरा च मासोरकधीता कायिकेन संसर्गेण संसृष्टा हि विहरन्ति । वाचिकेन संसर्गेण संसृष्टा विहरन्ति । कायिकवाचिकेन संसर्गेण संसृष्टा विहरन्ति । अन्यमन्यस्यावद्यानि प्रतिच्छादयन्ति । किन्ति दानि कायिकेन संसर्गेण संसृष्टा विहरन्ति । पेयालं । किन् ति दानि अन्यमन्यस्यावद्यानि प्रतिच्छादयन्ति । एकाये अवद्यम् अपराच्छादेति । अपरात् वद्यम् अपरा च्छादेति । तायो भिक्षुणीयो भिक्षुणीहि वुच्चन्ति । मार्यमिश्रिकायो कायिकेन संसर्गेण संसृष्टा विहरथ मा वाचिकेन मा कायिकवाचिकेन । मा अन्यमन्यस्यावद्यानि च्छादेथ । तायो सकृद् उक्तायो न प्रतिक्रमन्ति । द्वितीयं तृतीयम् अप्य् उक्ता न प्रतिक्रमन्ति । एतं प्रकरणं ता भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवतो आरोचयेत् । विस्तरेण । पेयालं ।
भिक्षुणीयो खलु पुनर् द्वे संसृष्टा विहरन्ति । अन्यमन्यस्यावद्यप्रतिच्छादिका । ता भिक्षुणीयो भिक्षुणीहि एवम् अस्य वचनीया । मा आर्येमिश्रिकायो संसृष्टा विहरथ अन्यमन्यस्यावद्यप्रतिच्छादिका । नाना आर्यमिश्रिकायो विहरथ । नाना वो विहरन्तीनां वृद्धिर् एव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि । न परिहाणिः । एवं च तायो भिक्षुणीयो भिक्षुणीहि वुच्यमानास् तं वस्तुं प्रतिनिस्सरेंसुः । इत्य् एतं कुशलं । नो च प्रतिनिस्सरेंसुः ता भिक्षुणीयो भिक्षुणीहि यावत्तृतीयकं समनुग्राहितव्याः समनुभाषितव्याः तस्य वस्तुस्य प्रतिनिस्सर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिस्सरेंसुः इत्य एतं कुशलं । नो च प्रतिनिस्सरेंसुः तम् एवम् वस्तुं समादाय प्रतिगृह्य तिष्ठेंसुः । अयम् अपि धर्मो यावत् तृतीयको ।
भिक्षुणीयो खलु पुन द्वे संसृष्टा विहरन्ति यथा नन्दा च शाक्यकन्या उत्तरा च माशोरकधीता । संसृष्टा विहरन्ति कायिकेन वाचिकेन कायिकवाचिकेन । अवद्यप्रतिच्छादिका ति आपत्तिप्रतिच्छादिका । ता भिक्षुणीयो यथा नन्दा च शाक्यकन्या उत्तरा च माशोरकधीता । भिक्षुणीहीति संघेन महाजनेन एकभिक्षुणीय । एवं स्युर् वचनीया । मा आर्यमिश्रिकायो संसृष्टा विहरथ । अन्यमन्यस्यावद्यप्रतिच्छादिका । पेयालं । यावत् तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेंसुः । यं तं वस्तुं संसृष्टा विहरन्ति अन्यमन्यस्यावद्यानि प्रतिच्छादयन्ति । ता भिक्षुणीयो ति यथा नन्दा च शाक्यकन्या उत्तरा च माशोरकधिता । भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या । त्रिक्खुत्तो कुवेगे त्रिक्खुत्तो महाजने त्रिक्खुत्तो संघमध्ये समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं । नो च प्रतिनिःसरेंसुः अयम् अपि धर्मो यावत् तृतीयको संघातिशेषो । पेयालं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुन् न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रमम् आसादयति । एवं महाजने संघमध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति । प्रथमायां वाचायाम् अध्योरोपितायां विनयातिक्रमम् आसादयति । व्योरोपितायां थूल्ऽ-अच्चयं । एवं द्वितीयायां तृतीयायां वाचायाम् अध्योरोपितायां थूल्ऽ-अच्चयं । अध्योरोपितायां संघातिशेषं । किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं । किम् अप्रतिनिःसर्गार्हं । अभूषि खलु मो संसृष्टा विहरिष्यामो । अन्योन्यसावद्यप्रतिच्छादिका ति विहरामो विहरिष्यामो । नो च खलु विहृतं । एवं प्रतिनिःसर्गार्हं द्रष्टव्यं । किन् ति दानि अप्रतिनिःसर्गार्हं द्रष्टव्यं । अभूषि खलु मो संसृष्टा विहरिष्यामो अन्योन्यस्यावद्यप्रतिच्छादिका ति ते दानीम् विहरामो विहरिष्यामो न विहृतं । मो ति एतं प्रतिनिःसर्गार्हं द्रष्टव्यं । तेन भगवान् आह ।
भिक्षुणीयो खलु पुन द्वे संसृष्टायो विहरन्ति अन्योन्यस्यावद्यप्रतिच्छादिका । पेयालं । विस्तरेण ।
संघातिसेषधर्म 18(7)
तासाञ् चानुविचारिका
171. भगवां च्छ्रावस्त्यां विहरति । भगवान् आह । शिक्षापदं प्रज्ञप्तं । न क्षमति भिक्षुणीहि संसृष्टा विहरितुन् ति । नन्दा च शाक्यकन्या उत्तरा च माशोरकधीता भिक्षुणीयो नाना विहरन्ति । स्थूलनन्दा भिक्षुणी तासाम् आह । संसृष्टा एव यूयम् आर्यमिश्रिकायो विहरथ । अन्यमन्यस्यावद्यप्रतिच्छादिका । तासां संसृष्टानां वो विहरन्तीनां वृद्धिर् एव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि । न परिहानिः । किं यूयम् एव एवंरूपा संघे । सन्त्य् अन्या अप्य् एवंरूपा संघे । न च संघो तासां किञ्चिद् आह । युष्मान् एव संघो अवज्ञाय परिभवेन ओमर्दितव्यां परिमर्दितव्याम् मन्यति । सा भिक्षुणीहि वुच्चति । मा आर्ये नन्दे एतायो भिक्षुणीयो एवं वद संसृष्टा एव आर्यमिश्रिकायो विहरथ । पेयालं । यावत् परिमर्दितव्याम् मन्यति ।
सा सकृद् उक्ता न प्रतिक्रमति । एवं द्वितीयं तृतीयम् अप्य् उक्ता न प्रतिक्रमति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति । महाप्रजापती पि गौतमी भगवतो आरोचेति । भगवान् आह । यद्य् एषा स्थूलनन्दा नाम भिक्षुणी नन्दां शाक्यकन्यां उत्तरां च माशोरकधीताम् एवम् आह । संसृष्टा एव आर्यमिश्रिकायो विहरथ । पेयालं । यावत् सकृद् उक्ता न प्रतिक्रमति । द्वितीयम् पि तृतीयम् पि उक्ता न प्रतिक्रमति । तेन हि गच्छथ नन्त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहयथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय । सा कुवेगे वक्तव्या । सत्यं त्वम् आर्ये नन्दे एता भिक्षुणीयो एवम् वदसि यावद् आमो त्य् आह । सा त्वं कुवेगे वुच्चति । मा आर्ये नन्दे एता भिक्षुणीयो एवं वद । पेयालं । यं खलु ते आर्ये नन्दे मित्राय करणीयं अर्थकामाये हितैषिणीये अनुकम्पिकाय अनुकम्पाम् उपादाय करोति । तं मित्रा एका वाचा गच्छति द्वे वाचा अवशिष्टा प्रतिनिःसरामित्य् आह । एवं द्वितीया तृतीया । एवं महाजने संघमध्ये अवलोकना कर्तव्या । एवं एव यावद् अनुभाष्टा न प्रतिनिःसरति । पेयालं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवत आरोचयेत् । भगवान् आह शब्दापयथ नन्दां । सा दानि शब्दापिता । एतद् एव सर्वं पृच्छीयति । यावद् आम् भगवन् । भगवान् आह । दुष्कृतं ते नन्दे यावत् सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी भिक्षुणीयो नाना विहरन्तीयो एवम् वदेय । संसृष्टा एव आर्यमिश्रिकायो विहरथ अन्यमन्यसावद्यप्रतिच्छादिका । संसृष्टानां वो विहरन्तीनां वृद्धिर् एव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि । न परिहाणिः । किं पुनर् यूयम् एव एवंरूपा संघे । सन्त्य् अन्या प्य् एवंरूपा संघे । न च तासां संघो किञ्चिद् आह । युष्मान् एव संघो अवज्ञाय परिभावेन ओमर्दितव्यां परिमर्दितव्याम् मन्यति । सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया । मा आर्ये नन्दे इत्थन्नामां च इत्थन्नामां च भिक्षुणीं नाना विहरन्तीं अनुविचारेहि । संसृष्टा एव यूयम् आर्यमिश्रिकायो विहरथ । अन्यमन्यस्यावद्यप्रतिच्छादिका । नानासंसृष्टानां वो विहरन्तीनां वृद्धिर् एव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि । न परिहानिः । किम् पुनर् यूयम् एव एवंरूपा संसृष्टा संघे । सन्त्य् अन्या अपि एवंरूपा संघे । न च संघो तासां किञ्चिद् आह । युष्माकम् एव संघो अवज्ञाय परिभवेन ओमर्दितव्यां परिमर्दितव्याम् मन्यति । एवं च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय न प्रतिनिस्सरेय । सा भिक्षुणी भिक्षुणीहि यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं । नो च प्रतिनिस्सरेय । अयं पि धर्मो यावत्तृतीयको ।
या पुन भिक्षुणीति यथा स्थूलनन्दा । ता भिक्षुणीयो ति यथा नन्दा च शाक्यकन्या उत्तरा च मासोरकधीता । एवं वदेय । संसृष्टा एव यूयम् आर्यमिश्रिकायो विहरथ अन्यमन्यस्यावद्यप्रतिच्छादिका ति कायिकेन वाचिकेन कायिकवाचिकेन संसर्गेण । मा नानां संसृष्टानां वो ऽधिविहरन्तीनां वृद्धिर् एव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि न परिहाणिः । पेयालं ।
सा भिक्षुणीति यथा स्थूलनन्दा भिक्षुणी । भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन एवम् अस्य वचनीया । आर्येमिश्रान् नामे । पेयालं । यावन् न प्रतिनिस्सरेय । सा भिक्षुणी भिक्षुणीहि यावत्तृतीयकम् ति त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये । सा कुवेगे वक्तव्या । सत्यं त्वम् आर्ये इत्थन्नामे इत्थन्नामां च इत्थन्नामां च भिक्षुणीम् यावद् आमो त्य् आह । सा कुवेगे वुच्चति । मा आर्ये इत्थन्नामाञ् च इत्थन्नामाञ् च भिक्षुणीं नाना विहरन्तीं अनुविचारेहि । पेयालं । अयम् अपि धर्मो यावत् तृतीयको । पेयालं । सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रमम् आसादयति ।
एवं महाजने संघमध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति । यावत् तृतीयायां वाचायां अध्योरोपितायां संघातिशेषं । पेयालं । यावत् किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं किम् अप्रतिनिःसर्गार्हं । अभूषि खलु इमे इत्थन्नामायो भिक्षुणीयो वदिष्यं । संसृष्टा एवार्यमिश्रिकायो विहरथ । अन्योन्यसावद्यप्रतिच्छादिका वदामि वदिष्यामि । न खलु वदितं एवं प्रतिनिःसर्गार्हं । किन् ति दानि अप्रतिनिःसर्गार्हं । अभूषि खलु मे इत्थन्नामायो भिक्षुणीयो वदिष्यं । संसृष्टा एवार्यमिश्रिकायो विहरथ । अन्योन्यसावद्यप्रतिच्छादिका ति । वदितं खलु मे इदानीम् वदामि न वदिष्यामि चेति एवम् अप्रतिनिःसर्गार्हम् द्रष्टव्यं । तेन भगवान् आह ।
या पुन भिक्षुणी भिक्षुणीयो नाना विहरन्तीयो एवम् वदेय । विस्तरेण । यावद् अयं पि धर्मो यावत् तृतीयको ।
संघातिशेषधर्म19(8)
शिक्षाप्रत्याख्यायिका
172. भगवान् शाक्येषु विहरति । शाक्यानां कपिलवस्तुस्मिं न्यग्रोधारामे । तहिं दानी द्वे माताधीतरे अगारस्यानगारिकां प्रव्रजिते । धीता शाक्येहि प्रव्रजिता माता तीर्थिकेहि । सा दानि माता धीतरम् आह । पुत्रिणि । किं वयं जीवन्तिका एव अन्यमन्यं न पश्यामः । इहैव चागच्छ । सा दान् आह । आगच्छामी । न मया यथा वा तथा वा शक्यम् आगन्तुं । यावत् किञ्चिद् अधिकरणम् उत्पादयामि । सा भिक्षुणी भिक्षुणीहि सह वाचो वाचिकं करोति । सा यदा पर्यादिन्ना भवति तदा आह । बुद्धं प्रत्याख्यामि । एवं धर्मं संघं शिक्षाम् उद्देशं सम्वासं सम्भोगं शास्तृपदं भिक्षुणीभावं प्रत्याख्यामि । शाक्यपुत्रीय भावं प्रत्याख्यामि । किं एता एव श्रमणिका शाक्यपुत्रीया । सन्त्य् अन्यान्य् अपि पृथुतीर्थ्यायतनानि । तत्र ब्रह्मचर्यं चरिष्यं । सा दानि भिक्षुणीहि वुच्चति । मा आर्ये बुद्धं प्रत्याख्याहि यावत् मा शाक्यपुत्रीय भावं प्रत्याख्याहि । असाधु आर्ये बुद्धप्रत्याख्यानं यावद् असाधु शाक्यपुत्रीय भावप्रत्याख्यानं ।
सा सकृद् उक्ता न प्रतिक्रमति । द्वितीयं तृतीयम् पि उक्ता न प्रतिक्रमति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचयेति । भगवान् आह । तेन हि भिक्षुण्यो । यद्य् एषा इत्थन्नामा भिक्षुणी शिख्याप्रत्याख्यायिका । सा एवम् आह । बुद्धं प्रत्याख्यामि । पेयालं । यावत् तत्र ब्रह्मचर्यञ् चरिष्यं । सा सकृद् उक्ता न प्रतिक्रमति । द्वितीयं तृतीयम् अप्य् उक्ता न प्रतिक्रमति । तेन हि गच्छथ । तां त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय । सा दानि कुवेगे वक्तव्या । सत्यं त्वम् आर्ये इत्थन्नामे शिक्षां प्रत्याख्यासि । सा त्वम् एवम् वदसि बुद्धं प्रत्याख्यामि । पेयालं । यावत् किं पुनर् एता एव श्रमणिका शाक्यपुत्रीयाः । सन्त्य् अन्यान्य् अपि पृथुतीर्थ्यायतनानि । तत्र ब्रह्मचर्यं चरिष्यन् ति । आमो त्य् आह । सा त्वं कुवेगे वुच्चसि मा त्वम् आर्ये इत्थन्नामे बुद्धं प्रत्याख्याहि यावच् छाक्यपुत्रीय भावं प्रत्याख्याहि । असाधु आर्ये बुद्धप्रत्याख्यानं । यावद् असाधु शाक्यपुत्रीय भावप्रत्याख्यानं ।
यं खलु ते आर्ये इत्थन्नामाय मित्राय करणीयं अर्थकामाय हितैषीणीये करोति । तेन मित्रा एकवाचा गच्छति । द्वे वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिस्सरामीत्य् आह । एवम् द्वितीयम् पि तृतीयम् पि । एवं महाजने संघमध्ये अवलोकना कर्तव्या यावद् एतं प्रकरणं भिक्षुणीयो भगवतो आरोचयेंसुः । भगवान् आह । शब्दापयथ तां भिक्षुणीं । सा दानि शब्दापिता । सत्यन् ति । तद् एवं पृच्छीयति । यावद् आम् भगवन् । भगवान् आह दुष्कृतं ते । पेयालं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि यावत् पर्यवदातानि भविष्यन्ति ।
भिक्षुणी खलु पुनः शिख्याप्रत्याख्यायिका भवति । सा दान् आह । बुद्धं प्रत्याख्यामि । धर्मं संघं शिक्षाम् उद्देशं सम्वासं संभोगं शास्तृपदं भिक्षुणीभावं श्रमणीभावं शाक्यपुत्रीय भावं प्रत्याख्यामि । किं एता एव श्रमणिका शाक्यपुत्रीया । सन्त्य् अन्यान्य् अपि पृथुतीर्थ्यायतानानि । तत्र ब्रह्मचर्यं चरिष्यं । सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया । मा आर्ये शिख्याप्रत्याख्यायिका भोहि । मा बुद्धं प्रत्याख्याहि । मा धर्मं संघं शिक्षाम् उद्देशं सम्वासं संभोगं शास्तृपदं भिक्षुणीभावं श्रमणिभावं शाक्यपुत्रीय भावं प्रत्याख्याहि । असाधु आर्ये बुद्धप्रत्याख्यानं । असाधु धर्मप्रत्याख्यानं । असाधु संघप्रत्याख्यानं । शिक्षाउद्देशसम्वाससंभोगशास्तृपदभिक्षुणीभावश्रमणीभावप्रत्याख्यानं । असाधु आर्ये शाक्यपुत्रीय भावप्रत्याख्यानं । एवञ् च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय न प्रतिनिःसरेय । सा भिक्षुणी भिक्षुणीहि यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत् तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं । नो च प्रतिनिःसरेय । अयम् अपि धर्मो यावत्तृतीयको संघातिशेषो । संघम् एवाधिपतिं कृत्वा निःसरणीयो ।
या पुन भिक्षुणीति यथा सा भिक्षुणी । शिक्षाप्रत्याख्यायिका ति सा एवम् आह बुद्धं प्रत्याख्यामि । पेयालं । यावच् छाक्यपुत्रीय भावं प्रत्याख्यामि । किम् एता एव श्रमणिका शाक्यपुत्रीयाः । सन्त्य् अन्यान्य् अपि पृथुतीर्थ्यायतनानि । तत्र ब्रह्मचर्यं चरिष्यं । सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया । मा आर्ये बुद्धं प्रय्ताख्याहि यावद् असाधु आर्ये शाक्यपुत्रीय भावप्रत्याख्यानं । एवं च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय न प्रतिनिःसरेय । या सा भिक्षुणी शिक्षाप्रत्याख्यायिका ।
सा भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खतो संघमध्ये । सा दानि कुवेगे वक्तव्या । सत्यं त्वम् इत्थन्नामे एवं वदसि बुद्धं प्रत्याख्यामि यावच् छाक्यपुत्रीय भावं प्रत्याख्यामि । आम इत्य् आह । सा कुवेगे वुच्चति । मा आर्ये इत्थन्नामे बुद्धं प्रत्याख्याहि । यावद् असाधु आर्ये शाक्यपुत्रीय भावप्रत्याख्यानं । यं खलु ते आर्ये इत्थन्नामाय मित्राय करणीयं । अर्थकामाय हितैषिणीये करोति । ते तं मित्रा एकवाचा गच्छति । द्वे वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिःसरामीत्य् आह । एवं महाजने संघमध्ये अवलोकना कर्तव्या । विस्तरेण । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं । नो च प्रतिनिःसरेय अयम् अपि धर्मो यावत् प्रज्ञप्तिः ।
सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रमम् आसादयति । एवं महाजने संघमध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति । प्रथमायां वाचायां अध्योरोपितायां विनयातिक्रमम् । अध्योरोपितायां थूलच्चयम् । एवं द्वितीयायां तृतीयायां वाचायाम् अध्योरोपितायां थूल्ऽ-अच्चयम् । अध्योरोपितायां संघातिशेषं । यदा संघातिषेशम् आपत्तिम् आपन्ना भवति तदा ये च कुवेगे ये च महाजने ये च संघमध्ये थूल्ऽ-अच्चया च विनयातिक्रमा च सर्वे ते प्रतिप्रस्रभ्यन्ते । एका गुरुका आपत्तिः संस्थिहति यद् इदं संघातिशेषो । अन्तरा प्रतिनिःसरति यथास्थितासु आपत्तिषु कारापयितव्या । किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं किम् अप्रतिनिःसर्गार्हं । अभूषि खलु मे शिक्षां प्रत्याख्यास्यामि । न खलु मे प्रत्याख्यानं प्र्तिनिःसर्गार्हं द्रष्टव्यं । किन् ति दानि अप्रतिनिःसर्गार्हं द्रष्टव्यं । अभूषि खलु मे शिक्षां प्रत्याख्यास्यन् ति । प्रत्याख्यातम् दानि न प्रत्याख्यासि प्रत्याख्यामि चेति । एवम् अप्रतिनिःसर्गार्हं द्रष्टव्यं । तेन भगवान् आह ।
भिक्षुणी खलु पुनः शिक्षाप्रत्याख्यायिका भवति । सा एवम् आह । बुद्धं प्रत्याख्यामि धर्मं प्रत्याख्यामि । संघं प्रत्याख्यामि । शिक्षां प्रत्याख्यामि । उद्देशं सम्वासं संभोगं शास्तृपदं भिक्षुणीभावं श्रमणीभावं शाक्यपुत्रीय भावं प्रत्याख्यामि । किम् एता एव श्रमणिका शाक्यपुत्रीयाः । सन्त्य् अन्यान्य् अपि पृथुतीर्थ्यायतनानि । तत्र ब्रह्मचर्यं चरिष्यं । सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया । मा आर्ये शिक्षाप्रत्याख्यायिका भोहि । मा धर्मप्रत्याख्यायिका भोहि । मा संघप्रत्याख्यायिका भोहि । मा शिक्षां प्रत्याख्याहि । मा उद्देशं सम्वासं सम्भोगं शास्तृपदं भिक्षुणीभावं श्रमणीभावं शाक्यपुत्रीय भावं प्रत्याख्याहि । तत् कस्य हेतोः । असाधु आर्ये बुद्धप्रत्याख्यानं । असाधु धर्मप्रत्याख्यानं । असाधु संघप्रत्याख्यानं । असाधु शिक्षाप्रत्याख्यानं । उद्देशसंवाससंभोगशास्तृपदभिक्षुणीभावश्रमणीभाव प्रत्याख्यानं । असाधु शाक्यपुत्रीय भावप्रत्याख्यानं । एवं च सा भिक्षुणी भिक्षुणीहि वुच्चमाना तं एव वस्तुं समादाय प्रगृह्य तिष्ठेय । न प्रतिनिःसरेय । सा भिक्षुणी भिक्षुणीहि यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाना वा तम् वस्तुं प्रतिनिःसरेय । इत्य् एतं कुशलं । नो च प्रतिनिःसरेय । अयं पि धर्मो यावत्तृतीयको संघातिशेषो । संघम् एवाधिपतिं कृत्वा निःसरणीयो ।
उद्दिष्टा मे आर्यमिश्रिकायो एकूनविंशति संघातिशेषा धर्माः । तत्र एकदश प्रथमापत्तिकाः अष्टौ यावत्तृतीयकाः । येषां भिक्षुणी इत्य् अन्यतरान्यतराम् आपत्तिम् आपद्यित्वा अर्धमासं उभयतो संघे मानत्वं चरितव्यं । चीर्णमानत्वा भिक्षुणी कृतानुधर्मा । आह्वयनप्रतिबद्धा यत्र स्याद् विंशतिगणो उभयतो संघो तत्र सा भिक्षुणी आह्वयितव्या । एकेनापि चेद् ऊनोविंशतिगणो उभयतो संघो तां भिक्षुणीम् आह्वेय । सा च भिक्षुणी अनाहूता । ते च भिक्षवो ताश् च भिक्षुणीयो गर्ह्याः । इयम् अत्र सामीची । तत्रार्यमिश्रिकायो पृच्छामि । कच्चित् थ परिशुद्धा । द्वितीयतृतीयं पि आर्यमिश्रिकायो पृच्छामि । कच्चिच् थ परिशुद्धा । परिशुद्धा अत्रार्यमिश्रिकायो यस्मात् तूष्णीम् एवम् एतन् धारयामि । उद्दानं ।
संचरित्रं [1] द्वे अभूते [2,3] । उतसदवादो [4] द्वे विना [5,6] । अननुज्ञाता च [7] । वध्या [8] । च एका नदीन् तरेय [9] । उत्क्षिप्तका सह धर्मेण [10] । भिक्षुणी च अनवश्रुता [11] ॥
वदेति त्वं प्रतिगृह्णे [12] । द्वे य भेदेन [13,14] आक्रोशो [15] । दुर्वचकजातीयो [16] । द्वे संसृष्टा विहरन्ति [17] । तासाञ् चानुविचारिका [18] । शिक्षाप्रत्याख्यायिका चैव [19] । ॥
अष्टौ यावत्तृतीयकाः संघातिशेषाः समाप्ताः ॥
णिःसर्गिकपाच्त्तिकधर्माः 110
173. त्रिंशानाम् आदिः । दशाहं [1] । विप्रवासो [2] । अकाले च [3] । जातरूप [4] । क्रयविक्रयो [5] । याचते [6] । सान्तरोत्तरं [7] । द्वे विकल्पेन [8, 9] राजा च [10] ॥
एतानि साधारणानि ।
निःसर्गिकपाचत्तिकधर्म 11
शय्यासनस्यार्थाय
174. भगवां च्छ्रावस्त्यां विहरति । स्थूलनन्दा भिक्षुणी अपरंहि भिक्षुणीविहारे शय्यासनप्रतिग्राहका । सा दानि शय्यासनं याचेति । आह । प्रजापती देहि मञ्चं । देहि संघस्य पीठं । बिसि चतुरश्रकं । कुच्चं बिम्बोहनं । ता दानि स्त्रियो काचिन् माञ्चस्य मूल्यन् देन्ति । काचित् पीठस्य यावत् काचिद् बिम्बोहनस्य । सा खादति च पिबति च । पात्रं च जानापेति । चीवरं च जानापेति । भिक्षुणीयो पिण्डपातम् अण्वन्तीयो कुलोपगगृहेहि प्रविशन्ति । ता दानि स्त्रियो पृच्छन्ति । आर्याये नन्दाये मया मञ्चस्य मूल्यं दत्तं । किञ्चित् ताय जानापितं । ता दान् आहंसुः । किं सा भद्रायिणी जानापयिष्यति । खादति च पिबति च पात्रं च जानापेति । चीवरं जानापेति । स्वके मल्लके वर्षति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचेति । भगवान् आह । शब्दापयथ नन्दां । सा दानि शब्दापिता । भगवान् आह । सत्यं त्वं नन्दे शय्यासनस्यार्थाय याचित्वा अन्यं चेतापेति । आह । आम् भगवन् । भगवान् आह । दुष्कृतं ते नन्दे । पेयालम् । तेन हि न क्षमति । शय्यासनस्यार्थाय याचयित्वा अन्यञ् चेतापयित्वा । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि ।
या पुन भिक्षुणी शय्यासनस्यार्थाय याचयित्वा आत्मनो पात्रम् वा चीवरम् वा भक्तम् वा भोज्यम् वा ग्लानभैषज्यम् वा चेतापयेन् निस्सर्गिकपाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । शय्यासनस्यार्थायेति । शय्यासनं नाम मञ्चं पीठं बिसि चतुरस्रं कुच्चं बिम्बोहनं । याचित्वा ति विज्ञापेत्वा समादापेत्वा । अन्यं चेतापये ति जानापयेत् । पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा चेतापयेन् निस्सर्गिकपाचत्तिकं ।
निस्सर्गिकपाचत्तिकं ति संघे निस्सरिय पाचतिकं देशयितव्यं । अनिःसरिय देशेति विनयातिक्रमम् आसादयति ।
अथ दानि शयनासनं प्रहीणमातृकं भवति । वस्तु प्रदर्शयितव्यं । इमं मया अमुकातो मञ्चमूल्यं लब्धं । इमन् तस्य मञ्चं संजानथ । यावद् बिम्बोयधानस्य । तम् वस्तुं न दर्शेति विनयातिक्रमम् आसादयति । खण्डं प्रलुग्नं वा वा लेपनिकाम् वा कर्तुं कुम्भियो उपस्थापयितुं भिक्षुर् अपि शयनासनस्यार्थाय याचयित्वा अन्यं चेतापेति विनयातिक्रमम् आसादयति । वस्तुन् दर्शेत्वा लभ्यं खण्डं प्रलुग्नादि कर्तुं । तेन भगवान् आह ।
या पुन भिक्षुणी शय्यासनस्यार्थाय याचित्वा आत्मनो पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लानभैषज्यं वा चेतापये निःसर्गिकपाचत्तिकं ॥
निःसर्गिकपाचत्तिकधर्म 12 अन्योद्देशिक
174अ. भगवान् श्रावस्त्याम् विहरति । स्थूलनन्दा नाम भिक्षुणी ओमलिनमलिनेहि चीवरेहि पाटितविपाटितेहि खण्डेन पात्रेण छिद्रविछिद्रेण पिण्डपातम् अण्वति । स्त्रियो आहंसुः । नास्त्य् आर्याये पात्रं । आह । नास्ति । आह । अहन् ते आर्ये पात्रस्य मूल्यं देमि । पात्रम् आर्ये जानापेतु । अपरा आह । नास्त्य् आर्याये चीवरं । आह नास्ति । आह । अहम् आर्याये चीवरस्य मूल्यं देमि । चीवरम् आर्या जानापयितु । सा खादति च पिबति च नैव पात्रं न चीवरं जानापेति । भिक्षुणीयो पिण्डपातम् अण्वन्तीयो कुलोपगगृहाणी प्रविशन्ति । ता दानि स्त्रियो आहंसुः । मया आर्याये नन्दाये पात्रस्य मूल्यन् दत्तं । किञ्चित् ताय पात्रं जानापितं । ता दानि भिक्षुणीयो आहंसुः । किं सा भद्रायणी जानापयिष्यति । सा खादति च पिबति च । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति । महाप्रजापती पि गौतमी भगवतो आरोचेति । भगवान् आह । शब्दापयथ नन्दां । सा दानि शब्दापिता । सत्यं नन्दे एवन् नाम त्वं नन्दे अन्योद्देशिकेनान्यं चेतापयसि । आह । आम भगवन् । भगवान् आह । दुष्कृतं ते नन्दे यावद् एवं नाम त्वम् अन्योद्देशिकेन अन्यं चेतापयसि । तेन हि न क्षमति अन्योद्देशिकेनान्यं चेतापयितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति ।
या पुन भिक्षुणी अन्योद्देशिकेन अन्यं चेतापयेत् निःसर्गिकपाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । अन्योद्देशिकेनेति पात्रमूल्येन वा चीवरमूल्येन वा । अन्यं चेतापयेद् इति भक्ष्यम् वा भोज्यम् वा निःसर्गिकपाचत्तिकं । यावत् प्रज्ञप्तिः । एषो दानि भिक्षुणीयो काचित् पात्रम् वा चीवरम् वा घृतम् वा तैलम् वा चेतापयितुं मूल्यन् देति ।यस्यार्थाय देति तम् एव चेतापयितव्यं । पात्रमूल्येन पात्रं यावद् घृतमूल्येन घृतं । अन्यं चेतापयति । निःसर्गिकपाचतिकं । अथ अनियतं देति यं इच्छति तं जानापेति अनापत्तिः । अथ दान् आह । यम् इच्छसि तं गृह्णाहीति । यम् इच्छति तं जानापेति अनापत्तिः । भिक्षवोर् अप्य् एवम् एव आपत्तिस् तु विनयातिकरमः । अविवक्षिते अनापत्तिः । यम् वा इच्छसि तं गृह्णाहीति तं गृह्णाति अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी अन्योद्देशकेनान्यं चेतापयति निःसर्गिकपाचत्तिकं ।
निःसर्गिकपाचत्तिकधर्म 13 अन्येषां
175. भगवान् श्रावस्त्याम् विहरति । स्थूलनन्दा नाम भिक्षुणी संघस्य भक्तकानि समादायेति । सा छन्दकम् अण्वन्ती आह । प्रजापति देथ छन्दकं । आर्यमिश्रिकाणां भक्तं करिष्यामीति । ता दानि स्त्रियो छन्दकं प्रजन्तीन्तीयो जल्पन्ति । आर्ये यस्मिन् दिवसे परिवेषणं भवति । वयं पि परिवेषिका गमिष्यामो ति । अथ सा खादति च पिबति च पात्रं च जानापेति । ताय खादितावशेषेण यादृशं वा भक्तं कृतं । ता दानि स्त्रियो परिवेषिका आगतः । आहंसुः । आर्ये अस्माभिर् बहुको छन्दको दिन्नो । इमन् दानि भक्तं लूहविलूहं । भिक्षुणीयो आहंसुः । किम् एषा भद्रायणी तं करिष्यति । खादति चैषा पिबति च । पात्रं चीवरं चैषा जानापेति । स्वके चैषा मल्लके वर्षति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवतो आरोचयति । भगवान् आह । शब्दापयथ नन्दां । सा दानि शब्दापिता । सत्यं नन्दे एवन्नाम त्वम् अन्येषाम् अर्थाय याचित्वा अन्यं चेतापयसि । आम् भगवन् । भगवान् आह । दुष्कृतं ते नन्दे । अथ खलु भगवान् महाप्रजपतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी अन्येषाम् अर्थाय याचयित्वा आत्मनो पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लानप्रत्ययभैषज्यपरिष्कारान् वा चेतापयति । निःसर्गिकपाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । अन्येषाम् अर्थाय याचयित्वा संघस्य भक्तस्य वा तर्पणस्य वा य्वागूपानस्य वा याचित्वा आत्मनो पात्रम् वा चीवरम् वा भक्तम् वा भोज्यम् वा ग्लानप्रत्ययभैषज्यपरिष्कारान् वा चेतापयेन् निस्सर्गिकपाचत्तिकं । अथ खलु यस्यार्थाय याचति तम् एव जानापयितव्यं । अथ दानि वस्त्रं विप्रणामेति भक्तस्य वा तर्पणस्य वा य्वागूपानस्य वा अर्थाय याचयित्वा वैभङ्गिकं ददाति । शय्यासनम् वा उपस्थापेति वार्षिकम् वा हेमन्तिकम् वा देति । विनयातिक्रमम् आसादयति । सा एषा भिक्षुणी संघस्य भक्तं दापेति । त्यक्तमुक्तम् अनवगृहीतं दातव्यं । यदि तहिं किञ्चिच् छेषं भवति ओदनम् वा सूपम् वा यावद् भक्ष्यम् वा भोज्यम् वा उपदर्शयितव्यं । यद्य् आदाय गच्छति अध्युपेक्षितव्यं । अथ दान् आह । आर्याय देमीति । वक्तव्यं । न हि । संघस्य देहि । अथाह दिन्नं मया संघस्य । आर्याय देमीती । प्रतीच्छति । अनापत्तिः । भिक्षोर् अपि एवम् एव आपत्तिस् तु विन्यातिक्रमः । तेन भगवान् आह ।
या पुन भिक्षुणी अन्येषाम् अर्थाय याचयित्वा आत्मनो पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लानप्रत्ययभैषज्य परिष्कारान् वा चेतापयेन् निःसर्गिकपाचत्तिकं ।
निःसर्गिकपाचत्तिकधर्म 14
पात्राणां सन्निचयः
176. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो आगन्तुका आगताः । तायो भिक्षुणीयो यथावृद्धिकाय उत्थापयन्ति । ता दान् आहंसुः याव पात्राणि संक्रामयेमः । तायो दानि अनस्तमिते सूर्ये प्रवृत्ताः संक्रामयितुं । चन्द्रश् चोद्गतः न चाशेषतः संक्रामितानि । आगन्तुका आहंसुः । आर्ये रिक्तो विहारको । आहंसुः यावत् पात्राणि संक्रामयेमः । ता दान् आहंसुः । कियन्त्य् आर्यमिश्रिकाणां पात्राणि । किम् आर्यमिश्रिका पात्रापणं प्रसारयिष्यन्ति । का वा जातिः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति । महाप्रजापती पि गौतमी भगवतो आरोचेति । भगवान् आह । शब्दापयथ तायो भिक्षुणीयो । ता दानि शब्दापिताः । सत्यं भिक्षुणीयो ति । भगवांस् तद् एव सर्वं पृच्छीयति । यावद् आम् भगवन् । भगवान् आह । एवञ् च नाम यूयं पात्रसन्निचयं करोथ । तेन हि न क्षमति पात्रसन्निचयं कर्तुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी पात्रसन्निचयं कुर्यान् निःसर्गिकपाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । पात्रसन्निचयन् ति पात्रन् नाम सुम्भकं उपसम्भकं । उक्तटेयकं वङ्केटकं तिङ्खिनिपात्रं । ज्येष्ठकं मध्यमकं कन्यसकं । अपात्रं अतिपात्रं परिष्कारपात्रं । सन्निचयं कुर्याद् इति संग्रहं कुर्यान् निस्सर्गिकं यावत् प्रज्ञप्तिः ।
भिक्षुणीय षोदष पात्राणि उपस्थापयितव्यानि । एकं पात्रम् अधिष्ठिहितव्यं । त्रीणि पात्राणि मित्राणाम् विकल्पयितव्यानि । चत्वारि अपात्राणि । चत्वारि अतिपात्राणी । चत्वारि परिष्कारपात्राणि । तद् उत्तरिं उपस्थापयन्ति निःसर्गिकपाचत्तिकं । एतं दानि भिक्षुणीये परिमाणं बद्धं पात्रधारणं । किञ्चापि भिक्षुः बहुकान्य् अपि पात्राणि विकल्पेत्वा परिभुञ्जाति अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी पात्रसन्निचयं कुर्यान् निःसर्गिकपाचत्तिकं
निःसर्गिकपाचत्तिकधर्म 15
चीवरसन्निचयः 176अ. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो आगन्तुकाः आगता । ता भिक्षुणीयो यथावृद्धिकाय उपस्थापयन्ति । ता दान् आहंसुः यावच् चीवराणि संक्रामेमः । तायो दानि अनस्तमिते सूर्ये प्रवृत्ताः संक्रामयितुं । चन्द्रोद्गतः न चाशेषतो संक्रामितानि । आगन्तुकायो आहंसुः । आर्ये रिक्तो विहारको । आहंसुः । यावच् चीवरानी संक्रामेमः । ता दान् आहंसुः । कियन्त्य् आर्यमिश्रिकाणां चीवराणि । किम् आर्यमिश्रिकाः प्रावरिकापणं प्रसारयिष्यथ । का वा जातिः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचेति । यावद् भगवान् आह ।
या पुन भिक्षुणी
या तावद् एकं पञ्चचीवरम् अधिष्ठिहितव्यं । त्रीणि पञ्च चीवराणि मित्राणां विकल्पयितव्यानि । एवम् एतानि विंशति चीवराणि । अतो उत्तरि उपस्थापयेन् निस्सर्गिकपाचत्तिकं । एतं दानि भिक्षुणीये परिमाणं बद्धञ् चीवरधारणं । किञ्चापि भिक्षु बहुकानि चीवराणि मित्राणां विकल्पयित्वा परिभुञ्जाति अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणीचीवरसन्निचयं कुर्यात् निस्सर्गिकपाचत्तिकं ॥
निःसर्गिकपाचत्तिकधर्म 16
निःशृजाति
177. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी चीवराणि नैव धोवति न सीवेति न रञ्जेति । ताये दानि ओमलिनमलिना संघाटी पाटितविपाटिता । उपाश्रये निक्षिप्ता या इच्छति सा उपादीयतू ति । अथापरा भिक्षुणी जेता नाम लूहचीवरधरा । सा भिक्षुणीहि वुच्चति । आर्ये एतां संघाटिं धोविय सीविय फोषिय प्रावृता । सा दानि स्थूलनन्दा आह । आनेहि आर्ये एतां संघाटिं मह्यं एषा संघाटी । पश्यथ आर्यमिश्रिकायो न किञ्चिच् छक्यते उपाश्रये निक्षिपितुं । लब्धोत्क्षिप्तिकाहि पूरो संघारामो ताव । धृष्टा च मुखरा च प्रगल्भा च सा दानि ताय संघाटी आच्छिन्ना । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचेति । यावद् भगवान् आह ।
या पुन भिक्षुणी भिक्षुण्युपाश्रये पुराणसंघाटिं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति । उक्त्वा पश्चात् स्वयम् एव उपादियेय निस्सर्गिकपाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । पेयालं । भिक्षुण्य् उपाश्रये ति भिक्षुणीविहारे । संघाटीति चीवरं । निक्षिपेत्वा ति स्वयं । निक्षिपायेत्वा ति परेण । या इच्छति सा उपादीयतू ति पश्चात् स्वयम् एव उपादीयेत निःसर्गिकपाचत्तिकं । सा एषा भिक्षुणी भिक्षुणीउपाश्रये चीवरं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति यदि काचि उपादिन्नम् भवति न क्षमति आच्छिन्दितुं । आच्छिन्दति निःसर्गिकं भवति । अथ दानि न कायचि उपादिन्नम् भवति तस्या एव च ताय अर्थो भवति किञ्चापि गृह्णाति अनापत्तिः । अथ दानि क्षुद्रानुक्षुद्रकं परिष्कारं निक्षिप्तम् भवति यदि कायचि उपादिन्नम् भवति न क्षमति आच्छिन्दितुं । आच्छिन्दति विनयातिक्रमम् आसदयति । भिक्षुर् अपि भिक्षुविहारे पात्रम् वा चीवरम् वा उपानहम् वा क्षुद्रानुक्षुद्रकम् वा परिष्कारं निक्षिपित्वा यो इच्छति सो उपादीयतू ति । यदि केनचिद् उपादिन्नम् भवति न क्षमति आच्छिन्चितुं । आच्छिन्दति विनयातिक्रमम् आसादयति । अथ न केनचिद् गृहीतम् भवति सो एव तेनार्थिको भवति किञ्चापि गृह्णाति अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी भिक्षुण्य् उपाश्रये पुराणसंघाटिं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति उक्त्वा पश्चात् स्वयम् एव उपादीयेय निःसर्गिकपाचत्तिकं ।
निःसर्गिकपाचत्तिकधर्म 17 निःसीवेति
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
