Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
भिक्षुणीविनय
- Thông tin
- GRETIL — Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
भिक्षुणीविनय
भिक्षुणी-विनय
story of mahāprajāpatī gautamī
1. ओं नमो बुद्धाय । आर्यमहासांघिकानां लोकोत्तरवादिनां मध्य्ऽ-उदेशिकानां पाठेन भिक्षुणीविनय स्यादिः ।
भगवान् सम्यक्सम्बुद्धो यदर्थं समुदागतो तदर्थम् अभिसम्भावयित्वा शाक्येषु विहरति शाक्यानां कपिलवस्तुस्मिन् न्यग्रोधारामे शास्ता देवानाञ् च मनुष्यानाञ् च बुद्धो भगवान् सत्कृतोगुरुकृतो मानितः पूजितो अर्चितो अपचायितो लाभाग्रयशो-ऽग्रप्राप्तो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारानान् । तत्र चानुपलिप्तो पद्मम् इव जलेन पुण्यभागीयान् सत्वान् पुण्येहि निवेशयमानो फलभागीयान् सत्वान् फलेहि प्रतिष्ठापयमानो वासनाभागीयान् सत्वान् वासनायाम् अवस्थापयमानो अमृतम् अनल्पकेन देवमनुष्यान् सम्विभजन्तो प्राणिकोटिनियुतशतसहस्राण्य् अमृतं अनुप्रापयन्तो अनवराग्रजातिजरामरणसंसारकान्तारनरकविदुर्गान् महाप्रपाताद् अभ्युद्धरित्वा क्षेमे शिवे समे स्थले अभये निर्वाणे प्रतिष्ठापयमानो आवर्जयित्वा अङ्गमगधवृजिमल्लिकाशिकोशलकुरुपञ्चालचेदिवत्समत्स्यशूरसेनशिविदशार्ण चास्वकिअवन्ति ।
ज्ञाने दृष्टपराक्रमो स्वयांभूः दिव्येहि विहारेहि विहरन्तो ब्राह्मेहि विहारेहि आर्येहि विहारेहि अनिञ्जेहि विहारेहि विहरन्तो ब्राह्मेहि विहारेहि आर्येहि विहारेहि अनिञ्जेहि विहारेहि सातत्ये हि विहारेहि बुद्धो बुद्धविहारेहि जिनो जिनविहारेहि जानको जानकविहारेहि सर्वज्ञो सर्वज्ञविहारेहि चेतोवसिपरमपारमिप्रप्ताश् च पुनर् बुद्धा भगवन्तो येहि येहि विहारेहि आकाङ्क्षन्ति तेहि तेहि विहारेहि विहरन्ति विहारकुशलाश् च पुनर् बुद्धा भगवन्तः ।
2. अथ खलु महाप्रजापती गौतमी च्छन्दाय च्छन्दकपालाय दासच्छन्दाये च्छन्दकमातरे च पञ्चहि च शाकियानीशतेहि सार्धं येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि एकान्तस्थिता महाप्रजापती गौतमी भगवन्तम् एतद् अवोचत् । दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्धर्मदेशना । भगवांस् चैतर्हि लोके उत्पन्नो तथागतो ऽर्हन् सम्यक्सम्बुद्धो धर्मो च देशयति औपसमिको पारिनिवाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियाय सम्वर्तति । साधु भगवन् मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदं भिक्षुणिभावं । भगवान् आह । मा ते गौतमि रोचतु तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसंपदा भिक्षुणीभावो ।
अथ खलु महाप्रजापती गौतमी । न खलु भगवान् मातृग्रामस्य अवकाशं करोति तथागत प्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदाय भिक्षुणीभावायेति । सा भगवतो पादौ शिरसा वन्दित्वा सार्धं च्छन्दाय च्छन्दकपालाये दासच्छन्दाये च्छन्दकमातरे च येन तानि पञ्च शाकियानीशतानि तेनोपसंक्रमित्वा शाकियानीयो एतद् अवोचत् । न खलु आर्यमिश्रिकायो भगवान् अवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्याउपसंपदाय भिक्षुणीभावाय । किम् पुन वयम् आर्यमिश्रिकायो सामम् एव केशान् ओतारयित्वा काषायानि वस्त्राणि आच्छादयित्वा कोशकाबद्धेहि यानेहि भगवन्तं कोशलेहि जनपदेहि चारिकां चरमाणं पृष्ठिमेन पृष्ठिम् आबन्धेम । सचे मो भगवान् अनुजानिष्यति प्रव्रजिष्यामो नो च अनुजानिष्यति एवम् तु तायि भगवतो सन्तिके ब्रह्मचर्यञ् चरिष्यामः साधु आर्येति तायो शाकियानीयो महाप्रजापतीये गौतमीये प्रत्याश्रौषि ।
3. अथ खलु भगवान् कपिलवस्तुस्मिन् नगरे यथाभिरम्यं विहरित्वा कोशलेषु जनपदेषु चारिकां प्रक्रामि । अथ खलु महाप्रजापती गौतमी सार्धं च्छन्दाये च्छन्दकपलाये दासच्छन्दाय च्छन्दकमातरे च पञ्चहि च शाकियानीशतेहि सात्मनेव केशान् ओतारयित्वा काषायाणि वस्त्राणि आच्छादयित्वा कोशकबद्धेहि यानेहि भगवन्तं कोशलेषु जनपदेषु चारिकां चरमाणं पृष्ठिमेन पृष्ठम् अनुबन्धेंसुः ।
4. अथ खलु भगवान् कोशलेषु जनपदेषु चारिकां चरमानो महता भिक्षुसंघेन सार्धं पञ्चहि भिक्षुशतेहि येन कोशलानां श्रावस्तीनगरं तद् अवसारि । तद् अनुप्राप्तस् तत्रैव विहरति जेतवने अनाथपिण्डदस्यारामे ।
अथ खलु महाप्रजापती गौतमी येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि । एकान्तस्थिता महाप्रजापती गौतमी भगवन्तम् एतद् अवोचत् । दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्धर्मदेशना । भगवांश् चैतर्हि लोके उत्पन्नो तथागतो र्हं सम्यक्सम्बुद्धो धर्मो च देशते औपसमिको च पारिनिर्वाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियाय सम्वर्तति । साधु भगवन् मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदां भिक्षुणीभावं । एवम् उक्ते भगवान् महाप्रजापतीं गौतमीम् एतद् अवोचत् । मा ते गौतमी रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्याउपसम्पदाभिक्षुणिभावो ।
5. अथ खलु महाप्रजापती गौतमी । न खलु भगवान् अवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्याय उपसम्पदाय भिक्षुणिभावस्येति । सा भगवतो पादां शिरसा वन्दित्वा जेतवनस्य आरामद्वारकोष्ठकसमीपे रोदमानी अस्थासि पादाण्गुष्ठेन भूमिं विलिखन्ती । अद्दशाशि खु अन्यतरो भिक्षुर् महाप्रजापतीं गौतमीं जेतवनस्य आरामद्वारकोष्ठसमीपे रुदमानीन् तिष्ठन्तीं पादाङ्गुष्ठेन भूमिं विलिखेन्तीं दृष्ट्वा च पुनर् येनायुष्मान् आनन्दो तेनोपसंक्रमित्वा आयुष्मन्तम् आनन्दम् एतद् अवोचत् । एषा आयुष्मन् आनन्द महाप्रजापती गौतमी जेतवनस्य आरामकोष्ठकसमीपे रुदमानी तिष्ठति पादाङ्गुष्ठेन भूमिं विलिखन्ती । गच्छावुसानन्द जानेहि किं महाप्रपती गौतमी रोदीति ।
6. अथ खलु आयुष्मान् आनन्दो येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीम् एतद् अवोचत् । किं गौतमि रुदसि । एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत् । अलम् मे आर्यानन्द रुण्णेन यत्र हि नाम एवं दुर्लभो बुद्धोत्पादो एवं दुर्लभा सद्धर्मदेशना । भगवांश् चैतर्हि लोके उत्पन्नो तथागतो ऽर्हन् सम्यक्सम्बुद्धो धर्मो देशीयति औपसमिको पारिनिर्वाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियायै सम्वर्तति । न च भगवान् अवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसम्पदाय भिक्षुणीभावस्य श्चै साधु तावार्यानन्द भगवन्तं याच यथा लभेय मातृग्रामो पि तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदां भिक्षुणीभावं ।
7. साधु गौतमीति आयुष्मान् आनन्दो महाप्रजापतीये गौतमीये प्रतिश्रुत्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौशिरसा वन्दित्वा एकान्ते अस्थासि । एकान्तस्थितो आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्धर्मदेशना भगवान् चेतर्हि लोके उत्पन्नो तथागतो ऽर्हन् सम्यक्सम्बुद्धो धर्मो च देश्यते औपसमिको पारिनिर्वाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियायै सम्वर्तति । साधु भगवन् मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपदम्पदां भिक्षुणिभावं । एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् । मा ते गौतमीमाता रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदा भिक्षुणीभावो ।
8. अथ खल्व् आयुष्मान् आनन्दो । भगवान् नावकशं करोति मातृग्रामस्य तथागत प्रवेदिते धर्मविनये प्रव्रज्याउपसंपदाये भिक्षुणीभावस्येति । भगवतः पादौ शिरसा वन्दित्वा येन महाप्रजापति गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीम् एतद् अवोचत् । न खलु गौतमी भगवान् अवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसंपदाय भिक्षुणीभावाय । एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत् । साधु तावार्यानन्द द्वितीयं पि भगवन्तं याच यथा मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्यां उपसंपदां भिक्षुणीभावं । साधु गौतमीति आयुष्मान् आनन्दो द्वितीयं पि महाप्रजापतीये गौतमीये प्रतिश्रुत्वा येन भगवान् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि । एकान्ते स्थितो आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । दुर्लभो भगवन् बुद्धोत्पादो ति तद् एवं सर्वं याव भिक्षुणीभावो ति एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् । माते गौतमी माता रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्या उपसंपदा भिक्षुणीभावो । संयथापि नामानन्द सम्पन्ने यवकरणे च कारण्डवं नाम रोगराजा ति उपनिपतेय एवन् तं सम्पन्नं यवकरणं महता उपक्लेशेन उपक्लिष्टं भवति एवम् एव गौतमी माता यस्मिन् प्रावचने मातृग्रामो पि लभति प्रव्रज्याम् उपसंपदां भिक्षुणीभावं एवन् तं प्रावचनं महतामुपक्लेशेन उपक्लिष्टं भवति । सय्यथापि नाम गौतमी माता सम्पन्ने इक्षुकरणे मञ्जिष्ठा नाम रोगराजा ति एवन् तं सम्पन्नं इक्षुकरणम् महता उपक्लेशेन उपक्लिष्टम् भवति । एवम् एव गौतमी माता यस्मिन् प्रावचने मातृग्रामो पि लभति प्रव्रज्याम् उपसंपदां भिक्षुणीभावं एवन् तं प्रावचनम् महता उपक्लेशेन उपक्लिष्टम् भवति । सय्यथापि नाम मा ते गौतमी माता रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसंपदा भिक्षुणीभावो ।
9. अथ खल्व् आयुष्मान् आनन्दो । भगवान् ना वकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसंपदाय भिक्षुणीभावस्येति । येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीं एतद् अवोचत् । न खलु गौतमी भगवान् अवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसंपदाय भिक्षुणीभावस्येति । एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत् । साधु तावार्यानन्द तृतीयं पि भगवन्तं याच यथा मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावं । साधु गौतमीती आयुष्मान् आनन्दो तृतीयं पि महाप्रजापतीय गौतमीय प्रतिश्रुत्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदि एकान्तनिषण्णो आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । पुरिमकानां भगवन् तथागतानाम् अर्हतां सम्यक्सम्बुद्धानां कति पर्षायो अभुवन् । एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् । पुरिमकानाम् आनन्द तथागतानाम् अर्हतां सम्यक्सम्बुद्धानां चत्वारि परिषायो अभुवन् सय्यथीदं । भिक्षु भिक्षुणी उपासकोपासिका ।
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । ये इमे भगवन् चत्वारो श्रामण्यफला सय्यथीदं श्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अग्रफलम् अर्हत्वं । भव्यो एतेषां मातृग्रामो पि एको ऽप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुं । एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् । यानीमानि आनन्द चत्वारि श्रामण्यफलानि सय्यथीदं श्रोतआपत्तिफलं यावद् अग्रफलम् अर्हत्वं । भव्यो एतेषां मतृग्रामो पि एको ऽप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुं ।
10. एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । यतो खलु भगवन् पुरिमकानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां चत्वारो पर्षायो अभूंसुः भिक्षुभिक्षुणी उपासकोपासिका । इमे चत्वारि श्रामण्यफलानि सय्यथीदं । श्रोतआपत्तिफलं याव अग्रफलम् अर्हत्वं । भव्यो एतेषां मातृग्रामो पि एको अप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुं । साधु भगवन् मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसंपदां भिक्षुणीभावं । दुष्करकारिका च भगवतो महाप्रजापती गौतमी आपायिका पोषिका जनेत्रीये कालगताये स्तन्यस्य दायिका भगवांश् च कृतज्ञो कृतवेदी । एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् । एवम् एतद् आनन्द दुष्करकारिका आनन्द तथागतस्य महाप्रजापती गौतमी आपायिका पोषिका जनेत्रिये कालगताये स्तन्यस्य दायिका तथागतो च कृतज्ञो कृतवेदी च । अपि चानन्द तथागतो पि महाप्रजापतीय गौतमीय दुष्करकारको । तथागतं ह्य् आनन्दाआगम्य महाप्रजापती गौतमी बुद्धशरणं गता । धर्मशरणं गता । संघशरणं गता तथागतं ह्य् आनन्दागम्य महाप्रजापती गौतमी
यावज्जीवं प्राणातिपातातो प्रतिविरता [1] यावज्जीवं अदत्तादानात् प्रतिविरता [2] यावज्जीवं कामेषु मिथ्याचारात् प्रतिविरता [3] यावज्जीवं मृषावादातो प्रतिविरता [4] यावज्जीवं सुरामैरेयमद्यपानातो प्रतिविरता ॥ [5]
तथागतं ह्य् आनन्दागम्य महाप्रजापती गौतमी श्रद्धया वर्धति । शीलेन वर्धति श्रुतेन वर्धति त्यागेन वर्धति । प्रज्ञया वर्धति । तथागतं ह्य् आनन्दागम्य महाप्रजापती गौतमी दुःखं जानाति समुदयं जानाति । निरोधं जानाति । मार्गं जानाति ॥
11. यं आनन्द पुद्गलो पुद्गलम् आगम्य बुद्धं शरणं गच्छति । धर्मं शरणं गच्छति । संघं शरणं गच्छति । इमिना आनन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरणं भवति यावज्जीवं पि न उपस्थिहेय यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि । एवं पि न सुप्रतिकरं भवति । यं आनन्द पुद्गलो पुद्गलम् आगम्य यावज्जीवं प्राणातिपातातो प्रतिविरमति । यावज्जीवं अदत्तादानातो प्रतिविरमति । यावज्जीवं कामेषु मिथ्याचारात् प्रतिविरमति । यावज्जीवं मृषावादातो प्रतिविरमति । यावज्जीवं सुरामैरेयमद्यपानातो प्रतिविरमति । इमिना पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरं भवति । यावज्जीवं अपि न उपस्थिहेया । यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि । एवं पि न सुप्रतिकरं भवति । यं आनन्द पुद्गलो पुद्गलम् आगम्य श्रद्धया वर्धति शीलेन श्रुतेन त्यागेन प्रज्ञया वर्धति । इमिनानन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरं भवति । यावज्जीवं पि न उपस्थिहेय यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि । एवं पि से न सुप्रतिकारम् भवति । यं आनन्द पुद्गलो पुद्गलम् आगम्य दुःखं जानाति समुदयं जानाति निरोधञ् जानाति मार्गञ् च जानाति । इमिना आनन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकारम् भवति । यावज्जीवं पि न उपस्थिहेय यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि । एवं पि से न सुप्रतिकरम् भवति ॥
12. अथ खलु भगवतो एतद् अभूषि । सचे खलु अहम् आनन्दस्य गौतमस्य पुत्रस्य यावत्तृतीयकं अपि प्रतिवहिष्यामि भविष्यति च से चित्तस्यान्यथात्वं । श्रुता पि से धर्मा सम्मोहं गमिष्यन्ति । कामं वर्षसहस्रं पि मे सद्धर्मो स्थास्यति । मा हैवानन्दस्य गौतमीपुत्रस्य भवतु चित्तस्यान्यथात्वं मा पि से श्रुता धर्मा सम्मोषङ् गच्छन्तु । कामं पञ्चापि मे वर्षशतानि सद्धर्मो स्थास्यति । अथ खलु भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयति स्म । सय्यथापि नामानन्द इह पुरुषो पर्वतसंक्षेपे सेतुं बन्धेय यावद् एव वारिस्य अनतिक्रमणाय एवम् एवानन्द तथागतो भिक्षुणीनाम् अष्ट गुरुधर्मान् प्रज्ञापेति ये भिक्षुनीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेलामिव महासमुद्रेण ॥ कतमे अष्टौ ।
अष्टौ गुरुधर्मा
गुरुधर्म 1
13. वर्षशतो पसम्पन्नाये आनन्द भिक्षुणीये तदहोपसम्पन्नस्य भिक्षुस्य शिरसा पादा वन्दितव्या । अयम् आनन्द भिक्षुणीनां प्रथमो गुरुधर्मो यो भिक्षूणीहि यावज्जीवं सत्कर्तव्यो याव अनतिक्रमणीयो वेलामिव महासमुद्रेण ॥
गुरुधर्म 2 अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणी देशिताशिक्षाये परिपूर्णशिक्षाये उभयतो संघे उपसम्पदा प्रत्याशंसितव्या । अयम् आनन्द द्वितीयो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो याव वेला इव समुद्रेण ॥
गुरुधर्म 3 आवड्डो आनन्द भिक्षुणीनां भिक्षुषु वचनपथो भूतेन वा अभूतेन वा अनावड्डो भिक्षुस्य भिक्षुणीषु वचनपथो भूतेन नो अभूतेन । अयम् आनन्द भिक्षुणीनां तृतीयो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण ॥
गुरुधर्म 4 भक्ताग्रं शय्यासनं विहारो च भिक्षुणीहि भिक्षुतो सादयितव्यो । अयम् आनन्द चतुर्थो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो विस्तरेण ॥
गुरुधर्म 5 गुरुधर्मापन्नाये आनन्द भिक्षुणीये अर्धमासम् भिक्षुणीसंघे मानत्वं याचितव्यं उभयतो संघे च आह्वयनं । अयम् आनन्द पण्चमो भिक्षुणीनां गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण ॥
गुरुधर्म 6 अन्वार्धमासं भिक्षुणीहि भिक्षुसंघात् उवादोपसंक्रमणं प्रत्याशंसितव्यं । अयम् आनन्द भिक्षुणीनाम् षष्ठो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण ।
गुरुधर्म 7 न क्षमति भिक्षुणीहि अभिक्षुके आवासे वर्षाम् उपगन्तुं । अयम् आनन्द भिक्षुणीनां सप्तमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण ॥
गुरुधर्म 8 वर्षोषिताहि आनन्द भिक्षुणीहि उभयतोसंघे प्रवारणा प्रत्याशंसितव्या । अयम् आनन्द भिक्षुणीनां अष्टमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेला इव समुद्रेण ।
इमे आनन्द भिक्षुणीनाम् अष्टौ गुरुधर्मा ये भिक्षुणीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेला इव समुद्रेण ॥
14. सचे नामानन्द महाप्रजापती गौतमी इमान् अष्ट गुरुधर्मान् प्रतीच्छति चतुहि च पतनीयेहि धर्मेहि अनध्याचाराय शिक्षां शिक्षति । एषा से अद्यदग्रेण प्रव्रज्या । एषा उपसंपदा एष भिक्षुणीभावो । साधु भगवन्न् इति आयुष्मान् आनन्दो भगवतः पादौ शिरसा वन्दित्वा येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीं एतद् अवोचत् । शृणु गौतमी भगवतो वचनं । सय्यथापि नाम गौतमी इह पुरुष पर्वतसंक्षेपे सेतुं बन्धेय यावद् एव वारिष्य अनतिक्रमणाय एवम् एव गौतमी भगवान् भिक्षुणीनां अष्टगुरुधर्मान् प्रज्ञापेति ये भिक्षुणीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेलामिव समुद्रेण ।
15. कतमे ऽष्ट । वर्षशतोपसम्पन्नाय गौतमी भिक्षुणीय तदहोपसम्पन्नस्य भिक्षुस्य पादा शिरसा वन्दितव्या । अयं गौतमी भिक्षुणीनाम् प्रथमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यो अनतिक्रमणीयो वेलामिव समुद्रेण । एवं सर्वे अष्ट गुरुधर्मान् । तद् एव महाप्रजापतीय गौतमीय प्रत्यारोचिति । याव सचे खु त्वं गौतमी इमान् अष्ट गुरुधर्मान् प्रतीच्छसि चतुहि च पतनीयेहि धर्मेहि अनध्याचाराय शिक्षां शिक्षसि । एषा एव ते अद्यदग्रेण प्रव्रज्या एषा उपसम्पदा एष भिक्षुणीभावो ॥
16. एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत् । सय्यथापि नामानन्द इह स्यात् युवा पुरुषो मण्डनजातीयो शीर्षस्नातो आहतवस्त्रनिवस्त्रो उत्पलमालाम् वा चम्पकमालाम् वा कुमुदमालाम् वा तृणमोलिकमालाम् वा शिरसा प्रतीच्छेय एवम् एवाहम् आर्यानन्द इमान् अष्टगुरुधर्मान् शिरसा प्रतीच्छामि चतुहि च पतनीयेहि धर्मेहि अनध्यचाराय शिक्षां शिक्षां शिक्षिष्यं ॥
17. अथ खलु महाप्रजापती गौतमी सार्धं च्छन्दायि च्छन्दकपालाये दासच्छन्दाये च्छन्दकमातरे च पञ्चहि च शाकियानिशतेहि सार्धं येन भगवान् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासुः ।
18. एकान्तस्थितायो भिक्षुणीयो भगवान् एतद् अवोचत् । तस्माद् इह भवे भिक्षुणीयो अद्य्दग्रेण महाप्रजापतीं गौतमीं संघस्थविरां संघमहत्तरीं संघथविरिणा विकन्धावेथ । अथ खलु महाप्रजापती गौतमी येन भगवान् तेनाञ्जलिं प्रणामयित्वा भगवन्तम् एतद् अवोचत् । ये इमे भगवन् भिक्षुणीनां अष्टगुरुधर्मा भगवता संक्षिप्तेन भाषिता विस्तरेण विभक्ता लभ्या ते ऽस्माभिर् विस्तरेण श्रोतुं ॥
19. भगवान् आह । लभ्या । आह । किन्ति दानी गौतमी वर्षशतोपसम्पन्नाये भिक्षुणीये तदहोपसम्पन्नस्य भिक्षुस्य अभिवादनवन्दनप्रत्युत्थानाञ्जलीकर्म समीचीकर्म कर्तव्यं । न दानिं भिक्षुणीये आगमितव्यं । यदाहं वर्सशतोपसम्पन्ना भविष्यं भिक्षु च तद् अहोपसम्पन्नो भविष्यति तदाहम् अभिवादनवन्दनप्रत्युत्थानमञ्जलीकर्म सामीचिकर्म करिष्यं ।
20. अथ खलु सर्वाहि भिक्षुणीहि स्थविरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणाम् स्थेराणां नवानां मध्यमानां अभिवादनवन्दनप्रत्युत्थानाञ्जलीकर्म सामीचिकर्म कर्तव्यं ॥ एते दानि भिक्षू भिक्षूणीउपाश्रयं प्रविष्टा भवन्ति । सर्वाहि भिक्षुणीहि स्थेरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणां स्थेराणां नवानाञ् च मध्यमानाम् अभिवादनवन्दनप्रत्युत्थानाञ्जलीकर्म सामीचीकर्म कर्तव्यं ॥
21. अथ दानि भिक्षुणी जरादुर्बला वा भवति व्याधिदुर्बला वा यत्तकानां अभिसंभुणोति तत्तकानां पादा शिरसा वन्दितव्या । शिष्ठकानां मूर्ध्नि अञ्जलिं कृत्वा वक्तव्यं । सर्वेषां आर्यमिश्राणां पादां वन्दामि । एतायो भिक्षुणीयो भिक्षुविहारं निर्धावन्ति सर्वाहि भिक्षुणीहि स्थेरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणां थेराणां नवानां मध्यमानां पादा शिरसा वन्दितव्या । अथ दानि भिक्षुणी जरादुर्बला भवति व्याधिदुर्बला वा यत्तकानाम् अभिसंभुणोति तत्तकानां पादा शिरसा वन्दितव्या शिष्टकानां मूर्ध्नि अञ्जलीं कृत्वा वक्तव्यं । सर्वेषां आर्यमिश्राणां पादा शिरसा वन्दामि ।
22. सा एषा भिक्षुणी अवज्ञाय परिभवनेन कोण्टभिक्षू ति वा कृत्वा ढोस्सभिक्षू ति वा कृत्वा वैद्यभिक्षू ति वा कृत्वा अखल्लमहल्ले ति वा अकुशलो ति वा अप्रतिकृतिज्ञो ति वा कृत्वा न शिरसा पादान् वन्दति गुरुधर्मम् अतिक्रामति । एवं गौतमी वर्षशतोपसम्पन्नाये भिक्षुणीये तदहोपसम्पन्नस्य भिक्षुस्य शिरसा वन्दितव्यं । अयं गौतमी भिक्षुणीनां प्रथमो गुरुधर्मो यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेलामिव समुद्रेण ॥
गुरुधर्म 2 23. किन्ति दानि गौतमी अष्टादशवर्षाये कुमारीभूताये द्वेवर्षाणि शिक्षितशिक्षाये परिपूर्णशिक्षाये उभयतोसंघे उपसम्पदा प्रत्यासंसितव्या । या दानि एषा अष्टादशवर्षा कुमारीभूता भवति ताये भिक्षुणीसंघे द्वेवर्षाणी शिक्षादेशनासंमुति याचितव्या । कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु मे आर्यसंघो । इयम् इत्थन्नामा नाम अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदां भिक्षुणीभावं । यदि संघस्य प्राप्तकालं इयम्नामा अष्टादशवर्षा कुमारीभूता संघं द्वेवर्षाणि शिक्षादेशनासंमुतिं याचेया । याचिष्यति आर्यमिश्रिकायो संघो इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता द्वेवर्षाणि शिक्षादेशनासंमुतिं । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि ।
24. ताय दानि याचितव्यं । वन्दामि आर्यसंघं । अहम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसम्पदां भिक्षुणीभावं । साहं संघं द्वे वर्षाणि शिक्षादेशनासंमुतिं याचामि । साधु वत मे आर्यसंघो द्वे वर्षाणि शिक्षादेशनासंमुतिं देतु । एवं द्वितीयम् पि तृतीयम् पि ।
25. कर्मकारिकाय कर्म कर्तव्यं । शृणोतु मे आर्यसंघो इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि शिक्षादेशनासंमुतिं याचति । तस्या आर्यसंघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासंमुतिन् दद्यात् । ओवयिका एषा ज्ञप्तिः ।
शृणोतु मे आर्या संघो । इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदां भिक्षुणीभावं । सेयं संघं द्वे वर्षाणि शिक्षादेशनासंमुतिं याचति । तस्या संघो इत्थन् नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासंमुतिन् देति । यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणी शिक्षादेशनासंमुतिं दीयमानां संघेन सा तूष्णीम् अस्य । यस्या न क्षमति सा भाषतु । एवं द्वितीयं पि तृतीयं पि दिन्नामार्यमिश्रिकायो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासंमुतिः संघेन । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि ।
26. तस्या दानि का वत्ता । सर्वभिक्षुणीनान् नविका सर्वश्रामणेरीणां वृद्धा आसनपर्यन्तो ताये सादयितव्यो [1] । भक्तपर्यन्तो ताये सादयितव्यो [2] य्वागुपर्यन्तो ताये सादयितव्यो [3] यत् तस्या ऽमिषम् अकल्पिकम् तं भिक्षुणीनां आमिषं कल्पिकं [4] यं भिक्षुणीनां आमिषं कल्पिकं तस्या तं आमिषं अकल्पिकं [5] भिक्षुणीयिहि तस्याः तेन परिवर्तशेय्या कर्तव्या [6] ताय पि श्रामणेरीणां तेन परिवर्तकशेय्या कर्तव्या [7] । भिक्षुणीयिहि सा प्रतिग्राहणिका कारापयितव्या स्थापयित्वा अग्निकल्पञ् च [8] । जातरूपरजतञ् च [9] ताये पि श्रामणेरीयो प्रतिग्राहणिका कारापयितव्यायो [10] ।
27. न क्षमति ताये पोषधो वा प्रवारणा वा अभिसंभुणितुं । अथ खलु यदा पोषधो वा प्रवारणा वा भवति । तदहो तायि वृद्धान्तम् आरुह्य मूर्ध्नि अञ्जलिं कृत्वा वक्तव्यं । वन्दामि आर्यायो विशुद्धाम् मे धारेथ । द्वितीयम् पि तृतीयम् पि । वन्दामि आर्यायो विशुद्धां धारयेथ त्रीणि वारां जल्पीय गन्तव्यं [11] न क्षमति सा प्रातिमोक्षसूत्रं श्रावयितुं । अथ खलु यत्तकं पारियति पदफलकाये ग्राहयितुं तत्तकं ग्राहयितव्या [12] । वक्तव्यम् ।
न क्षमति अब्रह्मचर्यं प्रतिसेवितुं [13] न क्षमति अदिन्नम् आदयितुम् [14] ।
न क्षमति स्वहस्तं मनुष्यविग्रहं जीविताद् व्योपरायितुं [15] न क्षमति अभूवनम् उत्तरिमनुष्यधर्मम् प्रजानितुं [16] ।
एवं यत्तकं पारीयति पदफलके ग्राहयितुं तत्तकं ग्राहयितव्या ।
पञ्चशिक्षाभञ्जनकानि । विकालभोजनं । सन्निधिकाराभोजनं । जातरूपरजतप्रतिग्रहणं । गन्धामालाविलेपनधारणं । सुरामैरेयमद्यपानाञ् च । यत्तकानि दिवसानि अध्याचरति तत्तकानि दिवसानि उक्तानि शिक्षा शिक्षितव्या [18] ॥
28. यं कालं द्वे वर्षाणि भवन्ति ततो ताय संघो उपस्थापनासंमुतिं याचितव्यो ।
कर्मकारिकाय कर्म कर्तव्यं । शृणोतु मे आर्यसंघो इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरशिक्षा आकाम्क्षति तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदाम् भिक्षुणीभावं । यदि संघस्य प्राप्तकालं इत्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वष्राणि देशितशिक्षा परिपूरिशिक्षा । सा संघं उपस्थापनासंमुतिं याचेय । याचिष्यति आर्यमिश्रिकायो इत्थन्नामा अष्टादशावर्षा कुमारीभूता देशितशिक्षा परिपूरिशिक्षा द्वे वर्साणि उपस्थापनासंमुतिं । क्षमते तं संघस्य यस्मात् तूष्णिम् एतद् धारयामि ।
29. ताय दानि याचितव्यं । वन्दामि आर्यसंघम् अहम् इत्थन्नामा अष्टादशवर्शा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरिशिक्षा । सा अहं संघं उपस्थापनासंमुतिं याचामि । साधु मे आर्या संघो उपस्थापनासंमुतिन् देतु । द्वितीयम् पि तृतीयम् पि । वन्दामि आर्यायो अहम् इत्थन् नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरिशिक्षा । साहं संघं उपस्थापनासंमुतिं याचामि । साधु मे आर्यसंघो उपस्थापनासंमुतिन् देतु । कर्मकारिकाये कर्म कर्तव्यं । शृणोतु मे आर्यसंघो । इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरिशिक्षा सा संघं उपस्थापनासंमुतिं याचति । यदि संघस्य प्राप्तकालं संघो इत्थन् नामाये अष्टादेशवर्षाये कुमारी भूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थ्हापनासंमुतिन् दद्यात् । ओवशिकाये एषा ज्ञप्तिः ॥
30. शृणोतु मे आर्यसंघो इयं इत्थन्नामा अष्टादशवर्षा कुमारी भूता द्वे वर्षाणि देशितशिक्षा परिपूर्णशिक्षा । सा संघम् उपस्थापनासंमुतिं याचति । ताय संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थापनासंमुतिं देति । यासां आर्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादश वर्षाये कुमारीभूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थापनासंमुतिं दीयमानां संघेन । सा तूष्णीम् अस्य । यस्य न क्षमति सा भाषितु । इयं प्रथमा कर्मवाचना । एवं द्वितिया तृतीया कर्मवाचनेति ।
31. दिन्ना आर्यमिश्रिकायो इत्थन्नामाये अष्टादश वर्षाये कुमारिभूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थापनासंमुति संघेन । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
32. उपसंपाद्याय उपाध्यायिनी याचितव्या । वन्दाम्य् आर्ये अहम् इत्थन्नामा आर्याम् उपाध्यायिनीं याचामि । आर्या मे उपसंपादेतु उपाध्यायिनीमिश्राहि । एवं द्वितियम् पि तृतीयम् पि याचितव्यं । उपाध्यायिनीय पात्रचीवराणि पर्येषितव्यानि । अनुश्रावणाचार्या पर्येषितव्या द्वे रहानुशासनाचार्या पर्येषितव्या यो गणो समुदानयितव्यो गणस्य उपनामयितव्यो ।
33. कर्म । शृणोतु मे आर्यसंघो इयम् इत्थन्नामा इत्थन्नामाय उपसम्पाद्या । यदि संघस्य प्राप्तकालं इत्थंनामा च इत्थन्नामा च इत्थन्नामां रहो ऽनुशासेय्या । अनुशासिष्यति आर्यसंघो इत्थन्नामा च इत्थन्नामा च इत्थन्नामां रहो । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि ।
34. ताहि दानि सा अनुशासितव्या गणस्य नातिदूरे नात्यासन्ने संक्षिप्तेन वा विस्तरेण वा ।
kinti dāni saṃkṣiptena | vaktavyā | śṛṇu kuladhite yaṃ yad evātra saṃghamadhye pṛcchiyasi tat tad eva yaṃ asti tam astīti vaktavyaṃ | yan nāsti tan nāftiti vaktavyaṃ | evaṃ saṃkṣiptena |
35. किन्ति दानि विस्तरेण । शृणु कुलधीते अयं सत्यकालो अयं भूतकालो याव सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरां विसम्वादेय्या या च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य श्राविकासंघं विसम्वादेय्या इमं ततो महासावद्यतरं ।
यं यद् एव संघमध्ये पृच्छियसि तं तद् एव यं अस्ति तं अस्तीति वक्तव्यं ।
अनुज्ञातासि अनुज्ञापकेहि । आमं । याचिता ते उपाध्यायिनी । आम । परिपूर्णन् ते पात्रचिवरं । आम । देशितशिक्षासि । आम । परिपूर्णशिक्षासि । आम । सम्मतासि विशुद्धासि भिक्षुणीहि । आम । मा मातृघातिनि । नहि । मा पितृघातिनि । नहि । मा अर्हन्तघातिनी । नहि । मा संघभेदिका । नहि । मा तथागतस्य दुष्टचित्तरुधिरोत्पादिका । नहि । चिरा परिनिवृतो खो पुन सो भगवांस् तथागतो र्हन् सम्यक्सम्बुद्धो ॥
मा भिक्षुदूषिका । नहि । मा स्तैन्यसम्वासिका । नहि । मा तिर्थिकापक्रान्तिका । नहि । मा दासि । नहि । मा अवपितिका । नहि । मा ऋणहारिका । नहि । मा राजभटि । नहि । मा राज्ञः किल्बिषकारिणि । नहि । उपसम्पन्नपूर्वासि । अन्यदापि यद्य् आह उपसम्पन्नपूर्वा ति । वक्तव्या गच्छ नस्य चल प्रपलाहि । नास्ति ते उपसम्पदा ।
अथ दान् आह । नहीति । उत्तरि समनुग्राहितव्या मा वातिला । मा पित्तिला । मा पिन्दिला । मा हल्लवाहिनी । मा पूयवाहिनी । मा चक्रवाहिनी । मा आर्द्रव्रणा । मा शुष्कव्रणा । मा शोणितव्रणा । मा शिखिरिणी । मा द्विपुरुषिका । मा स्त्रिपण्डिका । मा पुरुषद्वेषिणी
36. सन्ति खो पुनर् इमस्मिन् काये विविधा अनुशयिका आबाधा सय्यथीदं ।
दर्द्रु कण्डू कच्छू रकचा । विचर्चिका अर्शो भगन्दला । पाण्डुरोगो आलसको । लोहितपित्तं ज्वरो । कासो श्वासो सोषो अपस्मारो । वातोदरं दकोदरं । प्लीहोदरं कुष्ठं किटिभं मधुमेहो विसूचिका ।
सन्ति ते एते वा अन्ये वा विविधा अनुशयिका आबाधाः काये ऽस्मिन् न वा ।
37. यद्य् आह नहीति । वक्तव्या । यं कालं शब्दापियेसि तं कालम् आगच्छेसि ताहि दानीं आगत्वा सामीचिं कृत्वा वक्तव्यं अनुशास्ता ति ।
कर्मकारिकाय कर्म कर्तव्यं । शृणोतु मे आर्यसंघो इयम् इत्थम्नामा इत्थन्नामाये उपसम्पाद्या इत्थन्नामाय च इत्थन्नमाय च रहोऽनुशास्ता । यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा इत्थंनामाय उपाध्यायिन् ईय संघमध्यम् उपसंक्रामेय्या । उपसंक्रमिष्यति आर्यमिश्रिकायो इत्थन्नामा इत्थंनामाय उपाध्यायिनीय संघमध्यं । क्षमते तं संघस्य । यस्मात् तूष्णीं एवम् एतं धारयामि ।
38. सा दानि शब्दापितव्या । ताय दानि आगच्छित्वा वृद्धान्तातो प्रभृति सर्वासां पादा शिरसा वन्दितव्याः यावन् नवकान्तं ।
कर्मकारिकाये अग्रतः अष्टोहं + + + + + + + + +तकं कृत्वा पर्यङ्केन निषीदितव्यं दुर्बलवस्तिको मातृग्रामः मा अफासु भवेया ति ।
39. कर्मकारिकाय कर्म कर्तव्यं । शृणोतु मे आर्यसंघो इयम् इत्थन्नामा इत्थन्नामाये उपसंपाद्या इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा इत्थम्नामाय उपाध्यायिनीय संघम् उपसंपदं याचेय्या । याचिष्यति आर्यमिश्रिकायो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् मे धारयामि ।
40. ताय दानि याचितव्यं । वन्दाम्य् आर्यसंघं । अहं इत्थन्नामा अर्थहेतोर् नाम गृह्णामि इत्थन्नामाये उपाध्यायिनीय उपसम्पाद्या इत्थंनामाय च इत्थंनामाय च आर्या रहोऽनुशास्ता । साहम् इत्थन्नामा अर्थहेतोर् नाम गृह्णामि इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं याचामि । उपसंपादेतु मे आर्यसंघो । उल्लुम्पतु मे आर्यसंघो । अनुकम्पतु मे आर्यसंघो । अनुकम्पको अनुकम्पाम् उपादाय । एवं द्वितीयम् पि तृतीयम् पि याचयितव्यं ।
41. कर्मकारिकाय कर्म कर्तव्यं । शृणोतु मे आर्यसंघो । इयम् इत्थन्नामा इत्थंनामाये उपसंपाद्या । इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । अनेया इत्थन्नामाय इत्थन्नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो । यदि संघस्य प्राप्तकालं इत्थन्नामां इत्थंनामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् पृच्छेमः । पृच्छिष्यति आर्यमिश्रिकायो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि ।
42. सा दानि वक्तव्या शृणु । कुलधीते संघ सत्यकालो अयं भूतकालो याव सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरान् विसम्वादेय्या या च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य श्राविकासंघं विसम्वादेय्या इमन् ततो महासावद्यतरं ।
43. यं यद् एव संघमध्ये पृच्छियेसि तं तद् एव यं अस्ति तं अस्तीति वक्तव्यं । यन् नास्ति तन् नास्तीति वक्तव्यं ।
अनुज्ञातासि अनुज्ञापकेहि । आम । याचिता ते उपाध्यायिनी । आम । परिपूर्णन् ते पात्रचीवरं । आम । देशितशिक्षासि । आम । परिपूर्णशिक्षासि आम । सम्मतासि । विशुद्धासि भिक्षुणीहि । आम । मा मातृघातिनि । नहि । मा पितृघातिनि । नहि । मा अर्हद्घातिनि । नहि । मा संघभेदिका । नहि । मा तथागतस्य दुष्टचित्तरुधिरोत्पादिका । नहि ।
चिरपरिनिवृतो खो पुन सो भगवांस् तथागतो ऽर्हन् सम्यक्सम्बुद्धो ।
44. मा भिक्षुदूषिका । नहि । मा स्तैन्यसम्वासिका । नहि । मा तिर्थिकापक्रान्तिका । नहि । मा स्वयं सन्नद्धिका । नहि । मा दासि । नहि । मा अवपितिका । नहि । मा ऋणहारिका । नहि । मा राजभटि । नहि । मा राज्ञः किल्बिषकारिणी । नहि । उपसम्पन्नपूर्वासि अन्यदापि । यद्य् आह उपसम्पन्नपूर्वा ति । वक्तव्या । गच्छ नस्य चल प्रपलाहि नास्ति ते उपसंपदा ।
45. अथाह । नहीति । वक्तव्या । मा वातिला । नहि । मा पित्तिला । नहि । मा पिन्दिला । नहि । मा हल्लवाहिनी । नहि मा पूयवाहिनी । नहि । मा चक्रवाहिनी । नहि । मा आर्द्रव्रणा । नहि । मा शुष्कव्रणा । नहि । मा शोनितव्रणा । नहि । मा शिखरिनी । नहि । मा द्विपुरुषिका । नहि । मा स्त्रीपण्डिका । नहि । मा पुरुषद्वेषिणी । नहि ।
46. सन्ति खो पुनर् इमस्मिं काये विविधा आनुशयिका आबाधा संयथीदं । दर्द्रु कण्डू कच्छू रकचा । विचर्चिका अर्शो भगन्दला । पाण्डुरोग अलसको । लोहितपित्तं । ज्वरो । कासो श्वासो शोषो अपस्मारो । वातोदरं दकोदरं प्लीहोदरं मधुमेहो । सन्ति ते एते वा अन्ये वा विविधा आनुशयिका वा आबाधाः काये ऽस्मिन् न वा । यद्य् आह नहीति वक्तव्यं । तूष्णीका भवाहीति ।
47. कर्मकारिकाये कर्म कर्तव्यं । शृणोतु मे भन्ते आर्या संघो इयम् इत्थन्नामा इत्थन्नामाये उपसंपाद्या इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । ताय इत्थन्नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचितानया उपाध्यायिनी । परिपूर्णम् अस्याः पात्रचीवरं । देशितशिक्षा परिपूर्णशिक्षा । सम्मता परिशुद्धा अन्तरायिकेहि धर्मेहि । आत्मानं प्रतिजानाति । यदि संघस्य प्राप्तकालं इत्थंनामाये उपाध्यायिनीय संघमध्ये त्रयो निश्रया देशयामः । देशयिष्यन्ति आर्यसंघो इत्थन्नामाये इत्थन्नामाय उपाध्यायिनीय संघमध्ये त्रयो निश्रयान् । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
48. सा दानि वक्तव्या । शृणु कुलधीते इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन अर्थकामेन हितैषिना अनुकम्पकेन अनुकम्पाम् उपादाय श्राविकाणां त्रयो निश्रया अभिज्ञाय देशिताः प्रज्ञप्ताः सम्यग् आख्याताः । यत्रोत्सहन्तीयो श्राद्धायो कुलधीतायो उपसंपदीयन्ति । अनुत्सहन्तीयो नोपसंपादीयन्ति ।
निश्रय 1
49. पांसुकूलं चीवराणां अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणीसारूप्यञ् च । तण् च निश्राय प्रव्रज्या उपसंपदा भिक्षुणीभावः यत्रोत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसंपादीयन्ति । अत्रच ते कुलधीते यावज्जीवम् उत्साहो करणीयो । उत्सहसि त्वं कुलधीते यावज्जीवं पांसुकूलं चीवराणान् धारयितुं । उत्सहन्त्या उत्सहामीति वक्तव्यं । अतिरेकलाभः कम्बलं कर्पासं क्षौमं शाणं भङ्गं क्षौमुतिका चीवराणां ॥
निश्रय 2
50.उच्छिष्टपिण्डं भोजनानां अल्पञ् च सुलभञ् च कल्पिकं चानवद्यञ् अ श्रमणीसारूप्यञ् च । तङ् च निश्राय प्रव्रज्या उपसंपदा भिक्षुणीभाव यत्रोत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसंपादीयन्ति ।
अत्र च ते कुलधीते यावज्जीवम् उत्साहो करणीयो । उत्सहसि त्वं कुलधीते यावज्जीवम् उच्छिष्टपिण्डं भोजनानां भोक्तुं । उत्सहन्तीयो उत्सहामीति वक्तव्यं । अतिरकलाभः पक्षिकानिमन्त्रणा चातुर्दशिका पाञ्चदशिका उपोषधिका शलाकाभक्तं ।
निश्रय 3 51. पूतिमूत्रं भैषज्यानाम् अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणीसारूप्यञ् च । तञ् च निश्राय प्रव्रज्या उपसंपदा भिक्षुणीभावः । अत्र उत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसम्पादीयन्ति । अत्र च ते कुलधीते यावज्जीवम् उत्साहो करणीयो । उत्सहसि त्वं कुलधीते यावज्जीवं पूतिमूत्रं भैषज्यानां प्रतिसेवितुं । उत्सहन्त्या उत्साहामीति वक्तव्यं । अतिरेकलाभः सर्पिस्तैलं मधुफाणितं वसानवनीतं इमे त्रयो निश्रया आर्यवंशा । अनुशिक्षितव्यं अनुवर्तितव्यं ।
52. कर्मकारिकाय कर्म कर्तव्यं । शृणोतु मे आर्या संघो इयम् इत्थन्नामा इत्थंनामाये उपसंपाद्या इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । ताय इत्थन्नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचितानया उपाध्यायिनी । परिपूर्णम् अस्याः पात्रचीवरन् । देशितशिक्षा । परिपूर्णशिक्षा । सम्मता । परिशुद्धा अन्तरायिकेहि धर्मेहि । आत्मानं प्रतिजानाति । निश्रयेषु चोत्सहति । यदि संघस्य प्राप्तकालं । संघो इत्थंनामां इत्थंनामाय उपाध्यायनीय उपसंपादेय्य । ओवयिका एषा ज्ञप्तिः ।
53. शृणोतु मे आर्या संघो इयम् इत्थन्नामा इत्थन्नामाये उपसंपाद्या । इत्थंनामाय च इत्थंनामाय च रहोऽनुशास्ता । संघो ऽनया इत्थंनामाय इत्थन्नामाय उपाध्यायिनीय यावत् तृतीयकम् उपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचितानया उपाध्यायिनी परिपूर्णम् अस्याः पात्रचीवरं । देशितशिक्षा । परिपूर्णशिक्षा । सम्मता । परिशुद्धा अन्तरायिकेहि धर्मेहि आत्मानं प्रति जानाति । निश्रयेषु चोत्सहति ।
54. तां संघो इत्थन्नामां इत्थन्नामाय उपाध्यायिनीय उपसंपादेति । यासाम् आर्यमिश्रिकाणां क्षमति इत्थन्नामां इत्थन्नामाय उपाध्यायिनीय उपसंपादीयमानां संघेन । सा तूष्णीम् अस्य । यस्या न क्षमति सा भाषतु । इयं प्रथमा कर्मवाचना । एवं द्वितीया । तृतीया कर्मवाचनेति । वक्तव्यं । उपसम्पन्नेयम् आर्यमिश्रिकायो इत्थन्नामा इत्थन्नामाये उपाध्यायायिनीय संघेन । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
55. सा दानि वक्तव्या । जानामि त्वम् इत्थन्नामे उपसंपन्ना सूपसंपन्ना त्रैवाचिकेन कर्मणा । ज्ञप्तिचतुर्थेन अनाघातपञ्चमेन । समग्रेण संघेन न व्यग्रेण । दशबद्धेन गणेन । सातिरेकदश बद्धेन ।
56. तथा दानि करोहि यथा ।
बुद्धशोभना च भोसि । धर्मशोभना च भोसि । संघशोभना च भोसि । बुद्ध गुरु च धर्म गुरु च संघ गुरु च । उपाध्यायिनी गुरु च । आचार्यायिणी गुरु च । शिक्षा गुरु च । तथा दानि करोहि । यथा । आरागयित्वा न विरागयसि । दुर्लभा क्षणसंपदा ।
यस्यार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा । तच्छीलम् अनुरक्षस्व बालाग्रं चमरी यथा ॥ [1]
यन् मनापम् अभिप्रेतम् बुद्धस्यादित्यबन्धुनो । श्राविकानाञ् च विज्ञानां निपुणानाम् अर्थदर्शिनां । सो ते अर्थो अनुप्राप्तो लब्धा ते उपसंपदा ॥ [2]
अशोकं विरजं क्षेमं द्वीपं लेनं परायणं । तं प्रापुणाहि निर्वाणं एषा ते सर्वसम्पदा ॥ [3]
57. ताम् एवम् भिक्षुणीगणेनोपसंपादिय भिक्षुविहारं गत्वा उपाध्यायिनीय उभयतो संघो समुदानयितव्यो । आसनप्रज्ञप्ति कर्तव्या नीचतमा एकदेशे भिक्षुणीसम्घस्य । यदा भिक्षू सामीचिं कृत्वा निषण्णा भवन्ति तदा भिक्षुणीहि सामीचिं कृत्वा निषीदितव्यम् । ततो उपाध्यायिनीय उपसंपाद्या गणस्योपनामयितव्या । कर्मकारकेण पृच्छितव्या । परिशुद्धासि भिक्षुणीहीति । न पृच्छति विनयातिक्रमम् आसादयति ।
58. कर्मकारकेण कर्म कर्तव्यं । शृणोतु मे भन्ते संघो । इयम् इत्थन्नामा भिक्षुणी । ताये इत्थन्नामा अन्तेवासिनी उपसंपाद्या । विशुद्धा भिक्षुणीहि ।
यदि संघस्य प्राप्तकालं इत्थन्नामा भिक्षुणी इत्थन्नामाये अन्तेवासिनीये संघम् उपसंपदं याचेय्या । याचिष्यति भन्ते संघो इत्थन्नामा इत्थन्नामाये अन्तेवासिनीये संघम् उपसंपदं । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
59. ताय दानि याचितव्यं । वन्दाम्य् आर्यसंघं अहम् इत्थन्नामा भिक्षुणी । तस्या मे इयम् इत्थन्नामा अन्तेवासिनी उपसम्पाद्या । साहम् इत्थन्नामाय अन्तेवासिनीये संघम् उपसंपदं याचामि । उपसंपादेतु तं संघो इत्थन्नामां मया इत्थन्नामाय उपाध्यायिनीय अनुकम्पाम् उपादाय । द्वितीयम् पि तृतीयम् पि याचितव्यं । कर्म । शृणोतु मे भन्ते संघो । इयम् इत्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या । इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । यदि सम्घस्य प्राप्तकालं इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं याचेय्या । याचिष्यति भन्ते संघो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
60. ताय दानि याचितव्यं । वन्दाम्य् आर्यसंघं । अहं इत्थन्नामा अर्थहेतोर् नाम गृह्णामि इत्थन्नामाये उपाध्यायिनीये उपसंपाद्या । इत्थन्नामाय च इत्थन्नामाय च आचार्याय रहोऽनुशास्ता । साहम् इत्थन्नामा अर्हहेतोर् नाम गृह्णामि इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं याचामि । उपसंपादेतु मे आर्यो संघो । उल्लुम्पतु आर्यो संघो । अनुकम्पतु मे आर्यो संघो । अनुकम्पको अनुकम्पाम् उपादाय एवम् द्वितीयम् पि तृतीयम् पि ।
कर्म । शृणु मे भन्ते संघो । इयम् इत्थन्नामा इत्थन्नामाये उपसंपाद्या । इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । अनया इत्थन्नामाय इत्थन्नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो । यदि संघस्य प्राप्तकालं इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् पृच्छेमः । पृच्छिष्यति भन्ते संघो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
61. सा दानि वक्तव्या । शृणु कुलधिते । अयं सत्यकालो । अयं भूतकालो याव सदेवकं लोकं समारकं सब्रह्मणं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरां विसम्वादेय्या य च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य उभयतोसंघं विसम्वादेय्या इमन् ततो महासावद्यतरं । यं यद् एव ते संघमध्ये पृच्छेयाम तं तद् एव यम् अस्ति तम् अस्तीति वक्तव्यं । यं नास्ति तं नास्तीति वक्तव्यं ।
62. अनुज्ञातासि अनुज्ञापकेहि । आम । याचिता ते उपाध्यायिनी । आम । परिपूर्णन् ते पात्रचीवरं । आम । देशितशिक्षासि । आम । परिपूर्णशिक्षासि । आम । सम्मतासि । आम । विशुद्धासि भिक्षुणीहि । आम । मा मातृघातिनी । नहि । मा अर्हद्घातिनी । नहि मा संघभेदिका । नहि । मा तथागतस्य दुष्टचित्तरुधिरोत्पादिका । नहि । चिरपरिनिवृत्तो खो पुन सो भगवांस् तथागतो ऽर्हन् सम्यक्सम्बुद्धो ।
मा भिक्षुदूषिका नहि मा स्तैन्यसम्वासिका । नहि । मा तीर्थिकापक्रान्तिका । नहि । मा दासी । नहि । मा अवपितिका । नहि । मा ऋणहारिका । नहि । मा राजभटी । नहि । मा राज्ञः किल्बिषकारिणी । नहि । उपसम्पन्नपूर्वासि अन्यदापि । यद्य् आह । आमन् ति । वक्तव्या । गच्छ नस्य चल प्रपलाय नास्ति ते उपसंपदा । अथाह नहीति । वक्तव्यं । सन्ति खो पुनर् इमस्मिं काये विविधा अनुशायिका आबाधाः । संयथीदं दद्रु कण्डू कच्छू रकचा । विचर्चिका कुष्ठं किटिभं । अर्शा भगन्दला । पाण्डुरोगो आलसो । लोहितपित्तं ज्वरो । कासो श्वासो सोषो अपस्मारो । वातोदरम् दकोदरं । प्लीहोदरं मधुमेहो विसूचिका । सन्ति ते एते वा अन्ये वा विविधा अनुसायिका आबाधा काये ऽस्मिन् न वा । यद्य् आह नहीति । वक्तव्या । तूष्णिका भवाहि ।
63. कर्म । शृणोतु मे भन्ते संघो । इयम् इत्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या । इत्थन्नामाय च इत्थननामाय च रहोऽनुशास्ता । अनया इत्थन्नामाय इत्थन्नामाय उपाध्यायिन्या संघो यावत् तृतीयकम् उपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचितानया उपाध्यायिनी । परिपूर्णं से पात्रचीवरं । देशितशिक्षा । परिपूर्णशिक्षा । सम्मता विशुद्धा भिक्षुणीहि । परिशुद्धा अनतरायिकैर्धर्मैर् आत्मानं प्रतिजानाति । यदि संघस्य प्राप्तकालं इत्थन्नामाये इत्थन्नामाय उपाध्यायिनीय संघमध्ये त्रयो निश्रया देशयामः । देशिष्यन्ति भन्ते संघो इत्थन्नामाय उपाध्यायिनीय संघमध्ये त्रयो निश्रयान् । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
निश्रय 1 64. सा वक्तव्या । शृणु कुलधीते इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्ढेनार्थकामेन हितैषिना अनुकम्पकेनानुकम्पाम् उपादाय श्राविकाणान् त्रयो निश्रया अभिज्ञाय देशिता प्रज्ञप्ताः सम्यग् आख्याताः । यत्रोत्सहन्तीयो श्राद्धायो कुलधीतायो उपसंपादीयन्ति अनुत्सहन्तीयो नोपसंपादीयन्ति । अत्र च कुलधिते यावज्जीवम् उत्साहो करणीयो । पांसुकूलं चीवराणाम् अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणीसारूप्यञ् च । तञ् च निश्राय प्रव्रज्योपसंपदा भिक्षुणीभावः । यत्रोत्सहन्तीयो श्राद्धायो कुलकुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसंपादियन्ति । अत्र च ते कुलधीते यावज्जीवम् उत्साहो करणीयो । उत्सहसि त्वं कुलधीते यावज्जीवं पांसुकूलं चीवराणान् धारयितुं । उत्सहन्तीय उत्सहामीति वक्तव्यं । अतिरेकलाभः कम्बलं कर्पासं क्षौमं शाणं भङ्गं क्षोमुतिका चीवराणां ।
निश्रय 2 उच्छिष्टपिण्डं भोजनानां अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणीसारूप्यञ् च । तञ् च निश्राय प्रव्रज्योपसंपदा भिक्षुणीभावः । यत्रोत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसंपादीयन्ति । अत्र च ते कुलधिते यावज्जीवम् उत्साहो करणीयो । उत्सहसि त्वं कुलधिते यावज्जीवम् उच्छिष्टपिण्दं भोजनानां भोक्तुं । उत्सहन्तीय उत्साहामीति वक्तव्यम् । अतिरेकलाभः । पक्षिकानिमन्त्रणा चातुर्दशिका पाञ्चदशिकायां उपोषधिका शलाकाभक्तं ।
निश्रय 3 पूतिमूत्रं भैषज्यानाम् अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणीसारूप्यञ् च । तञ् च निश्राय प्रव्रज्योपसंपद् भिक्षुणीभावः । यत्रोत्सहन्तीयो श्राद्धायो कुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसंपादीयन्ति । अत्र च कुलधीते यावज्जीवम् उत्साहो करणीयो । उत्सहसि त्वं कुलधीते यावज्जीवं पूतिमूत्रं भैषज्यानां प्रतिसेवितुं । उत्सहन्तीय उत्साहामीति वक्तव्यं । अतिरेकलाभः । सर्पिस्तैलं मधुफाणितं वसानवनीतं । इमे त्रयो निश्रया आर्यवंशा । अनुशिक्षितव्यं अनुप्रवर्तितव्यं ।
65. कर्मकारकेण कर्म कर्तव्यं । शृणोतु मे भन्ते संघो । इयं इत्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या इत्थन्नामा य च इत्थन्नामाय च रहोऽनुशास्ता संघो ऽनया इत्थन्नामाय इत्थन् नामाय उपाध्यायिनीय यावत् तृतीयकम् उपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचितानया उपाध्यायिनी । परिपूर्णम् अस्याः पात्रचीवरं । देशितशिक्षा । परिपूर्णाशिक्षा सम्मता विशुद्धा भिक्षुणीहि परिशुद्धा अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानाति । निश्रयेषु चोत्सहति यदि संघस्य प्राप्तकालं संघो इत्थन्नामां इत्थन्नामाय उपाध्यायिनीय उपसंपादेय्या । ओवयिका एषा ज्ञप्तिः ।
66. śṛṇotu me bhante saṃgho | iyam itthannāmā itthannāmāye bhikṣuṇīye upasaṃpādyā | itthannāmāya ca itthannāmāya ca raho'nuśāstā saṃgho 'nayā itthannāmāya upādhyāyinīya yāvat tṛtīyakam upasaṃpadaṃ yācito | anujñātā anujñāpakehi yācitānayā upādhyāyanīyinī | paripūrṇam asyāḥ pātracīvaraṃ | deśitaśikṣā | paripūrṇaśikṣā sammatā | viśuddhā bhikṣuṇīhi | pariśuddhā antarāyikair dharmair ātmānaṃ pratfiānāti | niśrayeṣu cotsahati | tāṃ saṃgho itthannāmāṃ itthannāmāye upādhyāyinīye upasaṃpādeti | yeṣām āyuṣmantānāṃ kṣamati itthannāmām itthannāmāye upādhyāyinīye upasaṃpādīyamānāṃ saṃghena | so tūṣṇīm asya | yasya na kṣamati so bhāṣatu | iyaṃ prathamā karmavācanā | evam dvitīyā | tṛtīyā karmavācaneti vaktavyaṃ | upasaṃpanneyaṃ bhante saṃgho itthannāmāṃ itthannāmāye upādhyāyinīya saṃghena | kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi |
67. अत्रान्तरे च्छाया मापयितव्या । नक्षत्राणि वा गणयितव्यानि
सा दानि वक्तव्या । एषासि त्वं कुलधीते उपसंपन्ना सूपसंपन्ना त्रैवाचिकेन कर्मणा । ज्ञप्तिचतुर्थेन । अनाघातपञ्चमेन उभयतः संघेन समग्रेण न व्यग्रेण दशबद्धेन गणेन सातिरेकदशबद्धेन वा ।
तथा दानि करोहि यथा । बुद्धशोभना च भोसि धर्मशोभना च संघशोभना च । बुद्ध गुरु च धर्म गुरु च संघ गुरु च । उपाध्यायिनी गुरु च आचार्या गुरु च तथा दानि करोहि यथा ।
आरागयित्वा न विरागयसि दुर्लभा क्षणसम्पदा ।
यसार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा । तच्छीलम् अनुरक्षस्व बालाग्रं चमरी यथा । [1]
यन् मनापम् अभिप्रेतं बुद्धस्यादित्यबन्धुनो । श्राविकानाञ् च विज्ञानां निपुणानाम् अर्थदर्शिनां । सो ते अर्थो अनुप्राप्तो लब्धा ते उपसंपदा ॥ [2]
अशोकं विरजं क्षेमं द्वीपं लेनं परायणं । तं प्रापुणाहि निर्वाणं एषा ते सर्वसम्पदा ॥ [3]
68. पारिवेणिका । अष्टौ पाराजिका धर्माः । एकूनविंशति संघातिशेषा धर्माः । त्रिंशन् निःसर्गिकपाचत्तिका धर्माः । अष्ट प्रातिदेशिका धर्माः । चतुषष्टि शेखिया धर्माः । सप्त अधिकरणशमथा धर्माः । द्वौ धर्मौ धर्मो ऽनुधर्मश् च । एष ते कुलधीते संक्षिप्तेन ओवादो । विस्तरेण ते उपाध्यायिनीआचार्यायो ओवदिश्यन्ति ।
69. शृणु त्वम् इत्थन्नामे । इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन एवं प्रव्रजितोपसम्पन्नाये भिक्षुणीये चत्वारः श्रामणीका रका धर्मा आख्याता ।
आक्रुष्टाय न प्रत्याक्रोषितव्यं रोषिताय न प्रतिरोषितव्यं । भण्डिताय न प्रतिभण्डितव्यं ताडिताय न प्रतिताडितव्यं ॥ [1]
प्रासादिकाय प्रव्रज्या परिशुद्धायोपसंपदा । आख्याता सत्यनामेन सम्बुद्धेन प्रजानता ॥ [2]
सर्वपापस्याकरणं कुशलस्योपसंपदा । स्वचित्तपर्यादमनं एतद् बुद्धानुशासनं ॥ [3]
70. एकम् इदङ् गौतमि समयं तथागतो वैशालीयं विहरति । महावने कूटागारशालायान् धर्मदिन्नाये दानि भिक्षुणीये द्वे अन्तेवासिनीयो उपसंपाद्यायो । अप्रशर्केण दानि लिच्छविकुमारेण श्रुतं । धर्मदिन्नाये भिक्षुणीये द्वे अन्तेवासिनीयो उपसंपाद्यायो । ता पञ्चाहं पूर्वे एवञ् चैवञ् च खलीकृतो गच्छाम्य् अहन् तायो उपसम्पाद्यायो ब्रह्मचर्यातो याचयामीति धर्मदिन्नाये श्रुतं ।
71. सा दानि येन भगवांस् तेनोपसंक्रमित्वा भगवन्तम् एतद् अवोचत् । मम भगवन् द्वे अन्तेवासिनीयो उपसंपाद्यायो । तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायः । लभ्या भगवन् तायो तत्रस्थितायो इहस्थितेन संघेन उपसंपादयितुं । भगवान् आह । लभ्या । गच्छ प्रथमं भिक्षुणीगणेनोपसंपादिय पश्चाद् भिक्षुविहारं गत्वा दूतोपसंपदाप्रतिग्राहकान् याच द्वौ वा त्रीणि वा गण न क्षमति । ददातु च ते संघो दूतोपसंपदाप्रतिग्राहकान् । साधू ति वदित्वा धर्मदिन्ना भिक्षुणी भगवतो ऽन्तिकात् प्रक्रान्ता । यावत् ।
72. कर्मकारकेण कर्म कर्तव्यं । शृणोतु मे भन्ते संघो इयन् धर्मदिन्ना भिक्षुणी । तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो । तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो । यदि संघस्य प्राप्तकालं धर्मदिन्ना भिक्षुणी इत्थन्नामाय च इत्थन्नामाय च अन्तेवासिनीनां तत्रस्थितानाम् इहस्थितं संघं दूतोपसंपदाप्रतिग्राहकान् याचेय । याचिष्यति भन्ते संघो धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनाम् उपसंपाद्यानां तत्रस्थितानां इहस्थितं संघं दूतोपसंपदाप्रतिग्राहकान् । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
73. ताय दानि याचितव्यं । वन्दाम्य् आर्यसंघं अहन् धर्मदिन्ना भिक्षुणी । तस्या मे इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो । तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो । साहं धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनां उपसंपाद्यानान् तत्रस्थितानाम् इहस्थितं संघं दूतोपसंपादाप्रतिग्राहकान् याचामि । साधु भव मे आर्यो संघो इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनां उपसंपाद्यानां तत्रस्थितानाम् इहस्थितो संघो दूतोपसंपदाप्रतिग्राहकान् देतु । एवं द्वितीयम् पि तृतीयम् पि याचितव्यं ।
74. कर्म । शृणोतु मे भन्ते संघो । इयन् धर्मदिन्ना भिक्षुणी । तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो । तासाम् इहागच्छन्तिनां स्याद् ब्रह्मचर्यन्तरायः । सेयन् धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च उपसंपाद्यानां तत्रस्थितानाम् इहस्थितं संघं दूतोपसंपदाप्रतिग्राहका याचयति । यदि संघस्य प्राप्तकालं संघो इत्थन्नामं च इत्थन्नामं च दूतोपसंपदाप्रतिग्राहकान् सम्मन्येया । इवयिका एषा प्रज्ञप्तिः ।
75. शृणोतु मे भन्ते संघो । इयं धर्मदिन्ना भिक्षुणी तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनी उपसंपाद्या तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो । सेयं धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनां उपसंपाद्यानां तत्रस्थितानां इहस्थितं संघं दूतोपसंपदाप्रतिग्राहकान् याचते । तान् संघो धर्मदिन्नाये भिक्षुणीये इत्थन्नामं च इत्थन्नामं च दूतोपसंपदाप्रतिग्राहकान् सम्मन्यति । येषाम् आयुष्मन्तानां क्षमति धर्मदिन्नाये भिक्षुणीये इत्थन्नामो च इत्थन्नामो च दूतोपसंपदाप्रतिग्राहकान् सम्मन्यियमानान् संघेन । सो तूष्णीम् अस्य । यस्य न क्षमति सो भाषतु । इयं प्रथमा कर्मवाचना । एवं द्वितीय तृतीया कर्मवाचना इति कर्तव्यं ।
76. सम्मता । भन्ते संघो । धर्मदिन्नाये भिक्षुनिये इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनां तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तराय इति कृत्वा तत्रस्थितानाम् इहस्थितेन संघेन इत्थन्नामो च इत्थन्नामो च भिक्षू दूतोपसंपदाप्रतिग्राहकाः क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
77. तेहि दनि सम्मतेहि समानेहि धर्मदिन्नाये भिक्षुणीये उपाश्रयं गन्तव्यं । ताहि दानि धर्मदिन्नाय अन्तेवासिनीहि ते याचितव्याः । वन्दाम्य् आर्यं इहस्थितायो इत्थन्नामा च इत्थन्नामा च आर्याये धर्मदिन्नाये उपाध्यायिनीये उपसंपाद्यायो । विशुद्धा भिक्षुणीहि । इत्थन्नामाय च इत्थन्नामाय च आर्याय रहोऽनुशास्तायो तासाम् अस्माकं तत्रगच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो । ता वयं इत्थन्नामा च इत्थन्नामा च आर्याय धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितं संघम् उपसंपदं याचामः । उपसंपादेतु मे आर्य संघो । उल्लुम्पतु मे आर्यो संघो । अनुकम्पतु मे आर्यो संघो अनुकम्पको अनुकम्पाम् उपादाय । एवं द्वितीयं पि तृतीयंपि याचितव्यं ।
78. ततो भिक्षुविहारङ् गन्तव्यं । यं कालं उभयतो संघो उपविष्टो भवति ततो धर्मदिन्नाय याचितव्यं । वन्दाम्य् आर्यसंघं । अहन् धर्मदिन्ना भिक्षुणी । तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो । विशुद्धा भिक्षुणीहि । तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो । साहन् धर्मदिन्ना भिक्षुणी इत्थन्नामाय च इत्थन्नामाय च अन्तेवासिनीनाम् उपसंपाद्यानां तत्रस्थितानाम् इहस्थितं संघं उपसंपदं याचामि । उपसंपादेतु तायो संघो मया इत्थन्नामाय उपाध्यायिनीय । एवं द्वितीयम् पि तृतीयं पि याचितव्यं ।
79. यं कालं धर्मदिन्नाय याचितं भवति । ततो दूतोपसंपदाप्रतिग्राहकेहि याचितव्यं । वन्दाम्य् आर्यसंघं । इयन् धर्मदिन्ना भिक्षुणी तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिन्यो उपसंपाद्यायो । तासाम् इहागच्छन्तीनां स्यात् ब्रह्मचर्यान्तरायो । ताहि इत्थन्नामाय च इत्थन्नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थिताहि इहस्थितः संघ उपसंपदं याचितः । उपसंपादेतु तायो आर्यो संघो । उल्लुम्पतु तायो आर्यो संघो । अनुकम्पतु तायो आर्यो संघो । अनुकम्पको अनुकम्पाम् उपादाय । एवं द्वितीयम् पि तृतीयम् पि याचितव्यं ।
80. कर्मकारकेन कर्म कर्तव्यं । शृणोतु मे भन्ते संघो इयं धर्मदिन्ना भिक्षुणी । तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो इत्थन्नामा च इत्थन्नामा च रहोऽनुशास्तायो । तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो ताहि इत्थन्नामाय च इत्थन्नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्र स्थिताहि इहस्थितः संघो उपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचिता ताहि उपाध्यायिनी । परिपूर्णं तासां पात्रचीवरं । देशितशिक्षायो परिपूर्णशिक्षायो सम्मतायो विशुद्धायो भिक्षुणीहि । परिशुद्धायो अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानन्ति । निश्रयेषु चोत्सहन्ति । यदि संघस्य प्राप्तकालं इत्थन्नामां च इत्थन्नामां च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितायो इहस्थितो संघो उपासंपादेय्या । ओवयिका एषा ज्ञप्तिः ।
81. शृणोतु मे भन्ते संघो । इयन् धर्मदिन्ना भिक्षुणी । तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो । इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्तायो । तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो । ताहि इत्थन्नामाय च इत्थन्नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थिताहि इहस्थितो संघो उपसंपदं याचितो । अनुज्ञातायो अनुज्ञापकेहि । याचिता ताहि उपाध्यायिनी । परिपूर्णं तासां पात्रचीवरं । देशितशिक्षायो । परिपुर्णशिक्षायो । सम्मतायो विशुद्धायो भिक्षुणीहि । परिशुद्धायो अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानन्ति । तायो संघो इत्थन्नामां च इत्थन्नामां च धर्मदिन्नाय उपाध्यायिनीय इहस्थितो संघो उपसंपादेति । येषाम् आयुष्मतां क्षमति इत्थन्नामा च इत्थन्नामा च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितायो इहस्थितेन संघेन उपसंपादीयमानायो । सो तूष्णीम् अस्य । यस्य न क्षमति सो भाषतु । इयं प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचना ।
82. कर्म कर्तव्यम् । उपसम्पन्ना भन्ते संघो इत्थन्नामा च इत्थन्नामा च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितायो इहस्थितेन संघेन । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि ।
एवम् उपसंपदाय तेहि दूतोपसंपदाप्रतिग्राहकेहि भिक्षुण्युपाश्रयङ् गत्वा तायो उपसंपन्नायो वक्तव्यायो । एता इत्थन्नामायोपसंपन्नायो सूपसंपन्नायो त्रैवाचिकेन कर्मणा ज्ञप्तिचतुर्थेन । अनाघातपञ्चमेन । समग्रेण उभयतः संघेन दशबद्धेन गणेन । सातिरेकदशबद्धेन वा ।
तथा दानि करोथ यथा । बुद्धशोभना च भोथ । धर्मशोभना च संघशोभना च ।
बुद्ध गुरु च । धर्म गुरु च संघ गुरु च । उपाध्यायिनी गुरु च । आचार्य गुरु च । तथा दानि करोथ यथा । आरागयित्वा न विरागयथ । दुर्लभा क्षणसम्पदा ।
यस्यार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा तच्छीलम् अनुरक्षध्वं बालाग्रं चमरी यथा ॥ [1]
यं मनापम् अभिप्रेतं बुद्धस्यादित्यबन्धुनो । श्राविकानां च विज्ञानां निपुणानाम् अर्थदर्शिनां । सो वो ऽर्थो अनुप्राप्तो लब्धा वो उपसंपदा ॥ [2]
अशोकं विरजं क्षेमं द्वीपं लेनं परायणं तं प्रापुणथ निर्वाणं एषा वो सर्वसंपदा ॥ [3] शेषं पूर्ववद् योज्यं ।
एवं गौतमि अष्टादशवर्षाये कुमारी भूताये उभयतःसंघे उपसंपदा प्रत्याशंसितव्या । अयं गौतमि भिक्षुणीनां द्वितीयो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद् वेलामिव महासमुद्रेण ।
गुरुधर्म 3 83. किन् ति दानि गौतमि आवडो भिक्षुणीनां भिक्षूहि वचनपथो भूतेन वा अभूतेन वा अनावडो भिक्षूणां भिक्षुणीहि वचनपथो भूतेन अभूतेन । न क्षमति भिक्षुणीहि भिक्षुं धर्षिय वक्तुं कोण्टभिक्षू ति वा वैद्यभिक्षू ति वा चूडभिक्षू ति वा अखल्ला महल्लअप्रतिज्ञअकुशलो ति वा वक्तुं । अथैव जल्पति गुरुधर्मम् अतिक्रमति ।
84. अथ दानि भिक्षुणीये कश्चित् प्रव्रजितो भवति ज्ञातिको वा भ्राता वा । सो च भवति उद्धतो उन्नडो । न क्षमति अध्युपेक्षितुं नामपि क्षमति धर्षिय वक्तुं । अथ खलु प्रज्ञया सम्ज्ञापयितव्यो यदि तावत् तरुणको भोति वक्तव्यो । सालोहित इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि । किन् दानि यदा जीर्णो वृद्धो महल्लको अध्वगतवयन् अनुप्राप्तो भविष्यसि । एतत् तव साधु एतत् प्रतिरूपं यच् च उद्दिशेशि स्वाध्यायेसि भद्रको गुणवान् शिक्षाकामो भवेसि बुद्धानाम् शासने योगम् आपद्येसि ।
85. अथ दानि सो वृद्धो भोति । वक्तव्यो । इदनीं इमीदृशो पुनस् त्वं तरुअणकाले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि । किन् दानि यदा मण्डलद्वारम् अनुप्राप्तो भविष्यसि तदा शिक्षिष्यसि या प्य् एषा तव पर्षा सापि तव दृष्टा अनुकृतिम् आपद्यमाना अनयव्यसनम् आपद्यिष्यतीति एतत् तव साधु एतत् प्रतिरूपं यत् त्वम् उद्दिशसि स्वाध्यायेसि भद्रको गुणवान् । शिक्षाकामो भवेसि बुद्धानां शासने योगम् आपद्येसि सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्टभिक्षू ति वा वैद्यभिक्षू ति वा चूडभिक्षू ति वा अखल्लमहल्लअप्रकृतिज्ञअकुशलो ति वा धर्षिय जल्पति गुरुधर्मम् अतिक्रमति ।
86. अनावडो भिक्षूणां भिक्षुणीहि वचनपथो भूतेन वा अभूतेन इति न क्षमति भिक्षुणा भिक्षुणीं धर्षिय वक्तुं मुण्डस्त्री छिन्नकवडेति जल्पति विनयातिक्रमम् आसादयति ।
87. अथ दानि भिक्षोर् माता वा भगिनी वा प्रव्रजितिका भवति सा च उद्धता वा उन्नडा वा भवति । न क्षमति अध्युपेक्षितुं यदि तावत् तरुणिका भोति । वक्तव्या । सालोहिते इदानीं त्वं न शिक्षिष्यसि कदा शिक्षिष्यसि । किं दानि यं कालं जीर्णवृद्धा महल्लिका भविष्यसि एतत् तव साधु एतत् प्रतिरूपं यत् त्वं उद्दिशेसि स्वाध्यायेसि भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धनां शासने योगम् आपद्येसि ।
88. अथ दानि सा वृद्धा भोति । वक्तव्या । सालोहिते इदानीं त्वम् ईदृशी कीदृशी पुनस् तरुणीकाले इदानीं त्वन् न शिक्षसि कदा शिक्षिष्यसि किन् दानि यं कालं मण्डलद्वारम् अनुप्राप्ता भविस्यसि तदा शिक्षिष्यसि या प्य् एषा तव पर्षा सापि तव दृष्टा अनुकृतिम् आपद्यमाना अनयेन व्यसनम् आपद्यिष्यतीति । एतत् तव साधु एतत् प्रतिरूपं यत् त्वं उद्दिशेसि स्वाध्यायसि भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धानां शासने योगम् आपद्येसीति ।
एष गौतमि आवटो भिक्षुणीनां भिक्षूहि वचनपथो भूतेन वा । अभूतेन वा ।
अनावटो भिक्षूणां भिक्षुणीहि वचनपथो भूतेन नो अभूतेन ।
अयं गौतमि भिक्षुणीनाम् तृतियो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद् अनतिक्रमणीयो वेलामिव महासमुद्रेण ।
गुरुधर्म 4 89. किन् ति दानि गौतमि भक्ताग्रं शयनासनाग्रं विहाराग्रञ् च भिक्षुणीहि भिक्षुसंघातो सा दयितव्यं ।
एषो दानि कोचि भिक्षुणीसंघस्य भक्तं करोति वक्तव्यो । ज्येष्ठपर्यायता करोहीति । अथ दानि सो आह नास्ति मम तंहि श्रद्धा नास्ति प्रसादो ति वक्तव्यः । वयं पि न प्रतिच्छामो ति । अथ दान् आह । दत्तपूर्वं तेषां मम मात्रा वा पित्रा वा गोष्ठीसम्बन्धेन वा श्रेणीसंबन्धेन वा समयसम्भन्धेन वा आर्यमिश्रिकाणां न कदाचिन् मया भक्तं कृतपूर्वं । प्रतिगृह्णन्तु आर्यमिश्रिका ति अन्तमसतो एकपिण्डपातं पि दापयित्वा भिक्षुसंघस्य भिक्षुणीसंघो शतरसं पि भोजनं प्रतिच्छति अनापत्तिः ।
90. किन् ति दानि शयनासनाग्रं । एषो दानि कोचिद् भिक्षुणीसंघस्य शयनासनं ददाति । वक्तव्यं । ज्येष्ठपर्यायतावद् देहीति । अथ दानि सो आह नास्ति मम तहिं श्रद्धा नास्ति प्रसादो । वक्तव्यं ।
वयं पि न प्रतिच्छामो ति । अथ दान् आह । दत्तपूर्वं मम आर्ये भिक्षुसंघस्य शयनासनं मात्रा वा यावत् समयसम्बन्धेन वा । प्रतीच्छन्त्वार्यमिश्रिका ति अन्तमसतो खयु[?]का मञ्चं पि भिक्षुसंघस्य दापयित्वा महार्हं शयनासनं भिक्षुणीसंघः प्रतीच्छत्य् अनापत्तिः ।
91. किन् ति दानि विहाराग्रं । एषो दानि कोचित् भिक्षुणीसंघस्य विहारं प्रतिष्ठापयति । वक्तव्यं । ज्येष्ठपर्यायतावत् प्रतिष्ठापयेहीति ।
अथ दान् आह । आर्ये नास्ति मम तहिं श्रद्धा । नास्ति प्रसादो ति । वक्तव्यं वयं पि न प्रतीच्छामो ति । अथ दान् आह । आर्ये कारापितन् तेषां विहाराः मात्रा वा यावत् समयसम्बन्धेन वा प्रतीच्छन्त्व् आर्यमिश्रिका विहारन् ति अन्तमसतो गोमयगृहं पि पिष्ठगृहं पि भिक्षुसंघस्य दापयित्वा भिक्षुणीसंघो सप्तभूमकं पि विहारं प्रतीच्छत्य् अनापत्तिः ।
92. ता एता भिक्षुणीयो अवज्ञाय परिभवेन वा कोण्टभिक्षू ति वा । वैद्यभिक्षू ति वा । अखल्लमहल्लाप्रकृतिज्ञो ती वा कृत्वा भक्ताग्रं शयनासनाग्रं विहाराग्रं भिक्षुसंघातो न शातियति गुरुधर्मम् अतिक्रामति । एवं गौतमी भक्ताग्रं शयनासनग्रं विहाराग्रं भिक्षुणीहि भिक्षुसंघातो सातयितव्यो ।
अयं गौतमि भिक्षुणीनां चतुर्थो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद् अनतिक्रमणीयो वेलामिव महासमुद्रेण ।
गुरुधर्म 5 93. किन् ति दानि गुरुधर्मापन्नाय भिक्षुणीय अर्धमासं मानत्वञ् चरितव्यं उभयतः संघे आह्वयनं ।
सा दानि एषा भिक्षुणी गुरुधर्मान् अपन्ना भवति ताय अर्धमासं भिक्षुणीसंघे मानत्वं चरितव्यं उभयतः संघे च आह्वयनं । सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा यावद् अकुशलो ति वा कृत्वा गुरुधर्मापन्ना समाना नार्धमासं भिक्षुणीसंघे मानत्वं चरति उभयतः संघे च आह्वयनं । गुरुधर्मम् अतिक्रमति । अयं गौतमि भिक्षुणीनां पञ्चमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद् वेलामिव महासमुद्रेण ।
गुरुधर्म 6 94. किन् ति दानि अन्वार्धमासं भिक्षुणीहि भिक्षुसंघातो ओवादोपसंक्रमणं प्रत्याशंसितव्यं यदहो दानि पोषधो भवति तदहो भिक्षुणीसंघेन भिक्षुविहारं गन्तव्यं । अथ दानि सर्वसंघो न गच्छति अर्धसंघेन गन्तव्यं । अर्धसंघो न गच्छति अष्टाहि वृद्धतरिकाहि गन्तव्यं । अष्ट वृद्धतरिका न गच्छन्ति अन्तमसतो मासचारिकिणीहि पक्षचारिकिणीहि वा च्छन्दार्हणां छन्दं गृह्णीय गन्तव्यं । यदि तावद् अनुकाल्यं भवति स्तूपो तावद् वन्दितव्यो । स्तूपं वन्दित्वा यो तहिं भिक्षुर् अभिलक्षितो भवति परिज्ञातो वा तस्य छन्दो दातव्यो । वक्तव्यं वन्दाम्य् आर्यसंघं । आर्यसमग्रो भिक्षुणीसंघो समग्रस्य भिक्षुसंघस्य पादान् शिरसा वन्दति । ओवादोपसंक्रमणञ् च धर्मं याचति । पोषधञ् च प्रतीच्छति । द्वितीयम् पि तृतीयम् पि वक्तव्यं ।
95. अथ दान् आह । अहं संघस्थविरो अहं तत्रदेशको अहं भिक्षुणीओवादको ति ताभिर् अपि एते त्रयो वर्जं कृत्वा शिष्टकानां छन्दो दातव्यो छन्दं दत्वा भिक्षुणीउपाश्रयं गन्तव्यं । यं कालं भिक्षुणीसंघो उपविष्टो भवति पोषस्धकर्माय सूत्रोद्देशिकाय सूत्रं प्रगृहीतं भवति । शृणोतु मे आर्यसंघो अद्य संघस्य चातुर्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा विशुद्धिनक्षत्रं एत्तकं ऋतुस्य निर्गतं एत्तकम् अवशिष्टं ।
किं संघस्य पूर्वकृत्यं । अल्पार्थो ऽल्पकृत्यो भगवतः श्राविकासंघो शोभति अनागतानाम् आर्यमिश्रिकाणां छन्दपरिशुद्धिं आरोचेथ । नीतो छन्दहारिकाहि छन्दो ति ताहि वृद्धान्तम् आरुहित्वा सामीचिं कृत्वा वक्तव्यं । नीतो ऽस्माभिः छन्दहारिकाभिश् छन्दो इत्थन् नामेनार्येण प्रतीच्छितो ।
96. यं कालं भिक्षुसंघो उपविष्टो भवति सूत्रोद्देशकेन सूत्रं प्रतिगृहीतं भवति । शृणोतु मे भन्ते संघो अद्य संघस्य चातुर्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा विशुद्धिनक्षत्रं । एत्तकं ऋतुस्य निर्गतं एत्तकं अवशिष्टं । किं संघस्य पूर्वकृत्वा अल्पार्थो अल्पकृत्यो भगवतः श्रावकसंघो शोभति । अनागतानाम् आयुष्मन्तो भिक्षूणां छन्दपारिशुद्धिम् आरोचेथ । आरोचितञ् च प्रतिवेदेथ । को भिक्षु भिक्षुणीनां छन्दहारको तेनोत्थाय वृद्धान्तं आरुह्य वक्तव्यं । वन्दाम्य् आर्यसंघं समग्रो हि भिक्षुणीसंघो समग्रस्य पादां शिरसा वन्दति । अववादञ् च याचति । पोषधञ् च प्रतिच्छति । एवं द्वितीयम् पि तृतीयम् पि वक्तव्यं । यदि तहिं भिक्षुणीतोवादको सम्मतको भवति वक्तव्यो । ओवादाहीति ।
97. अथ दानि न कोचिद् भिक्षुणीयोवादको भवति तत्र यो द्वादशेहि अङ्गेहि समन्वागतो भवति सो सम्मन्यितव्यो । कतमेहि द्वादशेहि । तद्यथा । प्रातिमोक्षसम्वरसम्वृतो विहरति आचारगोचरसम्पन्नः । अनुमात्रेष्व् अवद्येषु भयदर्शी समादाय शिक्षितशिक्षापदेषु कायकर्मवाक्कर्मणा सम्मन्वागतः । परिशुद्धेन परिशुद्दाजीवः । बहुश्रुतश् च अभिधर्मे बहुस्रुतश् च भवत्य् अभिविनये पर्तिबलो च भवत्य् अधिशीलशिक्षायाम् विनयितुं । ण्क ।
प्रतिबलो भवत्य् अधिचित्तं शिक्षायां विनयितुं । तृ । प्रतिबलो भवत्य् अधिप्रज्ञां शिक्षायां विनयितुं । फु । अननुध्वस्तब्रह्मचर्यश् च भवति । ग्रा । यो भूयक्षान्तिजातिको भवति । ह्रा । न च भिक्षुणीनां गुरुधर्मं आपद्यिता भवति । तो कल्याणवचनश् च भवति कल्याणवाक्करणोपेतश् च भवति । पौर्यवाचा समन्वागतो विस्पष्टाय अनेलाय अर्थस्य विज्ञापनीय । विंशतिवर्षो च भवति सातिरेकविंशतिवर्षो वा ।
इमेहि द्वादशेहि अङ्गेहि समन्वागतो भिक्षुणीओवादक सम्मुतीय संमन्यितव्यो ।
98. कर्मकारकेण कर्म कर्तव्यं । शृणोतु मे भन्ते संघो अयम् इत्थन्नामो ति भिक्षुर् अङ्गोपेतो । यदि संघस्य प्राप्तकालं संघो इत्थन्नामं भिक्षुं भिक्षुणीतोवादकं संमुतीय संमन्येय ओवयिका एषा ज्ञप्तिः । शृणोतु मे भन्ते संघो अयम् इत्थन्नामो भिक्षुर् तं संघो इत्थन्नामं भिक्षुं भिक्षुणीओवादकं संमुतीय सम्मन्यति । येषाम् आयुष्मन्तानां क्षमति इत्थन्नामं भिक्षुं भिक्षुणीओवादकं संमुतीय सम्मन्यियमानं संघेन । सो तूष्णीम् अस्य । यस्य न क्षमति सो भाषतु । इयं प्रथमा कर्मवाचना एवं द्वितीय तृतीया कर्मवाचनेति । सम्मतो भन्ते संघो इत्थन्नामो भिक्षुः भिक्षुणीओवादक संमुतीय संघेन । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि ।
99. तेन दानि सम्मतेन समानेन तायो भिक्षुणीयो ओवादितव्यायो नाकाले [1] । नादेशे [2] । नानागते काले [3] । नातिक्रान्ते काले [4] । न छन्दशो [5] । न व्यग्रशो [6] । न पार्षदो [7] । न दीर्घोवादेन [8] । आगन्तुकामस्य प्रेषितव्या [9] ।
किन् ति दानि नाकालो । अकालो नाम अस्तमितो सूर्यो । अन्तर्हितो च अरुणो [1] ।
किन् ति दानि नादेशे । अदेशो नाम वेशिकासामन्ते वा द्यूतकरशालासामन्ते वा । पानागारशालासामन्ते वा । वधबन्धनागारशालासामन्ते वा अतिभूण्डे वा अतिप्राकटे वा प्रदेशे [2] ।
किन् ति दानि नानागते काले अनागतो नाम कालो प्रतिपदे द्वितीयायाम् वा [3] ।
किन् ति दानि नातिक्रान्ते काले । अतिक्रान्तो नाम कालो चतुर्दशीयाम् वा पञ्चदशीयाम् वा । अथ खु तृतीयाप्रभृति तावद् ओवदितव्या यावत् त्रयोदशीति [4] ।
किन् ति दानि न छन्दशो । ओवादकस्य भिक्षुणीय छन्दो दातव्यो । अथ खु सर्वाहि आगन्तव्यं [5] ।
किन् ति दानि न व्यग्रशो । न भिक्षुणा व्यग्रो भिक्षुणीसंघो ओवदितव्यो । अथ खु सर्वाः समग्रा त्-ओवदितव्याः [6] ।
किन् ति दानि न पार्षदो । न तावत् तव पर्षा ओवदितव्या तवाद्य पर्षाये ओवादकवारो तवाद्य पर्षाये ओवादकवारो ति । अथ खु सर्वाः समग्रा त्-ओवदितव्याः [7] ।
किन् ति दानि न दीर्घोवादेन ओवदिताः । अथ खु संक्षिप्तेन ओवदितव्याः ।
सर्वपापस्याकरणं कुशलस्योपसम्पदा । स्वचित्तपर्योदवनम् एतद् बुद्धानुशासनन् ति ॥
एष भगिनीयो ओवादो शिष्टकं परिकथा भविष्यति । यागन्तु कामा सागच्छतु । या श्रोतुकामा सा शृणोतु ।
100. किन् ति दानीं आगन्तुकामस्य प्रेषयितव्यं । यदि सो भिक्षुणीओवादको देशान्तरङ् गतो भवति ततो ये तस्य सार्धेविहारिकावा अन्तेवासिका भवन्ति ते भिक्षुनीसंघेन उत्साहयितव्याः । गच्छथ आर्यस्य पात्रचीवरं आनेथ । तेषान् दानि गच्छन्तानाम् आगच्छन्तानाञ् च पथ्य् अदनेनावैकल्यं कर्तव्यं । आगच्छन्तस्य भिक्षुणीसंघेन छत्रध्वजपताकेहि योजनं पन्थस्य प्रत्युद्गन्तव्यं । यंहि विहारे अवतराय तंहि उभयसंघस्य सप्ताहं भक्तं कर्तव्यं । अथ दानि दरिद्रो भिक्षुणीसंघो भवति भिक्षुसंघस्यैव सप्ताहं भक्तं कर्तव्यं । अन्तमसतो एकपिण्डपातेनापि प्रतिमानयितव्यो तेन दानि भिक्षुणीओवादकेन भिक्षुणीहि धीतासंज्ञा उपस्थापयितव्या । ताहि भिक्षुणीहि तस्मिन् भिक्षुणीओवादकेहि पितृसंज्ञा उपस्थापयितव्या ।
101. न क्षमति तेन भिक्षुणीओवादकेन घोटेन यथा प्रसार्य ग्रीवां तायो भिक्षुणीयो ओवादितुं । अथ खलु युगमात्रं निरीक्षन्ते न तायो ओवादितव्यायो । यदि कदाचित् तहिं भवेत् केशावर्तेन वा कृतेन । अक्षीहि वा अञ्चितेन आकोटितमष्टेहि वा चीवरेहि । श्वेतेन वा काय बन्धनेन । चित्रकुटाहि वा उपानहाहि । न क्षमति अध्युपेक्षितुं । यदि ताव तरुणिका भवति धर्षयितव्या । हे अव्यक्ते अकुशले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि यं कालं जीर्णवृद्धा महल्लिका अध्वगतवयम् अनुप्राप्ता भविष्यसि या पि तवैषा पर्षा सा पि तव दृष्ट्वा अनुकृतिम् आपद्यमाना अनयेन व्यसनम् आपद्यिष्यति । एतं तव साधु एतत् प्रतिरूपं यं त्वं भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धानां शासने योगम् आपद्येसि । अथ दानि सा वृद्धा भवति वक्तव्यं । सालोहिते इदानीं ईदृशी कीदृशी त्वम् आसि तरुणे काले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि । यं कालं मण्डलद्वारम् अनुप्राप्ता भविष्यसि यापि तव एष पर्षा सापि तव दृष्ट्वा नुकृतिम् आपद्यमाना अनया व्यसनम् आपत्स्यति एतत् तव साधु एतं प्रतिरूपं यं त्वं भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धानां शासने योगम् आपद्येसि ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
