Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
भिक्षुणीविनय
- Thông tin
- GRETIL — Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
102. अथ दानि सो भिक्षुणीयोवादको गोचरप्रसृतो रथ्यायं भिक्षुणीन् पश्यति केशावर्तेन वा कृतेन । अक्षीहि वा अञ्चितेहि । आकोटितमष्टेहि वा चीवरेहि । श्वेतेन वा कायबन्धनेन । चित्रकूटाहि वा उपानहाहि न दानि क्षमति नहि कीञ्चिज् जल्पितुं । मा जनो ओज्झापेय पश्यथ भणे श्रमणको भार्याम् इव श्रवणिकाम् ओवदति । अथ खु पृच्छितव्या । कतमहिं एषा विहारके प्रतिवसति । का से उपाध्यायी । का से आचार्या पश्चाद् उक्तं तहिं गत्वा ओवदितय्वा । सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्टभिक्षू ति वा कृत्वा । वैद्यभिक्षू ति वा कृत्वा चूडभिक्षू ति वा कृत्वा । अखल्लमहल्लअकुशलअप्रकृतिज्ञो ति वा कृत्वा अन्वार्धमासं भिक्षुसंघातो ओवादोपसंक्रमणं न प्रत्याशंसति गुरुधर्मम् अतिक्रमति । एवं गौतमि अन्वर्धमासं भिक्षुणीहि भिक्षुसंघातो ओवादोपसंक्रमणं प्रत्याशंसितव्यं । न प्रत्याशंसति गुरुधर्मम् अतिक्रामति ।
अयं गौतमि भिक्षुणीनां षष्टो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद् अनतिक्रमणीयो वेलामिव महासमुद्रेण ।
गुरुधर्म 7 103. किन् ति दानि न क्षमति भिक्षुणीहि अभिक्षुके अवासे वर्षाम् उपगन्तुं ।
न क्षमति भिक्षुणीहि अभिक्षुकेहि ग्रामनगरेहि वर्षाम् उपगन्तुं ।
अथ दानि भिक्षुणी ज्ञातिकेहि ग्रामवासकेहि निमन्त्रीयति । इहार्या वर्षावसान ति न च तहिं केचि भिक्षू भवन्ति भिक्षुणी च ज्ञातिकामनुकंपितुकामा भवन्ति वक्तव्यं । ज्येष्ठपर्षां ताव निमन्त्रेथ । अथ दान् आहंसुः । नास्ति अस्माकं तहिं श्रद्धा । नास्ति प्रसादो । वक्तव्यम् । अहं पि न इच्छामि । अथ दानि भिक्षुणी सविभवा भवति । ज्ञातिकाञ् च अनुकम्पितुकामा भवति । आत्मना भिक्षू निमन्त्रयितव्या । तेषाम् आगतानां समानानां आहारेण अवैकल्यं कर्तव्यं । तेहि तहिं वर्षाम् उपगन्तव्यं । ताय भिक्षुणीय तहिं वर्षाम् ताय भिक्षुणीय तेषाम् भिक्षूणां मूले अन्वर्धमासं ओवादोपसंक्रमणं प्रत्याशंसितव्यं ।
104. अथ तेषाम् भिक्षूणां वर्षाम् उपगतानां अन्तरवर्षा-र्-अस्तु । कोचि आदीनवो उत्पद्यति उत्थाय पलायन्ति । न दानि क्षमति भिक्षुणीय कहिञ्चि गन्तुं यावत् प्रवारणाकालं । यदि तावत् क्षेमम् भवति ततो ते शब्दापयितव्याः । न दानि आगन्तिकायो । अथ खलु उक्तेन निमन्त्रयितव्याः ।
आगतानां समानानां भक्तेन प्रतिमानीय आच्छादीय यथा सम्विभागन् दातव्यं । प्रवारिते किञ्चापि यंहि छन्दो तहिं गच्छति अनापत्तिः ।
105. सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्ट भिक्षू ति वा कृत्वा । वैद्यभिक्षू ति वा कृत्वा कृत्वा चूडभिक्षू ति वा कृत्वा खल्लमहल्लअकुशलअप्रकृतिज्ञो ति वा कृत्वा अभिक्षुके आवासे वर्षाम् उपगच्छति गुरुधर्मम् अतिक्रमति । एवं गौतमि न क्षमति भिक्षुनीय अभिक्षुके आवासे वर्षाम् उपगन्तुं । अयं गौतमि भिक्षुणीनां सप्तमो गुरुधर्मो यो भिक्षुणीहि यावज् जीवं सत्कर्तव्यो यावद् अनतिक्रमणीयो वेलामिव महासमुद्रेण ।
गुरुधर्म 8 106. किन् ति दानि वर्षोषिताहि भिक्षुणीहि उभयतो संघे प्रवारणा प्रत्याशंसितव्या । यदहो दानि संघस्य प्रवारणा भवति तदहो भिक्षुणीहि प्रवारयितव्यं । अपरेज्जुकातो प्रतिपदे कल्यतो ये च निर्धाविय भिक्षुविहारं गन्तव्यं । यदि ताव समग्रो भिक्षुसंघो भवति न क्षमति सर्वाहि भिक्षुणीहि अपूर्वाचरिमं प्रावरयितुं । अथ खु एका प्रवारायिका संमन्यितव्या । भिक्षुणी प्रतिबला प्रवारायिका ।
107. ततो कर्मकारिकाय कर्म कर्तव्यं । शृणोतु मे आर्यसंघो । इयम् इत्थन्नामा भिक्षुणी प्रतिबला प्रवारायिका । यदि संघस्य प्राप्तकालं संघो इत्थन्नामां भिक्षुणीम् संघस्य प्रवारायिकां संमन्येय । ओवयिका एषा ज्ञप्तिः ।
शृणोतु मे आर्यसंघो । इयम् इत्थन्नामा भिक्षुणी प्रतिबला प्रवारायिका । तां संघो इत्थन्नामां भिक्षुणीं संघस्य प्रवारायिकां संमन्यति । यासाम् आर्यमिश्रिकाणां क्षमति इत्थन्नामां भिक्षुणीं संघस्य प्रवारायिकां संमन्यियमानां संघेन । सा तूष्णीम् अस्य । यस्या न क्षमति सा भाषतु । इयं प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचनेति । वक्तव्यं । सम्मता आर्यमिश्रिकायो इत्थन्नामा संघस्य प्रवारायिका संघेन क्षमते तं संघस्य यस्मात् तूष्णीम् एवं धारयामि ।
108. ततो सर्वाहि वृद्धान्ते स्थातव्यं । ततो ताय प्रवारायिकाय वक्तव्यं । समग्रो भिक्षुणीसंघो समग्रं भिक्षुसंघं प्रवारेति दृष्टेन श्रुतेन परिशङ्कया । ओवदन्तु मो आर्यो संघो अर्थकामो हितैषी अनुकम्पको अनुकम्पाम् उपादाय जानन्त्यो पश्यन्त्यो स्मरन्त्यो यथा धर्मविनयं प्रतिकरिष्यामः । एवं द्वितीयम् पि तृतीयम् पि ।
अथ दानि समग्रो भिक्षुणीसंघो भवति संबहुला भिक्षू भवन्ति । वक्तव्यं । समग्रो भिक्षुणीसंघो संबहुलान् भिक्षून् प्रवारेति दृष्टेन श्रुतेन यावत् प्रतिकरिष्यामः । द्वितीयम् पि तृतीयम् पि ।
109. अथ दानि समग्रो भिक्षुणीसंघो भवति एक भिक्षु च भवति । वक्तव्यं । समग्रो भिक्षुणीसंघो आर्यं प्रवारेतीति दृष्टेन श्रुतेन परिशङ्कया यावत् प्रतिकरिष्यामः एवं द्वितीयम् पि तृतीयम् पि ।
अथ दानि संबहुलायो भिक्षुणीयो भवन्ति । समग्रो च भिक्षुसंघो भवति । वक्त्यव्यं संबहुलाः आर्यमिश्रिकाः समग्रं भिक्षुसंघं प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावत् प्रतिकरिष्यामः । एवं द्वितीयम् पि तृतीयम् पि ।
अथ दानि संबहुला च भिक्षुणीयो भवन्ति संबहुला च भिक्षु भवन्ति । वक्तव्यं । संबहुला आर्यमिश्रिकाः संबहुलान् आर्यमिश्रान् प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावद् । यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामः । एवं द्वितीयम् पि तृतीयम् पि ।
अथ दानि संबहुला भिक्षुणीयो भवन्ति । एक भिक्षु च भवति । वक्तव्यं । संबहुला आर्यमिश्रिकाः आर्यं प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावद् यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामाः । एवं द्वितीयम् पि तृतीयम् पि ।
अथ दानि एका भिक्षुणी भवति । समग्रो च संघो भवति । वक्तव्यं । अहम् इत्थन्नामा संघं प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया । ओवदतु मो आर्यो संघो यावत् प्रतिकरिष्यामि एवं द्वितीयम् पि तृतीयम् पि ।
अथ दानि एका भिक्षुणी भवति । संबहुला च भिक्षू भवन्ति । वक्तव्यं । अहम् इथन्नामा संबहुलान् आर्यमिश्रान् प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया । ओवदन्तु मे आर्यमिश्रा यावद् यथाधर्मं प्रतिकरिष्यामि । एवं द्वितीयम् पि तृतीयम् पि ।
अथ दानि एका भिक्षुणी भवति । एक भिक्षु भवति । वक्तव्यं । अहम् इत्थन्नामा आर्यं प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया । ओवदतु मे आर्यो अर्थ कामो हितैषी अनुकम्पको अनुकम्पाम् उपादाय जानन्ती पश्यन्ति स्मरन्ती यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामि । एवं द्वितीयम् पि तृतीयम् पि ।
110. सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्टभिक्षू ति वा कृत्वा । वैद्यभिक्षू ति वा कृत्वा । चूडभिक्षू ति वा कृत्वा अखल्लमहल्लअकुशलअप्रकृतिज्ञो ति वा कृत्वा । वर्षोषिता उभयतो संघप्रवारणान् न प्रत्याशंसयति गुरुधर्मम् अतिक्रामति । एवं गौतमि वर्षोषिताहि भिक्षुणीहि उभयतो संघे प्रवारणा प्रत्याशंसितव्या । अयं गौतमि भिक्षुणीनाम् अष्टमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेलामिव महासमुद्रेण ।
इमे गौतमि भिक्षुणीनाम् अष्टौ गुरुधर्माः ये भिक्षुणीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयित्व्या अनतिक्रमणीया वेलामिव महासमुद्रेण ।
पाराजिकधर्म ।
मैथुनं
111. अथ खलु भगवान् भिक्षुणीयो आमन्त्रयते स्म तस्मात् तहिं भिक्षुणीयो अद्यदग्रेण महाप्रजापतीं गौतमीं संघस्थविरीं संघमहत्तरीं संघपरिणायिकां धारयथ ।
य इमे भगवन् भगवता चत्वारो पतनीयो धर्मो अभिज्ञाय देशिताः लभ्या ते भगवन्न् अस्माभि विस्तरेण श्रोतुं । भगवान् आह लभ्या गौतमि ।
112. पञ्चार्थवशान् संपश्यमानाय श्रद्धाय कुलधीताय अलम् विनयम् उद्दिशितुं । अलं विनयं धारयितुं यथा भिक्षुविनये ।
113. एकम् इदं गौतमि समयन् तथागतो श्रावस्तीयम् विहरति । अथ खलु शारिपुत्रस्य स्थविरस्य यावत् को नु खलु भगवन् हेतुः कः प्रत्ययो येन इहैकेषान् तथागतानाम्, अर्हतां सम्यक्सम्बुद्धानाम् अत्ययेन चिरस्थितिकं प्रावचनं भवति चिरस्थितिकः सद्धर्म इति यथा भिक्षुविनये ।
एकम् इदं गौतमि समयन् तथागतो वैशालीयम् विहरति । विस्तरेण यशिकस्यार्थोत्पत्तिः प्रथमा । तस्मात् तर्हि गौतमि भिक्षुण्यापि अत्रैव शिक्षितव्यम् ।
द्विन्नां लिच्छवि कुमाराणाम् अर्थोत्पत्तिः । द्वितीया । यावन् नास्ति भिक्षुणीये शिक्षाप्रत्याख्यानं । तृतीया । नास्ति दौर्बल्याविष्करकर्म । चतुर्थी । नन्दिकस्यार्थोत्पत्तिः । पञ्चमी । मर्कटीय अर्थोत्पत्तिः षष्ठी ।
विस्तरेण तस्माद् इह गौतमि भिक्षुणीहि अत्रैव शिक्षितव्यं ।
114. अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो । अथ खलु भगवान् सन्निपतितं भिक्षुणीसंघं विदित्वा यावच् छिक्षापदं प्रज्ञप्तं ।
या पुन भिक्षुणी छन्दसो मैथुनं ग्राम्यं धर्मं प्रतिषेविय अन्तमसतो तिर्यग्योनिगतेन पि सार्धं इयं भिक्षुणी पाराजिका भवत्य् असम्वास्या ।
या पुन भिक्षुणी ति उपसम्पन्ना सूपसम्पन्ना त्रैवाचिकेन कर्मणा ज्ञप्तिचतुर्थेन अनाघातपञ्चमेन समग्रेण संघेन उभयतः संघेन इयं भिक्षुणी । च्छन्दसो ति रक्तचित्ता ।
मैथुनन् ति अब्रह्मचर्यं ग्राम्यधर्मन् ति ग्रामस्याप्य् एषो धर्मो नगरस्याप्य् एषो धर्मो सर्वावन्तस्यापि लोकस्य एषो धर्मो । प्रतिषेवेया ति अध्याचारेय । सा एषा भिक्षुणी मैथुनं ग्राम्यधर्मं प्रतिषेवति मानुषेण पुरुषेण मानुष्यकेन पण्डकेन त्रयाणां व्रणमुखानां धन्यमार्गे वर्चमार्गे प्रस्रावमार्गे अन्यतरान्यतरस्मिं व्रणमुखे अङ्गजाते अङ्गजातं प्रक्षिप्तं आर्तीयति आर्तयित्वा स्वादयति । आदौ स्वादयति । मध्ये स्वादयति । पर्यवसाने स्वादयति । सुखीयति । आस्वादं निगमयति पाराजिका भवति । आदौ न स्वादयति । मध्येन स्वादयति । पर्यवसाने स्वादयति । यावत् पाराजिका भवति । आदौ न स्वादयति । मध्ये न स्वादयति । पर्यवसाने स्वादयति या आस्वादन् निगमयति सा पाराजिका भवति । आदौ न स्वादयति । मध्ये न स्वादयति । पर्यवसाने न स्वादयति अनापत्तिः ।
एवं सुप्तस्य मृतस्य अङ्गजाते अङ्गजातं प्रक्षिपित्वा अर्तीयति । पेयालं एवं अमानुषस्य पण्डकस्य तिर्यग्योनिगतस्य पुरुषस्य पण्डकस्य त्रयाणां व्रणमुखानां । पेयालं ।
115. सा एषा भिक्षुणी रक्तचित्ता पुरुषं दर्शनाय उट्ठापेति सम्वरगामिविनयातिक्रमम् आसादयति दर्शनश्रवणे देशनागामिविनयातिक्रमम् आसादयति । यथा भिक्षुविनये ।
116. पुरुषो त्रिखण्डीकृतो भवति । द्विधापाटितो भवति । शुष्को भवति । कोटरकजातः । आध्मातजातो भवति । विनीलको भवति । विपूयको भवति ।
117. पञ्च भिक्षुणीयो पञ्च भिक्षून् बलात् प्रसह्यमध्योमर्दन्ति पञ्च भिक्षुणीयो पाराजिकायो भवन्ति । यो च भिक्षुः सातियति ।
पञ्च भिक्षू पञ्च भिक्षुणीयो बलात् प्रगृह्यमध्योमर्दन्ति पञ्च भिक्षू पाराजिका भवन्ति । या च भिक्षुणी सातियति ।
भिक्षु भिक्षुणीय सार्धं अन्योन्यं विप्रतिपद्यति उभये पाराजिका भवन्ति । भिक्षुणी श्रामणेरेण सह विप्रतिपद्यति भिक्षुणी पाराजिका भवति श्रामणेरो नाशयितव्यो । अथ दानि भिक्षुणी आरामिकेन सह विप्रतिपद्यते भिक्षुणी पाराजिका भवति । आरामिको अगृहीतसम्वरत्वात् किम् व्रद्यिष्यति । एवं तीर्थिकेन । त्रिहि भिक्षुणी पाराजिका भवति । मानुषेण अमानुषेण तिर्यग्योनिगतेन अपरेहि त्रिहि धन्यमार्गे वर्चमार्गे प्रस्रावमार्गे । अपरेहि त्रिहि सुप्ते मृते जाग्रन्ते । द्विहि भिक्षुणी पाराजिका भवति पुरुषेण पण्डकेन च । सा एषा भिक्षुणी सुप्ता वा भवति मत्ता वा उन्मत्ता वा विस्तरेण पुरुषो उपसंक्रम्य अभिनिषीदति वा अभिनिपद्यति वा । अन्तोस्तरति वा । सा ततो उत्थाय आदौ स्वादयति । मध्ये स्वादयति । पर्यवसाने स्वादयति पाराजिका भवति । किन् ति दानि सादियना द्रष्टव्या । किन् ति दानि असादियना । यथा भिक्षुविनये । सा एषा भिक्षुणी छन्दसो मैथुनं ग्राम्यधर्मं प्रतिषेवतीति । पेयालं । सा एषा आपद्यति । अप्य् एकत्या अज्ञानात् । अप्येकत्या स्मृतिसंमोषात् । अप्य् एकत्याकल्पियसंज्ञया । अप्य् एकत्या अलज्जिकेन । अप्य् एकत्या रागाभिभूता दोषाभिभूता मोहाभिभूता अनापत्तिः । क्षिप्तचित्ताये अकरन्तीये अनध्याचरन्तीये अनापत्तिः । तेन भगवान् आह ।
या पुनर् भिक्षुणी छन्दशो मैथुनं ग्राम्यधर्मं प्रतिषेवेय अन्तमसतो तिर्यग्योनिगतेनापि सार्धं इयं भिक्षुणी पाराजिका भवत्य् असंवास्या ।
पाराजिकधर्म 24
एवं द्वितीयस्य । तृतीयस्य । चतुर्थस्य । न किञ्चिन् नानाकरणं यथा भिक्षुविनये ।
संसर्ग
118. भगवान् छाक्येषु विहरति शाक्यानां कपिलवस्तुस्मिं न्यग्रोधारामे । तेन दानि कालेन तेन समयेन भगवता भिक्षुणीनां अरण्यकानि शयनासनानि प्रतिक्षिप्तानि । ग्रामान्तकानि च अकृतानि । भिक्षुणीयो गृहिणाम् उपवसितेहि वसन्ति । राष्ट्रा नाम भिक्षुणी । सा दानि अपरस्य साक्यस्य उदुवसिते वसति । सा दानि राष्ट्रा तस्य शाकियकुमारस्य उद्दिशति । सा दानि राष्ट्रा प्रासादिका दर्शनिया अविगतराग । सो पि शाकियकुमारो प्रासादिको दर्शनीयो । सो दानि ताये त्रिक्खत्तो देवशिकं उपलङ्कृतं काल्यं मध्याह्ने सायं । ताये दानि तं शाकिय कुमारं दृष्ट्वा अभीक्ष्णं संसेवाय च रागचित्तम् अनुध्वंसयति । सा दानि म्लायति पाण्डुकृशा दुर्वर्णा भोन्तीमपि भोजनं न छन्दो भवति ।
119. भिक्षू दानीं पृच्छन्ति । केन त्वं भगिनी राष्ट्रा पाण्डुकृशा दुर्वर्णा । किन् ते दुःखति । किन् ते पर्येषामः । सर्पिस् तैलं मधु फाणितं । सा दान् आह भोतु भोतु आर्य एवम् एव वर्ता भविष्यामि । भिक्षुणीयो पृच्छन्ति । आर्ये राष्ट्रे केन त्वम् एवं पाण्डुकृशा दुर्वर्णा । किन् ते दुःखति । किन् ते पर्येषामः । सर्पिस् तैलं मधु फाणितं । सा दान् आह । भोतु भोतु आर्यमिश्रिकायो एवम् एव वर्ता भविष्यामीति । एवं एव उपासिका उपासिकायो । सो पि शाकियकुमारो आह । आर्ये किन् ते दुःखति । केन सि पाण्डु कृशा दुर्वर्णा । आचिक्षाहि कीदृशेहि अत्र भैषज्येहि वा उपकरणेहि वा अर्थो भवेय । सचेद् अस्माकं न भविष्यति प्रातिवेश्य कुलातो उद्धारधर्मणा आनापयिष्यामि । अन्तरापणातो वा ग्रामान्तरातो वा आनापयिष्यामि । सा दान् आह भोतु दीर्घायुः एवम् एव वर्ता भविष्यामि । द्वितीयं तृतीयम् अपि आह । आर्ये किन् ते दुःखति । केनासि पाण्डुकृशा दुर्वर्णा यावद् ग्रामान्तरातो आनापयिष्यामि । सा दान् आह भोतु दीर्घायु एवम् एव वर्ता भविष्यामि । सो दानि शाकियकुमारो आह । न इदं आर्याये किञ्चित् कायिकं गैलायं । चैतसिकं आर्याये गैलान्यं । सा दान् आह । बाढं चैतसिकं गैलान्यं । सो दान् आह कथं सह्यं भवेय । सा दान् आह । यदि एवम् इच्छसि एवं सह्यं भवेय ।
120. सो दान् आह । आर्ये किम् अर्थम् अहं नेच्छामि । यो दानि अहं जल्पामि । आचिक्षतु आर्या किम् आज्ञापयसि । किं करोमि । कीदृशेहि अत्र भैषज्येहि वा उपकरणेहि वा अर्थो भवेय । सचेद् अस्माकं न भविष्यति प्रातिवेश्यकुलातो उद्धारधर्मणा आनयिष्यामि अन्तरापणातो वा ग्रामान्तरातो वा आनापयिष्यामीति । आचिक्षतु आर्या । सा दान् आह । साधु ते एतम् अर्थम् करोहि । सो दान् आह । न आर्ये एवं वक्तव्यं । अन्याहि अहं काषायवसनाहि नोत्सहाम्य् एतं अर्थं कर्तुं प्राग् एव आर्याय । आर्या मम गुरु च भावनीया च । नाहम् आर्याय एवं वक्तव्यो । नह्य् अहम् उत्सहाम्य् एतं कार्यं कर्तुं । सा दान् आह । साधु ताव मे आलिङ्गस्व चुम्बस्व स्तनोदरञ् च मे परिमर्दस्वेति । लभ्यन् मया एतन् मात्रं कर्तुं । स मात्रालिङ्गति चुम्बति स्तनोदरञ् च से परिमृशति । सा पि दानि तत्तकेनैव विनोदयति । सो पि दानि शाकियकुमारो अभीक्ष्णसंसर्गेण अपम्लायति ।
121. यथा भगवान् आह । नाहम् भिक्षवो ऽन्यम् एकं स्प्रष्टव्यं समनुपश्यामि । एवं रञ्जनीयम् एवं कमनीयम् एवं वञ्चनीयम् एवं मूर्च्छनीयम् एवम् अध्योहारि एवम् अन्तरायकरम् अनुत्तरस्य योगक्षेमस्याधिगमाय यथा पुरुषस्य स्त्री स्प्रष्टव्यं स्त्रीया पुरुष इति दानि तेन अभिक्ष्णसंसेवाय अपम्लायति । सो दानि पुनः पुनः करोति ।
122. सा दानि भिक्षुणीहि वुच्चति । मा आर्ये एवं करोहि नैवं लभ्या कर्तुं । सा दान् आह । एवं मम क्रियमाणं फासु भवति । एतं प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसु । महाप्रजापती गौतमी भगवतो आरोचयति । भगवान् आह शब्दापयथ राष्ट्रां । सा दानि शब्दापिता । भगवान् आह । सत्यं राष्ट्रे एवं नाम त्वं अवश्रुता अवश्रुतस्य । पुरुषस्य उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्यां आमोषणपरामोषणं सादियसि । आह । आम् भगवन् । भगवान् आह । दुष्कृतं ते राष्ट्रे । नन्व् अहं राष्ट्रे अनेकपर्यायेण सर्वेषां कामानां कामनन्दीनां कामनिम्नानां काममूर्च्छानां कामपिपासानां कामपरिदाह्यानां कामाध्यवसानानां अन्तम् वदामि । प्रहाणम् वदामि । समतिक्रमणं वदामि । तत्र नाम त्वं इमं एवं रूपत्वं पापम् अकुशलं धर्मं अध्याचरसि । नैष राष्ट्रे धर्म । नैष विनयो । नैवं शास्तुः शासनं । नैवं कर्तव्यं । नैवं करतो वृद्धिर् भवति कुशलेहि धर्मेहि ।
123. अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो । यावतिका भिक्षुणीयो कपिलवस्तुन् नगरम् उपनिश्रित्य विहरन्ति । अथ खलु भगवान् सन्निपतितं भिक्षुणीसंघं विदित्वा एतत् प्रकरणं भिक्षुणीनां विस्तरेणारोचयति । पेयालं । यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अधो कक्षाभ्याम् उपरि जानुमण्डलाभ्याम् आमोषणपरामोषणं सादियेय इयं पि भिक्षुणी पाराजिका भवत्य् असम्वास्या ।
या पुन भिक्षुणीति । पेयालं । यावद् एषा भिक्षुणी अवश्रुता ति रक्तचित्ता । अवश्रुतस्येति रक्तचित्तस्य । अधो कक्षाभ्याम् इति स्तनोदरं । उपरि जानुमण्डलाभ्याम् इति ऊरु । आमोषणं ति च्छुवणं । परामोषणन् ति वीतिहारो । सादियेया ति सातीयति सुखियति रमीयति आस्वाद निगमयति पाराजिका भवति ।
पाराजिकेति पारं नामोच्यते धर्मज्ञानं । ततो जीना ओजीना संजीना परिहीणा । तेनाह पाराजिकेति ।
124. एवं विस्तरेण । सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति पाराजिका भवति । सा एषा भिक्षुणी अवश्रुतस्य पण्डकस्य उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति पाराजिका भवति । सा एषा भिक्षुणी अवश्रुता अनवश्रुतेन पण्डकेन उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादियति थूलच्चयम् आसाद्यति । सा पि एषा भिक्षुणी अवश्रुता अनवश्रुतेन पुरुषेन उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादियति थूलच्चयम् आसादयति । सा एषा भिक्षुणी अवश्रुता अनवश्रुतेन पण्डकेन उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणं परामोषणं सादियेय थूलच्चयम् आसादयति । सा एषा भिक्षुणी अवश्रुता अनवश्रुताय स्त्रियाय उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादिय देशनागामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अवश्रुतेन पुरुषेण उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादियति थूल्ऽ-अच्चयम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अवश्रुतेनपण्डकेन उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादियति थूल्ऽ-अच्चयं आसादयति । सा एषा भिक्षुणी अनवश्रुता अवश्रुताय स्त्रियाय उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति देशनागामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अवश्रुतेन पुरुषेण उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति देशनागामि विनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन उपरि
जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति देशनागामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुताय स्त्रियाय उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति सम्वरगामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्यां यावत् स्थूलात्ययम् आसादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् याव थूल्ऽ-अच्चयम् आसादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुताय स्त्रियाय अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्यां यावद् देशनागामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् देशनागामिविनयातिक्रमम् आसास्दयति । सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्यां उपरि कक्षाभ्याम् यावत् देशनागामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुताय स्त्रियाय अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्यां यावत् सम्वरगामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् देशनागामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् देशनागामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतायस्त्रियाय अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् सम्वरगामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् यावत्
सम्वरगामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्यां यावत् सम्वरगामिविनया तिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुताय स्त्रियाय अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् आमोषणपरामोषणं सादीयति अनापत्तिः ।
125 । अथ दानि भिक्षुणी ललाटसिरां वेधापयति द्वितीयाय भिक्षुणीय मूर्ध्नि आक्रमितव्या यथा स्त्री स्प्रष्टव्यं संजानाति न पुरुष स्प्रष्टव्यं संजानाति । अथ दानि बाहुशिरां विन्धापयति अपराय भिक्षुणीय बाहा ग्रहेतव्या यथा स्त्री स्प्रष्टव्यं संजानाति न पुरुष स्प्रष्टव्यं । एवं गुल्फशिरा । एवं जानुमण्डलाधः । अथ दानि गण्डं वा पिटकम् वा क्षतम् वा पुरुषेण पाटापयति वा उपनाहापयति वा अपराय भिक्षुणीय आलम्बयितव्यं । न क्षमति सम्बाधे प्रदेशे गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा पुरुषेण वेधापयितुम् वा पाटापयितुम् वा उपनाहापयितुम् वा । सम्बाधो नाम प्रदेशो उपरि जानुमण्डलाभ्याम् अधः कक्षाभ्याम् । तेन भगवान् आह ।
या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अधो कक्षा भ्याम् उपरि जानुमण्डलाभ्याम् आमोषणपरामोषणं सादियेय इयं पि भिक्षुणी पाराजिका भवत्य् असम्वास्या ।
पाराजिकधर्म 6 अष्टवस्तुका
126. भगवान् सम्यक्सम्बुद्धो यदर्थं समुदागतो तदर्थम् अभिसम्भावयित्वा वैशालीयाम् विहरति । महावने कूटागारशालायां । तेन दानि कालेन तेन समयेन भगवता भिक्षुणीनाम् आरण्यकानि शयनासनानि प्रतिक्षिप्तानि । ग्रामान्तिकनि च अकृतानि । भिक्षुणीयो अभ्यन्तरनगरे प्रविशन्ति । अथ राष्ट्रपाला नाम भिक्षुणी । सा दानि अपरस्य लिच्छविकुमारस्य उदुवसिते वसति । सा दानि तस्य लिच्छविकुमारस्य उद्देशन् ददाति । सा दानि राष्ट्रपाला तस्य देवसिकम् उपसंक्रमति काल्यं मध्याह्ने सायम् । सा दानि प्रासादिका दर्शनीया अवीतरागा । सो पि लिच्छविकुमारो प्रासादिको दर्शनीयो । ताये दानि राष्ट्रपालाय अभीक्ष्णदर्शनेन अभिक्ष्णं संसेवाय च रागचित्तम् अनुध्वंसयति । सा दानि म्लायति । पेयालं । यावद् गुरु च भावनीया च यावन् नोत्सहामि ।
127. सा दान् आह । साधु खलु तावन् मे अन्तो हस्तपाशस्य तिष्ठाहि संलपाहि । हस्तं मे गृह्णाहि । प्रहस्तं मे गृह्णाहि । अङ्गुलिं मे गृह्णाहि । अन्गुष्टं मे गृह्णाहि । चीवरं मे गृह्णाहि । अहं पि ते आगतम् अभिनन्दिष्यं । आसनेन उपनिमन्त्रयिष्यं । कायन् ते अनुप्रयच्छिष्यं । पीठिकाम् वा आपणम् वा कर्मान्तम् वा गमिष्यन् ति । सो दान् आह । आर्ये लभ्या मया एतं कर्तुं । सो दानि ताये अन्तो हस्तपासस्य तिष्ठति । संलपति । हस्तेन गृह्णाति । प्रहस्ते गृह्णाति । चीवरे गृह्णाति । सा पि तं आगतम् अभिनन्दति । आसनेनोपनिमन्त्रयति । कायं से नुप्रयच्छति । संकेतं वा गच्छति । सापि दानि तत्तकेनैव कामच्छन्दम् विनोदेति । सो पि दानि लिच्छविकुमारो अभीक्ष्णदर्शनेन अभीक्ष्णसंसेवाय अपम्लायति ।
128. यत् तद् उक्तं भगवता । नाहम् भिक्षवो ऽन्यद् एकरूपम् अपि समनुपश्यामीति विस्तरेण सूत्रं । सा दानि अभीक्ष्णं संसेवाय अपम्लायति । सा पुनः पुनः करोति । सा भिक्षुणीहि वुच्चति । मा आर्ये राष्ट्रपाले एवं करोहि । नैवं लभ्या कर्तुं । सा दान् आह । केन्ऽ अर्थन् न लभ्यते । एवम् मम क्रियमाणे फासु भवति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति । महाप्रजापती गौतमी भगवतो आरोचयति । भगवान् आह । शब्दापयथ राष्ट्रपालां । सा दानि शब्दापिता । भगवान् आह । सत्यं राष्ट्रपाले एवन् नाम त्वं अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशस्य संतिष्ठसि संलपसि । पेयालं । यावत् संकेतं गच्छसि । आह । आम् भगवन् । भगवान् आह । दुष्कृतं ते राष्ट्रपाले । यावन् महाप्रजापतीं गौतमीम् आमन्त्रयति । यावच् छिक्षापदं प्रज्ञपतं ।
या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशस्य संतिष्ठेत वा संलपेत वा । हस्तग्रहणम् वा । चीवरग्रहणम् वा सादीयेय । आगतम् वा अभिनन्देय । आसनेन वा उपनिमन्त्रेय । कायम् वा अनुप्रयच्छेय । संकेतकृतम् वा गच्छेय । इयं पि भिक्षुणी पाराजिका भवत्य् असंवास्या ।
129. या पुन भिक्षुणीति उपसंपन्ना । यावत् सा एषा भिक्षुणी अवश्रुता ति रक्तचित्ता । अवश्रुतस्य पुरुषस्येति रक्तचित्तस्य । अन्तो हस्तपाशस्येति अन्तो व्यायामेति । संलपेया ति उपकर्णं वा जल्पेय । हस्तग्रहणन् ति हस्ते गृह्णिय यावद् अङ्गुष्टके वा । चीवरग्रहणन् ति संघाटीयं वा उत्तरासङ्गे वा अङ्तरेवासे वा संकक्षिकायां वा दकशाटिकायाम् वा । सादियेया ति आस्वादं निगमयेत् । आगतं वा अभिनन्देया ति वा स्वागतन् ते अनुरागतन् ते पुनः पुन आगच्छेसि । प्रीतास्मि तवागमनेन । प्रह्लादितम् मे गात्रं तव दर्शनेन । आसनेनोपनिमन्त्रेया ति आसनम् अस्य ददेय । कायं से अनुप्रयच्छेया ति येनासौ तेन कायं प्रणामेत । संकेतकृतं गच्छेद् इति यस् तस्य अभीक्ष्णं उपचारो भवेद् आपणो वा पीठिका वा क्षेत्रवस्त्रं वा उदकसमीपं वा कर्मान्तं वा उद्यायं वा मार्गे वा तहिं तिष्ठेद् इयं पि भिक्षुणी पाराजिका असंवास्येति यावत् प्रज्ञप्तिः ।
130. सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशं संतिष्ठति यावत् संकेतं कृतं गच्छति पाराजिका भवति । एवं पण्डकस्य स्त्रियाः स्थूलात्ययः । सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशं तिष्ठति यावत् संकेतकृतम् वा गच्छति थूल्ऽ-अच्चयं । एवं पण्डके स्त्रियायां देशनागामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अवश्रुतस्य अन्तो हस्तपाशस्य संतिष्ठति यावत् संकेतकृतम् वा गच्छति स्थूलात्ययं । एवं पण्डकस्य स्त्रियायान् देशनागामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण सन्तिष्ठति थूल्ऽ-अच्चयम् । संलपति स्थूल्ऽ-अच्चयं । हस्तग्रहणं थूल्ऽ-अच्चयम् । चीवरग्रहणं थूल्ऽ-अच्चयं । आगतम् अभिनन्दति थूल्ऽ-अच्चयं । आसनेनोपनिमन्त्रेति थूल्ऽ-अच्चयं । कायम् अनुप्रयच्छति थूल्ऽ-अच्चयं । संकेतङ् गच्छति पाराजिका भवति । एवम् एकैकेन पदेन थूल्ऽ-अच्चयं । यावत् सप्तमे सप्त थूल्ऽ-अच्चयाः । अष्टमे पदे पाराजिका भवति । अथ दानि अनुखज्जकम् आपज्जति यदाष्टौ थूल्ऽ-अच्चया भवन्ति तदा पाराजिका भवति । अथ दानि एक समापद्यित्वा प्रतिकरित्वा यावत् सप्तमम् आपद्यित्वा प्रतिकरित्वा अष्टमम् आपद्यति न सा पाराजिका भवति । अथ दानि सप्तमम् आपद्यित्वा अप्रतिकरित्वा अष्टमम् आपद्यति पाराजिका भवति । तेन भगवान् आह ।
या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशस्य सन्तिष्ठेद् वा । संलपेद् वा । हस्तग्रहणम् वा । चीवरग्रहणम् वा सादीयेय । आगतम् वा अभिनन्देय । आसनेन वा उपनिमन्त्रेयेत । कायम् वा अनुप्रयच्छेय । संकेतकृतम् वा गच्छेय । इयम् पि भिक्षुणी पाराजिका भवत्य् असम्वास्य ।
पाराजिकधर्म 7 अवद्यप्रतिछादिका
131. भगवान् वैशालीयं विहरति । विस्तरेण निदानं कृत्वा । वैशालीयं दानि नगरे अपरस्य लिच्छविस्य त्रियन्तरा दारिका जाता । अमङ्गल्या अप्रशस्ता । तेषान् दानि मातापितृणाम् भवति । क इमां विवाहयिष्यति । गृहे पि धार्यमाणा अमङ्गल्या कस्येयन् दातव्या । अपरे आहंसुः । इच्छत यूयं एतां दारिकां उन्नीयमानां । ते दान् आहंसुः । इच्छामः । आहंसुः । एषात्र काली नाम भिक्षुणी । तस्या देथ सा उन्नेष्यति । तेहि दानि सा उक्ता । आर्ये ऽस्माकं त्रियन्तरा दारिका जाता अधन्या वामङ्गल्या वाप्रशस्ता वा । ताम् वयम् आनापेयेमः । उन्नेहि वर्धेहि अन्तेवासिनीय ते भविष्यति । वयं च ते ग्रासाच्छादन् दास्यामः । ताय सा परिगृहीता । उन्नेति वर्धेति । ततो देवसिकं पक्वप्रहेणकम् आनीयति । अनुशमं अनुशमं आच्छादं लभति । हेमन्ते हेमन्तिकं । वर्षाकाले वर्षावासिकं । सा यदा महन्तीभूता तदा ताय प्रव्रजिता । शिक्षा देशिता । परिपूरशिक्षा । उपसम्पादिता । तीव्ररागो मातृग्रामः । सा दानि क्लेशेहि बाध्यते । न सहति । सा दान् आह । आर्ये न दानि प्रव्रज्यायां गमिष्याम्य् अहं । क्लेशेन बाध्यामि । काली आह । पुत्रि दुःखो गृहावासः । अङ्गारकर्षूपमा कामा उक्ता भगवता । किन् ते गृहावासेन । सा पश्यति यदि तावद् इयं प्रत्योधावति ततो मे लाभसत्कारो ऽन्तरहायिष्यति । सा ताय निगृहीता विच्छिन्दिता । सा दानि क्लेशान् असहन्ती आरामिकपरिव्राजकेहि सार्धं मिश्रिभूता । ताय कुक्षिः प्रतिलद्भोदरं महन्तीभूतं । सा भिक्षुणीहि निष्काशीयति । तायो दानि भिक्षुणीयो आहंसुः । आर्ये कालि जानासि त्वम् एतां आगारकेहि परिव्राजकेहि सह मिश्रीभूतां । आह । जानामि । एवं विरोपादाय आहंसुः । किम् अर्थं त्वं नारोचेसि । न जल्पसि । पश्यामि यद्य् अहम् आरोचयिष्यं । एषा गृहं गमिष्यति । मम एष लाभसत्कारो अन्तराहायिष्यतीति ।
132. एतं प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवतो आरोचयति । भगवान् आह । शब्दापयथ कालिं । सा शब्दापिता । तद् एव सर्वं भगवान् विस्तरेण पृच्छति । आह । आम भगवन् । भगवान् आह । दुष्कृतं ते कालि । अस्ति नाम त्वं कालि जानन्ती भिक्षुणीं दुष्ठुल्लापत्तिम् आपनां प्रतिच्छादेसि । यावन् नैष कालि धर्मो नैष विनयो । यावद् भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावतिका भिक्षुणीयो वैशालीन् नगरीम् उपनिश्रित्य विहरन्ति । यावच् छिक्षापदं प्रज्ञप्तं ।
या पुन भिक्षुणी जानन्ती भिक्षुणीं दुष्ठुल्लाम् आपत्तिं कृताम् अध्याचीर्णां छादेय । सा न परेषाम् आरोचयति कुवेगे महाजने संघमध्ये । यदा सा भिक्षुणी भिक्षुणीहि च्युता भवति मृता निषण्णा अवसण्णा अवक्रान्ता इमस्माद् धर्मविनयाद् । अथ सा भिक्षुणीनाम् एवम् वदेय । आज्ञासि वताहम् आर्ये इत्थन्नामाये भिक्षुणीये दुष्ठुल्लामापत्ति कृतामध्याचीर्णा । साहं न परेषाम् आरोचयेयं । किन् ति इमाये मापरे जानन्तू ति । इयं भिक्षुणी पाराजिका भवति ॥
या पुन भिक्षुणीति उपसम्पन्ना । पेयालं । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन श्रवणेन । दुष्ठुल्लाम् आपत्तिं ति दुष्ठुल्लानाम अष्टानाम् अन्यतरान्यतरा कृता अध्याचीर्णा । सा न परेषाम् आरोचेय इति न कथयेत् । कुवे एगे ति एकाये । महाजने ति द्विन्नाम् त्रयाणां । संघमध्य्ति परिपूर्णसंघस्य ।
च्युता ति च्युता भोति ब्रह्मचर्यातो । मृता ति कालगता । निषण्णा अवसण्णा ति गृहिणीभावङ् गता । अवक्रान्ता इमस्माद् धर्मविनयाद् इति अन्यतीर्थिकायतनं संक्रान्ता । अथ सा भिक्षुणी भिक्षुणीनां एवं वदेया । आज्ञासि वताहं आर्ये इत्थन्नामाये भिक्षुणीये दुष्ठुल्ला-म्-आपत्तिः कृतामध्याचीर्णा । छाये । साहं न परेषाम् आरोचये । किन् ति इमाये मापरे जानन्तू ति । इयम् पि भिक्षुणी पाराजिका भवति । पारन् नाम वुच्चति धर्मज्ञानं । पेयालं । यावत् प्रज्ञप्तिः ।
133. सा एषा भिक्षुणी पश्यति भिक्षुणीं अरुणोद्गते दुष्ठुल्लाम् आपत्तिम् आपद्यन्तीं । नो तु च्छादनाचित्तं प्रतिलभते । सूर्यस्योद्गमनकालसमये छादनाचित्तं प्रतिलभित्वा अरुणमुद्घाते ति इयं भिक्षुणी पाराजिका भवति । एवं दो कालिका अष्ट परिवर्ता कर्तव्याः । यथा भिक्षुविनये छादनायां । सा एषा भिक्षुणी भिक्षुणीं पश्यति दुष्ठुल्लाम् आपत्तिम् अध्याचरन्तीं । ताय दानि अपराय आरोचयितव्यं । अथ सा भोति अन्तेवासिणी वा सार्धविहारिणी वा पश्यति । यदि आरोचयिष्यामि इदानीं भिक्षुणीहि निस्कासिष्यतीति अनुनयसम्बन्धेन छादेति पाराजिका भोति । सा एषा भिक्षुणी पश्यति अपरां भिक्षुणीं आपत्तिम् आपद्यन्तीं । सा दानि अपराय आरोचेति दृष्टा मया इत्थन्नामा भिक्षुणी दुष्ठुल्लाम् आपत्तिम् अध्याचरन्ती । अहं पश्यामि यदि आरोचयिष्यतीति दानी भिक्षुणीहि निर्धावयिष्यतीति मया पि च्छादितं । सा पि पश्यति यदि अहम् आरोचयिष्यं उभये निर्धावयिष्यन्तीति च्छादेति । सा पि पारजिका भवति । एवं यत्तिकायो च्छादेन्ति सर्वायो पाराजिका भोन्ति । एषा भिक्षुणी भिक्षुणीं पश्यति दुष्ठुल्लाम् आपत्तिम् आपद्यन्तीं । सा अपरान् आरोचेति । इत्थन्नामा भिक्षुणी दुष्ठुल्लाम् आपत्तिम् आपन्ना । सा दान् आह । पापं कृतन् त्वया मम आरोचयन्तीय । मा अपराये पि आरोचयिष्यसीति थूल्ऽ-अच्च्यम् आसादयति । सा एषा भिक्षुणी पश्यति भिक्षुणीं दुष्थुल्लाम् आपत्तिम् अध्याचरन्तीं । ताय अपराये आरोचयितव्यं । अथ दानि सा भोति रौद्रा वा साहसकारा पश्यति । मा से जीवितान्तरायं वा ब्रह्मचर्यान्तरायम् वा करिष्यतीति उपेक्षा पर्तिलभति अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी जानन्ती भिक्षुणीये दुष्ठुल्लाम् आपत्तिं कृताम् अध्याचीर्णां छादेय । सा न परेषाम् आरोचयेत् कुवेगे महाजने संघमध्ये । यदा सा भिक्षुणी भिक्षुणीहि च्युता भवति मृता निषण्णा अवसण्णा अवक्रान्ता इमस्माद् धर्मविनयाद् । अथ भिक्षुणी भिक्षुणीनाम् एवम् वदेय आज्ञासि वताहं आर्ये इत्थन्नामाये भिक्षुणीये दुष्ठुल्ला-म्-आपत्ति कृतामध्याचीर्णा । साहं न परेषाम् आरोचयेयं । किन् ति इमाये मापरे जानन्तू ति । इयं पि भिक्षुणी पाराजिका भवत्य् असम्वास्या ।
पाराजिकधर्म 8
उत्क्षिप्तानुवर्तिका
134. भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तदर्थम् अभिसम्भावयित्वा । पेयालं । यावत् तेहि तेहि विहारेहि विहरन् कौशाम्ब्याम् विहरति घोषितारामे । आयुष्मान् दानि छन्दको पञ्चानाम् आपत्तिकायानाम् अन्यतरान्यतराम् आपत्तिम् अध्योमर्दति । सो भिक्षूहि वुच्चति आयुष्मन् छन्दक पश्यसि एताम् आपत्तिं । सो दान् आह । नाहं पश्यामि यूयम् अपि नं पश्यथ । भे च्यु[?]तं पश्यन्तु । किम् पुन मम एताय दुष्टाय । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवान् आह । यद्य् एषो भिक्षवश् छन्दको पञ्चानाम् आपत्तिकायानाम् अन्यतरान्यतराम् आपत्तिम् अध्योमर्दति । स ताम् आपत्तिं न पश्यति । तेन संघो आपत्तीय अदर्शनेन उत्क्षेपनीयं कर्म करोतु । तस्य संघेन उत्क्षेपणीयं कर्म कृतं । न संभुञ्जति धर्मसंभोगेन आमिषसंभोगेन । तस्य दानि माता अपरंहि भिक्षुणीविहारे आवासिनी । सो दानि तंहि गत्वा आह । सालोहिते संघेनाहम् उत्क्षिप्तो । न संभुञ्जति मे धर्मसम्भोगेन आमिषसंभोगेन । सा दान् आह । अपर्या आर्य च्छन्दक । अहन् ते संभुञ्जामि धर्मसम्भोगेन आमिषसम्भोगेन । सा दानि सम्भुञ्जति धर्मसंभोगेन आमिषसंभोगेन । सा दानि भिक्षुणीहि वुच्चति । आर्ये एषो हि आर्य छन्दको समग्रेण संघेन धर्मतो विन्यतो उत्क्षिप्तो अप्रतिकृतो । मा आर्ये एतं भिक्षुं अनुवर्तेहि ।
भगवान् आह । अपापाय आर्यमिश्रिका अहं च तावन् नेतं भिक्षुं अनुवर्तिष्यं । का अन्या अनुवर्तिष्यति । अनुवर्तिष्याम्य् अहम् एतं भिक्षुं । किम् अर्थम् अहम् एतं किम् अर्थम् अहम् एतम् नानुवर्तिष्ये । एतत् प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये आरोचयेंसुः । महाप्रजापती गौतमी भगवत आरोचयति । भगवान् आह । यद्य् एषा भिक्षुणी छन्दकमाता छन्दकं भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तति । तेन हि तं गच्छथ त्रिःक्खत्तो कुवेगे त्रिःक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहथ एतस्य वस्तुस्य प्रतिनिःसर्गाय । सा दानि कुवेगे वुच्चति सत्यं त्वम् आर्ये छन्दकमाते आर्येछन्दकं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तसि । आहो त्य् आह । सा त्वं कुवेगे वुच्यसि । मा आर्ये छन्दकमातो आर्यछन्दकं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतं अनुवर्ताहि । यं खलु ते आर्ये छन्दकमाते मित्राय करणीयं अर्थकामाय हितैषिणीय करोति ते तं मित्रा एका वाचा गच्छन्ति । द्वे वाचे अवशिष्टे प्रतिनिःसर न प्रतिनिःसरामीत्य आह । एवम् द्विर् अपि त्रिर् अपि । एवं महाजने संघमध्ये अवलोकना कर्तव्या यावन् न प्रतिनिःसरामीत्य् आह ।
135. एतं प्रकरणं तायो भिक्षुणीयो भगवतः आरोचयेंसुः । अनुप्राप्ता भगवन् आर्या छन्दकमाता त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये एतस्य वस्तुस्य प्रतिनिःसर्गाय न च प्रतिनिःसरति । भगवान् आह । शब्दापयथ छन्दकमातां । सा दानि शब्दापिता । भगवान् आह । सत्यं त्वं छन्दकमाते । एवन् नाम त्वं छन्दकं भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतं संभुञ्जसि । सा त्वं त्रिक्खुत्तो कुवेगे त्रिक्खुत्तो महाजने त्रिक्खुत्तो संघमध्ये अनुप्राप्ता एतस्य वस्तुस्य प्रतिनिःसर्गाय न च प्रतिनिःसरसि । आम् भगवन् । भगवान् आह । दुष्कृतन् ते छन्दकमाते । नन्व् अहं छन्दकमाते अनेकपर्यायेण दौर्वचनस्यं गर्हामि दौर्वचनस्य अवर्णवादि तत्र नाम त्वं खराखक्खटं वामा अप्रदक्षिनग्राहिणी । नैषश् छन्दकमाते धर्मो । नैष विनयो नैतं शास्तुः शासनं । नैवं कर्तव्यं नैवं करणीयं । नैवं करोन्तीये वृद्धिर् भवति कुशलेषु धर्मेषु । एवं च दानि त्वं जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अनुवर्तसि । तेन हि न क्षमति जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तितुं ।
अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावतिका भिक्षुणीयो कौशाम्बिनगरीम् उपनिश्राय विहरन्ति । यावच् छिक्षापदं प्रज्ञप्तं ।
136. या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन आकारवन्तेन श्रवणेन । समग्रेण संघेनेति अव्यग्रेण । धर्मविनयतो आपत्तीय अदर्शनेन आपत्तीय अप्रतिकर्मेण त्रयाणां दृष्टिगतानाम् अप्रतिनिःसर्गेण । उत्क्षिप्तन् ति असंभोगम् कृतं ।
अप्रतिकृतं ति अप्रत्योसारितं । अनुवर्तेया ति आमिषसंभोगेन वा धर्मसंभोगेन वा संभुञ्जेय ।
सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया । एषो हि आर्ये भिक्षुः समग्रेण संघेन । पेयालं । यावत् तद् एव वस्तुं प्रतिगृह्णेय न प्रतिनिःसरेय यं तं उत्क्षिप्तकं भिक्षुम् अनुवर्तति ।
सा भिक्षुणीति यथा छन्दकमाता । भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या इति त्रिक्खत्तो कुवेगे महाजने त्रिक्खत्तो संघमध्ये । सा कुवेगे वक्तव्या । सत्यं त्वं इत्थंनामे इत्थंनामे भिक्षुसमग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तसि । आमो त्य् आह । सा दानि वक्तव्या । मा आर्ये इत्थंनाम भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अनुवर्ताहि । यं खलु ते इत्थन्नामे मित्राय करणीयं अर्थकामाय हितैषिनीय करोति । ते तं मित्रा एका वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिःसरामीत्य् आह द्वितीयं तृतीयम् अपि । पेयालं । संघमध्ये पि त्रैवाचिकं यावत् तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं । नो च प्रतिनिःसरेय इयम् पि भिक्षुणी पाराजिका भवत्य् असम्वास्या ।
पाराजिकेति पाराजिकाये आपत्तीये संकाशना प्रकाशना विवरणा विभजना उत्तानीकर्मता प्रज्ञप्तिः ।
137. सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे समनुग्राहियमाणा समनुभाषियमाणा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां विनयातिक्रमम् आसादयति । त्रिक्खत्तो महाजने समनुग्राहियंआणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिस्सरति वाचायाम् वाचायाम् विनयातिक्रमम् आसादयति । संघमध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति । प्रथमायाम् वाचायाम् अध्योरोपितायां विनयातिक्रमम् आसादयति । व्योरोपितायां थूल्ऽ-अच्चयम् आसादयति । द्वितीयायां वाचायाम् अध्योरोपितायां विनयातिक्रमम् आसादयति । व्योरोपितायां वाचायां थूल्@ऽ अच्चयम् आसादयति । तृतीयायां वाचायाम् अध्योरोपितायां थूल्ऽ-अच्चयम् आसादयति । व्योरोपितायां पाराजिका भवति । यदा पाराजिकाम् आपत्तिम् आपन्ना भवति । ये च कुवेगे महाजने ये च संघमध्ये विनयातिक्रमाश् च थूल्ऽ-अत्ययाश् च सर्वे ते प्रतिप्रश्रंभ्यन्ते एका आपत्तिर् गुरुका सन्थिहति । यद् इयं पाराजिका । अन्तरा प्रतिनिःसरति पञ्चास्थितासु आपत्तिषु कारापयितव्या । किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं । किम् अप्रतिनिःसर्गार्हम् अभूषिसि इत्थन्नामं भिक्षुं उत्क्षिप्तकम् अनुवर्तिष्यन् ति । नानुवार्तितं अनुवर्तामि अनुवर्तिष्यामि चेति एवं प्रतिनिःसर्गार्हं ।
किन् ति दानि अप्रतिनिःसर्गार्हं अभूषिसि । इत्थन्नामं भिक्षुम् उत्क्षिप्तकम् अनुवर्तिष्यन् ति । अनुवर्तितं दानि नानुवर्तामि अनुवर्तिष्यामि चेति एवम् अप्रतिनिःसर्गार्हं चेति एवम् अप्रतिनिःसार्गर्हं द्रष्टव्यं । तेन भगवान् आह ।
या पुन भिक्षुणी जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तेय सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीय । एषो हि आर्ये भिक्षुः समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तो अप्रतिकृतो । मा एतं भिक्षुम् अनुवर्तेय । एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तं वस्तुं प्रतिगृह्णेय । न प्रतिनिःसरेय सा भिक्षुनी भिक्षुणीहि यावत् तृतीयकम् समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत् तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं । नो च प्रतिनिःसरेय इयम् पि भिक्षुणी पाराजिका भवत्य् असम्वास्या ।
उद्दानं मैथुनम् अदत्तादानं वधो मृषा संसर्गो ऽष्टवस्तुका । अवद्यप्रतिच्छादिका उत्क्षिप्तानुवर्तिका ॥
प्रपूर्यते वर्गः । पाराजिकाः समाप्ताः ।
संचरित्र
138. संचरित्रकर्म यथा भिक्षूणां सर्वम् अन्वर्थं यावत् तेन भगवान् आह ।
या पुन भिक्षुणी संचरित्रं समापद्येय स्त्रीमतम् वा पुरुषस्योपसंहरेय पुरुषस्य वा मतं स्त्रियायोपसंहरेय जायत्ततेन वा जारत्ततेन वा अन्तमसतो तत्क्षणीकानि पि अयं धर्मो प्रथमापत्तिको संघातिशेषो [(वा?)] उपादिशेषो संघो संघम् एवाधिपति कृत्य निःसरणीयो ।
संघातिशेषधर्म 2
अमुलकः द्वे अभूते तथैव कर्तव्या यथा भिक्षूणां । यावत् तेन भगवान् आह ।
या पुन भिक्षुणी दुष्टाद् दोषात् कुपिता अनात्तमना शुद्धां भिक्षुणीम् अनापत्तिकां अमूलकेन पाराजिकेन धर्मेणानुध्वंसये अप्य् एव नाम्ऽ एनां ब्रह्मचर्यातो च्यावेयन् ति सा तद् अपरेण समयेन समनुग्राहियमाणा वा असमनुभाषियमाना वा अमूलकम् एतम् अधिकरणम् भवति भिक्षुणी च दोषे प्रतिष्ठिहति दोषा अवचामीति अयम् पि वर्गे प्रथमापत्तिको संघातिशेषो यावत् ।
लेशमात्रकं
तेन भगवान् आह । या पुन भिक्षुणी दुष्टा दोषात् कुपिता अनात्तमना अन्यभागियस्य चाधिकरणस्य किञ्चि देशं लेशमात्रकं धर्मं उपादाय अपराजिकां भिक्षुणीं पाराजिकेन धर्मेणानुध्वंसये अप्य् एव नामैनां ब्रह्मचर्या च्यावेयन् ति सा तद् अपरेण समयेन समनुग्राहियमाणा वासमनुभाषियमाना वा अन्यभागीयम् एव तम् अधिकरणं भवति अन्यभागीयस्य चाधिकरणस्य किञ्चि देश लेशमात्रको धर्मो उपादिन्नो भवति भिक्षुणी च दोषे प्रतिष्ठिहति दोषा अवचामीति संघातिशेषो ।
संघातिशेषधर्म 4
उस्सयवादा
139. भगवाञ् छ्रावस्तीयं विहरति । तंहि दानि भिक्षुणीविहारो च तीर्थिकशय्या च । कन्थान्तरिका । सा कन्था पतिता । तंहि दानि भिक्षुणीविहारे । स्थूलनन्दा नाम भिक्षुणी आवासिकिनी । सा दान् आह । तीर्थिका करोथैतां कन्थां । यूयं आह्रीकअनपत्रापिणो ह्रीरपत्राप्य निपन्नाः । आर्यमिश्रिकाः ह्रीरपत्राप्य सम्पन्नाः काले च विकाले च मर्मां प्रविशन्तां निष्क्रामन्तां दृष्ट्वा भविष्यति चित्तस्योपक्लेशो । ते दान् आहंसुः । अयं वर्षारात्रो यदा वर्षा निर्गता भविष्यन्ति तदा करिष्यामः । सा दान् आह । इदानीम् एव करोथ । ते न कुर्वन्ति । सा दानि आक्रोशति भ्रष्टायूः नष्टायूः भग्नाशा सुराभ्रष्टा यानगर्दभा न करिष्यथ । कथम् नग्नाः । आह्रीकअनोपत्रापिणो ह्रीरपत्राप्य विपन्ना मिथ्यादृष्टिका विनिपातिताः । करोथैतां कन्थां । ते दान् आहंसुः इतिकितिकाय धीते वडडिङ्गरपुष्टे श्रमणिके यदि मरसि न करोम एतां कन्थां ।
140. ताय दानि गत्वा आसने निवेदितं । एतद् एव सर्वम् आरोचयित्वाह दीर्घायु यथा सा कन्था क्रियते तथा करोथ । आसनिका श्राद्धा प्रसन्ना । ते दान् आहंसुः शब्दापयथ मिश्रस्थान् । ते दानि शब्दापिताः । ते आसनिका आहंसुः । हे इतिकितिकाय पुत्राः तीर्थिनग्नाः सुराभ्रष्टा यानगर्दभाः मिथ्यादृष्टीक विनिपातिताः । गच्छथ तां कन्थां करोथ । यूयम् अह्रीका अनोत्रापिणो आर्यमिश्रिका ह्रीरपत्राप्य सम्पन्नाः । तेषां युष्माकं काले च विकाले च निष्क्रामन्तां प्रविशन्तां दृष्ट्वा आर्यमिश्रिकाणां ब्रह्मचारिणीनां भविष्यति चित्तस्यान्यथात्वं तेहि दानि आसनिकेहि नियुक्ताः अकामका कार्यन्ते । ते दिवसतो कन्थाम् उत्थापयन्ति । रात्रौ च वर्षेण पातीयति । तेषां दानि त्रेमासं कर्म कुर्वन्तानां गतं । ते दान् आहंसुः । इमाय इतिकितिकाय धीतरे वडडिङ्गरपुष्टाय श्रमणिकाय मृत्तिकाकर्म करियामः । उपासककुलेहि अवध्यायन्ति पश्यथ गृहपतयो युष्माकं दक्षिणीय श्रमणिकाय अस्ति मे चलन् ति कृत्वा त्रेमासं अकामका कर्म कारापिता । एतं प्रकरणं उपासका कुलोपिकानां भिक्षुणीनाम् आरोचयन्ति । भिक्षुणीयो पि महाप्रजापतीये गौतमीये आरोचयन्ति । महाप्रजापती गौतमी भगवतो आरोचयति । भगवान् आह । शब्दापयथ नन्दां । सा दानि शब्दापिता । सत्यन् नन्दे ति । पेयालं । यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी उत्सयवादा विहरेया आगारिकपरिव्राजकेहि दिवसम् वा मुहूर्तम् वा अन्तमसतो आरामिकश्रमण्ऽउद्देशेहि सार्धम् अयम् पि धर्मो प्रथमापत्तिको ।
या पुनर् भिक्षुणीति उपसम्पन्ना । उत्सयवादा विहरेया ति कलहं करेय । आगरिकेहीति गृहिकेहि । परिव्राजिकेहीति गौतमजटिलकपर्यन्तेहि । दिवसं ति सुर्याकं दिवसं । मुहूर्तं ति तत्क्षणं तन्मुहूर्तं । अन्तमसतो आरामिकेहीति संघोपस्थायकेहि । श्रमण्ऽउद्देशकेहीति पञ्चदशवर्षान् उपादाय यत सप्ततिकाः । सार्धम् विहरेय । अयम् पि धर्म प्रथमापत्तिको संघातिशेषो ।
संघो ता नाम वुच्चन्ति अष्ट पाराजिका धर्माः । तेषाम् इयम् आपत्तिः सावशेषा सप्रतिकर्मा । संघातिशेषन् ति संघातिशेषाये आपत्तीये संकाषना प्रकाशना विवरणा विभजना उत्तानीकर्मता प्रज्ञप्तिः ।
सा एषा भिक्षुणी राजाकुले वा आसने वा निवेदयति थूल्ऽ-अच्चयं । आकार्षापयति संघातिशेषः । उपासककुले वा श्राद्धकुले वा निवेदयति विनयातिक्रमः । उज्झापयति सम्वरगामिवि । भिक्षुर् अपि राजकुले निवेदयति विनयातिक्रमम् आसादयति । ओज्झापयति सम्वरगामिवि । तेन भगवान् आह ।
या पुन भिक्षुणी उत्सयवादा विहरेय आगारिकपरिव्राजकेहि दिवसम् वा मुहूर्तम् वा अन्तमसतो आरामिकश्रमण्ऽउद्देशेहि सार्धम् आपत्तिः धर्मो प्रथमापत्तिको ॥
संघातिशेषधर्म 5 ग्रामान्तरं
141. भगवां च्छ्रावस्तीयम् विहरति । तंहि दानि राष्ट्रा नाम भिक्षुणी । तस्या एव राष्ट्रपाला नाम भगिनी कुग्रामके वूढा । सा तावद् अनज्जिका । सा प्रेषयति । आर्ये राष्ट्रे आगच्छ यदि माम् इच्छसि जीवन्तीं पश्यितुं । सा तहिं गता । सा च कालगता । सो दानि भगिनीपतिको परिदेवति । आर्ये राष्ट्रे यन् ते भगिनी कालगता का तावद् इमं दारकं परिहरिष्यति का तावद् इमं मम गृहं प्रतिजागरिष्यति । आर्याय राष्ट्राय वयं प्रतिजागृतव्याः । ताये दानि भवति पापकाः खलु वाता वायन्तीति । सा निष्क्रमित्वा स्रावस्तीम् आगता । सा भिक्षुणीनाम् आह । आर्यमिश्रिकायो मनास्मि ब्रह्मचर्यातो च्याविता । आहंसुः । किम् वा कथम् वा । एतद् एव विस्तरेणारोचयति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति । महाप्रजापती पि गौतमी भगवत आरोचयति । भगवान् आह । शब्दापयथ राष्ट्रां । सा दानि शब्दापिता । तद् एव सर्वं विस्तरेण पृच्छीयते । यावद् आम् भगवन् । भगवान् आह । एवं च नाम त्वं भिक्षुणीय विना अध्वानमार्गं प्रतिपद्यसि । तेन हि न क्षमति यावच् छिक्षापदं प्रज्ञप्तं ।
142. एषा एवार्थोत्पत्तिः । भिक्षुणीयो अध्वानमार्गं गच्छन्ति । अपरा दानि भिक्षुनी प्रासादिका दर्शनीया तरुणी उच्छ्वासकारी वा प्रश्वासकारि वा मार्गातो उत्क्रमित्वा उपविष्टा । पुरुषसार्थो च आगच्छति । सा तेहि परिवारिता । ते दान् आहंसुः । आर्या प्रासादिका दर्शनीया तरुणी प्रत्यग्रयौवने वर्तसि । कामाः । परिभोक्तव्याः । सा त्वं किं प्रव्रजिता । को वा ते निर्वेद इति । आह । प्रव्रजितास्मि ।
आहंसुः । आचक्ष्व तावत् यावत् ते तद् अनन्तरं परिवारिय धारेन्ति । तावत् तायो भिक्षुणीयो ग्रामान्तरङ् गताः । ताये दानि कौकृत्यम् उत्पन्नं । सा महाप्रजापतीये गौतमीये आरोचयति । महाप्रजापती गौतमी भगवत आरोचयति । भगवान् आह । तेन हि आपत्तिः अकामिकायेति ।
143. एषैवार्थोत्पत्तिः । भिक्षुणीयो अध्वानमार्गं गच्छन्ति । अपरा दानि भिक्षुणी ग्लाना । सा विना भिक्षुणीहि ग्रामान्तरम् उत्क्रान्त । ताये दानि कौकृत्यं कृतं कौकृत्येन महाप्रजापतीये आरोचयति । महाप्रजापती गौतमी भगवत आरोचयति । भगवान् आह । अनापत्तिः ग्लानायेति । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमीति । पेयालं ।
या पुन भिक्षुणी भिक्षुणीय विना अध्वानमार्गं प्रतिपद्येय अन्तमसतो ग्रामान्तरम् पि अन्यत्रसमये तत्रायं समयो अकामिका भिक्षुणी भवति ग्लानिका वा । अयम् अत्र समयो । अयम् पि धर्मो प्रथमापत्तिको ।
या पुन भिक्षुणीति । पेयालं । भिक्षुणीय विनेति अद्वितीया । अध्वानमार्ग त्रियोजनं द्वियोजनम् त्रियोजनम् । अन्तमसतो ग्रामान्तरम् वा । अकामिका ति हस्ति कडेवरेण अश्वकडेवरेण गोकडेवरेण वा मनुष्यकडेवरेण वा आवृता भवति । ग्लानिकेति जरादुर्बला वा व्याधिदुर्बला वा भवति । प्रत्युद्धृतं भगवता पदं अनापत्ती ग्लानाय । अयम् अत्र समयो । एता दानि भिक्षुणीयो अध्वानमार्गङ् गच्छन्ति यावता अन्तोसीमाङ् गच्छन्ति किञ्चापि दूरं दूरं गच्छन्ति अनापत्तिः । अथ दानि ग्रामान्तरम् वा नगरान्तरम् वा गच्छन्ति कान्तारमार्गम् वा अतिक्रामन्ति । अन्तो हस्तपाशस्थिताहि अतिक्रामितव्यं । परं हस्तपाशं गच्छन्ति । अन्तमसतो चतुरङ्गुलम् पि देशनागामिविनयातिक्रमम् आसादयति । अध्यर्धम् वा द्विहस्तम् वा गच्छन्ति थूल्ऽ-अच्चयम् आसादयति । अथ दानि एका भिक्षुनी आगत्वा सीमान्तरे तिष्ठति थूल्ऽ-अच्चयम् आसादयति । अपरा आगत्वा अतिक्रामति इमं सीमान्तरन् ति एवं यत्तिका अतिक्रामन्ति सर्वासां थूल्ऽ-अच्चयं । तेन भगवान् आह ।
या पुन भिक्षुणी भिक्षुणीय विना अध्वानमार्गं प्रतिपद्येय अन्तमसतो ग्रामान्तरम् पि अन्यत्रसमये । तत्रायं समयो अकामिका भिक्षुणी भवति । ग्लानिका वा । अयम् अत्र समयो । अयम् पि धर्मो प्रथमापत्तिको ।
ग्रामान्तरं एकरात्रं पि
144. भगवान् राजगृहे विहरति । तत्र दानि कर्मकारपुत्रः श्रद्धाप्रसन्नः । तस्य भार्या शुक्ला नाम कर्मारधीता प्रासादिका दर्शनीया । अथ भगवान् कालस्यैव निवासयित्वा पात्रचीवरम् आदाय राजगृहं पिण्डाय प्रविष्तः । सावदानम् पिण्डाय चरन्तो तस्य गृहं गतो उद्देशे स्थितः । सो दानि भुञ्जति । सा परिविशन्ती आवृत्य स्थिता । मा भगवन्तम् दृष्ट्वा विप्रकृत उत्थास्यतीति । तस्य दानि भवति किन् तावद् इयम् आवृत्य तिष्ठति । भगवता पि वैनेयवशेन प्रभा ते उत्सृष्टा । तेन चावलोकितं । तेन भगवान् दृष्टो । सो दान् आह । अये हि अस्ति नाम त्वं मम भगवन्तम् आवारयसि । अनर्थकामा त्वं । मम न त्वम् अर्थकामा । सा दान् आह नाहम् आर्यपुत्रस्य अनर्थकामा । भगवन्तम् आराधयामि । अपि तु मा विप्रकृतो भगवन्तम् दृष्ट्वा उत्थास्यसीति । ताये दानि भवति धिग् अस्तु मम गृहावासस्य । यत्र हि नाम प्रियं करिष्यामीति । अप्रियम् उक्ता । सा दान् आह आर्यपुत्र गच्छाम्य् अहं । पर्व्रजामि । सो दान् आह । कस्मिन् प्रवचने । आह । बौद्धे । आह । प्रव्रजाहीति ।
145. सा दानि उत्पलवर्णाय प्रव्रजिता उपसम्पादिता । ताय दानि अष्टाहेन प्रव्रजिताय युञ्जन्तीय व्यटयन्तीय व्यासयन्तीय तिस्रो विद्याः षडभिज्ञाः । बलवशीभावः साक्षीकृतो । सा दानि बलवशीभावप्राप्ता । अन्यतरं वृक्षमूलं निश्रयोपनिषण्णा । ताये दानि शक्रो ऽमरसंघपरिवृत्तो पादवन्दो आगतो । आह ।
इमां पश्यथ धर्मस्थां शुक्लां कर्मारधीतरं । अद्य अष्टाहप्रव्रजिता कृतकृत्या निराश्रवा ॥ [1] ॥
सुविनीतोत्पलवर्णा मार्गे आर्य प्रविशते । त्रैविद्या ऋद्धि च प्राप्ता चेतोपर्यायकोविदा ॥ [2] ॥
महर्द्धिका भिक्षुणी ता विजिता इन्द्रियाणी च । निषण्णा वृक्षतलंमि अनिञ्जेन समाधिना ॥ [3] ॥
तां शक्रो ऽमरसंघेन उपसंक्रम्य वासवो । नमस्यत्य् अञ्जलीभूतो शुक्लां कर्मारधीतरं ॥ [4] ॥
सा मधुरभाषिणी गृहेण गृहं नीयते । अपरेण दानि उपासकेन महार्हेण पटेन छादिता । अन्तरीक्षाद् देवता वाचं निश्चारयन्ति ।
लक्ष्मीवान् अयम् उपासको पुण्यम् प्रभूतम् अनल्पकं । सर्वग्रन्थप्रहीणाये शुक्लाये अदासि चीवरं ॥ [5] ॥
किं राजगृहे मनुष्या मधुमत्तावतिष्ठन्ति । ये शुक्लान् न पर्युपासन्ति दैवसिकान् धर्मान् उत्तमा ॥ [6] ॥
तं आसेचनकं शान्तं ते वै अप्रतिवाणीयं । आज्ञेयरूपो विज्ञेहि बालेहि अविजानियो ॥ [7] ॥
सा दानि गृहेण गृहं भाषणाय नीयति । ताये दानि लाभसत्कारश्लोको ऽभ्युद्गतः । ताये दानि भिक्षुणीयो इर्ष्यापत्तिः । लाभसत्कारम् असहमाना ता दान् आहंसुः । भञ्जनं एताय कृतं । ततो ऽस्याः सर्वो जनकायो श्रोतव्यं श्रद्धातव्यम् मन्यति । तायो दानि भगवतो अल्लीना । एताय भगवन् जम्भनं साधितं । भगवान् आह । सत्यं शुक्ले एवं नाम त्वया जम्भनं साधितं । तेन ते जनो श्रोतव्यं मन्यति । आह । अहं भगवान् जम्भनं न जानामि । कुतो जम्भनं साधयि ष्यामि । भगवान् आह । न एताय जम्भनं साधितं । अपि तु अस्याः प्रणिधानं इदं ।
146. भूतपूर्वम् अतीते ऽध्वानं नगरे वाराणसीयं भगवति काश्यपे तत्र दानि राजा कृकी नामाभूत् । तस्य सप्त धीतरो अभूषि ।
श्रमणा [1] श्रमणिमित्रा [2] भिक्षुणी [3] भिक्षुणीदासिका [4] । धर्मा चैव [5] सुधर्मा च [6] संघदासी च सप्तमा [7] ॥ [1] ॥
चतुर्दशीम् पञ्चदशीं या च पक्षस्य अष्टमी । प्रातिहारकपक्षञ् च अष्टाङ्गं सुसमाहिता ॥ [2] ॥
पोषधम् उपोषधन् ति सदा शिलेन संवृता ॥ काशिनाञ् च मनापो आसि भद्रको नाम मानवो ॥ [3] ॥ कुशलो नृत्त गीतस्मिं तन्त्रीनृत्तप्रबोधने । क्रीडायेति रमायेति जनन् तत्र समागतं ॥ [4] ॥
तं च कालगतं ज्ञात्वा सर्वास् ताः सप्त कुमारियो । प्रासादिका दर्शनीयाः राज कन्याः समागताः ॥ [5] ॥ राजानम् उपसंक्रम्य इदं वचनम् अब्रवीत् ॥ [6] ॥ आपृच्छाम वयं तात कशीनां राष्ट्रवर्धन । अनुजानातु मो देव श्मशानं यामं प्रेक्षितुम् ॥ [7] ॥
अद्य पञ्चदशी देव दिव्या नक्षत्र मालिनी । अनुजानातु मो नाथ श्मशानं यामं पश्यितुं ॥ [8] ॥
उत्रासनभीषणके दुर्गन्धे लोमहर्षणे । आरोदने मनुष्यानां श्मशाने किं करिष्यथ ॥ [9] ॥
यत्र भे अपेतविज्ञाना परभक्षा अचेतना । अपविद्धा मृता शेन्ति श्मशाने बहुभीषणे ॥ [10] ॥
यत्र गृध्रा शृगालाश् च काकोलूकास् तथा वृकाः । अङ्गमङ्गानि खादन्ति श्मशाने बहुभीषणे ॥ [11] ॥
यत्र गृध्रा शृगालाश् च काकोलूकास् तथा वृकाः> । अस्त्रान् आदाय गच्छन्ति श्मशाने किं करिष्यथ ॥ [12] ॥
यत्र अस्थीनि दृश्यन्ते विक्षिप्तानि दिशोदिशं । तिष्ठन्ति शङ्खवर्णानि श्मशाने किं करिष्यथ ॥ [13] ॥
शूलायुतानि दृश्यन्ते अशुचि खेटगन्धिका । केशानाम् आकरे रौद्रे श्मशाने किं करिष्यथ ॥ [14] ॥
धूर्ताचारिकविकीर्णे चौरव्यालनिषेविते । दुर्मनुष्यान आवासे श्मशाने बहुभीषणे ॥ [15] ॥
अमनुष्यान आवासे राक्षसानान् निवेशने । सर्वप्रेतान आवासे । श्मशाने बहुभीषणे ॥ [16] ॥
ते सुकुमाल्याभरणा मणिकेयूरधारिणो । बाहं प्रगृह्य क्रन्दन्ति श्मशाने बहुभीषणे ॥ [17] ॥
ते सुकुमाल्याभरणा मणिकेयूरधारिनो । केशा प्रकीर्य क्रन्दन्ति श्मशाने भयभैरवे ॥ [18] ॥
यत्र माता पिता भ्राता भगिनी ज्ञातिबान्धवाः । दुर्मना यत्र निवर्तन्ते श्मशाने भयभयानके ॥ [19] ॥
यत्र माता पिता भ्राता भगिनीज्ञातिबान्धवाः । अनापृच्छति वर्तन्ते श्मशाने ऽतिभयानके ॥ [20] ॥
पाणिय हाह निर्घोषे ज्ञातीनां परिदेवने । पूतिविकन्थिते घोरे श्मशाने ऽतिभयानके ॥ [21] ॥
व्यजनीतालवृन्तानि विक्षिप्तानि दिशोदिशं । चिताधूमाकुले रौद्रे श्मशाने किं करिष्यथ ॥ [22] ॥ अयं प्रासादवरो कूटागारो सुनिर्मितो । [22अ] यत्र अन्नञ् च पानञ् च रतीयो च उपस्थिताः । अत्र रमथ कन्यायो श्मशाने किं करिष्यथ ॥ [23] ॥
इमां पुष्किरिणीं रम्यां चक्रवाकोपशोभितां । पुण्डरीकैः सुसंछन्नां कुमुदसौगन्धिकेहि च ॥ [24] ॥
नानाद्विजगणाकीर्णा नाना स्वरनिकूजिताः । अत्र रमथ कन्यायो श्मशाने किं करिष्यथ ॥ [25] ॥
कुमार्यो आहंसुः ।
वयं पि तात जानामो श्मशाने भयभैरवे दुर्गन्धं कुणपं चैव कोविदारं च पुष्पितं ॥ [1] ॥
वयम् अपि तातं जहिष्यामो ततो ऽप्य् अस्मां जहिष्यति । नानाभावो विना भावो न चिरेण भविष्यति ॥ [2] ॥
राजा आह । दुःखसंज्ञा कुमारीयो [.........................] । अवव्याबाध्येन चित्तेन प्रविशेषातिमुक्तकं ॥ [3] ॥
अनुज्ञाता कृकिणा राज्ञा निर्याताः काशीनां पुरात् । सर्वास् ताः रथम् आरुह्य गताः श्मशानप्रेक्षिकाः ॥ [4] ॥
तायो अद्दशंसु मार्गस्मिं [उत्सृष्टं ?] उज्झितं शवं । दुर्गन्धिम् अशुचिं [ः] विधवस्तञ् च विनीलकं ॥ [5] ॥
तायो यानाद् अवतरित्वान सर्वाः सप्त कुमारियो समन्तात् परिवारेत्वा इदम् वचनम् अब्रवीत् । सर्वासां वो अयन् धर्मः सर्वीषा एष धर्मता । एष अस्य शरीरस्य सर्वा गाथां करोमहे ॥ [6] ॥
अयम् पुरा चन्दनलिप्तगात्रो अवदातावस्त्रो वशितानुचारि । छायं कुलञ् च अवेक्षमानो सो खज्जते शिवपथिकाय मध्ये ॥ [7] ॥
अस्थिकङ्कालनगरं मांसशोणितलेपनं । यत्र रागस्य दोषस्य मोहस्यापि समूह यः ॥ [8] ॥ इमम् नगरम् उत्सृज्य नागरीशो कहिं गतः ॥ [9] ॥ यो द्विचक्रं द्विअरञ् च इमं परिहरेद् रथं । इमं रथं समुत्सृज्य शारथी सो कहिं गतः ॥ [10] ॥
ऊर्ध्वशाखम् अधो मूलं य इमं परिहरे ध्वजं । इमं ध्वजं समुत्सृज्य धवजहारो सो कहिं गतः ॥ [11] ॥
य इमं परिहरेत् कायं अश्वं भद्रम् च वाणिजो । इमं कायं समुत्सृज्य वाणिजो सो कहिं गतः ॥ [12] ॥
य इमां परिहरेन् नावं अस्मिमाने महार्णवे । इमान् नावं समुत्सृज्य नाविको सो कहिं गतः ॥ [13] ॥
यो ऽयम् अस्मिन् आगारे वासं कल्पेय अध्वगः । इमम् आगारं समुत्सृज्य अध्वगो सो कहिं गतः ॥ [14] ॥
मम गाथा सुभणिता मम गाथा सुभणिता । ता अन्योन्यं विवर्तन्ति श्मशाने अतिमुक्तके ॥ [15] ॥
ततश् च मघवान् छक्रो देवराजः शचीपतिः । सम्वेगजातास् ताः कन्याः दृष्ट्वा ता उपसंक्रमेत् ॥ [16] ॥
सर्वासां वो सुभाषितं सर्वासां वो सुभणितं । वरं वरेथ कन्यायो यत् किञ्चिन् मनसेप्सितं ॥ [17] ॥
को नु दिव्येन वर्णेन अन्तरीक्षस्मि तिष्ठति । को वा त्वं कस्य वा पुत्रः कथं जानाम ते वयं ॥ [18] ॥
अहं शक्रः सहस्राक्षो मघवान् देवकुञ्जरः । यां देवसंघा वन्दन्ति सुधर्मायां समागताः ॥ [19] ॥
अहं शक्रः सहस्राक्षो देवराजा शचीपतिः । वरं वरेथ कन्यायो यत् किञ्चिन् मनसेप्सितं ॥ [20] ॥
शक्रश् च वो वरं दद्यात् त्रयस्त्रिंशेश्वरः प्रभूः । वरं वरेथ कन्यायो क्षिप्रं व्याहरतो मम ॥ [21] ॥
148. कुमार्यो आहंसुः ।
यस्य मूले छविर् नास्ति पत्रन् नास्ति कुतो लता । यो धीरो बन्धनान् मुक्तः तन् मे शक्र वरं दद ॥ [1] ॥
पांसु कूलधरं भिक्षुं कृशन् धर्मनिमन्त्रितं । ध्यायन्तं वृक्षमूलस्मि तन् मे शक्र वरं दद ॥ [2] ॥
यस्य रागश् च दोषश् च अविद्या च प्रदालिता । क्षीणास्रवम् अर्हन्तं (!) तन् मे शक्र वरं दद ॥ [3] ॥
यस्य शैलोपमं चित्तं स्थितन् न अनुकम्पति । यो विमुक्तिं संजानेया तन् मे शक्र वरं दद ॥ [4] ॥
यस्या उरे च पारे च मध्ये नास्ति न किञ्चन । अकिञ्चनम् अदानं च तन् मे शक्र वरं दद ॥ [5] ॥
वारि पुष्करपत्रे वा आराग्रे इव सर्षपः । यो न लिप्यति कामेषु तन् मे शक्र वरं दद ॥ [6] ॥
बहुश्रुतं चित्रकथं बुद्धस्य परिचारकं । पर्णभारविसंयुक्तं तन् मे शक्र वरं दद ॥ [7] ॥
शक्र आह ।
नाहम् अर्हन्तम् ईशेमि नाहम् अर्हन्तेष्व् ईश्वरः । अन्यं वरेथ कन्यायो अपि चन्द्रमसूर्ययोः ॥ [8] ॥
कुमार्यो आहुः ।
अस्वामिको स्वामिकामो अवरं वरदायको । अस्वामिको वरं दत्त्वा कथं शक्र करिष्यसि ॥ [9] ॥
उभौ कूलौ असंप्राप्तः अतीर्थे प्रतरेन् नदीम् । एष शक्र विषण्णो सि पण्केवासि जरद्गवः ॥ [10] ॥
शक्र आह ।
उपासिका वो कन्यायो अपि च ये उपासका । धर्मेण वो अहं भ्राता अनुजानामि वो वरं ॥ [11] ॥
कुमार्यो आहंसुः ।
नैव ते शक्र याचामो नापि उन्नोदयाम ते । स्वयम् एव शक्र जानाहि किं वरेण कुमारिणां ॥ [12] ॥
149.अथ भगवान् तासां भिक्षुणीनां पूर्वे निवासप्रतिसंयुक्तां प्रतिज्ञाकथां व्याकार्षीत् ।
कदाहं वीणां वा मधुरां सप्ततन्त्रीयुतां मनोरमाम् । धर्मं प्रव्याहरिष्यामि तत् कदा नु भविष्यति ॥ [1] ॥
समन्वाहरसि शुक्ले । एवं ह्य् एतद् भगवन् । एषापि तत्रैवासि । एताये प्रणिधानम् अभूषि । अपरापि तत्रैवासि । ताम् अपि भगवान् व्याकार्षीत् ।
कदाहं गङ्गायमुनाय च पातालपथोदकं । अमज्जमाना गमिष्याम तत् कदा नु भविष्यति ॥ [2] ॥
समन्वाहरस्य् उत्पलवर्णे । एवं ह्य् एतद् भगवन् एषापि तत्रैवासि । एतस्याप्य् एतं प्रणिधानम् अभूषि । अपरापि तत्रैवासि । ताम् अपि भगवान् व्याकार्षीत् ।
कदाहं पांसुकुलानि संहरित्वा मया पथे । संघाटीं कृत्वा धारयिष्यं तत् कदा नु भविष्यति ॥ [3] ॥
कदाहं गिरिदुर्गेषु प्रहीणभयभैरवा । चित्तं ऋजुं करिष्यामि तत् कदा नु भविष्यति ॥ [4] ॥
समन्वाहरसि पटच्चरे । एवम् ह्य् एतद् भगवन् । एषापि तत्रैवासि । एतस्याप्य् एतं प्रणिधानम् अभूषि । अपरापि तत्रैवासि । ताम् अपि भगवान् व्याकार्षीत् ।
कदाहं मुण्डकं शीर्षं क्षुरधारानिषेवितं । पाणिना परिमार्जिष्यं तत् कदा नु भविष्यति ॥ [5] ॥
कदाहं हेमन्तिकां रात्रिं ओवृष्टआर्द्रचिवरा । पिण्डपातं चरिष्यामि कदा नस् तद् भविष्यति ॥ [6] ॥
समन्वाहरसि कृशगौतमि । एवम् एतद् भगवन् । एषापि तत्रैवासि । एतस्या प्रेतं प्रणिधानम् अभूषि । अपरापि तत्रैवासि । ताम् अपि भगवान् व्याकार्षीत् ।
कदाहं तारकराजा व (!) नक्षत्रपरिवारिता । संघं परिहरिष्यामि तत् कदा नु भविष्यति ॥ [7] ॥
कदाहं चन्द्रो च विमलो विप्रसन्नो अनाविलो । शुद्धं चित्तं अधिष्ठिहिष्यं तत् कदा नु भविष्यति ॥ [8] ॥
समन्वाहरसि महाप्रजापति । एवं ह्य् एतद् भगवन् । एषापि तत्रैवासि । एतस्याप्य् एतत् प्रणिधानम् अभूषि । अपरापि तत्रैवासि । ताम् भगवान् व्याकार्षीत् ।
कदाहं विहारं शरण्यं [.......] साधु निष्ठितं । संघे दानानि दास्यामि तत् कदा नु भविष्यति ॥ [9] ॥
कदाहं मञ्चम् वा पीठम् वा बिसि चतुरस्रकाणि वा । संघे दानानि दास्यामि तत् कदा नु भविष्यति ॥ [10] ॥
कदाहं कासिकं वस्त्रं क्षौमकोटुम्बकानि च । संघे दानानि दास्यामि तत् कदा नु भविष्यति ॥ [11] ॥
कदाहं सुम्भकं पात्रं सुकृतं साधु निष्ठितं । संघे दानानि दास्यामि तत् कदा नु भविष्यति ॥ [12] ॥
कदाहं विविधान् भक्षान् नानारसानुसेवितान् । संघे दानानि दास्यामि तत् कदा नु भविष्यति ॥ [13] ॥
कदाहं शालिनाम् ओदनं शुचिमांसोपसेवनं । संघे दानानि दास्यामि तत् कदा नु भविष्यति ॥ [14] ॥
150. तत्र तासां भिक्षुणीनां चक्षुर् गोचरं नास्ति । यां जानेसुः । तायो आहंसुः । का पुन सा भगवन् आसि । भगवान् आह । विशाखा मृगारमाता ।
तेन कालेन तेन समयेन अपरा ह्य् एता भिक्षुणीयो कृकिणो राज्ञः सप्त धीतरो अभूषि । अथ शुक्ला भिक्षुणी गृहेण गृहं भाषणाय नीयति । सा दानि अपरेण गृहभाषणाय नीता भिक्षुणीहि विप्रवुस्ता । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः महाप्रजापती गौतमी भगवतो आरोचयति । भगवान् आह । शब्दापयथ शुक्लां । सा दानि शब्दापिता । भगवान् । आह । सत्यं शुक्ले । एवं नाम त्वं भिक्षुणीभिर् विना विप्रवससि । तेन हि न क्षमति भिक्षुणीहि विना विप्रवसितुं एकां रात्रिम् पि ।
151. एषैवार्थोत्पत्तिः । भगवाञ् छ्रावस्तीयं विहरति । विस्तरेण निदानं कृत्वा । भिक्षुणीयो दानि अध्वानं गच्छन्ति । तहिन् दानि अपरा भिक्षुणी जरादुर्बला व्याधिदुर्बला सार्थात् परिहीणा । सा रात्रिं विप्रवुस्ता । ताय दानि कौकृत्यं कृतं । कौकृत्येन भिक्षुणीनां विस्तरेणारोचयति । यावत् महाप्रजापती पि गौतमी भगवतो आरोचयति । भगवान् आह । तेन हि अनापत्तिः ग्लानाय ।
152. एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयं विहरति । विस्तरेण निदानं कृत्वा । कापिलवास्तव्येहि शाकियेहि संस्थागारः कारापितः । न चो अचिरनिष्ठितः । तेहि दानि तहिं रक्षपालाः स्थापिताः । न कस्यचित् प्रवेशो दातव्यो ति भगवान् प्रथमं परिभोक्ष्यति । पश्चाद् वयं परिभोक्ष्यामो ति । अथ राज्ञः प्रसेनजितः कोशलस्य पुत्रो विरूढको नाम कुमारः कपिलवस्तुं गतको मातुलानाम् अन्तिके शिक्षामाणाय । सो दानि तेहि रक्षपालेहि प्रमत्तेहि संस्थागारं प्रविष्टः क्रीडनाय । सो दानि तेहि रक्षपालेहि अन्येहि च शाकियेहि दृष्टो । ते दानि रुषिता इतिकितिकाय पुत्र दासीपुत्र कहिं प्रविष्टो ऽसि ति । ओचपेटितः । एकेन हस्तेन बाहायां गृहीत्वा द्वितीयेन हस्तेन ग्रीवायां संस्थागाराद् बहिश् छोरितः । विरूढको उत्कण्ठितः । तं दानि तेहि शाकियेहि संस्थागार पुरुषमात्राभूमिं खानापयित्वा नवेन पांसुना पूरयित्वा गन्धोदकेन सिक्तः । विरूढकेन श्रुतं । स सुतरां रुषितः । आघातचित्तम् उत्पादितवान् । यद्य् अहं राज्यं प्रतिलभेयं शाकियानां निधनं करिष्ये । सो दानि श्रावस्तीयम् आगतः । तस्य दुःखशायी नाम बटुकः सेवको । सो दानि तस्याह । यदाहं राज्ये प्रतिष्ठितो भवेयं तदा मे स्मारयिष्यसि शाकियानाम् अन्तम् गमिष्यं । रात्रि त्रिवन्तम् एव वैरम् अनुविचितयति । कदाचि दानि राजा प्रसेनजित् कोशलो उद्यानभूमिन् निर्गतः । तञ् च विरूढकेन नगरद्वारं बन्धापितं । शङ्खा आध्मास्यन्ति घुष्यन्ति । विरूढको राजा विरूढकस्य राज्यम् इति । राजा प्रसेनजित् कोशलो न भूयः प्रवेशं लभति । विरूढकेनामात्यानां दूतो प्रचितो । यस्य भवन्तो गृहेणार्थः पुत्रदारेण चार्थः स
प्रविशतु नगरं । एवम् अक्रियमाणे युष्माकं पुत्रदारं व्यसनम् आपादयिष्यामीति । अमात्या राजानं पृच्छन्ति । किम् आज्ञापयति देवो युध्यामः । राजा ब्रवीति । मा युध्यन्तु भवन्तः । इदानिम् वा पश्चाद् वा एतस्यैव एतं राज्यं गच्छथ । एतस्यैव आजानथ । मा पश्चाद् युष्माकं दुःखं उत्पादयिष्यति । ते एकद्विकाय नगरं प्रविष्टाः । राजा दानि आत्मतृतीयो, उद्यानभूमीयं संस्थितो पानीयपालो मल्ली च राजा दृष्टसत्यो न परितस्यति । वस्तु विस्तरेण कर्तव्यं । यावत् विरूढको मात्यान् आमन्त्रयति । यो दानि भणे राजानं क्षत्रियं जुगुप्सेय तस्य किं दण्डः । आमात्या आहंसुः । वधो महाराज । राज आह । पूर्वम् अहं कुमारभूतः शाकियानां संस्थागारं प्रविष्टः तेहि मम जुगुप्साय संस्थागारं पुरुषसंस्थागारं पुरुषमात्रं खानापयित्व पांसुना पूरयित्वा क्षीरगन्धोदकेन भित्तियो तायो धोवितायो? मया तेषां वैरं प्रतिकर्तव्यं यदि भगवांस् तेषां नानुकम्पति । अथ भगवान् अनुकम्पति । नाहं शक्ष्यामि किञ्चित् प्रतिकर्तुं । आमात्या आहंसुः । श्रूयते महाराज । श्रमणो गौतमो वीतरागः । वीतरागश् च ज्ञातीनां निरपेक्षा भवन्ति । उद्युज्यन्तु महाराज । शक्ष्याम वयं तेषां निग्रहीतुं । भगवान् दानि विरूढकस्य इमम् एवं रूपं चेतः परिवितर्कम् आज्ञाय कालस्यैव निवासयित्वा पात्रचीवरम् आदाय श्रावस्तीये नगरीये पिण्डाय चरित्वा अन्यतरं शाखोटवृक्षं निश्राय निषीदति स्म । अथ खलु राजा विरूढको चतुरङ्गबलकायं सन्नाहयित्वा हस्तिकायं अश्वकायं रथकायं पत्तिकायं श्रावस्त्यां नगर्यां निर्याति कपिलवस्तुं नगरं संप्रस्थितः । अद्राक्षीद् राजा विरूढको भगवन्तं
शाखोटकवृक्षं निश्राय निषण्णं दृष्ट्वा च पुन येन भगवांस् तेन हस्तिनागं प्रेरयति । अथ खलु राजा विरूढको यावद् एव यानस्य भूमिस् तावद् यानेन गत्वा हस्तिनागात् प्रत्यारुह्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् अवोचत् । सन्ति भगवन्न् अन्ये वृक्षाः । अश्वत्थन्यग्रोधसप्तपर्णाद्याः शोभनाश् च शीतलाश् च तान् उत्सृज्य इतरस्य प्रत्यवरस्य विरलपत्रस्य शाखोटकवृक्षस्याधस्तान् निषण्णः । भगवान् आह । शीतला महाराज ज्ञातीनां च्छाया । अथ खलु राज्ञो विरूढकस्य एतद् अभवत् । अनुकम्पति भगवान् ज्ञातीन् इति । ततो येव प्रतिनिवर्तयित्वा श्रावस्तीन् नगरम् अनुप्रविष्टः ।
भगवान् दानि श्रावस्तीयं यथाभिरम्यं विहरित्वा कपिलवस्तुं नगरं प्रक्रामि । यावच् छाक्यान् विनयति । विनयित्वा तत्रैव विहरति न्यग्रोधारामे । विरूढकीयं सूत्रं विस्तरेण कर्तव्यं ।
153. एषा एवार्थोत्पत्तिः । भगवान् श्रावस्तीयम् विहरति । राजा दानि विरूढको शाकीयान् वधित्वा शाकियकन्यायो आदाय श्रावस्तीं प्रतिगतः तद्यथा । चारू च नाम । उपचारू च नाम । सुमना च नाम । मनोहरा । सालवती । अभया च नाम । सो दानि सार्धं क्रीडन्तो रमन्तो परिचारयन्तः अभिक्ष्णं वदति । निहता मे ग्रामकण्टकाः । शाकियजनपदकण्टकाः । निहता मे प्रत्यर्थिकाः प्रत्यमित्राः । यद् इदम् शाकियाः शाक्यपुत्रा इति ।
अथ खल्व् अभया राजधीता राजानं विरूढकम् एतद् अवोचत् । मा देव एवं वद निहता मे ग्रामकण्टकाः शाकिया इति । सन्ति देव शाकियाः क्षान्तिसम्पन्नाः । सौरत्यसम्पन्नाः । एवं शीलश्रुतत्यागसमाधिप्रज्ञासम्पन्नाः । एवं बुद्धं शरणं गताः । धर्मं शरणं गताः । बुद्धे अवेत्य प्रसादेन समन्वागताः । धर्मे संघे अवेत्य प्रसादेन समन्वागताः । प्राणातिपातात् प्रतिविरताः । यावद् आर्यकान्तेः शीलेः समन्वागताः । सन्ति देव शाकियाः श्रोतआपन्नाः सकृदागामिनो नागामिनस् ते देवेन अदूषका अनपराधिनो जीविताद् व्यवरोपिताः । तत् ते दुःखं वेदनीयं भविष्यति । बहु ते पापकं कर्म कृतं । बहु ते अपुण्यं प्रसूतं ।
154. अथ राजा विरूढकः कुपितः यावत् कारणान्तिकं महामात्रम् आमन्त्रयति । त्वं हि भणे पुरुष मम भोगेहि जाययसि । मम सुखेन जीवसि । कन्यायो शाकियायिनीयो मम प्रत्यर्थिकायो प्रत्रसितायो । मम जीवितं नेच्छन्ति । मम सुखं नाभिनन्दन्ति । सो ऽहम् अन्तःपुरमध्यगतो पि एतासाम् अविश्वस्तः । शयनगतो पि शय्यां कल्पयन्तो पि । तेन हि भणे महामात्र इमायो शाकियायिनीयो दण्डहतायो कृत्वा कर्णनासाहस्तपादच्छिन्नायो कृत्वा तप्तेन तेलेन कायं परिषिञ्चित्वा जीवन्तिकायो एवं परिखायां च्छोरया । अथ कारणान्तिकस्य एतद् अभवत् । यन् दानि अहं शाकियायिनीनां आसि दर्शनं पि न लभमानो तायो एतायो मम हस्तगतायो यन् नूनम् अहम् एताहि सह क्रीडेयं रमेयं परिचारयेयं । सो दानि ताहि सार्धं स्वके गृहे प्रविचारयति । अश्रौषीद् राजा विरूढको कारणान्तिकस् ताहि सार्धं क्रीडति यावन् न च पि यथोक्तं करोतीति । अथ खलु विरूढकः कारणान्तिकम् आमन्त्रयति । गच्छ तासां शाकियायिनीनां यथोक्तं कुरु । मा ते जीविताद् व्यवरोपयिष्यामीति । अथ कारणान्तिकः यथोक्तम् अकार्षीत् । यावत् परिखायां जीवन्तीयो एव छोरितायो । तायो तत्र दुःखं तीव्रां कटुकां वेदनां वेदयन्ति । अन्वेन्ति क्रन्दन्ति एवन् तानेन्ति त्रातेन्ति । भगिनीज्ञातिकाप्रियं शाकिय मण्डलं । रमणीया भवति तो जन्म भूमिः । हा रमणीयो जम्बुद्वीपः । सूक्तवादी भगवान् इति परिदेवन्ति । तहि दानि महाजनकायो सन्निपतितो ।
अथ खलु भगवान् कालस्यैव निवासयित्वा पात्रचीवरम् आदाय श्रावस्तीन् नगरीं पिण्डाय प्रविष्टः । यावद् आयुष्मन्तम् आनन्दम् आमन्त्रयति । कस्यैषा गौतमी माता । महतो जनकायस्य निर्घोषो यावद् राज्ञा विरूढकेन षण्णां शाकियायिनीनां यावत् तस्य कृपणेन यावन् सूक्तवादी भगवान् इति क्रन्दन्ति । साधु भगवान् अर्थकामो ज्ञातीनाम् अनुकम्प्यार्थं उपसंक्रामतु । अप्य् एव नाम भगवतः सम्मुखाद् धर्मं श्रुणित्वा अपि स्वर्गोपिगा भवेंसुः ।
155. अथ खलु भगवां शक्रं देवानाम् इन्द्रं समन्वाहरति स्म । अथ खलु शक्रो देवानाम् इन्द्रः शचिम् आमन्त्रयति । एष शचि भगवान् ज्ञातीनाम् उपसंक्रमति अनुकम्पार्थं । गच्छ शचि तायो शाकियायिनीयो परिखाया उद्धरित्वा संप्रजानं निषीदापेहि वस्त्रेणाच्छादेहि भगवान् उपसंक्रमिष्यति । अथ खलु शची तायो शाकियायिनीयो परिखाया उद्धरित्वा संप्रजानन् निषीदापयित्वा वस्त्रेणाच्छादिता ।
अथ खलु भगवान् यावत् तायोमैन्द्र्या स्फरित्वा यत् किञ्चित् कायिकं चैतसिकं च दुःखवेदनागतं सर्वं तं प्रतिप्रस्रंभेति । भिक्षून् आमन्त्रयति । तृप्यतां भिक्षवो भगवतीषु को भिक्षवो भवम् अभिनन्देय को उपादियेय अन्यत्र बालपृथग्जनानां अन्धानां अचक्षुकानां पश्यथ । भिक्षवः एतायो शाकियायिनीयो मनुष्यकेहि पञ्चहि कामगुणेहि क्रीडित्वा रमित्वा प्रविचारयित्वा एतर्हि ज्ञातिक्षये च भोगक्षये च कर्मस्य च सम्मुखीभावाद् दुःखां वेदनां वेदयन्ति ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
